CIVIL

सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे-18/50

निष्ठा ज्ञानस्य या परा

सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे ।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ Gita 18/50 ॥

 

सिद्धिं प्राप्तः स्वकर्मणा ईश्वरं समभ्यर्च्य तत्प्रसादजां कायेन्द्रियाणां ज्ञाननिष्ठायोग्यतालक्षणां सिद्धिं प्राप्तः — सिद्धिं प्राप्तः इति तदनुवादः उत्तरार्थः । किं तत् उत्तरम् , यदर्थः अनुवादः इति, उच्यते — यथा येन प्रकारेण ज्ञाननिष्ठारूपेण ब्रह्म परमात्मानम् आप्नोति, तथा तं प्रकारं ज्ञाननिष्ठाप्राप्तिक्रमं मे मम वचनात् निबोध त्वं निश्चयेन अवधारय इत्येतत् । किं विस्तरेण ? न इति आह — समासेनैव सङ्क्षेपेणैव हे कौन्तेय, यथा ब्रह्म प्राप्नोति तथा निबोधेति । अनेन या प्रतिज्ञाता ब्रह्मप्राप्तिः, ताम् इदन्तया दर्शयितुम् आह — ‘निष्ठा ज्ञानस्य या परा’ इति । निष्ठा पर्यवसानं परिसमाप्तिः इत्येतत् । कस्य ?

ब्रह्मज्ञानस्य या परा । कीदृशी सा ? यादृशम् आत्मज्ञानम् । कीदृक् तत् ? यादृशः आत्मा । कीदृशः सः ? यादृशो भगवता उक्तः, उपनिषद्वाक्यैश्च न्यायतश्च ॥

ननु विषयाकारं ज्ञानम् । न ज्ञानविषयः, नापि आकारवान् आत्मा इष्यते क्वचित् । ननु ‘आदित्यवर्णम्’ (श्वे. उ. ३ । ८) ‘भारूपः’ (छा. उ. ३ । १४ । २) ‘स्वयञ्ज्योतिः’ (बृ. उ. ४ । ३ । ९) इति आकारवत्त्वम् आत्मनः श्रूयते । न ; तमोरूपत्वप्रतिषेधार्थत्वात् तेषां वाक्यानाम् — द्रव्यगुणाद्याकारप्रतिषेधे आत्मनः तमोरूपत्वे प्राप्ते तत्प्रतिषेधार्थानि ‘आदित्यवर्णम्’ (श्वे. उ. ३ । ८) इत्यादीनि वाक्यानि । ‘अरूपम्’ (क. उ. १ । ३ । १५) इति च विशेषतः रूपप्रतिषेधात् । अविषयत्वाच्च — ‘न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्’ (श्वे. उ. ४ । २०) ‘अशब्दमस्पर्शम्’ (क. उ. १ । ३ । १५) इत्यादेः । तस्मात् आत्माकारं ज्ञानम् इति अनुपपन्नम् ॥

कथं तर्हि आत्मनः ज्ञानम् ? सर्वं हि यद्विषयं यत् ज्ञानम् , तत् तदाकारं भवति । निराकारश्च आत्मा इत्युक्तम् । ज्ञानात्मनोश्च उभयोः निराकारत्वे कथं तद्भावनानिष्ठा इति ? न ; अत्यन्तनिर्मलत्वातिस्वच्छत्वातिसूक्ष्मत्वोपपत्तेः आत्मनः । बुद्धेश्च आत्मवत् नैर्मल्याद्युपपत्तेः आत्मचैतन्याकाराभासत्वोपपत्तिः । बुद्ध्याभासं मनः, तदाभासानि इन्द्रियाणि, इन्द्रियाभासश्च देहः । अतः लौकिकैः देहमात्रे एव आत्मदृष्टिः क्रियते ॥
देहचैतन्यवादिनश्च लोकायतिकाः ‘चैतन्यविशिष्टः कायः पुरुषः’ इत्याहुः । तथा अन्ये इन्द्रियचैतन्यवादिनः, अन्ये मनश्चैतन्यवादिनः, अन्ये बुद्धिचैतन्यवादिनः । ततोऽपि आन्तरम् अव्यक्तम् अव्याकृताख्यम् अविद्यावस्थम् आत्मत्वेन प्रतिपन्नाः केचित् ।

सर्वत्र बुद्ध्यादिदेहान्ते आत्मचैतन्याभासता आत्मभ्रान्तिकारणम् इत्यतश्च आत्मविषयं ज्ञानं न विधातव्यम् । किं तर्हि ? नामरूपाद्यनात्माध्यारोपणनिवृत्तिरेव कार्या, आत्मचैतन्यविज्ञानं कार्यम् , अविद्याध्यारोपितसर्वपदार्थाकारैः अविशिष्टतया दृश्यमानत्वात् इति । अत एव हि विज्ञानवादिनो बौद्धाः विज्ञानव्यतिरेकेण वस्त्वेव नास्तीति प्रतिपन्नाः, प्रमाणान्तरनिरपेक्षतां च स्वसंविदितत्वाभ्युपगमेन । तस्मात् अविद्याध्यारोपितनिराकरणमात्रं ब्रह्मणि कर्तव्यम् , न तु ब्रह्मविज्ञाने यत्नः, अत्यन्तप्रसिद्धत्वात् । अविद्याकल्पितनामरूपविशेषाकारापहृतबुद्धीनाम् अत्यन्तप्रसिद्धं सुविज्ञेयम् आसन्नतरम् आत्मभूतमपि, अप्रसिद्धं दुर्विज्ञेयम् अतिदूरम् अन्यदिव च प्रतिभाति अविवेकिनाम् । बाह्याकारनिवृत्तबुद्धीनां तु लब्धगुर्वात्मप्रसादानां न अतः परं सुखं सुप्रसिद्धं सुविज्ञेयं स्वासन्नतरम् अस्ति । तथा चोक्तम् — ‘प्रत्यक्षावगमं धर्म्यम्’ (भ. गी. ९ । २) इत्यादि ॥

केचित्तु पण्डितंमन्याः ‘निराकारत्वात् आत्मवस्तु न उपैति बुद्धिः । अतः दुःसाध्या सम्यग्ज्ञाननिष्ठा’ इत्याहुः। सत्यम् ; एवं गुरुसम्प्रदायरहितानाम् अश्रुतवेदान्तानाम् अत्यन्तबहिर्विषयासक्तबुद्धीनां सम्यक्प्रमाणेषु अकृतश्रमाणाम् । तद्विपरीतानां तु लौकिकग्राह्यग्राहकद्वैतवस्तुनि सद्बुद्धिः नितरां दुःसम्पादा, आत्मचैतन्यव्यतिरेकेण वस्त्वन्तरस्य अनुपलब्धेः, यथा च ‘एतत् एवमेव, न अन्यथा’ इति अवोचाम ; उक्तं च भगवता ‘यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः’ (भ. गी. २ । ६९) इति । तस्मात् बाह्याकारभेदबुद्धिनिवृत्तिरेव आत्मस्वरूपावलम्बनकारणम् । न हि आत्मा नाम कस्यचित् कदाचित् अप्रसिद्धः प्राप्यः हेयः उपादेयो वा ; अप्रसिद्धे हि तस्मिन् आत्मनि स्वार्थाः सर्वाः प्रवृत्तयः व्यर्थाः प्रसज्येरन् । न च देहाद्यचेतनार्थत्वं शक्यं कल्पयितुम् । न च सुखार्थं सुखम् , दुःखार्थं दुःखम् । आत्मावगत्यवसानार्थत्वाच्च सर्वव्यवहारस्य । तस्मात् यथा स्वदेहस्य परिच्छेदाय न प्रमाणान्तरापेक्षा, ततोऽपि आत्मनः अन्तरतमत्वात् तदवगतिं प्रति न प्रमाणान्तरापेक्षा ; इति आत्मज्ञाननिष्ठा विवेकिनां सुप्रसिद्धा इति सिद्धम् ॥

येषामपि निराकारं ज्ञानम् अप्रत्यक्षम् , तेषामपि ज्ञानवशेनैव ज्ञेयावगतिरिति ज्ञानम् अत्यन्तप्रसिद्धं सुखादिवदेव इति अभ्युपगन्तव्यम् । जिज्ञासानुपपत्तेश्च

— अप्रसिद्धं चेत् ज्ञानम् , ज्ञेयवत् जिज्ञास्येत । यथा ज्ञेयं घटादिलक्षणं ज्ञानेन ज्ञाता व्याप्तुम् इच्छति, तथा ज्ञानमपि ज्ञानान्तरेण ज्ञातव्यम् आप्तुम् इच्छेत् । न एतत् अस्ति । अतः अत्यन्तप्रसिद्धं ज्ञानम् , ज्ञातापि अत एव प्रसिद्धः इति । तस्मात् ज्ञाने यत्नो न कर्तव्यः, किं तु अनात्मनि आत्मबुद्धिनिवृत्तावेव । तस्मात् ज्ञाननिष्ठा सुसम्पाद्या ॥ ५० ॥


Gita Sankar Bhasyam

Categories: CIVIL

Tagged as: ,