अलक्ष्मीघ्नं

Print Friendly, PDF & Email

ALakshmiGhnam–ऋग् १०.१५५.१

सूक्तम्  अश्रीनाशकरम्

अरा॑यि॒ काणे॒ विक॑टे गि॒रिं ग॑च्छ सदान्वे ।
शि॒रिम्बि॑ठस्य॒ सत्व॑भि॒स्तेभि॑ष्ट्वा चातयामसि ॥

अरा॑यि । काणे॑ । विऽक॑टे । गि॒रिम् । ग॒च्छ॒ । स॒दा॒न्वे॒ ।
शि॒रिम्बि॑ठस्य । सत्व॑ऽभिः । तेभिः॑ । त्वा॒ । चा॒त॒या॒म॒सि॒ ॥

सायणभाष्यम्

अरायीति प्र्ञ्चर्चं चतुर्थं सूक्तं भरद्वाजपुत्रस्य शिरिम्बिठस्यार्षमानुष्टुभम्। जपहोमादिभिरिदं सूक्तमश्रीनाशकरम्। तत्राद्योपांत्ययोस्तादृशोऽर्थ एव देवता। द्वितीयातृतीये ब्राह्मणस्पत्ये। पञ्चमी वैश्वदेवी। अनुक्रम्यते हि। अरायि श्रिम्बिठो भारद्वाजोऽलक्ष्मीघ्नम् द्वितीयातृतीये ब्राह्मणस्पत्ये अन्त्या वैश्वदेवीति। गतो विनियोगः॥

हे अराय्यदायिनि दानविरोधिनि हे काणे कुत्सितशब्दकारिणि कुत्सितदर्शने वा हे विकटे विकृतगमने विकृताङ्गे वा हे सदान्वे सदानोनुवे सर्वदा क्रोशकारिणि दुर्भिक्षादिदेवते गिरिं पर्वतं निर्जनदेशं गच्छ। अस्मान्मा बाधिष्ठाः। शिरिम्बिथस्य। भिठमन्तरिक्षम्। शीर्यते बिठेऽन्तरिक्ष इति शिरिम्बिठो मेघः। तस्य स्वथिरन्तर्वर्तमानैरुदकैस्तॆभिस्तैस्त्वा त्वाम् चातयामसि। चातयामः। विनाशयामः। यद्वा। शिरिम्बठस्यैतत्संज्ञकस्य भरद्वाजपुत्रस्य तेभिस्तैरनुष्ठितैः सत्वभिः कर्मभिर्हे अलक्ष्मि त्वां विनाशयामः। इतस्त्वमेव शीघ्रं गिरिं गच्छ॥१॥


अलक्ष्मीघ्नं- सत्वभिः कर्मभिर्हे अलक्ष्मि त्वां विनाशयामः, इतस्त्वमेव शीघ्रं गिरिं गच्छ ।

Next Post

गर्भसंस्रावे प्रायश्चित्तं (Garva Sansrabe Prayaschitta)

Sat Nov 7 , 2020
Garva Sansrabe Prayaschitta ऋक् ब्रह्म॑णा॒ग्निः सं॑विदा॒नो र॑क्षो॒हा बा॑धतामि॒तःयस्ते॒ गर्भ॒ममी॑वा दु॒र्णामा॒ योनि॑मा॒शये॑ यस्ते॒ हन्ति॑ प॒तय॑न्तं निष॒त्स्नुंयस्त॑ ऊ॒रू वि॒हर॑त्यन्त॒रा दम्प॑ती॒ यस्त्वा॒ भ्राता॒ पति॑र्भू॒त्वा जा॒रोयस्त्वा॒ स्वप्ने॑न॒ तम॑सा मोहयि॒त्वा [मण्डलम् १०, सूक्तम् १६२] ब्रह्म॑णा॒ग्निः सं॑विदा॒नो र॑क्षो॒हा बा॑धतामि॒तः ।अमी॑वा॒ यस्ते॒ गर्भं॑ दु॒र्णामा॒ योनि॑मा॒शये॑ ॥ ब्रह्म॑णा । अ॒ग्निः । सा॒म्ऽवि॒दा॒नः । र॒क्षः॒ऽहा । बा॒ध॒ता॒म् । इ॒तः ।अमी॑वा । यः । ते॒ । गर्भ॑म् । दुः॒ऽनामा॑ । […]

You May Like

Recent Updates

%d bloggers like this: