Garva Sansrabe Prayaschitta
ऋक्
ब्रह्म॑णा॒ग्निः सं॑विदा॒नो र॑क्षो॒हा बा॑धतामि॒तः
यस्ते॒ गर्भ॒ममी॑वा दु॒र्णामा॒ योनि॑मा॒शये॑
यस्ते॒ हन्ति॑ प॒तय॑न्तं निष॒त्स्नुं
यस्त॑ ऊ॒रू वि॒हर॑त्यन्त॒रा दम्प॑ती॒
यस्त्वा॒ भ्राता॒ पति॑र्भू॒त्वा जा॒रो
यस्त्वा॒ स्वप्ने॑न॒ तम॑सा मोहयि॒त्वा [मण्डलम् १०, सूक्तम् १६२]
ब्रह्म॑णा॒ग्निः सं॑विदा॒नो र॑क्षो॒हा बा॑धतामि॒तः ।
अमी॑वा॒ यस्ते॒ गर्भं॑ दु॒र्णामा॒ योनि॑मा॒शये॑ ॥
ब्रह्म॑णा । अ॒ग्निः । सा॒म्ऽवि॒दा॒नः । र॒क्षः॒ऽहा । बा॒ध॒ता॒म् । इ॒तः ।
अमी॑वा । यः । ते॒ । गर्भ॑म् । दुः॒ऽनामा॑ । योनि॑म् । आ॒ऽशये॑ ॥
सायणभाष्यम्
ब्रह्मणाग्निरिति षडृचमेकादशं सूक्तमानुष्टुभम्। ब्रह्मपुत्रो रक्षोहानामर्षिः। अपप्रसवसमाधानरूपस्य गर्भरक्षणस्य प्रतिपाद्यत्वात्तद्देवताकमिदम्। अनुक्रान्तं च। ब्रह्मणा षट् ब्राह्मो रक्षोहा गर्भसंस्रावे प्रायश्चित्तमानुष्तुभं हीति। विनियोगो लिङ्गादवगन्तव्यः॥
ब्रह्मणा मन्त्रेण सह संविदान ऐकमत्यं प्राप्तो रक्षोहा रक्षसाम् हन्ताग्निरितोऽस्मात्स्थानाद्राक्षसादिकं बाधताम्। हिनस्तु। यो राक्षसोऽमीवा रोगरुपः संस्ते तव गर्भमाशये आशेते। लोपस्त आत्मनेपदेष्विति तलोपः। हन्तुं प्राप्नोति। दुर्नामार्श आख्यो रोगः। तद्रूपः सन् यश्च ते तव योनिं रेतस आधानं गर्भस्थानमाशेते तं बाधतामित्यन्वयः॥१॥
यस्ते॒ गर्भ॒ममी॑वा दु॒र्णामा॒ योनि॑मा॒शये॑ ।
अ॒ग्निष्टं ब्रह्म॑णा स॒ह निष्क्र॒व्याद॑मनीनशत् ॥
यः । ते॒ । गर्भ॑म् । अमी॑वा । दुः॒ऽनामा॑ । योनि॑म् । आ॒ऽशये॑ ।
अ॒ग्निः । तम् । ब्रह्म॑णा । स॒ह । निः । क्र॒व्य॒ऽअद॑म् । अ॒नी॒न॒श॒त् ॥
गतः पूर्वोऽर्धचः। तं क्रव्यादं मांसाशिनं राक्षसादिकं ब्रह्मणा सहितोऽग्निर्निःशेषेणानीनशत्। नाशयतु॥२॥
यस्ते॒ हन्ति॑ प॒तय॑न्तं निष॒त्स्नुं यः स॑रीसृ॒पम् ।
जा॒तं यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥
यः । ते॒ । हन्ति॑ । प॒तय॑न्तम् । नि॒ऽस॒त्स्नुम् । यः । स॒री॒सृ॒पम् ।
जा॒तम् । यः । ते॒ । जिघां॑सति । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥
हे योषित् ते तव गर्भाशये पतयन्तं पतन्तं रेतोरूपेण गच्छन्तं तदनन्तरं तत्र निषत्स्नुं निषीदन्तं च गर्भं यो राक्षसादिर्हन्ति हिनस्ति शतो मासत्रयादूर्ध्वं प्राप्तसर्वावयं सरीसृपं सर्पणशीलं च गर्भं यो हन्ति जातं दशसु मासेषूत्पन्नं ते तव शिशुं यो राक्शसादिर्जिघांसति हन्तुमिच्छति तमितः स्थानन्नाशयामसि। नाशयामः॥३॥