Rig Veda Commentary

अग्रे बृहन्नुषसामूर्ध्वो अस्थान्निर्जगन्वान्तमसो ज्योतिषागात् [Agre brisun nu]-10/1

अग्रे बृहन्नुषसामूर्ध्वो अस्थान्निर्जगन्वान्तमसो ज्योतिषागात् ।
अग्निर्भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्यप्राः ॥१॥

स जातो गर्भो असि रोदस्योरग्ने चारुर्विभृत ओषधीषु ।
चित्रः शिशुः परि तमांस्यक्तून्प्र मातृभ्यो अधि कनिक्रदद्गाः ॥२॥

विष्णुरित्था परममस्य विद्वाञ्जातो बृहन्नभि पाति तृतीयम् ।
आसा यदस्य पयो अक्रत स्वं सचेतसो अभ्यर्चन्त्यत्र ॥३॥

अत उ त्वा पितुभृतो जनित्रीरन्नावृधं प्रति चरन्त्यन्नैः ।
ता ईं प्रत्येषि पुनरन्यरूपा असि त्वं विक्षु मानुषीषु होता ॥४॥

होतारं चित्ररथमध्वरस्य यज्ञस्ययज्ञस्य केतुं रुशन्तम् ।
प्रत्यर्धिं देवस्यदेवस्य मह्ना श्रिया त्वग्निमतिथिं जनानाम् ॥५॥

स तु वस्त्राण्यध पेशनानि वसानो अग्निर्नाभा पृथिव्याः ।
अरुषो जातः पद इळायाः पुरोहितो राजन्यक्षीह देवान् ॥६॥

आ हि द्यावापृथिवी अग्न उभे सदा पुत्रो न मातरा ततन्थ ।
प्र याह्यच्छोशतो यविष्ठाथा वह सहस्येह देवान् ॥७॥

मण्डल १० सूक्तं १०.१ -त्रित आप्त्यः-दे. अग्निः-त्रिष्टुप्


सायणभाष्यम्

॥ अथ दशमं मण्डलम् ॥ दशमे मण्डले द्वादशानुवाकाः । तत्र प्रथमानुवाके षोश सूकानि ।

तत्र ‘अग्रे बृहन्’ इति सप्तर्चं प्रथमं सूक्तमाप्त्यस्य त्रितस्यार्षम् । अनादेशपरिभाषया त्रिष्टुप् । मण्डलादिपरिभाषयाग्निर्देवता।

तथा चानुक्रम्यते—- अग्रे सप्त त्रितः ‘ इति । प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ त्रैष्टुभे छन्दसीदमादीन्यष्ट सूक्तान्यष्टमस्यान्त्यास्तिस्रो वर्जयित्वा । सूत्र्यते हि—- ‘अग्ने नयाग्रे बृहन्नित्यष्टानामुत्तमोत्तमास्तिस्र उद्धरेदिति त्रैष्टुभम्’ (आश्व. श्रौ. ४. १३) इति । ‘प्रातरनुवाकन्यायेन तस्यैव समाम्नायस्य सहस्रावममोदेतोः शंसेत् ‘ (आश्व. श्रौ, ६. ५) इति च । होमार्थं प्रणीत आहवनीये प्राग्घोमादुपशान्ते ज्योतिष्मद्गुणकाग्निदेवताका काचिदिष्टिः । तत्राद्या याज्या। सूत्रितं च —– इष्टिरग्निर्ज्योतिष्मान् वरुण उदग्ने शुचयस्तवाग्रे बृहन्नुषसामूर्ध्वो अस्थात् ‘ ( आश्व. श्रौ. ३. १३) इति ।

उपकरणोत्सर्जनयोर्मण्डलादिहोमेऽप्येषा। सूत्रमुदाहृतम् ।।

अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्थान्निर्जग॒न्वान्तम॑सो॒ ज्योति॒षागा॑त् ।

अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ आ जा॒तो विश्वा॒ सद्मा॑न्यप्राः ॥१

अग्रे॑ । बृ॒हन् । उ॒षसा॑म् । ऊ॒र्ध्वः । अ॒स्था॒त् । निः॒ऽज॒ग॒न्वान् । तम॑सः । ज्योति॑षा । आ । अ॒गा॒त् ।

अ॒ग्निः । भा॒नुना॑ । रुश॑ता । सु॒ऽअङ्गः॑ । आ । जा॒तः । विश्वा॑ । सद्मा॑नि । अ॒प्राः॒ ॥१

“बृहन् महानेषोऽग्निः उषसाम् अग्रे उषसामुपर्युषःकाले “ऊर्ध्वः प्रज्वलितः सन् ज्वालारूपेण “अस्थात् तिष्ठति। ततः “तमसः। रात्रिनामैतत् । रात्रेः “निर्जगन्वान् निर्गतः ॥ गमेः क्वसाविडभावे रूपम् ॥ निगतो निष्क्रान्तवान् सोऽग्निः “ज्योतिषा स्वीयेन तेजसा लक्षितः सन् “आगात् । गार्हपत्याद्विह्रियमाण आहवनीयं प्रत्यागच्छति । अनन्तरं “स्वङ्गः शोभनज्वालावयवः “जातः कर्मार्थं समुत्पन्न एषः “अग्निः “रुशता। रोचतेर्ज्वलतिकर्मण इदं रूपम् । आरोचमानेन । यद्वा । रुशतिर्हिंसार्थः। तमसां हिंसकेन । “भानुना तेजसा विश्वा “सद्मानि सर्वाँल्लोकान् यद्वा सदनानि यज्ञगृहाणि “आ “अप्राः आपूरयति । ‘प्रा पूरणे’।’ तिङां तिङो भवन्ति’ इति तिपः सिबादेशः । अत्र वाजसनेयकम्-‘अग्रे बृहन्नुषसामूर्ध्वो अस्थादित्यग्रे ह्येष बृहन्नुषसामूर्ध्वस्तिष्ठति । निर्जगन्वान्तमसो ज्योतिषागादिति निर्जगन्वान् रात्रेस्तमसो ज्योतिषैति । अग्निर्भानुना रुशता स्वङ्ग इत्यग्निर्वा एष भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्यप्रा इतीमे वै लोका विश्वा सद्मानि तानेष जात आपूरयति’ (श. ब्रा. ६. ७. ३. १०) इति ॥

स जा॒तो गर्भो॑ असि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु ।

चि॒त्रः शिशु॒ः परि॒ तमां॑स्य॒क्तून्प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गाः ॥२

सः । जा॒तः । गर्भः॑ । अ॒सि॒ । रोद॑स्योः । अग्ने॑ । चारुः॑ । विऽभृ॑तः । ओष॑धीषु ।

चि॒त्रः । शिशुः॑ । परि॑ । तमां॑सि । अ॒क्तून् । प्र । मा॒तृऽभ्यः॑ । अधि॑ । कनि॑क्रदत् । गाः॒ ॥२

हे “अग्ने “जातः उत्पन्नः “चारुः कल्याणरूपः “ओषधीषु ओषधिविकारेश्वरणीषु “विभृतः विशेषेण मथितो यद्वा विभृतः आहवनीयाद्त्यामना विविधं ह्रियमाण ओषधीषु वर्तमानः “सः त्वं “रोदस्योः द्यावापृथियोः “गर्भोsसि गर्भो भवसि । अग्निरूप आदित्यरूपश्चेति । किंच “चित्रः चित्रवर्णः ‘काली कराली च मनोजवा’ (मु. उ. १. २. ४) इत्यादि सप्तजिह्वाभिः नानारूपः यद्वा चित्रश्चायनीयः “शिशुः ओषधीनां शिशुरग्निः “तमांसि “अक्तून् रात्रिवत् कृष्णान् शत्रूंश्च “परि भवसि । स्वतेजसाभिभवसि । स त्वं “मातृभ्यः मातृभूताभ्य ओषधीभ्यः । अधिः पञ्चम्यर्थद्योतकः । ताभ्यः कनिक्रदत् पुनःपुनः शब्दं कुर्वन् “प्र “गाः प्रगच्छसि प्रजायसे ॥

विष्णु॑रि॒त्था प॑र॒मम॑स्य वि॒द्वाञ्जा॒तो बृ॒हन्न॒भि पा॑ति तृ॒तीय॑म् ।

आ॒सा यद॑स्य॒ पयो॒ अक्र॑त॒ स्वं सचे॑तसो अ॒भ्य॑र्च॒न्त्यत्र॑ ॥३

विष्णुः॑ । इ॒त्था । प॒र॒मम् । अ॒स्य॒ । वि॒द्वान् । जा॒तः । बृ॒हन् । अ॒भि । पा॒ति॒ । तृ॒तीय॑म् ।

आ॒सा । यत् । अ॒स्य॒ । पयः॑ । अक्र॑त । स्वम् । सऽचे॑तसः । अ॒भि । अ॒र्च॒न्ति॒ । अत्र॑ ॥३

“विद्वान् जानाना जातः प्रादुर्भूतः “बृहन् महान् विष्णुः “इत्था इत्थमनेन प्रकारेण विष्णुः स्थापनशीलो ज्ञानादिगुणयुक्तोऽग्निः “अस्य इमं “तृतीयं त्रयाणां पूरकं त्रितं माम् “अभि “पाति अभिरक्षतु । ‘एकतो द्वितस्त्रित इति त्रयो बभूवुः’ (निरु. ४. ६) इति यास्केनोक्तम् । किंच “अस्य अग्नेः “स्वम् आत्मीयं पयः उदकम् “आसा आस्येन “यत् यदा “अक्रत कुर्वन्ति यजमाना याचन्ते तदानीम् “अत्र अस्मिँल्लोके स्थिताः स्तोतरः सचेतसः समानमनस्का भूत्वैनम् “अभ्यर्चन्ति अभिष्टुवन्ति ॥

अत॑ उ त्वा पितु॒भृतो॒ जनि॑त्रीरन्ना॒वृधं॒ प्रति॑ चर॒न्त्यन्नैः॑ ।

ता ईं॒ प्रत्ये॑षि॒ पुन॑र॒न्यरू॑पा॒ असि॒ त्वं वि॒क्षु मानु॑षीषु॒ होता॑ ॥४

अतः॑ । ऊं॒ इति॑ । त्वा॒ । पि॒तु॒ऽभृतः॑ । जनि॑त्रीः । अ॒न्न॒ऽवृध॑म् । प्रति॑ । च॒र॒न्ति॒ । अन्नैः॑ ।

ताः । ई॒म् । प्रति॑ । ए॒षि॒ । पुनः॑ । अ॒न्यऽरू॑पाः । असि॑ । त्वम् । वि॒क्षु । मानु॑षीषु । होता॑ ॥४

हे अग्ने “अतः । उ इत्यवधारणे । अस्मादेव कारणात् “पितुभृतः पितुनान्नेन सर्वस्य जगतो धारयित्र्यः पोषयित्र्यो वा जनित्रीः जनयित्र्य ओषधयः अन्नावृधम् अन्नस्य वर्धकं “त्वा त्वाम् “अन्नैः हेतुभिः प्रति “चरन्ति परिचरन्ति अभिगच्छन्ति । ततस्त्वम् ईम् एना: “ताः ओषधीः “प्रत्येषि प्रतिगच्छसि । पुनरपि “अन्यरूपाः जीर्णा ओषधीर्दावभूतस्त्वं गच्छसि । किंच “मानुषीषु मनुष्यजातिषु “विक्षु प्रजासु । यद्वा। विश्वग्निहोत्रादिक्रियास्वभिनिविशन्तीषु मानुषीषु मनुष्यजातिषु । “होता देवानामाह्वाता होमनिष्पादको वा “असि भवसि । मनुष्येषु स्थित इत्यर्थे ब्राह्मणं– देवो ह्येष मर्त्येषु’ (तै. सं. ६. १. ४. ६-७ ) इति ॥

आतिथ्यायां स्विष्टकृतोऽनुवाक्या होतारम्’ इत्येषा । सूत्रितं च—‘ होतारं चित्ररथमध्वरस्य प्रप्रायमग्निनिर्भरतस्य शृण्व इति संयाज्ये ‘ ( आश्व. श्रौ. ४, ५) इति ॥

होता॑रं चि॒त्रर॑थमध्व॒रस्य॑ य॒ज्ञस्य॑यज्ञस्य के॒तुं रुश॑न्तम् ।

प्रत्य॑र्धिं दे॒वस्य॑देवस्य म॒ह्ना श्रि॒या त्व१॒॑ग्निमति॑थिं॒ जना॑नाम् ॥५

होता॑रम् । चि॒त्रऽर॑थम् । अ॒ध्व॒रस्य॑ । य॒ज्ञस्य॑ऽयज्ञस्य । के॒तुम् । रुश॑न्तम् ।

प्रति॑ऽअर्धिम् । दे॒वस्य॑ऽदेवस्य । म॒ह्ना । श्रि॒या । त्वम् । अ॒ग्निम् । अति॑थिम् । जना॑नाम् ॥५

“अध्वरस्य यज्ञस्य “होतारम् एतन्नामानमृत्विजं यद्वा होतारं देवानामाह्वातारं “चित्ररथं नानारूपरथमध्वरस्य रक्षोभिरहिंसितस्य “यज्ञस्य सर्वस्य यज्ञस्य “केतुं प्रज्ञापकं पताकास्थानीयं वा “रुशन्तं श्वेतवर्णं “मह्ना स्वमहत्त्वेन “देवस्यदेवस्य सर्वेषां देवानाम् “अर्धिम् इन्द्रं “प्रति भवन्तम् । “यत्सर्वेषामधिमिन्द्रं प्रति’ इति ब्राह्मणम् । तादृशं जनानां यजमानानाम् “अतिथिम् अतिथिवत् पूज्यम् अग्निं तु क्षिप्रं श्रिया श्रियोऽर्थं वयं स्तुमः ॥

स तु वस्त्रा॒ण्यध॒ पेश॑नानि॒ वसा॑नो अ॒ग्निर्नाभा॑ पृथि॒व्याः ।

अ॒रु॒षो जा॒तः प॒द इळा॑याः पु॒रोहि॑तो राजन्यक्षी॒ह दे॒वान् ॥६

सः । तु । वस्त्रा॑णि । अध॑ । पेश॑नानि । वसा॑नः । अ॒ग्निः । नाभा॑ । पृ॒थि॒व्याः ।

अ॒रु॒षः । जा॒तः । प॒दे । इळा॑याः । पु॒रःऽहि॑तः । रा॒ज॒न् । य॒क्षि॒ । इ॒ह । दे॒वान् ॥६

हे “राजन् दीप्यमानाग्ने “वस्त्राणि आच्छादकानि तेजांसि “अध अपि च “पेशनानि तेषां तेजसां कार्यशौक्ल्यादीनि रूपाणि । यद्वा । अधानन्तरं पेशनानि । पेश इति हिरण्यनाम । हिरण्यवत् हिरण्यसदृशानि भास्वराणि तेजांसि । “वसानः अच्छादयन् पृथिव्याः “नाभा नाभौ नाभिस्थानीये “इळायाः “पदे उत्तरवेद्याम् । एतद्वा इळायास्पदं यदुत्तरवेदीनाभिः’ (ऐ. ब्रा. १. २८) इत्याम्नानात् । तस्यां “जातः समुत्पन्नः “अरुषः अरोचमानो यः अग्निः एवंविधोऽसि स त्वं “पुरोहितः पुरतो निहितः पूर्वस्यां दिशि आहवनीयायतने स्थापितः सन् इह अस्मिन् यज्ञे “देवान् इन्द्रादीन् “यक्षि यज पूजय ॥

आ हि द्यावा॑पृथि॒वी अ॑ग्न उ॒भे सदा॑ पु॒त्रो न मा॒तरा॑ त॒तन्थ॑ ।

प्र या॒ह्यच्छो॑श॒तो य॑वि॒ष्ठाथा व॑ह सहस्ये॒ह दे॒वान् ॥७

आ । हि । द्यावा॑पृथि॒वी इति॑ । अ॒ग्ने॒ । उ॒भे इति॑ । सदा॑ । पु॒त्रः । न । मा॒तरा॑ । त॒तन्थ॑ ।

प्र । या॒हि॒ । अच्छ॑ । उ॒श॒तः । य॒वि॒ष्ठ॒ । अथ॑ । आ । व॒ह॒ । स॒ह॒स्य॒ । इ॒ह । दे॒वान् ॥७

हे अग्ने त्वम् “उभे “द्यावापृथिवी द्यावापृथिव्यौ “सदा सर्वदा “आ “ततन्थ आतेनिथ । स्वतेजोभिर्विस्तारयसि खलु ॥ * बभूथा ततन्थ’ इति थलि निपातितः । तत्र दृष्टान्तः। “पुत्रो “न यथा पुत्रः “मातरा मातापितरौ क्षीणौ धनैस्तनोति तद्वत् । किंच हे “यविष्ठ युवतम स त्वम् “उशतः कामयमानान् “अच्छ अभिलक्ष्य “प्र “याहि प्रकर्षेणागच्छ । “अथ अनन्तरं हे “सहस्य सहसो बलस्य पुत्र हे अग्ने त्वम् “इह अस्मदीये यज्ञे “देवान् इन्द्रादीन् “आ “वह प्रापय ॥ ॥२९॥


ऋग्वेद भाष्यम् – Rig Veda Bhashyam

Categories: Rig Veda Commentary