Sanskrit Documents

पाणिनीय लिङ्गानुशासन वृत्तिः- Linganushasana Vritti

लिङ्गानुशासनम्

श्लो॥ येनाक्षरसमाम्नायमधिगम्य महेश्वरात्। कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः॥

श्रीहयग्रीवाय नमः॥

अथ लिङ्गानुशासनम्—-

लिङ्गं ॥ अयमधिकारो वेदितव्य आशास्त्रपरिसमाप्तेः। स्त्री ॥ इदमधिकृतं वेदितव्यम्।
यत्र स्त्रीलिङ्गादन्यलिङ्गं शिष्यते तत्र सूत्र एव लिङ्गं वक्ष्यते। ऋकारान्ता मातृदुहितृस्वसृयातृननन्दरः। ऋकारान्ता
मात्रादयः पञ्चैव शब्दाः स्त्रीलिङ्गा भवन्ति। इयं माता। मात्रूः पश्य। इयं दुहिता। स्वसा याता ननान्दा। मात्रादिग्रहणं किम्।
पिता। भ्राता। पित्रून्। भ्रात्रूनित्यत्र माभूत्। मात्रादिनियमात्तिसृचतस्रोरव्याप्तिरिति चेत् “स्त्रियामेव त्रिचतुरोस्तदादेशविधानान्न दोषः। अन्यूप्रत्ययान्तो धातुः। “अनिप्रत्ययान्त ऊप्रत्ययान्तश्च धातुः स्त्रीलिङ्गो भवति। इयं सरणिः। अवनिः। अर्तनिः। अर्हणिः। ग्रहणिः। चर्षणिः। वर्मणिः। क्षेपणिरिति। ऊप्रत्ययान्ताः। इयं चमूः। खर्जूः। सर्जूः। वधूः। जम्बूः। कन्दूः। अलाबूरित्यादि। प्रत्ययान्तग्रहणं किम्?
खलपूः। गरपूरित्यत्र माभूत्। धातुग्रहणमुत्तरार्थम्।

अशनिभरण्यरणयः पुंसि च। अशन्यादयस्त्रयःस्त्रियां पुंसि च भवन्ति।
अयमशनिरयं भरणिरय मरणिः। अन्यन्तत्वात् स्त्रीलिङ्गे प्राप्ते पुंसिचेत्युभयलिङ्गार्थोऽयमारम्भः॥ मिन्यन्तः—- ॥ मिप्रत्ययान्तो,निप्रत्ययान्तश्च धातुस्त्रीलिङ्गो भवति। इयं भूमिः। नेमिः। शेनिः। द्रोणिः। ग्लानिः। हानिः। तूर्णिः। एवमादयः।
प्रत्ययान्ताविति किम्? क्रिमिणा मुनिना जानकीजानिनेत्यत्र च माभूत्। वह्निवृष्ण्यग्नयः पुंसि। वह्न्यादयः शब्दाः पुंसि
भवन्ति। श्रोणियोन्यूर्मयः पुंसि च। मिन्यन्तत्वात् स्त्रीलिङ्गे प्राप्ते पुंसि चेत्युभयलिङ्गार्थोऽयमारम्भः॥ क्तिन्नन्तः—- । क्तिन्प्रत्ययान्तो धातुस्त्रीलिङ्गो भवति। कृतिः सृष्टिः भूतिः कीर्तिरित्यादि। क्तिन्नन्त इति किम्? वसतिर्नाम जनपद इत्यत्र
माभूत्॥ ईकारान्तश्च—- “ईकारान्तश्च स्त्रीलिङ्गो भवति। “यथा—- तन्त्री। लक्ष्मीः। —- ङ्यन्तश्च।

ङीप्रत्ययान्तः स्त्रीलिङ्गस्स्यात्। यथा—- देवी। कुरुचरी। गौरी। शार्ङ्गरवी इत्यादि। ऊङाबन्तश्च—- ऊङ्प्रत्ययान्तमाबन्तञ्च प्रातिपदिकं स्त्रीलिङ्गं भवति। यथा—- वामोरूः। पङ्गूः। आप्प्रत्ययान्तश्च बिद्या दीक्षा श्रद्धेत्यादिः। य्वन्तमेकाक्षरम्। ईकारान्तमूकारान्तं च प्रातिपदिक
मेकाक्षरं स्त्रीलिङ्गं भवति। यथा—- श्रीः। ह्रीः। भूः भ्रूः। एकाक्षरमिति किम्? पृथुश्रीः, बलभूः पुरुष इत्यत्र माभूत्॥ विंशत्यादि
रानवतेः—- । विंशत्यादयश्शब्दाः स्त्रीलिङ्गा भवन्ति आनवतेः—- नवतिमभिव्याप्य। यथा—- विंशतिः। त्रिंशत्। चत्वारिंशत्।
पञ्चाशत्। षष्टिः। सप्ततिः। अशीतिः। नवतिः॥
दुन्दुभीरक्षेषु—- । अक्षेष्वभिधीयमानेषु दुन्दुभिस्स्त्रीलिङ्गो भवति। यथा—- इयं
दुन्दुभिः। अक्षेष्विति किम्? दुन्दुभिर्नाम वाद्यविशेषो ऽसुरविशेषश्च। तेन दुन्दुभिना॥ नाभिरक्षत्रिये—- नाभिशब्दः स्त्रीलिङ्गो
भवत्यक्षत्रिये विषये। इयं नाभिः। अक्षत्रिय इति किम्? नाभिर्नाम राजा—- तत्र माभूत्॥ उभावन्यत्र पुंसि। दुन्दुभिनाभिशब्दौ
अन्यत्र पुंसि भवतः। दुन्दुभिर्नाम वाद्यविशेषोऽसुरविशेषश्च। नाभिशब्दमक्षत्रियः। प्रतिषिद्धयोः पुन्नपुंसकयोस्सन्देहे पुल्लिङ्गा
र्थोऽयमारम्भः।

तलन्तः—- तल्प्रत्ययान्तस्स्त्रीलिङ्गो भवति। प्रत्ययान्तविशेषणनिर्देशात् भावकर्मसमूहस्वार्थवाचिनां ग्रहणम्। भाववाचिन
स्तावत्—- यथा—- पुरुषस्य भावः पुरुषता, ब्राह्मणता,शुक्लता। कर्मवाचिनोऽपि ब्राह्मणस्येदं कर्म ब्राह्मणता। समूहवाचिनोऽपि—-

ग्रामाणां समूहो ग्रामता, बन्धुता। स्वार्थवाचिनोऽपि देव एव देवता॥ —- भूमिविद्युत्सरिल्लतावनिताभिधानानि॥ —- भूम्यादि
वाचकानि स्त्रीलिङ्गानि भवन्ति। भूर्वसुधा। विद्युत्सौदामनी। शतह्रदा। सरित् निम्नगा। समुद्रगा। नदी। लता वल्ली। व्रततिः।
वनिता योषित्प्रमदा वामलोचना सीमन्तिनीत्यादि॥ —- यादो नपुंसकम्—- यादश्शब्दस्य सरिद्वाचकत्वेऽपि नपुंसकता। यादः—-

यादसी—- यादांसि॥ —- भास्स्रुक्स्रग्दिगुष्णिगुपानहः—- ॥ भासादयश्शब्दाः स्त्रीलिङ्गा भवन्ति। यथा—- इयं भाः—- (भासौ—- भासः)। स्रुक्,स्रक्। दिक्। उष्णिक्। उपानत्॥ —- स्थूणोर्णे नपुंसके च—- ॥ स्थूणोर्णे स्त्रियां नपुंसके च भवतः॥ यथा—- गृहस्थूणम्। शशोर्णम्। इयं स्थूणा। इदं स्थूणम्। ऊर्णा। ऊर्णम्॥ —- गृहशशाभ्यां क्लीबे—- ॥ गृहशशपूर्वके स्थूणोर्णे यथासङ्ख्यं नपुंसके भवतः। गृहस्थूणम्। शशोर्णम्। क्लीबनियमार्थोऽयमारम्भः। —- प्रावृट्,विप्रुट्,रुट्,त्रुट्,विट्,त्विषः। प्रावृडादयश्शब्दाः स्त्रीलिङ्गा भवन्ति। प्रावृट्। विप्रुट्। रुट्। त्रुट्। विट्। त्विट्॥ —- दर्विविदिवेदिखनिशान्यश्रिवेशिकृष्योषधिकट्यङ्गुळयः—- एते स्त्रियां स्युः॥ उदाः—- इयं दर्विः। विदिः। वेदिः। खनिः। शानिः। अश्रिः। वेशिः। कृषिः। ओषधिः। कटिः। अङ्गुळिः॥ —- तिथिनाडिरुचिवीचिनाळिधूळिकेळिछविनीविरात्रयः—- ॥ —- एते शब्दाः स्त्रीलिङ्गा भवन्ति। इयं तिथिः। नाडिः। रुचिः। वीचिः। नाळीः। धूळिः। किकिः। केळिः। छविः। नीविः। रात्रिः॥ —- शष्कुलिराजिकुटिवर्तिभ्रुकुटित्रुटिवळिपङ्क्तयः—- ॥ शष्कुल्यादयश्शब्दाः स्त्रीलिङ्गा भवन्ति। —- यथा—- इयं शष्कुलिः। राजिः। कुटिः। वर्तिः। भ्रुकुटिः। त्रुटिः। वळिः। पङ्क्तिः। —- ॥ प्रतिपदापद्विपत्सम्पच्छरत्संसत्परिषद्दृषदुषस्संवित्क्षुन्मृत्स
मिधः॥ प्रतिपदादयश्शब्दाः स्त्रीलिङ्गा भवन्ति। यथा—- इयं प्रतिपत्। आपत्। विपत्। संपत्। शरत्। संसत्। परिषत्। दृषत्। उषा
प्रातरधिष्ठात्री देवता। संवित्। क्षुत्। मृत्। समित्॥ —- ॥ आशीर्भूः पूर्गीद्वारः॥ —- आशीरादयश्शब्दाः स्त्रीलिङ्गा भवन्ति। यथा—- इय
माशीः। भूः। पूः। गीः। द्वाः॥ —- अप्सुमनस्समासिकतावर्षाणां बहुत्वञ्च॥ —- ॥ अबादयश्शब्दाः स्त्रीलिङ्गा भवन्ति। एषां बहुव
चनत्वञ्च। यथा—- इमा आपः। इमास्सुमनसः। समाः। सिकताः। वर्षाः॥ —- ॥ सृक्त्वग्ज्योग्वाग्यवागूनौस्फिजः॥ —- सृगादयश्शब्दाः
स्त्रीलिङ्गा भवन्ति। यथा—- इयं सृक्। त्वक्। ज्योक्। वाक्। यवागूः। नौः। स्फिक्॥ —- ॥ त्रुटिसीमासम्बध्याः॥ —- त्रुट्यादयश्शब्दाः
स्त्रीलिङ्गा भवन्ति। यथा—- इयं त्रुटिः। सीमा। सम्बध्या। —- छुल्लिवेणिखार्यश्च—- छुल्ल्यादयश्शब्दाः स्त्रीलिङ्गा भवन्ति। यथा—-

इयं छुल्लिः। वेणी। खारी॥ —- ताराधाराज्योत्स्नादयः—- तारादयश्शब्दाः स्त्रीलिङ्गाः। यथा—- इयं तारा। धारा। ज्योत्स्ना। तमिस्रा।
इत्यादि। —- ॥ शलाका स्त्रियां नित्यम्॥ शलाकाशब्दः स्त्रीलिङ्गो भवति। यथा—- इयं शलाका। नित्यग्रहणमितरेषां क्वचिद्व्यभिचारार्थम्॥ इति श्रीपाणिनीयलिङ्गानुशासनवृत्तौ स्त्रीलिङ्गाधिकारः॥

अथ पुंलिङ्गाधिकारः—- प्रस्तूयते।

॥ पुमान्॥ पुमानित्यधिकारो वेदितव्यः। —- ॥ घञबन्तः॥ —- घञ् प्रत्ययान्तोऽप्प्रत्ययान्तश्च पुंलिङ्गो भवति। यथा—- पाकः। त्यागः।
रागः। प्रकार इत्यादि॥ अप्प्रत्ययान्तो यथा—- करः। गरः। शरः। भरः। ग्रहः। इत्यादि॥ —- घाजन्तश्च —- ॥ घाजन्तश्च धातुः पुंलिङ्गो
भवति। यथा—- विस्तरः। प्रस्तरः। आकरः। गोचरः। प्रत्ययः। विषयः। क्षयः। इत्यादि। —- ॥ भयलिङ्गभगपदानि नपुंसके॥ —- भयादयश्शब्दाः नपुंसकानि भवन्ति। यथा—- भयं। लिङ्गं। भगं। पदं। —- भगपदयोश्च घान्तत्वात् पुंलिङ्गे प्राप्ते नपुंसकार्थोऽयमारम्भः।
॥ नङन्तः॥ नङ्प्रत्ययान्तो धातुः पुंलिङ्गो भवति। यथा—- यज्ञः। यत्नः। विश्नः। प्रश्नः। —- ॥ याच्ञा स्त्रियाम्॥ नङ्प्रत्ययान्तोऽपि
याच्ञाशब्दः स्त्रीलिङ्गो भवति। यथा—- याच्ञा। —- ॥ क्यन्तो घुः॥ —- किप्रत्ययान्तो घुः पुंलिङ्गो भवति। यथा—- आधिः। सन्धिः। विधिः।
निधिः। उपधिः। परिधिरित्यादि। क्यन्त इति किम्? दानं। घु ग्रहणं किं? जज्ञिः। जीजम्। —- ॥ इषुधिस्स्त्रियां च॥ इषुधिशब्दः
स्त्रियां पुंसि च भवति। यथा—- इयमिषुधिरयमिषुधिः। क्यन्तत्वात् पुंलिङ्गे प्राप्ते उभयलिङ्गार्थोऽयमारम्भः। —- पुंसकलिङ्ग—- ॥ देवासुरात्मस्वर्गगिरिसमुद्रनखकेशदन्तस्तनभुजकण्ठखड्गशरपङ्काभिधानानि—- ॥ देवादीनामभिधानानि पुंलिङ्गानि भवन्ति। यथा—- अजरः। अमरः। अनिमिष इत्यादि। असुराः। दानवाः। दैत्या इत्यादि। आत्मा जीवः—- तदभिधानानि। आत्मा। जीवः। क्षेत्रज्ञ इत्यादि। स्वर्गः। नाकः। गिरिः। पर्वतः। भूभृत्। समुद्रः। मकरालयः। नखः। कररुहः। केशः। शिरोरुहः। दन्तः। दशनः। रदः। द्विजः। स्तनः। पयोधरः। कुचः। भुजः। दोः। कण्ठः। गळः। खड्गः। तरवारिः। असिः। शरः। मार्गणः। पत्री। पङ्कः। जम्बालः। कर्दम इत्यादि। —- ॥ त्रिविष्टपत्रिभुवने नपुंसके॥ —- एते नपुंसकलिङ्गे स्तः। यथा—- अदस्स्त्रिविष्टपम्। अदस्स्त्रिभुवनम्। स्वर्गाभिधानत्वात् पुंलिङ्गे प्राप्ते नपुंसकार्थोऽमारम्भः। —- ॥ द्यौः स्त्रियाम्॥ द्योदिवोस्तन्त्रेणोपादानम्। द्योदिव् शब्दौ स्त्रीलिङगौ भवतः। इयं द्यौः। —- ॥ इषुबाहू स्त्रियाञ्च॥ —- इषुबाहुशब्दौ स्त्रियां पुंसि च। इयमिषुरयमिषुः। इयं बाहा। अयं बाहुः। इषोश्शराभिधानत्वात् बाहोर्भुजाभिधानत्वाच्च। —-

बाणकाण्डौ

नपुंसके च। एतौ नपुंसके पुंसि च भवतः। यथा—- बाणोऽयम्। बाणमिदम्। काण्डोऽयं काण्डमिदम्। शराभिधानत्वात्। —- ॥ नान्तः॥
नकारान्तशब्दः पुंलिङ्गो भवति। राजा। तक्षा। यज्वा। अर्वा। अध्वेत्यादि। ननु चर्मवर्मादीनां नपुंसकानां पुंलिङ्गप्राप्तिरिति चेन्न। मन् द्व्यच्को कर्तरीति नपुंसकलिङ्गप्रकरणवचनाददोषः॥ क्रतुपुरुषकपोलगुल्फमेघाभिधानानि॥ —- क्रत्वादीनामभिधानानिपुंलिङ्गानिभवन्ति। क्रतुरध्वरः। पुरुषः। नरः। मनुष्यः। कपालः। गण्डः। गुल्फः। प्रपदः। मेघः। पयोधरः। नीरदः। अब्दः। —- ॥ अभ्रं नपुंसकम्॥ —- इदमभ्रम्। मेघाभिधानत्वात्। —- ॥ उकारान्तः॥ उकारान्तश्शब्दः पुंलिङ्गो भवति। यथा—- जनुः। विधुः। इक्षुः। वायुः। प्रभुः। —- ॥ धेनुरज्जुकुहुसरयुतनुकरेणुप्रियङ्गवस्स्त्रियाम्॥ धेन्वादयः स्त्रीलिङ्गा भवन्ति। इयं धेनुः।
रज्जुः। कुहुः। सरयुः। तनुः। करेणुः। प्रियङ्गुः। एषामुकारान्तत्वात्। —- ॥ समासे रज्जुः पुंसि च॥ समासे रज्जुः स्त्रियां पुंसि च
भवति। —- ॥ कर्कटकरज्ज्वा कर्कटकरज्जुनेति। —- ॥ श्मश्रुजानुवसुस्वाद्वश्रुजतुत्रपुतालूनि नपुंसके॥ श्मश्र्वादयश्शब्दाः नपुंसक
लिङ्गानि भवन्ति। इदं श्मश्रु। जानु। वसु। स्वादु। अश्रु। जतु। त्रपु। तालु। उकारान्तत्वात्॥ —- ॥ वसु चार्थवाची॥ अर्थवाची वसुशब्दो
नपुंसकलिङ्गो भवति। इदं वसु। अर्थवाचीति किम्? वसुर्नाम कश्चित्॥ मद्गुमधुसीधुसानुकमण्डलूनि नपुंसके च॥ मद्ग्वादयः
शब्दाः पुंसि नपुंसके च॥ यथा—- अयं मद्गुः। इदं मद्गु। मधुः,मधु। शीधुश्शिधु। सानुस्सानु। कमण्डलुः कमण्डलु। उकारान्तत्वात्।

लिङ्गानुशासनवृत्तौ पुंलिङ्गाधिकारे पूर्वतोऽनुवर्तते। —– ॥रुत्वन्तः॥ रुवर्णान्तस्तुवर्णान्तश्च शब्दः पुंलिङ्गो भवति। यथा—कारुः। मेरुः। जन्तुः। हेतुः।
॥दारुकशेरुजतुवस्तुमस्तूनि
नपुंसके॥–दार्वादयश्शब्दाः नपुंसकलिङ्गा भवन्ति। यथा—इदं दारु। कशेरु। जतु। वस्तु। मस्तु। रुत्वन्तत्वात्।
॥सक्तुर्नपुंसके च॥
सक्तुः,सक्तु–त्वन्तत्वात्। –
॥प्राग्रश्मेरकारान्तः॥ रश्मिदिवसाभिधानानीति वक्ष्यते। प्रागेतस्मात्सूत्रादकारान्त इत्यधिक्रियते॥
॥कोपधः॥ कोपधोऽकारान्तः पुंलिङ्गो भवति॥ स्तबकः। कल्कः। वराटकः। उल्क इत्यादि॥अकारान्त इति किं ? बालिका।
याचिका। कोपध इति किम् ? पात्रं। वस्त्रं। –
॥चुबुकशालूकप्रातिपदिकांशुकोल्मुकानि नपुंसके॥ चुबुकादयश्शब्दाः नपुंसकालिङ्गा
भवन्ति। चुबुकं। शालूकं। प्रातिपदिकं। अंशुकं। उल्मुकं। कोपधत्वात्— ॥कण्टकानीकसरकमोदकचषकमस्तकपुस्तकतटाकनिष्क
वष्कमुष्कशुल्कवर्चस्कपिनाकभण्डकपिण्डककटकतालकफलकपुलाकानि नपुंसके च॥ कण्टकादयश्शब्दाः पुंसिनपुंसके च भवन्ति। यथा–अयं कण्टकः। इदं कण्टकमित्यादि। —टोपधः—टोपधोऽकारान्तश्शब्दः पुंलिङ्गो भवति। यथा–घटः,पटः इत्यादि।
॥किरीटमकुटललाटवटविटशृङ्गाटकराटलोष्टानि नपुंसके॥–किरीटादयश्शब्दा नपुंसके भवन्ति। इदं किरीटमित्यादि। –
॥कुट
कूटकवटकवाटकपाटकर्पटपटनिकटकीटकरोटकर्कटशकटानि नपुंसके च॥ कुटादयश्शब्दाः पुंसि नपुंसके च भवन्ति। यथा— कुटः। कुटं। कूटः। कूटमित्यादि। —- ॥णोपधः॥–णोपधोऽकारान्तश्शब्दः पुंलिङ्गो भवति॥ यथा–गुणः। गणः। पणः। पाषाणः। –
॥ऋणलवणपर्णतोरणोष्णानि नपुंसके॥ ऋणादयश्शब्दाः नपुंसकलिङ्गा भवन्ति। ऋणं। लवणमित्यादि। –
॥णोत्वात्॥—- ॥कार्षापणस्वर्णसुवर्णव्रणचरणवृषणविषाणचूर्णतृणानि नपुंसके च॥–कार्षापणादयश्शब्दाः पुंसि नपुंसके च भवन्ति। यथा–
अयं कार्षापणः। इदं कार्षापणमित्यादि। –
॥थोपथः॥–थोऽथोऽकारान्ताश्शब्दाः पुंलिङ्गा भवन्ति। यथा–रथः। इत्यादि। (अनन्तरा
क्षराणि लुप्तानि——-)
॥पृष्ठ्,रिक्थोक्थानि नपुंसके॥काष्ठादीनि नपुंसके च॥स्त्रीलिङगे नपुंसके च भवन्ति। यथा–इमाः काष्ठाः
इमानि काष्ठानि। –
॥तीर्थप्रोथयूथगूढानि नपुंसके च॥तीर्थादयश्शब्दाः पुंनपुंसका भवन्ति। इदं तीर्थमयं तीर्थः इत्यादि। थोपधत्वात्।
॥नोपथः॥नोपथोऽकारान्तश्शब्दः पुंलिङ्गो भवति। –
॥इनःफेनश्शकुनः॥—–जघनाजिनतुहिनकाननवनवृजिनविपिनवेतनवसनशासनसोपानमिथुनश्मशानचिह्नानि नपुंसके॥ जघनादयश्शब्दाः नपुंसक
लिङ्गा भवन्ति। इदं मिथुनमित्यादि। नोपथत्वात्। –
॥ मानयानाभिधाननलिनपुलिनोद्यानशयनासनस्थानचन्दनालानसम्मान
भवनव्यसनसम्भावनवितानविमानानि नपुंसके च॥मानादयश्शब्दाः पुंसि नपुंसके च भवन्ति। अयं मानः। इदं मानमित्यादि।

॥पोपधः॥-पोपधोऽकारान्तश्शब्दः पुंलिङ्गो भवति। यूपः,दीपः,सर्पः इत्यादि। — ॥पापरूपोडुपतल्पशिल्पपुष्पशष्पसमीपान्तरी
पाणि नपुंसके॥ पापादीनि नपुंसकानि भवन्ति। इदं पापमित्यादि। — ॥शूर्पकुतपकुणपद्वीपविटपानि नपुंसके च॥शूर्पादयः पुंसि नपुंसके च भवन्ति। अयं शूर्पः। इदं शूर्पमित्यादि। — ॥भोपधः॥—भोपधोकारान्तः पुंलिङ्गो भवति। स्तम्भः। कुम्भः। इत्यादि। शलभं नपुंसके। इदं शलभं। भोपधत्वात्। –
॥जृम्भं नपुंसके च॥ अयं जृम्भः। इदं जृम्भमित्यादि। –
॥मोपधः॥-मोपधोकारान्तः पुंसि भवति। सोमः। भीमः। भीष्मः। इत्यादि।
॥रुक्मसिध्मयुग्मेध्मगुल्माध्यात्म कुङ्कुमानि नपुंसके॥ एतानि नपुंसकानि भवन्ति। इदं रुक्ममित्यादि। मोपथत्वात्। —– ॥संग्रामदाडिमकुसुमाश्रमक्षेमक्षौमहोमोद्दामानि नपुंसके च। एतानि पुंसि नपुंसके च। अयं सङ्ग्रामः। इदं सङ्ग्राममित्यादि।
मोपधत्वात्॥योपधः॥योपधोकारान्तः पुंलिङ्गो भवति। समयः। शयः। हयः। — ॥किसलयहृदयेन्द्रियान्तरीयोत्तराणि नपुंसके॥
एतानि नपुंसकलिङ्गानि भवन्ति। इदं किसलयम्। हृदयमित्यादि। –
॥गोमयकषायवलयान्वयाव्ययानि नपुंसके च। एतानि पुंसि
नपुंसके च भवन्ति। अयं गोमयः। इदं गोमयमित्यादि। — ॥रोपधः॥–रोपधोकारान्तश्शब्दः पुंलिङ्गो भवति। क्षुरः। स्वरः। कुमारः। मन्त्र इत्यादि। –
॥द्वाराग्रस्फारतक्रवक्रवप्रक्षिप्रक्षुद्रछिद्रनारतीरकृच्छ्ररन्ध्रश्रश्वित्रश्वभ्रधीरगभीरतिमिरकूरकेयूर
केदारोदरशरीरकन्दरमन्दारपञ्जराम्बरजरराजिरवैरचामरदामरपुष्करकुहरगह्वरकुळीरकुटीरचत्वरकाश्मीरनीरशिबिरतन्त्रयंत्रक्षत्रक्षेत्रमित्रकळत्रचित्रसूत्रवक्त्रनेत्रगोत्राङ्गुळित्रभलत्रास्त्रशास्त्रवस्त्रपत्रपात्रच्छत्राणि नपुंसके। एतानि नपुंसकानि भवन्ति। इदं द्वारमित्यादि। –
॥शुक्रमदेवतायाम्॥–अदेवतावाची शुक्रशब्दो नपुंसकलिङ्गो भवति। इदं शुक्रं रेतः। अदेवतायामिति किम्?
शुक्रो नाम देवता। –
॥चक्रवज्रान्धकारसारावारपारहारक्षीरतोमरागारशृङ्गाराङ्गारभृङ्गारमन्दारोशीरतिमिरशिशिराणि नपुंसके च। एतान्युभयलिङ्गानि भवन्ति। अयं चक्रः। इदं चक्रमित्यादि। –
॥षोपधः॥–षोपधोकारान्तः पुंलिङ्गो भवति। वृषः। वृक्षः। प्लक्षः।

॥शिरीषजीर्षाम्बरीषपीयूषपुरीषकिल्बिषकुल्माषाणि नपुंसके। एतानि नपुंसकानि भवन्ति। इदं शिरीषमित्यादि। —— ॥यूष
करीषमिषविषवर्षाणि नपुंसके च। एतानि पुंनपुंसकलिङ्गानि भवन्ति। यूषः। यूषमित्यादि। –
॥सोपधः। —सोपधोकारान्तश्शब्दः
पुंलिङ्गो भवति। वत्सः। कुत्सः। वायसः। महानसः इत्यादि। — ॥पनसबिसबुससाहसानि नपुंसके। एतानि नपुंसकानि स्युः। इदं
पनसमित्यादि। — ॥चमससरसनिर्यासोपवासकार्पासवासमासकासकंसमांसानि नपुंसके च। एतान्युभयलिङ्गानि भवन्ति। अयं
चमसः। इदं चमसमित्यादि। — ॥कंसं चाप्राणिनि॥अप्राणिवाची कंसशब्दः पुंसि नपुंसके च भवति। अयं कंसः। इदं कंसं। अप्राणिनीति किं? कंसो नाम कश्चिद्राजा। अकारान्त इति निवृत्तम्। — ॥रश्मिदिवसाभिधानानि॥एतानि पुंलिङ्गानि भवन्ति। रश्मिः। मयूखः। दिवसः। वासरः। घस्रः। इत्यादि। –
॥दीधितिस्स्त्रियाम्॥–अयं रश्मिवाचित्वेपि स्त्रीलिङ्गो भवति। इयं दीधितिः। –
॥दिनाहनी नपुंसके॥–इदं दिनं। इदमहः। दिवसवाचित्वात्। –
॥मानाभिधानानि॥पुंलिङ्गानि स्युः। उदा–कुडवः। प्रस्थः।
॥द्रोणाढकौ नपुंसके च॥ मानवाचकत्वेपि एते नपुंसके च भवतः। अयं द्रोणः इदं द्रोणमित्यादि॥खारीमानिके स्त्रियां॥इयं खारी। मानिका। –
॥दाराक्षतलाजशरबल्बजासूनां बहुत्वञ्च। एते पुंसि भवन्ति। बहुत्वे च इमे दाराः। इमे अक्षताः। इमे लाजाः। इमे शराः। इमे बल्बजाः। इमे अनवः। — ॥नाड्यपजनोपपदानि व्रणाङ्गपदानि॥–एतानि पुंलिङ्गानि भवन्ति। यथा–अयं नाडीव्रणः। अपाङ्गः। जनपदः। व्रणशब्दस्य पाक्षिकक्लीबत्वनिवृत्त्यर्थं अङ्गपदयोः नित्यनपुंसकयोः
पुंस्त्वविधानार्थं चायमारम्भः। —-मरुद्गरुत्तरुदृत्विजः॥ मरुदादयः पुंलिङ्गा भवन्ति। अयं मरुदित्यादि॥
॥ऋषिराशिवतिदृतिग्रन्थिक्रिमिध्वनिबलिकालिमौळिरविकपिमुनयः॥—एते पुंसि भवन्ति। अयमृषिरित्यादि। — ॥ध्वजगज
मुञ्जपुञ्जाः॥ एते पुंसि भवन्ति। अयं ध्वज इत्यादि। –
॥हस्तकुन्तान्तव्रातवातदूतधूर्तसूतचूतमुहूर्ताः॥ एते पुंसि भवन्ति।
अयं हस्त इत्यादि। –
॥षण्डमण्डकरण्डभरण्डवरण्डगण्डतुण्डमुण्डपाषण्डशिखण्डाः॥ एते पुंसि भवन्ति। अयं षण्ड इत्यादि।

॥वंशांशपुरोडाशाः। एते पुंसि भवन्ति। अयं वंश इत्यादि। पुरो दास्यते=दीयते,पुरोडाशः। कर्मणि घञ्। भवव्याख्यानप्रकरणे
पोरोडाशपुरोडाशट्ठन्निति विकारप्रकरणे व्रीहेः पुरोडाशेति निपातनाच्च दस्य डत्वम्। पुरोडाशभुजामिष्टमिति माघः। —– ॥ह्रद
कण्डकुण्डबुद्बुदशब्दाः॥एते पुंलिङ्गा भवन्ति। अयं ह्रद इत्यादि। — ॥अर्घपथिमथ्यृभुक्षिस्तम्भनितम्बपूगाः॥अर्घादयः पुंलिङ्गा
भवन्ति। अयमर्घ इत्यादि। –
॥पल्लवपल्वलकफरेफकटाहनिर्व्यूहमरमणितरङ्गतुरङ्गगन्धस्कन्धमृदङ्गसङ्गमुद्गपुङ्खाः॥एते
पुंलिङ्गा भवन्ति। अयं पल्लव इत्यादि। — ॥सारथ्यतिथिकुक्षीवस्तिपाण्यञ्जलयः॥–एते पुंलिङ्गा भवन्ति। अयं सारथिरित्यादि
। इति पाणिनीयलिङ्गानुशासनवृत्तौ पुंलिङ्गाधिकारः॥
लिङ्गानुशासनवृत्तौ ——अथ नपुंसकम्——नपुंसकलिङ्गाधिकारः——– ॥नपुंसकम्॥—एतदधिकृतं वेदितव्यम्॥ अनिर्दिष्टलिङ्गेषु सूत्रेषु। — ॥भावे ल्युडन्तः॥ भावे विहितो यो ल्युट्प्रत्ययः तदन्तश्शब्दो नपुंसके भवति। हसनं छात्रस्य। वर्तनं। वलनं। शयनं। भाव इति किम्? इध्मानि वृश्च्यन्तेऽनेनेतीध्मव्रश्चनः कुठारः।
एवंपचनोग्निः। गावो दुह्यन्तेऽस्यामिति गोदोहनी घटी। इत्यत्र माभूत्। ल्युडन्त इति किम्? गीतिः। प्रीतिः। इह माभूत्। –
॥निष्ठा च
॥–भावे विहितो ष्ठाप्रत्ययः तदन्तो नपुंसके भवति। हसितं छात्रस्य। गीतं॥ त्वष्यञौ तद्धितौ॥–भावार्धौ तद्धितौ त्वष्यञौ यौ
तदन्तौ नपुंसके भवतः। शुक्लत्वं कृष्णत्वं। कुमारत्वं। शौक्ल्यं। कार्ष्ण्यं। सौकुमार्यं। ष्यञष्षित्वसामर्थ्यात् पक्षे स्त्रीत्वं। चातुर्यं।
चातुरी। सामग्र्यं। सामग्री। औचित्यं। औचिती॥—कर्मणि च ब्राह्मणादिगुणवचनेभ्यः॥ ब्राह्मणादिभ्यो गुणवचनेभ्यश्च परौ भावे
कर्मणि च यौ तद्धितौ विहितौ त्वष्यञौ तदन्तौ नपुंसके भवतः। ब्राह्मणस्य भावः कर्म वा ब्राह्मण्यं। एवं शौर्यं॥–
॥यद्यढग्यगञण्वुञ् धाश्च भावकर्मणि॥एतदन्तानि कीबानि स्युः। स्तेनाद्यन्नलोपश्च। स्तेयं। सख्युर्यः। सख्युर्भावः सख्यं। –
॥कपिज्ञात्योर्थक्॥कापेयं। ज्ञातेयं। — ॥पत्यन्तपुरोहितादिभ्योयक्॥ आधिपत्यं। पौरोहित्यं। –
॥प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योञ्॥औष्ट्रं कौमारं। औद्गात्रं। –
॥हायनान्तयुवादिभ्योण्॥ द्वैहायनं त्रैहायनं यौवनमित्यादि। –
॥द्वन्द्वमनोज्ञादिभ्यो वुञ्॥पैतापुत्रकं। मानोज्ञकं। इत्यादि।
होत्रादिभ्यश्छः॥ अच्छावाकीयं॥–
॥अव्ययीभावः॥ अव्ययं नपुंसकं स्यात्। अपदिशं। अधिस्त्रि। इत्यादि। —- ॥द्वन्द्वैकत्वे॥ द्वन्द्वैकत्वे नपुंसकलिङ्गं भवति। पाणिपादमित्यादि। एकत्व इति किं? प्लक्षन्यग्रोधौ। परवल्लिङ्गापवादोयं॥अभाषायामेतौ
नपुंसके भवतः। हेमन्तशिशिरं। अहोरात्रं। भाषायां तु हेमन्तशिशिरौ। अहोरात्रः। — ॥अनञ्कर्मधारयः॥ एतदधिकृतं वेदितव्यं।
॥अनल्पे छाया॥ अनल्पत्वे द्योत्ये छायान्तोऽनञ्कर्मधारयस्तत्पुरुषो नपुंसको भवति। शरच्छायं। अनल्पत्वे इति किं? कुड्यछाया। — ॥राजामनुष्यपूर्वा सभा॥राजामनुष्यपूर्वस्सभाशब्दो नपुंसकलिङ्गो भवति। इनसभं। ईश्वरसभं। रक्षस्सभं। पिशाचसभं। राजशब्देन पर्यायस्यैव ग्रहणम्। तेनेह न राजसभा। चन्द्रगुप्तसभा। अमनुष्यपूर्वेति किं? देववत्तसभा। –
॥सुरासेनाच्छायाशालानिशा स्त्रियां च। सुराद्यन्तोनञ्कर्मधारयस्तत्पुरुषो नपुंसके स्त्रियां च भवति। इदं वसुसुरं। इयं वसुसुरेत्यादि। — ॥परवत्॥ अन्यस्तत्पुरुषो परवल्लिङ्गो भवति। चोरभयमित्यादि। –
॥रात्राह्नाहाः पुंसि॥ रात्र अह्न अह इत्येवमन्तास्तत्पुरुषाः पुंलिङ्गा भवन्ति। पूर्वरात्रः। पूर्वाह्णः। एकाहः। — ॥अपथपुण्याहे नपुंसके॥अपथपुण्याहशब्दौ नपुंसकलिङ्गौ भवतः। इदमपथं। इदं पुण्याहं। — ॥सङ्ख्यापूर्वारात्रिः॥सङ्ख्यापूर्वो रात्रिशब्दः नपुंसकलिङ्गो भवति। एकरात्रमित्यादि। सङ्ख्यापूर्वेति किं? सर्वरात्रः। — ॥द्विगुस्स्त्रियाञ्च॥ द्विगुस्स्त्रियां नपुंसके च भवति। पञ्चपूली। त्रिभुवनं। –
॥इसुसन्तः॥इसन्त उसन्तश्शब्दो नपुंसके भवति। हविस्सर्पिरित्यादि। वपुः धनुरित्यादि। –
॥अर्चिस्स्त्रियाञ्च॥ इसन्तत्वेप्यर्चिश्शब्दः स्त्रियां नपुं च भवति। इयमर्चिः। इदमर्चिः। –
॥छदस्स्त्रियामेव॥ च्छदि स्त्रियामेव भवति। इयं च्छदिः। छाद्यतेऽनेनेतिच्छदेश्चुरादिण्यन्तादर्चिशुचीत्यादिना इस्। इस्मन्नित्यादिना ह्रस्वः। –
॥मुखनयनलोहवनमांसरुधिरकार्मुकविवरजलहलधनान्नाभिधानानि॥मुखादीनामभिधानानि नपुंसकानि भवन्ति। मुखमास्यमित्यादि। नयनं लोचनमक्षीत्यादि। लोहं। कालं। कृष्णं। वनं। गहनं। काननं। मांसं। पिशितं। आमिषं। रुधिरं। रक्तं।
शोणितं। कार्मुकं। शरासनं। चापं। विवरं। सुषिरं। बिलं। हलं। लाङ्गलं। कृषकं। धनं। द्रविणं। वित्तं। अन्नं। अशनं। भोजनं॥
॥सीरार्धौदनाः पुंसि॥ सीरादयः पुंलिङ्गाः भवन्ति।अयं सीरः।अः।र्धः।ओदनः।पूर्वोक्तस्यापवादः।— ॥वक्त्रनेत्रारण्यगाण्डीवाः पुंसि च॥ अयं वक्त्रः।इदं वक्त्रं।नेत्रः।नेत्रं।अरण्यः।अरण्यं।गाण्डीवः।गाण्डीवं।—- ॥अटवी स्त्रियाम्॥ अयं शब्दः स्त्रीलिङ्गो भवति।इयमटवी।— ॥लोपधः॥लोपधोऽकारान्तो नपुंसकलिङ्गो भवति।कुलं।कूलं।स्थलं।— ॥तूलोपलतालकुसूलतरलकम्बलकुन्तलदेवलवृषलाः पुंसि॥ अयं तूल इत्यादि।–
॥शिलमूलमङ्गळसालकमलतलमुसलकुण्डलपललमृणाळ वालनिगळबिडालखिलशूलाः पुंसि॥एतानि पुंसि नपुंसके च भवन्ति।अयं शिलः।इदं शिलमित्यादि।–
॥शतादिस्सङ्ख्या॥शतादिसङ्ख्यावाचकाश्शब्दाः नपुंसके भवन्ति।शतं।सहस्रं। शतादिरिति किं।एकः।द्वौ।बहवः।सङ्ख्येति किम्? शतो नाम पर्वतः।–
॥शतायुतप्रयुताः पुंसि च।शतादयः पुंसि नपुंसके च भवन्ति।अयं शतः।इदं शतं।अयुतः।अयुतं।प्रयुतः।प्रयुतं।–
॥लक्षाकोटीस्त्रियां॥लक्षाकोटिशब्दौ स्त्रियांभवतः।इयं लक्षा।इयं कोटिः।–
॥शङ्कुः पुंसि॥अयं शङ्कुः।सहस्रं क्वचित्।सहस्रशब्दः क्वचित् पुंलिङ्गो भवति।अयं सहस्रः।॥मन् द्व्यच्कोकर्तरि॥मन् प्रत्ययान्तो द्व्यच्कः अकर्तरि नपुंसकलिङ्गो भवति।चर्म।वमेत्यादि।द्व्यच्क इति किम्?अणिमा।महिमा।अकर्तरीति किम्? ददातीति दानूकरोतीति कर्मा दत्तः।–
॥ब्रह्मन् शब्दः पुंसि नपुंसके च भवति।अयं ब्रह्मा।इदं ब्रह्म।–
॥नामरोमणी नपुंसके॥ नामरोमश्ब्दौ नपुंसके स्तः।इदं नाम। इदं रोम।मन्द्व्यच्को कर्तरीत्यस्यैवायं प्रपञ्चः।॥असन्तो द्व्यच्कः॥असन्तश्च द्व्यच्कश्शब्दो नपुंसके भवति॥मनः।यशः।तपः।द्व्यच्कः किं? चन्द्रमाः।-
॥अप्सरास्त्रियां॥एता अप्सरसः।प्रायेणायं बहुवचनान्तः।–त्रान्तश्च।पत्रं।छत्रं।–
॥यात्रा मात्रा भस्त्रा दंष्ट्रावरत्रा स्त्रियामेव॥ यात्रादयः स्त्रीलिङ्गा भवन्ति।इयं यात्रेत्यादि।त्रान्तत्वात्।–
॥भृत्रामित्रच्छात्रपुत्रमन्त्रवृत्रमैत्रमेढ्राः पुंसि॥एते पुंसि स्युः।अयं भृत्रः।न मित्रं अमित्र इत्यादि।–
॥पत्रपात्रपवित्रसूत्रच्छत्राः पुंसि च।पत्रादयः पुन्नपुंसकलिङ्गा भवन्ति।अयं पत्रः।इदं पत्रमित्यादि।–
॥बलकुसुमशुल्बपत्तनरणाभिधानानि॥एषामभिधानानि नपुंसकलिङ्गानि भवन्ति।बलं वीर्यमित्यादि।–
॥पद्मकमलोत्पलानि पुंसि च॥पद्मादयश्शब्दाः कुसुमवाचकत्वेपि द्विलिङ्गा भवन्ति।अयं पद्मः।इदं पद्ममित्यादि।–
॥आहवसङ्ग्रामौ पुंसि॥एतौ रणाभिधानत्वेपि पुंसि भवतः।आहवस्सङ्ग्रामः।आजिस्स्त्रियामेव।इयमाजिः।–
॥फलजातिः॥फलजातिवाचकश्शब्दो नपुंसकलिङ्गो भवति।आमलकं।आम्रं।नाळिकेरं।मातुलुङ्गं।–
॥वृक्षजातिस्स्त्रियामेव।वृक्षजातिवाचीयश्शब्दः फले वर्तते स स्त्रियामेव।हरीतकी।क्वचिदेवेदं।बदरं।कोलं।–
॥वियज्जगत्सकृत्कृषत्पृषत्च्छकृद्यकृदुदश्वितः॥वियदादयो नपुंसकलिङ्गा भवन्ति। इयं वियदित्यादि।–
॥नवनीतावतामृतानृतनिमित्तचित्तपित्तव्रतरजतवृत्तफलितानि॥एतानि नपुंसकलिङ्गानि भवन्ति।इदं नवनीत
मित्यादि।
॥श्राद्धकुलिशसीरकुण्डाण्डभाण्डाङ्गाङ्गददधिसक्थ्यक्षाम्यास्पदाकाशकिण्वबीजानि॥एतानि नपुंसकलिङ्गानि भवन्ति। इदं
श्राद्धमित्यादि॥—दैवः पुंसि च॥–अयं दैवः। इदं दैवं। — ॥धान्याज्यसस्यरूप्यपण्यवर्ण्यधिष्ण्यहव्यकव्यकाव्यसत्यासत्यमूल्य्
मद्यशिक्यकुड्यहर्म्यतूर्यसैन्यानि॥–एते नपुंसकलिङ्गा भवन्ति। इदं धान्यमित्यादि। –
॥द्वन्द्वबर्हदुःखबडिशपिञ्छकुटुम्बवरशर
बृन्दारकाणि॥एतानि नपुंसकलिङ्गानि। इदं द्वन्द्वमित्यादि। — ॥अक्षमिन्द्रिये॥इन्द्रियेऽभिधीये अक्षशब्दो नपुंसकलिङ्गो भवति। इदमक्षम्। इन्द्रिय इति किं? रथाङ्गादौ माभूत्॥ इति पाणिनीयलिङ्गानुशासनवृत्तौ नपुंसकलिङ्गाधिकारस्समाप्तः।

॥स्त्रीपुंसयोः॥एतदधिक्रियते। पुन्नपुंसकयोरित्यस्मात्प्राक्॥–
॥गोमणियष्टिमुष्टिपाटलिवस्तिशाल्मलितृटिमसिमरीचयः॥गवादयः
स्त्रियां पुंसि च स्युः। इयं गौः। अयं गौरित्यादि। — ॥मन्युसीधुकर्कन्धुकिष्कुकङ्कुरेणवः॥ एते स्त्रियां पुंसि च स्युः। इयं मन्युः। अयं मन्युरित्यादि। — ॥गुणवचनमुकारान्तं नपुंसके च॥गुणवचनमुकारान्तशब्दरूपं स्त्रियां पुंसि नपुंसके च भवति। पट्वी। पटुः। पटु। इत्यादि। –
॥अपत्यार्थे तद्धिते॥ अपत्यार्थे तद्धिते यद्रूपं तत्स्त्रीपुंसयोर्भवति। औपगवः। औपगवीत्यादि। इति स्त्रीपुंसाधिकारः॥–
॥पुन्नपुंसकयोः॥एतदधिक्रियते अविशिष्टलिङ्गमित्यतः प्राक्॥–
॥घृतभूतमुस्तक्ष्वेळितैरावतपुस्तकबुस्तलोहिताः॥
एते पुंसि नपुंसके च भवन्ति। अयं घृतः। इदं घृतमित्यादि। — ॥शृङ्गार्घनिदाघमध्यशल्यदृढाः॥एते पुन्नपुंसकलिङ्गा भवन्ति। अयं शृङ्गः। इदं शृङ्गमित्यादि। — ॥वज्रकुञ्जकुथकूर्चप्रस्थदर्पार्मार्धर्चर्धर्मदर्भपुच्छाः॥एते पुंनपुंसकयोर्भवन्ति। अयं वज्रः। इदं वज्रं। अयं कुञ्जः। इदं कुञ्जं। इत्यादि। –
॥कबन्धौषधायुधान्ताः। कबन्धादयः पुंनपुंसकयोर्भवन्ति। अयं कबन्धः। इदं कबन्धमित्यादि। — ॥
॥अविशिष्टलिङ्गम्॥एतदधिक्रियते। अव्ययं। अव्ययमविशिष्टलिङ्गं भवति। कृत्वा पुरुषः। कृत्वा स्त्री। कृत्वापत्यं। –
॥कति
युष्मदस्मदः॥कत्यादयो अविशिष्टलिङ्गा भवन्ति। कति पुरुषाः। कति स्त्रियः। कति कुलानि। यूयं पुरुषाः। यूयं स्त्रियः। यूयं कुलानि। वयं पुरुषाः। वयंं॥ स्त्रियः। वयं कुलानि। —- ॥ष्णान्ता सङ्ख्या॥षकारान्तनकारान्तास्सङ्ख्यावाचिनश्शब्दाः अविशिष्टलिङ्गा भवन्ति। षट् पुरुषाः। षट् स्त्रियः। षट् कुलानि। एवं पञ्चपुरुषाः। पञ्च स्त्रियः। पञ्च कुलानि। –

॥शिष्टापरवत्॥

शिष्टसंख्या परवद्भवति। एकः पुरुषः। एका स्त्री। एकं कुलं। –
॥गुणवचनं च। गुणवचनं शब्दरूपं परवद्भवति। शुक्लःपटः। शुक्ला पटी। शुक्लं वस्त्रं। –
॥कृत्याश्च॥कृत्यप्रत्ययान्ताः परवद्भवन्ति। कर्तव्योऽयं धर्मः। कर्तव्या पङ्क्तिः। कर्तव्यं तपः। — ॥ण्वुलादयः॥
परवत् स्युः। कारकः। कारिका। कारकं। क्र्ता। कर्त्री। कर्तृ। — ॥करणाधिकरणयोः ल्युट्॥करणे अधिकरणे च विहितो यो ल्युट् प्रत्ययः तदन्तश्शब्दः परवति। –
॥इध्मप्रव्रश्चनः कुठारः। इध्मप्रव्रश्चनी च स्त्री। इध्मप्रव्रश्चनं शस्त्रं। गोदोहनो घटः। गोदोहनी
घटी। गोदोहनं भाण्डमित्यादि। —सर्वादीनि सर्वनामानि॥—परवद्भवन्ति। सर्वे पुरुषाः। सर्वाः स्त्रियः। सर्वाणि कुलानीत्यादि।

इति पाणिनीयलिङ्गानुशासनवृत्तिः समाप्ता


Categories: Sanskrit Documents

Tagged as: