Sanskrit Documents

श्रीमत्ताताचार्यकृत समासशिखामणिः- Samasa Sikhamani

समासशिखामणिः

अथ श्रीमत्ताताचार्यकृत समासशिखामणिः प्रारभ्यते

१.वक्ष्ये तत्पुरुषं कर्म-धारयं बालबुद्धये। बहुव्रीहिं द्विगुं द्वन्द्वमव्ययीभावमेव च॥
२.समासाष्षट्सु सङ्क्षिप्ता अष्टाविंशतिधा पुनः। तत्राष्टधा तत्पुरुष स्सप्तधा कर्मधारयः॥
३.सप्तधा च बहुव्रीहि र्द्विगुर्द्वन्द्वो द्विधा द्विधा। द्विविधश्चाव्ययीभाव इत्यष्टाविंशतिः क्रमात्॥
४.तत्र तत्पुरुषस्याष्टौ प्रकारान् प्रब्रवीम्यहम्। प्रथमाद्यास्तत्पुरुषा स्सप्तधा स्युर्नञष्टमः॥
५.एतेषां विग्रहं वक्ष्ये समासानां यथाक्रमम्। विभज्य् गृह्यते यस्स विग्रहः परिकीर्तितः॥
६.अनेकशब्दसन्धिस्तु समासः कथ्यते यथा। अर्धं गुडस्यार्धगुडोऽब्धिङ्गताब्धिगता नदी॥
७.वाचा श्लक्ष्णस्तु वाक्श्लक्ष्णो दिग्बलिस्तु दिशे बलिः। सिंहाद्भयं सिंहभयं भूपतिस्तु भुवः पतिः॥
८.विष्णौ भक्तिर्विष्णुभक्तिः। नाश्वोऽनश्वो नगौरगौः। प्रकारान्तस्सप्त वै कर्मधारयस्य ब्रवीम्यहम्॥
९.विशेषणपूर्वपदो विशेष्यपूर्वपदो विशेषणोभयपद उपमान पूर्वपद उपमानोत्तरपद स्सम्भावनापूर्वपदोऽवधारणापूर्वपदश्चेति कृष्णश्चासौ कम्बळश्च कृष्णकम्बळ उत्तमः। द्विजश्चासौ कुञ्जरश्च द्विजकुञ्जर आगतः॥
१०.मधुरं च तदाम्लं च मधुराम्लं च जाम्बवं। मुक्तेव धवळा मुक्ताधवळा दिवितारका॥
११.आस्यमब्जमिवास्याब्जं। गोभ्रमो गौरिति भ्रमः। विद्यैव भूषणं विद्या भूषणं कर्मधारयः॥
१२.बहुव्रीहेः प्रकारांस्तु सप्त तान् कथयाम्यहम्। द्विपदो बहुपदस्सहपूर्वपदस्सङ्ख्योत्तरपद स्सङ्ख्योभयपदो व्यतिहारलक्षणो दिगन्तराळलक्षणश्चेति। द्वितीयादिविभक्त्यर्थ्र् भवेदन्यपदार्थके।
१३.बहुव्रीहिर्न प्रथमाविभक्त्यर्थे इति स्थितिः। आश्रिता बाह्मणा यं स आश्रितब्राह्मणः प्रभुः॥
१४.निर्जिता रिपवो येन स निर्जितरिपुर्नृपः। आनीता पशवो यस्मै स आनीतपशुः क्रतुः॥
१५.विगतं कल्मषं यस्मात्सोयं विगतकल्मषः। तुषाराश्छवयो यस्य स तुषारच्छविश्शशी।
१६. बहवो भ्रमरा यस्मिन् स बहुभ्रमरस्तरुः। नविद्यते गदो यस्य सोऽगदःपथ्यभोजनः।
१७.द्विपदः कथितश्चैवं वक्ष्ये बहुपदं क्रमात्। प्राप्तश्चित्रपशु र्यां सा प्राप्तचित्रपशु र्नदी ॥
१८.स्तुतोऽनघो हरिर्येन स्तुतानघहरिः कविः। दत्तं पूर्णं पयो यस्मै दत्तपूर्णपयश्शिशुः॥
१९.वीतं सर्वं बलं यस्मात् वीतसर्वबलो हि सः। दक्षाः प्राज्ञास्सुता यस्य दक्षप्राज्ञसुतो महान्॥
२०.फुल्ला उच्चा द्रुमा यस्मिन् तत्फुल्लोच्चद्रुमं वनम्।
२०. द्वितीयचरणं यथा——-अविद्यमाना शुद्धा धीर्यस्य सोऽशुद्धधीर्जडः॥
२१.बहुव्रीहिर्बहुपदः क्रमेणैवं प्रदर्शितः। सहपूर्वपदादींस्तु बहुव्रीहीन्प्रदर्शये॥
२२.द्रविणैस्सह वर्तन्त इति सद्रविणा विशः। दशानां तु समीपे ये नरा उपदशा इमे॥
२३.पञ्चषाः पञ्च वा षड्वा ब्राह्मणाः निकटे स्थिताः। युद्धं केशेषु केशेषु गृहीत्वेदं प्रवर्तते॥
२४.केशाकेशि तयोर्युद्धं किरातार्जुनयोरभूत्। दण्डैर्दण्डैः प्रहृत्येदं गाढं युद्धं प्रवर्तते॥
२५.दण्डादण्डि तयोर्युद्धं भीमकौरवयोरभूत्। पूर्वस्याश्चोत्तरस्याश्च दिशोर्यच्चान्तराळकम्॥
२६.सा दिक्पूर्वोत्तरा ज्ञेया बहुव्रीहिरुदाहृतः। सङ्ख्यापूर्वो दिगुस्तस्य प्रकारौ द्वौ ब्रवीम्यहम्॥
२७.एकस्य त्वेकवचन मन्यस्य बहुवाग्भवेत्। तिस्रस्समाहृतास्सन्ध्या स्त्रिसन्ध्यं त्रिपुरं यथा॥
२८.त्रयो लोकास्स्त्रिलोकी च सप्तर्षय इति क्रमात्। चार्थे द्वन्द्वो भवेच्चार्थाश्चत्वारस्स्युस्समुच्चयः॥
२९.अन्वाचयस्समाहारः इतरेतरयोगकः। एष्वाद्यौ न समासार्हौ समासार्हौ परौ यथा॥
३०.रामो गतो लक्ष्मणश्च गच्छत्विति समुच्चयः। सूपमानय सर्पिश्चानयेत्यन्वाचयो यथा॥
३१.समाहारः क्वचित्तत्र स्यादेकवचनं यथा। हस्ती चाश्वश्च हस्त्यश्वं शङ्खदुन्दुभिमर्दळम्॥
३२.शङ्खश्च दुन्दुभिश्चैव मर्दळश्चेति विग्रहः। वासुदेवश्चार्जुनश्च वासुदेवार्जुनौ गती॥
३३.द्विधा प्रोक्तोव्ययीभावोऽव्ययपूर्वपदस्तथा। नामपूर्वपदश्चापि सर्वोव्ययसंज्ञकः॥
३४.उपकुम्भन्तु कुम्भस्य समीपेऽव्ययपूर्वकः॥ (द्वितीयचरणं नास्ति)
३५.रिपुप्रति रिपोर्मात्रा स्यादेवं नामपूर्वकः। लुक्समासोऽलुक्समास इति तौ प्रब्रवीम्यहम्। खे गच्छति तु यः प्राणी स खगो लुक्प्रकीर्तितः।
३६.वने चरति यः प्राणी सततं स वनेचरः। पङ्के रोहति यत्पुष्पं तत्पङ्केरुहमित्यलुक्॥
३७.शाकप्रियः पार्थिवो यस्स चायं शाकपार्थिवः। छायाप्रधानास्तरवो ये च्छायातरवो वने॥
३८.एवं सर्वसमासाश्च सङ्क्षेपेण प्रकाशिताः। प्रीयतामनया कृत्या श्रीनिवासो जगत्पतिः॥
३९.नवीनदुर्गतातेन श्रीशैलान्वयजन्मना। कृतो बालविबोधाय स्यात्समासशिखामणिः॥

इति श्री समासशिखामणिस्समाप्ता


Categories: Sanskrit Documents

Tagged as: