ब्रह्मसूत्रम् – अधिकरणानि
Brahma Sutram Chapters
Brahma Sutram [ब्रह्मसूत्र – बादरायण]- List of all Sutram
Introduction
युष्मदस्मत्प्रत्ययगोचरयोर्विषयविषयिणोस्तमःप्रकाशवद्विरुद्धस्वभावयोरितरेतरभावानुपपत्तौ सिद्धायाम् , तद्धर्माणामपि सुतरामितरेतरभावानुपपत्तिः — इत्यतः अस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगोचरस्य विषयस्य तद्धर्माणां चाध्यासः तद्विपर्ययेण विषयिणस्तद्धर्माणां च विषयेऽध्यासो मिथ्येति भवितुं युक्तम् । तथाप्यन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्येतरेतराविवेकेन अत्यन्तविविक्तयोर्धर्मधर्मिणोः मिथ्याज्ञाननिमित्तः सत्यानृते मिथुनीकृत्य ‘अहमिदम्’ ‘ममेदम्’ इति नैसर्गिकोऽयं लोकव्यवहारः ॥
प्रथमे पादे ‘जन्माद्यस्य यतः’ इत्याकाशादेः समस्तस्य जगतो जन्मादिकारणं ब्रह्मेत्युक्तम् । तस्य समस्तजगत्कारणस्य ब्रह्मणो व्यापित्वं नित्यत्वं सर्वज्ञत्वं सर्वशक्तित्वं सर्वात्मत्वमित्येवंजातीयका धर्मा उक्ता एव भवन्ति । अर्थान्तरप्रसिद्धानां च केषाञ्चिच्छब्दानां ब्रह्मविषयत्वहेतुप्रतिपादनेन कानिचिद्वाक्यानि स्पष्टब्रह्मलिङ्गानि सन्दिह्यमानानि ब्रह्मपरतया निर्णीतानि । पुनरप्यन्यानि वाक्यान्यस्पष्टब्रह्मलिङ्गानि सन्दिह्यन्ते — किं परं ब्रह्म प्रतिपादयन्ति, आहोस्विदर्थान्तरं किञ्चिदिति । तन्निर्णयाय द्वितीयतृतीयौ पादावारभ्येते…
ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमुक्तम् — ‘जन्माद्यस्य यतः’ (ब्र. सू. १ । १ । २) इति । तल्लक्षणं प्रधानस्यापि समानमित्याशङ्क्य तदशब्दत्वेन निराकृतम् — ‘ईक्षतेर्नाशब्दम्’ (ब्र. सू. १ । १ । ५) इति । गतिसामान्यं च वेदान्तवाक्यानां ब्रह्मकारणवादं प्रति विद्यते, न प्रधानकारणवादं प्रतीति प्रपञ्चितं गतेन ग्रन्थेन । इदं त्विदानीमवशिष्टमाशङ्क्यते — यदुक्तं प्रधानस्याशब्दत्वम् , तदसिद्धम् , कासुचिच्छाखासु प्रधानसमर्पणाभासानां शब्दानां श्रूयमाणत्वात् ; अतः प्रधानस्य कारणत्वं वेदसिद्धमेव महद्भिः परमर्षिभिः कपिलप्रभृतिभिः परिगृहीतमिति प्रसज्यते ; तद्यावत्तेषां शब्दानामन्यपरत्वं न प्रतिपाद्यते, तावत्सर्वज्ञं ब्रह्म जगतः कारणमिति प्रतिपादितमप्याकुलीभवेत् ; अतस्तेषामन्यपरत्वं दर्शयितुं परः सन्दर्भः प्रवर्तते ॥ [श्रीमच्छङ्करभगवतः]
ब्रह्मसूत्रभाष्यम् – अधिकरणानि
- जिज्ञासाधिकरणम्
- जन्माद्यधिकरणम्
- शास्त्रयोनित्वाधिकरणम्
- समन्वयाधिकरणम्
- ईक्षत्यधिकरणम्
- आनन्दमयाधिकरणम्
- अन्तरधिकरणम्
- आकाशाधिकरणम्
- प्राणाधिकरणम्
- ज्योतिश्चरणाधिकरणम्
- प्रतर्दनाधिकरणम्
- सर्वत्रप्रसिद्ध्यधिकरणम्
- अत्त्रधिकरणम्
- गुहाप्रविष्टाधिकरणम्
- अन्तराधिकरणम्
- अन्तर्याम्यधिकरणम्
- अदृश्यत्वाधिकरणम्
- वैश्वानराधिकरणम्
- द्युभ्वाद्यधिकरणम्
- भूमाधिकरणम्
- अक्षराधिकरणम्
- ईक्षतिकर्माधिकरणम्
- दहराधिकरणम्
- अनुकृत्यधिकरणम्
- प्रमिताधिकरणम्
- देवताधिकरणम्
- अपशूद्राधिकरणम्
- कम्पनाधिकरणम्
- ज्योतिरधिकरणम्
- अर्थान्तरत्वादिव्यपदेशाधिकरणम्
- सुषुप्त्युत्क्रान्त्यधिकरणम्
- आनुमानिकाधिकरणम्
- चमसाधिकरणम्
- संख्योपसङ्ग्रहाधिकरणम्
- कारणत्वाधिकरणम्
- बालाक्यधिकरणम्
- वाक्यान्वयाधिकरणम्
- प्रकृत्यधिकरणम्
- सर्वव्याख्यानाधिकरणम्
- स्मृत्यधिकरणम्
- योगप्रत्युक्त्यधिकरणम्
- नविलक्षणत्वाधिकरणम्
- शिष्टापरिग्रहाधिकरणम्
- भोक्त्रापत्त्यधिकरणम्
- आरम्भणाधिकरणम्
- इतरव्यपदेशाधिकरणम्
- उपसंहारदर्शनाधिकरणम्
- कृत्स्नप्रसक्त्यधिकरणम्
- सर्वोपेताधिकरणम्
- प्रयोजनवत्त्वाधिकरणम्
- वैषम्यनैर्घृण्याधिकरणम्
- सर्वधर्मोपपत्त्यधिकरणम्
- रचनानुपपत्त्यधिकरणम्
- महद्दीर्घाधिकरणम्
- परमाणुजगदकारणत्वाधिकरणम्
- समुदायाधिकरणम्
- अभावाधिकरणम्
- एकस्मिन्नसम्भवाधिकरणम्
- पत्यधिकरणम्
- उत्पत्त्यसम्भवाधिकरणम्
- वियदधिकरणम्
- मातरिश्वाधिकरणम्
- असम्भवाधिकरणम्
- तेजोऽधिकरणम्
- अबधिकरणम्
- पृथिव्यधिकाराधिकरणम्
- तदभिध्यानाधिकरणम्
- विपर्ययाधिकरणम्
- अन्तराविज्ञानाधिकरणम्
- चराचरव्यपाश्रयाधिकरणम्
- आत्माधिकरणम्
- ज्ञाधिकरणम्
- उत्क्रान्तिगत्यधिकरणम्
- कर्त्रधिकरणम्
- तक्षाधिकरणम्
- परायत्ताधिकरणम्
- अंशाधिकरणम्
- प्राणोत्पत्त्यधिकरणम्
- सप्तगत्यधिकरणम्
- प्राणाणुत्वाधिकरणम्
- प्राणश्रैष्ठ्याधिकरणम्
- वायुक्रियाधिकरणम्
- श्रेष्ठाणुत्वाधिकरणम्
- ज्योतिराद्यधिकरणम्
- इन्द्रियाधिकरणम्
- संज्ञामूर्तिकॢप्त्यधिकरणम्
- तदन्तरप्रतिपत्त्यधिकरणम्
- कृतात्ययाधिकरणम्
- अनिष्टादिकार्यधिकरणम्
- साभाव्यापत्त्यधिकरणम्
- नातिचिराधिकरणम्
- अन्याधिष्ठिताधिकरणम्
- सन्ध्याधिकरणम्
- तदभावाधिकरणम्
- कर्मानुस्मृतिशब्दविध्यधिकरणम्
- मुग्धाधिकरणम्
- उभयलिङ्गाधिकरणम्
- प्रकृतैतावत्त्वाधिकरणम्
- पराधिकरणम्
- फलाधिकरणम्
- सर्ववेदान्तप्रत्ययाधिकरणम्
- उपसंहाराधिकरणम्
- अन्यथात्वाधिकरणम्
- व्याप्त्यधिकरणम्
- सर्वाभेदाधिकरणम्
- आनन्दाद्यधिकरणम्
- आध्यानाधिकरणम्
- आत्मगृहीत्यधिकरणम्
- कार्याख्यानाधिकरणम्
- समानाधिकरणम्
- सम्बन्धाधिकरणम्
- सम्भृत्यधिकरणम्
- पुरुषविद्याधिकरणम्
- वेधाद्यधिकरणम्
- हान्यधिकरणम्
- साम्परायाधिकरणम्
- गतेरर्थवत्त्वाधिकरणम्
- अनियमाधिकरणम्
- यावदधिकाराधिकरणम्
- अक्षरध्यधिकरणम्
- इयदधिकरणम्
- अन्तरत्वाधिकरणम्
- व्यतिहाराधिकरणम्
- सत्याद्यधिकरणम्
- कामाद्यधिकरणम्
- आदराधिकरणम्
- तन्निर्धारणाधिकरणम्
- प्रदानाधिकरणम्
- लिङ्गभूयस्त्वाधिकरणम्
- ऐकात्म्याधिकरणम्
- अङ्गावबद्धाधिकरणम्
- भूमज्यायस्त्वाधिकरणम्
- शब्दादिभेदाधिकरणम्
- विकल्पाधिकरणम्
- काम्याधिकरणम्
- यथाश्रयभावाधिकरणम्
- पुरुषार्थाधिकरणम्
- परामर्शाधिकरणम्
- स्तुतिमात्राधिकरणम्
- पारिप्लवाधिकरणम्
- आग्नीन्धनाद्यधिकरणम्
- सर्वापेक्षाधिकरणम्
- सर्वान्नानुमत्यधिकरणम्
- आश्रमकर्माधिकरणम्
- विधुराधिकरणम्
- तद्भूताधिकरणम्
- आधिकारिकाधिकरणम्
- बहिरधिकरणम्
- स्वाम्यधिकरणम्
- सहकार्यन्तरविध्यधिकरणम्
- अनाविष्काराधिकरणम्
- ऐहिकाधिकरणम्
- मुक्तिफलाधिकरणम्
- आवृत्त्यधिकरणम्
- आत्मत्वोपासनाधिकरणम्
- प्रतीकाधिकरणम्
- ब्रह्मदृष्ट्यधिकरणम्
- आदित्यादिमत्यधिकरणम्
- आसीनाधिकरणम्
- एकाग्रताधिकरणम्
- आप्रायणाधिकरणम्
- तदधिगमाधिकरणम्
- इतरासंश्लेषाधिकरणम्
- अनारब्धाधिकरणम्
- अग्निहोत्राद्यधिकरणम्
- विद्याज्ञानसाधनत्वाधिकरणम्
- इतरक्षपणाधिकरणम्
- वागधिकरणम्
- मनोऽधिकरणम्
- अध्यक्षाधिकरणम्
- आसृत्युपक्रमाधिकरणम्
- संसारव्यपदेशाधिकरणम्
- प्रतिषेधाधिकरणम्
- वागादिलयाधिकरणम्
- अविभागाधिकरणम्
- तदोकोऽधिकरणम्
- रश्म्यधिकरणम्
- दक्षिणायनाधिकरणम्
- अर्चिराद्यधिकरणम्
- वाय्वधिकरणम्
- तडिदधिकरणम्
- आतिवाहिकाधिकरणम्
- कार्याधिकरणम्
- अप्रतीकालम्बनाधिकरणम्
- सम्पद्याविर्भावाधिकरणम्
- अविभागेन दृष्टत्वाधिकरणम्
- ब्राह्माधिकरणम्
- सङ्कल्पाधिकरणम्
- अभावाधिकरणम्
- प्रदीपाधिकरणम्
- जगद्व्यापाराधिकरणम्