Sanskrit Documents

कपिल गीता-बोप देव-Kapil Gita

कपिल गीता-बोप देव-1100 CE

ॐ नमो भगवते वासुदेवाय 

मैत्रेय उवाच

पितृभ्यां प्रस्थिते साध्वी पतिमिङ्गितकोविदा
नित्यं पर्यचरत्प्रीत्या भवानीव भवं प्रभुम्
विश्रम्भेणात्मशौचेन गौरवेण दमेन च
शुश्रूषया सौहृदेन वाचा मधुरया च भोः
विसृज्य कामं दम्भं च द्वेषं लोभमघं मदम्
अप्रमत्तोद्यता नित्यं तेजीयांसमतोषयत्
स वै देवर्षिवर्यस्तां मानवीं समनुव्रताम्
दैवाद्गरीयसः पत्युराशासानां महाशिषः
कालेन भूयसा क्षामां कर्शितां व्रतचर्यया
प्रेमगद्गदया वाचा पीडितः कृपयाब्रवीत्

कर्दम उवाच

तुष्टोऽहमद्य तव मानवि मानदायाः
शुश्रूषया परमया परया च भक्त्या
यो देहिनामयमतीव सुहृत्स देहो
नावेक्षितः समुचितः क्षपितुं मदर्थे
ये मे स्वधर्मनिरतस्य तपःसमाधि
विद्यात्मयोगविजिता भगवत्प्रसादाः
तानेव ते मदनुसेवनयावरुद्धान्
दृष्टिं प्रपश्य वितराम्यभयानशोकान्
अन्ये पुनर्भगवतो भ्रुव उद्विजृम्भ
विभ्रंशितार्थरचनाः किमुरुक्रमस्य
सिद्धासि भुङ्क्ष्व विभवान्निजधर्मदोहान्
दिव्यान्नरैर्दुरधिगान्नृपविक्रियाभिः
एवं ब्रुवाणमबलाखिलयोगमाया
विद्याविचक्षणमवेक्ष्य गताधिरासीत्
सम्प्रश्रयप्रणयविह्वलया गिरेषद्
व्रीडावलोकविलसद्धसिताननाह

देवहूतिरुवाच

राद्धं बत द्विजवृषैतदमोघयोग
मायाधिपे त्वयि विभो तदवैमि भर्तः
यस्तेऽभ्यधायि समयः सकृदङ्गसङ्गो
भूयाद्गरीयसि गुणः प्रसवः सतीनाम्
तत्रेतिकृत्यमुपशिक्ष यथोपदेशं
येनैष मे कर्शितोऽतिरिरंसयात्मा
सिद्ध्येत ते कृतमनोभवधर्षिताया
दीनस्तदीश भवनं सदृशं विचक्ष्व

मैत्रेय उवाच

प्रियायाः प्रियमन्विच्छन्कर्दमो योगमास्थितः
विमानं कामगं क्षत्तस्तर्ह्येवाविरचीकरत्
सर्वकामदुघं दिव्यं सर्वरत्नसमन्वितम्
सर्वर्द्ध्युपचयोदर्कं मणिस्तम्भैरुपस्कृतम्
दिव्योपकरणोपेतं सर्वकालसुखावहम्
पट्टिकाभिः पताकाभिर्विचित्राभिरलङ्कृतम्
स्रग्भिर्विचित्रमाल्याभिर्मञ्जुशिञ्जत्षडङ्घ्रिभिः
दुकूलक्षौमकौशेयैर्नानावस्त्रैर्विराजितम्
उपर्युपरि विन्यस्त निलयेषु पृथक्पृथक्
क्षिप्तैः कशिपुभिः कान्तं पर्यङ्कव्यजनासनैः
तत्र तत्र विनिक्षिप्त नानाशिल्पोपशोभितम्
महामरकतस्थल्या जुष्टं विद्रुमवेदिभिः
द्वाःसु विद्रुमदेहल्या भातं वज्रकपाटवत्
शिखरेष्विन्द्रनीलेषु हेमकुम्भैरधिश्रितम्
चक्षुष्मत्पद्मरागाग्र्यैर्वज्रभित्तिषु निर्मितैः
जुष्टं विचित्रवैतानैर्महार्हैर्हेमतोरणैः
हंसपारावतव्रातैस्तत्र तत्र निकूजितम्
कृत्रिमान्मन्यमानैः स्वानधिरुह्याधिरुह्य च
विहारस्थानविश्राम संवेशप्राङ्गणाजिरैः
यथोपजोषं रचितैर्विस्मापनमिवात्मनः
ईदृग्गृहं तत्पश्यन्तीं नातिप्रीतेन चेतसा
सर्वभूताशयाभिज्ञः प्रावोचत्कर्दमः स्वयम्
निमज्ज्यास्मिन्ह्रदे भीरु विमानमिदमारुह
इदं शुक्लकृतं तीर्थमाशिषां यापकं नृणाम्
सा तद्भर्तुः समादाय वचः कुवलयेक्षणा
सरजं बिभ्रती वासो वेणीभूतांश्च मूर्धजान्
अङ्गं च मलपङ्केन सञ्छन्नं शबलस्तनम्
आविवेश सरस्वत्याः सरः शिवजलाशयम्
सान्तः सरसि वेश्मस्थाः शतानि दश कन्यकाः
सर्वाः किशोरवयसो ददर्शोत्पलगन्धयः
तां दृष्ट्वा सहसोत्थाय प्रोचुः प्राञ्जलयः स्त्रियः
वयं कर्मकरीस्तुभ्यं शाधि नः करवाम किम्
स्नानेन तां महार्हेण स्नापयित्वा मनस्विनीम्
दुकूले निर्मले नूत्ने ददुरस्यै च मानदाः
भूषणानि परार्ध्यानि वरीयांसि द्युमन्ति च
अन्नं सर्वगुणोपेतं पानं चैवामृतासवम्
अथादर्शे स्वमात्मानं स्रग्विणं विरजाम्बरम्
विरजं कृतस्वस्त्ययनं कन्याभिर्बहुमानितम्
स्नातं कृतशिरःस्नानं सर्वाभरणभूषितम्
निष्कग्रीवं वलयिनं कूजत्काञ्चननूपुरम्
श्रोण्योरध्यस्तया काञ्च्या काञ्चन्या बहुरत्नया
हारेण च महार्हेण रुचकेन च भूषितम्
सुदता सुभ्रुवा श्लक्ष्ण स्निग्धापाङ्गेन चक्षुषा
पद्मकोशस्पृधा नीलैरलकैश्च लसन्मुखम्
यदा सस्मार ऋषभमृषीणां दयितं पतिम्
तत्र चास्ते सह स्त्रीभिर्यत्रास्ते स प्रजापतिः
भर्तुः पुरस्तादात्मानं स्त्रीसहस्रवृतं तदा
निशाम्य तद्योगगतिं संशयं प्रत्यपद्यत
स तां कृतमलस्नानां विभ्राजन्तीमपूर्ववत्
आत्मनो बिभ्रतीं रूपं संवीतरुचिरस्तनीम्
विद्याधरीसहस्रेण सेव्यमानां सुवाससम्
जातभावो विमानं तदारोहयदमित्रहन्
तस्मिन्नलुप्तमहिमा प्रिययानुरक्तो
विद्याधरीभिरुपचीर्णवपुर्विमाने
बभ्राज उत्कचकुमुद्गणवानपीच्यस्
ताराभिरावृत इवोडुपतिर्नभःस्थः
तेनाष्टलोकपविहारकुलाचलेन्द्र
द्रोणीष्वनङ्गसखमारुतसौभगासु
सिद्धैर्नुतो द्युधुनिपातशिवस्वनासु
रेमे चिरं धनदवल्ललनावरूथी
वैश्रम्भके सुरसने नन्दने पुष्पभद्रके
मानसे चैत्ररथ्ये च स रेमे रामया रतः
भ्राजिष्णुना विमानेन कामगेन महीयसा
वैमानिकानत्यशेत चरल्लोकान्यथानिलः
किं दुरापादनं तेषां पुंसामुद्दामचेतसाम्
यैराश्रितस्तीर्थपदश्चरणो व्यसनात्ययः
प्रेक्षयित्वा भुवो गोलं पत्न्यै यावान्स्वसंस्थया
बह्वाश्चर्यं महायोगी स्वाश्रमाय न्यवर्तत
विभज्य नवधात्मानं मानवीं सुरतोत्सुकाम्
रामां निरमयन्रेमे वर्षपूगान्मुहूर्तवत्
तस्मिन्विमान उत्कृष्टां शय्यां रतिकरीं श्रिता
न चाबुध्यत तं कालं पत्यापीच्येन सङ्गता
एवं योगानुभावेन दम्पत्यो रममाणयोः
शतं व्यतीयुः शरदः कामलालसयोर्मनाक्
तस्यामाधत्त रेतस्तां भावयन्नात्मनात्मवित्
नोधा विधाय रूपं स्वं सर्वसङ्कल्पविद्विभुः
अतः सा सुषुवे सद्यो देवहूतिः स्त्रियः प्रजाः
सर्वास्ताश्चारुसर्वाङ्ग्यो लोहितोत्पलगन्धयः
पतिं सा प्रव्रजिष्यन्तं तदालक्ष्योशती बहिः
स्मयमाना विक्लवेन हृदयेन विदूयता
लिखन्त्यधोमुखी भूमिं पदा नखमणिश्रिया
उवाच ललितां वाचं निरुध्याश्रुकलां शनैः

देवहूतिरुवाच

सर्वं तद्भगवान्मह्यमुपोवाह प्रतिश्रुतम्
अथापि मे प्रपन्नाया अभयं दातुमर्हसि
ब्रह्मन्दुहितृभिस्तुभ्यं विमृग्याः पतयः समाः
कश्चित्स्यान्मे विशोकाय त्वयि प्रव्रजिते वनम्
एतावतालं कालेन व्यतिक्रान्तेन मे प्रभो
इन्द्रियार्थप्रसङ्गेन परित्यक्तपरात्मनः
इन्द्रियार्थेषु सज्जन्त्या प्रसङ्गस्त्वयि मे कृतः
अजानन्त्या परं भावं तथाप्यस्त्वभयाय मे
सङ्गो यः संसृतेर्हेतुरसत्सु विहितोऽधिया
स एव साधुषु कृतो निःसङ्गत्वाय कल्पते
नेह यत्कर्म धर्माय न विरागाय कल्पते
न तीर्थपदसेवायै जीवन्नपि मृतो हि सः
साहं भगवतो नूनं वञ्चिता मायया दृढम्
यत्त्वां विमुक्तिदं प्राप्य न मुमुक्षेय बन्धनात्

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने त्रयोविंशोऽध्यायः ॥ ॥

मैत्रेय उवाच

निर्वेदवादिनीमेवं मनोर्दुहितरं मुनिः
दयालुः शालिनीमाह शुक्लाभिव्याहृतं स्मरन्

ऋषिरुवाच

मा खिदो राजपुत्रीत्थमात्मानं प्रत्यनिन्दिते
भगवांस्तेऽक्षरो गर्भमदूरात्सम्प्रपत्स्यते
धृतव्रतासि भद्रं ते दमेन नियमेन च
तपोद्रविणदानैश्च श्रद्धया चेश्वरं भज
स त्वयाराधितः शुक्लो वितन्वन्मामकं यशः
छेत्ता ते हृदयग्रन्थिमौदर्यो ब्रह्मभावनः

मैत्रेय उवाच

देवहूत्यपि सन्देशं गौरवेण प्रजापतेः
सम्यक्ष्रद्धाय पुरुषं कूटस्थमभजद्गुरुम्
तस्यां बहुतिथे काले भगवान्मधुसूदनः
कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि
अवादयंस्तदा व्योम्नि वादित्राणि घनाघनाः
गायन्ति तं स्म गन्धर्वा नृत्यन्त्यप्सरसो मुदा
पेतुः सुमनसो दिव्याः खेचरैरपवर्जिताः
प्रसेदुश्च दिशः सर्वा अम्भांसि च मनांसि च
तत्कर्दमाश्रमपदं सरस्वत्या परिश्रितम्
स्वयम्भूः साकमृषिभिर्मरीच्यादिभिरभ्ययात्
भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रुहन्
तत्त्वसङ्ख्यानविज्ञप्त्यै जातं विद्वानजः स्वराट्
सभाजयन्विशुद्धेन चेतसा तच्चिकीर्षितम्
प्रहृष्यमाणैरसुभिः कर्दमं चेदमभ्यधात्

ब्रह्मोवाच

त्वया मेऽपचितिस्तात कल्पिता निर्व्यलीकतः
यन्मे सञ्जगृहे वाक्यं भवान्मानद मानयन्
एतावत्येव शुश्रूषा कार्या पितरि पुत्रकैः
बाढमित्यनुमन्येत गौरवेण गुरोर्वचः
इमा दुहितरः सत्यस्तव वत्स सुमध्यमाः
सर्गमेतं प्रभावैः स्वैर्बृंहयिष्यन्त्यनेकधा
अतस्त्वमृषिमुख्येभ्यो यथाशीलं यथारुचि
आत्मजाः परिदेह्यद्य विस्तृणीहि यशो भुवि
वेदाहमाद्यं पुरुषमवतीर्णं स्वमायया
भूतानां शेवधिं देहं बिभ्राणं कपिलं मुने
ज्ञानविज्ञानयोगेन कर्मणामुद्धरन्जटाः
हिरण्यकेशः पद्माक्षः पद्ममुद्रापदाम्बुजः
एष मानवि ते गर्भं प्रविष्टः कैटभार्दनः
अविद्यासंशयग्रन्थिं छित्त्वा गां विचरिष्यति
अयं सिद्धगणाधीशः साङ्ख्याचार्यैः सुसम्मतः
लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः

मैत्रेय उवाच

तावाश्वास्य जगत्स्रष्टा कुमारैः सहनारदः
हंसो हंसेन यानेन त्रिधामपरमं ययौ
गते शतधृतौ क्षत्तः कर्दमस्तेन चोदितः
यथोदितं स्वदुहित्ः प्रादाद्विश्वसृजां ततः
मरीचये कलां प्रादादनसूयामथात्रये
श्रद्धामङ्गिरसेऽयच्छत्पुलस्त्याय हविर्भुवम्
पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम्
ख्यातिं च भृगवेऽयच्छद्वसिष्ठायाप्यरुन्धतीम्
अथर्वणेऽददाच्छान्तिं यया यज्ञो वितन्यते
विप्रर्षभान्कृतोद्वाहान्सदारान्समलालयत्
ततस्त ऋषयः क्षत्तः कृतदारा निमन्त्र्य तम्
प्रातिष्ठन्नन्दिमापन्नाः स्वं स्वमाश्रममण्डलम्
स चावतीर्णं त्रियुगमाज्ञाय विबुधर्षभम्
विविक्त उपसङ्गम्य प्रणम्य समभाषत
अहो पापच्यमानानां निरये स्वैरमङ्गलैः
कालेन भूयसा नूनं प्रसीदन्तीह देवताः
बहुजन्मविपक्वेन सम्यग्योगसमाधिना
द्रष्टुं यतन्ते यतयः शून्यागारेषु यत्पदम्
स एव भगवानद्य हेलनं न गणय्य नः
गृहेषु जातो ग्राम्याणां यः स्वानां पक्षपोषणः
स्वीयं वाक्यमृतं कर्तुमवतीर्णोऽसि मे गृहे
चिकीर्षुर्भगवान्ज्ञानं भक्तानां मानवर्धनः
तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव
यानि यानि च रोचन्ते स्वजनानामरूपिणः
त्वां सूरिभिस्तत्त्वबुभुत्सयाद्धा सदाभिवादार्हणपादपीठम्
ऐश्वर्यवैराग्ययशोऽवबोध वीर्यश्रिया पूर्तमहं प्रपद्ये
परं प्रधानं पुरुषं महान्तं कालं कविं त्रिवृतं लोकपालम्
आत्मानुभूत्यानुगतप्रपञ्चं स्वच्छन्दशक्तिं कपिलं प्रपद्ये
अ स्माभिपृच्छेऽद्य पतिं प्रजानां त्वयावतीर्णर्ण उताप्तकामः
परिव्रजत्पदवीमास्थितोऽहं चरिष्ये त्वां हृदि युञ्जन्विशोकः

श्रीभगवानुवाच

मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके
अथाजनि मया तुभ्यं यदवोचमृतं मुने
एतन्मे जन्म लोकेऽस्मिन्मुमुक्षूणां दुराशयात्
प्रसङ्ख्यानाय तत्त्वानां सम्मतायात्मदर्शने
एष आत्मपथोऽव्यक्तो नष्टः कालेन भूयसा
तं प्रवर्तयितुं देहमिमं विद्धि मया भृतम्
गच्छ कामं मयापृष्टो मयि सन्न्यस्तकर्मणा
जित्वा सुदुर्जयं मृत्युममृतत्वाय मां भज
मामात्मानं स्वयंज्योतिः सर्वभूतगुहाशयम्
आत्मन्येवात्मना वीक्ष्य विशोकोऽभयमृच्छसि
मात्र आध्यात्मिकीं विद्यां शमनीं सर्वकर्मणाम्
वितरिष्ये यया चासौ भयं चातितरिष्यति

मैत्रेय उवाच

एवं समुदितस्तेन कपिलेन प्रजापतिः
दक्षिणीकृत्य तं प्रीतो वनमेव जगाम ह
व्रतं स आस्थितो मौनमात्मैकशरणो मुनिः
निःसङ्गो व्यचरत्क्षोणीमनग्निरनिकेतनः
मनो ब्रह्मणि युञ्जानो यत्तत्सदसतः परम्
गुणावभासे विगुण एकभक्त्यानुभाविते
निरहङ्कृतिर्निर्ममश्च निर्द्वन्द्वः समदृक्स्वदृक्
प्रत्यक्प्रशान्तधीर्धीरः प्रशान्तोर्मिरिवोदधिः
वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि
परेण भक्तिभावेन लब्धात्मा मुक्तबन्धनः
आत्मानं सर्वभूतेषु भगवन्तमवस्थितम्
अपश्यत्सर्वभूतानि भगवत्यपि चात्मनि
इच्छाद्वेषविहीनेन सर्वत्र समचेतसा
भगवद्भक्तियुक्तेन प्राप्ता भागवती गतिः

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेये चतुर्विंशोऽध्यायः ॥ 

शौनक उवाच

कपिलस्तत्त्वसङ्ख्याता भगवानात्ममायया
जातः स्वयमजः साक्षादात्मप्रज्ञप्तये नृणाम्
न ह्यस्य वर्ष्मणः पुंसां वरिम्णः सर्वयोगिनाम्
विश्रुतौ श्रुतदेवस्य भूरि तृप्यन्ति मेऽसवः
यद्यद्विधत्ते भगवान्स्वच्छन्दात्मात्ममायया
तानि मे श्रद्दधानस्य कीर्तन्यान्यनुकीर्तय

सूत उवाच

द्वैपायनसखस्त्वेवं मैत्रेयो भगवांस्तथा
प्राहेदं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदितः

मैत्रेय उवाच

पितरि प्रस्थितेऽरण्यं मातुः प्रियचिकीर्षया
तस्मिन्बिन्दुसरेऽवात्सीद्भगवान्कपिलः किल
तमासीनमकर्माणं तत्त्वमार्गाग्रदर्शनम्
स्वसुतं देवहूत्याह धातुः संस्मरती वचः

देवहूतिरुवाच

निर्विण्णा नितरां भूमन्नसदिन्द्रियतर्षणात्
येन सम्भाव्यमानेन प्रपन्नान्धं तमः प्रभो
तस्य त्वं तमसोऽन्धस्य दुष्पारस्याद्य पारगम्
सच्चक्षुर्जन्मनामन्ते लब्धं मे त्वदनुग्रहात्
य आद्यो भगवान्पुंसामीश्वरो वै भवान्किल
लोकस्य तमसान्धस्य चक्षुः सूर्य इवोदितः
अथ मे देव सम्मोहमपाक्रष्टुं त्वमर्हसि
योऽवग्रहोऽहं ममेतीत्येतस्मिन्योजितस्त्वया
तं त्वा गताहं शरणं शरण्यं स्वभृत्यसंसारतरोः कुठारम्
जिज्ञासयाहं प्रकृतेः पूरुषस्य नमामि सद्धर्मविदां वरिष्ठम्

मैत्रेय उवाच

इति स्वमातुर्निरवद्यमीप्सितं निशम्य पुंसामपवर्गवर्धनम्
धियाभिनन्द्यात्मवतां सतां गतिर्बभाष ईषत्स्मितशोभिताननः

श्रीभगवानुवाच

योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे
अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य च
तमिमं ते प्रवक्ष्यामि यमवोचं पुरानघे
ऋषीणां श्रोतुकामानां योगं सर्वाङ्गनैपुणम्
चेतः खल्वस्य बन्धाय मुक्तये चात्मनो मतम्
गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये
अहं ममाभिमानोत्थैः कामलोभादिभिर्मलैः
वीतं यदा मनः शुद्धमदुःखमसुखं समम्
तदा पुरुष आत्मानं केवलं प्रकृतेः परम्
निरन्तरं स्वयंज्योतिरणिमानमखण्डितम्
ज्ञानवैराग्ययुक्तेन भक्तियुक्तेन चात्मना
परिपश्यत्युदासीनं प्रकृतिं च हतौजसम्
न युज्यमानया भक्त्या भगवत्यखिलात्मनि
सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्मसिद्धये
प्रसङ्गमजरं पाशमात्मनः कवयो विदुः
स एव साधुषु कृतो मोक्षद्वारमपावृतम्
तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम्
अजातशत्रवः शान्ताः साधवः साधुभूषणाः
मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम्
मत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः
मदाश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च
तपन्ति विविधास्तापा नैतान्मद्गतचेतसः
त एते साधवः साध्वि सर्वसङ्गविवर्जिताः
सङ्गस्तेष्वथ ते प्रार्थ्यः सङ्गदोषहरा हि ते
सतां प्रसङ्गान्मम वीर्यसंविदो भवन्ति हृत्कर्णरसायनाः कथाः
तज्जोषणादाश्वपवर्गवर्त्मनि श्रद्धा रतिर्भक्तिरनुक्रमिष्यति
भक्त्या पुमान्जातविराग ऐन्द्रियाद्दृष्टश्रुतान्मद्रचनानुचिन्तया
चित्तस्य यत्तो ग्रहणे योगयुक्तो यतिष्यते ऋजुभिर्योगमार्गैः
असेवयायं प्रकृतेर्गुणानां ज्ञानेन वैराग्यविजृम्भितेन
योगेन मय्यर्पितया च भक्त्या मां प्रत्यगात्मानमिहावरुन्धे

देवहूतिरुवाच

काचित्त्वय्युचिता भक्तिः कीदृशी मम गोचरा
यया पदं ते निर्वाणमञ्जसान्वाश्नवा अहम्
यो योगो भगवद्बाणो निर्वाणात्मंस्त्वयोदितः
कीदृशः कति चाङ्गानि यतस्तत्त्वावबोधनम्
तदेतन्मे विजानीहि यथाहं मन्दधीर्हरे
सुखं बुद्ध्येय दुर्बोधं योषा भवदनुग्रहात्

मैत्रेय उवाच

विदित्वार्थं कपिलो मातुरित्थं जातस्नेहो यत्र तन्वाभिजातः
तत्त्वाम्नायं यत्प्रवदन्ति साङ्ख्यं प्रोवाच वै भक्तिवितानयोगम्

श्रीभगवानुवाच
देवानां गुणलिङ्गानामानुश्रविककर्मणाम्
सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या
अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी
जरयत्याशु या कोशं निगीर्णमनलो यथा
नैकात्मतां मे स्पृहयन्ति केचिन्मत्पादसेवाभिरता मदीहाः
येऽन्योन्यतो भागवताः प्रसज्य सभाजयन्ते मम पौरुषाणि
पश्यन्ति ते मे रुचिराण्यम्ब सन्तः प्रसन्नवक्त्रारुणलोचनानि
रूपाणि दिव्यानि वरप्रदानि साकं वाचं स्पृहणीयां वदन्ति
तैर्दर्शनीयावयवैरुदार विलासहासेक्षितवामसूक्तैः
हृतात्मनो हृतप्राणांश्च भक्तिरनिच्छतो मे गतिमण्वीं प्रयुङ्क्ते
अथो विभूतिं मम मायाविनस्तामैश्वर्यमष्टाङ्गमनुप्रवृत्तम्
श्रियं भागवतीं वास्पृहयन्ति भद्रां परस्य मे तेऽश्नुवते तु लोके
न कर्हिचिन्मत्पराः शान्तरूपे नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः
येषामहं प्रिय आत्मा सुतश्च सखा गुरुः सुहृदो दैवमिष्टम्
इमं लोकं तथैवामुमात्मानमुभयायिनम्
आत्मानमनु ये चेह ये रायः पशवो गृहाः
विसृज्य सर्वानन्यांश्च मामेवं विश्वतोमुखम्
भजन्त्यनन्यया भक्त्या तान्मृत्योरतिपारये
नान्यत्र मद्भगवतः प्रधानपुरुषेश्वरात्
आत्मनः सर्वभूतानां भयं तीव्रं निवर्तते
मद्भयाद्वाति वातोऽयं सूर्यस्तपति मद्भयात्
वर्षतीन्द्रो दहत्यग्निर्मृत्युश्चरति मद्भयात्
ज्ञानवैराग्ययुक्तेन भक्तियोगेन योगिनः
क्षेमाय पादमूलं मे प्रविशन्त्यकुतोभयम्
एतावानेव लोकेऽस्मिन्पुंसां निःश्रेयसोदयः
तीव्रेण भक्तियोगेन मनो मय्यर्पितं स्थिरम्

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने पञ्चविंशोऽध्यायः ॥ 

श्रीभगवानुवाच

अथ ते सम्प्रवक्ष्यामि तत्त्वानां लक्षणं पृथक्
यद्विदित्वा विमुच्येत पुरुषः प्राकृतैर्गुणैः
ज्ञानं निःश्रेयसार्थाय पुरुषस्यात्मदर्शनम्
यदाहुर्वर्णये तत्ते हृदयग्रन्थिभेदनम्
अनादिरात्मा पुरुषो निर्गुणः प्रकृतेः परः
प्रत्यग्धामा स्वयंज्योतिर्विश्वं येन समन्वितम्
स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभुः
यदृच्छयैवोपगतामभ्यपद्यत लीलया
गुणैर्विचित्राः सृजतीं सरूपाः प्रकृतिं प्रजाः
विलोक्य मुमुहे सद्यः स इह ज्ञानगूहया
एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान्
कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते
तदस्य संसृतिर्बन्धः पारतन्त्र्यं च तत्कृतम्
भवत्यकर्तुरीशस्य साक्षिणो निर्वृतात्मनः
कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः
भोक्तृत्वे सुखदुःखानां पुरुषं प्रकृतेः परम्

देवहूतिरुवाच

प्रकृतेः पुरुषस्यापि लक्षणं पुरुषोत्तम
ब्रूहि कारणयोरस्य सदसच्च यदात्मकम्

श्रीभगवानुवाच

यत्तत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम्
प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत्
पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा
एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः
महाभूतानि पञ्चैव भूरापोऽग्निर्मरुन्नभः
तन्मात्राणि च तावन्ति गन्धादीनि मतानि मे
इन्द्रियाणि दश श्रोत्रं त्वग्दृग्रसननासिकाः
वाक्करौ चरणौ मेढ्रं पायुर्दशम उच्यते
मनो बुद्धिरहङ्कारश्चित्तमित्यन्तरात्मकम्
चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षणरूपया
एतावानेव सङ्ख्यातो ब्रह्मणः सगुणस्य ह
सन्निवेशो मया प्रोक्तो यः कालः पञ्चविंशकः
प्रभावं पौरुषं प्राहुः कालमेके यतो भयम्
अहङ्कारविमूढस्य कर्तुः प्रकृतिमीयुषः
प्रकृतेर्गुणसाम्यस्य निर्विशेषस्य मानवि
चेष्टा यतः स भगवान्काल इत्युपलक्षितः
अन्तः पुरुषरूपेण कालरूपेण यो बहिः
समन्वेत्येष सत्त्वानां भगवानात्ममायया
दैवात्क्षुभितधर्मिण्यां स्वस्यां योनौ परः पुमान्
आधत्त वीर्यं सासूत महत्तत्त्वं हिरण्मयम्
विश्वमात्मगतं व्यञ्जन्कूटस्थो जगदङ्कुरः
स्वतेजसापिबत्तीव्रमात्मप्रस्वापनं तमः
यत्तत्सत्त्वगुणं स्वच्छं शान्तं भगवतः पदम्
यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम्
स्वच्छत्वमविकारित्वं शान्तत्वमिति चेतसः
वृत्तिभिर्लक्षणं प्रोक्तं यथापां प्रकृतिः परा
महत्तत्त्वाद्विकुर्वाणाद्भगवद्वीर्यसम्भवात्
क्रियाशक्तिरहङ्कारस्त्रिविधः समपद्यत
वैकारिकस्तैजसश्च तामसश्च यतो भवः
मनसश्चेन्द्रियाणां च भूतानां महतामपि
सहस्रशिरसं साक्षाद्यमनन्तं प्रचक्षते
सङ्कर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम्
कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम्
शान्तघोरविमूढत्वमिति वा स्यादहङ्कृतेः
वैकारिकाद्विकुर्वाणान्मनस्तत्त्वमजायत
यत्सङ्कल्पविकल्पाभ्यां वर्तते कामसम्भवः
यद्विदुर्ह्यनिरुद्धाख्यं हृषीकाणामधीश्वरम्
शारदेन्दीवरश्यामं संराध्यं योगिभिः शनैः
तैजसात्तु विकुर्वाणाद्बुद्धितत्त्वमभूत्सति
द्रव्यस्फुरणविज्ञानमिन्द्रियाणामनुग्रहः
संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च
स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितः पृथक्
तैजसानीन्द्रियाण्येव क्रियाज्ञानविभागशः
प्राणस्य हि क्रियाशक्तिर्बुद्धेर्विज्ञानशक्तिता
तामसाच्च विकुर्वाणाद्भगवद्वीर्यचोदितात्
शब्दमात्रमभूत्तस्मान्नभः श्रोत्रं तु शब्दगम्
अर्थाश्रयत्वं शब्दस्य द्रष्टुर्लिङ्गत्वमेव च
तन्मात्रत्वं च नभसो लक्षणं कवयो विदुः
भूतानां छिद्रदातृत्वं बहिरन्तरमेव च
प्राणेन्द्रियात्मधिष्ण्यत्वं नभसो वृत्तिलक्षणम्
नभसः शब्दतन्मात्रात्कालगत्या विकुर्वतः
स्पर्शोऽभवत्ततो वायुस्त्वक्स्पर्शस्य च सङ्ग्रहः
मृदुत्वं कठिनत्वं च शैत्यमुष्णत्वमेव च
एतत्स्पर्शस्य स्पर्शत्वं तन्मात्रत्वं नभस्वतः
चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्दयोः
सर्वेन्द्रियाणामात्मत्वं वायोः कर्माभिलक्षणम्
वायोश्च स्पर्शतन्मात्राद्रूपं दैवेरितादभूत्
समुत्थितं ततस्तेजश्चक्षू रूपोपलम्भनम्
द्रव्याकृतित्वं गुणता व्यक्तिसंस्थात्वमेव च
तेजस्त्वं तेजसः साध्वि रूपमात्रस्य वृत्तयः
द्योतनं पचनं पानमदनं हिममर्दनम्
तेजसो वृत्तयस्त्वेताः शोषणं क्षुत्तृडेव च
रूपमात्राद्विकुर्वाणात्तेजसो दैवचोदितात्
रसमात्रमभूत्तस्मादम्भो जिह्वा रसग्रहः
कषायो मधुरस्तिक्तः कट्वम्ल इति नैकधा
भौतिकानां विकारेण रस एको विभिद्यते
क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोन्दनम्
तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमाः
रसमात्राद्विकुर्वाणादम्भसो दैवचोदितात्
गन्धमात्रमभूत्तस्मात्पृथ्वी घ्राणस्तु गन्धगः
करम्भपूतिसौरभ्य शान्तोग्राम्लादिभिः पृथक्
द्रव्यावयववैषम्याद्गन्ध एको विभिद्यते
भावनं ब्रह्मणः स्थानं धारणं सद्विशेषणम्
सर्वसत्त्वगुणोद्भेदः पृथिवीवृत्तिलक्षणम्
नभोगुणविशेषोऽर्थो यस्य तच्छ्रोत्रमुच्यते
वायोर्गुणविशेषोऽर्थो यस्य तत्स्पर्शनं विदुः
तेजोगुणविशेषोऽर्थो यस्य तच्चक्षुरुच्यते
अम्भोगुणविशेषोऽर्थो यस्य तद्रसनं विदुः
भूमेर्गुणविशेषोऽर्थो यस्य स घ्राण उच्यते
परस्य दृश्यते धर्मो ह्यपरस्मिन्समन्वयात्
अतो विशेषो भावानां भूमावेवोपलक्ष्यते
एतान्यसंहत्य यदा महदादीनि सप्त वै
कालकर्मगुणोपेतो जगदादिरुपाविशत्
ततस्तेनानुविद्धेभ्यो युक्तेभ्योऽण्डमचेतनम्
उत्थितं पुरुषो यस्मादुदतिष्ठदसौ विराट्
एतदण्डं विशेषाख्यं क्रमवृद्धैर्दशोत्तरैः
तोयादिभिः परिवृतं प्रधानेनावृतैर्बहिः
यत्र लोकवितानोऽयं रूपं भगवतो हरेः
हिरण्मयादण्डकोशादुत्थाय सलिले शयात्
तमाविश्य महादेवो बहुधा निर्बिभेद खम्
निरभिद्यतास्य प्रथमं मुखं वाणी ततोऽभवत्
वाण्या वह्निरथो नासे प्राणोतो घ्राण एतयोः
घ्राणाद्वायुरभिद्येतामक्षिणी चक्षुरेतयोः
तस्मात्सूर्यो न्यभिद्येतां कर्णौ श्रोत्रं ततो दिशः
निर्बिभेद विराजस्त्वग् रोमश्मश्र्वादयस्ततः
तत ओषधयश्चासन्शिश्नं निर्बिभिदे ततः
रेतस्तस्मादाप आसन्निरभिद्यत वै गुदम्
गुदादपानोऽपानाच्च मृत्युर्लोकभयङ्करः
हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वराट्
पादौ च निरभिद्येतां गतिस्ताभ्यां ततो हरिः
नाड्योऽस्य निरभिद्यन्त ताभ्यो लोहितमाभृतम्
नद्यस्ततः समभवन्नुदरं निरभिद्यत
क्षुत्पिपासे ततः स्यातां समुद्रस्त्वेतयोरभूत्
अथास्य हृदयं भिन्नं हृदयान्मन उत्थितम्
मनसश्चन्द्रमा जातो बुद्धिर्बुद्धेर्गिरां पतिः
अहङ्कारस्ततो रुद्रश्चित्तं चैत्यस्ततोऽभवत्
एते ह्यभ्युत्थिता देवा नैवास्योत्थापनेऽशकन्
पुनराविविशुः खानि तमुत्थापयितुं क्रमात्
वह्निर्वाचा मुखं भेजे नोदतिष्ठत्तदा विराट्
घ्राणेन नासिके वायुर्नोदतिष्ठत्तदा विराट्
अक्षिणी चक्षुषादित्यो नोदतिष्ठत्तदा विराट्
श्रोत्रेण कर्णौ च दिशो नोदतिष्ठत्तदा विराट्
त्वचं रोमभिरोषध्यो नोदतिष्ठत्तदा विराट्
रेतसा शिश्नमापस्तु नोदतिष्ठत्तदा विराट्
गुदं मृत्युरपानेन नोदतिष्ठत्तदा विराट्
हस्ताविन्द्रो बलेनैव नोदतिष्ठत्तदा विराट्
विष्णुर्गत्यैव चरणौ नोदतिष्ठत्तदा विराट्
नाडीर्नद्यो लोहितेन नोदतिष्ठत्तदा विराट्
क्षुत्तृड्भ्यामुदरं सिन्धुर्नोदतिष्ठत्तदा विराट्
हृदयं मनसा चन्द्रो नोदतिष्ठत्तदा विराट्
बुद्ध्या ब्रह्मापि हृदयं नोदतिष्ठत्तदा विराट्
रुद्रोऽभिमत्या हृदयं नोदतिष्ठत्तदा विराट्
चित्तेन हृदयं चैत्यः क्षेत्रज्ञः प्राविशद्यदा
विराट्तदैव पुरुषः सलिलादुदतिष्ठत
यथा प्रसुप्तं पुरुषं प्राणेन्द्रियमनोधियः
प्रभवन्ति विना येन नोत्थापयितुमोजसा
तमस्मिन्प्रत्यगात्मानं धिया योगप्रवृत्तया
भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत्

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेये तत्त्वसमाम्नाये षड्विंशोऽध्यायः ॥ 

श्रीभगवानुवाच

प्रकृतिस्थोऽपि पुरुषो नाज्यते प्राकृतैर्गुणैः
अविकारादकर्तृत्वान्निर्गुणत्वाज्जलार्कवत्
स एष यर्हि प्रकृतेर्गुणेष्वभिविषज्जते
अहङ्क्रियाविमूढात्मा कर्तास्मीत्यभिमन्यते
तेन संसारपदवीमवशोऽभ्येत्यनिर्वृतः
प्रासङ्गिकैः कर्मदोषैः सदसन्मिश्रयोनिषु
अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते
ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा
अत एव शनैश्चित्तं प्रसक्तमसतां पथि
भक्तियोगेन तीव्रेण विरक्त्या च नयेद्वशम्
यमादिभिर्योगपथैरभ्यसञ्श्रद्धयान्वितः
मयि भावेन सत्येन मत्कथाश्रवणेन च
सर्वभूतसमत्वेन निर्वैरेणाप्रसङ्गतः
ब्रह्मचर्येण मौनेन स्वधर्मेण बलीयसा
यदृच्छयोपलब्धेन सन्तुष्टो मितभुङ्मुनिः
विविक्तशरणः शान्तो मैत्रः करुण आत्मवान्
सानुबन्धे च देहेऽस्मिन्नकुर्वन्नसदाग्रहम्
ज्ञानेन दृष्टतत्त्वेन प्रकृतेः पुरुषस्य च
निवृत्तबुद्ध्यवस्थानो दूरीभूतान्यदर्शनः
उपलभ्यात्मनात्मानं चक्षुषेवार्कमात्मदृक्
मुक्तलिङ्गं सदाभासमसति प्रतिपद्यते
सतो बन्धुमसच्चक्षुः सर्वानुस्यूतमद्वयम्
यथा जलस्थ आभासः स्थलस्थेनावदृश्यते
स्वाभासेन तथा सूर्यो जलस्थेन दिवि स्थितः
एवं त्रिवृदहङ्कारो भूतेन्द्रियमनोमयैः
स्वाभासैर्लक्षितोऽनेन सदाभासेन सत्यदृक्
भूतसूक्ष्मेन्द्रियमनो बुद्ध्यादिष्विह निद्रया
लीनेष्वसति यस्तत्र विनिद्रो निरहङ्क्रियः
मन्यमानस्तदात्मानमनष्टो नष्टवन्मृषा
नष्टेऽहङ्करणे द्रष्टा नष्टवित्त इवातुरः
एवं प्रत्यवमृश्यासावात्मानं प्रतिपद्यते
साहङ्कारस्य द्रव्यस्य योऽवस्थानमनुग्रहः

देवहूतिरुवाच

पुरुषं प्रकृतिर्ब्रह्मन्न विमुञ्चति कर्हिचित्
अन्योन्यापाश्रयत्वाच्च नित्यत्वादनयोः प्रभो
यथा गन्धस्य भूमेश्च न भावो व्यतिरेकतः
अपां रसस्य च यथा तथा बुद्धेः परस्य च
अकर्तुः कर्मबन्धोऽयं पुरुषस्य यदाश्रयः
गुणेषु सत्सु प्रकृतेः कैवल्यं तेष्वतः कथम्
क्वचित्तत्त्वावमर्शेन निवृत्तं भयमुल्बणम्
अनिवृत्तनिमित्तत्वात्पुनः प्रत्यवतिष्ठते

श्रीभगवानुवाच

अनिमित्तनिमित्तेन स्वधर्मेणामलात्मना
तीव्रया मयि भक्त्या च श्रुतसम्भृतया चिरम्
ज्ञानेन दृष्टतत्त्वेन वैराग्येण बलीयसा
तपोयुक्तेन योगेन तीव्रेणात्मसमाधिना
प्रकृतिः पुरुषस्येह दह्यमाना त्वहर्निशम्
तिरोभवित्री शनकैरग्नेर्योनिरिवारणिः
भुक्तभोगा परित्यक्ता दृष्टदोषा च नित्यशः
नेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य च
यथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत्
स एव प्रतिबुद्धस्य न वै मोहाय कल्पते
एवं विदिततत्त्वस्य प्रकृतिर्मयि मानसम्
युञ्जतो नापकुरुत आत्मारामस्य कर्हिचित्
यदैवमध्यात्मरतः कालेन बहुजन्मना
सर्वत्र जातवैराग्य आब्रह्मभुवनान्मुनिः
मद्भक्तः प्रतिबुद्धार्थो मत्प्रसादेन भूयसा
निःश्रेयसं स्वसंस्थानं कैवल्याख्यं मदाश्रयम्
प्राप्नोतीहाञ्जसा धीरः स्वदृशा च्छिन्नसंशयः
यद्गत्वा न निवर्तेत योगी लिङ्गाद्विनिर्गमे
यदा न योगोपचितासु चेतो मायासु सिद्धस्य विषज्जतेऽङ्ग
अनन्यहेतुष्वथ मे गतिः स्यादात्यन्तिकी यत्र न मृत्युहासः

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने सप्तविंशोऽध्यायः ॥

श्रीभगवानुवाच

योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे
मनो येनैव विधिना प्रसन्नं याति सत्पथम्
स्वधर्माचरणं शक्त्या विधर्माच्च निवर्तनम्
दैवाल्लब्धेन सन्तोष आत्मविच्चरणार्चनम्
ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा
मितमेध्यादनं शश्वद्विविक्तक्षेमसेवनम्
अहिंसा सत्यमस्तेयं यावदर्थपरिग्रहः
ब्रह्मचर्यं तपः शौचं स्वाध्यायः पुरुषार्चनम्
मौनं सदासनजयः स्थैर्यं प्राणजयः शनैः
प्रत्याहारश्चेन्द्रियाणां विषयान्मनसा हृदि
स्वधिष्ण्यानामेकदेशे मनसा प्राणधारणम्
वैकुण्ठलीलाभिध्यानं समाधानं तथात्मनः
एतैरन्यैश्च पथिभिर्मनो दुष्टमसत्पथम्
बुद्ध्या युञ्जीत शनकैर्जितप्राणो ह्यतन्द्रितः
शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम्
तस्मिन्स्वस्ति समासीन ऋजुकायः समभ्यसेत्
प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः
प्रतिकूलेन वा चित्तं यथा स्थिरमचञ्चलम्
मनोऽचिरात्स्याद्विरजं जितश्वासस्य योगिनः
वाय्वग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम्
प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषान्
प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान्
यदा मनः स्वं विरजं योगेन सुसमाहितम्
काष्ठां भगवतो ध्यायेत्स्वनासाग्रावलोकनः
प्रसन्नवदनाम्भोजं पद्मगर्भारुणेक्षणम्
नीलोत्पलदलश्यामं शङ्खचक्रगदाधरम्
लसत्पङ्कजकिञ्जल्क पीतकौशेयवाससम्
श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम्
मत्तद्विरेफकलया परीतं वनमालया
परार्ध्यहारवलय किरीटाङ्गदनूपुरम्
काञ्चीगुणोल्लसच्छ्रोणिं हृदयाम्भोजविष्टरम्
दर्शनीयतमं शान्तं मनोनयनवर्धनम्
अपीच्यदर्शनं शश्वत्सर्वलोकनमस्कृतम्
सन्तं वयसि कैशोरे भृत्यानुग्रहकातरम्
कीर्तन्यतीर्थयशसं पुण्यश्लोकयशस्करम्
ध्यायेद्देवं समग्राङ्गं यावन्न च्यवते मनः
स्थितं व्रजन्तमासीनं शयानं वा गुहाशयम्
प्रेक्षणीयेहितं ध्यायेच्छुद्धभावेन चेतसा
तस्मिन्लब्धपदं चित्तं सर्वावयवसंस्थितम्
विलक्ष्यैकत्र संयुज्यादङ्गे भगवतो मुनिः
सञ्चिन्तयेद्भगवतश्चरणारविन्दं
वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम्
उत्तुङ्गरक्तविलसन्नखचक्रवाल
ज्योत्स्नाभिराहतमहद्धृदयान्धकारम्
यच्छौचनिःसृतसरित्प्रवरोदकेन
तीर्थेन मूर्ध्न्यधिकृतेन शिवः शिवोऽभूत्
ध्यातुर्मनःशमलशैलनिसृष्टवज्रं
ध्यायेच्चिरं भगवतश्चरणारविन्दम्
जानुद्वयं जलजलोचनया जनन्या
लक्ष्म्याखिलस्य सुरवन्दितया विधातुः
ऊर्वोर्निधाय करपल्लवरोचिषा यत्
संलालितं हृदि विभोरभवस्य कुर्यात्
ऊरू सुपर्णभुजयोरधि शोभमानाव्
ओजोनिधी अतसिकाकुसुमावभासौ
व्यालम्बिपीतवरवाससि वर्तमान
काञ्चीकलापपरिरम्भि नितम्बबिम्बम्
नाभिह्रदं भुवनकोशगुहोदरस्थं
यत्रात्मयोनिधिषणाखिललोकपद्मम्
व्यूढं हरिन्मणिवृषस्तनयोरमुष्य
ध्यायेद्द्वयं विशदहारमयूखगौरम्
वक्षोऽधिवासमृषभस्य महाविभूतेः
पुंसां मनोनयननिर्वृतिमादधानम्
कण्ठं च कौस्तुभमणेरधिभूषणार्थं
कुर्यान्मनस्यखिललोकनमस्कृतस्य
बाहूंश्च मन्दरगिरेः परिवर्तनेन
निर्णिक्तबाहुवलयानधिलोकपालान्
सञ्चिन्तयेद्दशशतारमसह्यतेजः
७शङ्खं च तत्करसरोरुहराजहंसम्
कौमोदकीं भगवतो दयितां स्मरेत
दिग्धामरातिभटशोणितकर्दमेन
मालां मधुव्रतवरूथगिरोपघुष्टां
चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे
भृत्यानुकम्पितधियेह गृहीतमूर्तेः
सञ्चिन्तयेद्भगवतो वदनारविन्दम्
यद्विस्फुरन्मकरकुण्डलवल्गितेन
विद्योतितामलकपोलमुदारनासम्
यच्छ्रीनिकेतमलिभिः परिसेव्यमानं
भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम्
मीनद्वयाश्रयमधिक्षिपदब्जनेत्रं
ध्यायेन्मनोमयमतन्द्रित उल्लसद्भ्रु
तस्यावलोकमधिकं कृपयातिघोर
तापत्रयोपशमनाय निसृष्टमक्ष्णोः
स्निग्धस्मितानुगुणितं विपुलप्रसादं
ध्यायेच्चिरं विपुलभावनया गुहायाम्
हासं हरेरवनताखिललोकतीव्र
शोकाश्रुसागरविशोषणमत्युदारम्
सम्मोहनाय रचितं निजमाययास्य
भ्रूमण्डलं मुनिकृते मकरध्वजस्य
ध्यानायनं प्रहसितं बहुलाधरोष्ठ
भासारुणायिततनुद्विजकुन्दपङ्क्ति
ध्यायेत्स्वदेहकुहरेऽवसितस्य विष्णोर्
भक्त्यार्द्रयार्पितमना न पृथग्दिदृक्षेत्
एवं हरौ भगवति प्रतिलब्धभावो
भक्त्या द्रवद्धृदय उत्पुलकः प्रमोदात्
औत्कण्ठ्यबाष्पकलया मुहुरर्द्यमानस्
तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते
मुक्ताश्रयं यर्हि निर्विषयं विरक्तं
निर्वाणमृच्छति मनः सहसा यथार्चिः
आत्मानमत्र पुरुषोऽव्यवधानमेकम्
अन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः
सोऽप्येतया चरमया मनसो निवृत्त्या
तस्मिन्महिम्न्यवसितः सुखदुःखबाह्ये
हेतुत्वमप्यसति कर्तरि दुःखयोर्यत्
स्वात्मन्विधत्त उपलब्धपरात्मकाष्ठः
देहं च तं न चरमः स्थितमुत्थितं वा
सिद्धो विपश्यति यतोऽध्यगमत्स्वरूपम्
दैवादुपेतमथ दैववशादपेतं
वासो यथा परिकृतं मदिरामदान्धः
देहोऽपि दैववशगः खलु कर्म यावत्
स्वारम्भकं प्रतिसमीक्षत एव सासुः
तं सप्रपञ्चमधिरूढसमाधियोगः
स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः
यथा पुत्राच्च वित्ताच्च पृथङ्मर्त्यः प्रतीयते
अप्यात्मत्वेनाभिमताद्देहादेः पुरुषस्तथा
यथोल्मुकाद्विस्फुलिङ्गाद्धूमाद्वापि स्वसम्भवात्
अप्यात्मत्वेनाभिमताद्यथाग्निः पृथगुल्मुकात्
भूतेन्द्रियान्तःकरणात्प्रधानाज्जीवसंज्ञितात्
आत्मा तथा पृथग्द्रष्टा भगवान्ब्रह्मसंज्ञितः
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि
ईक्षेतानन्यभावेन भूतेष्विव तदात्मताम्
स्वयोनिषु यथा ज्योतिरेकं नाना प्रतीयते
योनीनां गुणवैषम्यात्तथात्मा प्रकृतौ स्थितः
तस्मादिमां स्वां प्रकृतिं दैवीं सदसदात्मिकाम्
दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेये साधनानुष्ठानं नामाष्टाविंशोऽध्यायः ॥ 

देवहूतिरुवाच

लक्षणं महदादीनां प्रकृतेः पुरुषस्य च
स्वरूपं लक्ष्यतेऽमीषां येन तत्पारमार्थिकम्
यथा साङ्ख्येषु कथितं यन्मूलं तत्प्रचक्षते
भक्तियोगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो
विरागो येन पुरुषो भगवन्सर्वतो भवेत्
आचक्ष्व जीवलोकस्य विविधा मम संसृतीः
कालस्येश्वररूपस्य परेषां च परस्य ते
स्वरूपं बत कुर्वन्ति यद्धेतोः कुशलं जनाः
लोकस्य मिथ्याभिमतेरचक्षुषश्चिरं प्रसुप्तस्य तमस्यनाश्रये
श्रान्तस्य कर्मस्वनुविद्धया धिया त्वमाविरासीः किल योगभास्करः

मैत्रेय उवाच

इति मातुर्वचः श्लक्ष्णं प्रतिनन्द्य महामुनिः
आबभाषे कुरुश्रेष्ठ प्रीतस्तां करुणार्दितः

श्रीभगवानुवाच

भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते
स्वभावगुणमार्गेण पुंसां भावो विभिद्यते
अभिसन्धाय यो हिंसां दम्भं मात्सर्यमेव वा
संरम्भी भिन्नदृग्भावं मयि कुर्यात्स तामसः
विषयानभिसन्धाय यश ऐश्वर्यमेव वा
अर्चादावर्चयेद्यो मां पृथग्भावः स राजसः
कर्मनिर्हारमुद्दिश्य परस्मिन्वा तदर्पणम्
यजेद्यष्टव्यमिति वा पृथग्भावः स सात्त्विकः
मद्गुणश्रुतिमात्रेण मयि सर्वगुहाशये
मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ
लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम्
अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे
सालोक्यसार्ष्टिसामीप्य सारूप्यैकत्वमप्युत
दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः
स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः
येनातिव्रज्य त्रिगुणं मद्भावायोपपद्यते
निषेवितेनानिमित्तेन स्वधर्मेण महीयसा
क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः
मद्धिष्ण्यदर्शनस्पर्श पूजास्तुत्यभिवन्दनैः
भूतेषु मद्भावनया सत्त्वेनासङ्गमेन च
महतां बहुमानेन दीनानामनुकम्पया
मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च
आध्यात्मिकानुश्रवणान्नामसङ्कीर्तनाच्च मे
आर्जवेनार्यसङ्गेन निरहङ्क्रियया तथा
मद्धर्मणो गुणैरेतैः परिसंशुद्ध आशयः
पुरुषस्याञ्जसाभ्येति श्रुतमात्रगुणं हि माम्
यथा वातरथो घ्राणमावृङ्क्ते गन्ध आशयात्
एवं योगरतं चेत आत्मानमविकारि यत्
अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा
तमवज्ञाय मां मर्त्यः कुरुतेऽर्चाविडम्बनम्
यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम्
हित्वार्चां भजते मौढ्याद्भस्मन्येव जुहोति सः
द्विषतः परकाये मां मानिनो भिन्नदर्शिनः
भूतेषु बद्धवैरस्य न मनः शान्तिमृच्छति
अहमुच्चावचैर्द्रव्यैः क्रिययोत्पन्नयानघे
नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिनः
अर्चादावर्चयेत्तावदीश्वरं मां स्वकर्मकृत्
यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम्
आत्मनश्च परस्यापि यः करोत्यन्तरोदरम्
तस्य भिन्नदृशो मृत्युर्विदधे भयमुल्बणम्
अथ मां सर्वभूतेषु भूतात्मानं कृतालयम्
अर्हयेद्दानमानाभ्यां मैत्र्याभिन्नेन चक्षुषा
जीवाः श्रेष्ठा ह्यजीवानां ततः प्राणभृतः शुभे
ततः सचित्ताः प्रवरास्ततश्चेन्द्रियवृत्तयः
तत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः
तेभ्यो गन्धविदः श्रेष्ठास्ततः शब्दविदो वराः
रूपभेदविदस्तत्र ततश्चोभयतोदतः
तेषां बहुपदाः श्रेष्ठाश्चतुष्पादस्ततो द्विपात्
ततो वर्णाश्च चत्वारस्तेषां ब्राह्मण उत्तमः
ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञोऽभ्यधिकस्ततः
अर्थज्ञात्संशयच्छेत्ता ततः श्रेयान्स्वकर्मकृत्
मुक्तसङ्गस्ततो भूयानदोग्धा धर्ममात्मनः
तस्मान्मय्यर्पिताशेष क्रियार्थात्मा निरन्तरः
मय्यर्पितात्मनः पुंसो मयि सन्न्यस्तकर्मणः
न पश्यामि परं भूतमकर्तुः समदर्शनात्
मनसैतानि भूतानि प्रणमेद्बहुमानयन्
ईश्वरो जीवकलया प्रविष्टो भगवानिति
भक्तियोगश्च योगश्च मया मानव्युदीरितः
ययोरेकतरेणैव पुरुषः पुरुषं व्रजेत्
एतद्भगवतो रूपं ब्रह्मणः परमात्मनः
परं प्रधानं पुरुषं दैवं कर्मविचेष्टितम्
रूपभेदास्पदं दिव्यं काल इत्यभिधीयते
भूतानां महदादीनां यतो भिन्नदृशां भयम्
योऽन्तः प्रविश्य भूतानि भूतैरत्त्यखिलाश्रयः
स विष्ण्वाख्योऽधियज्ञोऽसौ कालः कलयतां प्रभुः
न चास्य कश्चिद्दयितो न द्वेष्यो न च बान्धवः
आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत्
यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयात्
यद्भयाद्वर्षते देवो भगणो भाति यद्भयात्
यद्वनस्पतयो भीता लताश्चौषधिभिः सह
स्वे स्वे कालेऽभिगृह्णन्ति पुष्पाणि च फलानि च
स्रवन्ति सरितो भीता नोत्सर्पत्युदधिर्यतः
अग्निरिन्धे सगिरिभिर्भूर्न मज्जति यद्भयात्
नभो ददाति श्वसतां पदं यन्नियमाददः
लोकं स्वदेहं तनुते महान्सप्तभिरावृतम्
गुणाभिमानिनो देवाः सर्गादिष्वस्य यद्भयात्
वर्तन्तेऽनुयुगं येषां वश एतच्चराचरम्
सोऽनन्तोऽन्तकरः कालोऽनादिरादिकृदव्ययः
जनं जनेन जनयन्मारयन्मृत्युनान्तकम्

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने एकोनत्रिंशोऽध्यायः ॥ 

कपिल उवाच

तस्यैतस्य जनो नूनं नायं वेदोरुविक्रमम्
काल्यमानोऽपि बलिनो वायोरिव घनावलिः
यं यमर्थमुपादत्ते दुःखेन सुखहेतवे
तं तं धुनोति भगवान्पुमान्छोचति यत्कृते
यदध्रुवस्य देहस्य सानुबन्धस्य दुर्मतिः
ध्रुवाणि मन्यते मोहाद्गृहक्षेत्रवसूनि च
जन्तुर्वै भव एतस्मिन्यां यां योनिमनुव्रजेत्
तस्यां तस्यां स लभते निर्वृतिं न विरज्यते
नरकस्थोऽपि देहं वै न पुमांस्त्यक्तुमिच्छति
नारक्यां निर्वृतौ सत्यां देवमायाविमोहितः
आत्मजायासुतागार पशुद्रविणबन्धुषु
निरूढमूलहृदय आत्मानं बहु मन्यते
सन्दह्यमानसर्वाङ्ग एषामुद्वहनाधिना
करोत्यविरतं मूढो दुरितानि दुराशयः
आक्षिप्तात्मेन्द्रियः स्त्रीणामसतीनां च मायया
रहो रचितयालापैः शिशूनां कलभाषिणाम्
गृहेषु कूटधर्मेषु दुःखतन्त्रेष्वतन्द्रितः
कुर्वन्दुःखप्रतीकारं सुखवन्मन्यते गृही
अर्थैरापादितैर्गुर्व्या हिंसयेतस्ततश्च तान्
पुष्णाति येषां पोषेण शेषभुग्यात्यधः स्वयम्
वार्तायां लुप्यमानायामारब्धायां पुनः पुनः
लोभाभिभूतो निःसत्त्वः परार्थे कुरुते स्पृहाम्
कुटुम्बभरणाकल्पो मन्दभाग्यो वृथोद्यमः
श्रिया विहीनः कृपणो ध्यायन्छ्वसिति मूढधीः
एवं स्वभरणाकल्पं तत्कलत्रादयस्तथा
नाद्रियन्ते यथा पूर्वं कीनाशा इव गोजरम्
तत्राप्यजातनिर्वेदो भ्रियमाणः स्वयम्भृतैः
जरयोपात्तवैरूप्यो मरणाभिमुखो गृहे
आस्तेऽवमत्योपन्यस्तं गृहपाल इवाहरन्
आमयाव्यप्रदीप्ताग्निरल्पाहारोऽल्पचेष्टितः
वायुनोत्क्रमतोत्तारः कफसंरुद्धनाडिकः
कासश्वासकृतायासः कण्ठे घुरघुरायते
शयानः परिशोचद्भिः परिवीतः स्वबन्धुभिः
वाच्यमानोऽपि न ब्रूते कालपाशवशं गतः
एवं कुटुम्बभरणे व्यापृतात्माजितेन्द्रियः
म्रियते रुदतां स्वानामुरुवेदनयास्तधीः
यमदूतौ तदा प्राप्तौ भीमौ सरभसेक्षणौ
स दृष्ट्वा त्रस्तहृदयः शकृन्मूत्रं विमुञ्चति
यातनादेह आवृत्य पाशैर्बद्ध्वा गले बलात्
नयतो दीर्घमध्वानं दण्ड्यं राजभटा यथा
तयोर्निर्भिन्नहृदयस्तर्जनैर्जातवेपथुः
पथि श्वभिर्भक्ष्यमाण आर्तोऽघं स्वमनुस्मरन्
क्षुत्तृट्परीतोऽर्कदवानलानिलैः सन्तप्यमानः पथि तप्तवालुके
कृच्छ्रेण पृष्ठे कशया च ताडितश्चलत्यशक्तोऽपि निराश्रमोदके
तत्र तत्र पतन्छ्रान्तो मूर्च्छितः पुनरुत्थितः
पथा पापीयसा नीतस्तरसा यमसादनम्
योजनानां सहस्राणि नवतिं नव चाध्वनः
त्रिभिर्मुहूर्तैर्द्वाभ्यां वा नीतः प्राप्नोति यातनाः
आदीपनं स्वगात्राणां वेष्टयित्वोल्मुकादिभिः
आत्ममांसादनं क्वापि स्वकृत्तं परतोऽपि वा
जीवतश्चान्त्राभ्युद्धारः श्वगृध्रैर्यमसादने
सर्पवृश्चिकदंशाद्यैर्दशद्भिश्चात्मवैशसम्
कृन्तनं चावयवशो गजादिभ्यो भिदापनम्
पातनं गिरिशृङ्गेभ्यो रोधनं चाम्बुगर्तयोः
यास्तामिस्रान्धतामिस्रा रौरवाद्याश्च यातनाः
भुङ्क्ते नरो वा नारी वा मिथः सङ्गेन निर्मिताः
अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते
या यातना वै नारक्यस्ता इहाप्युपलक्षिताः
एवं कुटुम्बं बिभ्राण उदरम्भर एव वा
विसृज्येहोभयं प्रेत्य भुङ्क्ते तत्फलमीदृशम्
एकः प्रपद्यते ध्वान्तं हित्वेदं स्वकलेवरम्
कुशलेतरपाथेयो भूतद्रोहेण यद्भृतम्
दैवेनासादितं तस्य शमलं निरये पुमान्
भुङ्क्ते कुटुम्बपोषस्य हृतवित्त इवातुरः
केवलेन ह्यधर्मेण कुटुम्बभरणोत्सुकः
याति जीवोऽन्धतामिस्रं चरमं तमसः पदम्
अधस्तान्नरलोकस्य यावतीर्यातनादयः
क्रमशः समनुक्रम्य पुनरत्राव्रजेच्छुचिः

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने कर्मविपाकोनाम त्रिंशोऽध्यायः ॥ 

श्रीभगवानुवाच

कर्मणा दैवनेत्रेण जन्तुर्देहोपपत्तये
स्त्रियाः प्रविष्ट उदरं पुंसो रेतःकणाश्रयः
कललं त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम्
दशाहेन तु कर्कन्धूः पेश्यण्डं वा ततः परम्
मासेन तु शिरो द्वाभ्यां बाह्वङ्घ्र्याद्यङ्गविग्रहः
नखलोमास्थिचर्माणि लिङ्गच्छिद्रोद्भवस्त्रिभिः
चतुर्भिर्धातवः सप्त पञ्चभिः क्षुत्तृडुद्भवः
षड्भिर्जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणे
मातुर्जग्धान्नपानाद्यैरेधद्धातुरसम्मते
शेते विण्मूत्रयोर्गर्ते स जन्तुर्जन्तुसम्भवे
कृमिभिः क्षतसर्वाङ्गः सौकुमार्यात्प्रतिक्षणम्
मूर्च्छामाप्नोत्युरुक्लेशस्तत्रत्यैः क्षुधितैर्मुहुः
कटुतीक्ष्णोष्णलवण रूक्षाम्लादिभिरुल्बणैः
मातृभुक्तैरुपस्पृष्टः सर्वाङ्गोत्थितवेदनः
उल्बेन संवृतस्तस्मिन्नन्त्रैश्च बहिरावृतः
आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः
अकल्पः स्वाङ्गचेष्टायां शकुन्त इव पञ्जरे
तत्र लब्धस्मृतिर्दैवात्कर्म जन्मशतोद्भवम्
स्मरन्दीर्घमनुच्छ्वासं शर्म किं नाम विन्दते
आरभ्य सप्तमान्मासाल्लब्धबोधोऽपि वेपितः
नैकत्रास्ते सूतिवातैर्विष्ठाभूरिव सोदरः
नाथमान ऋषिर्भीतः सप्तवध्रिः कृताञ्जलिः
स्तुवीत तं विक्लवया वाचा येनोदरेऽर्पितः

जन्तुरुवाच

तस्योपसन्नमवितुं जगदिच्छयात्त
नानातनोर्भुवि चलच्चरणारविन्दम्
सोऽहं व्रजामि शरणं ह्यकुतोभयं मे
येनेदृशी गतिरदर्श्यसतोऽनुरूपा
यस्त्वत्र बद्ध इव कर्मभिरावृतात्मा
भूतेन्द्रियाशयमयीमवलम्ब्य मायाम्
आस्ते विशुद्धमविकारमखण्डबोधम्
आतप्यमानहृदयेऽवसितं नमामि
यः पञ्चभूतरचिते रहितः शरीरे
च्छन्नोऽयथेन्द्रियगुणार्थचिदात्मकोऽहम्
तेनाविकुण्ठमहिमानमृषिं तमेनं
वन्दे परं प्रकृतिपूरुषयोः पुमांसम्
यन्माययोरुगुणकर्मनिबन्धनेऽस्मिन्
सांसारिके पथि चरंस्तदभिश्रमेण
नष्टस्मृतिः पुनरयं प्रवृणीत लोकं
युक्त्या कया महदनुग्रहमन्तरेण
ज्ञानं यदेतददधात्कतमः स देवस्
त्रैकालिकं स्थिरचरेष्वनुवर्तितांशः
तं जीवकर्मपदवीमनुवर्तमानास्
तापत्रयोपशमनाय वयं भजेम
देह्यन्यदेहविवरे जठराग्निनासृग्
विण्मूत्रकूपपतितो भृशतप्तदेहः
इच्छन्नितो विवसितुं गणयन्स्वमासान्
निर्वास्यते कृपणधीर्भगवन्कदा नु
येनेदृशीं गतिमसौ दशमास्य ईश
सङ्ग्राहितः पुरुदयेन भवादृशेन
स्वेनैव तुष्यतु कृतेन स दीननाथः
को नाम तत्प्रति विनाञ्जलिमस्य कुर्यात्
पश्यत्ययं धिषणया ननु सप्तवध्रिः
शारीरके दमशरीर्यपरः स्वदेहे
यत्सृष्टयासं तमहं पुरुषं पुराणं
पश्ये बहिर्हृदि च चैत्यमिव प्रतीतम्
सोऽहं वसन्नपि विभो बहुदुःखवासं
गर्भान्न निर्जिगमिषे बहिरन्धकूपे
यत्रोपयातमुपसर्पति देवमाया
मिथ्या मतिर्यदनु संसृतिचक्रमेतत्
तस्मादहं विगतविक्लव उद्धरिष्य
आत्मानमाशु तमसः सुहृदात्मनैव
भूयो यथा व्यसनमेतदनेकरन्ध्रं
मा मे भविष्यदुपसादितविष्णुपादः

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने जीवगतिर्नामैकत्रिंशोऽध्यायः ॥

कपिल उवाच

एवं कृतमतिर्गर्भे दशमास्यः स्तुवन्नृषिः
सद्यः क्षिपत्यवाचीनं प्रसूत्यै सूतिमारुतः
तेनावसृष्टः सहसा कृत्वावाक्षिर आतुरः
विनिष्क्रामति कृच्छ्रेण निरुच्छ्वासो हतस्मृतिः
पतितो भुव्यसृङ्मिश्रः विष्ठाभूरिव चेष्टते
रोरूयति गते ज्ञाने विपरीतां गतिं गतः
परच्छन्दं न विदुषा पुष्यमाणो जनेन सः
अनभिप्रेतमापन्नः प्रत्याख्यातुमनीश्वरः
शायितोऽशुचिपर्यङ्के जन्तुः स्वेदजदूषिते
नेशः कण्डूयनेऽङ्गानामासनोत्थानचेष्टने
तुदन्त्यामत्वचं दंशा मशका मत्कुणादयः
रुदन्तं विगतज्ञानं कृमयः कृमिकं यथा
इत्येवं शैशवं भुक्त्वा दुःखं पौगण्डमेव च
अलब्धाभीप्सितोऽज्ञानादिद्धमन्युः शुचार्पितः
सह देहेन मानेन वर्धमानेन मन्युना
करोति विग्रहं कामी कामिष्वन्ताय चात्मनः
भूतैः पञ्चभिरारब्धे देहे देह्यबुधोऽसकृत्
अहं ममेत्यसद्ग्राहः करोति कुमतिर्मतिम्
तदर्थं कुरुते कर्म यद्बद्धो याति संसृतिम्
योऽनुयाति ददत्क्लेशमविद्याकर्मबन्धनः
यद्यसद्भिः पथि पुनः शिश्नोदरकृतोद्यमैः
आस्थितो रमते जन्तुस्तमो विशति पूर्ववत्
सत्यं शौचं दया मौनं बुद्धिः श्रीर्ह्रीर्यशः क्षमा
शमो दमो भगश्चेति यत्सङ्गाद्याति सङ्क्षयम्
तेष्वशान्तेषु मूढेषु खण्डितात्मस्वसाधुषु
सङ्गं न कुर्याच्छोच्येषु योषित्क्रीडामृगेषु च
न तथास्य भवेन्मोहो बन्धश्चान्यप्रसङ्गतः
योषित्सङ्गाद्यथा पुंसो यथा तत्सङ्गिसङ्गतः
प्रजापतिः स्वां दुहितरं दृष्ट्वा तद्रूपधर्षितः
रोहिद्भूतां सोऽन्वधावदृक्षरूपी हतत्रपः
तत्सृष्टसृष्टसृष्टेषु को न्वखण्डितधीः पुमान्
ऋषिं नारायणमृते योषिन्मय्येह मायया
बलं मे पश्य मायायाः स्त्रीमय्या जयिनो दिशाम्
या करोति पदाक्रान्तान्भ्रूविजृम्भेण केवलम्
सङ्गं न कुर्यात्प्रमदासु जातु योगस्य पारं परमारुरुक्षुः
मत्सेवया प्रतिलब्धात्मलाभो वदन्ति या निरयद्वारमस्य
योपयाति शनैर्माया योषिद्देवविनिर्मिता
तामीक्षेतात्मनो मृत्युं तृणैः कूपमिवावृतम्
यां मन्यते पतिं मोहान्मन्मायामृषभायतीम्
स्त्रीत्वं स्त्रीसङ्गतः प्राप्तो वित्तापत्यगृहप्रदम्
तामात्मनो विजानीयात्पत्यपत्यगृहात्मकम्
दैवोपसादितं मृत्युं मृगयोर्गायनं यथा
देहेन जीवभूतेन लोकाल्लोकमनुव्रजन्
भुञ्जान एव कर्माणि करोत्यविरतं पुमान्
जीवो ह्यस्यानुगो देहो भूतेन्द्रियमनोमयः
तन्निरोधोऽस्य मरणमाविर्भावस्तु सम्भवः
द्रव्योपलब्धिस्थानस्य द्रव्येक्षायोग्यता यदा
तत्पञ्चत्वमहंमानादुत्पत्तिर्द्रव्यदर्शनम्
यथाक्ष्णोर्द्रव्यावयव दर्शनायोग्यता यदा
तदैव चक्षुषो द्रष्टुर्द्रष्टृत्वायोग्यतानयोः
तस्मान्न कार्यः सन्त्रासो न कार्पण्यं न सम्भ्रमः
बुद्ध्वा जीवगतिं धीरो मुक्तसङ्गश्चरेदिह
सम्यग्दर्शनया बुद्ध्या योगवैराग्ययुक्तया
मायाविरचिते लोके चरेन्न्यस्य कलेवरम्

कपिल उवाच

अथ यो गृहमेधीयान्धर्मानेवावसन्गृहे
काममर्थं च धर्मान्स्वान्दोग्धि भूयः पिपर्ति तान्
स चापि भगवद्धर्मात्काममूढः पराङ्मुखः
यजते क्रतुभिर्देवान्पित्ंश्च श्रद्धयान्वितः
तच्छ्रद्धयाक्रान्तमतिः पितृदेवव्रतः पुमान्
गत्वा चान्द्रमसं लोकं सोमपाः पुनरेष्यति
यदा चाहीन्द्रशय्यायां शेतेऽनन्तासनो हरिः
तदा लोका लयं यान्ति त एते गृहमेधिनाम्
ये स्वधर्मान्न दुह्यन्ति धीराः कामार्थहेतवे
निःसङ्गा न्यस्तकर्माणः प्रशान्ताः शुद्धचेतसः
निवृत्तिधर्मनिरता निर्ममा निरहङ्कृताः
स्वधर्माप्तेन सत्त्वेन परिशुद्धेन चेतसा
सूर्यद्वारेण ते यान्ति पुरुषं विश्वतोमुखम्
परावरेशं प्रकृतिमस्योत्पत्त्यन्तभावनम्
द्विपरार्धावसाने यः प्रलयो ब्रह्मणस्तु ते
तावदध्यासते लोकं परस्य परचिन्तकाः
क्ष्माम्भोऽनलानिलवियन्मनैन्द्रियार्थ
भूतादिभिः परिवृतं प्रतिसञ्जिहीर्षुः
अव्याकृतं विशति यर्हि गुणत्रयात्माकालं
पराख्यमनुभूय परः स्वयम्भूः
एवं परेत्य भगवन्तमनुप्रविष्टाये
योगिनो जितमरुन्मनसो विरागाः
तेनैव साकममृतं पुरुषं पुराणं
ब्रह्म प्रधानमुपयान्त्यगताभिमानाः
अथ तं सर्वभूतानां हृत्पद्मेषु कृतालयम्
श्रुतानुभावं शरणं व्रज भावेन भामिनि
आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः
योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः
भेददृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा
कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम्
स संसृत्य पुनः काले कालेनेश्वरमूर्तिना
जाते गुणव्यतिकरे यथापूर्वं प्रजायते
ऐश्वर्यं पारमेष्ठ्यं च तेऽपि धर्मविनिर्मितम्
निषेव्य पुनरायान्ति गुणव्यतिकरे सति
ये त्विहासक्तमनसः कर्मसु श्रद्धयान्विताः
कुर्वन्त्यप्रतिषिद्धानि नित्यान्यपि च कृत्स्नशः
रजसा कुण्ठमनसः कामात्मानोऽजितेन्द्रियाः
पित्न्यजन्त्यनुदिनं गृहेष्वभिरताशयाः
त्रैवर्गिकास्ते पुरुषा विमुखा हरिमेधसः
कथायां कथनीयोरु विक्रमस्य मधुद्विषः
नूनं दैवेन विहता ये चाच्युतकथासुधाम्
हित्वा शृण्वन्त्यसद्गाथाः पुरीषमिव विड्भुजः
दक्षिणेन पथार्यम्णः पितृलोकं व्रजन्ति ते
प्रजामनु प्रजायन्ते श्मशानान्तक्रियाकृतः
ततस्ते क्षीणसुकृताः पुनर्लोकमिमं सति
पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः
तस्मात्त्वं सर्वभावेन भजस्व परमेष्ठिनम्
तद्गुणाश्रयया भक्त्या भजनीयपदाम्बुजम्
वासुदेवे भगवति भक्तियोगः प्रयोजितः
जनयत्याशु वैराग्यं ज्ञानं यद्ब्रह्मदर्शनम्
यदास्य चित्तमर्थेषु समेष्विन्द्रियवृत्तिभिः
न विगृह्णाति वैषम्यं प्रियमप्रियमित्युत
स तदैवात्मनात्मानं निःसङ्गं समदर्शनम्
हेयोपादेयरहितमारूढं पदमीक्षते
ज्ञानमात्रं परं ब्रह्म परमात्मेश्वरः पुमान्
दृश्यादिभिः पृथग्भावैर्भगवानेक ईयते
एतावानेव योगेन समग्रेणेह योगिनः
युज्यतेऽभिमतो ह्यर्थो यदसङ्गस्तु कृत्स्नशः
ज्ञानमेकं पराचीनैरिन्द्रियैर्ब्रह्म निर्गुणम्
अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणा
यथा महानहंरूपस्त्रिवृत्पञ्चविधः स्वराट्
एकादशविधस्तस्य वपुरण्डं जगद्यतः
एतद्वै श्रद्धया भक्त्या योगाभ्यासेन नित्यशः
समाहितात्मा निःसङ्गो विरक्त्या परिपश्यति
इत्येतत्कथितं गुर्वि ज्ञानं तद्ब्रह्मदर्शनम्
येनानुबुद्ध्यते तत्त्वं प्रकृतेः पुरुषस्य च
ज्ञानयोगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षणः
द्वयोरप्येक एवार्थो भगवच्छब्दलक्षणः
यथेन्द्रियैः पृथग्द्वारैरर्थो बहुगुणाश्रयः
एको नानेयते तद्वद्भगवान्शास्त्रवर्त्मभिः
क्रियया क्रतुभिर्दानैस्तपःस्वाध्यायमर्शनैः
आत्मेन्द्रियजयेनापि सन्न्यासेन च कर्मणाम्
योगेन विविधाङ्गेन भक्तियोगेन चैव हि
धर्मेणोभयचिह्नेन यः प्रवृत्तिनिवृत्तिमान्
आत्मतत्त्वावबोधेन वैराग्येण दृढेन च
ईयते भगवानेभिः सगुणो निर्गुणः स्वदृक्
प्रावोचं भक्तियोगस्य स्वरूपं ते चतुर्विधम्
कालस्य चाव्यक्तगतेर्योऽन्तर्धावति जन्तुषु
जीवस्य संसृतीर्बह्वीरविद्याकर्मनिर्मिताः
यास्वङ्ग प्रविशन्नात्मा न वेद गतिमात्मनः
नैतत्खलायोपदिशेन्नाविनीताय कर्हिचित्
न स्तब्धाय न भिन्नाय नैव धर्मध्वजाय च
न लोलुपायोपदिशेन्न गृहारूढचेतसे
नाभक्ताय च मे जातु न मद्भक्तद्विषामपि
श्रद्दधानाय भक्ताय विनीतायानसूयवे
भूतेषु कृतमैत्राय शुश्रूषाभिरताय च
बहिर्जातविरागाय शान्तचित्ताय दीयताम्
निर्मत्सराय शुचये यस्याहं प्रेयसां प्रियः
य इदं शृणुयादम्ब श्रद्धया पुरुषः सकृत्
यो वाभिधत्ते मच्चित्तः स ह्येति पदवीं च मे

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेये द्वात्रिंशोऽध्यायः ॥

मैत्रेय उवाच

एवं निशम्य कपिलस्य वचो जनित्रीसा कर्दमस्य दयिता किल देवहूतिः
विस्रस्तमोहपटला तमभिप्रणम्यतुष्टाव तत्त्वविषयाङ्कितसिद्धिभूमिम्

देवहूतिरुवाच

अथाप्यजोऽन्तःसलिले शयानं भूतेन्द्रियार्थात्ममयं वपुस्ते
गुणप्रवाहं सदशेषबीजं दध्यौ स्वयं यज्जठराब्जजातः
स एव विश्वस्य भवान्विधत्ते गुणप्रवाहेण विभक्तवीर्यः
सर्गाद्यनीहोऽवितथाभिसन्धिरात्मेश्वरोऽतर्क्यसहस्रशक्तिः
स त्वं भृतो मे जठरेण नाथ कथं नु यस्योदर एतदासीत्
विश्वं युगान्ते वटपत्र एकः शेते स्म मायाशिशुरङ्घ्रिपानः
त्वं देहतन्त्रः प्रशमाय पाप्मनां निदेशभाजां च विभो विभूतये
यथावतारास्तव सूकरादयस्तथायमप्यात्मपथोपलब्धये
यन्नामधेयश्रवणानुकीर्तनाद्यत्प्रह्वणाद्यत्स्मरणादपि क्वचित्
श्वादोऽपि सद्यः सवनाय कल्पते कुतः पुनस्ते भगवन्नु दर्शनात्
अहो बत श्वपचोऽतो गरीयान्यज्जिह्वाग्रे वर्तते नाम तुभ्यम्
तेपुस्तपस्ते जुहुवुः सस्नुरार्या ब्रह्मानूचुर्नाम गृणन्ति ये ते
तं त्वामहं ब्रह्म परं पुमांसं प्रत्यक्स्रोतस्यात्मनि संविभाव्यम्
स्वतेजसा ध्वस्तगुणप्रवाहं वन्दे विष्णुं कपिलं वेदगर्भम्

मैत्रेय उवाच

ईडितो भगवानेवं कपिलाख्यः परः पुमान्
वाचाविक्लवयेत्याह मातरं मातृवत्सलः

कपिल उवाच

मार्गेणानेन मातस्ते सुसेव्येनोदितेन मे
आस्थितेन परां काष्ठामचिरादवरोत्स्यसि
श्रद्धत्स्वैतन्मतं मह्यं जुष्टं यद्ब्रह्मवादिभिः
येन मामभयं याया मृत्युमृच्छन्त्यतद्विदः

मैत्रेय उवाच

इति प्रदर्श्य भगवान्सतीं तामात्मनो गतिम्
स्वमात्रा ब्रह्मवादिन्या कपिलोऽनुमतो ययौ
सा चापि तनयोक्तेन योगादेशेन योगयुक्
तस्मिन्नाश्रम आपीडे सरस्वत्याः समाहिता
अभीक्ष्णावगाहकपिशान्जटिलान्कुटिलालकान्
आत्मानं चोग्रतपसा बिभ्रती चीरिणं कृशम्
प्रजापतेः कर्दमस्य तपोयोगविजृम्भितम्
स्वगार्हस्थ्यमनौपम्यं प्रार्थ्यं वैमानिकैरपि
पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः
आसनानि च हैमानि सुस्पर्शास्तरणानि च
स्वच्छस्फटिककुड्येषु महामारकतेषु च
रत्नप्रदीपा आभान्ति ललना रत्नसंयुताः
गृहोद्यानं कुसुमितै रम्यं बह्वमरद्रुमैः
कूजद्विहङ्गमिथुनं गायन्मत्तमधुव्रतम्
यत्र प्रविष्टमात्मानं विबुधानुचरा जगुः
वाप्यामुत्पलगन्धिन्यां कर्दमेनोपलालितम्
हित्वा तदीप्सिततममप्याखण्डलयोषिताम्
किञ्चिच्चकार वदनं पुत्रविश्लेषणातुरा
वनं प्रव्रजिते पत्यावपत्यविरहातुरा
ज्ञाततत्त्वाप्यभून्नष्टे वत्से गौरिव वत्सला
तमेव ध्यायती देवमपत्यं कपिलं हरिम्
बभूवाचिरतो वत्स निःस्पृहा तादृशे गृहे
ध्यायती भगवद्रूपं यदाह ध्यानगोचरम्
सुतः प्रसन्नवदनं समस्तव्यस्तचिन्तया
भक्तिप्रवाहयोगेन वैराग्येण बलीयसा
युक्तानुष्ठानजातेन ज्ञानेन ब्रह्महेतुना
विशुद्धेन तदात्मानमात्मना विश्वतोमुखम्
स्वानुभूत्या तिरोभूत मायागुणविशेषणम्
ब्रह्मण्यवस्थितमतिर्भगवत्यात्मसंश्रये
निवृत्तजीवापत्तित्वात्क्षीणक्लेशाप्तनिर्वृतिः
नित्यारूढसमाधित्वात्परावृत्तगुणभ्रमा
न सस्मार तदात्मानं स्वप्ने दृष्टमिवोत्थितः
तद्देहः परतः पोषोऽप्यकृशश्चाध्यसम्भवात्
बभौ मलैरवच्छन्नः सधूम इव पावकः
स्वाङ्गं तपोयोगमयं मुक्तकेशं गताम्बरम्
दैवगुप्तं न बुबुधे वासुदेवप्रविष्टधीः
एवं सा कपिलोक्तेन मार्गेणाचिरतः परम्
आत्मानं ब्रह्मनिर्वाणं भगवन्तमवाप ह
तद्वीरासीत्पुण्यतमं क्षेत्रं त्रैलोक्यविश्रुतम्
नाम्ना सिद्धपदं यत्र सा संसिद्धिमुपेयुषी
तस्यास्तद्योगविधुत मार्त्यं मर्त्यमभूत्सरित्
स्रोतसां प्रवरा सौम्य सिद्धिदा सिद्धसेविता
कपिलोऽपि महायोगी भगवान्पितुराश्रमात्
मातरं समनुज्ञाप्य प्रागुदीचीं दिशं ययौ
सिद्धचारणगन्धर्वैर्मुनिभिश्चाप्सरोगणैः
स्तूयमानः समुद्रेण दत्तार्हणनिकेतनः
आस्ते योगं समास्थाय साङ्ख्याचार्यैरभिष्टुतः
त्रयाणामपि लोकानामुपशान्त्यै समाहितः
एतन्निगदितं तात यत्पृष्टोऽहं तवानघ
कपिलस्य च संवादो देवहूत्याश्च पावनः
य इदमनुशृणोति योऽभिधत्ते कपिलमुनेर्मतमात्मयोगगुह्यम्
भगवति कृतधीः सुपर्णकेतावुपलभते भगवत्पदारविन्दम्

इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने त्रयस्त्रिंशोऽध्यायः ॥ 


Discourse between Kapil and his mother

Categories: Sanskrit Documents

Tagged as: ,