Sanskrit Documents

जैमिनीयब्राह्मणम् -Jaimiya Brahmanam

जैमिनीयब्राह्मणम्

तदाहुः केन जुहोति कस्मिन्हूयत इति ।

प्राणेनैव जुहोति प्राणे हूयते ।
तद्यदेतदग्नीन्मन्थन्ति यजमानस्यैव तत्प्राणाञ्जनयन्ति ।
तद्यावद्वै मन्थन्ति न तर्हि प्राणिति ।
अरण्योरेवास्य तर्हि प्राणा भवन्ति ।
तस्य वै मथ्यमानस्य भस्मावशीयते ।
अन्नमेवास्य तज्जायते ।
अन्नं म एतदजनीत्येव तद्विद्यात् ।
धूमोऽनु निनर्दति ।
मन एवास्य तज्जायते ।
मनो म एतदजनीत्येव तद्विद्यात् ।
अङ्गारोऽनु निर्वर्तते ।
चक्षुरेवास्य तज्जायते ।
चक्षुर्म एतदजनीत्येव तद्विद्यात् ।
स एषोऽङ्गार एतानि भस्मानि ग्रसते ।
यथा कुमारो जातस्स्तनमभिपद्येत तथा तिर्यङ्विसर्पति ।
श्रोत्रमेवास्य तज्जायते ।
श्रोत्रं म एतदजनीत्येव तद्विद्यात् ।
उपरि तृणानि धुनोति ।
प्राण एवास्य स जायते ।
प्राणो म एषोऽजनीत्येव तद्विद्यात् ।
भा इत्युद्दीप्यते ।
वागेवास्य सा जायते ।
वाङ्म एषाजनीत्येव तद्विद्यात् ।
स एतान्पञ्च प्राणाञ्जनयते ।
तांस्त्रेधा व्यूह्य देवान्कृत्वा तेषु जुह्वदास्ते ।
देवा हैवास्य देवा भवन्ति ।
इमे त्वेवास्य देवा भवन्ति येषु जुह्वदास्ते १

तद्यदाहुः केन जुहोति कस्मिन्हूयत इति प्राणेनैव जुहोति प्राणे हूयते ।
तदेतदन्नं प्राणे जुहोति ।
स एषोऽनकाममार इमान्हि प्राणानभि वर्धयमानस्य तेषु जुह्वदास्ते ।
अथैतद्ध वाव ब्राह्मणस्य स्वं यद्धविः ।
तदात्मन्निधत्त एष्वमृतेषु प्राणेषु ।
तदस्यात्मन्निहितं न प्रमीयते ।
तद्यदा वै मन उत्क्रामति यदा प्राणो यदा चक्षुर्यदा श्रोत्रं यदा वागेतानेवाग्नीनभिगच्छति ।
अथास्येदं शरीरमेतेष्वेवाग्निष्वनुप्रविध्यन्ति अस्माद्वै त्वमजायथा एष त्वज्जायतां स्वाहा इति ।
सोऽत आहुतिमयो मनोमयः प्राणमयश्चक्षुर्मयश्श्रोत्रमयो वाङ्मय ऋङ्मयो यजुर्मयस्साममयो ब्रह्ममयो हिरण्यमयोऽमृतस्संभवति ।
अमृता हैवास्य प्राणा भवन्ति ।
अमृतशरीरमिदं कुरुते ।
सोऽमृतत्वं गच्छति य एवं विद्वानग्निहोत्रं जुहोति २

प्रजापतिस्सहस्रसंवत्सरमास्त ।
स सप्त शतानि वर्षाणां समाप्येमामेव जितिमजयद्यास्येयं जितिस्ताम् ।
स स्वर्गं लोकमारोहन्देवानब्रवीदेतानि यूयं त्रीणि शतानि वर्षाणां समापयाथेति ।
तथेति ।
ते त्रीणि शतानि वर्षाणां समाप्य तामु एव जितिमजयन्यां प्रजापतिरजयत् ।
त एते सर्व एव प्रजापतिमात्रा अया३मया३मिति ।
तेऽब्रुवन्देवशरीरैर्वा इदममृतशरीरैस्समापाम न वा इदं मनुष्यास्समाप्स्यन्ति ।
एतेमं यज्ञं संभरामेति ।
तं संवत्सरमभिसमभरन् ।
तेऽब्रुवन्महद्वा इदं समेव भरामेति ।
तं द्वादशाहमभिसमभरन् ।
तेऽब्रुवन्महद्वा इदं समेव भरामेति ।
तं पृष्ठ्यं षडहमभिसमभरन् ।
तेऽब्रुवन्महद्वा इदं समेव भरामेति ३

तं त्रिरात्रं तं द्विरात्रं तमप्तोर्यामं तमतिरात्रं तं वाजपेयं तं षोडशिनं तमुक्थ्यं तमग्निष्टोमं तमिष्टिपशुबन्धांस्तं चातुर्मास्यानि तं दर्शपूर्णमासौ तमेते अग्निहोत्राहुती अभिसमभरन् ।
सोऽतो न पराजयते ।
तद्वा अपराजितं यदग्निहोत्रम् ।
न ह वै पराजयते य एवं वेद ।
स यत्पुरस्तादप उपस्पृशति सत्यं वा आपस्सत्यं दीक्षा दीक्षैवास्य सा ।
अग्निर्ज्योतिर्ज्योतिरग्निस्स्वाहा इत्यष्टाक्षरेण जुहोति ।
अष्टाक्षरा गायत्री ।
तदेव प्रातःसवनम् ।
मनसा निष्केवल्येनोत्तरामाहुतिं जुहोति ।
तदेव माध्यन्दिनं सवनम् ।
उपमृष्टे प्राश्नाति ।
तदेव तृतीयसवनम् ।
लेलिहितमिव हि तत्तृतीयसवनम् ।
उपरिष्टादप उपस्पृशति ।
अवभृथ एवास्य सः ।
स यदेते सायमाहुती जुहोत्येताभ्यामेवास्याहुतिभ्यां सर्वैरेतैर्यज्ञक्रतुभिरिष्टं भवति ।
अथ यदेते प्रातराहुती जुहोत्येताभ्यामेवास्याहुतिभ्यां सर्वैरेतैर्यज्ञक्रतुभिरिष्टं भवति ।
तदेतदपर्यन्तं यदग्निहोत्रम् ४

अथ पशुकामस्सायं पशुषु समेतेष्वग्निहोत्रं जुहुयात् ।
ब्रह्म वा अग्निहोत्रम् ।
ब्रह्मणैवैतत्पशून्परिगृह्णाति ।
अविसृष्टेषु प्रातः ।
ब्रह्म वा अग्निहोत्रम् ।
ब्रह्मणैवैतत्पशून्परिगृह्णाति ।
स एतान्ब्रह्मणोभयतः पशून्परिगृह्णीते ।
अव पशून्रुन्द्धे ।
बहुपशुर्भवति ।
अथ स्वर्गकामः द्वौ समुद्रा वचर्यौ विततौ महान्तावावरीवर्तेते पथेव पदौ इति ।
द्वौ हैव समुद्रा वचर्यावहश्चैव रात्रिश्च ।
ते ये नक्तं जुह्वति रात्रिमेव ते समुद्रं प्रविशन्ति ।
अथ य उदिते जुह्वत्यहरेव ते समुद्रं प्रविशन्ति ।
तयोर्वा एतयोरत्ययनमस्ति यथा वै षवं षचं वा स्यात्सेतोर्वा संक्रमणम् ।
अस्तमिते पुरा तमिस्रायै सुव्युष्टायां पुरोदयात् ५

अथो हैतौ श्यामशबलावेव यदहोरात्रे ।
अहर्वै शबलो रात्रिश्श्यामः ।
ते ये नक्तं जुह्वति रात्रिमेव ते श्यामं प्रविशन्ति ।
अथ य उदिते जुह्वत्यहरेव ते शबलं प्रविशन्ति ।
तयोरेतदेवात्ययनमस्तमिते पुरा तमिस्रायै सुव्युष्टायां पुरोदयात् ।
अथो हैषु सवितैव द्युम्नः ।
सविता वै प्रजापतिः प्रजापतिर्विश्वे देवाः ।
प्रजापतावेवास्य तद्विश्वेषु देवेषु हुतं भवति ।
तदेतत्प्राजापत्यं यदग्निहोत्रम् ।
अथ यदेतत्प्रातः प्रभात्येतस्मिन्वै द्युम्ने प्रजापतिः प्रजाः प्रजनयां चकार ।
सविता वै प्रजापतिः प्रजापतिर्विश्वे देवाः प्रजापतावेवास्य तद्विश्वेषु देवेषु हुतं भवति ।
तदेतद्वैश्वदेवं यदग्निहोत्रम् ।
अथो हैतदहोरात्रे एवंमुखं संधत्तः ।
अन्नं वा अग्निहोत्रम् ।
अन्नाद्यमेवैतदहोरात्रयोर्मुखतोऽपिदधाति ।
एवमेव पुनः प्रातस्संधत्तः ।
अन्नं वा अग्निहोत्रम् ।
अन्नाद्यमेवैतदहोरात्रयोर्मुखतोऽपिधायैतौ पुनर्मृत्यू अतिमुच्यते यदहोरात्रे ६

असौ वा आदित्योऽस्तं यन्षोढा विम्रोचति ।
व्यम्रुचदिति ह स्म वा एतं पूर्वं पुराणिन आचक्षते ।
अथैतर्हि न्यम्रुचदिति ।
स वा एषोऽस्तं यन्ब्राह्मणमेव श्रद्धया प्रविशति पयसा पशूंस्तेजसाग्निमूर्जौषधी रसेनापस्स्वधया वनस्पतीन् ।
स यद्ब्राह्मणोऽग्निहोत्रपात्राणि निर्णेनेक्ति यत्परिचेष्टति ययैवैनं श्रद्धया प्रविष्टो भवति तामेवास्मिंस्तत्संभरति ।
अथ यत्पयो दुहन्ति येन पयसा पशून्प्रविष्टो भवति तदेवास्मिंस्तत्संभरति ।
अथ यदङ्गारान्निरूहति येन तेजसाग्निं प्रविष्टो भवति तदेवास्मिंस्तत्संभरति ।
अथ यत्तृणेनावद्योतयति ययोर्जौषधीः प्रविष्टो भवति तामेवास्मिंस्तत्संभरति ।
अथ यदपः प्रत्यानयति येन रसेनापः प्रविष्टो भवति तमेवास्मिंस्तत्संभरति ।
अथ यत्समिधमभ्यादधाति यया स्वधया वनस्पतीन्प्रविष्टो भवति तामेवास्मिंस्तत्संभरति ७

तमेवं संभृत्य सायं जुहोति ।
स तां गर्भकृतो रात्रिं वसति ।
एवमेव पुनस्संभृत्य प्रातर्जुहोति ।
तं जनयति ।
सोऽस्य जायमान एव सर्वं पाप्मानमपहन्ति ।
देवा वै प्रजापतेरजायन्त ।
एष उ एवंविदो जायते ।
स यावन्तं प्रजाप्तिर्लोकमजयत्तावन्तं जयति ।
अथो हेक्षतेऽयं वाव माम अनुष्ठ्या संभरति हन्तायं साङ्गस्सतनुरविह्रुतो जरसं गच्छत्विति ।
स ह साङ्ग एव सतनुरविह्रुतो जरसं गच्छति ।
अथो हेक्षतेऽयं वाव मामनुष्ठ्या वेद हन्तेममेवाविशानीति ।
स हैवंविदमेवाविशति ।
स एष वा एको वीरो य एष तपत्येष इन्द्र एष प्रजापतिः ।
एतस्मिन्हास्य तद्धुतं भवति य एवं विद्वानग्निहोत्रं जुहोति ८

यद्ध वा अह्ना पापं क्रियत आदित्यस्तत्कारयति ।
यद्रा त्र्! याग्निस्तत् ।
तावब्रूतामित्थं चेद्वै भविष्यावो न वै तर्हि शक्ष्यावः प्रजा भर्तुम् ।
हन्तान्नमेवासावान्योन्यस्मिन्नेवात्मानं जुहवावेति ।
स यदादित्योऽस्तमेत्यग्नावेव तदात्मानं जुहोति ।
स यत्किं चादित्योऽह्ना पापं करोति तदस्याग्नी रात्र्! यापहन्ति ।
आदित्यमुद्यन्तमग्निरनूदेति ।
आदित्य एव तदात्मानं जुहोति ।
स यत्किं चाग्नी रात्र्! या पापं करोति तदस्यादित्योऽह्नापहन्ति ।
स यथाहिरहिच्छव्यै निर्मुच्येत यथा मुञ्जादिषीकां विवृहेदेवमेव सर्वस्मात्पाप्मनो निर्मुच्यते स य एवं विद्वानग्निहोत्रं जुहोति ९

सायमाहुत्यैव यत्किं चाह्ना पापं करोति तदस्याग्नी रात्र्! यापहन्ति ।
प्रातराहुत्यैव यत्किं च रात्र्! या पापं करोति तदस्यादित्योऽह्नापहन्ति ।

सयथाहिरहिच्छव्यै निर्मुच्येत यथा मुञ्जादिषीकां विवृहेदेवमेव सर्वस्मात्पाप्मनो निर्मुच्यते ।
तद्यथा हिरण्ये ध्माते न कश्चन न्यङ्गः पाप्मा परिशिष्यत एवं हैवास्मिन्न कश्चन न्यङ्गः पाप्मा परिशिष्यते य एवं विद्वानग्निहोत्रं जुहोति १०

अथ ह स्माह नगरी जानश्रुतेयोऽसौ वा आदित्योऽस्तं यन्नग्निमेव योनिं प्रविशतीति ।
स यदेते सायमाहुती जुहोत्येतस्यैव तदादित्यस्य पृष्ठे प्रतितिष्ठति ।
यथोभयापदी प्रतितिष्ठेत्तादृक्तत् ।
अथ यदेते प्रातराहुती जुहोत्युत्थापयत्येवैनं ताभ्याम् ।
स यथा हस्ती हस्त्यासनमुपर्यासीनमादायोत्तिष्ठेदेवमेवैषा देवताइतद्विद्वांसं जुह्वतमादायोदेति ।
सैनं तं लोकं गमयति य एतस्यै यतः परं नास्ति ।
स यत्किं च पराचीनमादित्यात्तदमृतं तदभिजयति ।
अथ यदर्वाचीनमादित्यादहोरात्रे तदुपमथ्नीतामितो यथा रेष्मणोपमथ्न्यादेवम् ।
बहवो ह वा आदित्यात्पराञ्चो लोकाः ।
तेऽस्य सर्व आप्ता भवन्ति ते जिताः ।
तेष्वस्य सर्वेषु कामचारो भवति य एवं विद्वानग्निहोत्रं जुहोति ११

देवा वै मृत्युना समयतन्त ।
स यो ह स मृत्युरग्निरेव सः ।
तेऽब्रुवन्नेतेमं जिगीषामेति ।
तेऽब्रुवन्नाज्याहुतिं जुहवाम तयैनं जिगीषामेति ।
तथेति ।
त आज्याहुतिमजुहवुः ।
तामन्नमकुरुत तां प्रत्युददीप्यत
तस्माद्यत्राज्याहुतिं जुह्वति प्रत्युद्दीप्यत एव ।
तेऽब्रुवन्पश्वाहुतिं जुहवाम तयैनं जिगीषामेति ।
तह्तेति ।
ते पशुमालभ्य मेदस्समवदाय पश्वाहुतिमजुहवुः ।
तामन्नमकुरुत तां प्रत्युददीप्यत ।
तस्माद्यत्र पश्वाहुतिं जुह्वति प्रत्युद्दीप्यत एव ।
तेऽब्रुवन्क्षीराहुतिं जुहवाम तयैनं जिगीषामेति ।
तथेति ।
ते क्षीराहुतिमजुहवुः ।
तयैनमजयन् ।
तस्माद्यत्र क्षीराहुतिं जुह्वत्यङ्गारा एव भवन्ति ।
तेऽब्रुवन्नजेष्म वा एनमन्नेन हन्तानपजय्यं जिगीषामेति १२

तेऽब्रुवन्सोमाहुतिं जुहवाम तयैनं जिगीषामेति ।
तथेति ।
ते सोमेनायजन्त ।
ते सोमाहुतिमजुहवुः ।
तयैनं प्राजयन् ।
तस्माद्यत्र सोमाहुतिं जुह्वत्यङ्गारा एव भवन्ति ।
स य एवं विद्वानाज्याहुतिं च पश्वाहुतिं जुहोति प्रियमेवास्य तेन धामोपगच्छति ।
अथ यत्क्षीराहुतिं जुहोति जयत्येवैनं तेन ।
अथ यत्सोमाहुतिं जुहोति यथा जित्वा प्रजयेत्तादृक्तत् ।
स एतौ पुनर्मृत्यू अतिमुच्यते यदहोरात्रे १३

सोमाहुतिघट्टः ।
प्राणाय त्वा इति समिधमभ्यादधाति ।
अपानेऽमृतमधां स्वाहा इति जुहोति ।
अथ स्रुचमभिमृशति हृदयं प्रेतिर्संततिश्चक्षुरानतिश्श्रोत्रमुपनतिर्वागागतिः ।
प्रतीतं देवेभ्यो जुष्ठं हव्यमस्थात् ।
अमृते मामधात् ।
आ मां प्राणा विशन्तु भूयसे सुकृताय इति ।
स ह भूय एव सुकृतं करोति ।
अथो हैनममुष्मिँ ल्लोके न पापिवागागच्छति य एवं विद्वानग्निहोत्रं जुहोति १४

तदाहुर्यज्जीवन्पुरुषः करोत्येव साधु करोति पापं का तयोर्दुष्कृतसुकृतयोर्व्यावृत्तिरिति ।
यद्ध वै जीवन्पुरुषस्साधु करोति प्राणांस्तदभिसंपद्यते ।
अथ यद्दुष्कृतं शरीरं तत् ।
स यदस्माल्लोकादेवंवित्प्रैति तस्य प्राणेन सह सुकृतमुत्क्रामति शरीरेण सह दुष्कृतं हीयते ।
तदाहुर्दुर्विदितं वैतद्यदा मर्त्यवान्दुष्कृतेन सह वसात् ।
यो वा एतेन जीवन्नेव व्यावर्तते तत्सुविदितमिति ।
तद्वा एतदग्निहोत्रमेवाभिसंपद्यते १५

मनो वा अनु प्राणा वाचमन्वात्मा ।
स यद्वाचा पूर्वमाहुतिं जुहोति मनसोत्तरां तद्दुष्कृतसुकृते व्यावर्तयति ।
तस्मादाहुर्नैते आहुती संसृज्ये ।
दुष्कृतसुकृते ह्येताभ्यां व्यावर्तयतीति ।
स यत्सायमाहुत्योर्वाचा पूर्वामाहुतिं जुहोति यदेवाह्ना पापं करोति तस्मादेव तया व्यावर्तते ।
अथ यन्मनसोत्तरां यदेव रात्र्! या पापं करोति तस्मादेव तया व्यावर्तते ।
अथ यत्प्रातराहुत्योर्वाचा पूर्वामाहुतिं जुहोति यदेव रात्र्! या पापं करोति तस्मादेव तया व्यावर्तते ।
अथ यन्मनसोत्तरां यदेवाह्ना पापं करोति तस्मादेव तया व्यावर्तते ।
स एषोऽहरहर्दुष्कृतेन व्यावर्तमान एति य एवं विद्वानग्निहोत्रं जुहोति १६

द्वे ह वाव योनी ।
देवयोनिर्हैवान्या मनुष्ययोनिरन्या ।
द्वा उ हैव लोकौ ।
देवलोको हैवान्यो मनुष्यलोकोऽन्यः ।
सा या मनुष्ययोनिर्मनुष्यलोक एव सः ।
तत्स्त्रियै प्रजननम् ।
अतोऽधि प्रजाः प्रजायन्ते ।
तस्मादु कल्याणीं जायामिच्छेत कल्याणे म आत्मा संभवादिति ।
तस्मादु जायां जुगुप्सेन्नेन्मम योनौ मम लोकेऽन्यस्संभवादिति ।
तस्य वै संभविष्यतः प्राणा अग्रे प्रविशन्त्यथ रेतस्सिच्यते ।
स इमान्प्राणानाकाशानभिनिर्वर्तते ।
तस्मादु समानस्यैव रेतसस्सतो यादृश एव भवति तादृशो जायते ।
अथैषा देवयोनिर्देवलोको यदाहवनीयः ।
एषा ह वै देवयोनिर्देवलोकः ।
तस्माद्यो गार्हपत्ये जुहुयादकृतं करोतीत्येवैनं मन्येरन् ।
स यज्जुहोति यस्साधु करोत्येतस्यामेवैनद्देवयोनावात्मानं सिञ्चति ।
सोऽस्यात्मामुष्मिन्नादित्ये संभवति ।
स हैवं विद्वान्द्व्यात्मा द्वियोनिः ।
एकात्मा हैवैकयोनिरेतदविद्वान्स यदस्माल्लोकादेवंवित्प्रति – १७

तस्य प्राणः प्रथम उत्क्रामति ।
स हेयत्तां देवेभ्य आचष्ट इयदस्य साधु कृतमियत्पापमिति ।
अथ हायं धूमेन सहोर्ध्व उत्क्रामति ।
तस्य हैतस्यर्तवो द्वारपाः ।
तेभ्यो हैतेन प्रब्रुवीत
विचक्षणादृतवो रेत आभृतमर्धमास्यं प्रसुतात्पित्र्! यावतः
तं मा पुंसि कर्तर्येरयध्वं पुंसः कर्तुर्मातर्यासिषिक्त
स उपजायोपजायमानो द्वादशेन त्रयोदशोपमासः
सं तद्विदे प्रति तद्विदेऽहं तं मा ऋतवोऽमृत आनयध्वम्
इति ।
तं हर्तव आनयन्ते ।
यथा विद्वान्विद्वांसं यथा जानञ्जानन्तमेवं हैनमृतव आनयन्ते ।
तं हात्यर्जयन्ते ।
स हैतमागच्छति तपन्तम् ।
तं हागतं पृच्छति कस्त्वमसि इति ।
स यो ह नाम्ना वा गोत्रेण वा प्रब्रूते तं हाह यस्तेऽयं मय्यात्माभूदेष ते सः इति ।
तस्मिन्हात्मन्प्रतिपन्न ऋतवस्संपलाय्य पद्गृहीतमपकर्षन्ति ।
तस्य हाहोरात्रे लोकमाप्नुतः ।
तस्मादु हैतेन प्रब्रुवीत कोऽहमस्मि सुवस्त्वम् ।
स त्वां स्वर्ग्यं स्वरगामिति ।
को ह वै प्रजापतिः ।
अथ हैवंविदेव सुवर्गः ।
स हि सुवर्गच्छति ।
तं हाह यस्त्वमसि सोऽहमस्मि ।
योऽहमस्मि स त्वमस्येहि इति ।
स एतमेव सुकृतरसमप्येति ।
तस्य पुत्रा दायमुपयन्ति पितरस्साधुकृत्याम् ।
स हैवं विद्वान्द्व्यात्मा द्विदायः ।
एकात्मा हैवैकदाय एतदविद्वानग्निहोत्रं जुहोति १८

वाग्वा अग्निहोत्री ।
तस्यै मन एव वत्सः ।
मनसा वै वाचं प्रत्तां दुह्रे ।
वत्सेन वै मातरं प्रत्तां दुह्रे ।
तद्वा इदं मनः पूर्वं यत्पश्चा वागन्वेति तस्माद्वत्सं पूर्वं यन्तं पश्चा मातान्वेति ।
हृदयमेव मेथ्युपदोहनी प्राणो रज्जुः ।
प्राणेनैव वाक्च मनश्चाभिहिते ।
रज्ज्वा वै वत्सं च मातरं चाभिदधाति ।
तद्ध जनको वैदेहो याज्ञवल्क्यं पप्रच्छ वेत्थाग्निहोत्रं याज्ञवल्क्या३ इति ।
वेदेति होवाच ।
किमिति ।
पय इति ।
यत्पयो न स्यात्केन जुहुया इति ।
व्रीहियवाभ्यामिति ।
यद्व्रीहियवौ न स्यातां केन जुहुया इति ।
यदन्यद्धान्यं तेनेति ।
यदन्यद्धान्यं न स्यात्केन जुहुया इति ।
आरण्याभिरोषधीभिरिति ।
यदारण्या ओषधयो न स्युः केन जुहुया इति ।
अद्भिरिति ।
यदापो न स्युः केन जुहुया इति ।
स होवाच न वा इह तर्हि किं चनासीदथैतदु हूयत इव सत्यं श्रद्धायामिति ।
तं होवाच वेत्थाग्निहोत्रं याज्ञवल्क्य नमस्तेऽस्तु सहस्रं भगवो दद्म इति ।
अथ हैनमुपजगौ किं स्विद्विद्वान्प्रवसति – । १९

– अग्निहोत्री गृहेभ्यः
कथा तदस्य काव्यं कथा संततोऽग्निभिः
इति ।
यदग्नीनाधायाथापप्रवसति कथमस्यानपप्रोषितं भवतीति ।
स होवाच वाजसनेयः
यो जविष्ठो भुवनेषु स विद्वान्प्रवसन्विदे
तथा तदस्य काव्यं तथा संततोऽग्निभिः
इति ।
मन इति होवाच ।
मनो वाव भुवनेषु जविष्ठम् ।
मनसैवास्यानपप्रोषितं भवतीति ह तदुवाच ।
अथ हैनमुपजगौ
यत्स दूरं परेत्याथ तत्र प्रमाद्यत्
कस्मिन्सास्य हुताहुतिर्गृहे यामस्य जुह्वति
इति ।
स होवाच वाजसनेयः
यो जागार भुवनेषु स विद्वान्प्रवसन्विदे
तस्मिन्सास्य हुताहुतिर्गृहे यामस्य जुह्वति
इति ।
प्राण इति होवाच ।
प्राणो वाव भुवनेषु जागरः ।
प्राण एवास्य सा हुताहुतिर्भवति ।
तस्मादाहुः प्राणोऽग्निहोत्रमिति ।
यावद्ध्येव प्राणेन प्राणिति तावदग्निहोत्रं जुहोति २०

रौद्रं गवि वायव्यमुपसृष्टमाश्विनं दुह्यमानमग्नीषोमीयं दुग्धं पौष्णाः प्रेन्दवो मैत्रश्शरो वारुणमधिश्रितं वैष्णवं प्रतिष्ठाप्यमानं वैश्वदेवमुन्नीतं सवितुः प्रक्रान्तं द्यावापृथिव्योरुपसन्नमिन्द्रा ग्न्योः पूर्वाहुतिः प्रजापतेरुत्तरा ।
तदेतत्सप्तदशमग्निहोत्रम् ।
सप्तदश उ एवा वाजपेयः ।
स य एवं विद्वानग्निहोत्रं जुहोत्युभावेव लोकावभिजयति यश्चाग्निहोत्रहुतो यश्च वाजपेययाजिनः ।
त्रयोऽग्निहोत्रे स्थाणव इति ह स्माह शाण्डिल्यः ।
यदप्रदीप्तायां समिधि जुहोति स स्थाणुः ।
यदेनामपराध्नोति स स्थाणुः ।
यदेने संसृजत्स स्थाणुः ।
आदीप्तायै समिधस्समुन्मुखे जुहोति ।
अतिहायोत्तरामाहुतिं जुहोति ।
प्र ह सप्तदशसप्तदश सहस्रपोषान्पुष्यति य एवं विद्वानग्निहोत्रं जुहोति २१

आरुणिर्वाजसनेयो बर्कुर्वार्ष्णः प्रियो जानष्रुतेयो बुडिल आश्वतराश्विर्वैयाघ्रपद्य इत्येते ह पञ्च महाब्रह्मा आसुः । अथैतेषां महतां ब्राह्मणानां समुदितमारुणेर्जीवलस्य कारीरादेरषाढस्य सावयस्येन्द्र द्युम्नस्य भाल्लवेयस्येति ।
ते होचुर्जनको वा अयं वैदेहोऽग्निहोत्रेऽनुशिष्टः स नोऽतिवदन्निव मन्यत ।
एत ।
तमग्निहोत्रे कथां वादयिष्याम इति ।

ते हाजग्मुः ।
ते ह ब्रह्मचारिणमूचुः प्र णो ब्रूहीति ।
तान्ह प्रोवाच ।

तेभ्यो ह प्रोक्तेभ्यः पृथगासनानि पृथगुदकानि पृथङ्मधुपर्कान्पृथगावसथान्पृथक्पञ्चभ्यः पञ्चापचितीश्चकार ।
अथ हैषां सभाग आवव्राजोप्त्वा केशश्मश्रूणि नखान्निकृत्याज्याभ्यज्य दण्डोपानहं बिभ्रत् ।
तान्होवाच ब्राह्मणाः कथा भगवन्तो नोऽनुसंवादयथेति ।
अति नोऽवादीरिति होचुः ।
अथ हैनाण्पूर्वाः पप्रच्छ ब्राह्मणाः कथा भगवन्तो यूयमग्निहोत्रं जुहुथेति ।
अति वै नोऽवादीरिति होचुर्यो नो भूयसः सतः पूर्वोऽप्राक्षीः ।
गौतम प्रतिब्रूहीति २२

स होवाच यश इत्येव सम्राडहमग्निहोत्रं जुहोमि ।
तस्मादहं यशोऽस्मि ।
यशो वाव मे प्रजायामन्ततो भवितेति ।
तं होवाच गौतम किं यश इति ।
अग्निमुपदिशन्नुवाचेदं यश इत्यदो यश इत्यादित्यम् ।
सोऽहमदो यशोऽस्मिन्यशसि सायं जुहोमीदं यशोऽमुष्मिन्यशसि प्रातर्जुहोमि ।
एतावेव मा तद्गमयिष्यतो यत्र सर्वे कामाः ।
एतौ मे पुनर्मृत्युमपजेष्यत इति ।
सुहुतं देवान्राधयानि इति ह प्रशशंस ।
अथ हापरं पप्रच्छ कथा भगवस्त्वमग्निहोत्रं जुहोषीति ।
स होवाच वाजसनेयः सत्यमित्येव सम्राडहमग्निहोत्रं जुहोमि ।
तस्मादहं सत्यमस्मि ।
तस्मान्मम सत्यमिव वदतः प्रकाश इति ।
तं होवाच याज्ञवल्क्य किं सत्यमिति ।
अग्निमुपदिशन्नुवाचेदं सत्यमित्यदः सत्यमित्यादित्यम् ।
सोऽहमदः सत्यमस्मिन्न्सत्ये सायं जुहोमीदं सत्यममुष्मिन्सत्ये प्रातर्जुहोमि ।
एतावेव मा तद्गमयिष्यतो यत्र सर्वे कामाः ।
एतौ मे पुनर्मृत्युमपजेष्यत इति ।
सुहुतं देवान्राधयानि इति हैव प्रशशंस ।
अथ हापरं पप्रच्छ कथा भगवस्त्वमग्निहोत्रं जुहोषीति २३

स होवाच बर्कुर्वार्ष्णो भूयिष्ठं श्रेष्ठं वित्तानामित्येव सम्राडहमग्निहोत्रं जुहोमि ।
तस्मादहं भूयिष्ठं श्रेष्ठं वित्तानामस्मि ।
भूयिष्ठं वाव मे श्रेष्ठं वित्तानां प्रजायामन्ततो भवितेति ।
तं होवाचाग्निवेश्य किं भूयिष्ठं श्रेष्ठं वित्तानामिति ।
अग्निमुपदिषन्नुवाचेदं भूयिष्ठं श्रेष्ठं वित्तानामित्यदो भूयिष्ठं श्रेष्ठं वित्तानामित्यादित्यम् ।
सोऽहमदो भूयिष्ठं श्रेष्ठं वित्तानामस्मिन्भूयिष्ठे श्रेष्ठे वित्तानां सायं जुहोमीदं भूयिष्ठं श्रेष्ठं वित्तानाममुष्मिन्भूयिष्ठे श्रेष्ठे वित्तानाम्प्रातर्जुहोमि ।
एतावेव मा तद्गमयिष्यतो यत्र सर्वे कामाः ।
एतौ मे पुनर्मृत्युमपजेष्यत इति ।
सुहुतं देवान्राधयानि इति हैव प्रशशंस ।
अथ हापरं पप्रच्छ कथा भगवस्त्वमग्निहोत्रं जुहोषीति ।
स होवाच प्रियो जानश्रुतेयस्तेज इत्येव सम्राडहमग्निहोत्रं जुहोमि तस्मादहं तेजोऽस्मि ।
तेजो वाव मे प्रजायामन्ततो भवितेति ।
तं होवाच काण्ड्वीय किं तेज इति ।
अग्निमुपदिशन्नुवाचेदं तेज इत्यदस्तेज इत्यादित्यम् ।
सोऽहमदस्तेजोऽस्मिंस्तेजसि सायं जुहोमीदं तेजोऽमुष्मिंस्तेजसि प्रातर्जुहोमि ।
एतावेव मा तद्गमयिष्यतो यत्र सर्वे कामाः ।
एतौ मे पुनर्मृत्युमपजेष्यत इति ।
सुहुतं देवान्राधयानि इति हैव प्रशशंस ।
अथ हापरं पप्रच्छ कथा भगवस्त्वमग्निहोत्रं जुहोषीति ।

स होवाच बुडिल आश्वतराश्विर्वैयाघ्रपद्योऽर्काश्वमेधावित्येव सम्राडहमग्निहोत्रं जुहोमि ।
अन्नं ह्येतद्देवानां यदर्कोऽश्वो मेधो मेध्य इति ।
तं होवाच वैयाघ्रपद्य कोऽर्कः कोऽश्वो मेधो मेध्य इति ।
अग्निमुपदिशन्नुवाचायमर्क इत्यसावश्वो मेधो मेध्य इत्यादित्यम् ।
सोऽहममुमश्वं मेधं मेध्यमस्मिन्नर्के सायं जुहोमीममर्कममुष्मिन्नश्वे मेधे मेध्ये प्रातर्जुहोमि ।
एतावेव मा तद्गमयिष्यतो यत्र सर्वे कामाः ।
एतौ मे पुनर्मृत्युमपजेष्यत इति ।
सुहुतमिति ह प्रशस्योवाच यो ह किल मह्यमग्निहोत्र इतिं च गतिं ब्रूयात्तस्मा अहं वरं दद्यामिति ।
ते होचुर्न न्वै वयमग्निहोत्र इतिं च गतिं चानूचिमहे त्वमस्मभ्यमग्निहोत्र इतिं च गतिं च ब्रूहि वयं तुभ्यं पृथक्पञ्च वरान्दद्म इति ।
अग्निमुपदिषन्नुवाचेयमितिरित्यसौ गतिरित्यादित्यम् ।
सोऽहममूं गतिमस्यामितौ सायं जुहोमीमामितिममुष्यां गतौ प्रातर्जुहोमि ।
एतावेव मा तद्गमयिष्यतो यत्र सर्वे कामाः ।
एतौ मे पुनर्मृतुमपजेष्यत इति ।
सुहुतमिति ह प्रशस्योचुर्वरान्वृणीष्व यानदामेति ।
स होवाचैष एव मे वरोऽहमेव युष्मभ्यं पृथक्पञ्च सहस्राणि शताश्वानि ददानीति ।
एतानि वा अग्निहोत्र उपासनान्येते कामाः ।
एतानेव कामानवरुन्द्धे य एवं वेदाथो यस्यैवं विद्वानग्निहोत्रं जुहोति २५

अग्नीनादधानः प्रातरेवोद्धरेत ।
द्विस्सायं द्विः प्रातर्जुहोति ।
चतस्र आहुतयस्संपद्यन्ते ।
चतुष्पदा वै पशवो ये च ग्राम्या ये चारण्याः ।
तेषामेवैतत्प्रत्याशं प्रत्यपचयति ।
एष वै मृत्युर्यदग्नी रिहन्नेव नाम ।
तमेव ताभिराहुतिभिश्शमयित्वा पृथिवीं लोकानां जयत्यग्निं देवं देवानाम् ।
अग्नेर्देवस्य सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वानग्निहोत्रं जुहोति ।
स ततो धूममेव रथं समास्थाय वायोस्सलोकतामभिप्रयाति ।
द्व्यहं जुहोति ।
अष्टावाहुतयस्संपद्यन्ते ।
अष्टाशफा ह वै पशवो ये च ग्राम्या ये चारण्याः ।
तेषामेवैतत्प्रत्याशं प्रत्यपचयति ।
एष वै मृत्युर्यद्वायुरजिर एव नाम ।
तमेव ताभिराहुतिभिश्शमयित्वान्तरिक्षं लोकानां जयति वायुं देवं देवानाम् ।
वायोर्देवस्य सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वानग्निहोत्रं जुहोति २६

स ततो रेष्माणमेव रथं समास्थायादित्यस्य सलोकतामभिप्रयाति ।
त्र्! यहं जुहोति ।
द्वादशाहुतयस्संपद्यन्ते ।
द्वादश मासास्संवत्सरः ।
संवत्सरो वा इदं सर्वम् ।
यदिहाश्नाति यत्पिबति यस्मै कस्मै चन प्रतिव्याददाति सर्वं तदस्यानशितं भवति यावज्जीवानाशकव्रती भवति ।
एष वै मृत्युर्यदादित्यो म्रोचन्नेव नाम ।
तमेव ताभिराहुतिभिश्शमयित्वा दिवं लोकानां जयत्यादित्यं देवं देवानाम् ।
आदित्यस्य देवस्य सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वानग्निहोत्रं जुहोति २७

स ततो रश्मीनेव रथं समास्थाय चन्द्र मसस्सलोकतामभिप्रयाति ।
चतुरहं जुहोति ।
षोडशाहुतयस्संपद्यन्ते ।
षोडशकलं वै ब्रह्म ।
षोडशकला देवाः ।
षोडशकलमिदं सकृत्सर्वम् ।
स यदिह रिप्रं पापं कर्म करोत्येकयैव ततः कलया ।
यथा सुवर्णः प्रवृत्तस्तप्यमानस्सुवर्णतामभिनिष्पद्यत एवमेव द्विषत्सु भ्रातृव्येषु मलं पाप्मानं प्रत्यूह्य स्वर्गं लोकमभिप्रैति ।
एष वै शशो य एषोऽन्तश्चन्द्र मसि ।
एष हीदं सर्वं शास्ति ।
एष वै यमो य एषोऽन्तश्चन्द्र मसि ।
एष हीदं सर्वं यमयति ।
एष मृत्युर्यद्यमोऽत्स्यन्नेव नाम ।
तमेव ताभिराहुतिभिश्शमयित्वोर्जं लोकानां जयति यमं देवं देवानाम् ।
यमस्य देवस्य सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वानग्निहोत्रं जुहोति २८

स ततस्स्वधामेव हिरण्मयीं नावं समारुह्य प्रजापतेस्सलोकतामभिप्रयाति ।
पञ्चाहं जुहोति ।
विंशतिराहुतयस्संपद्यन्ते ।
सविंशो वै प्रजापतिः ।
एष वै मृत्युर्यत्प्रजापतिः प्रभूमानेव नाम ।
तमेव ताभिराहुतिभिश्शमयित्वा नभो लोकानां जयति प्रजापतिं देवं देवानाम् ।
प्रजापतेर्देवस्य सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वानग्निहोत्रं जुहोति २९

तद्यद्वै तन्नभो नामाभीर्वै सा ।
न हि तत्प्राप्य कस्माच्चन बिभेति ।
तस्मात्तन्नभः ।
षडहं जुहोति ।
चतुर्विंशतिराहुतयः संपद्यन्ते ।
चतुर्विंशत्यक्षरा वै गायत्री ।
चतुर्विंशतिर्वसवो देवाः ।
ते गायत्रीमन्वायत्ताः ।
तेभ्यो गायत्रीव वसुभ्यो देवेभ्य एकैकेनाक्षरेण कामान्निकामान्दुहे ।
एवमस्मै जुह्वते दुहे ।
गायत्रीं स छन्दसां जयति वसून्देवान्देवानाम् ।
वसूनां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वानग्निहोत्रं जुहोति ३०

सप्ताहं जुहोति ।
अष्टाविंशतिराहुतयस्संपद्यन्ते ।
अष्टाविंशत्यक्षरा वा उष्णिक् ।
अष्टाविंशतिर्भृग्वङ्गिरसो देवाः ।
त उष्णिहमन्वायत्ताः ।
तेभ्य उष्णिग्भृग्वङ्गिरोभ्यो देवेभ्य एकैकेनाक्षरेण कामान्निकामान्दुहे ।
एवमस्मै जुह्वते दुहे ।
उष्णिहं वै स छन्दसां जयति भृग्वङ्गिरसो देवान्देवानाम् ।
भृग्वङ्गिरसां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वानग्निहोत्रं जुहोति ३१

अष्टाहं जुहोति ।
द्वात्रिंशदाहुतयस्संपद्यन्ते ।
द्वात्रिंशदक्षरा वा अनुष्टुप् ।
द्वात्रिंशद्विश्वे देवाः ।
तेऽनुष्टुभमन्वायत्ताः ।
तेभ्योऽनुष्टुब्विश्वेभ्यो देवेभ्य एकैकेनाक्षरेण कामान्निकामान्दुहे ।
एवमस्मै जुह्वते दुहे ।
अनुष्टुभं वै स छन्दसां जयति विश्वान्देवान्देवानाम् ।
विश्वेषां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वानग्निहोत्रं जुहोति ३२

नवाहं जुहोति ।
षट्त्रिंशदाहुतयस्संपद्यन्ते ।
षऋत्रिंशदक्षरा वै बृहती ।
षट्त्रिंशत्साध्या देवाः ।
ते बृहतीमन्वायत्ताः ।
तेभ्यो बृहती साध्येभ्यो देवेभ्य अकैकेनाक्षरेण कामान्निकामान्दुहे ।
एवमस्मै जुह्वते दुहे ।
बृहतीं वै स छन्दसां जयति साध्यान्देवान्देवानाम् ।
साध्यानां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वानग्निहोत्रं जुहोति ३३

दशाहं जुहोति ।
चत्वारिंशदाहुतयस्संपद्यन्ते ।
चत्वारिंशदक्षरा वै पङ्क्तिः ।
चत्वारिंशन्मरुतो देवाः ।
ते पङ्क्तिमन्वायत्ताः ।
तेभ्यः पङ्क्तिर्मरुद्भ्यो देवेभ्य एकैकेनाक्षरेण कामान्निकामान्दुहे ।
एवमस्मै जुह्वते दुहे ।
पाङ्क्तिं वै स छन्दसां जयति मरुतो देवान्देवानाम् ।
मरुतां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वानग्निहोत्रं जुहोति ३४

एकादशाहं जुहोति ।
चतुश्चत्वारिंशदाहुतयस्संपद्यन्ते ।
चतुश्चत्वारिंशदक्षरा वै त्रिष्टुप् ।
चतुश्चत्वारिंशद्रुद्रा देवाः ।
ते त्रिष्टुभमन्वायत्ताः ।
तेभ्यस्त्रिष्टुब्रुद्रे भ्यो देवेभ्य एकैकेनाक्षरेण कामान्निकामान्दुहे ।
एवमस्मै जुह्वते दुहे ।
त्रिष्टुभं वै छन्दसां जयति रुद्रा न्देवान्देवानाम् ।
रुद्रा णां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वानग्निहोत्रं जुहोति ३५

द्वादशाहं जुहोति ।
अष्टाचत्वारिंशदाहुतयस्संपद्यन्ते ।
अष्टाचत्वारिंशदक्षरा वै जगती ।
अष्टाचत्वारिंशदादित्या देवाः ।
ते जगतीमन्वायत्ताः ।
तेभ्यो जगत्यादित्येभ्यो देवेभ्य एकैकेनाक्षरेण कामान्निकामान्दुहे ।
एवमस्मै जुह्वते दुहे ।
जगतीं वै स छन्दसां जयत्यादित्यान्देवान्देवानाम् ।
आदित्यानां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वानग्निहोत्रं जुहोति ३६

अत्र वै ब्रह्म न विराजत्यनाथमपरायणमनुत्तरम् ।
तद्वै तदग्निहोत्रं द्वादशाहं ब्रह्म जुहुवां चकार ।
तद्द्वादशाहं हुत्वा कीर्तिं यशः प्रजातिममृतं तदुदाजहार ।
तद्वै तदग्निहोत्रं द्वादशाहं ब्रह्म हुत्वा प्रजापतये प्रत्यूह्य स्वर्गं लोकमभ्युच्चक्राम ।
तद्वै तदग्निहोत्रं द्वादशाहं प्रजापतिर्जुहुवां चकार ।
तद्द्वादशाहं हुत्वा प्रज्ञां मेधां मीमांसां तपस्तदुदाजहार ।
तद्वै तदग्निहोत्रं द्वादशाहं प्रजापतिर्हुत्वा देवेभ्यश्चर्षिभ्यश्च प्रत्यूह्य स्वर्गमेव लोकमभ्युच्चक्राम ।
तद्वै तदग्निहोत्रं द्वादशाहं देवाश्चर्षयश्च जुहुवां चक्रुः ।
तद्द्वादशाहं हुत्वा पूर्वेभ्यो मनुष्येभ्यः प्रत्यूह्य स्वर्गमु एव लोकमभ्युच्चक्रामुः ।
तद्वै तदग्निहोत्रं द्वादशाहं ब्रह्म जुहुवां चकार ।
द्वादशाहं प्रजापतिर्द्वादशाहं देवाश्चर्षयश्च ।
तद्द्वादशाहं-द्वादशाहं हुत्वा कामान्निकामानापुः ।
किमु य एनदेवं यावज्जीवं जुहुयात् ३७

तद्वै तदग्निहोत्रं त्र्! यहमेव पयसा जुहुयात् ।
तद्वा अग्निष्टोमस्य रूपम् ।
अग्निष्टोमेनैवास्येष्टं भवति य एवं विद्वानग्निहोत्रं जुहोति ।
तद्वै तदग्निहोत्रं त्र्! यहमेव दध्ना जुहुयात् ।
तद्वै वाजपेयस्य रूपम् ।
वाजपेयेनैवास्येष्टं भवति य एवं विद्वानग्निहोत्रं जुहोति ।
तद्वै तदग्निहोत्रं त्र्! यहमेवाज्येन जुहुयात् ।
तद्वा अश्वमेधस्य रूपम् ।
अश्वमेधेनैवास्येष्टं भवति य एवं विद्वानग्निहोत्रं जुहोति ।
तद्वै तदग्निहोत्रं त्र्! यहमेवाद्भिर्जुहुयात् ।
तद्वै पुरुषमेधस्य रूपम् ।
पुरुषमेधेनैवास्येष्टं भवति य एवं विद्वानग्निहोत्रं जुहोति ।
स्वयमहतवासा यजमानोऽग्निहोत्रं जुहुयादजस्रेष्वग्निष्वप्रवसन् ।
त्रयोदशीं रात्रिं सोमेन वा पशुना वेष्ट्वोत्सृजेत ।
यथा सावसान्कृत्वा प्रार्जयेत्तादृक्तत् ।
तद्वै तदग्निहोत्रं द्वादशाहमेव पूर्वे मनुष्या जुहुवां चक्रुः ।
तस्मात्तेषां दुहे धेनुर्वहत्यनड्वानाधानप्रहितोऽश्वोऽश्वतर उपतिष्ठत्यधिकक्ष्यो हस्ती वहति ३८

उपसृज्याग्निहोत्रीमित्याह उपसृष्टे द्यावापृथिवी ।
रुद्रा उपगृह्णन्ति वसूनां दुग्धम् ।
भूतकृत स्थ निरूढ जन्यं भयमित्यङ्गारान्निरूहति ।
अथाधिश्रयति वैश्वानरस्याधिश्रेतमसि ।
अग्निस्ते तेजो मा प्रतिधाक्षीत् ।
सत्याय त्वा इति ।
अथावद्योतयति सं ज्योतिषा ज्योतिः इति ।
अथापः प्रत्यानयति यस्ते अप्सु रसः प्रविष्टस्तेन संपृच्यस्व इति ।
स यदेवास्य तत्र दिशो ग्रसन्ते तदेवास्य तत्समन्वानयति अन्तरितं रक्षोऽन्तरिता अरातयः इति ।
त्रिः पर्यग्नि करोति ।
अथोद्वासयति दिवं दृंहान्तरिक्षं दृंह पृथिवीं दृंहप्रजां पशूञ्जुह्वतो मे दृह इति ।
भूतकृत स्थ प्रत्यूढं जन्यं भयमित्यङ्गारान्प्रत्यूहति ।
अथ स्रवं च स्रुचं चादाय निष्टपति प्रत्युष्टं रक्षः प्रतुष्टा अरातयः इति ।
अथ स्रुचं संमार्ष्टि सजूर्देवेभ्यस्सायंयावभ्यः इति सायम् ।
सजूर्देवेभ्यः प्रातर्यावभ्यः इति प्रातः ।
सुवर्णां त्वां सुवर्णमयीम् ।
हिरण्ययष्टिरस्यमृतपलाशा स्रोतो यज्ञानामिति ।
स्रोतो हैव स यज्ञानां भवति ।
अथाह उन्नेष्यामि इति ।
ॐ मामहं स्वर्गं लोकमभि इति ब्रूयात् ३९

स यं प्रथमं स्रुवमुन्नयति तद्वै दर्शपूर्णमासयो रूपम् ।
दर्शपूर्णमासाभ्यामेवास्येष्टं भवति य एवं विद्वान्प्रथमं स्रुवमुन्नयति ।
अथ यं द्वितीयं स्रुवं तद्वै चातुर्मास्यानां रूपम् ।
चातुर्मास्यैरेवास्येष्टं भवति य एवं विद्वान्द्वितीयं स्रुवमुन्नयति ।
अथ यं तृतीयं स्रुवमुन्नयति तद्वा इष्टिपशुबन्धानां रूपम् ।
इष्टिपशुबन्धैरेवास्येष्टं भवति य एवं विद्वांस्तृतीयं स्रुवमुन्नयति ।
अथ यं चतुर्थं स्रुवमुन्नयति तद्वै त्र्! यम्बकवाजपेयाश्वमेधानां रूपम् ।
त्र्! यम्बकवाजपेयाश्वमेधैरेवास्येष्टं भवति य एवं विद्वांश्चतुर्थं स्रुवमुन्नयति ।
अथ समिधमादाय प्राङ्प्रति ।
पुरुष इत्समित् ।
तमन्नमिन्द्धे अन्नस्य मा तेजसा स्वर्गं लोकं गमय ।
यत्र देवानामृषीणां प्रियं धाम तत्र म इदमग्निहोत्रं गमय इति तूष्णीमुपसादयति ।
अथ समिधमभ्यादधाति स्वर्गस्य त्वा लोकस्य संक्रमणं हिरण्मयं वंशं दधामि स्वाहा इति ।
अथ जुहोति ।
स यां प्रथमां जुहोति देवांस्तयाप्नोति ।
अथ यां द्वितीयां जुहोत्यृषींस्तयाप्नोति ४०

अथोपमार्ष्टि ।
स यत्प्रथममुपमार्ष्टि तेन गन्धर्वाप्सरसः प्रीणाति ।
तं गन्धर्वाप्सरस आहुश्श्रद्धा ते मा विगात्सर्वैः कामैस्तृप्य स्वर्गं लोकमाप्नुहीति ।
अथ यद्द्वितीयमुपमार्ष्टि तेन ग्रहांश्च पितॄंश्च प्रीणाति ।
तं ग्रहाश्च पितरश्चाहुश्श्रद्धा ते मा विगात्सर्वैः कामैस्तृप्य स्वर्गं लोकमाप्नुहीति ।
अथ यद्द्विरङ्गुल्या प्राश्नाति स यत्प्रथमं प्राश्नाति तेन प्राणापानौ तृप्यतः ।
तं प्राणापानावाहतुश्श्रद्धा ते मा विगात्सर्वैः कामैस्तृप्य स्वर्गं लोकमाप्नुहीति ।
अथ यद्द्वितीयं प्राश्नाति तेनोदानापानौ तृप्यतः ।
तमुदानापानावाहतुश्श्रद्धा ते मा विगात्सर्वैः कामैस्तृप्य स्वर्गं लोकमाप्नुहीति ।
अथ यत्स्रुचा प्राश्नाति तेन समानव्यानौ च गर्भांश्च प्रीणाति ।
तं समानव्यानौ गर्भाश्चाहुश्श्रद्धा ते मा विगात्सर्वैः कामैस्तृप्य स्वर्गं लोकमाप्नुहीति ।
अथ यत्स्रुचं निरश्नाति तेन देवजनान्प्रीणाति ।
तं देवजना आहुश्श्रद्धा ते मा विगात्सर्वैः कामैस्तृप्य स्वर्गं लोकमाप्नुहीति ।
अथ यत्स्रुचस्संक्षालनं निनयति तेन वयांसि प्रीणाति ।
तं वयांस्याहुश्श्रद्धा ते मा विगात्सर्वैः कामैस्तृप्य स्वर्गं लोकमाप्नुहीति ।
अथ या एतास्स्रुचो निर्णिज्योदीचीरप उत्सिञ्चति तेन ऋषीन्प्रीणाति ।
तमृषय आहुश्श्रद्धा ते मा विगात्सर्वैः कामैस्तृप्य स्वर्गं लोकमाप्नुहीति ।
अथ यत्स्थालीसंक्षालनं निनयति तेन सर्पजनान्प्रीणाति ।
तं सर्पजना आहुश्श्रद्धा ते मा विगात्सर्वैः कामैस्तृप्य स्वर्गं लोकमाप्नुहीति ।
अथ यत्पश्चाद्वा पुरस्ताद्वा परिक्रम्य दक्षिणतोऽग्नीनामास्ते प्रजापतिरेव तद्भूत्वास्ते कं अहमस्मि कं मम इति ४१

भृगुर्ह वारुणिरनूचान आस ।
स हात्येव पितरं मेनेऽति देवानत्यन्यान्ब्राह्मणाननूचानान् ।
स ह वरुण ईक्षां चक्रे न वै मे पुत्रः किं चन प्रजानाति ।
हन्तैनं प्रज्ञापयानीति ।
तस्य ह प्राणानभिजग्राह ।
स ह तताम ।
स ह तान्तः परं लोकं जगाम ।
स हामुष्मिँ ल्लोके आजगाम ।
पुरुष एव पुरुषं संवृश्च्याथैनं जघास ।
स होवाचाभूद्बतेदं किं स्विदिदमिति ।
तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति ।
द्वितीयं हाजगाम ।
पुरुष एव पुरुषमाक्रन्दयन्तं जघास ।
स होवाचाभूद्बतेदं किं स्विदिदमिति ।
तं होचुः पितरं वरुणं पृच्छासि स ते इदं प्रवक्तेति ।
तृतीयं हाजगाम ।
पुरुष एव पुरुषं तूष्णीं व्याहरन्तं जघास ।
स होवाचाभूद्बतेदं किं स्विदिदमिति ।
तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति ।
चतुर्थं हाजगाम ।
द्वे स्त्रियौ महद्वित्तं जुगुपतुः ।
स होवाचाभूद्बतेदं किं स्विदिदमिति ।
तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति ।
पञ्चमं हाजगाम ।
लोहितकुल्यां च घृतकुल्यां च प्रबाहुक्स्यन्दमाने ।
सा या लोहितकुल्यास तां कृष्णो नग्नः पुरुषो मुसली जुगोप ।
अथ या घृतकुल्या तस्यै हिरण्मयाः पुरुषा हिरण्मयैश्चमसैस्सर्वान्कामानुदाचिरे ।
स होवाचाभूद्बतेदं किं स्विदिदमिति ।
तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति ।
षष्ठं हाजगाम ।
पञ्च नदीः पुष्करिणीः पुण्डरीकिणीर्मधूदकास्स्यन्दमानाः ।
तासु नृत्तगीतं वीणाघोषोऽप्सरसां गणास्सुरभिर्गन्धो महान्घोषो बभूव ।
स होवाचाभूद्बतेदं किं स्विदिदमिति ।
तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति ४२

स ह तत एवाववृते ।
स ह वरुणमेवाजगाम ।
तं होवाचागास्ताता३ इति ।
आगां ततेति ।
अदर्शस्ताता३ इति ।
अदर्शं ततेति ।
किं ताता३ इति ।
पुरुष एव पुरुषं संवृश्च्याथैनमघदिति ।
ओमिति होवाच ।
ये वा अस्मिँ ल्लोकेऽग्निहोत्रं जुह्वतो नैवंविदो वनस्पतीन्संवृश्च्याभ्यादधति तान्वा अमुष्मिँ ल्लोके वनस्पतयः पुरुषरूपं कृत्वा प्रत्यदन्ति ।
तस्य का निष्कृतिरिति ।
यदेवैतत्समिधमभ्यादधाति सा तस्य निष्कृतिस्तया तदतिमुच्यत इति ।
किं द्वितीयमिति ।
पुरुष एव पुरुषमाक्रन्दयन्तमघदिति ।
ओमिति होवाच ।
ये वा अस्मिँ ल्लोकेऽग्निहोत्रं जुह्वतो नैवंविदः पशूनाक्रन्दयतः पचन्ते तान्वा अमुष्मिँ ल्लोके पशवः पुरुषरूपं कृत्वा प्रत्यदन्ति ।
तस्य का निष्कृतिरिति ।
यदेवैतद्वाचा पूर्वामाहुतिं जुहोति सा तस्य निष्कृतिस्तया तदतिमुच्यत इति ।
किं तृतीयमिति ।
पुरुष एव पुरुषं तूष्णीं व्याहरन्तमघदिति ।
ओमिति होवाच ।
य वा अस्मिँ ल्लोकेऽग्निहोत्रं जुह्वतो नैवंविदो व्रीहियवांस्तूष्णीं व्याहरतः पचन्ते तान्वा अमुष्मिँ ल्लोके व्रीहियवाः पुरुषरूपं कृत्वा प्रत्यदन्ति ।
तस्य का निष्कृतिरिति ।
यदेवैतन्मनसोत्तरामाहुतिं जुहोति सा तस्य निष्कृतिस्तया तदतिमुच्यत इति ।
किं चतुर्थमिति ।
द्वे स्त्रियौ महद्वित्तमजूगुपतामिति ।
ओमिति होवाच ।
श्रद्धा च वै ते अश्रद्धा चाभूताम् ।
ये वा अस्मिँ ल्लोकेऽग्निहोत्रं जुह्वतो नैवंविदोऽश्रद्दधाना यजन्ते तदश्रद्धां गच्छति यच्छ्रद्दधानास्तच्छ्रद्धाम् ।
तस्य का निष्कृतिरिति ।
यदेवैतद्द्विरङ्गुल्या प्राश्नाति सा तस्य निष्कृतिस्तया तदतिमुच्यत इति ४३

किं पञ्चममिति ।
लोहितकुल्यां च घृतकुल्यां च प्रबाहुक्स्यन्दमाने ।
सा या लोहितकुल्याभूत्तां कृष्णो नग्नः पुरुषो मुसली जुगोप ।
अथ या घृतकुल्या तस्यै हिरण्मयाः पुरुषा हिरण्मयैश्चमसैस्सर्वान्कामानुदचन्त इति ।
ओमिति होवाच ।
ये वा अस्मिँ ल्लोकेऽग्निहोत्रं जुह्वतो नैवंविदो ब्राह्मणस्य लोहितमुत्पीडयन्ति सा सा लोहितकुल्या ।
अथ य एनां कृष्णो नग्नः पुरुषो मुसल्यजूगुपत्क्रोधस्स तस्यो तदेवान्नमिति ।
तस्य का निष्कृतिरिति ।
यदेवैतत्स्रुचा प्राश्नाति सा तस्य निष्कृतिस्तया तदतिमुच्यत इति ।
अथ या एतां स्रुचं निर्णिज्योदीचीरप उत्सिञ्चति सा सा घृतकुल्या ।
तस्यै हिरण्मयाः पुरुषा हिरण्मयैश्चमसैस्सर्वान्कामानुदचन्त इति ।

किं षष्ठमिति ।
पञ्च नदीः पुष्करिणीः पुण्डरीकिणीर्मधूदकास्स्यन्दमानाः ।
तासु नृत्तगीतं वीणाघोषोऽप्सरसां गणास्सुरभिर्गन्धो महान्घोषोऽभूदिति ।
ओमिति होवाच ।
ममैवैते लोका अभूवन्निति ।
ते केनाभिजय्या इति ।
एतेनैव पञ्चगृहीतेन पञ्चोन्नीतेनेति ।
स होवाच न वै किलान्यत्राग्निहोत्राल्लोकजित्या अवकाशोऽस्ति ।
अद्यैव मे अग्न्याधेयस्योपवसथ इति ।
तस्य ह तथा चक्रुः ।
स य एवं विद्वानग्निहोत्रं जुहोति नैनममुष्मिँ ल्लोके वनस्पतयः पुरुषरूपं कृत्वा प्रत्यदन्ति न पशवो न व्रीहियवा नास्येष्टापूर्ते श्रद्धां चाश्रद्धां च गच्छतोऽपहते लोहितकुल्यामवरुन्द्धे घृतकुल्याम् ४४

एष वा अग्निर्वैश्वानरो य एष तपति ।
तस्य रात्रिस्समिदहर्ज्योती रश्मयो धूमो नक्षत्राणि विष्फुलिङ्गाश्चन्द्र मा अङ्गाराः ।
तस्मिन्नेतस्मिन्नग्नौ वैश्वानरेऽहरहर्देवा अमृतमपो जुह्वति ।
तस्या आहुतेर्हुतायै सोमो राजा संभवति ।
स्तनयित्नुरेवाग्निर्वैश्वानरः ।
तस्य द्यौस्समिद्विद्युज्ज्योतिरभ्राणि धूमो मरीचयो विष्फुलिङ्गा अशनिरङ्गाराः ।
तस्मिन्नेतस्मिन्नग्नौ वैश्वानरेऽहरहर्देवास्सोमं राजानं जुह्वति ।
तस्या आहुतेर्हुतायै वृष्टिस्संभवति ।
पृथिव्येवाग्निर्वैश्वानरः ।
तस्यान्तरिक्षं समिदग्निर्ज्योतिर्वायुर्धूमो मरीचयो विष्फुलिङ्गा दिशोऽङ्गाराः ।
तस्मिन्नेतस्मिन्नग्नौ वैश्वानरेऽहरहर्देवा वृष्टिं जुह्वति ।
तस्या आहुतेर्हुताया अन्नं संभवति ।
पुरुष एवाग्निर्वैश्वानरः ।
तस्य वाक्समिच्चक्षुर्ज्योतिः प्राणो धूमो मनोऽभिनन्दो विष्फुलिङ्गाश्श्रोत्रमङ्गाराः ।
तस्मिन्नेतस्मिन्नग्नौ वैश्वानरेऽहरहर्देवा अन्नं जुह्वति ।
तस्या आहुतेर्हुतायै रेतस्संभवति ।
स्त्र्! येवाग्निर्वैश्वानरः ।
तस्योपस्थं समिद्योनिर्ज्योतिरिष्या धूमोऽभिनन्दो विष्फुलिङ्गास्संस्पर्शोऽङ्गाराः ।
तस्मिन्नेतस्मिन्नग्नौ वैश्वानरेऽहरहर्देवा रेतो जुह्वति ।
तस्या आहुतेर्हुतायै पुरुषस्संभवति ।
सोऽत्र पञ्चम्यां विसृष्ट्यां पुरुषो देवेभ्यो जायते ।
पञ्चम्यां दिव्या आपः पुरुषवाचो वदन्ति अथ यदामुं लोकमप्येति – ४५

– तस्याग्निर्वैश्वानरः ।
तस्यौषधयश्च वनस्पतयश्च समित् ।
ज्योतिरेव ज्योतिः ।
धूम एव धूमः ।
विष्फुलिङ्गा एव विष्फुलुङ्गाः ।
अङ्गारा एवाङ्गाराः ।
तस्मिन्नेतस्मिन्नग्नौ वैश्वानरेऽहरहर्देवा पुरुषं जुह्वति ।
तस्या आहुतेर्हुतायै पुरुषोऽमुं लोकं संभवति ।
सोऽस्य लोकः पुनरुत्थायै भवति ।
तस्य हैतस्य देवस्याहोरात्रे अर्धमासा मासा ऋतवस्संवत्सरो गोप्ता य एष तपति ।
अहोरात्रे प्रचरे ।
तं हर्तूनामेको यः कूटहस्तो रश्मिना प्रत्यवेत्य पृच्छति कोऽसि पुरुषेति ।
स किं विद्वान्प्रवृञ्ज्यात् ।
तस्य ह प्रहरति ।
तस्य ह प्रतिराद्धस्य त्रेधा साधुकृत्या विनश्यति ।
स तृतीयमादत्ते ।
दिशोऽनु तृतीय व्येति ।
तृतीयेन सहेमं लोकमभ्यवैति ।
स यो हास्य दानजितो लोको भवति तस्मिन्निरमते ।
तमु ह वै ततो मृत्युरेवान्तत आप्नोति ।
अनवजितो हास्य पुनर्मृत्युर्भवति स य एवंवित्स्यात् ।
स यदोपतापी स्याद्यत्रास्य समं सुभूमि स्पष्टं स्यात्तद्ब्रूयादिह मेऽग्निं मन्थतेति ।
ईश्वरो हागदो भवितोः ।
यद्यु तन्न यदस्माल्लोकात्प्रेयादथैनमाददीरन् ।
नानास्थाल्योरग्नी ओप्य हरेयुरन्वाहार्यपचनादुल्मुकम् ।
आददीरन्यज्ञपात्राणि सर्पिरपो दारूण्यनुस्तरणीं क्षुरं नखनिकृन्तनम् ।
ते यन्ति यत्रास्य समं सुभूमि स्पष्टं भवति ।
तदस्याग्नीन्विहरन्ति ४६

अथास्यां दिशि कूपं खात्वा वपन्ति केशश्मश्रूणि ।
उप्त्वा केशश्मश्रूणि नखान्निकृन्तन्ति ।
नखान्निकृत्य निरान्त्रं कुर्वन्ति ।
निरान्त्रं कृत्वा निष्पुरीषं कुर्वन्ति ।
निष्पुरीषं कृत्वा पांसुभिः कूपे पुरीषमभिसंवपन्ति ।
पाप्मानमेवास्य तत्प्रच्छादयन्ति ।
प्रक्षाल्यात्राणि प्रत्यवधायैनमाहरन्ति ।
तमन्तरेणाग्नी निधाय गार्हपत्य आज्यं विलाप्योत्पूय चतुर्गृहीतं गृहीत्वा गत्वाहवनीये समिद्वत्यन्वारब्धे जुहोति अयं वै त्वदस्मादसि त्वमेतद् ।
अयं ते योनिरस्य योनिस्त्वम् ।
पिता पुत्राय लोककृज्जातवेदः ।
नयास्येनं सुकृतां यत्र लोकः ।
अस्माद्वै त्वमजायथा एष त्वज्जायतां स्वाहा इति ।
सोऽत आहुतिमयो मनोमयः प्राणमयश्चक्शुर्मयश्श्रोत्रमयो वाङ्मय ऋङ्मयो यजुर्मयस्साममयो ब्रह्ममयो हिरण्मयोऽमृतस्संभवति ४७

अथैतां चितां चिन्वन्ति ।
तस्यामेनमादधति ।
तस्य नासिकयोस्स्रुवौ निदध्याद्दक्षिणहस्ते जुहूं सव्य उपभृतमुरसि ध्रुवं मुखेऽग्निहोत्रहवणीं शीर्षतश्चमसमिळोपहवनं कर्णयोः प्राशित्रहरणे उदरे पात्रीं समवत्तधानीमाण्डयोर्दृषदुपले शिश्ने शम्यामुपस्थे कृष्णाजिनमनुपृष्ठं स्फ्यं पार्श्वयोर्मुसले च शूर्पे च पत्त उलू-खलम् ।
परिशिष्टानि यज्ञपात्राण्युपरि निदधति ।
अपो मृण्मयान्यभ्यवहरन्ति ददत्येवायस्मयानि ।
अथैनं सर्पिषाभ्युत्पूरयन्ति ।
यज्ञपात्रेषु सर्पिरासिञ्चन्ति ४८

अथैतामनुस्तरणीमानयन्ति ।
तांप्रोक्ष्य त्रिरपसली पर्याणाय्य कूटेन हन्यात् ।
प्रदक्षिणं हैके पर्याणयन्ति ।
तदु तथा न कुर्यात् ।
तस्यै वस्पामुत्खिद्य शीर्ष्णि परिव्ययन्ति ।
हस्तयोर्मतस्नी हृदये हृदयं बाह्वोर्बाहू ।
यथाङ्गमेवेतराण्यङ्गानि विचिन्वन्ति ।
अथैनं चर्मणा प्रोर्ण्वन्ति स्वया तन्वा समृध्यस्व इति ।
संस्तीर्योपादीपयन्ति ।
स तथैव चिकीर्षेद्यथैनमाहवनीयः प्रथमो गच्छेत् ।
तदेनं देवलोकः प्रत्यागच्छति ।
अथ यथान्वाहार्यपचनस्तदेनं पितृलोकः प्रत्यागच्छति ।
अथ यथा गार्हपत्यस्तथास्मिँ ल्लोके प्रजया च पशुभिश्च प्रतितिष्ठति ।
तस्योपादीप्तस्य धूम एव शरीरं धुनोति ।
स यद्धुनोति तस्माद्धुनः ।
धुनो ह वै नामैशः ।
तं धूम इति परोक्षमाचक्षते परोक्षेणैव ।
परोक्षप्रिया इव हि देवाः ।
धूमाद्वै रात्रिमप्येति रात्रिया अहरह्नोऽपोच्छन्तीपक्षमपोच्छन्तीपक्षादापूर्यमाणपक्षमापूर्यमाणपक्षान्मासम् ।
ते अत्र मासे शरीरं चासुश्च संगच्छाते ।
तं हर्तूनामेको यः कूटहस्तो रश्मिना प्रत्यवेत्य पृच्छति कोऽसि पुरुषेति ४९

तं प्रतिब्रूयात्
विचक्षणादृतवो रेत आभृतम्
अर्धमास्यं प्रसुतात्पित्र्! यावतः
इति ।
यददो विचक्षणं सोमं राजानं जुह्वति तत्तत् ।
तं मा पुंसि कर्तर्येरयध्वम्
इति ।
पुंसि ह्येनमेतत्कर्तर्येरयन्ते ।
पुंसः कर्तुर्मातर्यासिषिक्त
इति ।
मातरि ह्येनमासिञ्चति ।
स उपजायोपजायमानस्त्रयोदशेन द्वादशोपमासः
इति ।
एष त्रयोदशो य एष तपति ।
सं तद्विदे प्रति तद्विदेऽहम्
तं मर्तवोऽमृत आनयध्वं द्वादशत्रयोदशेन पित्रा
तया मात्रा तया श्रद्धया तेनान्नाद्येन तेन सत्येन
अहर्मे पिता रात्रिर्माता सत्यमस्मि
तं मर्तवोऽमृत आनयध्वम्
इति ।
तं हर्तव आनयन्ते ।
यथा विद्वान्विद्वांसं यथा जानञ्जानन्तमेवं हैनमृतव आनयन्ते ।
तं हात्यर्जयन्ते ।
स हैष न मनुष्यो य एवं वेद ।
देवानां ह वै स एको य एवंवित् ।
तं ह वै मनोजवसः पितरश्च पितामहाश्च प्रत्यागच्छन्ति ततः किं न आहार्षीरिति ।
तान्प्रतिब्रूयाद्यत्किं च पुण्यमकरं तद्युष्माकमिति ।
तस्य पुत्रा दायमुपयन्ति पितरस्साधुकृत्यां द्विषन्तः पापकृत्याम् ।
स एवमेतत्त्रेधा विभज्यैतस्य सलोकतामप्येति य एष तपति ५०

दीर्घसत्त्रं ह वा एत उपयन्ति येऽग्निहोत्रं जुह्वति ।
एतद्ध वै सत्त्रं जरामूरीयम् ।
जरया वा ह्येवास्मान्मुच्यते मृत्युना वा ।
तदाहुर्यदेतस्य दीर्घसत्त्रिणोऽग्निहोत्रं जुह्वतोऽग्नीनन्तरेण युक्तं वा वियायात्सं वा चरेयुः किं तत्र कर्म का प्रायश्चित्तिरिति ।
वज्रो वै चक्रः ।
वज्रो वा एतस्याग्नीनन्वेति यस्यान्तरेण युक्तं वा वियाति सं वा चरन्ति ।
कुर्वीत हैव निष्कृतिमपि हेष्ट्या यजेत ।
तदु तथा न विद्यात् ।
इमान्वा एष लोकाननुवितनुते योऽग्नीनाधत्ते ।

तस्यायमेव लोको गार्हपत्यो भवत्यन्तरिक्षलोकोऽन्वाहार्यपचनोऽसावेव लोक आहवनीयः ।
कामं वा एषु लोकेषु युक्तं चायुक्तं च वयांसि संचरन्ति ।
स विद्याद्यदि मेऽपि ग्राम एवाग्नीनन्तरेणायासीन्नैव म आर्तिरस्ति न रिष्टिः काचनेति ।
त्रयो ह त्वै ग्राम्याः पशवोऽजुष्टा दुर्वराह एडकश्श्वा ।
तेषां यदि कश्चिदन्तरेण समेजयेत किं तत्र कर्म का प्रायश्चित्तिरिति ५१

तदु हैके छादिमुष्टिमेव निवपन्तो यन्ति गार्हपत्यादाहवनीयादिदं विष्णुर्विचक्रमे इत्येतयर्चा ।
तदु तथा न कुर्यात् ।
यो ह तत्र ब्रूयादासान्न्वा अयं यजमानस्यावाप्सीत्क्षिप्रे परमासानावप्स्यते ज्येष्ठ्यगृह्यं रोत्स्यतीति तथा हैव स्यात् ।
इत्थमेव कुर्यात् ।
उदपात्रं वैवोदकमण्डलुं वादाय गार्हपत्यादाहवनीयान्निनयन्नियादिदं विष्णुर्विचक्रमे इत्येतयैवर्चा ।
देवपवित्रं वा एतद्यदृग्देवपवित्रमेतद्यदापः ।
तद्यदेवात्र यज्ञस्याशान्तं भवति यदमेध्यमापो वै तस्य सर्वस्य शान्तिः ।
अद्भिरेवैनं तच्छमयन्ति ५२

तदाहुर्यदेतस्य दीर्घसत्त्रिणोऽग्निहोत्रं जुह्वतोऽग्निहोत्रं दुह्यमानं स्कन्देत्किं तत्र कर्म का प्रायश्चित्तिरिति ।
यदेव तत्र स्थाल्यां परिशिष्टं स्यात्तेन जुहुयात् ।
यद्यु नीची स्थाली स्यादपि वा भिद्येत किं तत्र कर्म का प्रायश्चित्तिरिति ।
स्कन्नप्रायश्चित्त्यै वाभिमृश्य अस्कन्नधित इति ।
अथ यदन्यद्विन्देत्तेन जुहुयात् ।
यदा वै स्कन्दत्यथ धीयते ।
रेतो वै पयो योनिरियम् ।
योन्यामेवैतद्रे तः प्रतिष्ठापयति ।
अनुष्ठ्यास्य रेतस्सिक्तं प्रजायते य एवं वेद ।
अमुतो वै पर्जन्यस्स्कन्दतीहौषधयो वनस्पतयो जायन्ते ।
पुरुषाद्रे तस्स्कन्दति पशुभ्यः ।
तत इदं सर्वं प्रजातम् ।
स विद्यादुप मा देवाः प्राभूवन्प्रजातिर्मे भूयस्यभूच्छ्रेयान्भविष्यामीति ।
तथा हैव स्यात् ।
अथो यत्रैतद्विभिन्नं तदुदपात्रं वैवोदकमण्डलुं वोपनिनयेद्भूर्भुवस्स्वः इत्येताभिर्व्याहृतिभिः ।
एता वै व्याहृतयस्सर्वप्रायश्चित्तयः ।
तदनेन सर्वेण प्रायश्चित्तिं कुरुते ५३

अथैतानि कपालानि संचित्य यत्राहवनीयस्य भस्मोद्धृतं स्यात्तदुपनिकिरेत् ।
एतदेवात्र कर्म ।
अथो खल्वाहुर्यत्प्राच उद्द्रुतस्य स्कन्देत्किं तत्र कर्म का प्रायश्चित्तिरिति ।
यदेव तत्र स्रुचि परिशिष्टं स्यात्तेन जुहुयात् ।
यद्यु नीची स्रुक्स्यादपि वा भिद्येत किं तत्र कर्म का प्रायश्चित्तिरिति ।
तस्योक्तः प्रत्यभिमर्शः ।
तदु हैके तत एव प्रत्येत्योन्नयन्ति ।
तदु तथा न कुर्यात् ।
यो ह तत्र ब्रूयाद्यदनेनाघ्निहोत्रेणाचिकीर्षीन्न्यवृतत्तस्मान्नास्येदं स्वर्ग्यमिव भविष्यतीति तथा हैव स्यात् ।
इत्थमेव कुर्यात् ।
यत्रैव स्कन्देत्तदुपविशेत् ।
अथास्मिन्स्थालीमाहरेयुस्स्रवं च स्रुचं च निर्णिज्य ।
तदद एवास्योन्नेष्यामीत्युक्तं भवति ।
अथ यथोन्नीतमुन्नीय समिधमादाय प्राक्प्रेयात् ।
तद्यथा प्रत्युत्थायामित्रान्पचेदेवमेवैतदवृत्तिं पाप्मानमपहत्याहुतिं प्राप्नोति ।
तदु हैक उपेव लभन्ते ।
अहुतं तस्य यस्याग्निहोत्रोच्छिष्टेन जुह्वति यातयामं ह्येतदिति वदन्तः ।
तदु तथा न विद्यात् ।
यदा वा एतदयातयामं भवत्यथैतस्यापि हविरातञ्चनं कुर्वन्ति ५४

तदाहुर्यदेतस्य दीर्घसत्त्रिणोऽग्निहोत्रं जुह्वतोऽग्निहोत्रं दुह्यमानममेध्यमापद्येत किं तत्र कर्म का प्रायश्चित्तिरिति ।
तदु हैके होतव्यमेव मन्यन्ते न वै देवाः कस्माच्चन बीभत्सन्त इति वदन्तः ।
तदु तथा न विद्यात् ।
पुरुषो न्वेव बीभत्सेयाद्बीभत्सते बीभत्सान्ता३ इदु देवाः ।
इत्थमेव कुर्यात् ।
गार्हपत्यस्यैवोष्णं भस्म निरूह्य तस्मिन्नेनत्तूष्णीं निनयेत् ।
तन्न हुतं नाहुतम् ।
अद्भिरनुनिनयेत् ।
अद्भिरेवैनदाप्नोति ।
अथ यदन्यद्विन्देत्तेन जुहुयात् ।
अथो खल्वाहुर्यद्दुग्धममेध्यमापद्येत किं तत्र कर्म का प्रायश्चित्तिरिति ।
येष्वेवाङ्गारेष्वधिश्रयिष्यन्स्यात्तानेव प्रत्यूह्य तेष्वेवैनत्तूष्णीं निनयेत् ।
तन्न हुतं नाहुतम् ।
अद्भिरनुनिनयेत् ।
अद्भिरेवैनदाप्नोति ।
अथ यदन्यद्विन्देत्तेन जुहुयात् ।
अथो खल्वाहुर्यदधिश्रितममेध्यमापद्येत किं तत्र कर्म का प्रायश्चित्तिरिति ।
येष्वेवाङ्गारेष्वधिश्रितं स्यात्तानेव प्रत्यूह्य तेष्वेवैनत्तूष्णीं निनयेत् ।
तन्न हुतं नाहुतम् ।
यदहैनत्तेषु निनयति तेन हुतं यद्वेनांस्तेनो एवानुगमयति तेनो अहुतम् ।
अद्भिरनुनिनयेत् ।
अद्भिरेवैनदाप्नोति ।
अथ यदन्यद्विन्देत्तेन जुहुयादथो खल्वाहुः – ५५

– यत्प्रागुद्द्रुतममेध्यमापद्येत किं तत्र कर्म का प्रायश्चित्तिरिति ।
तदु हैके होतव्यमेव मन्यन्ते प्रेतमेतन्नैतस्याहोमः कल्पत इति वदन्तः ।
अथ हैकेऽद्भिरभ्यासिच्य परासिञ्चन्ति ।
तदु तथा न कुर्यात् ।
यो ह तत्र ब्रूयात्पराङ्वा अयमिदमग्निहोत्रमसिञ्चत्परासेक्ष्यतेऽयं यजमान इति तथा हैव स्यात् ।
इत्थमेव कुर्यात् ।
आहवनीय एव समिधमभ्याधायाहवनीयस्यैवोष्णं भस्म निरूह्य तस्मिन्नेनत्तूष्णीं निनयेत् ।
तन्न हुतं नाहुतम् ।
अद्भिरनुनिनयेत् ।
अद्भिरेवैनदाप्नोति ।
अथ यदन्यद्विन्देत्तेन जुहुयात् ।
अथो खल्वाहुर्यदववर्षेत्किं तत्र कर्म का प्रायश्चित्तिरिति ।
स विद्यादुपरिष्टान्मा शुक्रमागात्प्रजातिर्मे भूयस्यभूच्छ्रेयान्भविष्यामीति ।
तथा हैव स्यात् ।
अथो खल्वाहुर्यत्पूर्वस्यामाहुतौ हुतायामङ्गारा अनुगच्छेयुः क्वोत्तरां जुहुयादिति ।
य एव तत्र शकलोऽन्तिकस्स्यात्तमध्यस्य जुहुयात् ।
दारौदारौ ह्यग्निः ।
स यदि तस्यां न तिष्ठेद्धिरण्यमभिजुहुयात् ।
अग्नेर्वा एतद्रे तो यद्धिरण्यम् ।
य उ वै पिता स पुत्रः ।
तस्माद्धिरण्यमभिजुहुयादथो खल्वाहुः – ५६

– यदधिश्रिते यजमानो म्रियेत किं तत्र कर्म का प्रायश्चित्तिरिति ।
पर्याधायैवैनद्विष्यन्दयेत् ।
एतदेवात्र कर्म ।
अथो खल्वेषैव सर्वेषां हविर्यज्ञानां प्रायश्चित्तिः ।
अथो खल्वाहुर्यत्प्राच्युद्द्रुते यजमानो म्रियेत किं तत्र कर्म का प्रायश्चित्तिरिति ।
यदेवादश्चतुर्गृहीतमादिष्टं स्यात्तत्रैवैनदभ्युन्नयेत् ।
एतदेवात्र कर्म ।
अथो खल्वाहुर्यत्पूर्वस्यामाहुतौ हुतायां यजमानो म्रियेत किं तत्र कर्म का प्रायश्चित्तिरिति ।
तदु हैके होतव्यमेव मन्यन्ते कृत्स्नं वा एतस्याग्निहोत्रं हुतं भवति यस्य पूर्वा हुताहुतिर्भवतीति वदन्तः ।
तदु तथा न विद्यात् ।
न वै प्रेतस्याग्निहोत्रं जुहोति ।
यदेवादयश्चतुर्गृहीतमादिष्टं स्यात्तत्रैवैनदभ्युन्नयेत् ।
एतदेवात्र कर्म ५७

तदाहुर्यदेतस्य दीर्घसत्त्रिणोऽग्निहोत्रं जुह्वतोऽग्निहोत्री दुह्यमानोपविशेत्किं तत्र कर्म का प्रायश्चित्तिरिति ।
तामु हैके यजुषोत्थापयन्ति ।
अवृत्तिं वा एषा यजमानस्य पाप्मानं प्रतिदृश्योपविशति यस्याग्निहोत्री दुह्यमानोपविसति ।
तामुत्थापयन्ति उदस्थाद्देव्यदितिः इति ।
इयं वै देव्यदितिः ।
इमामेवास्मै तदुत्थापयन्ति ।
आयुर्यज्ञपतावधादित्यायुरेवास्मिंस्तद्दधति ।
मित्राय वरुणाय च इति प्राणापानौ न्वै मित्रावरुणौ प्राणापानावेवास्मिंस्तद्दधति ।
तां तस्यामेवाहुतौ हुतायां ब्राह्मणाय ददति ।
यं संवत्सरमनभ्यागमिष्यन्तो भवन्त्यवृत्तिमस्मिन्पाप्मानं निवेशयाम इति वदन्तः ५८

तदु होवाच वाजसनेयोऽश्रद्दधानेभ्यो हैभ्यो गौरपक्रामति ।
आर्त्याहुतिं विध्यन्ति ।
इत्थमेव कुर्यात् ।
दण्डमेव लब्ध्वा तेनैनां विपिष्योत्थापयेत् ।
तद्यथा वा अदो धावयतोऽश्वतरो गदायते युक्तो वा बलीवर्द उपविशति तेन दण्डप्रजितेन तोत्त्रप्रजितेन यमध्वानं कामयते तं समश्नुते ।
एवमेवैतया दण्डप्रजितया तोत्त्रप्रजितया यं स्वर्गं लोकं कामयते तं समश्नुते ।
तामात्मन्नेव कुर्वीत ।
आत्मन्नेव तच्छ्रियं धत्त इति ५९

तदाहुर्यदेतस्य दीर्घसत्त्रिणोऽग्निहोत्रं जुह्वतोऽग्निहोत्रीवत्सो नश्येत्किं तत्र कर्म का प्रायश्चित्तिरिति ।
तदु होवाचारुणिर्द्यौर्वा अग्निहोत्री तस्या आदित्य एव वत्स इयमेवाग्निहोत्रस्थाली ।
न ह वा एवंविदोऽग्निहोत्रीवत्सो नश्यति ।
क्व ह्येष नश्येत् ।
नो वा एवंविदोऽग्निहोत्रं दुह्यमानं स्कन्दति ।
अस्यां ह्येवं प्रतितिष्ठति ।
नो वा एवंविदोऽग्निहोत्री दुह्यमानोपविशति ।
यदा वा एषा सुवृष्टं वर्षत्यभिनिषद्येव बतावर्षीदित्येनामाहुः ।
अथो खल्वाहुर्यदेषा लोहितं दुहीत किं तत्र कर्म का प्रायश्चित्तिरिति ।
अवृत्तिं वा एषा यजमानस्य पाप्मानं प्रतिदृश्य दुहे या लोहितं दुहे ।
स व्युत्क्रामतेऽत्युक्त्वान्वाहार्यपचनं परिच्छादयितवै ब्रूयात् ।
तदधिश्रित्य मेक्षणं कृत्वा श्रपयेत् ।
तत्तदेव तूष्णीं निनयेत् ।
अनिरुक्तो वै प्रजापतिः ।
प्राजापत्यमग्निहोत्रम् ।
अथो भूर्भुवं स्वरित्येताभिर्व्याहृतिभिः ।
एता वै व्याहृतयस्सर्वप्रायश्चित्तयः ।
तदनेन सर्वेण प्रायश्चित्तिं कुरुते अथो खल्वाहुः – ६०

यदग्नयोऽनुगच्छेयुः किं तत्र कर्म का प्रायश्चित्तिरिति ।
तमु हैक उल्मुकादेव निर्मन्थन्ति ।
यतो वै मनुष्यस्यान्ततो नश्यति ततो वाव स तस्य प्रायश्चित्तिमिच्छत इति वदन्तः ।
तदु तथा न विद्यात् ।
उल्मुकं ह्येव तत आदाय चरेदुल्मुकस्य वावव्रश्चम् ।
इत्थमेव कुर्यात् ।
उल्मुकादेवापच्छिद्यारण्योरभिविमन्थत् ।
उपाह तं काममाप्नोति य उल्मुकमथ्य उपो तं योऽरण्योः ।
अथो खल्वाहुर्यदाहवनीय उद्धृतोऽनुगच्छेत्किं तत्र कर्म का प्रायश्चित्तिरिति ।
अननुगतो वा एष तावद्भवति यावद्गार्हपत्यो नानुगच्छति ।
स यद्यपि बह्विव कृत्वोऽनुगच्छेत्पुनःपुनरेवैनमुद्धरेत् ।
एतदेवात्र कर्म ।
अथो खल्वाहुर्यदाहवनीय उद्धृते गार्हपत्योऽनुगच्छेत्किं तत्र कर्म का प्रायश्चित्तिरिति ।
तमु हैके तत एव प्राञ्चमुद्धरन्ति ।
तदु तथा न कुर्यात् ।
यो ह तत्र ब्रूयात्प्राचो न्वा अयं यजमानस्य प्राणान्प्रावृक्षन्मरिष्यत्ययं यजमान इति तथा हैव स्यात् ।
तमु हैके तत एव प्रत्यञ्चमाहरन्ति ।
प्राणो वै गृहपत्योऽपान आहवनीयः ।
संविदानौ वा इमौ प्राणापानावन्नमत्त इति वदन्तः ।
अथो गृहो वै गृहपत्यः ।
प्रतिष्ठो वै गृहाः ।
स य एनं तत्र ब्रूयात्प्र न्वा अयमस्यै प्रतिष्ठाया अच्योष्ट मरिष्यत्ययं यजमान इति तथा हैव स्यात् ।

तमु हैके गार्हपत्य एव मथित्वोपसमादधति ।
तदु तथा न कुर्यात् ।
यो ह तत्र ब्रूयादग्नावध्यग्निमजीजनत्क्षिप्रेऽस्य द्विषन्भ्रातृव्यो जनिष्यत इति तथा हैव स्यात् ।
तमु हैकेऽनुगमय्य मन्थन्ति ।
तदु तथा न कुर्यात् ।
यो ह तत्र ब्रूयादपि यत्परिशिष्टमभूत्तदजीजसन्नास्य दायादश्चन परिशेक्ष्यत इति तथा हैव स्यात् ।
इत्थमेव कुर्यात् ।
अरण्योरेव समारोहयेत
अयं ते योनिरृत्वियो यतो जातो अरोचथाः
तं जानन्नग्न आरोहाथा नो वर्धया रयिमथा वर्धया गिरः
इति वा ।
स उदवसाय जुह्वद्वसेत् ।
नवावसाने हास्योभयतोरात्रं हुतं भवति नो कां चन परिचक्षां कुरुते ।
स प्रातर्भस्मोद्धृत्य शकृत्पिण्डेन परिलिप्य यथायथमग्नीनादधीत ।
एतदेवात्र कर्म अथो खल्वाहुर्यदाहवनीयमनुद्धृतम् ६१

अभ्यस्तमियात्किं तत्र कर्म का प्रायश्चित्तिरिति ।
एतस्माद्ध वै विश्वे देवा अपक्रामन्ति यस्याहवनीयमनुद्धृतमभ्यस्तमेति ।
स दर्भेण सुवर्णं हिरण्यं प्रबध्य पश्चाद्धरेत् ।
तदेतस्य रूपं क्रियते य एष तपति ।
अह्नो वा एतद्रू पम् ।
तदह्नो रूपं क्रियते ।
अथेध्ममादीप्य प्राञ्चं हरेयुः ।
तमुपसमाधाय चतुर्गृहीतमाज्यं गृहीत्वा विश्वेभ्यो देवेभ्यस्स्वाहा इति जुहुयात् ।
तद्यथा वा अद आवसथवासिनं क्रुद्धं यन्तमुक्षवेहता वानुमन्त्रयेतान्येन वा प्रियेण धाम्नैवमेव तद्विश्वान्देवाननुमन्त्रयते ।
ते हास्मै सर्व एवाक्रुद्धा भवन्ति ।
अथो खल्वाहुर्यदाहवनीयमनुद्धृतम् ६२

अभ्युदीयात्किं तत्र कर्म का प्रायश्चित्तिरिति ।
एतस्माद्ध वै विश्वे देवा अपक्रामन्ति यस्याहवनीयमनुद्धृतमभ्युदेति ।
स दर्भेण रजतं हिरण्यं प्रबध्य पुरस्ताद्धरेत् ।
तच्चन्द्र मसो रूपं क्रियते ।
रात्रेर्वा एतद्रू पम् ।
तद्रा त्रे रूपं क्रियते ।
अथेध्ममादीप्यान्वञ्चं हरेयुः ।
तमुपसमाधाय चतुर्गृहीतमाज्यं गृहीत्वा विश्वेभ्यो देवेभ्यस्स्वाहा इति जुहुयात् ।
यत्र वै दीप्तं तत्रैतदिह गार्हपत्य इत्येव विद्वानुद्धरेत् ।
असावेव बन्धु ।
अथ हैक आहुरेते ह वै स्वर्गं लोकं पश्यन्तो जुह्वति य आदित्यमिति ।
स यो वा त्वै गतश्रीस्स्याद्यो वास्माल्लोकात्क्षिप्रे प्रजिगांसेत्स उदितहोमी स्यादथो खल्वाहुः – ६३

यदग्नयस्संसृज्येरन्किं तत्र कर्म का प्रायश्चित्तिरिति ।
स यदि परस्तादन्योऽभिदहन्नेयात्स विद्यात्परस्तान्मा शुक्रमागात्प्रजातिर्मे भूयस्यभूच्छ्रेयान्भविष्यामीति ।
तथा हैव स्यात् ।
यदि त्वस्य हृदयं विलिखेदग्नये विविचय इष्टिं निर्वपेत् ।
एता एव पञ्चदश सामिधेनीर्वार्त्रघ्नावाज्यभागौ विराजौ संयाज्ये ।
अथैते याज्यापुरोनुवाक्ये
वि ते विष्वग्वातजूतासो अग्ने भामासश्शुचे शुचयश्चरन्ति
तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः
इति ।
अथ याज्या
त्वामग्ने मानुषीरीळते विशो होत्राविदं विविचिं रत्नधातमम्
गुहा सन्तं सुभग विश्वदर्शतं तुविष्मणसं सुयजं
घृतश्रियम्
इति ।
अथो हैनया पाप्मना व्यावृत्स्यमानो यजेत ।
क्षिप्रे हैव पाप्मनो व्यावर्तते ।
यदि त्वयमितोऽभिदहन्नेयादग्नये संवर्गायेष्टिं निर्वपेत् ।
एता एव पञ्चदश सामिधेनीर्वार्त्रघ्नावाज्यभागौ विराजौ संयाज्ये अथैते याज्यापुरोनुवाक्ये – ६४

मा नो अस्मिन्महाधने परा वर्ग्भारभृद्यथा
सं वर्गं सं रयिं जय
इति ।
अथ याज्या
परस्या अधि संवतो अवरं अभ्या तर
यत्राहमस्मि तं अव
इति ।
अथो हैनया यद्भ्रातृव्यस्य संविवृक्षेत तत्कामो यजेत ।
क्षिप्रे हैवास्य संवृङ्क्ते ।
अथो खल्वाहुर्यदग्नावग्निमभ्युद्धरेत्किं तत्र कर्म का प्रायश्चित्तिरिति ।
अग्नयेऽग्निमत इष्टिं निर्वपेत् ।
एता एव पञ्चदश सामिधेनीर्वार्त्रघ्नावाज्यभागौ विराजौ संयाज्ये ।
अथैते याज्यापुरोनुवाक्ये
अग्निनाग्निस्समिध्यते कविर्गृहपतिर्युवा
हव्यवाड्जुह्वास्यः
इति ।
अथ याज्या
त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन्सता
सखा सख्या समिध्यसे
इति ।
अथो हैनया ब्रह्मवर्चसकामो यजेत ।
तेजस्वी हैव ब्रह्मवर्चसी भवति ।
अथो खल्वाहुर्यदाहवनीयगार्हपत्यौ संसृज्येयातां किं तत्र कर्म का प्रायश्चित्तिरिति ।
अग्नये वीतय इष्टिं निर्वपेत् ।
एता एव पञ्चदश सामिधेनीर्वार्त्रघ्नावाज्यभागौ विराजौ संयाज्ये ।
अथैते याज्यापुरोनुवाक्ये
अग्न आ याहि वीतये गृणानो हव्यदातये
नि होता सत्सि बर्हिषि
इति ।
अथ याज्या
यो अग्निं देववीतये हविष्ममाविवासति
तस्मै पावक मृडय
इति ।
तस्मै पावक मृडय इति ६५

अग्निष्टोम
प्रजननं ज्योतिरग्निर्देवतानां ज्योतिर्विराट्छन्दसां ज्योतिर्विराड्वाचः ।
अग्नौ संतिष्ठते ।
विराजं संपद्यते ।
तस्मादेष ज्योतिरुच्यते ।
द्वौ स्तोमौ प्रातस्सवनं वहतो यथा चक्षुश्च प्राणश्च तथा तत् ।
द्वौ स्तोमौ माध्यन्दिनं सवनं वहतो यथा च श्रोत्रं च बाहू च तथा तत् ।
द्वौ स्तोमौ तृतीयसवनं वहतो यथा मध्यं च प्रतिष्ठा च तथा तत् ।
हिंकारेण वै ज्योतिषा देवास्त्रिवृते ब्रह्मवर्चसाय ज्योतिरदधुः ।
त्रिवृता ब्रह्मवर्चसेन पञ्चदशायौजसे वीर्याय ज्योतिरदधुः ।
पञ्चदशेनौजसा वीर्येण सप्तदशाय प्रजायै पशुभ्यः प्रजननाय ज्योतिरदधुः ।
सप्तदशेन प्रजया पशुभिः प्रजनेनैकविंशाय प्रतिष्ठायै ज्योतिरदधुः ।
स्तोमो वा एतत्स्तोमे ज्योतिर्दधदेति ।
तस्माज्ज्योतिष्टोम इत्याख्यायते ।
अथ यत्स्तोमस्स्तोमं सवनमभिप्रणयति तस्माज्ज्योतिष्टोम इत्याख्यायते ।
अथो यद्यज्ञस्संस्तुतो विराजमभिसंपद्यते ज्योतिर्विराट्तस्माज्ज्योतिष्टोम इत्याख्यायते ६६

अस्थूरिर्वा एष यज्ञः पुरुषसंमितः ।
यत्काम एनमाहरते समस्मै काम ऋध्यते ।
अस्थूरिणा हि तत्र गच्छति यत्र जिगमिषति ।
प्रजापतिर्यत्प्रजा असृजत ता अग्निष्टोमेनासृजत ।
दशमेन च वै स ता अग्निष्टोमस्य स्तोत्रेणासृजत दशमेन च मासा संवत्सरस्य ।
ता द्वादशेन चैवाग्निष्टोमस्य स्तोत्रेण पर्यगृह्णाद्द्वादशेन च मासा संवत्सरस्य ।
तस्मात्पशवो दशमासो गर्भान्बिभ्रति ।
त एकादशमनुप्रजायन्ते ।
न का चन द्वादशमतिहरति ।
परिगृहीता हि तेन ।
तासां परिगृहीतानामश्वतरोऽत्यप्रवत ।
तस्यानुहाय रेत आदत्त ।
तद्गर्दभे न्यमार्ट्तद्बडबायां तत्पशुषु तदोषधीषु ।
तस्माद्गर्दभो द्विरेतास्तस्माद्बडबा द्विरेताः ।
तस्मात्पशवो द्वौ द्वौ जनयन्ति ।
तस्मादोषधयोऽनभ्यक्ता रेभन्ति ।
तस्मादश्वतरो बर्हिषि न देयः ।
अति ह्यप्लवताप ह्यक्रामत् ।
आत्तरेता ह्यप्रजा हि ।
षोडशिनस्स्तोत्रे देयः ।
अतिरिक्तो वै षोडशि स्तोत्राणामतिरिक्तोऽश्वतरः पशूनाम् ।
अतिरिक्त एवा तदतिरिक्तं दधति यज्ञस्य सलोमतायै ।
स य एवं विद्वानग्निष्टोमेनोद्गायति प्राजाताः प्रजा जनयति परि प्रजाता गृह्णाति ।
ज्येष्ठयज्ञो वा एष प्रजापतियज्ञो यदग्निष्टोमः ।
अश्नुते ज्यैष्ठ्यं श्रैष्ठ्यं य एवं वेद ६७

प्रजापतिर्वावेदमग्र आसीत् ।
मनो ह वै प्रजापतिर्देवता ।
सोऽकामयत बहुः स्यां प्रजायेय भूमानं गच्छेयमिति ।
स शीर्षत एव मुखतस्त्रिवृतं स्तोममसृजत गायत्रीं छन्दो रथन्तरं सामाग्निं देवतां ब्राह्मणं मनुष्यमजं पशुम् ।
तस्माद्ब्राह्मणो गायत्रीछन्दा आग्नेयो देवतया ।
तस्मादु मुखं प्रजानाम् ।
मुखाद्ध्येनमसृजत ।
सोऽकामयत प्रैव जायेयेति ।
स बाहुभ्यामेवोरसः पञ्चदशं स्तोममसृजत त्रिष्टुभं छन्दो बृहत्सामेन्द्रं देवतां राजन्यं मनुष्यमश्वं पशुम् ।
तस्माद्रा जन्यस्त्रिष्टुप्छन्दा षन्द्रो देवतया ।
तस्मादु बाहुभ्यां वीर्यं करोति ।
बाहुभ्यां ह्येनमुरसो वीर्यादसृजत ।
सोऽकामयत प्रैव जायेयेति ६८

स उदरादेव मध्यतस्सप्तदशं स्तोममसृजत जगतीं छन्दो वामदेव्यं साम विश्वान्देवान्देवतां वैश्यं मनुष्यं गां पशुम् ।
तस्माद्वैश्यो जगतीछन्दा वैश्वदेवो देवतया ।
तस्मादु प्रजनिष्णुः ।
उदराद्ध्येनं प्रजननादसृजत ।
सोऽकामयत प्रैव जायेयेति ।
स पद्भ्यामेव प्रतिष्ठाया एकविंशं स्तोममसृजतानुष्टुभं छन्दो यज्ञायज्ञीयं साम न कां चन देवतां शूद्रं मनुष्यस्मविं पशुम् ।
तस्माच्छूद्रो ऽनुष्टुप्छन्दा वेश्मपतिदेवः ।
तस्मादु पादावनेज्येनैव जिजीविषति ।
पद्भ्यां ह्येनं प्रतिष्ठाया असृजत ।
एतया वै सृष्ट्या प्रजापतिः प्रजा असृजत ।
स य एतदेवं वेद भूमानमेव प्रजया पशुभिर्गच्छति ।
तस्माद्वेतं यज्ञं भूयिष्ठं प्रशंसन्ति यदग्निष्टोमम् ।
प्रजापतियज्ञो ह्येषः ६९

प्रजापतिः प्रजाभ्य ऊर्जं व्यभजत् ।
तदुदुम्बरस्समभवत् ।
प्रजापतिरुद्गाता प्राजापत्य उदुम्बरः ।
वृणुतेऽन्यानृत्विजो नोद्गातारम् ।
यदुद्गाता प्रथमेन कर्मणौदुम्बरीमन्वारभते स्वयैव तद्देवतयात्मानमार्त्विज्याय वृणीते ।
तामन्वारभते आयोष्ट्वा सदने सादयाम्यवतश्छायायां समुद्र स्य हृदये ।
नमस्समुद्रा य नमस्समुद्र स्य चक्षसे ।
मा मा योनोर्वां हासीः इति ।
यदाह आयोष्ट्वा सदने सादयामि इति यज्ञो वा आयुस्तस्यैतत्सदनं क्रियते ।
अवतश्छायायामिति ।
यज्ञो वा अवतिः ।
तस्यैषा छाया क्रियते यत्सदः ।
समुद्र स्य हृदये इति ।
मध्यतो वा आत्मनो हृदयम् ।
तस्मान्मध्यतस्सदस औदुम्बरीमीयते ।
नमस्समुद्रा य नमस्समुद्र स्य चक्षसे इति ।
वाग्वै समुद्रो मनस्समुद्र स्य चक्षः ।
एताभ्यामेवैतद्देवताभ्यां नमस्करोति ।
आर्त्विज्यं करिष्यन्मा मा योनोर्वां हासीः इति साम वै योनोर्वां साम्न एवैतन्नमस्करोति ।
आर्त्विज्यं करिष्यन्नैनंसामावहते ।
न सामन्यामार्तिमार्छति ।
न साम्नो हीयते य एवं विद्वान्साम्ने नमस्करोति ।
य एवैनमुपवदति स आर्तिमार्छति ७०

प्रजापतेर्वा एतदुदरं यत्सदः ।
ऊर्गुदुम्बरः ।
यन्मध्यतस्सदस औदुम्बरीमीयते मध्यत एवैतत्प्रजानामन्नमूर्जं दधाति ।
तस्मान्मध्यतोऽशनमशितं धिनोति ।
तस्माद्यत्रैषा यातयाम्नी क्रियते तत्प्रजा अशनायुका भवन्ति ।
पोषुका ह त्वै भवन्ति ।
उपस्पृश्यां नोपस्पृश्यामिति मीमांसन्ते ।
सर्वं वावेदमात्मन्वत् ।
यस्त्वा अन्नमभीव कामयते तमेवैतद्भूयिष्ठं द्वेष्टि ।
यदुपस्पृशेदन्नाद्यं प्रथमेत् ।
यन्नोपस्पृशेदन्नाद्यादात्मानमन्तर्यात् ।
उपस्पृश्य नस्वास्पृष्टेनैवोद्गेयन्नान्नाद्यं प्रथमति नान्नाद्यादात्मानमन्तरेति ।
साम देवानामन्नमूर्गुदुम्बरः ।
यदुद्गातौदुम्बरीं श्रयते सामन्नेवैतद्देवानामन्नमूर्जं दधाति ।
तस्माद्यत्र साम्नार्त्विज्यं कुर्वन्ति तदेव देवा भूयिष्ठमिवादन्ति ७१

प्रजापतिरुद्गातोर्गुदुम्बरः ।
स एष ऊर्जि श्रितः प्रजापतिः प्रजाभ्य ऊर्जमन्नाद्यं विभजति ।
उदङ्ङासीन उद्गायति ।
उदीचीमेव तद्दिशमूर्जा भाजयति ।
प्रत्यङ्ङासीनः प्रस्तौति ।
प्रतीचीमेव तद्दिशमूर्जा भाजयति ।
दक्षिणासिनः प्रतिहरति ।
दक्षिणामेव तद्दिशमूर्जा भाजयति ।
प्राञ्चोऽन्य ऋत्विज आर्त्विज्यं कुर्वन्ति ।
प्राचीमेव तद्दिशमूर्जा भाजयन्ति ।
तस्मादेषा दिशां वीर्यवत्तमोपजीवनीयतमा भूयिष्ठैः प्रीता ।
तस्माद्यत्प्रजा अवृत्तिं नीयन्ति प्राचीरेव यन्ति ।
एषा हि दिशां वीर्यवत्तमोपजीवनीयतमा भूयिष्ठैः प्रीता ।
यदुदीचीनदेवत्या उद्गातारोऽथ कस्माद्विपर्यावृत्य दिश आर्त्विज्यं कुर्वन्तीत्याहुः ।
ब्रूयाद्दिशामभिष्ट्यै दिशामभिप्रेत्यै ।
तस्मात्सर्वासु दिक्ष्वन्नं विद्यत इति ।
उद्दिवं स्तभानान्तरिक्षं पृण पृथिवीमुपरेण दृंह ।
द्युतानस्त्वा मारुतो मिनोतु मित्रावरुणयोर्ध्रुवेण धर्मणा ।
घृतेन द्यावापृथिवी आ प्रीणीथाम् ।
सुपिप्पला ओषधीः कृधि स्वाहा इत्यौदुम्बरीमभिजुहोति ।
इमानेवैतल्लोकान्रसेनानक्ति ७२

प्रजापतिः प्रजा असृजत ।
सोऽग्निमपि मुखादसिसृक्षत ।
सोऽग्निर्मुखाद्बीभत्समान ऊर्ध्वं उद्द्रुत्य मस्तिष्कमुद्धत्यासृज्यत ।
तं देवाश्चर्षयश्चोपसमेत्याब्रुवन्वितुन्नोऽयं मस्तिष्को मामुया भूत्करवामेमं कस्यां चिताचितीति ।
ते बृहस्पतिमब्रुवन्सोममस्मिन्गृहाणेति ।
स बृहस्पतिरब्रवीत्स वा अयं क्रूर इवापूतोऽमेध्योऽशृतंकृत इति ।
वयं त एतं पूतं मेध्यं शृतंकृतं कुर्म इत्यब्रुवन् ।
तं वै म आहरतेति ।
तथेति ।
तमस्मै प्रायच्छन् ।
तं प्रत्यगृह्णाद्देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि इति ।
देवाङ्गैर्वावैनं तत्प्रत्यगृह्णात् ।
तं प्रतिगृह्यापवयत्
वसवस्त्वा पुनन्तु गायत्रेण छन्दसा सुप्रजावनिं रायस्पोषवनिम्
रुद्रा स्त्वा पुनन्तु त्रैष्टुभेन छन्दसा सुप्रजावनिं रायस्पोषवनिम्
आदित्यास्त्वा पुनन्तु जागतेन छन्दसा सुप्रजावनिं रायस्पोषवनिम्
इति ।
छन्दोभिश्च वावैनं तद्देवताभिश्चापवयत् ।
तं पवयित्वा पश्चादक्षं सादयति बार्हस्पत्यमसि वानस्पत्यं प्रजापतेर्मूर्धात्यायुपात्रमिति ।
यदाह बार्हस्पत्यमसि इति बृहस्पतिर्ह्येतमग्रे प्रत्यगृह्णात् ।
यदाह वानस्पत्यमिति वनस्पतिभ्यो ह्येनमधिकुर्वन्ति ।
यदाह प्रजापतेर्मूर्धा इति प्रजापतेर्ह्येष मूर्धासीत् ।
यदाह अत्यायुपात्रमित्यति ह्येतदन्यानि पात्राणि पात्रम् ।
यदेतद्देवपात्रं प्रथमं युज्यत उत्तमं विमुच्यते तेनैवात्यन्यानि पात्राणि ।
प्र श्रेयसः पात्रमाप्नोति य एवं वेद ।
तं पश्चादक्षं सादयित्वा गायत्रं विश्वरूपासु गायति ७३

नमः पितृभ्यः पूर्वसद्भ्यो नमस्साकंनिषद्भ्यः
युज्ये वाचं शतपदीं गाये सहस्रवर्तनीम्
गायत्रं त्रैष्टुभं जगद्विश्वा रूपाणि संभृतम्
देवा ओकांसि चक्रिरे
इति ।
यन्नमः पितृभ्यः पूर्वसद्भ्यः इति पितरो वा अत्र पूर्व उपसीदन्ति ।
न तेभ्य एवैतन्नमस्करोति नमस्साकंनिषद्भ्यः इति यैरेव ब्राह्मणैस्सहोपसीदत्यार्त्विज्यं करिष्यंस्तेभ्य एवैतन्नमस्करोति ।
युज्ये वाचं शतपदीमिति वाचमेवैतच्छतपदीं युङ्क्ते ।
गाये सहस्रवर्तनीमितियुक्तामेवैनामेतत्सहस्रवर्तनीं भूतां गायति ।
गायत्रं त्रैष्टुभं जगदिति एतानि वै त्रीणि सवनानि तान्येवैतान्यात्मन्परिगृह्णीते ।
विश्वा ओकांसि चक्रिरे इति सदेवमेवैतेन यज्ञं कुरुते ७४

कुसुर्विन्दो हौद्दालकिस्सोमानामुज्जगौ ।
तमु हासितमृगा कश्यपानां पुत्रा ऊचुः को नु नोऽयं नृशंसकोऽन्त उद्गायत्येतेममनुव्याहरिष्याम इति ।
तेऽनुव्याहरिष्यन्त आस्तावमुपसेदुः ।
स होवाच नमो ब्राह्मणा अस्तु पुरा वा अहमद्य प्रातरनुवाकाद्गायत्रेण विश्वरूपासु यज्ञं समस्थापयम् ।
स यथा गोभिर्गवायमित्वा श्रमणमबलमनुसंनुदेदेवं वावेदं यज्ञशरीरमनुसंनुदाम इति ।
ते होत्थाय प्रवव्रजुर्नमोऽस्मै ब्राह्मणायास्तु विदां वा अयमिदं चकारेति ।
पुरा ह वा अस्य प्रातरनुवाकाद्गायत्रेण विश्वरूपासु यज्ञस्संस्थितो भवति य एवं वेद ७५

तदाहुः अध्वर्यो किं स्तुतं स्तोत्रं होता प्रातरनुवाकेनान्वशंसीदिति ।
अकर्म वयं तद्यदस्माकं कर्म इत्याह होतारं पृच्छत इति ।
होतः किं स्तुतं स्तोत्रं प्रातरनुवाकेनान्वशंसीः इति ।
अकर्म वयं तद्यदस्माकं कर्म इत्याह उद्गातारं पृच्छत इति ।
उद्गातः किं स्तुतं स्तोत्रं होता प्रातरनुवाकेनान्वशंसीदिति ।
अकर्म वयं तद्यदस्माकं कर्म इति ब्रूयादगासिष्म यदत्र गेयमिति ।
तं यदि ब्रूयुः तमांसि वा अगासीर्न ज्योतींषि अगासिषं युष्मानेव तमसा पाप्मना विध्यानि इति ।
तमसा चैवैनांस्तत्पाप्मना च विध्यति ७६

पश्चात्प्राञ्च उपसीदन्ति ।
वाचमेवैतन्मुखतोऽवरुन्धते ।
यत्पुरस्तात्प्राञ्च उपसीदेयुर्वाचं पृष्ठतः कुर्वीरन् ।
वागेषामुपदासुका स्यात् ।
वाग्वै देवेभ्योऽपाक्रामत् ।
सा वनस्पतीन्प्राविशत् ।
सैष याक्षे ।
यदधोऽधोऽक्षं द्रो णकलशं प्रोहन्ति दैवीमेवैतद्वाचमवरुन्द्धे ।
उद्गातार उद्गीथायाधोऽधोऽक्षं द्रो णकलशं प्रोहन्ति ।
अस्मादेवैतल्लोकाद्द्विषन्तं भ्रातृव्यमन्तरेति य एवं वेद ।
नाक्षमुपस्पृशेत् ।
यदक्षमुपस्पृशेद्भ्रातृव्ये श्रियमृञ्ज्यात् ।
अन्तरा चक्रौ प्रोहति ।
तस्माद्यदन्तरा चक्रावनसस्तदुपजीवनीयतमम् ।
तस्मादन्तरा शम्ये युक्तो भुनक्ति ७७

वसवो वा एतमग्रे प्रौहन् ।
तेऽश्राम्यन् ।
ते रुद्रा नाह्वयन् ।
तं रुद्रा ः! प्रौहन् ।
तेऽश्राम्यन् ।
त आदित्यानाह्वयन् ।
तमादित्याः प्रौहन् ।
तं प्रोहति वसवस्त्वा प्रोहन्तु गायत्रेण छन्दसा ।
रुद्रा स्त्वा प्रोहन्तु त्रैष्टुभेन छन्दसा ।
आदित्यास्त्वा प्रोहन्तु जागतेन छन्दसा इति ।
देवतानामेवैनं तत्प्रौढिमनुप्रोहति ।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रोहामि इति वा प्रोहेत् ।
देवाङ्गैरेवैनं तत्प्रोहति ।
बृहस्पतिर्वा एतमग्रे प्रौहत् ।
स रूपेण वर्चसा व्यार्ध्यत ।
स षक्षत कास्य प्रायश्चित्तिरिति ।
तां द्रो णकलश एव पर्यपश्यत् ।
तमभ्यमृशत्तनूपा असि तन्वं मे पाहि ।
वर्चोधा असि वर्चो मे धेहि ।
आयुर्धा अस्ययुर्मे धेहि ।
वयोधा असि वयो मे धेहि इति ।
यदेवास्य तत्रात्मनो मीयते तदेतेनाप्यायनम् ।
एतेनैवोद्गाताभिमृशति तनूपा असि तन्वं मे पाहि ।
वर्चोधा असि वर्चो मे धेहि ।
आयुर्धा अस्ययुर्मे धेहि ।
वयोधा असि वयो मे धेहि इति ।
यदेवास्यात्रात्मनो मीयते तदेतेनैवाप्यायते ।
द्वयं वावेदं ब्रह्म चैव क्षत्रं च ।
तदुभयं द्रो णकलशे ।
उभयं ब्रह्म च क्षत्रं चावरुन्द्धे य एवं वेद ७८

संमुखान्ग्राव्णः कृत्वाभिमृशति श्येना अजिरा ऋतस्य गर्भाः प्रयुतो नपातः पर्वतानां ककुभ आ नस्तं वीरं वहत यं बहव उपजीवामो अभिशस्तिकृतमनभिशस्तेन्यमन्यस्याभिशस्त्याः कर्तारमिति ।
आ हैवास्य वीरो जायतेऽभिशस्तिकृदनभिशस्तेन्योऽन्यस्याभिशस्त्याः कर्ता ।
द्रो णकलशमध्यूहति इदमहं मां ब्रह्मवर्चसेऽध्यूहामि इति ।
यद्यस्यावरुद्धो राजन्यस्स्याद्विमुखान्ग्राव्णः कृत्वा तूष्णीं द्रो णकलशमध्यूह्य तमवह्वारयन्दक्षिणा निरूहेदिदमहममुं विशो निरूहामीदमस्य राष्ट्रं न्युब्जामि इति न्यञ्चं द्रो णकलशं न्युब्जेत् ।
संमुखान्ग्राव्णः कृत्वा योऽस्य राजन्यस्स्यात्तस्य नाम गृहीत्वा द्रो णकलशमध्यूहेदिदमहममुं विश्यध्यूहामि इति ।
अपेतरो रुध्यतेऽवेतरो गच्छति ।
स यद्येनमवगत्य नाद्रि येत तं कामयेत अत्रैवान्तरवरुद्धोऽस्त्विति ।
विमुखान्ग्राव्णः कृत्वा तूष्णीं द्रो णकलशमध्यूह्य इमा पांशुसवनः इति ग्रावा ।
तमुपरिष्टादभिनिदध्यादिदमहममुष्मिन्विश्यध्यूहामि इति ।
अभिप्रक्षीणानाहीनं वितिष्ठति ।
स यद्येनं विदित्वोपधावेदस्मिन्वावेदं ब्राह्मणेऽध्यास यदिदमस्मै वचने वचेति ।
संमुखान्ग्राव्णः कृत्वा द्रो णकलशमध्यूहेदिदमहममुं विश्यध्यूहामि इति ।
ईशे स्वानामपैनं स्याश्चायन्त्यनन्तरमवरुद्धो भवति ७९

राष्ट्रं वै द्रो णकलशो विशो ग्रावाणः ।
यद्द्रोणकलशश्शिथिलस्स्याद्रा ष्ट्रं शिथिलं स्यात् ।
तदनु विशो विशमनु यजमानो यजमानमनु प्रजाः ।
तं दृंहति देवी त्वा धिषणे निपातां ध्रुवे सदसि सीदेष ऊर्जे सीद इति ।
इमे वै देवी धिषणे इदं ध्रुवं सदः ।
एभिरेवैनं तल्लोकैर्दृंहति इष ऊर्जे सीद इति वर्षं वा इषे यदुपरिष्टाद्वर्षस्यैधते तदूर्जे तदेवैतेनावरुन्द्धे ।
स्वर्भानुर्वा आसुर आदित्यं तमसाविध्यत् ।
तं देवाश्चर्षयश्चाभिषज्यन् ।
तेऽत्रिमब्रुवन्नृषे त्वमिदमपजहीति ।
तथेति ।
तदत्रि अपाहन् ।
तेऽब्रुवन्यो नस्तमसा विद्धेभ्यो ज्योतिरविदज्ज्योतिरस्य भागधेयमस्त्विति । तदेतदत्रिहिरण्यं ह्रियते ।
शतमानं ह स्म पुरा ह्रियते ।
अथैतर्हि यावदेव कियच्च ददति तत् ।
एतद्ध वाव सर्वेषु लोकेषु ज्योतिर्यद्धिरण्यम् ।
सर्वेषु लोकेषु ज्योतिर्धत्ते य एवं विद्वानत्रिहिरण्यं ददाति ८०

स यत्प्रथममपाहन्सा कृष्णाविरभवत् ।
यद्द्वितीयमपाहन्सा धूम्राविरभवत् ।
यत्तृतीयमपाहन्सा फाल्गुन्यविरभवत् ।
स यं कामयेत पापीयान्स्यादिति कृष्णमस्य पवित्रेऽप्यस्येत्पापीयानेव भवति ।
अथ यं कामयेत नार्वाङ्न परस्स्यादिति धूम्रमस्य पवित्रेऽप्यस्येन्नैवार्वाङ्न परो भवति ।
अथ यं कामयेत श्रेयान्स्याद्रुचमश्नुवीतेति फाल्गुनमस्य पवित्रं कुर्याच्छ्रेयानेव भवति रुचमश्नुते ।
अस्ति हि तत्राप्यादित्यस्य न्यक्तम् ।
तदन्तरेषे अवहृत्य संमार्ष्टि वसवस्त्वा संमृजन्तु गायत्रेण छन्दसा ।
रुद्रा स्त्वा संमृजन्तु त्रैष्टुभेन छन्दसा ।
आदित्यास्त्वा संमृजन्तु जागतेन छन्दसा इति ।
तद्तदुदीचीनदशं पवित्रवत्या वितनोति पवित्रं ते विततं ब्रह्मणस्पते इति समष्ट्यै ।
तपोष्पवित्रं विततं दिवस्पदे इति स्वर्गकामस्य ।
अरूरुचदुषसः पृश्निरग्रयुः इति प्रजाकामस्य ।
सर्वाभिरेव वितनुयादेतेषां सर्वेषां कामानामुपाप्त्यै ।
राजानमानयति ।
तमभिमन्त्रयते स पवस्व सुधामा देवानामभि प्रैयाणि धाम ।
त्रिर्देवेभ्योऽपवथास्त्रिरादित्येभ्यस्त्रिरङ्गिरोभ्यः ।
येन तुर्येण ब्रह्मणा बृहस्पतयेऽपवथास्तेन मह्यं पवस्व ।
स नः पवस्व शं गवे शं जनाय शमर्वते
शं राजन्नोषधीभ्यः
इति ।
शमेवोद्गात्रे भवति शं यजमानाय शं प्रजाभ्यः ।
अध्वर्युराग्रायणं ग्रहं गृह्णन्हिंकरोति ।
तदेव हिंकृतं भवति ।
अथोद्गात्रैकर्चो गायत्रं गायति उच्चा ते जातमन्धसा इति ।
स उदित्येवेतो देवेभ्यो हव्यं वहति दिवि सद्भूम्या ददे इत्यमुतो वृष्टिमाच्यावयति ।
ताविमौ लोकौ सवासिनौ करोति ।
तावस्मै कामं पिन्वाते ।
काममस्मा इमौ लोकौ पिन्वाते य एवं वेद ८१

क्रूरमिव वा एतद्यज्ञस्य कुर्वन्ति यद्धविधाने ग्रावभिस्सोमं राजानं हत्वा बहिष्पवमानं सर्पन्ति ।
का तस्य प्रायश्चित्तिरित्याहुरप उपस्पृशेयुः ।
आपो वै सर्वस्य शान्तिः ।
अद्भिरेवैनत्तच्छमयन्ति ।
वाग्वा एतस्मा अग्रेऽध्वनेऽतन्द्रा यत बहिष्पवमानं सर्पन्ती ।
तां प्रजापतिरब्रवीद्भागधेयं ते करोम्यथ सर्पेति ।
बहिष्पवमानं सप्स्यन्होमं जुहुयाज्जुष्टो वाचो भूयासं जुष्टो वाचस्पत्युः ।
देवि वाग्यत्ते वाचो मधुमत्तस्मिन्मा धाः ।
स्वाहा सरस्वत्यै इति ।
यत्सरस्वत्यै स्वाहा इति जुहुयाद्वाचं सरस्वतीं स्वाहाकारेण परिगृह्णीयात् ।
अथ यत्स्वाहा सरस्वत्यै इति जुहोति वाचं तदुत्तरां स्वाहाकाराद्दधाति ।
तया परिगृहीतया यज्ञं तनुते ।
वाचा ह्यूर्ध्वो यज्ञस्तायते ।
वेकुरा नामासि प्रेषिता दिव्याय कर्मणे शिवा नस्सुयमा भव ।
सत्याशीर्यजमानाय स्वाहा इति वा जुहुयात् ।
वाग्वै वेकुरा ।
ब्रह्म वाक् ।
ब्रह्मण एव तद्वाचे होमं हुत्वा सर्पति नार्तिमार्छति ८२

अरण्यमिव वा एते यन्ति ये बहिष्पवमानं सर्पन्ति ।
तानीश्वरो रक्षो वा हन्तोरन्या वा नंष्टृआ ।
अथ द्वितीयां जुहोति सूर्यो मा देवो दिव्येभ्यो रक्षोभ्यः पातु वात आन्तरिक्षेभ्योऽग्निः पार्थिवेभ्यस्स्वाहा इति ।
य एवैषां लोकानामधिपतयस्तेभ्य एवैतदात्मानं परिदाय सर्पति नार्तिमार्छति ।
प्रजापतिर्यद्यज्ञमसृजत तं हविर्धान एवासृजत ।
स सृष्ट उदङ्प्राद्र वत् ।
तमेतदत्राप्त्वास्तुवन् ।
यत्रैतदुदञ्चयित्वा बहिष्पवमानेन स्तुवन्ति यज्ञमेवैतदाप्त्वा स्तुवन्ति ।
यो वै दैव्यं वाजिनं वेद वाजी भवति ।
यज्ञो वाव दैव्यो वाजी ।
य इन्नु मानुषं वाजिनमशान्तमसंमृष्टमारोहति तमिन्नु स हिनस्ति वा प्र वा क्षिणोति ।
अथ किं यो दैव्यं वाजिनमशान्तमसंमृष्टमारोहात् ८३

अध्वर्युः प्रस्तरं हरन्सर्पति ।
तमनुमन्त्रयते एतदहं दैव्यं वाजिनं संमार्ज्मि इति ।
संमृष्टमेवैनं शान्तमारोहति नार्तिमार्छति ।
देवक्षेत्रं वा एषोऽध्यवस्यति यस्सोमस्योद्गायति ।
य इन्नु मानुषाय क्षेत्रपतयेऽप्रोच्यावस्यति तमिन्नु स हिनस्ति वा प्र वा यापयति ।
अथ किं यो दैव्याय क्षेत्रपतयेऽप्रोच्यावस्यात् ।
सोमोद्गायोद्गाय सोम इत्याह ।
सोमो वै देवानां क्षेत्रपतिः ।
सोमायैव तद्देवानां क्षेत्रपतये प्रोच्योद्गायति नार्तिमार्छति ।
मह्यं तेजसे मह्यं ब्रह्मवर्चसाय मह्यमन्नाद्याय मह्यं भूम्ने मह्यं पुष्ट्यै मह्यं प्रजननाय प्रजानां भूम्ने प्रजानां पुष्ट्यै प्रजानां प्रजननाय सोमस्य राज्ञो राज्याय मम ग्रामणेयाय इति ।
ग्रावो ह स्माह मैत्रेयः किं ममेकस्मा आगास्यामि किमेकस्मा इति ।
एतेन ह स्म वै स तदाह सोमोद्गायोद्गाय सोमेदममुष्मा इदममुष्मै इति ।
ते ह स्मास्मै कामास्समृध्यन्ते ।
देवपाशा वा एते वितायन्ते यद्धिष्ण्या अग्नयो विह्रियन्ते ।
तान्यो विद्वानभ्यवैति देवपाशान्प्रतिमुञ्चते ।
एषा वै यज्ञस्य द्वार्यदन्तराग्नीध्रं च चात्वालं च ।
तयाभ्यवेयात् ।
तयोदेयात् ।
धा वै नाम वेदिः ।
तामभ्यवयन्ब्रूयाद्धा असि सुधां मे धेहि ।
आयुष्मन्तस्त्वद्वर्चस्वन्त उद्गेष्म इति ।
न देवपाशान्प्रतिमुञ्चते नार्तिमार्छति ८४

प्राणान्वै तत्संतत्य स्वर्गं लोकं सर्पन्ति यदन्तर्हविर्धाने ग्रहान्गृहीत्वा बहिष्पवमानं सर्पन्ति ।
संततास्सर्पन्ति ।
संतत इव वै स्वर्गो लोकः ।
स्वर्गस्यैव लोकस्य संतत्या अव्यवच्छेदाय ।
प्रावभ्रा इव सर्पन्ति ।
प्रतिकूलमिव वा इतस्स्वर्गो लोकः ।
तद्यथा वा अदः प्रतिकूलमुद्यन्प्रावभ्र इव भवत्येवमेवैतत् ।
स्वर्गस्य लोकस्य समष्ट्या अनपव्याधाय ।
अध्वर्युः प्रथमस्सर्पति प्राणो यज्ञस्य ।
तस्माद्यदवच्छिद्येरन्प्राणादवच्छिद्येरन्प्रमायुकास्स्युः ।
प्रस्तोता द्वितीयस्सर्पति मुखं साम्नः ।
तस्माद्यदवच्छिद्येरन्मुख्यं आर्तिमार्छेयुः ।
उद्गाता तृतीयस्सर्पति सर्वदेवत्यः प्रजापतिः ।
तस्माद्यदवच्छिद्येरन्सर्वज्यानिं जीयेरन् ।
प्रतिहर्ता चतुर्थस्सर्पति तुरीयं साम्नः ।
तस्माद्यदवच्छिदेरंस्तुरीयेणात्मनो यातयेयुः ।
यजमानः पञ्चमस्सर्पति ।
पाङ्क्तो यज्ञः पाङ्क्ताः पशवः ।
तस्माद्यदवच्छिद्येरन्यज्ञात्पशुभ्योऽवच्छिद्येरन् ८५

ब्रह्मा षष्ठस्सर्पति ।
षड्वै छन्दांसि ।
छन्दोभिरेव तद्र क्षः पाप्मानमपघ्नते ।
सर्वं वावैतद्ब्रह्म ।
यद्ब्रह्मा पश्चाद्भवति ब्रह्मणैव तद्र क्षः पाप्मानमपहत्य स्वर्गं लोकं सर्पन्ति ।
प्रस्तरं हरन्तस्सर्पन्ति ।
यजमानो वै प्रस्तरो बर्हिः प्रजाः ।
यदुपर्युपरि बर्हिः प्रस्तरं हरन्ति यजमानमेव तत्प्रजास्वध्यूहन्ति ।
तस्माद्यजमान उपर्युपर्येवान्याः प्रजाः ।
यदुपास्येत्स्वर्गलोको यजमानस्स्यादवास्माल्लोकाच्छिद्येत ।
यदत्यस्येदस्मिँ ल्लोके प्रतितिष्ठेदव स्वर्गाल्लोकाच्छिद्येत ।
तदाहुरर्धात्मा वा एष यजमानस्य यत्पत्नी ।
यत्सा बहिर्वेदि भवति तेनास्माल्लोकान्नावच्छिद्यते ।
उपैवास्येदित्युत वै पत्नी न भवति ।
अथो यद्यपि स्यादुपैवान्यदस्येदत्यन्यदस्येत् ।
यदुपास्यति तेन स्वर्गलोको यदत्यस्यति तेनास्माल्लोकान्नावच्छिद्यते ८६

आदित्यो वा एतदत्राग्र आसीद्यत्रैतच्चात्वालमदोऽग्निः ।
स इदं सर्वं प्रातपत् ।
तस्य देवाः प्रदाहादबिभयुः ।
तेऽब्रुवन्सर्वं वा अयमिदं प्रधक्ष्यति वीमौ परिहरामेति ।
तमतस्तिसृभिराददत तिसृभिरन्तरिक्षात्तिसृभिर्दिवमगमयन् ।
स ततः पराङेवातपत् ।
त एतदावदुत्तममक्षरमपश्यन् ।
तेनैनमर्वाञ्चमकुर्वन् ।
तत एतदर्वाङ्तपति ।
षतेनो एवावताक्षरेणाग्निमस्मिँ ल्लोकेऽदधुः ।
स यं कामयेत यजमानस्स्वर्गलोकस्स्यादिति चात्वालमेवैनमवख्याप्योद्गायेत् ।
तमतस्तिसृभिरेवाददते तिसृभिरन्तरिक्षात्तिसृभिर्दिवं गमयन्ति ।
सदैव सर्वाभिस्स्तुयुरथोत्तमामग्रे ब्रूयादथावरामथावराम् ।
तास्सर्वा अर्वाचीः ।
तदु वा आहुस्सत्रैतत्प्रत्यवरूढं स्वर्गकाम्या वै यजत इति ।
यदेवाद आवदुत्तममक्षरं भवति तेनास्माल्लोकान्नावच्छिद्यते ८७

रथन्तरवर्णामुत्तमां गायन्ति ।
इयं वै रथन्तरम् ।
अस्यामेवैतत्प्रतितिष्ठति ।
प्रजापतिः प्रजा असृजत ।
ता एनं सृष्टा अन्नकाशिनीरभितस्समन्तं पर्यविशन् ।
ताभ्यो हिंकारेणान्नाद्यमसृजत ।
तदॐकारेण सृष्टमवारयत ।
प्रजापतिरेष यदुद्गाता ।
तमेतत्प्रजा अन्नकाशिनीरभितस्समन्तं परिविशन्ति ।
ताभ्यो हिंकारेणैवान्नाद्यं सृजते ।
तदॐकारेण सृष्टं वारयते ।
स यद्धिंकृत्येनॐकुर्यात्पराङ्देवान्नाद्यमियात् ।
यत्साम प्रथममभिव्याहरेत्क्षत्रं बलमृच्छेत् ।
क्षत्रं हि साम ।
यदृचं प्रथममभिव्याहरेद्विशं बलमृच्छेत् ।
विड्ढ्यृक् ।
यद्यजुः प्रथममभिव्याहरति ब्रह्म वै यजुर्ब्रह्मवर्चसमेतत्करोति ।
भूर्भुवस्स्वः ।
मधु करिष्यामि ।
मधु जनयिष्यामि ।
मधु भविष्यति ।
भद्रं भद्र म् ।
इषमूर्जमिति ।
यद्भूर्भुवस्स्वः इत्येतद्वै ब्रह्मैतद्यजुः ।
यन्मधु करिष्यामि इति प्रजा वै मधु ता एव तत्करोति ।
यन्मधु जनयिष्यामि इति प्रैवैनास्तज्जनयति ।
यन्मधु भविष्यति इति भूतिमेवैनास्तद्गमयति ।
भद्रं भद्र मिति यद्वै पुरुषस्य वित्तद्भद्रं गृहा भद्रं प्रजा भद्रं पशवो भद्रं तदेवैतेनावरुन्द्धे ।
इषमूर्जमिति वर्षं वा इषे यदुपरिष्टाद्वर्षस्यैधते तदूर्जे तदेवैतेनावरुन्द्धे ८८

प्रजापतिं कल्पयित्वोद्गायेत् ।
यो ह वै प्रजापतिं कल्पयित्वोद्गायति कल्पतेऽस्मै दिशः प्रदिश आदिशो विदिश उद्दिशो दिश इति ।
दिशो वै प्रजापतिः ।
प्रजापतिमेव तत्कल्पयित्वोद्गायति ।
कल्पतेऽस्मै य एवं वेद ।
कपिवनो ह स्माह भौवायनः किं ते यज्ञं गच्छन्ति यदेव सोमस्याभक्षयित्वा प्र वा सर्पन्ति प्र वा धावयन्तीति ।
बहिष्पवमानमुपसन्नेषु ब्रूयाद्यं ब्रह्माणं शुचिमिव मन्येताहरहस्तमिति ।
तेन समुपहूयाथानुमन्त्रयेत
यो देवानामिह सोमपीथोऽस्मिन्यज्ञे बर्हिषि वेद्याम्
तस्येदं भक्षयामसि
इति ।
यदि च ह प्रधावयति यदि च नाथ हास्य भक्षित एव देवस्सोमो भवति ।
एतदायतना वा आरण्याः पशवः ।
यद्बहिष्पवमानमरण्ये स्तुवन्ति तस्मादारण्याः पशवोऽरण्यं सचन्ते ।
पराचीषु स्तुवन्ति ।
तस्मादारण्याः पशवोऽरण्यादेवारण्यमभिप्रेरते ।
एकरूपासु स्तुवन्ति ।
तस्मादारण्याः पशव एकरूपाः ।
आवदुत्तममक्षरं भवति ।
तस्मादेकैकोऽन्योऽचलो ग्रामेऽधिगम्यते ।
अथो अरण्ये हतं ग्राममभ्यवहरन्ति ।
स्तुत्वोद्द्रवन्ति ।
यजमानमेव तत्स्वर्गं लोकं गमयन्ति ।
बाहूनुद्गृह्णन्ति ।
यजमानमेव तत्स्वर्गे लोके समादधति ।
ते वै तदनृतं कुर्वन्ति ये मर्त्यं सन्तममृतत्वं गमयन्ति ।
ते रूपेण वर्चसा व्यृध्यन्ते ।
स य एतदेवान्य उत्तिष्ठेत्तमुत्तिष्ठन्तमारभ्यानूत्तिष्ठेत् ।
न रूपेण वर्चसा व्यृध्यते नार्तिमार्छति ।
भविष्यद्विजानीयात् ।
यद्येताः प्रजा दोद्रुवा इव स्युर्दोद्रुवो योगक्षेमो भविष्यति ।
तयायमुद्गातोदगासीदिति विद्यात् ।
यद्यु शान्ता इव स्युश्शान्तो योगक्षेमो भविष्यति ।
तथायमुद्गातोदगासीदिति विद्यात् ।
एषो ह विज्ञा ८९

उपास्मै गायता नरः इति ग्र्तामकामो भूतिकामः प्रजननकामः प्रतिपदं कुर्वीत ।
अस्यै वावेदमुपगायन्ति ।
उप वावेदमस्यां सर्वमुपैवास्यां प्रजया पशुभिः प्रजायते य एवं वेद ।
नरो ह वै देवविशः क्षत्रं सोम इन्दुः ।
विशं चैवैतेन क्षत्रं चावरुन्द्धे ।
अभि देवं इयक्षते इति सर्वा एवैतेन देवता अनन्तरायमभियजते ।
उपो षु जातमप्तुरमिति प्रजाकामः प्रतिपदं कुर्वीत ।
उपेव वा आत्मन्प्रजया पशुभिः प्रजायते ।
एतां एवापरेद्युः प्रतिपदं कुर्वीत ।
अप्तुरमिति ह्यस्या आप्त्वा श्रेयांसं वसीयानात्मना भवति ।
गोभिर्भङ्गं परिष्कृतमिति ।
यज्ञो वै गोभिर्भङ्गः पशवः परिष्कृतः ।
यज्ञं चैवैतेन पशूंश्चावरुन्द्धे ।
इन्दुं देवा अयासिषुः इति ।
यजमानो वै सोमो राजेन्दुस्स्तोमा देवाः ।
स्तोमा एवैनं स्वर्गं लोकं गमयन्ति ९०

पवस्व वाचो अग्रियः इति श्रैष्ठ्यकामः प्रतिपदं कुर्वीत ।
प्रजापतिः प्रजा असृजत ।
ता एनं सृष्टा नापाचायन् ।
सोऽकामयत श्रैष्ठ्यमासां प्रजानां गच्छेयमिति ।
स एतां प्रतिपदमपश्यत् ।
तयास्तुत ।
ततो वै स तासां प्रजानां श्रैष्ठ्यमगच्छत् ।
गच्छति स्वानां श्रैष्ठ्यं य एवं वेद ।
एषो ह वै समृद्धा स्तोत्रिया यस्यै पवस्व इत्यारम्भः ।
समृद्धयैवास्य स्तोत्रियया स्तुतं भवति ।
यो वै दैव्यं मिथुनं वेद प्र मिथुनेन जायते ।
पवस्व इति च वाचः इति च दैव्यं मिथुनम् ।
प्र मिथुनेन जायते य एवं वेद ।
सर्वेषां वा एषा त्रयाणां साम्नां प्रतिपत्पवस्व इति वामदेव्यस्य वाचः इति रथन्तरस्य अग्रियः इति बृहतः ।
सर्वेषामस्य साम्नां प्रतिपदा स्तुतं भवति ।
सोम चित्राभिरूतिभिः इति सोमो वै देवानां चित्रं सोमेनैव देवानां चित्रेण बहुर्भवति प्रजायते ।
अभि विश्वानि काव्या इति विश्वमेवैतेन काव्यमवरुन्द्धे ९१

पवस्वेन्दो वृषा सुतः इति जने प्रतिष्ठाकामः प्रतिपदं कुर्वीत ।
कृधी नो यशसो जनः इति ह्यस्यै यशस्येव जने भवति ।
वृषा सुतः इति वृषेव वै प्रजनितेवाधिपतिरिव तस्यां जनतायां भवति यस्यामृध्यते ।
वृषेवैव प्रजनितेवाधिपतिरिव तस्यां जनतायां भाति यस्यां भवति य एवं वेद ।
सर्वो ह वै जने बुभूषतेऽरातीयति ।
विश्वा अप द्विषो जहि इति विश्वा एवैतेन द्विषोऽपहते ।
तया पवस्व धारया इति संग्रामं संयतिष्यमानस्य प्रतिपदं कुर्यात् ।
यया गाव इहागमञ्जन्यास उप नो गृहानिति जन्या वा एष गा आजिहीर्षति यस्संग्रामं संयतते ।
आ जन्या गा हरति ।
एतामेव प्रतिपदं कुर्वीत सनिं प्रैष्यन् ।
जन्या वा एष गा आजिहीर्षति यस्सनिं प्रैति ।
आ जन्या गा हरत्युपैनं जन्या गावो नमन्ति य एवं वेद ।
अग्न आयूंषि पवसे इत्यामयाविनः प्रतिपदं कुर्यात् ।
अग्निं वा एतस्य शरीरमप्येति वायुं प्राणः ।
अग्निनैवास्य पवमानेन शरीरं प्राणेन संदधाति ।
एतामेवं प्रतिपदं कुर्वीरन्येषां दीक्षितानां प्रमीयते ।
अपूता इव वा एतेऽमेध्या मन्यन्ते येषां दीक्षितानां प्रमीयते ।
अग्निनैवैनान्पवमानेन पूतान्मेध्यान्करोति एतामेव प्रतिपदं कुर्वीत – ९२

– ब्रह्मवर्चसकामः ।
अग्निर्वै देवानां ब्रह्मा ।
अग्निनैव देवानां ब्रह्मणा वर्चसी भवति ।
एतामेव प्रतिपदं कुर्वीताभिचरन् ।
अग्निर्वै देवानां ब्रह्मा ।
अग्निनैव देवानां ब्रह्मणा यं द्वेष्टि तं स्तृणुते ।
एतामेव प्रतिपदं कुर्वीतान्नाद्यकामः ।
आ सुवोर्जमिषं च नः इति ह्यस्या इषं चैवैतेनोर्जं चावरुन्द्धे ।
एतामेव प्रतिपदं कुर्वीताभिचर्यमाणः ।
यो वा अभिचरति योऽभिदासति यः पापं कामयते स वै दुच्छुनः ।
आरे बाधस्व दुच्छुनामित्यारादेवैतेन द्विषन्तं पाप्मानं भ्रातृव्यमवाञ्चमपबाधते ।
दविद्युतत्या रुचा इति ब्रह्मवर्चसकामः प्रतिपदं कुर्वीत ।
दविद्युतती वै गायत्री ।
गायत्री ब्रह्मवर्चसमोजो वीर्यं त्रिष्टुप्प्रजननं जगती ।
ब्रह्मवर्चस्योजस्वी वीर्यवान्प्रजया पशुभिर्जायते य एवं वेद ।
परिष्टोभन्त्या कृपा सोमाश्शुक्रा गवाशिरः इति ।
यज्ञो वै सोमाश्शुक्राः पशवो गवाशिरः ।
यज्ञं चैवैतेन पशूंश्चावरुन्द्धे ।
अस्य प्रत्नामनु द्युतमिति प्रतिपदं कुर्वीत यस्य पिता वा पितामहो वा श्रेयान्स्यादथात्मना पापीयानिव मन्येत ।
यैवास्य पित्र्! या पैतामही श्रीस्तामेवाश्नुते ।
शुक्रं दुदुह्रे अह्रयः इति ।
यज्ञो वै शुक्रः पशवोऽह्रयः ।
यज्ञं चैवैतेन पशूंश्चावरुन्द्धे ।
पयस्सहस्रसामृषिमिति ।
पयस्वानेव भवत्यास्य सहस्रसा वीरो जायते ९३

एते असृग्रमिन्दवः इति बहूनां संयजमानानां प्रतिपदं कुर्यात् ।
एते इत्येवैनाञ्ज्यैष्ठ्यायाभिवदति छन्दसैवैनान्रूपिणा समावद्भाजः करोति ।
समावत्येनान्यज्ञस्याशीरागच्छति ।
प्रजापतिर्यत्प्रजा असृजत ता एनयैव प्रतिपदासृजत ।
एते इत्येव देवानसृजत असृग्रमिति मनुष्यानिन्दवः इति पितॄंस्तिरः पवित्रमिति ग्रहानाशवः इति स्तोमान्विश्वानि इत्युक्थानि अभि सौभगा इत्येवैनाञ्जातान्सौभाग्येनाभ्यानक् ।
प्रजापतिरेव भूतः प्रजास्सृजते य एवं विद्वानेतया प्रतिपदोद्गायति ।
अथो हैनास्तत्सौभाग्येनैवाभ्यानक्ति ।
असृक्षत प्र वाजिनः इति त्रयाणां संयजमानानां प्रतिपदं कुर्यात् ।
छन्दसैवैनान्रूपिणा समावद्भाजः करोति ।
समावत्येनान्यज्ञस्याशीरागच्छति ।
गव्या सोमासो अश्वया इति गोअश्वमेवैभ्य एतेनावरुन्द्धे ।
शुक्रासो वीरयाशवः इति यज्ञो वै शुक्रः प्रजा वीरो यज्ञं चैवैभ्य एतेन प्रजां चावरुन्द्धे ।
युवं हि स्थः स्वःपती इति द्वयोस्सम्यजमानयोः प्रतिपदं कुर्यात् ।
छन्दसैवैनौ रूपिणा समावद्भाजौ करोति ।
समावत्येनौ यज्ञस्याशीरागच्छति ९४

इन्द्र श्च सोम गोपती ईशाना पिप्यतं धियः इति ।
इन्द्र श्च वै सोमश्चाकामयेतां सर्वासां प्रजानामैश्वर्यमाधिपत्यमश्नुवीवहीति ।
तावेतां प्रतिपदमपश्यताम् ।
तयास्तुवताम् ।
ततो वै तौ सर्वासां प्रजानामैश्वर्यमाधिपत्यमाश्नुवाताम् ।
अश्नुते ह वै स्वानामैश्वर्यमाधिपत्यमेतया प्रतिपदा तुष्टुवानः ।
इन्द्रा येन्दो मरुत्वते इति राजन्यबन्धोः प्रतिपदं कुर्यात् ।
षन्द्रो वै राजन्यो मारुतीर्विशः ।
क्षत्रायैव तद्विशमनुवर्त्मानं कुर्वन्ति ।
तस्मात्क्षत्रस्य विडनुवर्त्मा ।
यो जिनाति न जीयते इति वा जिनात्येव न जीयते ।
हन्ति शत्रुमभीत्य इत्यन्यतो वात्येवाभीत्य शत्रुं हन्ति नैनं शत्रुः प्रत्युद्यामी भवति ।
स पवस्व सहस्रजिदिति ।
यो वै सर्वं जयति विजयते सः ।
सर्वजित्सर्वमेव जयति ।
विजयत एतया प्रतिपदा तुष्टुवानः ९५

अपघ्नन्पवते मृधः इत्यभिशस्यमानस्य प्रतिपदं कुर्यात् ।
मृधो वा एतमजुष्टास्सचन्ते यमभिशंसन्ति ।
अप पापीर्मृधो हते ।
अप सोमो अराव्णः इति ।
अरावाण इव ह्येतं सचन्ते यमभिशंसन्ति ।
गच्छन्निन्द्र स्य निष्कृतमिति ।
अनिन्द्रि यो वा एषोऽपदेवो भवति यमभिशंसन्ति ।
इन्द्रि यावन्तमेवैनमेतेन सदेवं कुर्वन्ति ।
आग्नावारुणीआमयाविनो ज्योगामयाविनः प्रतिपदं कुर्यात् ।
अग्निना वा एष वरुणेन गृहीतो भवति य आमयावी ज्योगामयावी ।
अग्निनैवैनमाग्नेयान्मुञ्चन्ति वरुणेन वारुणात् ।
यस्यां वर्षीयस्यामृचि ह्रसीयो ह्रसीयस्यां वा वर्षीयस्तां आनायकामः प्रतिपदं कुर्वीत ।
वर्षीयसा वा एष ह्रसीयः प्रेप्स्यतीति ह्रसीयसा वर्षीयः ।
प्र ह्रसीयसा वर्षीय आप्नोति य एवं वेद ।
एष देवो अमर्त्यः इति प्रतिपदं कुर्वीत यः कामयेताहमेवैकधा श्रेष्ठस्स्वानां स्यां रुचमश्नुवीयेति ।
एष एषः इत्येवैनां ज्येष्ठ्याय श्रेष्ठ्यायाभिवदति ।
एकधैव श्रेष्ठस्स्वानां भवति रुचमश्नुते ।
ईश्वरो ह त्वस्यापरः प्रजायामेतादृङ्वीरो नाजनितोः ।
एष एव नातोऽन्य इतीव ह्येनं वागभिवदति ।
तदु त्वेतन्न तथा ।
देवो अमर्त्यः इति वा आह ।
अदेवश्च ह वै स मर्त्यश्च यस्य वीरस्य सतो वीरो वीर्यवान्नाजायते ।
अथ ह वै स एव देवस्सोऽमर्त्यओ यस्य वीरस्य सतो वीरो वीर्यवानाजायते ।
आ हास्य वीरस्य सतो वीरो वीर्यवाञ्जायते संधीयते प्रजया न व्यवच्छिद्यते ९६

देवासुरा अस्पर्धन्त ।
ते देवा वज्रं क्षुरपविमसृजन्त पुरुषमेव ।
तमसुरानभ्यवृञ्जन् ।
सोऽसुरानपोह्य देवानभ्यावर्तत ।
तस्माद्देवा अबिभयुः ।
तमभिपद्य त्रेधा समशृणन् ।
स त्रेधा संशीर्ण उदेवातिष्ठत् ।
तमारभ्य पर्यैक्षन्त ।
तस्मिन्देवताश्छन्दांसि पुरुषे प्रविष्टा अपश्यन् ।
तेऽब्रुवन्देवता वै छन्दांसीमा अस्मिन्पुरुषे प्रविष्ठाः ।
अस्मिन्वा अयं लोके पुण्यं जीवित्वेष्टापूर्तेन तपसा सुकृतेनास्मानन्वागमिष्यतीति ।
ते वै तथा करवामेत्यब्रुवन्यथा नो नान्वागच्छादिति ।
तस्मै वै पाप्मानमन्ववदधामेति तस्मा एतं पाप्मानमन्ववादधुः – ९७

– स्वप्नं तन्द्री ं! मन्युमशनयामक्षकाम्यां स्त्रीकाम्यामिति ।
एते ह वै पाप्मानः पुरुषमस्मिँ ल्लोके सचन्ते ।
य एतदग्ने तीर्त्वास्मिँ ल्लोके साधु चिकीर्षात्तत्त्वमस्मिँ ल्लोके धीप्सतादित्यग्निमस्मिँ ल्लोकेऽदधुः ।
वायुमन्तरिक्ष आदित्यं दिवि ।
उग्रदेवो ह स्माह राजनिर्नाहं मनुष्यायारातीयामि यानस्मै त्रीन्देवानां श्रेष्ठानरातीयतोऽशृणोम् ।
अरातीतमरातीतं ह्येव तस्मै यस्मा एता देवता अरातीयन्तीति ।
अथो हास्मा एता देवता नारातीयन्ति य एवं वेद ।
अथो ह तमेव धीप्सन्ति य एवं विद्वांसं धीप्सतीति ।
ते देवा अब्रुवन्या एवेमा देवताश्छन्दांसि पुरुषे प्रविष्टा एताभिरेवासुरान्धूर्वामैवेति ९८

तेषां प्राणमेव गायत्र्! यावृञ्जत चक्षुस्त्रिष्टुभा श्रोत्रं जगत्या वाचमनुष्टुभा ।
अस्मादेवैनाँ ल्लोकाद्गायत्र्! यान्तरायन्नन्तरिक्षात्त्रिष्टुभामुष्माज्जगत्या पशुभ्योऽनुष्टुभा ।
तान्सर्वस्मादेवान्तरायन् ।
ततो वै देवा अभवन्परासुराः ।
भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद ।
यद्देवा असुरानधूर्वंस्तद्धुरां धूस्त्वम् ।
धूर्वति द्विषन्तं भ्रातृव्यं य एवं वेद ।
प्रजापतिर्यत्प्रजा असृजत ता धूर्भिरेवासृजत ।
रेत एव रेतस्ययासिञ्चत्प्राणं गायत्र्! या समैरयच्चक्षुस्त्रिष्टुभा श्रोत्रं जगत्या वाचमनुष्टुभा ।
आत्मानमेव पङ्क्त्या प्रत्युपादधात् ।
प्रजापतिरेव भूतः प्रजास्सृजते य एवं विद्वान्धूर्भिरुद्गायति ९९

रेतस्यां गायति ।
रेतस्तत्सिञ्चति ।
संततमिव गायति ।
सततिमिव वै रेतः ।
परोक्षमेव प्रथमे गायति ।
परोक्षमिव वै रेतः ।
नर्चमुपस्पृशेत् ।
यदृचमुपस्पृशेद्रे तो विच्छिन्द्यात् ।
त्र्! युदासां गायति ।
प्राणमेव प्रथमेनोदासेन परिगृह्णात्यपानं द्वितीयेन व्यानं तृतीयेन ।
त्र्! युदासां गायति ।
आत्मानमेव प्रथमेनोदासेन परिगृह्णाति जायां द्वितीयेन प्रजां तृतीयेन ।
त्र्! युदासां गायति ।
इममेव लोकं प्रथमेनोदासेनाभ्यारोहत्यन्तरिक्षं द्वितीयेनमुं तृतीयेन ।
स यो हैवं विद्वांस्त्र्! युदासां गायत्यभि ह भ्रातृव्यलोकाय विजयते ।
स यो भ्रातृव्यलोकं चिच्छित्सेद्द्व्युदासामेव गायेत् ।
ओषमस्य द्विषन्भ्रातृव्यः पराभवति श्रियमात्मनाश्नुते ।
ईश्वरो ह तु प्रमायुको भवितोः ।
प्राणेभ्यो ह्येति त्र्! युदासायै ।
स तथैव चिकीर्षेद्यथा सर्वमायुरियात् ।
अन्येन भ्रातृव्यलोकं चिच्छित्सेद् ।
त्र्! युदासामेव गायेत् ।
न हिंकुर्यात् ।
यद्धिंकुर्याद्वज्रेण हिंकारेण रेतो विच्छिन्द्यात् १००

तदाहुर्हिंकारेण वै प्रजापतिः प्रजाभ्योऽन्नाद्यमसृजत ।
यन्न हिंकुर्यादशनायुकाः प्रजास्स्युः ।
हिंकुर्यादेव ।
भूः इति ।
यन्न हिंकारं विसृजति तेन रेतो विच्छिनत्ति न हिंकारमन्तरेतीति ।
तदु वा आहुः ममृदीय इव वा अतो रेतो दारुणतर इव ।
हिंकारोऽपि वैनद्वालेन विच्छिन्द्यात् ।
हिंकारस्यैव काले हिंकारं मनसा ध्यायेत् ।
तन्न रेतो विच्छिनत्ति न हिंकारमन्तरेतीति ।
भूः इति निधनं करोति ।
प्रजापतिर्यदग्रे व्याहरत्स भूः इत्येव व्याहरत् ।
स इमामसृजत ।
स यद्भूः इति निधनं करोत्यस्यामेवैतद्रे तः प्रतिष्ठापयत्यथो एनत्तद्भूतिमेव गमयति १०१

गायत्रीं गायति ।
प्राणो वै गायत्री ।
तस्यै द्वे अक्षरे व्यतिषजति ।
प्राणापानावेव तद्व्यतिषजति ।
तस्मात्प्राणापानौ व्यतिषक्तौ प्रजा अनुसंचरत आ च परा चायातयामानौ ।
सदिति निधनं करोति ।
प्राणो वै सन् ।
प्राण एव तत्प्रतितिष्ठति ।
त्रिष्टुभं गायति ।
चक्षुर्वै त्रिष्टुप् ।
तस्यै द्वे अक्षरे द्योतयति ।
चक्षुषी एव तद्दधाति ।
तस्माद्युक्ते इव चक्षुषी ।
ज्योतिः इति निधनं करोति ।
चक्षुर्वै ज्योतिः ।
चक्षुष्येव तत्प्रतितिष्ठति ।
जगतीं गायति ।
श्रोत्रं वै जगती ।
तस्यै चत्वार्यक्षराणि द्योतयति ।
श्रोत्रमेव तद्दधाति ।
श्रोत्रे द्वे परिश्रवणे द्वे ।
तस्मात्समानत्र सन्सर्वा अनुदिशश्शृणोत्यपि पराङ्यन्पश्चाद्वदतश्शृणोति ।
इळा इति निधनं करोति ।
पशवो वा इळा ।
पशुष्वेतत्प्रतितिष्ठति ।
अनुष्टुभं गायति ।
वाग्वा अनुष्टुप् ।
तामर्वाचीमभिनुदन्गायति वाचोऽनपक्रमाय ।
यत्पराचीमपनुदन्गायेद्वाचं प्रधमेद्वागस्मादपक्रामुका स्यात् ।
तां यदर्वाचीमभुनुदन्गायत्यात्मन्नेव तद्वाचं प्रतिष्ठापयति ।
तस्यै निरुक्तं चानिरुक्तं च पदे गायति ।
निरुक्तेन वै वाचो भुञ्जतेऽनिरुक्तमस्या उपजीवनीयम् ।
भुङ्क्ते वाचोप चैनां जीवति य एवं वेद ।
स यन्निरुक्तमेव गायेद्वदेयुरेव प्रजा न तूष्णीमासीरन् ।
अथ यदनिरुक्तं गायेद्तूष्णीमेव प्रजा आसीरन्न वदेयुः ।
यस्मान्निरुक्तं चानिरुक्तं च पदे गायति तस्मात्प्रजा वदन्ति च तूष्णीं चासते ।
वागिति निधनं करोति ।
वाग्वै ब्रह्म ।
वाच्येव तद्ब्रह्मन्प्रतितिष्ठति ।
पङ्क्तिं गायति ।
ऋतवो वै पङ्क्तिः ।
तस्यै षडक्षराणि द्योतयति ।
षड्वा ऋतवः ।
ऋतुष्वेव तत्प्रतितिष्ठति १०२

तदाहुस्समदमिव वा एतच्छन्दोभ्यः कुर्वन्ति यद्गायत्रे सति प्रातस्सवने सर्वाणि छन्दांस्यभिगीयन्ते योधुकाः प्रजा भवन्तीति ।
स यः कामयेत शान्ताः प्रजा एधेरन्निति न धुरो विगायेत् ।
अपशीर्षाणं तु यज्ञं यजमानस्य कुर्यादनृतेन दक्षिणाः प्रतिगृह्णीयात् ।
ब्रह्म वै करदिति वै यजमानो दक्षिणा ददाति ।
स तथैव चिकीर्षेद्यथा नापशीर्षाणं यज्ञं यजमानस्य कुर्यान्नानृतेन दक्षिणाः प्रतिगृह्णीयात् ।
व्येव गायेत् ।
यस्त्वा एना विजिगासन्न शक्नोति विगातुमार्तिमार्च्छति ।
यदि रेतस्यां न शक्नोति विगातुमरेतस्क आत्मना भवति अरेतस्का गर्भा जायन्ते ।
यदि गायत्रीं न शक्नोति विगातुं प्रमायुक आत्मना भवति मृता गर्भा जायन्ते ।
यदि त्रिष्टुभं न शक्नोति विगातुमन्ध आत्मना भवत्यन्धा गर्भा जायन्ते ।
यदि जगतीं न शक्नोति विगातुं बधिर आत्मना भवति बधिरा गर्भा जायन्ते ।
यद्यनुष्टुभं न शक्नोति विगातुमजिह्व आत्मना भवति अजिह्वा गर्भा जायन्ते ।
यदि पङ्क्तिं न शक्नोति विगातुमृतवो लुभ्यन्ति ।
स य एना नाशंसेत विगातुं परोक्षेणैवैनास्स रूपेण गायेत् ।
उभयेन त्वाव रेतस्या गीयते १०३

गायत्र्! यां प्रस्तुतायां गायत्रमेव गायन्पृथिवीं मनसा गच्छेत् ।
प्राण्यापान्यान्यात् ।
सदिति निधनं करोति ।
परोक्षेणैवैनांस्तद्रू पेण गायति ।
त्रिष्टुभि प्रस्तुतायां गायत्रमेव गायन्नन्तरिक्षं मनसा गच्छेत् ।
दिदृक्षेतैवाक्षिभ्याम् ।
ज्योतिः इति निधनं करोति ।
परोक्षेणैवैनांस्तद्रू पेण गायति ।
जगत्यां प्रस्तुतायां गायत्रमेव गायन्दिशः पशून्मनसा गच्छेत् ।
शुश्रूषेतैव कर्णाभ्याम् ।
इळा इति निधनं करोति ।
परोक्षेणैवैनांस्तद्रू पेण गायति ।
अनुष्टुभि प्रस्तुतायां गायत्रमेव गायन्दिवं मनसा गच्छेत् ।
वाचा गायन्वागिति निधनं करोति ।
परोक्षेणैवैनांस्तद्रू पेण गायति ।
पङ्क्त्यां प्रस्तुतायां गायत्रमेव गायनृतून्मनसा गच्छेत् ।
परोक्षेणैवैनांस्तद्रू पेण गायति ।
ओषमेवैतदुत्तमं तृचं गायति ।
प्रजननो वा एष तृचः ।
ओषमेव प्रजया पशुभिः प्रजायते य एवं वेद ।
प्रजापतिर्यत्प्रजा असृजत ता एतेनैव तृचेनासृजत ।
पवमानस्य ते कवे वाजिन्सर्गा असृक्षत इति सर्गश एवासृजत ।
असृग्रं वारे अव्यये इति चासृजत ।
तासां सृष्टानां परावापादबिभेत् ।
स एतामुत्तमां समुद्र वतीमपश्यत् ।
तयैनाः अच्छा समुद्र मिन्दवः इत्येव समुद्रे ण समन्तं परिण्यदधात् ।
ता अस्य न परोप्यन्त ।
नास्य वित्तं परोप्यते य एवं वेद ।
अग्मन्नृतस्य योनिमा इति ।
ग्रहा ह वा ऋतस्य योनिः ।
एतस्य ह वा इदमक्षरस्य कृतो जाताः प्रजा गच्छन्ति चा च गच्छन्ति १०४

देवासुरा वा एषु लोकेष्वस्पर्धन्तास्मिन्भुवने ।
ते देवा अकामयन्तेमाँ ल्लोकाञ्जयेमासुरान्स्पर्धां भ्रातृव्यानिति ।
त एतान्याज्यानि स्तोत्राण्यपश्यन् ।
तैरस्तुवत ।
तैरिमानाजयन् ।
इमानेव लोकमाग्नेयेनाजयन्नन्तरिक्षं मैत्रावरुणेनामुमैन्द्रे ण दिश एवैन्द्रा ग्नेन ।
तद्यदिमाँ ल्लोकानाजयंस्तदाज्यानामाज्यत्वम् ।
एमाँ ल्लोकाञ्जयति स्पर्धां द्विषन्तं भ्रातृव्यं य एवं वेद ।
ते देवा अब्रुवन्वीमानि भजामहा इति ।
तेषां ह विभागे न समपादयन् ।
तेऽब्रुवनाजिमेषामयाम गिरिं काष्ठां कृत्वेति ।
यदब्रुवनाजिमेषामयामेति तदेषां द्वितीयमाज्यत्वम् ।
यदु गिरिं काष्ठामकुर्वंस्तस्मादसौ गिरिः काष्ठो नाम १०५

तेषां पच्छोऽसृज्यन्त ।
तेषामग्निः प्रथम उदजयत् ।
अथ मित्रावरुणावथेन्द्र ः! ।
अथैकमनुज्जितमासीत् ।
तदिन्द्रो ऽवेदग्निर्वावेदमुज्जेष्यतीति ।
सोऽब्रवीदग्ने यतर आवयोरिदमुज्जयात्तन्नौ सहासदिति ।
तथेति ।
तदग्निरुदजयत् ।
तदेनयोस्सहाभवदध्यर्धमन्यस्य स्तोत्रमध्यर्धमन्यस्य ।
षन्द्रा ग्नो यज्ञः ।
स य एवमेता देवानामुज्जितीर्वेद यत्र कामयत उदिह जयेयमित्युत्तत्र जयति ।
तदाहुर्यदाज्यानि सर्वाणि समाननिधनानि केनाजामि क्रियन्त इति ।
नानादेवत्यानीति ब्रूयात्तेनाजामीति ।
अथो यन्नानारूपाणीति ब्रूयात्तेनो एवेति ।
ते वा एते पशव एव ।
यदाज्यान्यन्तसदसं स्तुवन्ति तस्माद्ग्राम्याः पशवोऽन्तर्ग्रामे न्योकसः ।
पराचीषु पुनरभ्यावर्तन्त ।
तस्माद्ग्राम्याः पशवः पराञ्चः प्रातः प्रेरते ते सायं समावर्तन्ते ।
नानारूपासु स्तुवन्ति ।
तस्माद्ग्राम्याः पशवो नानारूपाः ।
नानादेवत्यासु स्तुवन्ति ।
तस्माद्ग्राम्याः पशवो नाना ।
ते यथायथं सायं गृहानभ्युपायन्ति १०६

देवासुरास्संयत्ता ज्योङ्न व्यजयन्त ।
तेष्वसुरेष्विदं सर्वमासीत् ।
अथैकमेवाक्षरं देवेष्वासीत् ।
वागेव ।
सोऽग्निरब्रवीदहं वा इदमदर्शं यथेदं जेष्यामीति ।
तद्वै ब्रूहीत्यब्रुवन् ।
सोऽब्रवीदक्षरेणैवेदं सर्वं संनिधाय धुराधुरमासजामेति ।
यदब्रवीदक्षरेणैवेदं सर्वं संनिधाय धुराधुरमासजामेति तदाज्यधुरामाज्यधूस्त्वम् ।
तेऽक्षरेणैवेदं सर्वं संनिधाय धुराधुरमासजन् ।
तानजयन् ।
जयति स्पर्धां द्विषन्तं भ्रातृव्यं य एवं वेद ।
स यदीतरा धुरो विगायेद्व्येवाज्यधुरो गायेत् ।
स यो हैवं विद्वान्संग्रामयोस्संनिहितयोर्ब्रूयादक्षरेण त्वा संनिदधामीति परं ग्रामं स हैव तं ग्रामं जयति ।
अथो यस्मिन्नेवंविद्ग्रामे भवति स उ हैव तं ग्रामं जयति ।
ते देवा अब्रुवन्वीमानि भजामहा इति ।
तस्मादु गिरिः काष्ठो नाम १०७

स तेषां सकृदेवं सर्वेषामसृज्यन्त ।
तेषामग्निरेवोदजयत् ।
तस्यापगमनमगतस्याक्षोऽछिद्यत ।
तस्य रथचक्रं पतित्वा कृष्णाधिकां कोशान्तेन पर्यवर्तत ।
तमब्रुवन्नीक्षित्वान्नादो वा अयं श्रेष्ठो भविष्यति पाप्मा वा अस्य पर्यवर्तीति ।
स यो हैवं विद्वान्परिवर्तयतेऽन्नाद एव श्रेष्ठस्स्वानां भवत्यथो हास्य तं पाप्मानमेव परिवर्तयन्ति ।
सोऽग्निरुज्जित्य प्राद्र वत् ।
तमिन्द्रो ऽब्रवीत्सह नावस्त्विति ।
नेत्यब्रवीत् ।
यद्वा एको गृह्याणां विन्दते सर्वेषां वै तत्सह भवति ।
सहैव नावस्त्विति ।
नेत्येवाब्रवीत् ।
स वै माभि चिदवेक्षस्वेति ।
तमभ्यवैक्षत ।
सोऽब्रवीत्सान्त्वाय माभ्यवैक्षिष्ठास्सह नावभूदिति ।
यंयं न्वेवाहमभ्यवेक्षिष्य इत्यब्रवीत्तेनतेनैव मे सह भवैष्यतीति ।
नेत्येवाब्रवीत् ।
सान्त्वाय वै मा त्वमेनदभ्यवैक्षिष्ठास्सहैव नावभूदिति १०८

तौ वै पृच्छावहा इति ।
तौ प्रजापतावपृच्छेताम् ।
स प्रजापतिरब्रवीत्सान्त्वाय वै वां त्वमेतमभ्यवैक्षिष्ठास्सहैव वामभूदिति ।
तथेति ।
तदेनयोस्सहाभवदध्यर्धमन्यस्य स्तोत्रमध्यर्धमन्यस्य ।
षन्द्रा ग्नो यज्ञः ।
तौ मित्रावरुणौ प्राणापानौ पशुभ्योऽपाक्रामतामनुवी मन्यमानौ नावाभ्यामनुवीभ्यां पशवः प्राणिष्यन्तीति ।
ते पशवोऽप्राणन्त आध्मायमाना अशेरत ।
तदाभ्यामाचक्षताप मित्रावरुणौ प्राणापानौ पशुभ्योऽतामिष्ठां त इमेऽप्राणन्त आध्मायमानाश्शेरत इति ।
तावाद्रुत्याब्रूतां प्राणन्तु नौ युवाभ्यां पशव इति ।
नावाभ्यामनुवीभ्यामित्यब्रूताम् ।
ताभ्यामेतं मैत्रावरुणमाज्यमवाकल्पयन् ।
ततो वै ताभ्यां पशवः प्राणन् ।
स य एवमेतामग्नेरुज्जितिं वेद यत्र कामयत उदिह जयेयमित्युत्तत्र जयति ।
य उ एवैतामिन्द्र स्यार्धितां वेद यत्र कामयत उदिह जयेयमित्युत्तत्र जयति ।
य उ एवैतां मित्रावरुणयोरवक्ळ्प्तिं वेद यत्र कामयतेऽव म इह कल्पेतेत्यवास्मै तत्र कल्पते १०९

तानि वा एतान्यैन्द्रा ग्नान्येव सर्वाणि यदाज्यानि ।
आग्नेयीषु स्तुवन्ति ।
तेनाग्नेयं गायत्री छन्दस्तेनाग्नेयं पञ्चदशस्तोमस्तेनैन्द्र म् ।
तदेतदैन्द्रा ग्नमेव मैत्रावरुणीषु स्तुवन्ति ।
तेन मैत्रावरुणं गायत्री छन्दस्तेनैग्नेयं पञ्चदशस्तोमस्तेनैन्द्र म् ।
तदेतदैन्द्रा ग्नमेवैन्द्री षु स्तुवन्ति ।
तेनैन्द्रं गायत्री छन्दः ।
षन्द्रा ग्नमेवैन्द्रा ग्नीषु स्तुवन्ति ।
तेनैन्द्रा ग्नं गायत्री छन्दस् ।
तेनाग्नेयं पञ्चदशस्तोमस्तेनैन्द्र म् ।
तदेतदैन्द्रा ग्नमेवैन्द्रा ग्नीषु स्तुवन्ति ।
तेनैन्द्रा ग्नं गायत्री छन्दस्तेनाग्नेयं पञ्चदशस्तोमस्तेनैन्द्र म् ।
तदेतदैन्द्रा ग्नमेव ।
इन्द्रा ग्नी यज्ञस्य देवता ।
स्वायामेवैतद्देवतायां प्रातस्सवने यज्ञं प्रतिष्ठापयन्ति ११०

प्रजापतिः प्रजा असृजत ।
ता अप्राणा असृजत ।
ताभ्य एतेनैव साम्ना प्राणमदधात् ।
प्राणो वै गायत्रम् ।
सर्वमायुरेति य एवं वेद ।
ताः प्राणं विविदाना रक्षांस्यन्वसचन्त ।
ता एतदेव साम गायन्नत्रायत ।
यद्गायन्नत्रायत तद्गयत्रस्य गायत्रत्वम् ।
त्रायत एनं सर्वस्मात्पाप्मनो य एवं वेद ।
तदूर्ध्वमिव गेयम् ।
ऊर्ध्वो वै स्वर्गो लोकः ।
स्वर्गस्यैव लोकस्य समष्ट्यै ।
त्र्! यावृद्गेयम् ।
त्रयो वा इमे लोकाः ।
एषां लोकानामाप्त्यै ।
त्र्! युदासं गेयम् ।
त्रयो वै प्राणापानव्यानाः ।
तेषां संतत्यै ।
समस्मै प्राणापानव्यानास्तायन्ते य एवं वेद ।
त्र्! यावृद्गेयम् ।
त्रयो वा इमे लोकाः ।
एषां लोकानां संतत्यै ।
समस्मा इमे लोकास्तायन्ते य एवं वेद १११

पितृदेवत्यं त्वस्य नोपगन्तवा इत्याहुः ।
एतद्ध वा अस्य पितृदेवत्यं यत्तान्तीकरोति ।
यदि सामि ताम्येन्मध्य ऋचोऽवान्यात् ।
प्राणो वा ऋक्प्राणो गायत्रम् ।
प्राणस्यतन्मध्ये प्राणं समानयते ।
यद्यु च इयात्प्राणापानव्यानान्गायेत् ।
प्राण इति द्वे अक्षरे अपान इति त्रीणि व्यान इति त्रीणि ।
तदष्टौ संपद्यन्ते ।
अष्टाक्षरा गायत्री ।
तेन गायत्र्! यै नैति ।
साम्नोऽन्तररण्यं नावेत्यम् ।
यो ह वै साम्नोऽन्तररण्यमवैति सर्वज्यानिं वा जीयते प्र वा मीयते ।
एतद्ध वै साम्नोऽन्तररण्यं यत्प्रस्तुतमनभिस्वरितमादीयते ।
स्वरेण संपाद्योद्गायेत् ।
एतद्वै साम्नस्स्वं यत्स्वरः ।
स्वेनैवैनत्तत्समर्धयति ।
एतद्वै साम्नोऽन्नाद्यं यत्स्वराः ।
अन्नाद्येनैवैनत्तत्समर्धयति ।
एतद्वै साम्न आयतनं यत्स्वरः ।
आयतनेनैवैनत्तत्समर्धयति ।
एतद्वै साम्नः प्रियं धाम यत्स्वरः ।
प्रियेणैवैनत्तद्धाम्ना समर्धयति ११२

देवान्वै यज्ञस्याहुतिर्नागच्छत् ।
स प्रजापतिराइक्सत कथं नु देवान्यज्ञस्याहुतिर्गच्छेदिति ।
स एते द्वे अक्षरे गायत्र्! या उदखिदत् ।
स एव द्व्यक्षरो वषट्कारोऽभवत्ततो वै देवान्यज्ञस्याहुतिरगच्छत् ।
अन्नं वै वषट्कारः ।
अत्त्यन्नं य एवं वेद ।
इन्द्रो वृत्राय वज्रमुदयच्छत् ।
तस्यैते अक्षरे चक्रावास्ताम् ।
वज्रो वा एषः ।
य एते निस्पृशेद्वज्रं निस्पृशेत् ।
यो वै दुग्धाद्दुग्धमुपैति न स आप्यायते ।
अथ योऽदुग्धाद्दुग्धमुपैति स आप्यायते ।
दुग्धाद्वा एष दुग्धमुपैति य एते अक्षरे उपैति ।
तस्मादेते अक्षरे नोपेत्ये ।
यस्य वै सर्वा गायत्री गीयते सर्वमस्य गृहे अधिगम्यते ।
यस्यो नागीयत ईश्वरो रूक्षो भवितोः ।
अन्यतरदक्षरमवगृह्य वाचं चतुर्विंशीमुपेयात् ।
नास्योना गायत्री गीयते नि च स्पृशति न च ११३

यो वा अंशुमेकाक्षरं वेदान्नाद एव श्रेष्ठस्स्वानां भवति ।
अथो सह एव तस्यै जनताया उद्गायति ।
वाग्वा अंशुरेकाक्षरः ।
तदेव गायत्रम् ।
गायत्र्! यै प्रस्तुतायै यदादेरुत्तरमक्षरं स स्थाणुः ।
यस्तदुद्गायन्नारभते स्थाणुमारभते ।
य एनं निर्हरति गायत्रीं छिद्रा ं! करोति ।
गायत्रीं छिद्रा ं! अनु यज्ञस्स्रवति यज्ञमनु यजमानो यजमानमनु प्रजाः ।
सध्र्यश्वो ह स्माह तैग्मायुधिः क उ स्विदद्य रसदिहावुरसि निम्रदिष्यत इति ।
एते ह वै रसदिहौ ये एते गायत्र्! या उत्तमे अक्षरे ।
यस्ते उद्गायन्नारभते रसदिहावुरसि निमर्दते ।
य उ एने निर्हरति गायत्रीं छिद्रा ं! करोति ।
गायत्रीं छिद्रा ं! अनु यज्ञस्स्रवति यज्ञमनु यजमानो यजमानमनु प्रजाः ११४

तानि सर्वाण्यक्सराण्युद्धृत्य वाचं दध्यात् ।
वाग्वै ब्रह्म ।
तद्यथा चर्मणा कृतिकण्टकान्प्रावृत्यातीयादेवमेवैतद्वाचा ब्रह्मणा यज्ञस्थाणुं प्रमृद्य स्वस्त्यतिक्रामति नार्तिमार्छति ।
अव वा एतत्प्रतिहर्ता साम्नश्छिद्यते यद्गायत्रस्य न प्रतिहरति ।
प्रस्तूयमानं मनसा प्रतिहिंकुर्यात् ।
अपान्य वागिति ब्रूयात् ।
तथा साम्नो नावच्छिद्यते नार्तिमार्छति ।
यो वा अक्षरमंशुमद्वेद वहन्त्येनमंशुमतीस्संयुक्ताः ।
वाग्वा अक्षरम् ।
तस्यै प्राण एवांशुः ।
वहन्त्येनमंशुमतीस्संयुक्ता य एवं वेद ११५

मरुत्वतीः प्रतिपदो भवन्ति ।
मरुत्वन्तं ग्रहं गृह्णन्ति मरुत्वान्वा इन्द्रो वृत्रमहन्वार्त्रहत्याय ।
उच्चा ते जातमन्धसा इत्यन्धस्वतीर्भवन्ति ।
अहर्वा अन्धः ।
अह्न एवारम्भः ।
यज्ञो वा अन्धः ।
यज्ञस्यैवारम्भः ।
त्रीणि यज्ञेऽन्धांसीति ह स्म पूर्वे ब्राह्मणा मीमांसन्ते उच्चा ते जातमन्धसा । वसोर्मन्दानमन्धसः । पुरोजिती वो अन्धसः इति ।
त्रयः पशुषु भोगाः प्रातर्मध्यन्दिने सायम् ।
तानेवैतेनावरुन्द्धे ।
इमौ वै लोकौ सह सन्तौ व्यैताम् ।
तयोर्न किं चन समपतत् ।
ते देवमनुष्या आशनायन् ।
इतःप्रदानाद्धि ते देवा जीवन्त्यमुतःप्रदानान्मनुष्याः ।
स एताः प्रजापतिरृचोऽपश्यदुच्चा ते जातमन्धसा इति ।
स उदित्येवेतो देवेभ्यो हव्यमवहद्दिवि सद्भूम्या ददे इत्यमुतो वृष्टिमाच्यावयत् ।
ताविमौ लोकौ सवासिनावकरोत् ।
तावस्मै कामं अपिन्वाताम् ।
काममस्मा इमौ लोकौ पिन्वाते य एवं वेद ।
तासु गायत्रमुक्तब्राह्मणम् ११६

अथामहीयवम् ।
प्रजापतिः प्रजा असृजत ।
ता अनशना असृजत ।
ता अशनायन्तीरन्यान्यामादन् ।
स प्रजापतिरैक्षत कथं नु म इमाः प्रजा नाशनायेयुरिति ।
स एतत्सामापश्यत् ।
तेनाभ्योऽन्नाद्यं प्रायच्छद्वर्षमेवापनिधनेन ।
ताभ्योऽवर्षदेव नोदगृह्णात् ।
स एतन्निधनमपश्यत् ।
तदुपैत् ।
तत आभ्य उदगृह्णात् ।
एतस्य ह वा इदं साम्नः क्रतोर्वर्षति च पर्जन्य उच्च गृह्णाति ।
यो वृष्टिकामस्स्यादेतेनैवापनिधनेन स्तुवीत ।
वर्षुको हास्मै पर्जन्यो भवति ।
स यद्यतीव वर्षेदेतदेव निधनमुपेयादुदहास्मै गृह्णाति ।
वर्षति च हास्मै पर्जन्य उच्च गृह्णाति य एवं वेद ।
ता यदेनं प्रजास्सुहिता अशिता आमहीयन्त तदामहीयवस्यामहीयवत्वम् ।
षनं भार्यास्सुहितास्सुहितं महीयन्ते य एवं वेद ।
ता एनमन्नं विविदाना नापाचायन् ।
सधमादमिवैवासन् ।
अन्नं हि श्रीः ।
सोऽशोचत् ।
स नामहीयत ।
स षक्षत कथं न्विमा अहं प्रजास्सृजेय ता मा सृष्टा नापचायेयुरिति ।
स एतत्सामापश्यत् ।
तेनास्तुत ११७

स स्तौषे इत्येव निधनमुपैत् ।
ता अतोषयत् ।
ता अस्य वशमायन् ।
तोषयति द्विषतो भ्रातृव्यान्वशमस्य स्वा आयन्ति य एवं वेद ।
स यदामहीयमाना अपश्यत्तदामहीयवस्यामहीयवत्वम् ।
यद्वेवैना वशे कृत्वामहीयत तद्वेवामहीयवस्यामहीयवत्वम् ।
आस्वान्वशे कृत्वा महीयते य एवं वेद ।
तद्येऽस्य स्वा अवशीकृता इव स्युरेतदेवैषां मध्य आसीनोऽधीयीत ।
वश एवैनान्कुरुते ।
उत्तरकुरवो हाहुरवषट्कृतस्यैव सोमस्य कुरुपञ्चाला भक्षयन्तीति ।
एकैकस्यै देवतायै होता वषट्करोति सर्वाभ्य उद्गाता ।
सर्वदेवत्यो ह्युद्गाता ।
आमहीयवस्य निधनेन वषट्कुर्यादिति ।
वषट्कृतस्यैव सोमस्य भक्षयन्ति ।
तदु ह स्माह मार्जश्शैलनो भ्रातृव्यान्वाव निधनेन तोषयतीति ।
पुरस्तादेव निधनस्य वषट्कुर्याद्वौषड्भूमी ओ ददा इति ।
वषट्कृतस्यैव सोमस्य भक्षयति ११८

यो वै यज्ञस्योधर्वेद दुहे यज्ञम् ।
पवमानो वाव यज्ञः ।
तस्य गायत्र्! येवोधः ।
गायत्रीं चतुरृचां कुर्यात् ।
यज्ञस्यैव तदूधर्दधाति दुहे यज्ञम् ।
यो वै यज्ञस्य प्रतिष्ठां वेद प्रति यज्ञं स्थापयति प्रत्यात्मना तिष्ठति ।
पवमानो वाव यज्ञः ।
तस्य गायत्र्! येव प्रतिष्ठा ।
गायत्रीं चतुरृचां कुर्याद्यज्ञस्यैव तत्प्रतिष्ठां दधाति ।
प्रति यज्ञं स्थापयति प्रत्यात्मना तिष्ठति ।
उच्चा ते जातमन्धसा । अस्य प्रत्नामनु द्युतम् । एना विश्वान्यर्य आ इत्येतासु गायत्रं कुर्यात् ।
तास्वामहीयवम् ।
स यद्धाय्यां चतुर्थीं दधाति तेन चतुरृचं भवति प्रतितिष्ठतीभः ।
प्रति यज्ञं स्थापयति प्रत्यात्मना तिष्ठति ११९

त्रीणि ह वै छन्दांसि यज्ञं वहन्ति गायत्री त्रिष्टुब्जगती ।
तदेवानुष्टुबान्तादन्वायत्ता ।
तया देवास्स्वर्गं लोकमजिगांसन् ।
तया न व्याप्नुवन् ।
तस्यां चतुष्पदः पशूनुपादधुर्गां चाश्वं चाजां चाविं च ।
तया व्याप्नुवन् ।
तेऽब्रुवन्स्वर्गं लोकं गत्वा बृहती वा इयमभूद्ययेदं व्यापामेति ।
तदेव बृहत्यै बृहतीत्वम् ।
न ततः पुरा बृहती नाम छन्द आस ।
सा वा एषा पशव एव यद्बृहती ।
येन निधनमुपयन्ति तेन प्रस्तौति ।
तेनो एव पुनरादिमादत्ते ।
तस्मात्पशवो यत एव प्रजायन्ते ततस्संभवन्ति ।
ते तत एव पुनः प्रजायन्ते ।
न बृहत्या वषट्कुर्याद्पशूनामप्रवर्गाय ।
यद्बृहत्या वषट्कुर्याद्वज्रेण वषट्कारेण पशून्प्रवृञ्ज्यात् १२०

देवा वा असुरान्हत्वापूता इवामेध्या अमन्यन्त ।
तेऽकामयन्त पूता मेध्याश्शृतास्स्याम गच्छेम स्वर्गं लोकमिति ।
त एता ऋचोऽपश्यन् ।
ताभिरपुनत ।
पुनानस्सोम धारयापो वसानो अर्षसि इति ।
आपो वै पवित्रम् ।
अद्भिरेवापुनत ।
आ रत्नधा योनिमृतस्य सीदसि इति ।
अन्तरिक्षं वा ऋतम् ।
अन्तरिक्षमेवैतेनात्यायन् ।
उत्सो देवो हिरण्ययः इति ।
असौ वै लोक उत्सो देवः ।
अमुमेवैतेन लोकमुपासीदन् ।
ततो वै ते पूता मेध्याश्शृता अभवन्नगच्छन्स्वर्गं लोकम् ।
पूतो मेध्यश्शृतो भवति गच्छति स्वर्गं लोकमेताभिरृग्भिस्तुष्टुवानः १२१

तासु रौरवम् ।
अग्निर्वै रूरुरेतत्सामापश्यत् ।
यदग्नी रूरुरेतत्सामापश्यत्तद्रौ रवस्य रौरवत्वम् ।
रूर इतिवृध्रः पशुकामस्तपोऽतप्यत ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
स एतामिळां उपैत् ।
पशवो वा इळा ।
ततो वै पशूनवारुन्द्ध ।
तदेतत्पशव्यं साम ।
अव पशून्रुन्द्धे बहुपशुर्भवति य एवं वेद ।
यदु रूर इतिवृध्रोऽपश्यत्तस्माद्वेव रौरवमित्याख्यायते ।
अथ यौधाजयम् ।
इन्द्रो वै युधाजीवन्नेतत्सामापश्यत् ।
यदिन्द्रो युधाजीवन्नेतत्सामापश्यत्तद्यौधाजयस्य यौधाजयत्वम् ।
अयुध इव द्विषन्तं भ्रातृव्यं जयति य एवं वेद ।
युधाजीवो वैश्वामित्रः प्रतिष्ठाकामस्तपोऽतप्यत ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै स प्रत्यतिष्ठत् ।
तदेतत्प्रतिष्ठा साम ।
प्रतितिष्ठति य एवं वेद ।
यदु युधाजीवो वैश्वामित्रोऽपश्यत्तस्माद्वेव यौधाजयमित्याख्यायते १२२

यौधाजयेन वै देवा असुरान्संविच्य रौरवेणैषां रवमाणानां स्वमाददत ।
यौधाजयेनैव द्विषन्तं भ्रातृव्यं संविच्य रौरवेणास्य रवमाणस्य स्वमादत्ते य एवं वेद ।
रौरवेण वै देवा ऊर्ध्वास्स्वर्गं लोकमारोहन् ।
तानसुरा ओ वा इत्येवान्वारोहन् ।
तद्देवाः प्रत्यबुध्यन्त ।
त एतं स्तोभमपश्यन् ।
तेनैनानो हा उ वा इत्यवाचोऽवाघ्नन् ।
उत्सो देवो हिरा हा उ वा इति भूमिस्पृश एवाकुर्वन् ।
अन्तगतमिव सामासीत् ।
ऊर्ध्वस्स्वर्गो लोक एव यच्छेत् ।
ऊर्ध्वं प्रतिहारादुद्गाता ।
स्वर्गस्य लोकस्य समष्ट्यै ।
ण्याया औ हो वा हो इळा इति ।
स्वरेणैव संतत्य स्वर्गं लोकं समश्नुते ।
एतावन्ति ह खलु वै सामान्येतावती सामक्ळ्प्तिरेतावानु सामबन्धुः ।
स्वारं भवति ।
प्राणो वै स्वरः ।
अथ निधनवत् ।
आत्मा वै निधनम् ।
अथैळम् ।
पशवो वा इळा ।
प्राणमात्मानं पशूंस्तानेवैतत्संदधाति ।
सर्वयास्य सामक्ळ्प्त्या सर्वेण सामबन्धुना स्तुतं भवति य एवं वेद १२३

द्वे उ ह वाव सामनी स्तोभवच्चैवास्तोभवच्च ।
तयोर्यत्स्तोभवत्तत्क्षत्रमथ यदस्तोभवत्तद्ब्रह्म ।
उभयं ब्रह्म च क्षत्रं चावरुन्द्धे य एवं वेद ।
अथ यौधाजयं त्रिणिधनं सवनानां क्ळ्प्त्यै ।
पवमानेन वै देवेभ्योऽन्नाद्यं प्रदीयते ।
तन्मध्येनिधनं भवत्यन्नाद्यस्य विशेषाय ।
यद्धि देवेभ्यस्सर्वमन्नाद्यं प्रदीयते न तदिहान्नद्यं परिशिष्येत यन्मनुष्याश्च पशवश्चोपजीवेयुः ।
तद्यन्मध्येनिधनं भवत्यन्नाद्यस्यैव विशेषाय ।
देवानां वा असुरा यज्ञवेशसमचिकीर्षन् ।
यावत्येतद्दक्षिणानां काले न स्तुवन्ति न शंसन्ति ।
तद्देवाः प्रत्यबुध्यन्त ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
ते प्रातस्सवनमेव प्रथमेन निधनेन पर्यगृह्णन्माध्यंदिनं द्वितीयेन तृतीयसवनं तृतीयेन ।
तानेव वज्रानुदयच्छन् ।
तानेव वज्रानुद्यतानसुरा नोपाधृष्णुवन् ।
ततो वै देवा अभवन्परासुराः ।
भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद ।
अथ ह स क्ळ्प्त एव पवमानो यस्मिन्नधि त्रिणिधनं भवति सवनानामेव क्ळ्प्त्यै १२४

देवासुरास्संयत्ता ज्योङ्न व्यजयन्त ।
बृहस्पतिर्देवानां पुरोहित आसीदुशना काव्योऽसुराणाम् ।
तद्यदेवावस्ताद्ब्रह्माक्रियत तत्परस्तादक्रियत ।
तत्समानं ब्रह्म न व्यजयत ।
तेषां ह त्रिशीर्षा गन्धर्वो विजयस्यावेत् ।
स हेर्ष्युरास ।
तस्य हाप्स्वन्तर्नौनगरं परिप्लवमास ।
तदिन्द्रो ऽन्वबुध्यत त्रिशीर्षा वै नौ विजयस्य वेदेति ।
तस्य जायामुपार्च्छदेतस्यैव विजयस्य कामाय ।
तामब्रवीत्पृच्छतात्पतिं य इमे देवासुरास्संयत्ता ज्योगभूवन्कतर एषां जेष्यन्तीति ।
तद्धैव संवदमानावाजगाम ।
स ह तदेव नौमण्ड उपशिश्लेष जलायुका वा तृणकं वा भूत्वा ।
सेयं पतिं पप्रच्छ य इमे देवासुरास्संयत्ता ज्योगभूवन्कतर एषां जेष्यन्तीति १२५

मोच्चैरिति होवाच कर्णिनी वै भूमिरिति ।
तदिदमप्येतर्ह्याहुर्मोच्चैः कर्णिनी वै भूमिरिति ।
नेति होवाच ब्रूह्येवेति ।
स होवाच ब्राह्मणाविमौ समं विदतुर्बृहस्पतिरयं देवेषूशना काव्योऽसुरेषु ।
तौ यत्कुरुतस्तत्सममेव यच्छति ।
या इतर आहुतीर्जुहोति ता इतरः ।
तास्समेत्य यथायथमेव पुनर्विपरायन्ति ।
तयोर्यतरो यतरानुपसमेष्यति ते जेष्यन्तीति ।
तद्धैवेन्द्रो ऽनुबुध्य शुको भूत्वोत्पपात ।
तं हान्वीक्ष्य पतन्तमुवाच येषामसौ हरितवर्णकः पतति ते जेष्यन्तीति ।
स होशनसं काव्यमाजगामासुरेषु ।
तं होवाचर्षे कमिमं जनं वर्धयस्यस्माकं वै त्वमसि वयं वा तवास्मानभ्युपावर्तस्वेति ।
कथेति होवाच केन मोपमन्त्रयस इति ।
या इमा विरोचनस्य प्राह्लादेः कामदुघस्ताभिरिति ।
तथेति ।
ताभिर्ह प्र त्वित्येव प्रदुद्रुवतुः ।
तौ हासुरा अन्ववजहिरे ।
तौ हान्वाजग्मुः ।
स होवाचर्षेऽनु वै नाविमेऽसुरा आग्मन्निति ।
स वै तथा कुर्विति होवाच यथा नावेते नान्वागच्छानिति तौ हैतत्प्रतिपेदाते – १२६

स्वायुधः पवते देव इन्दुरशस्तिहा वृजना रक्षमाणः
पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः इति ।
आ दिवो विष्टम्भमुच्छिश्रियतुः ।
तं हैवासुरा नातीयुः ।
तौ हाभिः कामदुघाभिर्देवानाजग्मतुः ।
तौ हागतौ महयां चक्रिरे
ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन
स चिद्विवेद निहितं यदासामपीच्यं गुह्यं नाम गोनाम्
इति ।
ता एताः पशव्या ऋचः ।
अव पशून्रुन्द्धे बहुपशुर्भवत्येताभिरृग्भिस्तुष्टुवानः ।
तास्वौशनम् ।
उशना वै काव्यो देवेष्वमर्त्यं गन्धर्वलोकमैच्छत ।
स एतत्सामापश्यत् ।
तेनातुत ।
ततो वै स देवेष्वमर्त्यं गन्धर्वलोकमाश्नुत ।
तदेतल्लोकवित्साम ।
अश्नुते देवेष्वमर्त्यं गन्धर्वलोकमेतेन तुष्टुवानः ।
यदुशना काव्योऽपश्यत्तस्मादौशनमित्याख्यायते ।
तत्स्वारं भवति ।
स्वरेण वै देवेभ्योऽन्ततोऽन्नाद्यं प्रदीयते ।
ऋक्समं पवमानान्ते भवति ।
नर्चा सामातिरेचयन्ति नर्चं साम्ना ।
तद्यदिहेव चेहेव च पवमने न स्तुवत एतस्यैव समतायै समं क्ळ्प्त्यै ।
पदानुस्वारं पुरस्ताद्गायत्रं भवति पदानुस्वारमुपरिष्टात्पवमानान्ते ।
तस्मादुभयतःप्राणाः प्रजा ऊर्ध्वाश्चावाचीश्च ।
द्विषाम्नी गायत्री ।
योऽयमवाङ्प्राण एष एव सः ।
तस्मादेतेन द्वयं प्राणेन करोति भस्म च करोति वातं च ।
द्विषाम्नी बृहती ।
योऽयं प्राङ्प्राण एष एव सः ।
तस्मादेतेन द्वयं प्राणेन करोति रेतश्च सिञ्चति मेहति च ।
एकसाम्नी त्रिष्टुप् ।
नाभिरेव सा ।
तस्यामेकं साम ।
तस्मादेतेनैकमेव प्राणेन करोति यदेव प्राणानुदनतोऽनूदनिति १२७

प्रजापतिर्यद्बृहद्र थन्तरे असृजत स मन एवाग्रे बृहदपश्यत् ।
वाचं रथन्तरमभिव्याहरत् ।
तद्यद्वाचं रथन्तरमभिव्याहरत्तस्माद्र थन्तरं पूर्वं योगमानशे ।
अथ यन्मनोऽग्रे बृहदपश्यत्तस्मादु बृहद्र थन्तरे इत्याख्यायेते ।

मनो वै पूर्वमथ वाक् ।
मनो वै बृहद्वाग्रथन्तरम् ।
ऋग्वै रथन्तरं साम बृहत् ।
ब्रह्म वै रथन्तरं क्षत्रं बृहत् ।
इदं वै रथन्तरमदो बृहत् ।
यद्वा एजत इव तद्रा थन्तरं यदुपस्थितं तद्बार्हतम् ।
ये वा अन्यतोदन्ताः पशवस्ते राथन्तरा य उभयतोदन्तास्ते बार्हताः ।
या वै तिरश्ची विद्युत्सा राथन्तरी योर्ध्वा सा बार्हती ।
रथन्तरस्य महिम्नस्संभृत्य रथन्तरेणोद्गायेद्यस्ते अग्नौ महिमा यस्ते रथे यस्ते महिमा स्तनयित्नौ य उ ते वाते यस्ते महिमा तेन संभव रथन्तर द्र विणस्वन्न एधि इति ।
द्र विणस्वदेवोद्गात्रे भवति द्र विणस्वद्यजमानाय द्र विणस्वत्प्रजाभ्यः १२८

देवासुरा अस्पर्धन्त ।
ते देवा वज्रं क्षुरपविमसृजन्त पुरुषमेव ।
तमसुरानभ्यवृञ्जन् ।
सोऽसुरानपोह्य देवानभ्यावर्तत ।
तस्माद्देवा अबिभयुः ।
तमभिपद्य बृहद्र थन्तरयोः प्रौहन् ।
स एष वज्रः क्षुरपविर्बृहद्र थन्तरयोः पुरुष एव ।
स यं द्विष्याद्बृहद्र थन्तरयोरेनं मुखेऽपिदध्यात् ।
यदि राथन्तरस्सोमस्स्याद्र थन्तरे प्रस्तुते ब्रूयान्नमो मात्रे पृथिव्यै रथन्तर मा मा हिंसीः इति ।
यदि बार्हतस्सोमस्स्याद्बृहति प्रस्तुते ब्रूयाद्दिवं पितरमुपश्रये बृहन्मा मा हिंसीः इति ।
अथानुमन्त्रयेत प्राणैरमुष्य प्राणान्वृङ्क्ष्व ।
तक्षणेन तेक्षणीयसायुरस्य प्राणान्वृङ्क्ष्व ।
क्रुद्ध एनं मन्युना दण्डेन जहि ।
धनुरेनमातत्येष्वा विध्य इति ।
बृहद्र थन्तरयोरेवैनं मुखेऽपिदधाति ।
यं द्वेष्टि तं पुरा संवत्सरात्प्राणो जहाति ।
यो वै देवरथं वेद रथी भवति ।
यज्ञो वाव देवरथः तस्य बहिष्पवमानमेव रथमुखं बृहद्र थन्तरे अश्वावाज्यानि योक्त्राण्यभीशू पवमानौ पक्षसी – १२९

औशनकावे आणी नौधसकालेये वन्धुराधिष्ठानं वामदेव्यमुपस्थो यज्ञायज्ञीयमध्यास्थाता स एष पुरुषः ।
एष वै देवरथः ।
रथी भवति य एवं वेद ।
यदि राथन्तरस्सोमस्स्याद्बृहन्नान्तर्यात् ।
यदि बार्हतस्सोमस्स्याद्र थन्तरं नान्तर्यात् ।
हो वै बृहद्रा थन्तरम् ।
रथन्तरे प्रस्तुते हो इत्युक्त्वादिमाददीत ।
बृहदेव तद्र थन्तरस्य मुखतो युनक्ति ।
आ वै रथन्तरं बार्हतम् ।
बृहति प्रस्तुते आ इत्युक्त्वादिमाददीत ।
रथन्तरमेव तद्बृहतो मुखतो युनक्ति ।
अस्थूरिं देवरथं करोति प्रति यज्ञं स्थापयति प्रत्यात्मना तिष्ठति ।
एष वै देवरथो यद्र थन्तरम् ।
रथन्तरे प्रस्तुते पृथिवीं हस्ताभ्यां गच्छेद्देवरथस्यानपव्याथाय १३०

एकमक्षरं स्तोभति ।
तस्मादरेणारेण रथः प्रतितिष्ठन्नेति ।
द्वे अक्षरे स्तोभति ।
द्वे रथस्य पक्षसी ।
पक्षाभ्यामेव तद्देवरथं प्रतिष्ठापयति ।
त्रीण्यक्षराणि स्तोभति ।
द्विपाद्वै यजमान आत्मा तृतीयः ।
यजमान एव तत्प्रतितिष्ठति ।
अथो त्रय इमे लोकाः ।
तानेव तदाप्नोति ।
चत्वार्यक्षराणि स्तोभति ।
चतस्रो दिशश्चतुष्पादाः पशवः ।
दिक्षु चैतत्पशुषु च प्रतितिष्ठति ।
पञ्चाक्षराणि स्तोभति ।
पाङ्क्तो यज्ञः पाङ्क्ताः पशवः ।
यज्ञे चैतत्पशुषु च प्रतितिष्ठति ।
षडक्षराणि स्तोभति ।
षड्वा ऋतवः ।
ऋतुष्वेव तत्प्रतितिष्ठति ।
अथो षड्वै छन्दांसि ।
तान्येव तदाप्नोति ।
सप्ताक्षराणि स्तोभति ।
सप्तपदा वै शक्वर्यः ।
शाक्वराः पशवः ।
पशुष्वेव तच्छक्वर्यां प्रतितिष्ठति ।
अथो सप्त चतुरुत्तराणि छन्दांसि सप्त मुख्याः प्राणाः ।
तान्येव तदाप्नोति ।
अष्टावक्षराणि स्तोभति ।
अष्टाक्षरा वै गायत्री ।
तेजो ब्रह्मवर्चसं गायत्री ।
तेजस्येव तद्ब्रह्मवर्चसे प्रतितिष्ठति ।
अथो अष्टाशफेष्वेव पशुषु १३१

नवाक्षराणि स्तोभति ।
नव वै पुरुषे प्राणाः ।
प्राणानेवैतद्द्विषतो भ्रातृव्यस्य वृञ्ज्यात् ।
प्राणानात्मन्धत्ते ।
अथो त्रिवृत एव स्तोमस्य स्तोत्रमाप्नोति ।
दशाक्षराणि स्तोभति ।
दशाक्षरा विराडन्नं विराट् ।
विराज्येव तदन्नाद्ये प्रतितिष्ठति ।
अथो दश प्राणाः ।
तानेव तदाप्नोति ।
एकादशाक्षराणि स्तोभति ।
एकादशाक्षरा त्रिष्टुप् ।
इन्द्रि यं वीर्यं त्रिष्टुप् ।
इन्द्रि य एव तद्वीर्ये प्रतितिष्ठति ।
द्वादशाक्षराणि स्तोभति ।
द्वादशाक्षरा वै जगती ।
पशवो जगती ।
पशुष्वेव तज्जगत्यां प्रतितिष्ठति ।
अथो द्वादश मासाः ।
तानेव तदाप्नोति ।
त्रयोदशाक्षराणि स्तोभति ।
य एवासावधिचरस्त्रयोदशो मास तमेव तदाप्नोति ।
चतुर्दशाक्षराणि स्तोभति ।
संवत्सरो वै चतुर्दशः ।
संवत्सर एव तत्प्रतितिष्ठति ।
पञ्चदशाक्षराणि स्तोभति ।
पञ्चदश वा अर्धमासस्य रात्रयः ।
अर्धमासश एव संवत्सरमाप्नोति ।
षोडशाक्षराणि स्तोभति ।
षोडशकलो वै पुरुषः ।
कला एव तद्द्विषन्तं पाप्मानं भ्रातृव्यमवाञ्चमपवहन्ति श्रियमात्मनाश्नुते ।
अथो षोडशिन एव स्तोभस्य स्तोत्रमाप्नोति ।
सप्तदशाक्षराणि स्तोभति ।
प्रजापतिर्वै सप्तदशः ।
प्रजापतावेव तत्प्रतितिष्ठति १३२

एतदन्यत्स्तोभेत् ।
ऋचमेव न गायेत् ।
स यदृचमेव गायति तेन रथन्तरस्य रूपान्नैति ।
ऋग्घि रथन्तरं साम बृहत् ।
यद्यु स्तोभेदष्टावेवाक्षराणि स्तोभेत् ।
तद्वेव संमीलते ।
स्वर्दृशं प्रतिविपश्येच्चक्षुषोऽप्रवर्हाय ।
यदीशानमिन्द्र इति प्रतिहरेदीशानो यजमानस्य पशूनभिमानुकस्स्यात् ।
अथ यच्छानमिन्द्र इति प्रतिहरति नेशानो यजमानस्य पशूनभिमन्यते शान्ताः प्रजा एधन्ते ।
प्रतिहारेप्रतिहार उद्गात इळा इद्ब्रूयात् ।
पशवो वा इळायतनं रथन्तरम् ।
आयतन एव तदेतान्पशून्प्रतिष्ठापयति ।
नस्थुषः इति ब्रूयात् ।
यत्तस्थुषः इति ब्रूयात्स्थायुकास्य श्रीस्स्यात् ।
अथ यन्नस्थुषः इत्याह नास्य श्रीस्तिष्थति पशवोऽस्य स्वायातेन यान्ति ।
बृहद्र थन्तरे व्यावर्तयेत् ।
यद्ध वै बृहद्र थन्तरे न व्यावर्तयेद्यथा महावृक्षौ समृत्य शाखा विपरिशृणीत एवं प्रजाः पशून्विपरिशृणीयाताम् ।
हो वा हा वै बृहदो वा हा रथन्तरम् ।
बृहद्र थन्तरे एवैतद्व्यावर्तयति वि पाप्मना वर्तते य एवं वेद १३३

यथा स्यादेवं बुभूषन्नुपेयात् ।
यथा स्यादेवं भ्रातृव्यवान् ।
जयत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद ।
बृहद्र थन्तरे यदसृज्येतां ताभ्यां भीषा प्रजाः पशव उदवेपन्त ।
ते आत्मानमेव पर्यैक्षेतां किं नु नाविदं क्रूरं इवात्मनो यस्माद्भीषा प्रजाः पशव उदवेपिषतेति ।
ते निधने एवापश्यताम् ।
ते अरण्ये निधाय ग्राममभ्यवैताम् ।
तदेव स्वकृतमिरिणमभवत् ।
तस्मादाहुर्न स्वकृतमिरिणमध्यवसेयम् ।
ईश्वरः पापीयान्भवितोर्यत्स्वकृतमिरिणमध्यवस्यतीति ।
बृहद्र थन्तरयोर्ह वा एतन्निधनाभ्यां निर्दग्धम् ।
ते ह वा एते ग्रामगेये एवापनिधने यद्बृहद्र थन्तरे ।
कामं ह वा एताभ्यामपनिधनाभ्यां ग्रामे स्तुवीत १३४

अष्टाक्षरेण प्रस्तौति ।
द्व्यक्षरेणोत्तरे प्रस्तौत्यभिक्रान्त्या अनपभ्रंशाय ।
अष्टाक्षरेण प्रस्तौति ।
द्व्यक्षरेणोत्तरे प्रस्तौति ।
द्विपादमेव तदष्टाशफेषु पशुष्वध्यूहति ।
तस्माद्द्विपादष्टाशफान्पशूनधितिष्ठति ।
अष्टाक्सरेण प्रस्तौति ।
द्व्यक्षरेणोत्तरे द्वे प्रस्तौति ।
तद्द्वादश संपद्यन्ते ।
द्वादश मासास्संवत्सरः ।
संवत्सरः प्रजापतिर्यज्ञः ।
संवत्सरमेवैतेन प्रजापतिं यज्ञमाप्नोति ।
अक्षरेष्ठं रथन्तरं करोति ।
तस्मादरेणारेण रथः प्रतितिष्ठन्नेति ।
रथन्तरेण वै देवा संविच्य बृहता जालेनेवाभिन्यौब्जन् ।
रथन्तरेणैव द्विषन्तं भ्रातृव्यं संविच्य बृहता जालेनेवाभिन्युब्जति य एवं वेद ।
रथन्तरेण वै देवा ऊर्ध्वास्स्वर्गं लोकमायन् ।
तान्यसुररक्षसानि नव नवतय इमाँ ल्लोकानवृण्वन् ।
रथा ह नामासुः ।
ते देवा रथन्तरेणैव स्तुत्वा रथन्तरं समारुह्य स्वर्गं लोकमगच्छन् ।
तेऽब्रुवन्नतारिष्म वा इमान्रथानिति ।
तदेव रथन्तरस्य रथन्तरत्वम् ।
तरति द्विषन्तं भ्रातृव्यं य एवं वेद १३५

अशनया ह वै रथा अन्नमु वै रथन्तरम् ।
अन्नेनाशनयां घ्नन्ति ।
तांतां अशनयां अन्नेन हत्वा स्वर्गं लोकमारोहन् ।
बृहता वै देवास्स्वर्गं लोकमजिगांसन् ।
तेन न व्याप्नुवन् ।
तस्मिन्नुष्णिक्कभा उपादधुः ।
तेन व्याप्नुवन् ।
तेऽब्रुवन्स्वर्गं लोकं गत्वा बृहद्वावेदमभूद्येन स्वर्गं लोकं व्यापामेति ।
तदेव बृहतो बृहत्वम् ।
द्वादश बृहतो रोहान्रोहेत्स्वर्गकाम उदधिमर्दयेद्वृष्टिकामः ।
यावन्त्यु ह वै बृहत्या अक्षराण्युष्णिक्ककुभोश्च तावदितस्स्वर्गो लोकः ।
प्र स्वर्गं लोकमाप्नोति य एवं वेद १३६

अथो बृहत् ।
मनो बृहत् ।
द्वादशाक्षरः प्रस्तावः ।
तावद्धि साम ।
द्वादश मासास्संवत्सरः ।
संवत्सरः साम ।
त्रयो बृहतो रोहा इम एव लोकाः ।
ते पुनर्नव भवन्ति प्राणा एव ।
मनो दशमम् ।
द्वादश बृहतस्तन्वो मासा एव ।
मासा रश्मयः ।
रश्मयो मरुतः ।
तैरसावादित्यो धृतः ।
स य एतदेवं वेद यत्र कामयत इह ध्रियेयेति ध्रियते तत्र ।
यो वै बृहतो बार्हतं पदं वेदोरु प्रजया पशुभिः प्रथते ।
द्वादशाक्षरं वाव बृहतो बार्हतं पदम् ।
तदायच्छतेव गेयम् ।
यो वै बृहति त्रिवृतं सदेवं प्रोढं वेद गच्छति क्षत्रमात्राम् ।
रोहा ह वाव बृहतस्त्रिवृत्सदेवः ।
ब्रह्मणोऽस्य सतः क्षत्रस्येव प्रकाशो भवति य एवं वेद ।
इन्द्रो वृत्रं वज्रेणाध्यस्य नास्तृषीति मन्यमानः परां परावतमगच्छत् ।
तं प्रजापतिरकामयत तत्स्यादिति ।
तमो हो इत्यन्वाह्वयत् ।
सोऽभवत् ।
ओ हो इत्येवापरुद्धो राजन्यः कुर्वीत ।
अव हैव गच्छति १३७

देवा वा असुरान्युधमुपप्रयन्तोऽब्रुवन्यन्नो वामं वसु तदपनिधाय युध्यामहै यदद्य कस्मिंश्चिद्भूतेऽभ्युपधावामेति ।
पशवो वाव तेषां वामं वस्वासीत् ।
तदपनिधाय युधमुपपरायन् ।
ते देवा असुरानजयन् ।
ते विजिग्यानाः पुनरायन्त एकं भूतमभ्यवायन् ।
तन्न व्यजानतेदं मम वाममिदं ममेति ।
तेऽब्रुवन्वीदं भजामहा इति ।
तस्य विभागे न समपादयन् ।
तेऽब्रुवन्प्रजापतावेव पृच्छामहा इति ।
ते प्रजापतावपृच्छत ।
स प्रजापतिरब्रवीत्सर्वेषामेव व एतद्वामं सह सर्वान्व एतेन स्तोष्यन्ति सर्वान्व एतदवैष्यति मा विभग्ध्वमिति ।
तद्यद्गायत्रीषु स्तुवन्ति तेनाग्नेयम् ।
गायत्र्! यो ह्यग्निरिति ।
यत्पृष्ठं माध्यंदिनं तेनैन्द्र म् ।
यत्कवतीषु स्तुवन्ति तेन प्राजापत्यम् ।
यदनिरुक्तं तेन वैश्वदेवम् ।
यन्मैत्रावरुणाय स्तुवन्ति तेन मैत्रावरुणम् ।

तद्वा एतत्पशव्यं यद्वामदेव्यम् ।
अनेजन्नुद्गायेत्पशूनामपरावापाय ।
यदेजन्नुद्गायेत्पशून्परावपेत् ।
तदाहुः प्रावृतोऽनेजन्नुद्गायेन्नेन्मोपद्र ष्टानुव्याहरादिति ।
तदुपकार्यरूपम् ।
प्रावृत एवानेजन्नुद्गायेत् १३८

अक्षं ह स्म वा एतत्पुरा विशश्शीर्षन्निदधति य एव तमुद्गायन्नावपातयिष्यति स न उद्गास्यतीति ।
तदु तदुपकार्यरूपमेव ।
काममेवोद्गेयम् ।
तस्य त्रीण्यक्षराणि छन्नानि गायति ।
त्रयो वा इमे लोकाः ।
प्रजापतिर्वामदेव्यं प्रजापतिर्लोकानामभिनेता ।
स यो प्रजापतिस्स्वर्गस्य लोकस्याभिनेता । स यस्स्वर्गस्य लोकस्याभिनेता स मा स्वर्गं लोकमभिनयादिति । लोकानामभिनेता स नो लोकानभिनयादिति ।
वामदेव्यस्य स्तोत्र ऋषभमप्यर्जेत् ।
सौ हौ खा इत्येवर्षभः ।
योनिर्वामदेव्यं प्रजननमृषभः ।
योन्यामेवैतत्प्रजननेन प्रजननमपिसृजति प्रजात्यै ।
तत्परोक्षमिव गेयम् ।
नर्चमुपस्पृशेत् ।
वयो वै वामदेव्यम् ।
यदृचमुपस्पृशेद्यथा वयोऽन्तरिक्षेण पतद्वृक्षमृच्छेत्तादृक्तत् ।
पदे अन्तरा नावान्यात् ।
यत्पदे अन्तरावान्याद्यथा कर्तं पतेत्तादृक्तत् ।
उत्तरस्य पदस्यारभ्यावान्यात् ।
स यथाक्रमणादाक्रमणमाक्रम्योदन्यात्तादृक्तत् १३९

विच्छिन्नमिव वा एतत्साम प्रतिहारं प्रति ।
कया शचायि वा र्तो हायीति संक्रामेदनादृत्य प्रतिहारम् ।
तदु तद्दुष्कररूपम् ।
सामि ताम्येत्तत् ।
प्रतिहार एव प्रतिह्रियमाणे वागित्युद्गाता ब्रूयात् ।
वाग्वै ब्रह्म ।
वाचैवैनत्तद्ब्रह्मणा संदधाति ।
आपो वै देवानां पत्नय आसन् ।
ता मिथुनमैच्छन्त ।
ता मित्रावरुणावुपैताम् ।
ता गर्भमदधत ।
ततो रेवतयः पशवोऽसृज्यन्त ।
रेवतीषु पशुकामस्य कुर्यात् ।
पशुमानेव भवति ।
ईश्वरो ह त्वप्रजातिर्भवितोः ।
कवतीभ्यो ह्येति प्राजापत्याभ्यः ।
अथ ह वा एतद्भरद्वाजः पृश्निस्तोत्रं ददर्श पशुकामः कया नश्चित्र आ भुवद् । रेवतीर्न सधामदे । अभी षु नः सखीनामिति ।
स यदेकां रेवतीं मध्यतोऽपिसृजति तेन पशुभ्यो नैति ।
यदु कवत्यौ प्राजापत्ये अभितो भवतस्तेनो प्रजायै नैति ।
तत्स्वारं भवति ।
प्राणो वै स्वरः ।
प्राणानेवैतत्पशुषु दधाति ।
ईश्वरो ह तु स्वरेण यजमानस्य पशून्निःस्वरितोर्यद्यनिधनं कुर्यात् ।
प्राणानपिहन्यात् १४०

अविता जरायितॄणामा आउहो हा यि शतां भवस्यौहो हुं मा ता या हुं मा इत्युत्तमाया उत्तरार्धे कुर्यात् ।
स यथा व्रजे गा अनुपाद्यार्गलेनापिहन्यात्तादृक्तत् ।
तदाहुस्स्वयोनावेव तत्स्वारं कार्यम् ।
य एनमेवं चकृवांसमुपमीमांसेत स्वरेण यजमानस्य पशून्निरस्वारीरिति तं ब्रूयान्निधनवत्पुरस्ताद्र थन्तरं निधनवदुपरिष्टान्नौधसम् ।
ताभ्यां म एतदुभयतः प्रजाः पशवः परिगृहीताः ।
प्राणमेवैतदधां मध्यतः पशूनामिति ।
य एवैनमेवं चकृवांसमुपमीमांसते स आर्तिमार्छति ।
अष्टाक्षरा गायत्र्! यष्टौ वसवः ।
गायत्रं प्रातस्सवनम् ।
अक्षरेऽक्षरे देवतान्वायत्ता ।
एकादशाक्षरा त्रिष्टुबेकादश रुद्रा ः! ।
त्रैष्टुभं माध्यंदिनं सवनम् ।
अक्षरे-ऽक्षरे देवतान्वायत्ता ।
द्वादशाक्षरा जगती ।
द्वादशादित्याः ।
जागतं तृतीयसवनम् ।
अक्षरे-ऽक्षरे देवतान्वायत्ता ।
अथ किं प्रतियज्ञं यजमानमपिनयन्तीति ।
स ब्रूयात्प्रजापतिर्यद्वामदेव्यमसृजत तस्य त्रीण्यक्षराण्युदखिदत् ।
स एव त्र्! यक्षरः पुरुषोऽभवत् ।
वामदेव्यस्य स्तोत्रे पुरुषः इति ब्रूयात् ।
तत्प्रतियज्ञं यजमानमपिनयन्तीति ।
तदाहुर्न पुरुषः इति ब्रूयात्परोक्षमेव ध्यायेन्मनसैव नियच्छेदिति ।
तदु वा आहुर्नैव परोक्षं ध्यायेन्न मनसा नियच्छेद्यद्वाव वेद तेनैवाप्तमिति १४१

देवा वा असुरान्युधमुपप्रयन्तोऽब्रुवन्यन्नो वामं वसु तदपनिधाय युध्यामहै यदद्य कस्मिंश्चिद्भूतेऽभ्युपधावामेति ।
प्राणा वाव तेषां वामं वस्वासीत् ।
तदपनिधाय युधमुपपरायन् ।
तदेकधा भूत्वा सृजमानमतिष्ठदृचस्सामानि यजूंषि गामश्वमजामविं व्रीहिं यवं ब्राह्मणं राजन्यं वैश्यं शूद्रं यदिदं किं चित्तत्सर्वम् ।
तदेभ्य आचक्षतेदं वै वस्तद्वामं वस्वेकधा भूत्वा सृजमानं तिष्ठतीति ।
ते देवा असुरानजयन् ।
ते विजिग्यानाः पुनरायन्त एकं भूतमभ्यवायन् ।
तन्न व्यजानतेदं मम वाममिदं ममेति ।
तेऽब्रुवन्वीदं भजामहा इति ।
तस्य विभागे न समपादयन् ।
तदेवैनानब्रवीत्सर्वानेव वो मया स्तोष्यन्ति सर्वान्वोऽहमवैष्यामि मा मा विभग्ध्वमिति ।
तद्यद्गायत्रीषु स्तुवन्ति तेनाग्नेयम् ।
गायत्र्! यो ह्यग्निरिति ।
यत्पृष्ठं माध्यंदिनं तेनैन्द्र म् ।
यत्कवतीषु स्तुवन्ति तेन प्राजापत्यम् ।
यदनिरुक्तं तेन वैश्वदेवम् ।
यन्मैत्रावरुणाय स्तुवन्ति तेन मैत्रावरुणम् ।
तदेनानब्रवीत्सृजध्वं मदिति ।
तथेति ।
तदभ्यस्वरन् ।
तेऽब्रुवन्सृजस्वेति १४२

तद्र थन्तरमसृजत ।
तद्र थघोषोऽन्वसृज्यत ।
तेऽब्रुवन्नरात्स्मानेन स्तोत्रेणेति ।
तस्माद्र थन्तरस्य स्तोत्रे रथघोषं कुर्वन्ति ।
अरात्स्मानेन स्तोत्रेणेत्येव तद्विद्यात् ।
तदब्रुवन्सृजस्वैवेति ।
तद्बृहदसृजत ।
तत्पर्जन्यस्य घोषोऽन्वसृज्यत ।
तेऽब्रुवन्नरात्स्मानेन स्तोत्रेणेति ।
तस्माद्बृहतस्स्तोत्रे दुन्दुभीनुद्वादयन्ति ।
वर्षुकः पर्जन्यो भवति ।
अरात्स्मानेन स्तोत्रेणेत्येव तद्विद्यात् ।
तदब्रुवन्सृजस्वैवेति ।
तद्वैरूपमसृजत ।
तद्ग्रामघोषोऽन्वसृज्यत ।
तेऽब्रुवन्नरात्स्मानेन स्तोत्रेणेति ।
तस्माद्वैरूपस्य स्तोत्रे ग्रामघोषं कुर्वन्ति ।
अरात्स्मानेन स्तोत्रेणेत्येव तद्विद्यात् ।
तदब्रुवन्सृजस्वैवेति ।
तद्वैराजमसृजत ।
तदग्नेर्घोषोऽन्वसृज्यत ।
तेऽब्रुवन्नरात्स्मानेन स्तोत्रेणेति ।
तस्माद्वैराजस्य स्तोत्रेऽग्निं मन्थन्ति ।
अरात्स्मानेन स्तोत्रेणेत्येव तद्विद्यात् ।
तदब्रुवन्सृजस्वैवेति ।
तच्छाक्वरमसृजत ।
तदपां घोषोऽन्वसृज्यत ।
तेऽब्रुवन्नरात्स्मानेन स्तोत्रेणेति ।
तस्माच्छाक्वरस्य स्तोत्रेऽप उपनिधाय स्तुवन्ति ।
अरात्स्मानेन स्तोत्रेणेत्येव तद्विद्यात् ।
तदब्रुवन्सृजस्वैवेति ।
तद्रै वतमसृजत ।
तत्पशुघोषोऽन्वसृज्यत ।
तेऽब्रुवन्नरात्स्मानेन स्तोत्रेणेति ।
तस्माद्रै वतस्य स्तोत्रे पशुघोषं कुर्वन्ति वत्सान्मातृभिस्संवाशयन्ति ।
अरात्स्मानेन स्तोत्रेणेत्येव तद्विद्यात् ।
तदब्रुवन्सृजस्वैवेति १४३

तन्नासृजत ।
तदूर्ध्वमुदैषद्यथा पृष्ठं यथा ककुदेवम् ।
तद्देवास्संगृह्योर्ध्वा उदायन् ।
तेऽब्रुवन्नियद्वावेदमासेदं वाव नो देवानां वाममिति ।
यदब्रुवन्नियद्वावेदमासेदं वाव नो देवानां वाममिति वामदेव्यस्य तद्वामदेव्यत्वम् ।
तद्वा एतत्पिता माता साम्नां यद्वामदेव्यम् ।
यद्वै पुत्रोऽतिपादयति पिता वै तस्य शमयिता पिता निषेद्धा ।
तद्यन्मध्यतः क्रियते शान्त्या एव निषिद्ध्यै ।
तद्यानि ह वै स्तुतानि सामानि पश्चात्त्वत्तेषां वामदेव्यम् ।
अथ यान्यस्तुतानि पुरस्त्वत्तेषाम् ।
तेषामुभयेषां शान्त्यै निषिद्ध्यै ।
तत्स्वधूर्गेयं नोच्चैरिव न नीचैरिव ।
यदुच्चैर्गायेच्छ्रेयसो भ्रातृव्यस्य नियानेन यायात् ।
यन्नीचैर्गायेत्पापीयसो भ्रातृव्यस्य नियायेन यायात् ।
इयं वावैतस्य धूरिदमन्तरिक्षम् ।
एतदेवैनं धूर्वति य एवं विद्वांसं धूर्वतीति ।
तदाहुः प्रादेशमात्राद्वा एतदिमं लोकं न स्पृशति प्रादेशमात्रादमुं नेति ।
अथो आहुर्यावदेव गोस्सूताया उल्बं तावतैवेमं लोकं न स्पृशति तावतामुं नेति ।
अथो आहुर्यावदेव शकृत्युल्बं तावतैवेमं लोकं न स्पृशति तावतामुं नेति ।
तदेवमिवैव मन्यमानेन गेयम् ।
तदु वा आहुर्यथा वा अक्षरेण चक्रौ विष्टब्धावेवमेतेनेमौ लोकौ विष्टब्धौ ।
नीवेमं लोकं स्पृशति नीवामुमिति ।
नो हान्यस्यानुवर्त्म गेयम् ।
ईश्वरो होपजीवी भवितोर्योऽन्यस्यानुवर्त्मा गायति ।
स्वधूरेव गेयम् ।
यो वै देवानां मधु वेद मधव्यो भवति ।
वामदेव्यं वाव देवानां मधु ।
मधव्यो भवति य एवं वेद १४४

इमौ वै लोकौ सह सन्तौ व्यैताम् ।
तयोर्न किं चन समपतत् ।
ते देवमनुष्या आशनायन् ।
इतःप्रदानाद्धि ते देवा जीवन्त्यमुतःप्रदानान्मनुष्याः ।
ते बृहद्र थन्तरे अब्रूतां ये नाविमे प्रिये तन्वौ ताभ्यां विवहावहा इति ।
श्यैतं ह वा अग्रे रथन्तरस्य प्रिया तनूरास नौधसं बृहतः ।
ताभ्यां व्यवहेताम् ।
ऊषानेवासावमुतोऽस्यै शुल्कमकरोद्धूममित इयममुष्यै ।
वर्षमेवासावमुतोऽस्यै शुल्कमकरोद्देवयजनमित्यियममुष्यै ।
सवहतू उ हैने वेद य एवं वेद ।
मेनामेनं वाव ते तद्व्यवहेताम् ।
तस्मादाहुर्न मेनामेनं व्यूह्यमिति ।
बृहद्र थन्तरयोर्ह वा एष विवाहमभ्यारोहति ।
स ईश्वरः पराभवितोः ।
ते तन्वावब्रूतामावं नु निधनाभ्यां विवहावहा इति १४५

पदनिधनं ह वा अग्रे श्यैतमास वसुनिधनं नौधसम् ।
ताभ्यां व्यवहेताम् ।
ततो ह वा इदमर्वाचीनमन्योन्यस्य गृहे वसन्ति ।
यथागृहं ह वाव ततः पुरोषुर्यथाज्ञाति वा ।
रथन्तरेण स्तुवन्ति ।
इदं वै रथन्तरम् ।
अथ वामदेव्येन ।
इदं वा अन्तरिक्षं वामदेव्यम् ।
अथ नौधसेन ।
अदो वै नौधसम् ।
अनन्तर्हितानेवेत ऊर्ध्वाँ ल्लोकाञ्जयति ।
बृहता स्तुवन्ति ।
अदो वै बृहत् ।
अथ वामदेव्येन ।
इदं वा अन्तरिक्षं वामदेव्यम् ।
अथ श्यैतेन ।
इदं वै श्यैतम् ।
अनन्तर्हितानेवामुतोऽर्वाचो लोकाञ्जयति ।
उभयाँ ल्लोकाञ्जयति ये चोर्ध्वा ये चार्वाञ्चो य एवं वेद १४६

अथ नौधसम् ।
नोधा वै काक्षीवतो ज्योगप्रतिष्ठितश्चरन्सोऽकामयत प्रतितिष्ठेयमिति ।
स ह देवान्ब्रह्म विभजमानानुपावपपात ।
स होवाचर्षिरस्मि मन्त्रकृत्स ज्योगप्रतिष्ठितोऽचार्षं तस्मै म एतद्दत्त येन प्रतितिष्ठेयमिति ।
तस्मै ह ब्रह्मणो रसमददुः ।
तदेव नौधसमभवत् ।
तेनास्तुत ।
ततो वै स प्रत्यतिष्ठत् ।
तदेतत्प्रतिष्ठा साम ।
प्रतितिष्ठति य एवं वेद ।
ब्रह्मणो ह वा एष रसो यन्नौधसम् ।
ब्रह्मणो हास्य रसेन स्तुतं भवति य एवं विद्वान्नौधसेन स्तुते ।
तद्द्व्यक्षरणिधनं भवति प्रतिष्टायै ।
द्विपाद्वै यजमानः प्रतिष्ठित्यै ।
यदु नोधाः काक्षीवतोऽपश्यत्तस्मान्नौधसमित्याख्यायते १४७

श्यैतं पशुकामः कुर्वीत ।
प्रजापतिः पशूनसृजत ।
तेऽस्मात्सृष्टा अपाक्रामन् ।
सोऽकामयत न मत्पशवोऽपक्रामेयुरभि मावर्तेरन्निति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
तस्य वसु इत्येव निधनमुपैत् ।
तत्पशवो वै वसु ।
ततो वै तं पशवोऽभ्यावर्तन्त ।
ततोऽस्मादनपक्रामिणोऽभवन् ।
सोऽब्रवीच्छ्येती वा इमान्पशूनकृषीति ।
तदेव श्यैतस्य श्यैतत्वम् ।
तदेतत्पशव्यं साम ।
श्येतीकृता एनं पशव उपतिष्ठन्तेऽभ्येनं पशव आवर्तन्ते नास्मात्पशवोऽपक्रामन्ति य एवं वेद ।
तद्द्व्यक्षरणिधनं भवति प्रतिष्ठायै ।
द्विपाद्वै यजमानः प्रतिष्थित्यै १४८

गोतमस्य मनार्ये मनोऽपक्रान्तः कुर्वीत ।
गोतमाद्वै मनोऽपाक्रामत् ।
सोऽकामयत न मन्मनोऽपक्रामेत्पुनर्मा मन आविशेदिति ।
स एते सामनी अपश्यत् ।
ताभ्यामस्तुत ।
ततो वै तं पुनर्मन आविशन्नास्मान्मनोऽपाक्रामत् ।
षनं पुनर्मनो विशति नास्मान्मनोऽपक्रामति य एवं वेद ।
तत्पिबा इति रथन्तरसाम्नः पिबाई इति बृहत्साम्नः ।
यदु गोतमोऽपश्यत्तस्माद्गोतमस्य मनार्ये इत्याख्यायेते १४९

वसिष्ठस्य जनित्रे प्रजननकामः कुर्वीत ।
वसिष्ठो वै जीतो हतपुत्रोऽकामयत बहुः प्रजया पशुभिः प्रजायेयेति ।
स एते सामनी अपश्यत् ।
ताभ्यामस्तुत ।
ततो वै स बहुः प्रजया पशुभिः प्राजायत ।
ते एते प्रजननी सामनी ।
बहुः प्रजया पशुभिः प्रजायते य एवं वेद ।
तज्जनित्रमिति रथन्तरसाम्नः जानित्रामिति बृहत्साम्नः ।
यदु वसिष्ठोऽपश्यत्तस्माद्वसिष्ठस्य जनित्रे इत्याख्यायेते १५०

पौरुमीढं दक्षणिधनमायुष्कामः कुर्वीत ।
तरन्तपुरुमीढौ वै वैतदश्वी माहेयौ मह्या आर्चनानस्यै पुत्रौ ।
तौ ह यन्तौ स्त्री परेत्योवाच पुत्रस्य वै त्यस्या उपतपति तं स्म मे चिकित्सतमिति ।
तौ ह क्रुध्यन्ताविवोचतुः कथं नावित्थं ब्रूयादिति तं वा अर्वीष उपवपेति ।
सा हेयं स्त्री श्रद्धाय देवर्षी मा मन्त्रकृताववोचतामित्यर्वीष उपोवाप ।
तौ ह पुनरायन्तौ परेत्योवाच यं वै कुमारमवोचतमर्वीष उपवपेत्ययं वै सोऽर्वीष उपोप्तश्शेत इति ।
तौ हासाध्विव कृत्वा मेनाते ।
तावकामयेतामिदित इयाव गातुं नाथं विन्देवहि समयं कुमारो जीवेदिति ।
स एतत्पुरुमीढस्सामाप्श्यत् ।
तेनास्तुत
अग्निमीळिष्वावसे गाथाभिश्शीरशोचिषम् । अग्निं राये पुरुमीढ श्रुतं नरः
को नाम कुमार इति ।
सुदीतिर्नामेति ।
तमग्निस्सुदीतये छर्दिः इत्येवाभ्यमृशत् ।
स तान्तो निरवर्तत ।
तमेतेन निधनेन समैरयद्दक्षाया इति ।
प्राणा वै दक्षाः ।
प्राणानेवस्मिंस्तददधात् ।
तदेतद्गातुविन्नाथवित्साम ।
गातुं वै स तन्नाथमविन्दत ।
विन्दते गातुं नाथं य एवं वेद ।
यदु पुरुमीढोऽपश्यत्तस्मात्पौरुमीढं दक्षणिधनमित्याख्यायते १५१

जमदग्नेस्सप्तहमभिचरन्वा भ्रातृव्यवान्वा कुर्वीत ।
जमदग्निर्ह वै महेनानां पुरोहित आस ।
तान्ह वित्तेनात्यादधौ ।
त उ हैनमुपजिहिंसुः ।
स हेक्षां चक्रे कथं न्वहमेषां सप्तसप्तैकाहनि ग्राम्याणां पशूनां हन्यामिति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै स तेषां सप्तसप्तैकाहनि ग्राम्याणां पशूनामहन् ।
तथो एवैषामेतद्घ्नन्ति ।
तदु भ्रातृव्यहा ।
हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद ।
यदु जमदग्निरपश्यत्तस्माज्जमदग्नेस्सप्ताहमित्याख्यायते ।
तदेषोपगीता
अतिमात्रमवर्धन्त नोदिव दिवमस्पृशन् । भृगुं हिंसित्वा माहेना असंहेयं पराभवन्
इति ।
असंहेयं ह वै स पराभवति य एवं विद्वांसं हिनस्ति १५२

देवासुरा यज्ञेऽस्पर्धन्त ।
ते देवा असुरान्बहिष्पवमानान्निरवाघ्नन् ।
तेऽसुरा आग्नेयमाज्यं पर्यवायन् ।
ते देवा मैत्रावरुणम् ।
तेऽसुरा षन्द्र म् ।
ते देवा षन्द्रा ग्नम् ।
तेऽसुरा माध्यंदिनं पवमानम् ।
ते देवा रथन्तरम् ।
तेऽसुरा वामदेव्यम् ।
ते देवा नौधसम् ।
तेऽसुराः कालेयम् ।
तान्कालेय एवान्वभ्यवायन् ।
तान्कालेयेनैव कालेयादकालयन्त ।
यदकालयन्त तत्कालेयस्य कालेयत्वम् ।
कालयते वै द्विषन्तं भ्रातृव्यं य एवं वेद ।
ते दिशो व्युदसीदन् ।
तान्कालेयेनैवानुपर्यायमकालयन्त ।
यदनुपर्यायमकालयन्त तच्चैव कालेयस्य कालेयत्वम् ।
अनुपर्यायमेव द्विषन्तं भ्रातृयं कालयते य एवं वेद ।
तरो वै यज्ञस्स्तोमो विदद्वसुः ।
यज्ञेन च वाव ते तान्स्तोमेन चाकालयन्त ।
यज्ञेन चैव स्तोमेन च द्विषन्तं भ्रातृव्यं कालयते य एवं वेद १५३

ऋचा वा असुरा आयन्साम्ना देवाः ।
ते देवा असुरानृच्येव निगृह्य साम्नापीडयन्नेवं पीड्यं द्विषतो भ्रातृव्यस्य वधाय ।
इन्द्रं सबाध ऊताय इ बृहद्गायन्तस्सुतसोमे अध्वारा इति ।
ध्वारा इति रथन्तरसाम्नः धोरो इति बृहत्साम्नः ।
उभे ह वा एते एतदनु ।
तस्मादुभे रूपे गायेद्यच्च राथन्तरं यच्च बार्हतम् ।
नाना वा एतयोर्ब्रह्मसामनी भवतः ।
अथैतदुभे अनु ।
तस्मादुभे एव रूपे गायेत् ।
तदैळं भवति ।
पशवो वा इळा ।
पशुभिर्वाव ते तानकालयन्त ।
तस्माद्यत्पशुमांश्चापशुश्च भ्रातृव्यौ स्पर्धेते य एव पशुमान्भवति स एव तयोरभिभवति ।
एतद्ध वै साम प्रजा इमा अनुव्यास ।
ते तस्यैतां निततामिळामन्तत उपयन्ति प्रजानां यथायतनादनुद्घाताय ।
तस्मात्प्रजा यथायतनादनुद्धताः ।
देवाः पितरो मनुष्यास्तेऽन्यत आसन्नसुरा रक्षांसि पिशाचा अन्यतः ।
त एषु लोकेष्वस्पर्धन्त ।
अथ ह कलयो गन्धर्वा अन्तस्थां चेरुर्नेतरान्नेतरानाद्रि यमाणाः ।
ते देवाः पितरो मनुष्या असुरान्रक्षांसि पिशाचानभ्यभवन् ।
त इमाँ ल्लोकान्व्यभजन्त देवलोकमेव देवा अभजन्त पितृलोकं पितरो मनुष्यलोकं मनुष्याः ।
तान्कलयो गन्धर्वा एत्याब्रुवन्ननु न एषु लोकेष्वाभजतेति ।
नेत्यब्रुवन् ।
अनाद्रि यमाणा वै यूयमचारिष्ट नेतरान्नेतरानाद्रि यमाणा इति ।
अथ वै वो मनसान्वाविष्महीत्यब्रुवन्नन्वेव न आभजतेति १५४

नेत्यब्रुवन् ।
साधुविभक्ता नो लोकास्तान्न शक्ष्यामस्संलोभयितुमिति ।
तेऽब्रुवन्यद्वयमिह स्वयं पश्यामस्तदस्माकमस्त्विति ।
तेभ्य एताः कलिन्दाः प्रायच्छन्नेतासु श्राम्यतेति ।
तद्यत्कलिभ्यः कलिन्दाः प्रायच्छंस्तत्कलिन्दानां कलिन्दत्वम् ।
स एतत्कलिर्वैतदन्यस्सामापश्यत् ।
तेनास्तुत ।
तेनेममवान्तरदेशं दुर्यन्तं लोकमपश्यत् ।
तमजयत् ।
तदेतल्लोकवित्साम ।
विन्दते लोकमेतेन तुष्टुवानः ।
गन्धर्वलोकतां ह त्वाव नातिजयति गन्धर्वलोकतामिवैव जयति ।
यदु कलिर्वैतदन्योऽपश्यत्तस्मात्कालेयमित्याख्यायते ।
देवा वै पूर्वाभ्यां सवनाभ्यां तृतीयसवनं प्रवृह्य स्वर्गं लोकमायन् ।
त इमे लोका व्यवृह्यन्त वि यज्ञोऽवृह्यत ।
ते देवा अकामयन्त समिमाँ ल्लोकान्दध्याम सं यज्ञं दध्यामेति ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
तेनेमाँ ल्लोकान्समदधुस्सं यज्ञमदधुः ।
तद्यदिमाँ ल्लोकान्समदधुस्तद्वा अस्य स्वर्ग्यम् ।
तेन गन्धर्वलोकतामतिजयति ।
तरो वै यज्ञस्स्तोमो विदद्वसुः ।
यज्ञेन च वाव ते तत्स्तोमेन चेमाँ ल्लोकान्समदधुस्सं यज्ञमदधुः ।
यज्ञेन चैवास्य स्तोमेन च यज्ञस्संहितो भवतीमे च लोका य एवं वेद ।
सोमो ह खलु वै राजा कालेयम् ।
सदेवो हास्य यज्ञो भवति ।
यथा ह वा इदं बद्धवत्सा हिंकरी तुरीयत्येवं ह वाव तमिन्द्र स्सोममागच्छति यस्मिन्कालेयेन स्तुवन्ति ।
तस्मादु हैतस्मात्साम्नो नैव कदा चनेयात्सेन्द्रो मे सदेवो यज्ञोऽसदिति ।
सेन्द्र मेवैतेन सदेवं यज्ञं कुरुते ।
तदैळमच्छावाकसाम भवति ।
पशवो वा इळा ।
पशुष्वेव तत्प्रतितिष्ठति १५५

द्वे वावेदमग्रे सवने आस्ताम् ।
द्वाभ्यां वावेदं सवनाभ्यां देवा अग्रे व्यजयन्त ।
तान्विजित्य यथालोकमासीनानिन्द्र एत्याब्रवीत्त्रीणि छन्दांसि त्रयः प्राणापानव्यानास्त्रय इमे लोकास्त्रिर्देवेष्वित्याहुः ।
एतेमानि त्त्रीणि सवनानि करवामेति ।
तेऽब्रुवन्न शक्ष्यामोऽनेन न्वाव वयं पूर्वेण कर्मणा परिश्रान्तास्स्म इति ।
स इन्द्रो ऽब्रवीत्स वा अहं मदेवाधि तृतीयसवनं निर्मिमा इति ।
स आत्मन एवाधि तृतीयसवनं निरमिमीत ।
तदिन्द्रो ह वा एतद्देवतानां यत्तृतीयसवनम् ।
इन्द्रे ण हास्य देवतानां स्तुतं भवति य एवं विद्वांस्तृतीयसवनेन स्तुते ।
धीतं इव वै तृतीयसवनम् ।
जागतं सुपर्ण आहरन्नधयत् ।
तदेतद्पीडितमिव ।
स्वादिष्ठया इति स्वदयन्त्येवैनत्तेन ।
मदिष्ठया इति रसमेवास्मिंस्तन्मदं दधति ।
आशिरमवनयन्ति पशुना चरन्त्यैवैतेन प्याययन्ति ।
रक्षोहा विश्वचर्षणिरभि योनिमयोहतमिति पूर्वयोरेवैष सवनयोरभिसंक्रमः ।
तासु गायत्रमुक्तब्राह्मणम् १५६

अथ संहितं द्व्यक्सरणिधनं प्रतिष्ठायै ।
द्विपाद्वै यजमानः प्रतिष्ठित्यै ।
देवासुरा अस्पर्धन्त ।
तेऽब्रुवन्यन्न इदमुभयं धनं तत्संनिदधामहै ।
तेषां नो यतरे जयन्ति तेषां न एतदुभयं धनं संहितमस्त्विति ।
तद्यदेषामुभयं धनमासीत्तत्संन्यदधत ।
ते देवा अकामयन्तोभयमिदं धनं संहितं जयेमेति ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
तेनोभयं धनं संहितमजयन् ।
तद्यदुभयं धनं संहितमजयंस्तत्संहितस्य संहितत्वम् ।
उभयमेव संहितं द्विषन्तं भ्रातृव्यं जयति य एवं वेद ।
तदु होवाचारुणिरश्वो वाव स संहित आसीत् ।
तस्मिन्नेवैषां तद्धनं संहितमासीत्तमेव तदसुराणामवृञ्जत प्रजापतिं वावैषां तदवृञ्जतेति ।
ततो वै देवा अभवन्परासुराः ।
भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद १५७

अथो हैतदवच्छिन्नमिव वै माध्यंदिनात्सवनात्तृतीयसवनम् ।
ते देवा एतद्व्यवेक्ष्याविदुरवच्छिन्नमिव वा इदं माध्यंदिनात्तृतीयसवनमिति ।
त एतत्सामापश्यन् ।
तेनैतत्समदधुः ।
यत्समदधुस्तद्वेव संहितस्य संहितत्वम् ।
संहितं हास्यैतत्तृतीयसवनमनवच्छिन्नं भवति य एवं वेद ।
अथोष्णिक्ककुभौ । उष्णिक्ककुब्भ्यां वा इन्द्रो वृत्राय वज्रमुदयच्छद्गायत्र्! योस्तिष्ठन् ।
ते एनं नोदयच्छताम् ।
तयोश्चतुष्पदः पशूनुपादधाद्गां चाश्वं चाजां चाविं च ।
ते एनमुदयच्छताम् ।
स उष्णिक्ककुभोस्तिष्ठन्सभपौष्कले बाहू कृत्वा प्राहरत् ।
तमहन् ।
हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद १५८

स प्राचान्येन पदा प्राभ्रंशत प्रतीचान्येन ।
येन प्राचा प्राभ्रंशत सा ककुबभवत् ।
तस्मात्ककुभः पूर्वार्धेऽक्षराणि भूयिष्ठानि ।
अथ येन प्रतीचा प्राभ्रंशत सोष्णिगभवत् ।
तस्मादुष्णिहो जघनार्धेऽक्षराणि भूयिष्ठानि ।
ते वा एते छन्दसी धेनुश्चैवानड्वांश्च ।
तस्मात्पशवः पूर्वार्धेन च जघनार्धेन च भूयिष्ठं भुञ्जन्ति ।
वहन्ति पूर्वार्धेन दुह्रे च जघनार्धेन प्र च जनयन्ति ।
उभयं धेनुपयसं चानडुत्पयसं चावरुन्द्धे य एवं वेद १५९

तासु सभं यज्ञस्यैव सभतायै ।
यद्ध वै किं च यज्ञस्य दुःष्टुतं दुश्शस्तं विधुरं तस्य ह वा एतत्सभतायै ।
सभमविभमसदिति ह वा एतेन स्तुवन्ति ।
साभं ह वा एतन्नाम ।
सभेन वै देवा असुराणां तेजो बलमिन्द्रि यं वीर्यं पशूनन्नाद्यं सभेन सभमात्मानमध्यकुर्वत ।
तत्सभस्य सभत्वम् ।
सभेनैव द्विषतो भ्रातृव्यस्य तेजो बलमिन्द्रि यं वीर्यं पशूनन्नाद्यं सभेन सभमात्मानमधिकुरुते य एवं वेद ।
प्रजापतिः पशूनसृजत ।
तेऽस्मात्सृष्टा अपाक्रामन् ।
सोऽकामयत न मत्पशवोऽपक्रामेयुरभि मावर्तेरन्निति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै तं पशवोऽभ्यावर्तन्त ततोऽस्मादनपक्रामिणोऽभवन् ।
सोऽब्रवीद्सभो वै पशुभिरभूवमिति ।
तद्वेव सभस्य सभत्वम् ।
सभो हाविभः पशुभिर्भवति य एवं वेद ।
तदु काकुभं स्वारं भवति ।
प्राणो वै स्वरः पुरुषच्छन्दसं ककुप् ।
ज्यैष्ठ्यं वै प्राणो ज्यैष्ठ्यं पुरुषः ।
ज्यैष्ठ्येनैव तज्ज्यैष्ठ्यं संदधति ज्यैष्ठ्येन ज्यैष्ठ्ये प्रतितिष्ठन्ति ।
अथो यजमानमेव तत्प्राणेन समर्धयन्ति ।
समस्मा ऋध्यते य एवं वेद ।
तानेकरूपान्न व्यजानात् ।
स एतत्पौष्कलं सामापश्यत् ।
तेनैषां रूपाणि व्यकरोत् ।
ते नानारूपा अभवञ्श्वेतो रोहितः कृष्णः ।
एकरूपा ह वाव ते ततः पुरासू रोहिता एव ।
बहुरूपान्नानारूपान्पशूनवरुन्द्धे बहुपशुर्भवति य एवं वेद ।
अथ पौष्कलम् ।
पुष्कल आङ्गिरसः पशुकामस्तपोऽतप्यत ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै पशूनवारुन्द्ध ।
तदेतत्पशव्यं साम ।
अव पशून्रुन्द्धे बहुपशुर्भवति य एवं वेद ।
यदु पुष्कल आङ्गिरसोऽपश्यत्तस्मात्पौष्कलमित्याख्यायते ।
तच्चतुरक्षरणिधनं भवति ।
चतुष्पदा वै पशवः ।
पशव इव उष्णिक् ।
अभि पूर्वाणामेव पशूनामवरुद्ध्यै १६०

यद्यथापूर्वं छन्दांस्युपेयुरनुष्टुभ उत्तमाः कुर्युः ।
वाग्वा अनुष्टुप् ।
तां वै यज्ञाद्बहिर्धा कुर्युः ।
तामेवैतद्यज्ञस्य मध्यत आभजन्ति ।
ता एता भवन्ति पुरोजिती वो अन्धसः इति ।
पुरस्ताद्ध वा एताः पाप्मानं जयन्तीः पुरस्तात्पाप्मानमपघ्नत्यो यन्ति ।
जितं ह वा एताभिर्विजितमन्ववस्यन्ति ।
सुताय मादयित्नवे । अप श्वानं श्नथिष्टन सखायो दीर्घजिह्वियमिति ।
दीर्घजिह्वी ह वा असुर्यास ।
सा ह स्म सोमंसोममवलेढि ।
उत्तरे ह समुद्र आस ।
स यो ह स्म दक्षिणे समुद्रे सूयते यः पूर्वे योऽपरे तं ह स्म तत एवालेढि ।
तां हेन्द्रो जिघृक्षन्न शशाक गृहीतुम् ।
स होवाच मा कश्चन यष्टेयं वै दीर्घजिह्वी सोमंसोममेवावलेढीति १६१

अथ ह सुमित्रः कौत्सो दर्शनीय आस ।
स तं होवाच सुमित्र दर्शनीयो वा असि ।
सुलापा वै दर्शनीयेन स्त्रियः ।
इमां दीर्घजिह्वीं लिलापयिषस्वेति ।
तां हेत्योवाच दीर्घजिह्वि कामयस्व मेति ।
सा होवाचैकं तव शेपोऽङ्गेऽङ्गे मम मुष्का न वै तत्संपद्यत इति ।
स ह पुनरेत्योवाचैकं तव शेपोऽङ्गेऽङ्गे मम मुष्का न वै तत्संपद्यत इति वै माम इयमाहेति ।
अङ्गेऽङ्गे वा अहं तव शेपांसि करोमीति होवाच ।
तानि हाभिप्रावृत्येयाय ।
तां होवाच दीर्घजिह्वि कामयस्व मेति ।
सा होवाचैकं तव शेपोऽङ्गेऽङ्गे मम मुष्का न वै तत्संपद्यत इति ।
अङ्गेऽङ्गे वाव मम शेपांसीति होवाच ।
अङ्ग ते पश्यानीति १६२

तानि हास्यै दर्शयां चकार ।
तानि हास्यै छन्दयां चक्रुः ।
सा वा एहीति होवाच ।
को नामासीति ।
सुमित्रो नामेति ।
कल्याणं वै ते नामेति ।
तौ ह संनिपेदाते ।
तस्यां ह यदार्थं चक्रेऽथ हैनां तदेवाभिसंजग्राह ।
सा होवाच नन्वरे त्वं सुमित्रोऽवोचथा इति ।
स होवाच सुमित्रो एवाह सुमित्रायास्मि दुर्मित्रो दुर्मित्रायेति ।
स एतानि सौमित्राणि सामान्यपश्यत् ।
तैरस्तुत ।
तैरिन्द्र माह्वयत् ।
स इन्द्र एतामनुष्टुभं वज्रमुद्यत्याद्र वत्पुरोजिती वो अन्धसस्सुताय मादयित्नवे । अप श्वानं श्नथिष्टन सखायो दीर्घजिह्वियमित्येवास्यै प्राहन् ।
ता एता भ्रातृव्यघ्न्यो रक्षोघ्न्य ऋचः ।
हन्ति द्विषन्तं भ्रातृव्यमप रक्षः पाप्मानं हत एताभिरृग्भिस्तुष्टुवानः ।
यो धारया पावकया परिप्रस्यन्दते सुतः । इन्दुरश्वो न कृत्वियः ।
तं दुरोषमभी नरस्सोमं विश्वाच्या धिया । यज्ञाय सन्त्वद्र यः इति ।
पूर्वयोरेवैष सवनयोरभिसंक्रमः ।
तासु श्यावाश्वम् ।
श्यावाश्वं वा आर्चनानसं समिद्धारं परेतं प्रतिसत्त्रिणो हित्वा स्वर्गं लोकमायन् ।
सोऽकामयतानूत्पतेयं स्वर्गं लोकं प्रतिसत्त्रिभिस्संगच्छेयेति ।
स एतत्सामापश्यत् ।
तेनास्तुत १६३

पुरोजिती वो अन्धस एहिया ।
सूताय मादयित्नवा एहिया ।
आप श्वानं श्नाथीष्टाना ।
षहोवा एहिया इत्येव मरुतस्स्वर्गे लोक उपाह्वयन्त ।
ततो वै स प्रतिसत्त्रिभिस्समगच्छत ।
स हैष मरुद्भिरेव सह श्यावाश्वः ।
तदेतत्स्वर्ग्यं साम ।
अश्नुते स्वर्गं लोकं य एवं वेद ।
यदु श्यावाश्व आर्चनानसोऽपश्यत्तस्माच्छ्यावाश्वमित्याख्यायते ।
इन्द्रो वै तृतीयसवनाद्बीभत्समान उदक्रामत् ।
धीतमिव ह्यासीत् ।
तमेतेन विश्वे देवास्साम्नान्वह्वयन्त ओहोइया इति ।
ततो वा इन्द्र स्तृतीयसवनमुपावर्तत ।
ततोऽस्मादनपक्रम्यभवत् ।
तदेतत्सेन्द्रं साम ।
सेन्द्रो हास्य सदेवो यज्ञो भवति ।
अभ्यस्येन्द्रो यज्ञमावर्तते नास्येन्द्रो यज्ञादपक्रामति य एवं वेद ।
तत्स्वारं भवति ।
प्राणो वै स्वरः ।
वीव वा एते प्राणैरृध्यन्ते ये यज्ञीयस्य कर्मणोऽतिपादयन्ति यदि वा नातिपादयन्ति ।
को हि तद्वेद यदि तेऽति वा पादयन्ति न वा ।
तद्यत्स्वारं भवति प्राणैरेव तत्समृध्यन्ते १६४

अथान्धीगवम् ।
मध्येनिधनं भवति प्रतिष्ठायै ।
समुद्रं वा एतेऽनारम्भणं प्रप्लवन्ते य आर्भवं पवमानमुपयन्ति ।
तद्यन्मध्येनिधनं भवति प्रतिष्ठित्या एव ।
तद्यथा वा अदस्समुद्रं प्रस्नाय द्वीपं वित्त्वोपोत्स्नाय विश्राम्यन्नास्त एवं ह वा एतन्निधनमुपेत्य कामं विश्राम्यन्त आसीरन्नस्तुवानाः ।
तदैळं भवति ।
पशवो वा इळा पशवः कृत्स्नमन्नाद्यम् ।
यो वा अनवसोऽध्वानं प्रैति नैनं स समश्नुते ।
अथ यस्सावसः प्रैति स एवैनं समश्नुते ।
अयं वाव समुद्रो ऽनारम्भणो यदिदमन्तरिक्षम् ।
तस्य नानवसेनेत्थं गतिरस्ति नेत्थम् ।
तदेतत्पशूनेव कृत्स्नमन्नाद्यमवसं कृत्वा यन्ति ।
शाक्त्या अन्नाद्यकामा अदीक्षन्त ।
स एतदन्धीगुश्शाक्त्यस्सामापश्यत् ।
तेनास्तुत ।
तस्यैतां दशाक्षरां विराजं मध्यत उपैत् ।
दशाक्षरा विराडन्नं विराट् ।
ततो वै ते विराजमन्नाद्यमवारुन्धत ।
तदेतद्विराजोऽन्नाद्यस्यावरुद्धिस्साम ।
अव विराजमन्नद्यं रुन्द्धेऽन्नादश्श्रेष्ठस्स्वानां भवति य एवं वेद ।
यद्वन्धीगुश्शाक्त्योऽपश्यत्तस्मादान्धीगवमित्याख्यायते १६५

अथैता भवन्ति अभि प्रियाणि पवते चनोहितः इति ।
प्रजापतिः प्रजा असृजत ।
ता अप्राणा असृजत ।
ताभ्य एताभिरेवर्ग्भिः प्राणानदधात् ।
अभि प्रियाणि पवते चनोहितः इति ।
प्रजा वै प्रियम् ।
ता अभि इत्येव प्राणेनाभ्यपवत ।
नामानि यह्वो अधि येषु वर्धते इति ।
महा वै प्रजा नामानि ।
आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः इति ।
प्राणो वै विष्वङ् ।
सोऽयं विष्वञ्चति ।
ता एता आयुष्या ऋचः ।
सर्वमायुरेत्येताभिर्तुष्टुवानः
तासु कावम् ।
कविर्वै भार्गवो देवेष्वमर्त्यं गन्धर्वलोकमैच्छत ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै स देवेष्वमर्त्यं गन्धर्वलोकमाश्नुत ।
तदेतल्लोकवित्साम ।
अश्नुते देवेष्वमर्त्यं गन्धर्वलोकमेतेन तुष्टुवानः ।
यदु कविर्भार्गवोऽपश्यत्तस्मात्कावमित्याख्यायते ।
तत्स्वारं भवति ।
स्वरेण वै देवेभ्योऽन्ततोऽन्नाद्यं प्रदीयते ।
ऋक्समं पवमानान्ते भवति ।
नर्चा सामातिरेचयन्ति नर्चं साम्ना ।
तद्यदिहेव चेहेव च पवमने न स्तुवन्ति एतस्यैव समतायै समं क्ळ्प्त्यै ।
पदानुस्वारं पुरस्ताद्गायत्रं भवति पदानुस्वारमुपरिष्टात्पवमानान्ते ।
तस्मादुभयतःप्राणाः प्रजा ऊर्ध्वाश्चावाचीश्च ।
यां ह खलु वै पितापुत्रौ नावमजतो न स रिष्यति ।
दैव्येषा नौर्यद्यज्ञः ।
तावेतत्पितापुत्रावेवाजतः ।
औशनं पुरस्ताद्भवति कावमुपरिष्टाद्यज्ञस्यैवारिष्ट्यै ।
तस्माद्यदाशु नावमधिरोहन्ति पितापुत्रौ हैवाग्रेऽधिरोहतः ।
पञ्चैतानि छन्दांस्यार्भवे पवमाने भवन्ति सप्त सामानि ।
तद्द्वादश संपद्यन्ते ।
द्वादश मासास्संवत्सरः ।
पञ्चो वा एवामूनि सामानि माध्यंदिने पवमाने भवन्ति ।
ऋतव एव ।
मासा एवार्भवे पवमाने कल्पन्त ऋतवो माध्यंदिने ।
स हैष संवत्सर एव व्यूढो यद्यज्ञः १६६

प्रजापतिर्ह खलु वा एष यस्संवत्सरः ।
स ह षण्मासोऽन्यतरमन्यतरं पादमुद्ग्राहं तिष्ठति ।
स यदोष्णमुद्गृह्णात्यथ हेदमुपर्युष्णो भवत्यध उ ह तदा शीतो भवति ।
तस्माद्ग्रीष्म उपर्युष्णोऽधश्शीतमधिगम्यते ।
तस्मादु ग्रीष्मे शीताः कूप्या अप उदाहरन्ति ।
अथ यदा शीतमुद्गृह्णात्यथ हेदमुपरि शीतो भवत्यध उ ह तदोष्णो भवति ।
तस्माद्धेमन्नुपरि शीतोऽध उष्णमधिगम्यते ।
तस्मादु हेमन्नुष्णाः कूप्या अप उदाहरन्ति ।
एवं ह वा एष प्रजापतिस्संवत्सरः प्रजा बिभर्ति ।
अथ ह वा एतं सौम्यं चरुमाहरन्ति ।
यद्ध वा उद्गातुर्यज्ञ ऊनं वातिरिक्तं वा कुर्वतो मीयते यमलोकं ह वा अस्य तद्गच्छति ।
तद्धापि मृतोदीरिण आहुर्यमस्यैतत्सभायामपश्याम इति ।
तदेतेन पुनराह्रियते यदेतं सौम्यं चरुमाहरन्ति ।
तं हावेक्षेत

यन्मे मनो यमं गतं यद्वा मे अपरागतम्

राज्ञा सोमेन तद्वयं पुनरस्मासु दध्मसि

मनसि मे चक्षुरधाश्चक्षुषि मे मनः

आयुष्मत्या ऋचो माच्छैत्सि । मा साम्नो भागधेयाद्वियोषम्
इति ।
तद्धापि छायां पर्यवेक्षेतात्मनोऽप्रणाशाय ।
अथो सर्पिषोऽक्ष्योरादधीत चक्षूष आप्यायनाय ।
तदपि विज्ञानमसद् ।
य आत्मानं न परिपश्येदपेतासुः स स्यात् ।
तस्मात्सत्यादप्याज्यं भूय आनीय पर्येवात्मानं दिदृक्षेत सर्वस्यायुषोऽवरुद्ध्यै १६७

अङ्गिरसां वै सत्त्रमासीनानां शर्करा अक्षिष्वजायन्त ।
तेऽकामयन्तानन्धास्स्याम प्रपश्येमेति ।
त एतं सौम्यं श्यामं चरुमक्षिष्वादधत ।
तमेतेन मन्त्रेणादधत

येन ह्याजिमजयन्नृचक्षा येन श्येनं शकुनं सुपर्णम्

यदाहुश्चक्षुरदितावनन्तं सोमो नृचक्षा मयि तद्दधातु
इति ।
ततो वै तेऽनन्धा अभवन्प्रापश्यन् ।
अनन्धो हैव भवति प्रपश्यति य एवं वेद ।
तदाहुः प्राश्या३ न प्राश्या३ इति स योऽनूचानस्सन्नयश ऋतस्स्यात्स हि तं प्राश्नीयात् ।
अनूचाना इह वा अलं यशसे ।
स योऽनूचानस्सन्नयश ऋतो भवति – अमुं ह वै तस्य लोकं यशो गतं भवति – तदेतेन पुनराह्रियते यदेतं सौम्यं श्यामं चरुं प्राश्नाति ।
तदु होवाच शाट्यायनिर्नैवैष प्राश्यः कस्ततो यश आहरेद्यत्र भूयसी रात्री वत्स्यन्स्यादिति ।
तस्मादु हैतन्नैव प्राश्नीयात् १६८

यज्ञायज्ञा वो अग्नये ।
तुरीयं वा एतत्साम्नः ।
सामन्नेवैतद्यज्ञं प्रतिष्ठापयन्ति ।
तनूर्वा एषा साम्नाम् ।
सतनून्येवैतद्साम्नानि कुर्वन्ति ।
यो ह वा एतस्मात्साम्न इयाद्दुश्चर्मा वा स्यात्पापी वैनं कीर्त्तिरभिवदेत् ।
गायत्री वा एषा वयो भूत्वोदेति ।
दिवमपतत् ।
अनुष्टुभि वा एतस्यै सते दिशश्शुल्कमहरन् ।
शुल्कहृता अस्मै प्रजा भवन्ति ।
दिग्भ्योऽस्मै शुल्को ह्रियते य एवं वेद ।
वयो यज्ञा वो अग्नये इति प्रस्तौति ।
ओ यिरा यिरा च दक्षसे पोप्रिं वयममृतं जातोवाहोयि विदोसमिति प्रतिहरति ।
यज्ञा इति द्वे अक्षरे गिरा इति द्वे पोप्रिमिति द्वे ।
तत्षट्संपद्यन्ते ।
षडक्षरस्तूष्णींशंसः ।
तूष्णींशंस एवैतदाग्निमारुते विमुच्यते ।
स ह्यन्तः ।
अग्निर्वैश्वानरः प्रजा अभ्युदतिष्ठत् ।
स इदं सर्वं प्रातपत् ।
तस्य देवाः प्रदाहादबिभयुः तेऽब्रुवन्सर्वं वा अयं इदं प्रधक्ष्यति – १६९

– एतस्य हरोऽपेरयामेति ।
तस्य हरोऽपैरयन् ।
तद्यत्प्रथममपैरयंस्तस्मिन्व्यवदन्त क्वेदं भविष्यतीति ।
यज्ञेयज्ञे नो भविष्यतीत्यब्रुवन् ।
तद्यज्ञायज्ञीयमभवत् ।
तद्यज्ञायज्ञीयस्य यज्ञायज्ञीयत्वम् ।
यद्द्वितीयमपैरयंस्तन्नार्मेधमभवत् ।
यत्तृतीयमपैरयंस्तद्दाशस्पत्यमभवत् ।
यच्चतुर्थमपैरयंस्तद्विशोविशीयमभवत् ।
यत्पञ्चममपैरयंस्तद्वारवन्तीयमभवत् ।
अग्निर्वा एष वैश्वानरो यद्यज्ञः ।
तद्वदेतान्यग्निष्टोमसामानि भवन्ति ।
हरस्येवैतदग्निं वैश्वानरं प्रतिष्ठापयन्ति १७०

नार्मेधं नाथकामः कुर्वीत ।
नृमेधश्च वै सुव्रतश्च भ्रातरौ ।
तौ हाग्निकान्यादधाते ।
स ह नृमेधस्सुव्रतस्योज्जगौ ।
तद्ध यज्ञायज्ञीयेनैवास्तुतमास ।
अथ हैनमासस्रुः ।
यजमानस्य वै त उद्गातुः पुत्रौ पुत्रममीमरतामन्तकधृतिं सौव्रतिं नकिरश्च शकपूतश्चेतितं ह बाहू परामृशन्नुवाच ब्राह्मणा एष वो यज्ञस्तेन यं कामयध्वे तं याजयतानेन न्वा अहं तच्चातयिष्य । तद्यातयिष्य इति ।
तं हौदुम्बर्यामनुवेष्ट्य शणशलाकाभिरुपादीपयां चकार ।
सोऽकामयतोदित इयां गातुं नाथं विन्देय न मायमग्निर्दहेदिति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै स गातुं नाथमविन्दत नैनमग्निरदहत् ।
अपि ह तच्छुल्बकं प्रददाह येनानुवेष्टित आस ।
तदेतद्गातुविन्नाथवित्साम ।
गातुं वै स नाथमविन्दत ।
विन्दते गातुं नाथं य एवं वेद ।
यदु नृमेधोऽपश्यत्तस्मान्नार्मेधमित्याख्यायते १७१

दाशपत्यं श्रैष्ठ्यकामः कुर्वीत ।
देवासुरा अस्पर्धन्त ।
ते देवा इन्द्र मुपाधावंस्त्वयाधिपत्येदं जयामेति ।
स इन्द्रो ऽकामयत जयेमासुरानिति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै देवा असुरानजयन् ।
तस्मै विजित्यासीनाय दशपतये दशपतय आ इत्येवोद्धारानुदहरन् ।
तदेव दाशस्पत्यस्य दाशस्पत्यत्वम् ।
उद्धारं हरत उद्धार्यो भवति य एवं वेद ।
विशोविशीयमन्नाद्यकामः कुर्वीत ।
अग्निर्वा अकामयत विशोविश एवान्नादश्श्रेष्टोःऽधिपतिस्स्यामिति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै स विशोविश एवान्नादश्श्रेष्ठोऽधिपतिरभवत् ।
तत एनं विशोविशो व्यवाहरन्त ।
तद्यदेनं विशोविशो व्यवहरन्ति तद्विशोविशीयस्य विशोविशीयत्वम् ।
स हैष विशोविश एवान्नादश्श्रेष्ठोऽधिपतिः ।
विशोविश एवान्नादश्श्रेष्ठोऽधिपतिर्भवति य एवं वेद ।
वारवन्तीयं पशुकामः कुर्वीत ।
प्रजापतिः पशूनसृजत ।
तेऽस्मात्सृष्टा अपाक्रामन् ।
तान्वारवन्तीयेनैवावारयत ।
यदवारयत तद्वारवन्तीयस्य वारवन्तीयत्वम् ।
तद्यद्वारवन्तीयमग्निष्टोमसाम भवति पशूनामेवोपस्थित्यै पशूनामनपक्रमाय १७२

यो वै यज्ञस्योधर्वेद प्रत्तं यज्ञं दुहे ।
यज्ञायज्ञीयं वाव यज्ञस्योधः ।
तस्यैते स्तना गायत्रं च रथन्तरं च बृहच्च वामदेव्यं च ।
तद्गायत्रमिव प्रस्तुयात् ।
रथन्तरस्येव स्तोभान्स्तोभेत् ।
बृहत इव रोहान्रोहेत् ।
हिंकारो वामदेव्यं स्वयमेव यज्ञायज्ञीयम् ।
एतद्वै यज्ञं यजमानो दुहे ।
स हेष्ट्वैव श्रेयान्भवति ।
यज्ञायज्ञा वो अग्नये इति भवति ।
एष ह वै यज्ञो यज्ञो यद्यज्ञायज्ञीयम् ।
यज्ञं यज्ञं वहतीति ह वै यज्ञायज्ञीयस्य यज्ञायज्ञीयत्वम् ।
एतेन ह स्म वै पुरा सर्वाणि स्तोत्राणि स्तुवन्ति ।
तदाहुरूर्ध्वा वा एते स्वर्गं लोकं रोहन्ति ये यजन्ते ।
त ईश्वराः पराञ्चोऽतिपत्तोरिति तद्यज्ञायज्ञीयेनोपरिष्टात्स्तुवन्ति ।
इयं वै यज्ञायज्ञीयम् ।
अस्यामेवैतत्प्रतितिष्ठन्ति ।
अप उपनिधाय स्तुवन्ति – अग्निर्वा एष वैश्वानरो यद्यज्ञायज्ञीयं – तस्य शान्त्या अप्रदाहाय ।
ऊरुभ्यां पत्न्युपप्रवर्तयति ।
अग्निमेव तद्वैश्वानरं शमयति ।
नग्नमिवोरुं कृत्वोपप्रवर्तयति ।
नग्नमिव ह्यूरुं कृत्वा पत्नी वीर्यं करोति ।
तां संख्यापयन्ति रेतोधेयाय ।
तदाहुरा वा एतत्पत्न्युद्गातुः प्रजां दत्ते यद्विगीते सामन्संख्यापयन्तीति १७३

तां प्रतिसमीक्षेत वामी नाम संदृशि विश्वा वामानि धीमहि इति ।
प्रजा वै वामम् ।
प्रजामेव तदात्मन्धत्ते ।
वृष्णस्ते वृष्ण्यावतो विश्वारेतांसि धीमहि इतीतरा प्रतिसमीक्षते ।
तदाहुः प्रावृत उद्गायेदग्निर्वा एष वैश्वानरो यद्यज्ञायज्ञीयं – तस्य शान्त्या अप्रदाहायेति ।
ईश्वरो ह तु पितृदेवत्यो भवितोर्यत्प्रावृत उद्गायेत् ।
अथो आहुर्यावदेव श्रोत्रं तावत्प्रावृत्योद्गायेदिति ।
तदु वा आहुः कर्णाभ्यां वै शृणोत्यक्षिभ्यां पश्यति ।
तस्मादात्मानमन्तरियाद्यत्प्रावृत उद्गायेत् ।
अथो आशिरं वै तृतीये सवनेऽवनयन्ति ।
प्रजा वै पशव आशीः ।
तस्मात्सर्वस्मादात्मानमन्तरियाद्यत्प्रावृत उद्गायेत् ।
अप्रावृत एवोद्गायेदिति १७४

वयो वै योज्ञायज्ञीयम् ।
स यं कामयेत यजमानं स्वर्गलोकस्स्यादिति वयो यज्ञा वो अग्नये इत्यस्य प्रस्तुयात् ।
वय एवैनं शकुनो भूत्वा स्वर्गं लोकं वहति ।
तदु तदनायुष्यमिव ।
प्रमथितमिव वा एतद्यद्वयोऽनालयमिव ।
तस्मादेवं न प्रस्तुयात् ।
ओ यिरा यिरा चा दाक्षासा इति ।
यद्गिरा गिरा च इति ब्रूयादग्निर्वैश्वानरो यजमानं गिरेत् ।
अथ यदो यिरा यिरा चा दाक्षासा इत्याह – अन्नं वा इरा – अन्नाद्यमेव तदग्नेर्वैश्वानरस्य मुखतोऽपिदधाति ।
ईश्वरो ह तु रूक्षो भवितोर्यदो यिरा यिरा चा दाक्षासा इति ब्रूयात् ।
ओ यिरा इहा चा दाक्षासा इत्येव ब्रूयात् १७५

तथा ह न रूक्षो भवति ।
एतद्ध स्म वै तत्पूर्वे ब्राह्मणा मीमांसन्ते क उ स्विद्शिंशुमार्यै व्यात्तमतिप्रोष्यत इति ।
एषा ह वा एकायने शिंशुमारी प्रतीपं व्यादाय तिष्ठति यद्यज्ञायज्ञीयम् ।
तस्या एतदन्नाद्यमेव मुखतोऽपिधाय स्वस्त्यत्येति ।
पोप्रिं वयममृतं जातो वा इति ।
यत्प्र प्र वयमिति ब्रूयात्प्रमायुको यजमानस्स्यात् ।
अथ यत्पोप्रिमित्याहैष एवास्मै पोप्रिर्भवति ।
हिं मायि दायिवमिति ।
यद्दासमिति ब्रूयाद्दासुको यजमानस्स्यात् ।
अथ यद्दायिवमित्याह – दिवं संस्तुतो यज्ञो गमयितव्य इत्याहुः – दिवमेवैतत्संस्तुतं यज्ञं गमयन्ति ।
प्रियं मित्रं नु शंसिषमिति ।
यत्प्रियं मित्रं न शंसिषमिति ब्रूयान्न प्रियं मित्रं शंसेत ।
अथ यत्प्रियं मित्रं नु शंसिषमित्याह प्रियमेव मित्रं शंसते १७६

प्रायां मायित्रान्नू शांसीषामूर्जो नपातं स ह्यायुमा इति ।
यन्नायुमा इति ब्रूयान्नायुष्मान्यजमानस्स्यात् ।
अथ यदायुमा इत्याहायुरेवैतदुद्गातात्मंश्च यजमाने च दधाति ।
हिं मायास्मायूः आशेमा हव्यदाताया उ वा इति ।
यद्दाशेम इति ब्रूयाद्दंशुका एनं स्युः ।
अथ यदाशेमा इत्याहाश्नुत एव ।
आशेमा हाव्या दातायायि भुवद्वाजेष्वविता भूवाद्धिं मायि वार्धा इति ।
वृद्ध इव ह्येतर्हि यज्ञो भवति ।
उत त्राता बहूनामिति ।
यत्तनूनामिति ब्रूयात्तनुरिव यजमानस्स्यात् ।
अथ यद्बहूनामित्याह बहूनामेवैनमेतत्त्रातारं करोति १७७

तदाहुर्यज्ञायज्ञीयस्यैकादक्षरादूना ऋचः ।
तद्यज्ञस्य छिद्र म् ।
यत्तदुद्गायन्नापिदधाति यज्ञायज्ञीयं छिद्रं करोति ।
यज्ञायज्ञीयं छिद्र मनु यज्ञस्स्रवति यज्ञमनु यजमानो यजमानमनु प्रजाः ।
तस्मिन्वाचं दध्यात् ।
वाग्वै ब्रह्म ।
उत त्राता वाग्बहूना उ वा इति ।
गौरिति हैके दधति गौर्वै कृत्स्नमन्नाद्यं कृत्स्नस्यैवान्नाद्यस्यावरुद्ध्यै ।
तदाहुर्नैतदाद्रि येत ।
यद्वाव वाङ्निधनं भवति तेनैव संधीयत इति ।
तदाहुर्यथापूर्वं यथाज्यैष्ठ्यं छन्दांसि विमुच्यमानानि ।
छन्दसां क्ळ्प्तिं विमुक्तिमनु प्रजाः कल्पान्ता इति ।
यज्ञो वो अग्नये इति षड्भिरक्षरैः प्रस्तौति ।
गिरा च दक्षसे इति षड्भिरक्षरैरादिमादत्ते ।
तद्द्वादश संपद्यन्ते ।
द्वादशाक्षरा जगती ।
जगतीं प्रथमतः पर्यूहन्ति ।
तज्जगत्या विमुच्यन्ते ।
प्र वयममृतं जातवेदसमित्येकादशाक्षराणि संपद्यन्ते ।
एकादशाक्षरा त्रिष्टुप् ।
तत्त्रिष्टुभा विमुच्यन्ते ।
प्रियं मित्रं नु शंसिषमित्यष्टाभिरक्षरैर्निधनमुपयन्ति ।
अष्टाक्षरा गायत्री ।
तद्गायत्र्! या विमुच्यन्ते ।
तद्यथापूर्वं यथाज्यैष्ठ्यं छन्दांसि विमुच्यमानानि यन्ति ।
छन्दसां क्ळ्प्तिं विमुक्तिमनु प्रजाः कल्पन्ते नापरामारी पूर्वी म्रियते १७८

देवासुरा यज्ञेऽस्पर्धन्त ।
ते देवा असुरान्यज्ञान्निरवाघ्नन् ।
तेऽसुरास्त्रयाणां सवनानां रसं वीर्यं प्रवृह्यान्धं तमः प्राविशन् ।
यद्ध वै किं च पराचीनमग्निष्टोमात्तदन्धं तमः ।
यत्पराचीनं संवत्सरात्तदन्धं तमः ।
एतावान्वाव यज्ञो यावनग्निष्टोमः ।
एतावानु संवत्सरः ।
द्वादश वा अग्निष्टोमस्य स्तोत्राणि द्वादश मासास्संवत्सरः ।
द्वादश स्तोत्राणि द्वादश शस्त्राणि ।
द्वादश पूर्वपक्षा द्वादशापरपक्षाः ।
अथ यत्ततः पराचीनं तदन्धं तमः ।
तत्प्राविशन् ।
ते देवा असुरानन्वभ्यवायन् ।
तानसुरानेतैरेवोक्थैः प्रत्युदतिष्ठन् ।
यदुक्थैः प्रत्युदतिष्ठंस्तदुक्थानामुक्थत्वम् ।
तांस्ततो निरेवावाघ्नन् ।
तेऽन्धमेव तमः प्राविशन्रात्रिमेव ।
स इन्द्रो ऽब्रवीत्कश्चाहं चेदमन्वभ्यवैष्याव इति १७९

अहं चेत्यब्रवीद्वरुणः ।
अहं वां ज्योतिर्धारयिष्यामीत्यग्निरब्रवीत् ।
तावन्वभ्यवैताम् ।
तावेकं तृतीयमुदाहरताम् ।
तेन प्रातस्सवनमाप्याययन् ।
तस्मादाग्नेयीषु स्तुवन्ति ।
षन्द्रा वारुणमनुशस्यते ।
तस्मादु गायत्रीषु स्तुवन्ति ।
गायत्रं हि प्रातस्सवनम् ।
स एवाब्रवीत्कश्चाहं चेदमन्वभ्यवैष्याव इति ।
अहं चेत्यब्रवीद्बृहस्पतिः ।
तावन्वभ्यवैताम् ।
तावेवैकं तृतीयमुदाहरताम् ।
तेन माध्यंदिनं सवनमाप्याययन् ।
तस्मादैन्द्री षु स्तुवन्ति ।
षन्द्रा बार्हस्पत्यमनुशस्यते ।
तस्मादु ककुप्सु स्तुवन्ति ।
काकुभं हि माध्यंदिनं सवनम् ।
स एवाब्रवीत्कश्चाहं चेदमन्वभ्यवैष्याव इति ।
अहं चेत्यब्रवीद्विष्नुः ।
तावन्वभ्यवैताम् ।
तावेवैकं तृतीयमुदाहरताम् ।
तेन तृतीयसवनमाप्याययन् ।
तस्मादैन्द्री षु स्तुवन्ति ।
षन्द्रा वैष्नवमनुशस्यते ।
तस्मादनुष्टुप्सु स्तुवन्ति ।
आनुष्टुभं हि तृतीयसवनम् ।
तान्सर्वस्मादेवान्तरायन् ।
तेऽतो तदभि प्रणयन्तीति प्रवतीभ्यः प्रणयन्त्येहिवतीषु ।
प्रेति च वा इदं सर्वमेति च ।
ततो वै देवा अभवन्परासुराः ।
भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद १८०

तानि वा एतानि त्रीणि सन्ति द्विदेवत्यान्यैन्द्रा वारुणमैन्द्रा बार्हस्पत्यमैन्द्रा वैष्णवमिति ।
एतावतैषाष्षट्कामदुघा उदाहरन्गां चाश्वं चाजां चाविं च व्रीहिं च यवं च ।
उपैनमेताष्षट्कामदुघास्तिष्ठन्ति य एवं वेद ।
एतावान्वाव यज्ञो यावानग्निष्टोमः ।
तदाहुर्यदेतावानेव यज्ञो यावानग्निष्टोमस्तस्मिन्नन्तगते किमभ्युक्थानि प्रणयन्तीति ।
स ब्रूयाद्यज्ञायज्ञीयस्यैकादक्षरादूना ऋचः ।
तद्यज्ञस्य छिद्र म् ।
यज्ञमेवास्मिंस्तत्सम्यञ्चं दधाति ।
आग्नेयीसु प्रणयन्त्याग्नेयीभ्यः ।
यथाग्नावग्नीनभिसमादध्यात्तादृक्तत् ।
यो वा एकमग्निं सन्तं बहुधा विहरेद्बहवस्स्युः ।
य एनान्बहून्सतस्सार्धं संहरेदेक एव स्यात् ।
स यथाग्नावग्नीनभिसमादध्यात्तादृक्तत् १८१

तासु साकमश्वम् ।
देवा वै स्वर्गमामास्तपोऽपप्यन्त ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
तदेनानश्व एव भूत्वा स्वर्गं लोकमवहत् ।
तेऽब्रुवन्स्वर्गं लोकं गत्वा साकं वा अश्वेन स्वर्गं लोकमगन्मेति ।
तदेव साकमश्वस्य साकमश्वत्वम् ।
तदेतत्स्वर्ग्यं साम ।
अश्नुते स्वर्गं लोकं य एवं वेद ।
प्रमंहिष्ठीयं भ्रातृव्यवान्कुर्वीत ।
इन्द्रो वृत्राय वज्रमुदयच्छत् ।
तं नाशक्नोत्प्रहर्तुम् ।
स यदैव प्र इत्यपश्यदथैनमहन् ।
हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद ।
यदु प्र इत्यपश्यत्तस्मात्प्रमंहिष्ठीयमित्याख्यायते ।
सत्रासाहीयं कुर्वीत यस्य त्वदिवाजितं स्यात् ।
इन्द्रो ऽसुरानजयत् ।
तेषां त्वानिव नाजयत् ।
सोऽकामयत सत्रा सर्वानसुरान्सहेयेति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
तेन सत्रा सर्वानसुरानसहत ।
तद्यत्सत्रा सर्वानसुरानसहत तत्सत्रासाहीयस्य सत्रासाहीयत्वम् ।
सत्रा द्विषन्तं भ्रातृव्यं सहते य एवं वेद ।
दैवोदासं पुरोधाकामः कुर्वीत ।
आग्नेयो ब्राह्मण षन्द्रो राजन्यः ।
आग्नेयैन्द्र मेतत्साम ।
ब्रह्म वा अग्निः क्षत्रमिन्द्र ः! ।
ब्रह्मणैवैतत्क्षत्रं दधार क्षत्रेण ब्रह्म ।
तथा हास्माद्रा ष्ट्रमनपक्रामि भवति गच्छति पुरोधां पुर एनं दधते १८२

हारिवर्णं ब्रह्मसाम रक्षोगृहीतः कुर्वीत ।
आङ्गिरसस्स्वर्गं लोकं यत एभ्यो लोकेभ्यो रक्षांस्यन्वसचन्त ।
तेऽकामयन्ताप रक्षांसि हनीमहीति ।
स एतद्धरिवर्ण आङ्गिरसस्सामापश्यत् ।
तेनास्तुत ।
तेनैभ्यो लोकेभ्यो रक्षांस्यपाघ्नत ।
हरिश्रियमित्येवास्माल्लोकाद्विराजसि इत्यन्तरिक्षाद्दिवेदिवे इत्यमुष्मात् ।
ततो वै ते सर्वेभ्य एभ्यो लोकेभ्यो रक्षांस्यपहत्य स्वर्गं लोकमारोहन् ।
सर्वेभ्य एवैभ्यो लोकेभ्यो रक्षांस्यपहत्य स्वर्गं लोकमारोहति य एवं वेद ।
यदु हरिवर्ण आङ्गिरसोऽपश्यत्तस्माद्धारिवर्णमित्याख्यायते १८३

त्रैतं नाथकामः कुर्वीत ।
आप्त्यान्सातेन यतोऽरण्ये पिपासाविन्दत् ।
ते धन्वन्कूपमविन्दन् ।
तन्नैकतोऽवरोढुमकामयत न द्वितः ।
तत्त्रितोऽवारोहत् ।
तौ यदापिबतामतृप्यतामथ हैनं तदेव रथचक्रेणापिधाय गोभिः प्रैताम् ।
सोऽकामयतोदित इयां गातुं नाथं विन्देयेति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
स समिन्दुभिः इत्येव निधनमुपैत् ।
तं पर्जन्यो वृष्ट्योर्ध्वमुदप्लावयत् ।
अभि हि तद्र थचक्रमुत्प्लावयां चकार येनापिहित आस ।
तदेतद्गातुविन्नाथवित्साम ।
गातुं वै स तन्नाथमविन्दत ।
विन्दते गातुं य एवं वेद ।
स पदेनान्वैत् ।
तं प्रतिख्यायायन्तमृक्षोऽन्यो भूत्वा मर्कटोऽन्यो वनमवास्कन्दताम् ।
तदु भ्रातृव्यहा साम ।
भ्रातृव्यतां वाव तस्य तावगच्छतां यावृक्षं च मर्कटं चाकरोत् ।
अथो हास्मै वर्षुक एव पर्जन्यो भवति ।
तदु पशव्य साम ।
केवलान्वै स तान्पशूनकुरुत ।
अव पशून्रुन्द्धे बहुपशुर्भवति य एवं वेद ।
यदु त्रित आप्त्योऽपश्यत्तस्मात्त्रैतमित्याख्यायते १८४

त्रैककुभमन्नाद्यकामः कुर्वीत ।
इन्द्रो यतीन्सालावृकेभ्यः प्रायच्छत् ।
तेषामद्यमानानां त्रयः कुमाराः पर्यशिष्यन्त रायोवाजः पृथुरश्मिर्बृहद्गिरिः ।
त इन्द्र मस्तुवन् ।
तानब्रवीत्किंकामाः कुमारा मा स्तुथेति ।
बिभृह्येव नो मघवन्नित्यब्रुवन् ।
तानन्तरांसयोरध्यास्यत ।
तेऽस्य तिस्रः ककुभोऽलम्बन्त ।
इमे वै लोकाः सह सन्तस्त्रेधा व्यायन् ।
तांस्त्रेधान्नाद्यमनुव्यैत् ।
त उ एषां त्रयाणां लोकानां तिस्रः ककुभोऽन्नाद्यमवालम्बत ।
स षक्षतैषां चेद्वै त्रयाणां लोकानां तिस्रः ककुभोऽन्नाद्यमवरुन्धीय तेनेमास्तिस्रः ककुभोऽपहरेयेति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
तेनैषां त्रयाणां लोकानां तिस्रः ककुभोऽन्नाद्यमवारुन्ध ।
तेनेमास्तिस्रः ककुभोऽपाहरत ।
तद्यदेतेषां त्रयाणां लोकानां तिस्रः ककुभोऽन्नाद्यमवारुन्ध तत्त्रैककुभस्य त्रैककुभत्वम् ।
तदेतदन्नाद्यस्यावरुद्धिः साम ।
अवान्नाद्यं रुन्द्धेऽन्नादश्श्रेष्ठः स्वानां भवति य एवं वेद १८५

त्रीन्द्रि यं वा एतत्साम ।
षन्द्री रृच षन्द्रं साम ।
इन्द्र ः! इति निधनं भवति ।
त्रीणि पुरुष इन्द्रि याण्यात्मा प्रजा पशवः ।
तान्येवैतेनात्मन्परिगृह्णीते ।
तानब्रवीत्किंकामो व एकः किंकाम एकः किंकाम एक इति ।
सोऽब्रवीद्रा योवाजः पशुकामोऽहमस्मीति ।
तस्मा इळां प्रायच्छत् ।
पशवो वा इळा ।
अथाब्रवीत्पृथुरश्मिः क्षत्रकामोऽहमस्मीति ।
तस्मै क्षत्रं प्रायच्छत् ।
स एव पृथुर्वैन्यः ।
अथाब्रवीद्बृहद्गिरिरन्नाद्यकामोऽहमस्मीति ।
तस्मा अथकारं प्रायच्छत् ।
अन्नं वा अथकारः ।
सौभरं प्रजाकामः कुर्वीत ।
हुसिति निधनमुपेयात् ।
सौभरमन्नाद्यकामः कुर्वीत ।
ऊर्गिति निधनमुपेयात् ।
सौभरं वृष्टिकामः कुर्वीत ।
हिसिति निधनमुपेयात् ।
सौभरमुद्ग्रहणकामः कुर्वीत ।
उदिति निधनमुपेयात् ।
सौभरं स्वर्गकामः कुर्वीत ।
ऊ इति निधनमुपेयात् ।
भारद्वाजायनान्ह सत्त्रमासीनान्पप्रच्छुः केन प्रजाकामा अस्तोढ्वमिति ।
सौभरेणेति ।
केनान्नाद्यकामा इति ।
सौभरेणेति ।
केन वृष्टिकामा इति ।
सौभरेणेति ।
केनोद्ग्रहणकामा इति ।
सौभरेणेति ।
केन स्वर्गकामा इति ।
सौभरेणेति ।
एवमिव वा एतत्साम ।
एते वा एतस्मिन्न्कामाः ।
एतानेव कामानवरुन्द्धे ।
यत्काम एवैतेन साम्ना स्तुते समस्मै स काम ऋध्यते १८६

सौभरं ब्रह्मसाम कुर्वीत यः कामयेता मे प्रजायां सूपकाशो दर्शनीयः क्षत्रियरूपः पुरुषरूपो जायेतेति ।
तेजो वै पुरुषस्य प्रजा तेजस्सौभरं बृहतः ।
क्षत्रं बृहत् ।
क्षत्रियस्यो एषा प्रजा ।
आ हैवास्य प्रजायां सूपकाशो दर्शनीयः क्षत्रियरूपं पुरुषरूपो जायते य एवं वेद ।
प्रजापतिः प्रजा असृजत ।
ता अस्य सृष्टाः पराभवन् ।
तदिदं सरीसृपमभवद्यदन्यत्सर्पेभ्यः ।
स द्वितीय असृजत ।
ता अस्य परैवाभवन् ।
ते मत्स्या अभवन् ।
स तृतीया असृजत ।
ता अस्य परैवाभवन् ।
तानि वयांस्यभवन् ।
स चतुर्थीरसृजत ।
स षक्षत कथं नु म इमाः प्रजास्सृष्टा न पराभवेयुरिति ।
स एतत्सामापश्यत् ।
तेनैना ऊर्गित्येवाभ्यमृशत् ।
ता अस्योर्जा समक्ता अवर्धन्त ।
सोऽब्रवीत्सुभृतं वा इमाः प्रजा अभार्षमिति ।
तदेव सौभरस्य सौभरत्वम् ।
सुभृतं प्रजां बिभर्ति य एवं वेद १८७

नार्मेधेनातिरात्रेऽच्छावाकाय स्तुवन्ति ।
इळया रात्रिमभिसंतन्वन्ति ।
तदाहुर्यन्ति वा एतेऽनुष्टुभो य उष्णिक्ष्वच्छावाकसाम कुर्वन्तीति ।
अर्वागुष्णिग्घ खलु वा एतासामेका मध्योष्णिगेका पुरोष्णिगेकानवधृतं छन्दोऽनवधृतं वाग्वदति ।
वागनुष्टुप् ।
तेनानुष्टुभो न यन्ति ।
यैतासामुत्तमा सा प्रत्यक्षानुष्टुप् ।
तेनो वावानुष्टुभो न यन्ति ।
यथा ह वा इदं मधुकृतः पुष्पाणां रसान्संभरन्त्येवं ह वा एता देवताश्छन्दसां रसान्समभरन् ।
छन्दसां हास्य रसेन स्तुतं भवति य एवं वेद ।
अहोरात्रयोर्ह खलु वा एतद्रू पं साम ।
षन्द्री रृच आग्नेयं साम ।
षन्द्र महराग्नेयी रात्रिः ।
यो ह वा एतस्मात्साम्नोऽतिरात्र इयादहोरात्रयोर्ह वै स रूपेण विवृह्येत ।
स य एनं तत्र ब्रूयादहोरात्रयोरेनं रूपेण व्यवृक्षदिति तथा हैव स्यात् ।
तस्मादु हैतस्मात्साम्नोऽतिरात्रे नैतव्यम् १८८

क्षेपीयसी ह खलु वै रात्रिरह्नः ।
एहीळं भवत्यप्रवर्हाय ।
यदृचश्च साम्नश्चात्यरिच्यत तदुद्वंशीयमभवत् ।
स हर्चा च साम्ना च प्रतितिष्ठति य एवं वेद ।
तदनृशंसस्य कुर्यान्न नृशंसस्य – परिमितजीवी हि नृशंसोऽतिरिक्तजीव्यनृशंसः – अतिरिक्तस्यैवावरुद्ध्यै ।
अथ ह वा एतेन देवास्साम्ना वंशमिवोद्यत्यासुरानभ्यत्यक्रामन् ।
यद्वंशमिवोद्यत्यासुरानभ्यत्यक्रामंस्तदुद्वंशीयमभवत् ।
तदुद्वंशीयस्योद्वंशीयत्वम् ।
अभ्यजितं जयति न जितं पराजयते य एवं वेद ।
सर्वेषां वा एतत्पृष्ठानां रूपं साम गायन्ति त्वा गायत्रिणः इति गायत्रस्य अर्चन्त्यर्कमर्कायिणा इति रथन्तरस्य ब्रह्माणस्त्वा होयि शतक्रताविति बृहतः उद्वंशमिव यायिमिरायि इति वैरूपस्य उद्वंशामि इति पुनर्नितुन्नं वैराजस्य वा या वु वा उबिति महानाम्नीनां मा इरा इति रेवतीनां हा इ इति वामदेवस्य ।
सर्वस्मिन्नेवैतत्पृष्ठरूपे रसे तेजस्यपराजिते छन्दसि यज्ञस्यान्ततः प्रतितिष्ठति १८९

सर्वो ह खलु वै षोडशिमान् ।
यत्रोद्वंशीयं क्रियते उत्तमं पदं पुनरभ्यस्यति ।
षोडश्येव तेन रूपेण क्रियते ।
वज्रो वै भ्रातृव्याय षोडशी ।
वज्रमेवैतद्द्विषते भ्रातृव्याय प्रहरति स्तृत्यै ।
तमो वै देवासुरानन्तरासीत् ।
ते देवा एतमर्धेळं धूयधरा अतिक्षरन्ति ।
अपश्यन् ।
तेनैनद्व्यायन् ।
यं द्विष्यात्तं मनसा ध्यायेत् ।
एतमर्धेळमुपावयन्व्येवैनमेत्य् ।
अध्यर्धेळं स्वरति ।
तस्माद्धूयार्धरा अतिक्षरन्ति ।
अषाढो ह सावयसोऽतिरात्रेणेजे ।
तदु हातिधन्वश्शौनकः प्रसृप्त । आस ।
स होद्वंशीयमतिरात्रे छावाकसाम चक्रे ।
तं होवाच मैवं कुरुत ।
प्रलुप्तेळाः स्वरः परस्तादप्रतिष्ठितः पारिचर्यस्य रूपमिति ।
स होवाच तां वै वयं कृत्स्नामिळामुपेत्य स्वरेणैव संतत्य रात्रिं प्रवत्स्यामहा इति ।
नेति हेतर उवाच ।
इन्द्रो वाव तेन साम्नासुरानन्वभ्यवैत् ।
ते बलं स्वरं विदित्वा प्रत्याद्र वन् ।
तं प्राकुर्वत ।
स प्रकृत एतमर्धेळं न्यहन् ।
त्राणाय वा एष यदर्धेळ । इति १९०

नार्मेधमेव कार्यम् ।
तदैळं भवति ।
पशवो वा इळा ।
पशुभिर्वाव ते तान्रात्रेर्निरवाघ्नन् ।
तस्मान्नार्मेधमेव कार्यमिति ।
आष्टादंष्ट्रे ऋद्धिकामः कुर्वीत ।
अष्टादंष्ट्रो वै वैरूपः पश्चेवान्येभ्य ऋषिभ्य एते सामनी अपश्यत् ।
सोऽबिभेदस्तोत्रीये मे सामनी भविष्यत इति ।
सोऽब्रवीदृध्नवात्स यो मे सामनी सोमस्य तर्पयादिति ।
ऋद्धिप्रागुभिते वा एते सामनी ।
ऋध्नुवन्त्येवैताभ्यां तुष्टुवानाः ।
अष्टादंष्ट्रो वैरूपः पशुकामस्तपोऽतप्यत ।
स एते सामनी अपश्यत् ।
ताभ्यामस्तुत ।
स एतामिळां उपैत् ।
पशवो वा इळा ।
ततो वै स पशूनवारुन्द्ध ।
ते एते पशव्ये सामनी ।
अव पशून्रुन्द्धे बहुपशुर्भवति य एवं वेद ।
यद्वष्टादंष्ट्रो वैरूपोऽपश्यत्तस्मादाष्टादंष्ट्रे इत्याख्यायेते ।
तदैळमच्छावाकसाम भवति ।
पशवो वा इळा ।
पशुष्वेवैतत्प्रतितिष्ठति १९१

प्रजापतिर्यद्देवेभ्यस्तन्वो व्यभजत्ततो या हरिवत्यासीत्तामात्मनेऽशिंषत् ।
तामिन्द्रा य प्रायच्छत् ।
तयेन्द्रो ज्यैष्ठ्यमगच्छत् ।
तद्यद्धरिवतीषु स्तुवन्ति तद्ध्येव ज्यैष्ठ्यम् ।
हरिवतीः परोक्षमनुष्टुभस्संपद्यन्ते ।
तास्संस्तुताश्चतुस्त्रिंशदक्षरा भवन्ति ।
ततो ये चतुस्त्रिंशे अक्षरे साम्नस्ताभ्यां लोको विधीयत इत्याहुः ।
यत्पञ्चत्रिंशदक्षरासु स्तुयुः परं रूपं उपपद्येरन्बार्हतम् ।
यत्त्रयस्त्रिंशदक्षरासु स्तुयुरवरं रूपमुपपद्येरनानुष्टुभम् ।
यत्सप्तदशस्तोमस्स्यात्परमं रूपमुपपद्येरन् ।
यत्पञ्चदशस्तोमः स्यादवमं रूपमुपपद्येरन् ।
यत्षोडशिना षोडशस्तोमेन चतुस्त्रिंशदक्षरासु स्तुवन्ति स्वेनैवैनं तदायतनेन समर्द्धयन्ति ।
तेनैभ्यः समृद्धेन स्वायां जनतायामर्धुकं भवति ।
षोडश स्तोत्राणि षोडश शस्त्राणि ।
तद्द्वात्रिंशत् ।
द्वात्रिंशदक्षरानुष्टुप् ।
आनुष्टुभष्षोडश्यनुष्टुभं संपन्नः ।
देवछन्दसानि वा अन्यान्यासन्नसुरछन्दसान्यन्यानि १९२

एकाक्षरं देवानाअवममासीत्सप्ताक्षरं परमम् ।
नवाक्षरमसुराणामवममासीत्पञ्चदशाक्षरं परमम् ।
ते देवा अकामयन्त कनीयसा भूयोऽसुराणां वृञ्जीमहीति ।
त एकाक्षरेण पञ्चदशाक्षरमवृञ्जत ।
ते द्व्यक्षरेण चतुर्दशाक्षरं त्र्! यक्षरेण त्रयोदशाक्षरं चतुरक्षरेण द्वादशाक्षरं पञ्चाक्षरेणैकादशाक्षरं षडक्षरेण दशाक्षरं सप्ताक्षरेण नवाक्षरमष्टाक्षरेणाष्टौ ।
तानि यत्षोडशषोडश समपद्यन्त तत्षोडशिनष्षोडशित्वम् ।
तद्गायत्र्! येव सप्तदश्युपसमपद्यत ।
तस्मादाहुस्सप्तदशः प्रजापतिरिति ।
इन्द्रो वै वृत्रमजिघांसत् ।
स प्रजापतिमुपाधावद्धनानि वृत्रमिति ।
तस्मा एतं षोडशिनं वज्रं प्रायच्छद्यदस्य वीर्यमासीत्तदादाय शक्वर्यः ।
तं नाशक्नोद्धन्तुम् ।
तं पुनरुपाधावद्धनान्येव वृत्रमिति १९३

तस्मै शक्वर्यः प्रायच्छत् ।
ततो वा इन्द्रो वृत्रमहन् ।
हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद ।
स षक्षत यद्यस्मै दिवा प्रदास्यामि रात्रिमेषां भ्रातृव्यलोकोऽभ्यधिरेक्ष्यते ।
यद्यस्मै नक्तं प्रदास्याम्यहरेषां भ्रातृव्यलोकोऽभ्यधिरेक्ष्यत इति ।
स एतदपश्यत् ।
यावत्येतदादित्यो विषितो भवति तस्मै तावत्येव प्रायच्छत् ।
तेनासुरानुभाभ्यामहोरात्राभ्यामन्तरैत् ।
उभाभ्यामेवाहोरात्राभ्यां द्विषन्तं भ्रातृव्यमन्तरेति य एवं वेद ।
यथा ह वै सूर्म्यत्याधायैवं षोडशी स्तोत्राणां स्वर्गलोकस्य समष्ट्यै ।
प्र स्वर्गं लोकमाप्नोति य एवं वेद १९४

तदाहुस्त्रिवृदेव स्तोमः कार्य इति ।
स त्रिवृद्वै वज्रः ।
वज्रष्षोडशी ।
अथो आहुष्पञ्चदश एव कार्य इति ।
पञ्चदशो वै वज्रः ।
वज्रष्षोडशी ।
अथो आहुष्षोडश एव कार्य इति ।
पञ्चदशो वै वज्रः ।
इन्द्रो वज्रस्योद्यन्ता षोडशः ।
सेन्द्रे ण वज्रेण वृत्रं पाप्मानं हनानीति ।
सेन्द्रे ण हैव वज्रेण द्विषन्तं पाप्मानं भ्रातृव्यं हन्ति य एवं वेद ।
अथो आहुस्सप्तदश एव कार्य इति ।
पञ्चदशो वै वज्रः ।
इन्द्रो वज्रस्योद्यन्ता षोडशः ।
प्रजापतिरेव सप्तदशः ।
सोऽनुष्ठाता सोऽभिगोप्ता सोऽभिवादयिता प्रहर्जहि मापक्रमीः इति ।
सेन्द्रे ण वज्रेण सप्रजापतिकेन वृत्रं पाप्मानं हनानीति ।
सेन्द्रे ण हैव वज्रेण सप्रजापतिकेन द्विषन्तं पाप्मानं भ्रातृव्यं हन्ति य एवं वेद ।
अथो आहुरेकविंश एव कार्य इति ।
सर्वाभ्यो वा एतं सप्तभ्यो होत्राभ्य इन्द्रो वज्रं निरमिमीत तिस्रस्तिस्र एव होत्रायै ।
स एकविंशष्षोडशी समपद्यत ।
तेनेन्द्रो वृत्रमहन् ।
हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद ।
तदु होवाच यामनो भ्रातलायनो विराजो वा एष संपदे षोडशी ।
वैराजो वै षोडशी विराजिविराजि प्रतिष्ठितः ।
स यत्रैवैतं विराजं संपद्यमानं मन्येत तदेवैतेन स्तोतव्यम् १९५

अहोरात्रयोर्वै देवासुरा अधि संयत्ता आसन् ।
ते देवा अहरभ्यजयन्नथासुरा रात्रिमभ्युपाधावन् ।
ते देवा अब्रुवन्नर्धिनो वा अस्य भुवनस्याभूम कथं सत्रा रात्रिमभिजयेमाभिप्रयुनजामहा इति ।
तेऽभ्ययुञ्जत ।
अह्नो जघनार्धेऽयतन्त ।
अथासुरा रात्र्! या उदासृत्य पूर्वार्धेऽयतन्त ।
एष ह वा अह्नो जघनार्धो यत्सायम् ।
एष उ वै रात्रेः पूर्वार्धो यत्सायम् ।
स्वायामन्ये मर्यादायामयतन्त स्वायामन्ये ।
छन्दांसि वाव तेषां स्वमासीत् ।
छन्दस्स्वधि संयत्ता आसन् १९६

एकाक्षरं देवानामवममासीत्सप्ताक्षरं परमम् ।
नवाक्षरमसुराणामवममासीत्पञ्चदशाक्षरं परमम् ।
सप्ताक्षरं च नवाक्षरं च संनिहिते आस्तामीद्र य्ञ्च्यन्यानि यत्तान्यासन्नीद्र य्ञ्च्यन्यानि ।
तान्प्रजापतिरानुष्टुभोऽन्तरा विक्रम्यातिष्ठत् ।
ते समीक्षमाणास्संचाकशतोऽतिष्ठन्नन्योन्यस्य रन्ध्रमिच्छन्तः ।
ते देवाः प्रजापतिमुपाधावञ्जयामासुरानिति ।
तेभ्य एतं षोडशिनं वज्रं प्रायच्छत् ।
एतेनैषां छन्दोभिश्छन्दांसि संवृज्य मामुपसंपादयथेति ।
त एकाक्षरेण पञ्चदशाक्षरमवृञ्जत द्व्यक्षरेण चतुर्दशाक्षरम् ।
सानुष्टुबभवत् ।
तां प्रजापतिमुपसमपादयन् ।
त्र्! यक्षरेण त्रयोदशाक्षरं चतुरक्षरेण द्वादशाक्षरम् ।
सानुष्टुबभवत् ।
तां प्रजापतिमुपसमपादयन् ।
पञ्चाक्षरेणैकादशाक्षरं षडक्षरेण दशाक्षरम् ।
सानुष्टुबभवत् ।
तां प्रजापतिमुपसमपादयन् ।
सप्ताक्षरेण नवाक्षरमष्टाभिरेवाष्टौ ।
सानुष्टुबभवत् ।
तां प्रजापतिमुपसमपादयन् ।
तेषां छन्दोभिरेवं छन्दांसि संवृयासुरान्निरवाघ्नन् ।
तान्निरवहतान्दारान्यतः प्रजापतिरश्वोऽरुणपिशङ्गो भूत्वा पराप्रोथत् ।
त एत उदन्तेष्वधिगम्यन्त एकैक इव ।
ततो वै देवा अभवन्परासुराः ।
भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद १९७

कनीयस्विन इव वै देवा आसन्भूयस्विनोऽसुराः ।
कनीयसा वै तेषां त्वेतद्भूयोऽवृञ्जत ।
तस्मात्कनीयान्ग्रामो ज्यायांसं ग्रामं प्रतिसंयतते ।
तस्मादु कनीयांसो भूयसोऽमित्राञ्जयन्ति ।
कनीयस्वी भूयस्विनं वृञ्जते य एवं वेद ।
एषा ह खलु वै प्रत्यक्षं पङ्क्तिर्यत्पञ्चाक्षरा पञ्चपदा ।
पङ्क्तिषु षोडशिना स्तुवन्ति ।
पुरुषच्छन्दसं वै पङ्क्तिः ।
यत्पाङ्क्तः पुरुषः पुरुषादेवैतदाप्तां वाचं निर्मिमते ।
तस्मात्पुरुषस्सर्वा वाचो वदति ।
आप्त इव वा एतर्हि सर्ववाक् ।
तद्यदनुष्टुप्सु स्तुवन्ति यथा कुम्भ्यासूपदस्तासु महोदधीनुपधावयेत्तादृक्तत् ।
कनीयांसि छन्दांसि ज्यायस्सु छन्दस्स्वध्यूहन्ति ।
जितदेवत्यानि वा एतानि यत्कनीयांसि ।
तस्माज्ज्यायस्सु छन्दस्स्वध्यूहन्ति ।
एषां ह खलु वै छन्दसां वीर्यवत्तमा या त्र्! यक्षरैकपदा ।
ताभिर्यच्छन्दांसि उपसृजन्ति वीर्यस्यैवावरुद्ध्यै ।
निधनमभ्यतिस्वरति ।
अह्नो वै देवा रात्रिमभ्यत्यक्रामन् ।
अभि भ्रातृव्यलोकं जयति य एवं वेद ।
भ्रातृव्यभाजनमिव ह्येषा यद्रा त्रिः १९८

अधिकर्ण्या सोमं क्रीणन्ति ।
यथा ह वै कर्णे कर्णेऽधिरूढ एवं षोडशी स्तोत्राणाम् ।
सह वै षोडशिनं क्रीणीम इति वदन्तष्षोडशिनं क्रीनन्ति यदधिकर्णी सोमक्रयणी भवति ।
तेनैवैषां षोडशी क्रीतस्तेनावरुद्धः ।
अधिकर्ण्या सोमं क्रीणन्ति ।
सवनात्सवनात्सोममतिरेचयन्ति ।
जनद्वतीषु स्तुवन्ति ।
सर्वाणि रूपाण्यनुशास्यन्ते ।
यदधिकर्ण्या सोमं क्रीणन्ति यजमान एनं तेन प्रजनयति ।
यत्सवनात्सवनात्सोममतिरेचयन्त्यध्वर्युरेनं तेन प्रजनयति ।
यज्जनद्वतीषु स्तुवन्त्युद्गातैनं तेन प्रजनयति ।
यत्सर्वाणि रूपाण्यनुशास्यन्ते होतैनं तेन प्रजनयति ।
एतानि वै षोडशिनः प्रजननानि ।
प्र प्रजया पशुभिर्जायते य एवं वेद १९९

इन्द्रं वै हरोऽत्यरिच्यत ।
स देवानब्रवीत्कथं मा हरो नातिरिच्येतेति ।
तं विश्वे देवा अब्रुवन्वयं त्वा हरिवता मन्त्रेण स्तोष्यामस्तथा त्वा हरो नातिरेक्ष्यत इति ।
तं विश्वे देवा हरिवता मन्त्रेणास्तुवन् ।
ततो वा इन्द्रं हरो नात्यरिच्यत ।
तद्यद्धरिवतीषु स्तुवन्ति इन्द्र मेवैतद्धरसा समर्धयन्ति ।
एषा ह खलु वै यजमानस्य नेदिष्ठं देवता यदिन्द्र ः! ।
तद्यद्धरिवतीषु स्तुव्नति यजमानमेव तद्धरसा तेजसा समर्धयन्ति ।
समस्मा ऋध्यते य एवं वेद २००

प्रष्टिरिव ह खलु वा एतत्स्तोत्राणां यत्षोडशी ।
यद्वै प्रष्टिरनियुक्तो वहत्यप वा वै स छिनत्ति निर्वा मार्ष्टि ।
अन्त्येन स्तोत्रेण समस्तोमो भवति ।
स यथा प्रष्टिं प्रष्टियुगाय नियुञ्ज्यादेवमेवैतत्पूर्वेषु स्तोत्रेषु षोडशिनमनुनियुनक्त्यनिर्मार्गाय ।
अक्षीव ह खलु वा एतत्स्तोत्राणां यत्षोडशी ।
अन्त्येन स्तोत्रेण समस्तोमो भवत्यनक्षितायै ।
जामीव ह खलु वा एतत्स्तोत्राणां यत्षोडशी ।
अन्त्येन स्तोत्रेण समस्तोमो भवत्यजामितायै ।
पशवो वा उक्थानि वज्रष्षोडशी ।
यदुक्थानामन्ततष्षोडशिना स्तुवन्ति वज्रेणैव तत्पशून्परिगृह्णन्त्यपरावापाय ।
नास्य वित्तं परोप्यते य एवं वेद २०१

तदाहुर्नोक्थ्ये षोडशी कार्य इति ।
पशवो वा उक्थानि वज्रष्षोडशी ।
वज्रं पशुषु विवर्तयेत् ।
अतिरात्र एव कार्यः ।
आपो वै सर्वस्य शान्तिः ।
अद्भिरेवैनत्तच्छमयन्ति ।
यद्यभिचरणीयस्सोमस्स्याद्धिरण्मयं वज्रं भृष्टिमन्तं कृत्वा यो य एव कर्म कुर्यात्तस्म तस्मा उपप्रवर्तयेत् ।
स स एवास्मै वज्रं प्रहरति स्तृत्यै ।
संस्थिते सोमे न्यञ्चं द्रो णकलशं पर्यस्य करम्भमयान्वा पुरुषान्कृत्वा हरितानां वा तृणानां तेषां नामग्रहं ग्रीवा अपिकृन्तेदिदमहममुष्य ग्रीवा अपिकृन्तामीदममुष्येदममुष्य इति ।
यावतामेव नामानि गृह्णाति तावतां ग्रीवा अपिकृन्तति तं ब्रह्मणे ददाति ।
ब्रह्म वै ब्रह्मा ।
ब्रह्म वज्रः ।
ब्रह्मण्येवैतद्वज्रं प्रतिष्ठापयति २०२

इन्द्र श्च वै बृहच्च समभवताम् ।
इन्द्रं बृहदेकया तन्वात्यरिच्यत ।
तस्या अबिभेदनयैव माभिभविष्यतीति ।
स देवानब्रवीत्षोडश्ययं यज्ञक्रतुरस्त्विति ।
तथेति ।
स षोडश्यभवत् ।
तत्षोडशिनो जन्म ।
अति श्रिया द्विषन्तं भ्रातृव्यं रिच्यते य एवं वेद गायत्रीषु द्विपदासु बृहता षोडशिना तुष्टुवानः ।
उप नो हरिभिस्सुतमित्येता वै गायत्र्! यो द्विपदाः ।
इन्द्रो वै वृत्रमजिघांसत् ।
स प्रजापतिमुपाधावद्धनानि वृत्रमिति ।
तस्मा एतामपहरसमनुष्टुभं प्रायच्छत् ।
तया नास्तृणुत ।
स यदस्तृत्वा व्यनदत्तन्नानदमभवत् ।
तन्नानदस्य नानदत्वम् ।
तस्मादाहुर्नानदं षोडशिसामाकार्यं न हि तेनास्तृणुतेति ।
तं पुनरुपाधावद्धनान्येव वृत्रमिति ।
तस्मै सप्तानां होत्राणां हरो निर्माय प्रायच्छत् ।
तिस्र एव होत्रायै ।
स एकविंशष्षोडशी समपद्यत ।
तेनो वृत्रमहन् ।
हन्ति द्विषन्तं भ्रातृव्यं ये एवं वेद ।
एकविंशायतनो ह खलु वै षोडशी ।
सप्त वै होत्राः प्रातस्सवने वषट्कुर्वन्ति सप्त माध्यंदिने सवने सप्त तृतीयसवने ।
अथो यदेवास्मै हरो निर्माय प्रायच्छत् २०३

गौरीवितिर्वा एतच्छाक्त्योऽतिरिक्तं ब्रह्मणोऽपश्यत् ।
तद्गौरीवितमभवत् ।
अतिरिक्तं वा एतद्ब्रह्मणो यद्गौरीवितमतिरिक्तष्षोडशी स्तोत्राणाम् ।
यद्गौरीवितेन षोडशिना स्तुवन्त्यतिरिक्त एव तदतिरिक्तं दधति यज्ञस्य सलोमतायै ।
औपोदितिर्ह स्माह गौपालयो विशालं लिबुजयाभ्यधादनुष्टुभि नानदमकृद्गौरीवितेन षोडशिनमतुष्टुवन्न श्रिया अवपद्य इति ।
न ह वै श्रिया अवपद्यते य एवं वेद ।
तदु श्वस्तनवदपि प्रजाया उपक्ळ्प्तम् ।
शक्वरीषु षोडशिसाम कुर्वीत पशुकामः ।
वज्रो वै सोडशी पशवश्शक्वर्यः ।
वज्रेणैव पशुं स्पृणोति पशुमान्भवति ।
शक्वरीषु षोडशिसाम कुर्वीत यः कामयेत वज्री स्यामिति ।
वज्रो वै षोडशी वज्रश्शक्वर्यः ।
वज्रेणैव वज्रं स्पृणोति वज्री भवति ।
विराट्स्वन्नाद्यकामष्षोडशिसाम कुर्वीत ।
वज्रो वै षोडश्यन्नं विराट् ।
वज्रेणैवान्नाद्यं स्पृणोत्यत्त्यन्नमन्नादो भवति ।
तास्त्रयस्त्रिंशदक्षरा भवन्ति ।
ततो यान्येकविंशतिः प्रतिष्ठा सा ।
अथ यानि द्वादश प्रजननं तत् ।
प्रति प्रतिष्ठायां तिष्ठति प्रजायते नो चान्तस्थायां जीयते य एवं वेद २०४

प्र वो महे महेवृधे भरध्वमित्येता वै विराजः ।
अनुष्टुप्सु षोडशिसाम कुर्वीत यः कामयेत न मान्या वागतिवदेदिति ।
वज्रो वै षोडशी वागनुष्टुप् ।
वज्रेणैव वाचं स्पृणोति नैनमन्या वागतिवदति ।
आ तिष्ठ वृत्रहन्रथमित्येता वा अनुष्टुभः ।
अथैतास्त्र्! यक्षरा एकपदा भवन्ति ।
विष्णोश्छन्दो भूरिजश्शक्वर्य इति ।
एताभिर्वा इन्द्रो वृत्रमहन्नेताभिश्श्रियामाश्नुतौषमेव ।
द्विषन्तं भ्रातृव्यं हन्त्योषं श्रियमश्नुते य एवं वेद ।
हिरण्यं संप्रदायं षोडशिना स्तुवन्ति ।
षोडशुनमेव तज्ज्योतिष्मन्तं कुर्वन्ति ।
अश्व उपतिष्ठते साम्येक्ष्याय ।
भ्रातृव्यलोकं वावैषां तद्विधमंस्तिष्ठति ।
यस्माज्जातो न परोऽन्यो अस्ति य आ बभूव भुवनानि विश्वा
प्रजापतिः प्रजया संरराणस्त्रीणि ज्योतींषि सचते स षोडशी
इति षोडशिग्रहमवेक्षते ।
इन्द्र श्च सम्राड्वरुणश्च राजा तौ ते भक्षयां चक्रतुरग्र एतम्
तयोरहं भक्षमनुभक्षयामि वाग्जुषाणा सोमस्य तृप्यतु इति एकाक्षरं देवानामवममासीत्सप्ताक्षरं परमम् ।
नवाक्षरमसुराणामवममासीत्पञ्चदशाक्षरं परमम् ।
ते देवा अकामयन्त कनीयसा भूयोऽसुराणां वृञ्जीमहीति ।
त एकाक्षरेण पञ्चदशाक्षरमवृञ्जत द्व्यक्षरेण चतुर्दशाक्षरं त्र्! यक्षरेण त्रयोदशाक्षरं चतुरक्षरेण द्वादशाक्षरं पञ्चाक्षरेणैकादशाक्षरं षडक्षरेण दशाक्षरं सप्ताक्षरेण नवाक्षरम् ।
अष्टाभिरेवाष्टौ ।
एवं कनीयसा ज्यायसो द्विषतो भ्रातृव्यस्य वृङ्क्ते य एवं वेद २०५

अह्नोऽसुरा नुत्ता रात्रिं प्राविशन् ।
ते देवा एतमनुष्टुप्शीर्षाणं वज्रं समभरन् ।
तेनैनानभ्यवायन् ।
वाग्वा एषा ।
वाचा ज्योतिषान्वभ्यवायन् ।
विराड्वा एषा ।
विराजा ज्योतिषान्वभ्यवायन् ।
न वै सुयज्ञ इवातिरात्रः ।
तद्यत्पान्तं भवति तेनैव यज्ञः क्रियतेऽह्नश्च सुलभो रात्रेश्च संतत्या अव्यवच्छेदाय ।
यानि छन्दांस्यहर्वहन्ति तानि रात्रिं वहन्ति ।
एषा गायत्र्! येषा विराडेषा ककुबेषानुष्टुप् ।
बृहतीषु स्तुवन्ति ।
तेन बृहतीभ्यो न यन्ति ।
तासां यद्द्वादशाक्सराणि पदानि तेन जगतीभ्यो न यन्ति ।
त्रिष्टुभा वषट्करोति ।
तेन त्रिष्टुब्भ्यो न यन्ति ।
तान्संधिनाभिपलायन्त आश्विनेनासंहेयमगमयन् ।
असंहेयं ह वै द्विषन्तं भ्रातृव्यं गमयति य एवं वेद ।
एषा वा अग्निष्टोमस्य संमा यद्रा त्रिः ।
द्वादश वा अग्निष्टोमस्य स्तोत्राणि द्वादश रात्रेः ।
एषा वा उक्थस्य संमा यद्रा त्रिः ।
त्रीण्युक्थानि त्रिदेवत्यः संधिः ।
एषा वा अग्निष्टोमस्य च संवत्सरस्य च संमा यद्रा त्रिः ।
द्वादश वा अग्निष्टोमस्य स्तोत्राणि द्वादश मासाः संवत्सरः ।
रात्र्! या त्वाव त्रयोदशो मास आप्यते ।
एषा वै ब्रध्नस्य विष्टपं यद्रा त्रिः ।
गच्छति ब्रध्नस्य विष्टपं य एवं वेद २०६

एष वाव सर्वगो यज्ञो यदतिरात्रः ।
न वै रात्र्! या ऋतेऽहर्न रात्रिरृतेऽह्नः ।
नैषां लोकानामेक एकः ।
अहोरात्रे वा इदं सर्वमिमे लोकाः ।
भूतं भव्यं प्रजनयतः ।
तदाहुर्न प्रथमं यजमानोऽतिरात्रेण यजेतेति ।
स्वं च ह्यतिमन्यते ।
द्वौ यज्ञक्रतू ।
ब्रह्म वा अग्निष्टोमः ।
ब्रह्म वै ब्राह्मणस्य स्वम् ।
अग्निष्टोमं च ह्यतिमन्यत उक्थं च षोडशिनम् ।
तदु वा आहुरग्निष्टोममात्रं वावाग्निष्टोमेनाभिजयत्युक्थमात्रमुक्थेन षोडशिमात्रं षोडशिना रात्र्! या त्वाव सर्वमवरुन्द्ध इति ।
स यो हैवं विद्वानेकेन यज्ञक्रतुना चतुरो यज्ञक्रतून्संतनोत्यास्य चत्वारो विरा जयन्ते सर्वेषु पशुषु प्रतितिष्ठति २०७

अह्नोऽसुरा नुत्ता रात्रिं प्राविशन् ।
ते देवा एतानि सामान्यपश्यन्नेतान्पर्यायान् ।
तैरेनानन्वभ्यवायन् ।
तान्पर्यायमघ्नन् ।
यत्पर्यायमघ्नंस्तत्पर्यायाणां पर्यायत्वम् ।
पर्यायमेव द्विषन्तं भ्रातृव्यं हन्ति य एवं वेद ।
ये प्रथमरात्रेण छन्ना आसंस्तान्प्रथमेन पर्यायेणाघ्नन् ।
यत्प्रथमस्य पर्यायस्य प्रथमानि पदानि पुनरादीनि भवन्ति ये प्रथमरात्रेण छन्ना भवन्ति तानेव तेन घ्नन्ति ।
ये मध्यरात्रेण छन्ना आसंस्तान्मध्यमेन पर्यायेणाघ्नन् ।
यन्मध्यमस्य पर्यायस्य मध्यमानि पदानि पुनरादीनि भवन्ति ये मध्यमरात्रेण छन्ना भवन्ति तानेव तेन घ्नन्ति ।
येऽपररात्रेण छन्ना आसंस्तानुत्तमेन पर्यायेणाघ्नन् ।
यदुत्तमस्य पर्यायस्युत्तमानि पदानि पुनरादीनि भवन्ति येऽपररात्रेण छन्ना भवन्ति तानेव तेन घ्नन्ति ।
पुनरभिघातं वावैनांस्तदघ्नन् ।
यथा वै हत्वा पुनर्हन्यात्तादृक्तत् ।
पुनरभिघातमेव द्विषन्तं भ्रातृव्यं हन्ति य एवं वेद २०८

शर्वरी वै नां रात्रिः ।
ते देवा अब्रुवन्नपि वै नः शर्वर्यां अभूदिति ।
तदेवापिशर्वराणामपिशर्वरत्वम् ।
अपि ह वा अस्य शर्वर्यां भवति य एवं वेद ।
असुरेषु वा इदमग्र आसीत् ।
तद्देवा अभिजित्याब्रुवन्केन न्वहोरात्रे उपरिष्टात्संदध्यामेति ।
त एतद्रा थन्तरं संधिमपश्यन् ।
तेनाहोरात्रे उपरिष्टात्समदधुः ।
यत्समदधुस्तत्संधेर्संधित्वम् ।
आश्विनं ह खलु वै संधेरुक्थम् ।
महति रात्रे संधिना स्तुवन्ति ।
आ सूर्यस्योदेतोराश्विनमनुशस्यतेऽहोरात्रयोरेव संतत्या अहोरात्रयोः समारम्भाय ।
अहोरात्रे देवा अभिजित्य ते वज्रमेव परिधिमकुर्वत पशूनां गुप्त्या असुराणामनभ्यवचाराय ।
तद्यदेता उष्णिहोऽन्ततः क्रियन्ते वज्रो वा उष्णिहो वज्रेणैव तत्पशून्परिगृह्णात्यपरावापाय ।
नास्य वित्तं परोप्यते य एवं वेद २०९

असुरेषु वा इदमग्र आसीत् ।
तद्देवा अभिजित्याब्रुवन्वीदं भजामहा इति ।
तस्य विभागे न समपादयन् ।
तेऽब्रुवन्नाजिमस्यायामेति ।
त आजिमायन् ।
अग्नेः प्रथमो रथ आसीदथोषसोऽथाश्विनोः ।
तावश्विनावश्वी अश्व्यामत्यकुरुताम् ।
तौ द्र वन्तावग्निः पर्युदतिष्ठत् ।
तावब्रूतामति नौ सृजस्वेति ।
नेत्यब्रवीदनु नु माभजतमिति ।
तृतीयं त इत्यब्रूतामावाभ्यां त्वेवाख्यायतादिति ।
तथेति तावत्यार्जत ।
तौ द्र वन्तावुषाः पर्युदतिष्ठत् ।
तावब्रूतामति नौ सृजस्वेति ।
नेत्यब्रवीदनु नु माभजतमिति ।
तृतीयं त इत्यब्रूतामावाभ्यां त्वेवाख्यायतादिति ।
तथेति तावत्यार्जत ।
तावुदजयताम् ।
स य एवमेतामश्विनोरुज्जितिं वेद यत्र कामयत उदिह जयेयमित्युत्तत्र जयति ।
य उ एवैतामग्नेश्चोषसश्चान्वाभक्तिं वेद यत्र कामयतेऽन्वाभक्त इह स्यामित्यन्वाभक्तस्तत्र भवति ।
तस्मान्नानादेवत्यासु संस्तुवन्ति ।
अथाश्विनमित्येवाख्यायते ।
वारेवृतं हि तत्तयोः २१०

अहोरात्रयोर्वै देवासुरा अधिसंयत्ता आसन् ।
ते देवा अहरभ्यजयन् ।
अथासुरा ऋचं च रात्रिं च प्राविशन् ।
ते देवा अब्रुवन्नर्धिनो वा अस्य भुवनस्याभूम कथं सत्रा रात्रिमभिजयेम रत्नैरन्वभ्यवायामेति ।
तव छन्दसेत्यग्निमब्रुवन् ।
तव स्तोमेनेतीन्द्र म् ।
तव संपदेति प्रजापतिम् ।
युष्माकमायतनेनेति विश्वान्देवान् ।
यदग्निमब्रुवंस्तव छन्दसेति तस्माद्गायत्रीषु स्तुवन्ति ।
यदिन्द्र मब्रुवंस्तव स्तोमेनेति तस्मात्पञ्चदशस्तोमो रात्रेः ।
यत्प्रजापतिमब्रुवंस्तव संपदेति तस्मादनुष्टुभं संपद्यते ।
यद्विश्वान्देवानब्रुवन्युष्माकमायतनेनेति तस्माज्जगत्योऽनुशंस्यन्ते ।
तान्संधिनाभिपलायन्त आश्विनेनासंहेयमगमयन् ।
असंहेयं ह वै द्विषन्तं भ्रातृव्यं गमयति य एवं वेद २११

अहोरात्राभ्यां वै देवा असुरान्निर्हत्य तांस्त्रिवृतैव वज्रेणाभिन्यदधुः ।
इमे वै लोकास्त्रिवृतः ।
एभिरेवैनांस्तल्लोकैरभिन्यदधुः ।
तस्मादाहुर्नैव तावदसुरा अन्वाभवितारो यावदिमे लोका भवितार इति ।
एभिर्हि लोकैरभिनिहिताः-
एषा वा अग्निष्टोमस्य च संवत्सरस्य च संमा यद्रा त्रिः ।
चतुर्विंशत्यर्धमासः संवत्सरश्चतुर्विंशति रात्र्! या उक्थामदानि ।
त्रीणि सवनानि त्रयः पर्यायाः ।
रात्रिमेव तत्त्रिषवणां कुर्वन्ति ।
अथो एनां तदह्न इव समुत्कल्पयन्ति ।
अहोरात्रे देवा अभिजित्य तेऽमुमादित्यं सवनैरेव प्रत्यञ्चमनयन् ।
तं पर्यायैः पुनः प्राञ्चम् ।
तमाश्विनेन पुरस्तादुदस्तभ्नुवन् ।
तस्मादाहुर्नोदिते सूर्य आश्विनमनुशस्यमिति ।
वि हैनं गमयन्ति ।
स य एतदेवं वेद नीतोऽस्य सवनैरसावादित्यः प्रत्यङ्भवत्यानीतः पुनः पर्यायैः प्राङुत्तब्धः पुरस्तादाश्विनेन ।
उभे अस्याहोरात्रे स्पृते अवरुद्धे भवतो भोगायास्मा आदित्यः केतूंश्चरति २१२

अथैष राथन्तरः संधिर्भवति ।
प्रजापतिरुषसं स्वां दुहितरं बृहस्पतये प्रायच्छत् ।
तस्या एतत्सहस्रमाश्विनं वहतुमन्वाकरोत् ।
स देवानब्रवीदियमेव मम युष्माकमेतदितरदिति ।
तस्माद्यदानृशंसो जायां विन्दते व्येव वहतुमादिशति ।
ते देवा अब्रुवन्वीदं भजामहा इति ।
तस्य विभागे न समपादयन् ।
तेऽब्रुवन्नाजिमस्यायामेति ।
त आजिमायन् ।
अग्नेः प्रथमो रथ आसीदथोषसोऽथाश्विनोः ।
तावश्विनावश्वी अश्व्यामाश्वश्व्यमत्यकुरुताम् ।
तौ देवा अब्रुवन्वारोऽयं वामथ नः सहास्त्विति ।
तस्मान्नानादेवत्यासु स्तुवन्ति ।
अथाश्विनमित्य् एवाख्यायते ।
अग्नये प्रथमाय स्तुवन्त्यथोषसेऽथाश्विभ्याम् ।
एवं ह्येषामेता उज्जितयः ।
एकं साम द्वे छन्दसी ।
द्विपदमेव तच्चतुष्पत्सु पशुष्वध्यूहति ।
तस्माद्द्विपाच्चतुष्पदः पशूनधितिष्ठति ।
अनुदिते सूर्ये परिदध्याद्यं कामयेत पापीयान्स्यादिति ।
पापीयानेव भवति ।
व्युषिते परिदध्याद्यं कामयेत नार्वाङ्न परः स्यादिति नैवार्वाङ्न परो भवति ।
बहुवर्षी ह तु पर्जन्यो भवति ।
उदिते परुदध्याद्यं कामयेत श्रेयान्स्याद्रुचमश्नुवीतेति ।
श्रेयानेव भवति रुचमश्नुते २१३

पान्तमा वो अन्धसः इत्यन्धस्वतीर्भवन्ति ।
अहर्वा अन्धो रात्रिः पान्तम् ।
अहोरात्रयोरेव संतत्या अहोरात्रयोः समारम्भाय ।
तास्वोकोनिधनं वैतहव्यम् ।
ओकोनिधनेन वै वैतहव्येन देवा असुरानोकस ओकसोऽनुदन्त ।
ओकस ओकस एव द्विषन्तं भ्रातृव्यं नुदते य एवं वेद ।
प्राणा ह खलु वा ओकः ।
प्राणानेवैतद्द्विषतो भ्रातृव्यस्य वृङ्क्ते प्राणानात्मन्धत्ते ।
तदाहुः प्रेव वा एतेऽस्माल्लोकाच्च्यवन्ते येऽतिरात्रमुपयन्तीति ।
तद्यदोकोनिधनं भवति – अयं वै लोकः पुरुषस्यौकः – अस्मिन्नेवैतल्लोके प्रतितिष्ठति ।
वीतहव्य आश्रायसो ज्योगपरुद्धश्चरन्सोऽकामयताव स्व ओकसि गच्छेयमिति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
स ओकाः इत्येव निधनमुपैत् ।
ततो वै सोऽव स्व ओकस्यगच्छत् ।
एतत्कामसनि साम ।
एतं वै स काममकामयत ।
सोऽस्मै कामः समार्ध्यत ।
यत्काम एवैतेन साम्ना स्तुते समस्मै स काम ऋध्यते ।
यदु श्रीरेव राज्यं वै स तदगच्छत् ।
अश्नुते श्रियं गच्छति राज्यं य एवं वेद ।
यदु वीतहव्य आश्रायसोऽपश्यत्तस्माद् ओकोनिधनं वैतहव्यं इत्याख्यायते २१४

प्र व इन्द्रा य मादनमिति मद्वतीर्भवन्ति ।
रसो वै मदः ।
धीतेवैषा यद्रा त्रिः पीडितेव ।
नाभिषुन्वन्ति ।
यदेवादस्तृतीयसवनादृजीषमतिरेचयन्ति तेनास्यां चरन्ति ।
तद्यदेता मद्वतीर्भवन्ति रसमेवास्यामेतद्दधति ।
आइवैनामेतेन प्याययन्ति ।
तासु शाक्त्यम् ।
शाक्त्येन वै शाक्त्याः पशूनवारुन्धत ।
तच्छाक्त्यस्य शाक्त्यत्वम् ।
तदेतत्पशव्यं साम ।
अव पशून्रुन्द्धे बहुपशुर्भवति य एवं वेद ।
शाक्त्या अन्नाद्यकामास्तपोऽतप्यन्त ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
ततो वै तेऽन्नाद्यमरुन्धत ।
तस्य वा एतस्यास्ति यथैव गौरीवितस्यैवम् ।
अन्नं वै गौरीवितम् ।
अन्नमु वै श्वस्तनम् ।
अन्नमु ह वा इदं सर्वमतिरिरिचे ।
अतिरिक्तेवैषा यद्रा त्रिः ।
अतिरिक्तं रात्र्! यामन्नाद्यं दधति ।
तत्स्वारं भवति ।
प्राणो वै स्वरः ।
अन्नमु वै प्राणाः ।
तदेतदभिपूर्वस्यैवान्नाद्यस्यावरुद्धिः साम ।
अवान्नाद्यं रुन्द्धेऽन्नादः श्रेष्ठः स्वानां भवति य एवं वेद ।
यदु शाक्त्या अपश्यंस्तस्माच्छाक्त्यमित्याख्यायते २१५

वयमु त्वा तदिदर्थाः इति काण्वम् ।
कण्वो वै नार्षदो ज्योगप्रतिष्ठितश्चरन्सोऽकामयत प्रतितिष्ठेयमिति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
स रन्ताया इत्येव निधनमुपैत् ।
अरत इव वा एष भवति यो न प्रतितिष्ठति ।
लेलेवलेलयेव वै रात्री रतिर्वा एषा ।
ततः स प्रत्यतिष्ठत् ।
तदेतत्प्रतिष्ठा साम ।
प्रतितिष्ठति य एवं वेद ।
यदु कण्वो नार्षदोऽपश्यत्तस्मात्काण्वमित्याख्यायते ।
इन्द्रा य मद्वने सुतमिति मद्वतीर्भवन्ति ।
रसो वै मदः ।
धीतेवैषा यद्रा त्रिः पीडितेव ।
नाभिषुन्वन्ति ।
यदेवादस्तृतीयसवनादृजीषमतिरेचयन्ति तेनास्यां चरन्ति ।
तद्यदेता मद्वतीर्भवन्ति रसमेवास्यामेतद्दधति ।
षवैनामेतेन प्याययन्ति २१६

तासु श्रौतकक्षम् ।
श्रुतकक्षः काक्षीवतः पशुकामः तपोऽतप्यत ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
स एतामिळां उपैत् ।
पशवो वा इळा ।
ततो वै स पशूनवारुन्द्ध ।
तदेतत्पशव्यं साम ।
अव पशून्रुन्द्धे बहुपशुर्भवति य एवं वेद ।
पुनर्नितुन्नछन्दो भवति ।
यत्र यत्र वै देवाश्छन्दसां रसमन्वविन्दंस्तत्पुनर्नितुन्नमकुर्वन् ।
तत्पुनरभ्याघ्नन् ।
धीतेवैषा यद्रा त्रिः ।
तद्यत्पुनर्नितुन्नछन्दो भवति रसमेवास्यामेतद्दधति ।
रसस्यैवैषानुवृत्तिः ।
यदु श्रुतकक्षः काक्षीवतोऽपश्यत्तस्माच्छ्रौतकक्षमित्याख्यायते ।
तदैळमच्छावाकसाम भवति ।
पशवो वा इळा ।
पशुष्वेवैतत्प्रतितिष्ठति २१७

अयं ते इन्द्र सोमः इति ।
पुनःप्रोक्तिर्ह वा एषा हविषः ।
अयं नु ते परो यज्ञः इति ह वा एतदिन्द्रा य प्राहुः ।
द्वितीयं ह्येतद्धविः क्रियते यद्रा त्रिः ।
तास्वौर्ध्वसद्मनम् ।
और्ध्वसद्मनेन वै देवा एषु लोकेषूर्ध्वा असीदन् ।
यदेषु लोकेषूर्ध्वा असीदंस्तदौर्ध्वसद्मस्यौर्ध्वसद्मनत्वम् ।
तदेतत्स्वर्ग्यं साम ।
ऊर्ध्व एवैतेन स्वर्गे लोके सीदति य एवं वेद ।
और्ध्वसद्मनेन वै देवा असुराणां सुवृक्तिभिः इति पशूनवृञ्जत नृमादनमिति वज्रं प्राहरन्भरेष्वा इति स्वर्गं लोकमारोहन् ।
और्ध्वसद्मनेनैव द्विषतो भ्रातृव्यस्य सुवृक्तिभिः इत्येव पशून्वृङ्क्ते नृमादनमिति वज्रं प्रहरति भरेष्वा इति स्वर्गं लोकमारोहति ।
तान्याहुर्नानोपेत्यानि ।
नानेव वा इमे लोकाः ।
एषां लोकानां विधृत्या इति ।
सुवृक्तिभिः इति वा अयं लोकः नृमादनमित्यन्तरिक्षं भरेष्वा इत्यसौ ।
तस्मान्नानोपेत्यान्येषां लोकानां विधृत्यै २१८

तदु होवाच जानश्रुतेयो वीर्यं वा एतत्साम्नो यन्निधनम् ।
तद्विक्षुभ्नुयुस्तद्वियुञ्ज्युर्यन्नानोपेयुः ।
सार्धमेवोपेत्यानि साम्नः सवीर्यत्वायेति ।
तानि चतुरक्षराणि भवन्ति ।
याश्चतस्रो दिशोऽस्मिँ ल्लोके तासु सर्वासु प्रतितिष्ठाम याश्चतस्रो दिशोऽन्तरिक्षे लोके तासु सर्वासु प्रतितिष्ठाम याश्चतस्रोऽमुष्मिँ ल्लोके तासु सर्वासु प्रतितिष्ठामेति ।
और्ध्वसद्मनेन ह खलु वै रात्रिः पृष्ठिनीदं वै रथन्तरमन्तरिक्षं वामदेव्यमद एव बृहत् ।
य उ ह वा एषां लोकानां श्रेष्ठास्ते पृष्ठानि ।
तेषामेको भवति य एवं वेद ।
प्रजातिर्ह खलु वा ऊर्ध्वसम ।
अश्नुते प्रजापतितां य एवं वेद २१९

आ तू न इन्द्र क्षुमन्तमिति वैणवम् । वेणुर्वै वैश्वामित्रोऽकामयताग्र्यो मुख्यो ब्रह्मवर्चसी स्यामिति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै सोऽग्र्यो मुख्यो ब्रह्मवर्चस्यभवत् ।
अग्र्यो मुख्यो ब्रह्मवर्चसी भवति य एवं वेद ।
यद्वेणुर्वैश्वामित्रोऽपश्यत्तस्माद्वैणवमित्याख्यायते ।
तद्वेवाचक्षत आपालमिति ।
अपाला ह वा आत्रेयी तिलका वारुश्छविर्वाप्यास ।
साकामयताप पापं वर्णं हनीयेति ।
सैतत्सामापश्यत् ।
तेनास्तुत ।
सा तीर्थमभ्यवयती सोमांशुमविन्दत् ।
तं समखादत् ।
तस्यै ह ग्रावाण इव दन्ता ऊदुः ।
स इन्द्र आद्र वद्ग्रावाणो वै वदन्तीति ।
साभिव्याहरत्
कन्या वारवायती सोममपि स्रुताविदत्
अस्तं भरन्त्यब्रवीदिन्द्रा य सुनवै त्वा शक्राय सुनवै त्वा
इति ।
अस्यै वा इदं ग्रावाण इव दन्ता वदन्तीति विदित्वेन्द्र ः! पराङावर्तत ।
तमब्रवीद्
असौ य एषि वीरको गृहं-गृहं विचाकशत्
इमं जम्भसुतं पिब धानावन्तं करम्भिणमपूपवन्तमुक्थिनम्
इति ।
अनाद्रि यमाणैवैतमब्रवीद्
आ चन त्वा चिकित्सामोऽधि चन त्वा नेमसि
इति ।
पुरा मा सार्धयर्चापाला स्तौतीत्यपपर्यावर्तत ।
शनैरिव शनकैरिवेन्द्रा येन्दो परि स्रव
इत्येवास्यै मुखात्सोमं निरधयत् ।
सोमपीथ इव ह वा अस्य स भवति य एवं विद्वान्स्त्रियै मुखमुपजिघ्रति २२०

तामब्रवीदपाले किंकामासीति ।
साब्रवीद्
इमानि त्रीणि विष्टपा तानीन्द्र वि रोहय
शिरस्ततस्योर्वरामादिदं म उपोदिरे
सर्वा ता रोमशा कृधि
इति ।
खलतिर्हास्यै पितास ।
तं हाखलतिं चकार ।
उर्वरा हास्य न जज्ञे ।
सो ह जज्ञे ।
उपस्थे हास्यै रोमाणि नासुः ।
तान्यु ह जज्ञिरे ।
तां खे रथस्यात्यबृहत् ।
सा गोधाभवत् ।
तां खेऽनसोऽत्यबृहत् ।
सा कृकलास्यभवत् ।
तां खे युगस्यात्यबृहत् ।
सा संश्लिष्टिकाभवत् ।
तदेषाभ्यनूच्यते
खे रथस्य खेऽनसः खे युगस्य शतक्रतो
अपालामिन्द्र त्रिष्पूत्व्यकृणोः सूर्यत्वचम्
इति ।
तस्यै ह यत्कल्याणतमं रूपाणां तद्रू पमास ।
तदेतत्कामसनि साम ।
एतं वै सा काममकामयत ।
सोऽस्यै कामः समार्ध्यत ।
यत्काम एवैतेन साम्ना स्तुते समस्मै स काम ऋध्यते ।
यद्वपालात्रेय्यपश्यत्तस्मादापालमित्याख्यायते २२१

अभि त्वा वृषभा सुते इत्यार्षभम् ।
इन्द्रो वा अकामयतर्षभः सर्वासां प्रजानां स्यामृषभतां गच्छेयमिति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै स ऋषभः सर्वासां प्रजानामभवदृषभतां अगच्छत् ।
तदेवार्षभस्यार्षभत्वम् ।
ऋषभ एव स्वानां भवत्यृषभतां गच्छति य एवं वेद ।
तद्वेवाचक्षते दैवोदासमिति ।
दिवोदासो वै वाध्र्यश्विरकामयतोभयं ब्रह्म च क्षत्रं चावरुन्धीय राजा सन्नृषिः स्यामिति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै स उभयं ब्रह्म च क्षत्रं चावारुन्द्ध राजा सन्नृषिरभवत् ।
उभयमेव ब्रह्म च क्षत्रं चावरुन्द्धे राजा सन्नृषिर्भवति य एवं वेद ।
यदु दिवोदासो वाध्र्यश्विरपश्यत्तस्माद्दैवोदासमित्याख्यायते २२२

इदं वसो सुतमन्धः इति गारम् ।
देवेभ्यो वा असुरा गरान्प्राकिरन् ।
तानविद्वांसोऽगिरन्नन्नमेव मन्यमानाः ।
ते गरगिरोऽमन्यन्त ।
तेऽकामयन्तापेमान्गरान्गीर्णान्हनीमहीति ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
तेनेमान्गरान्गीर्णानपाघ्नत ।
त एवेमे गिरयोऽभवन् ।
तद्यद्गरान्गीर्णानपाघ्नत तदेव गारस्य गारत्वम् ।
स यो गरगीर्मन्येताप्रतिगृह्यस्य प्रतिगृह्यानाश्यान्नस्यान्नमशित्वा स एतेन स्तुवीत ।
अप हैव तं गरं गीर्णं हते ।
यदेनेन किं च पापं कृतं भवति तदपहते ।
तदैळमच्छावाकसाम भवति ।
पशवो वा इळा ।
पशुष्वेवैतत्प्रतितिष्ठति २२३

इदं ह्यन्वोजसा इद्घृतश्चुन्निधनम् ।
घृतश्चुता च वै मधुश्चुता च देवा यत्र यत्रैषां यज्ञस्योपादस्यत्तदाप्याययन्त ।
तस्मादाहुः सोमस्यैवांशुराप्यायस्वेति ।
उपदस्तेवैषा यद्रा त्रिः ।
तद्यद्घृतश्चुन्निधनं भवत्यैवैनमेतेन प्याययन्ति ।
घृतश्चुच्च वै मधुश्चुच्चाङ्गिरसां स्वर्गं लोकं यतामहीयेताम् ।
तावकामयेतामनूत्पतेव स्वर्गं लोकमिति ।
तौ तपोऽतप्येताम् ।
तावेते सामनी अपश्यताम् ।
ताभ्यामस्तुवाताम् ।
तौ स्तुत्वैव घृतश्चुते मधुश्चुत इत्येव स्वर्गं लोकमनूदपतताम् ।
अन्तो वै पयसां घृतमन्तः स्वर्गो लोकानाम् ।
अन्तो वै रसानां मध्वन्तः स्वर्गो लोकानाम् ।
अन्त्याभ्यां वाव तौ तत्सामभ्यामन्त्यं स्वर्गं लोकमाश्नुवाताम् ।
अन्त्याभ्यामेवैतत्सामभ्यामन्त्यं स्वर्गं लोकमश्नुते य एवं वेद ।
पशवो ह खलु वै घृतश्चुतः पशवो मधुश्चुतः ।
पशून्वाव तौ तदेताभ्यामवारुन्धाताम् ।
तैरु पशुभिरिष्ट्वा स्वर्गमेव लोकमगच्छताम् ।
ते एते पशव्ये स्वर्ग्ये सामनी ।
अव पशून्रुन्द्धे गच्छति स्वर्गं लोकं य एवं वेद २२४

यज्ञस्तनौ वा एते सामनी ।
एताभ्यां वा इन्द्रो यज्ञं सर्वान्कामानदुग्ध ।
दुहे ह वै यज्ञं सर्वान्कामान्य एवं वेद ।
यजुर्निधनं वा एतयोरन्यतरत्सामनिधनमन्यतरत् ।
तद्यद्घृतश्चुन्निधनं तद्यजुर्निधनमथ यन्मधुश्चुन्निधनं तत्सामनिधनम् ।
या यजुषश्च साम्नश्चर्धिरृध्नोति तामृद्धिमाप्नोति तान्कामान्य एवं वेद ।
तदाहुर्यदाज्येन दिवा चरन्त्यथ केनैषां रात्रिराज्यवती भवतीति ।
घृतश्चुन्निधनेनेति ब्रूयात् ।
एतेन ह वै रात्रिराज्यवती भवति ।
यदु घृतश्चुच्च मधुश्चुच्चाङ्गिरसावपश्यतां तस्मादेवमाख्यायते २२५

अथ मैधातिथम् ।
काण्वायनाः सत्त्रादुत्थायायन्त आयुञ्जानाः ।
काण्वायनाः सत्त्रादुत्थायायन्त आयुञ्जानाः ।
ते होद्गीथा इति किमुद्वत्यैतद्वनामुर्वारुबहुवृत्तमशनायन्त उपेयुः ।
तेऽकामयन्तेमानेव पशून्भूतानुत्सृजेमहीति ।
स एतन्मेधातिथिः काण्वः सामापश्यत् ।
तेनोपन्यषीदन्
आ त्वेता नि षीदतेन्द्र मभि प्र गायत । सखायः स्तोमवाहसः
पुरूतमं पुरूणामीशानं वार्याणाम् । इन्द्रं सोमे सचा सुते
स घा नो योग आ भुवत्स राये स पुरन्ध्याम्
इति ।
पशवो वै रयिः ।
ततो वै ते तान्पशून्भूतानुदसृजन्त ।
हिंकारेण हैवैनानुत्ससृजिरे ।
ते हैतेऽत्र पश्चादुर्वारुपृश्नय इति पशवः ।
तदेतत्पशूनामुत्सृष्टिः साम ।
अव पशून्रुन्द्धे बहुपशुर्भवति य एवं वेद ।
यदु मेधातिथिः काण्वोऽपश्यत्तस्मान्मैधातिथमित्याख्यायते २२६

अथ सौमेधम् ।
देवा वा असुरान्हत्वापूता इवामेध्या अमन्यन्त ।
तेऽकामयन्त पूता मेध्याः स्यामेति ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
ततो वै पूता मेध्या अभवन् ।
तेऽब्रुवन्सुमेध्या वा अभूमेति ।
तदेव सौमेधस्य सौमेधत्वम् ।
पूतो मेध्यो भवति य एवं वेद ।
तद्वेवाचक्षते पौर्वतिथिमिति ।
पूर्वतिथिर्वा आर्चनानसश्श्यावाश्वात्कनीयान् ।
सोऽकामयताव पशून्रुन्धीय भूमानं पशूनां गच्छेयमिति ।
स एतत्सामापश्यत् ।
तेनास्तुत
आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः
इति ।
सहस्रमेव पशूनवारुन्द्ध भूमानं पशूनामगच्छत् ।
तदेतत्पशव्यं साम ।
अव पशून्रुन्द्धे भूमानं पशूनां गच्छति य एवं वेद ।
यदु पूर्वतिथिरार्चनाससोऽपश्यत्तस्मात्पौर्वतिथिमित्याख्यायते ।
इन्द्र सुतेषु सोमेषु इत्युष्णिहो भवन्ति ।
देवपुरा वा एषा यदुष्णिहः ।
ता यदन्ततः क्रियन्ते देवपुरामेवैतदन्ततः परिहरन्ति पशूनां गुप्त्या असुराणामनभ्यवचाराय २२७

तासु कौत्सम् ।
कुत्सश्च लुशश्चेन्द्रं व्यह्वयेताम् ।
स कुत्सस्य हवमागच्छत् ।
तं शतेन वार्ध्रीभिराण्डयोरबध्नात् ।
तं लुशोऽभ्यवदत्
स्ववृजं हि त्वामहमिन्द्र शुश्रवानानुदं वृषभ रध्रचोदनम्
प्र मुञ्चस्व परि कुत्सादिहा गहि किमु त्वावान्मुष्कयोर्बद्ध आसते
इति ।
ताः सर्वाः संलुप्य लुशमभि प्राद्र वत् ।
तं कुत्सः इन्द्र सुतेषु सोमेषु इत्यन्वाह्वयत् ।
तमभ्यावर्तत ।
तं लुशः इन्द्रा होयी हावे होयी इति ।
तावन्तरातिष्ठत् ।
तावब्रवीदंशमाहरेथामात्मना वामन्यतरस्य पास्यामि महिम्नान्यतरस्येति ।
तथेति ।
तावंशमाहरेतामात्मानमन्यतर उदजयन्महिमानमन्यतरः ।
आत्मानं कुत्स उदजयन्महिमानं लुशः ।
आत्मनान्यतरस्यापिबन्महिम्नान्यतरस्य ।
आत्मना कुत्सस्यापिबन्महिम्ना लुशस्य ।
उभा उ ह त्वाव तस्य तावात्मानाउ यदात्मा च महिमा च ।
तदेतत्सेन्द्रं साम ।
सेन्द्रो हास्य सदेवो यज्ञो भवत्यभ्यस्येन्द्रो यज्ञमावर्तते नास्येन्द्रो यज्ञादपक्रामति य एवं वेद ।
यदु कुत्सोऽपश्यत्तस्मात्कौत्समित्याख्यायते ।
तदैळमच्छावाकसाम भवति ।
पशवो वा इळा ।
पशुष्वेवैतत्प्रतितिष्ठति २२८

तदाहू रथन्तरमेव प्रथमे तृचे स्याद्वामदेव्यं द्वितीये बृहत्तृतीय एषां लोकानां समारोहायेति ।
इमे वै लोका एतानि सामानि ।
अयमेव लोको रथन्तरमन्तरिक्षं वामदेव्यमसावेव बृहत् ।
तस्मादेवमेव कार्यमेषां लोकाणां समारोहायेति ।
प्राणव्यानोदाना ह खलु वा एतानि सामानि ।
प्राण एव रथन्तरं व्यानो वामदेव्यमुदानो बृहत् ।
तस्मादेवमेव कार्यं प्राणव्यानोदानानां संतत्या अव्यवच्छेदायेति ।
अथ यः कामयेत प्रजा मे श्रेयसी स्यादिति रथन्तरमेव प्रथमे तृचे कुर्याद्वामदेवमुत्तरयोः ।
प्रजापतिर्वै वामदेव्यम् ।
प्रजापतिमेव तत्स्वरमन्तत उपयन्ति प्रजननाय ।
बृहता श्रीकामः स्वर्गकामः स्तुवीत ।
श्रीर्वै स्वर्गो लोकः ।
बृहदश्नुते श्रियं गच्छति स्वर्गं लोकं य एवं वेद ।
अथो ह भ्रातृव्यलोकमेव नावजहाति ।
भ्रातृव्यभाजनमिव ह्येषा यद्रा त्रिः ।
रथन्तरेण प्रतिष्ठाकामः स्तुवीत ।
प्रतिष्ठा वै रथन्तरम् ।
प्रत्येव तिष्ठति ।
गायत्रीषु संधिना ब्रह्मवर्चसकामः स्तुवीत ।
ब्रह्म वै गायत्री ।
ब्रह्मवर्चस्येव भवति ।
ककुप्सु पुरुषकामः ।
पुरुषो वै ककुप् ।
पुरुषवानेव भवति ।
उष्णिक्षु पशुकामः ।
पशवो वा उष्णिक् ।
पशुमानेव भवति ।
विराट्स्वन्नाद्यकामः ।
अन्नं वै विराट् ।
अन्नाद एव भवति ।
अनुष्टुप्सु प्रतिष्ठाकामः ।
प्रतिष्ठा वा अनुष्टुप् ।
प्रत्येव तिष्ठति ।
पङ्क्तिषु यज्ञकामः ।
यः कामयेत पुनर्मा यज्ञ उपनमेदिति ।
यज्ञो वै पङ्क्तिः ।
पुनरेवैनं यज्ञ उपनमति ।
त्रिष्टुप्स्वोजस्कामो वीर्यकामः ।
ओजो वै वीर्यं त्रिष्टुप् ।
ओजस्व्येव वीर्यवान्भवति ।
जगतीषु पशुकामः ।
पशवो वै जगती ।
पशुमानेव भवति ।
तदाहुरेकस्मिन्वावैतस्य छन्दस्येकस्मिन्कामे स्तुतं भवति य एवं स्तुते ।
अथैतस्य सर्वेषु छन्दस्सु सर्वेषु कामेषु स्तुतं भवति यो बृहतीषु स्तुते ।
बृहतीं ह्येवैतानि सर्वाणि छन्दांस्यभिसंपद्यन्त इति ।
गायत्री च जगती च ते द्वे बृहत्यौ ।
उष्णिक्च त्रिष्टुप्च ते द्वे बृहत्यौ ।
अनुष्टुप्च पङ्क्तिश्च ते द्वे बृहत्यौ ।
बृहत्येव बृहती ।
तस्माद्बृहतीष्वेव स्तोतव्यमेतेषां सर्वेषां छन्दसां सर्वेषां कामानामुपाप्त्यै २२९

तदाहुर्यत्त्रिवृदेव स्तोमानां लघिष्ठो रथन्तरं साम्नामाश्विनमु वै शस्त्राणां गरिष्ठमथ कस्मात्त्रिवृदेव स्तोमानां रथन्तरं साम्नामाश्विनस्य शस्त्रं प्रत्युद्यन्तुमर्हत इति ।
स ब्रूयात्प्राणो वै त्रिवृतः ।
प्राणेष्विदं सर्वं प्रतिष्टिःतम् ।
प्राणा इदं सर्वं प्रत्युद्यच्छन्ति ।
प्राणा इदं सर्वं प्रतिप्रति ।
इमे वै लोकास्त्रिवृतः ।
एष्विदं लोकेषु सर्वं प्रतिष्टिःतम् ।
इम इदं लोकाः सर्वं प्रत्युद्यच्छन्ति ।
इम इदं लोकाः सर्वं प्रतिप्रति ।
वाग्वै रथन्तरम् ।
वाचीदं सर्वं प्रतिष्ठितम् ।
वागिदं सर्वं प्रत्युद्यच्छति ।
वागिदं सर्वं प्रतिप्रति ।
इयं वै रथन्तरम् ।
अस्यामिदं सर्वं प्रतिष्ठितम् ।
इयमिदं सर्वं प्रत्युद्यच्छति ।
इयमिदं सर्वं प्रतिप्रति ।
तस्मात्त्रिवृदेव स्तोमानां रथन्तरं साम्नामाश्विनस्य शस्त्रं प्रत्युद्यन्तुमर्हत इति २३०

तदाहुर्यत्पवमानवन्तोऽन्ये यज्ञक्रतवोऽथ केनैषां रात्रिः पवमानवती भवतीति ।
रथन्तरेण संधिनेति ब्रूयात् ।
एतेन ह वै रात्रिः पवमानवती भवति ।
तेन सकृद्धिंकृतेन पराचा स्तुवते ।
सकृद्ध्येव पुरस्तात्त्रिवृते हिंउर्वन्ति यत्प्रायणं तदुदयनमसदिति ।
रेतःसिक्तिर्ह त्वै पूर्वस्त्रिवृत्प्रजापतिरुत्तरः ।
आत्मा वै प्रजा पशव एतानि तृचानि ।
प्रजापतिर्वै रथन्तरम् ।
यथा रेत एव सिक्तं स्यान्न प्रजायते तादृक्तद्यत्सकृद्धिंकृतैः स्तुवीरन् ।
तद्यत्तृचाय तृचाय हिंकुर्वन्ति प्रजात्या एव ।
बहुर्भवति प्रजायते य एवं वेद ।
अथो हैषामेक एव पर्याय आयतनवान्स्यादनायतनौ द्वौ स्यातां यत्सकृद्धिंकृतैः स्तुवीरन् ।
तद्यत्तृचाय तृचाय हिंकुर्वन्ति तेनैवैषां सर्वरात्रिरायतनवती पवमानवती भवति ।
यथा वा अहस्तथा रात्रिर्यथा रात्रिस्तथाहः ।
पूर्वाह्णो मध्यंदिनोऽपराह्णः पूर्वरात्रो मध्यरात्रोऽपरात्रः ।
तद्यत्तृचाय तृचाय हिंकुर्वन्त्यहोरात्रयोरेव विधृत्यै २३१

तदाहुर्यदेकविंशमनु सर्वे यज्ञक्रतवः संतिष्ठन्तेऽत्यु वा एकविंशान्युक्थानि रात्रिरेत्यथ केनैषामेकविंशमनु रात्रिः संतिष्ठत इति ।
स ब्रूयाद्यदेवैत एकविंशतिश्च त्रिवृतो भवन्ति नव चैकविंशा इति ।
अथ ह स्माह भाल्लवेयः क उ स्विदद्योभयतोज्योतिषा यज्ञक्रतुना यक्ष्यत इति ।
एष ह वा उभयतोज्योतिर्यज्ञक्रतुर्यदतिरात्रः ।
त्रिवृत्पुरस्ताद्बहिष्पवमानं भवति त्रिवृदुपरिष्टाद्रा थन्तरः संधिः ।
अग्निर्वै पूर्वस्त्रिवृदादित्य उत्तरः ।
अग्निना वा अयं लोको ज्योतिष्मानादित्येनासौ ।
उभयतोज्योतिषास्य यज्ञक्रतुनेष्टं भवति ज्योतिष्मानस्मिंश्च लोकेऽमुष्मिंश्च भवति य एवं वेद ।
तौ वा एतौ ब्रह्म चैव क्षत्रं च ।
ब्रह्म वै त्रिवृत्क्षत्रं पञ्चदशः ।
तदेतद्ब्रह्म च क्षत्रं च संधाय रात्रिं वहतः ।
तदेतद्ब्रह्म च क्षत्रं च संधायान्ततः पाप्मानमपहतः ।
तद्यदेतौ स्तोमावन्ततः क्रियेते पाप्मान एवापहत्यै ।
अप पाप्मानं हते य एवं वेद ।
तौ यद्गायत्रीं संपद्येते – तेजो वै ब्रह्मवर्चसं गायत्री – तेजस्येव तद्ब्रह्मवर्चसे प्रतितिष्ठति ।
अथो यजमानमेव तदायुषि प्रतिष्ठापयति सर्वायुष्ट्वाय ।
प्राणो हि गायत्री ।
सर्वमायुरेति य एवं वेद २३२

द्वितीयो भागः
विराट्संपदैव यज्ञेन यजेतेत्याहुः ।
अन्नं वै विराट् ।
अन्नं ह वै देवानां सोमो राजा ।
अन्नमेव तत्कृत्वा देवेभ्यः सोमं राजानं प्रयच्छति ।
न ह वा एषोऽनभिषुतो देवानामन्नम् ।
तमेतदभिषुत्यान्नं कृत्वा देवेभ्यः प्रयच्छति ।
यद्ध वा इह देवेभ्यः करोति तदस्मै देवाः कुर्वन्ति ।
त एनं समृद्धाः प्रजया पशुभिरन्नाद्येन समर्धयन्ति ।
विराण्नातियष्टव्येत्याहुः ।
यो ह वै विराजमतियजते पुनर्ह सोऽमुष्मिँ ल्लोके यजमान आस्ते ।
स रूक्षः परुषो विराजं संपिपादयिषन्नीप्सन्ननाप्नुवन्नास्ते ।
क्व हि तदाप्स्यति यदितोऽनाप्त्वा प्रैति ।
परुषानिव हासीनानसितो दैवल उवाच क एत आसत इति ।
ये विराजमत्ययजामहीति होचुः ।
तान्हाभ्युवाद । स रथादवपद्यते – २३३

पुरश्चक्रं पथो बिले
तं चक्रमभिवर्तते योऽसंपन्नेन यजते
पाको यज्ञेन देवयुर्यद्ददाति तदेवास्यलोकमभिगच्छति
इति ।
पाकाः सन्तोऽविजानन्तोऽदेवायतेति हैनांस्तदुवाच ये विराजमत्ययजध्वमिति ।
तदाहुः कुतो यज्ञमतथाः क्वैनं प्रत्यतिष्ठिप इति ।
यत एवैनमतसीति ब्रूयात्तदेवैनं प्रत्यतिष्ठिपमिति ।
पुरुषाद्ध वै यज्ञस्तायते पुरुषे प्रतितिष्ठति ।
अथ ह हृत्स्वाशया आल्लकेयो महावृषो राजा पुत्रं दीक्षयां चकार ।
तस्य ह सोमशुष्मः सात्ययज्ञिरुद्गीथायोढ आस ।
तमु ह महावृषाणां दूता आसस्रुरागच्छ समितिर्वा इयमिति ।
तद्ध प्रधावयन्नुवाचोद्गातरेतं ते पुत्रं परिददानीति ।
स हेष्ट्वा पुनराजगाम ।
स होवाचोद्गातः क्व यज्ञं प्रत्यतिष्ठिपः क्व यजमानं क्वास्य पशूनिति ।
तद्ध न प्रत्युवाच ।
स होवाच पुनर्मे पुत्रं दीक्षयत न वै विद्म यत्र मे पुत्रमकृदिति ।
तमु ह पुनर्दीक्षयां चक्रुः ।
तस्य ह स्वयमेवोज्जगौ ।
स यत्प्रत्यवक्ष्यद्यजमान एव यज्ञं प्रत्यतिष्ठिपं यजमानं वामदेव्ये रथन्तरेऽस्य पशूनिति २३४

एतद्ध वै परमं वाचः क्रान्तं यद्दशेति ।
एतावद्ध परमं वाक्चक्रमे ।
तद्यत्परमं वाचः क्रान्तं तत्सर्वमाप्नवानीति ।
अथ यदत ऊर्ध्वं विंशतिश्शतं सहस्रमित्यङ्गान्येवास्यै तानि पर्वाणि ।
वाच एव सा प्रभूतिः ।
तदु हात्रैव सर्वां विराजमाप्नोति ।
पुरुषसंपद्ध खलु वा एषा दशाक्षरा विराट् ।
दश पुरुषे प्राणाः ।
सा वा एषैतासामेव नवतिशतस्य स्तोत्रियाणां प्रशंसा ।
नवतिशतं ह्येवैषोऽग्निष्टोमः संस्तुतो भवति ।
कृतं तद्यदशीतिशतम् ।
कृतमिदु दश कृतं सत् ।
तदु ह कुरव आहुर्द्वापर एष यन्नवतिशतं स्तोत्रियास्त्रयाणामयानामधमः ।
कृतं वै त्रेताद्वापरम् ।
द्वे स्तोत्रिये उपप्रस्तुत्ये ।
स कृतस्तोमः संपद्यते ।
कृतेन तज्जयति यज्जिगीषति ।
कृतेनोद्भिनत्ति ।
अथो पक्षावेतौ यत्पवमानौ ।
तावेव तत्समौ करोति ।
अथो विश्वज्योतिरेव यज्ञक्रतुर्भवति ।
अथो द्व्यतिष्टुतः ।
तावेव विराजः स्तनौ ।
स द्विपाद्यजमानः प्रतिष्ठित्यै २३५

तदु ह स्माह कहोळः कौषीतकेयो दीर्घस्तनी बत तेषां विराड्येषां स्तोत्रिये विराजः स्तनाविति ।
अपि नूनमेतां विराजं प्रतिवेशतो दुह्रे इति ह स्माह ।
अक्षर्यामेवैतां संपदं देवा उपासत ।
तामृषय उपासत ।
तामु एव वयं परोऽवर उपास्महे ।
एतासामेव नवतिशतस्य स्तोत्रियाणां पञ्च च सहस्राण्या चत्वारिंशतान्या द्वासप्ततिरक्षराणि ।
तद्ये एव ते द्वासप्ततितमे अक्षरे तावेव विराजः स्तनौ ।
स द्विपाद्यजमानः प्रतिष्ठित्या इति ।
तदाहुर्यद्द्वापरः स्तोमोऽथ केन कृतस्तोम इति ।
अक्षरैरिति ब्रूयात् ।
अथो स्तोत्रैरिति ।
अथो स्तुतशस्त्रैरिति ।
अथो यद्दशकृतमिति ब्रूयात्तेनो एव कृतस्तोम इति ।
अयमयं ह वाव दशकृतं उपाप्नोति २३६

आपो वा इदमग्रे महत्सलिलमासीत् ।
तदपामेवैश्वर्यमासीत् ।
यदपामेवैश्वर्यमासीदपां राज्यमपामन्नाद्यं तदग्निरभ्यध्यायन्ममेदमैश्वर्यं मम राज्यं ममान्नाद्यं स्यादिति ।
स एतामग्निष्टोमसंपदमपश्यत् ।
तयेमा अपो व्युदौहदूर्ध्वश्चावाचीश्च ।
स एतमेव दिनंदिनं स्तोमं गायन्केवलीदमन्नाद्यमकुरुत ।
स नवभिरेकविंशैरमूरूर्ध्वा उदतभ्नोत् ।
ताः परेण दिवं पर्यौहत् ।
ता एताः पर्यूढा ऋतुशो वर्षन्तीस्तिष्ठन्ति ।
एकविंशत्या त्रिवृद्भिरिमा अवाचीरभ्यतिष्ठत् ।
ताः परेण पृथिवीं पर्यौहत्ता एताः पर्यूढा अनुखायैक उपजीवन्ति – २३७

तिष्ठन्तीरेके स्रवन्तीरेके ।
स एवमेता अपो व्यूह्य विनुद्यास्मिँ ल्लोकेऽन्नमादत् ।
तन्नाल्पकं न मध्यमं न महदिवान्नाद्यमभ्यत्यरिच्यत ।
एवमेव द्विषन्तं भ्रातृव्यं व्यूह्य विनुद्यास्मिँ ल्लोकेऽन्नमत्ति तन्नाल्पकं न मध्यमं न महदिवान्नाद्यमभ्यतिरिच्यते य एवं वेद ।
तमेतमन्नं जिगीवांसं सर्वे देवा अभिसमगच्छन्त ।
ते वै तन्नाविन्दन्त ।
या ह्यसौ यज्ञायज्ञीयस्यैकविंशी तामासु बहिष्पवमानीसु नवसु प्रत्युपधाय शयेऽनन्तो भूत्वा परिगृह्यैतदन्नाद्यम् ।
अथो यथा पात्रेऽङ्गारा ओप्ताः स्युरेवमेवैषु लोकेष्वदृश्योऽनन्त आस ।
तानविन्दमानानब्रवीत्स्तुत मेति २३८

तं वसवो गायत्र्! या छन्दसा गायत्रेण साम्ना प्रातःसवनेनास्तुवन् ।
तांस्तस्मिन्नेव सवन उपाह्वयत ।
तं रुद्रा स्त्रिष्टुभा छन्दसा त्रैष्टुभेन साम्ना माध्यंदिनेन सवनेनास्तुवन् ।
तांस्तस्मिन्नेव सवन उपाह्वयत ।
तमादित्या जगत्या छन्दसा जागतेन साम्ना तृतीयसवनेनास्तुवन् ।
तांस्तस्मिन्नेव सवन उपाह्वयत ।
तं विश्वे देवा वाङ्मनश्च प्रजापतिरनुष्टुभा छन्दसा यज्ञायज्ञीयेन साम्नास्तुवन् ।
तांस्तस्मिन्नेव स्तोत्र उपाह्वयत ।
एवमेते देवा एतं यज्ञक्रतुमन्वायतन्त अथ य एनं नान्वायतन्त – २३९

शश्वद्ध ते पराभूता देवानामशनया ।
अथ य एनमन्वायतन्त इम एतर्हि परिशिष्टाः ।
त उ एवापर्युषि ता भवितारः ।
स हैष वैश्वदेवः स्तोमः ।
विश्वेषां हैव देवानां पुरा स्तोम आस ।
तेन यदग्निमस्तुवन्सास्याग्निष्टोमता ।
अग्निं हैनेनास्तुवन् ।
स्तुवते हैनेन स्वा स्तुवतेऽरणा ।
स्तुवते हैनेन जने स्वा य एवं वेद ।
स हैष नवैकविंशानभिसंपद्यते द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः ।
एका स्तोत्रियातिरिच्यते ।
यजमानो हैव सोऽतिरिच्यते यो वैवं वेद ।
यथा ह गिरौ ज्योतिर्भायादेव तस्यां जनतायां भाति यस्यां भवति य एवं वेद ।
स उ एवैकविंशतिस्त्रिवृतोऽभिसंपद्यते ।
अग्निर्वै त्रिवृत् ।
तद्यद्वै किं च त्रिवृत्तत्सर्वमग्निमेवाभिसंपद्यते ।
याश्च ह महत्यः संपदो याश्च क्षुल्लकास्ता ह सर्वा एवंविदमभिसंपद्यन्ते ।
सर्व एनं कामा अभिसंपद्यन्ते य एवं वेद ।
स एष एकविंशत्या त्रिवृद्भिरमुष्मिन्नादित्ये प्रतिष्ठितो नवभिरसावेकविंशैरस्मिन् ।
तावेतावेवमन्योऽन्यस्मिन्प्रतिष्ठितौ ।
प्रतितिष्ठति य एवं वेद २४०

नासावस्तमेति नायमनुगच्छति ।
इममेवासावभ्यस्तमेति ।
तदस्यास्तत्वम् ।
इमं ह्येवासावभ्यस्तमेत्यमुमेवायमभ्यनुगच्छति ।
तदमुष्यामुत्वम् ।
अमुं ह्येवायमभ्यनुगच्छति ।
न हास्तमेति नानुगच्छति य एवं वेद ।
ते हैते सवासिन्यौ देवते ।
गच्छति हैताभ्यां सवासित्वम् ।
अथो हास्यैते एव देवते ।
एषु लोकेषु सर्वपाप्मानमपघ्नत्यौ तिष्ठतः ।
यावदु ह वा अयमग्निरस्मिँ ल्लोके दीप्यते तावदमुष्मिँ ल्लोक आदित्यः ।
न हैव तावदेवंविदो लोकः क्षय्यः ।
यथा ह वा इदमायतनमायतनी प्रेप्सेदेवमिमं लोकमापः प्रेप्सन्ति याश्चामूर्याश्चेमाः ।
ता यन्न संभिन्दन्त्येतस्यैव स्तोमस्य कर्तोः ।
एष एवैनाः स्तोमो विददते ।
स यो न्वावैकस्य राज्यस्य त्राता द्वयोर्यस्त्रयाणां लोकी वाव स तेन मन्येत ।
अन्त्ये तु स लोक्यसद्यस्तेषामेकोऽसद्येऽस्य लोकस्य त्रातारः ।
अस्य ह स लोकस्य त्रातॄणामेको भवति य एवं वेद ।
तेन लोकी सः ।
यावद्ध वा अप्येवंविदो ब्राह्मणा भवितारो न हैव तावद्याश्चामूरापो यश्चेमास्ता उभयीः संपद्येमं लोकं निर्म्रष्टारः २४१

तस्य वा एतस्याग्निष्टोमस्य गायत्रीमेव प्रातःसवनं संपद्यते त्रिष्टुभं माध्यंदिनं सवनं जगतीं तृतीयसवनम् ।
तदेतत्स्वयंसंपन्नं प्रातःसवनम् ।
गायत्रमेव सर्वम् ।
अथ चत्वारि छन्दांसि माध्यंदिनं सवनं गायत्री बृहती ककुप्त्रिष्टुप् ।
तस्या एतस्यै ककुभोऽष्टाविंशत्यक्षरायै विंशतिमक्षराणि गायत्र्! यामुपदधाति ।
सा त्रिष्टुप्संपद्यते ।
अथ यान्यष्टावतिरिच्यन्ते तानि बृहत्यामुपदधाति ।
सा त्रिष्टुप्संपद्यते ।
त्रिष्टुबेव त्रिष्टुप् ।
अथ षट्छन्दांसि तृतीयसवनं गायत्र्! युष्णिक्ककुभावनुष्टुब्जगती बृहती ।
तस्या एतस्यै गायत्र्! यै चतुर्विंशत्यक्षरायै विंशतिमक्षराणि ककुभ्युपदधाति ।
सा जगती संपद्यते ।
अथ यानि चत्वार्यतिरिच्यन्ते तान्युष्णिह्युपदधाति ।
सा द्वात्रिंशदक्षरानुष्टुप्संपद्यते ।
अनुष्टुबेवानुष्टुप् ।
तां द्वेधा व्यूहति ।
तस्यै षोडशाक्षराण्यनुष्टुभ्युपदधाति ।
सा जगती संपद्यते ।
स्वयमेव परस्ताज्जगती ।
अथ यानि षोडशातिरिच्यन्ते तानि यज्ञायज्ञीयस्य बृहत्यामुपदधाति ।
सा द्वापञ्चाशदक्षरा जगती संपद्यते ।
चत्वार्यक्षराणि जगतीमतियन्ति य एते चतुष्पादाः पशवः ।
अथो स्तना एव विराजो दोहः ।
अथो प्रतिष्ठैव ।
यथा चतुष्पदी प्रति तिष्ठात्तथा ।
तद्वत्रैवानुव्येति ।
न किं चनातिरिच्यते वामदेव्यस्य्न्यूने त्रीण्युपदधाति – २४२

यज्ञायज्ञीय एकम् ।
गायत्रं वै प्रातःसवनं त्रैष्टुभं माध्यंदिनं सवनं जागतं तृतीयसवनम् ।
ब्रह्मणोऽस्य सतः क्षत्रस्येव प्रकाशो भवति वैश्यस्येव रयिः पुष्टिर्य एवं वेद ।
तस्यो एवाक्षरशो गायत्रीमेव प्रातःसवनं संपद्यते त्रिष्टुभं माध्यंदिनं सवनं जगतीं तृतीयसवनम् ।
एकान्नसप्ततिः प्रातःसवनस्य स्तोत्रियाष्षष्टिस्त्रिष्टुभो माध्यंदिनं सवनं चतुर्विंशतिश्च जगतीस्तृतीयसवनम् ।
एका व ककुप् ।
पुरुषो वै ककुप् ।
स ह स यजमान एवैतस्यां संपद्यध्यूढः ।
तद्वत्रैवानुव्येति ।
न किं चनातिरिच्यते ।
एकस्यै ककुभोऽष्टाविंशत्यक्षरायै चत्वार्यक्षराण्यादाय वामदेव्यस्य न्यूने त्रीण्युपदधाति यज्ञायज्ञीय एकम् ।
अथ या गायत्री परिशिष्यते तामद एकान्नसप्तत्यां प्रातःसवनस्य स्तोत्रियासु प्रत्युपदधाति ।
तदु हानन्तम् ।
अनन्तां श्रियं जयति य एवं वेद २४३

तस्यो एव द्वे सवने बृहतीं संपद्येते ।
यथैव पुरा तृतीयसवनं तथा तृतीयसवनम् ।
एकान्नसप्ततिः प्रातःसवनस्य स्तोत्रियाः ।
ताष्षट्चत्वारिंशद्बृहत्यः संपद्यन्ते ।
या हि तिस्रो गायत्र्! यस्ते द्वे बृहत्यौ ।
न ताष्षट्चत्वारिंशद्बृहत्यः संपद्यन्ते ।
तदेतदायदेव प्रातःसवनं बृहतीमभिसंपद्यते ।
यस्मादायदेव प्रातःसवनं बृहतीमभिसंपद्यते तस्माद्ब्राह्मणो जायमान एव लोकी जायते ।
तं वा त्वै चरणेन भूयांसं कुरुते तं वा कनीयांसम् ।
अथैतद्द्वौ माध्यंदिनं सवनं संपादयत उद्गाता च होता च ।
चत्वारि छन्दांस्युद्गाता युनक्ति ।
तानि च होतानुशंसत्युप च त्रीण्याहरत्यनुष्टुभं पङ्क्तीं जगतीम् ।
गायत्री च जगती च ते द्वे बृहत्यौ ।
उष्णिक्च त्रिष्टुप्च ते द्वे बृहत्यौ ।
अनुष्टुप्च पङ्क्तिश्च ते द्वे बृहत्यौ ।
बृहत्येव बृहती ।
यस्मादेतद्द्वौ माध्यंदिनं सवनं संपादयतस्तस्माद्रा जन्यस्य कार्यो लोक इष्टापूर्तेन श्रद्धया ब्रह्मण्यतया ।
अथ यस्माद्यथैव पुरा तृतीयसवनं तस्मादु ब्राह्मणाच्च राजन्याच्च वैश्यो लोकी ।
इतरो न हि तथा लोकी यथा ब्राह्मणश्च राजन्यश्च २४४

क्ळ्प्तं ह वै लोकं यजमानोऽभिजायते ।
अप एव प्रथमस्य तृचस्य प्रथमया स्तोत्रियया जयति भूमिं द्वितीयाग्निं तृतीयया ।
अन्तरिक्षमेव द्वितीयस्य च तृचस्य प्रथमया स्तोत्रियया जयति वायुं द्वितीयया प्राणं तृतीयया ।
दिवमेव तृतीयस्य तृचस्य प्रथमया स्तोत्रियया जयति आदित्यं द्वितीयया नक्षत्राणि तृतीयया ।
नवैता बहिष्पवमान्यो भवन्ति नव देवलोकाः ।
तानेवैताभिराप्नोति ।
ता एतास्तिस्रो विराजो दैवी यज्ञिया मानुषी ।
एतासु ह सुचित्तिश्शैलनो जनकं वैदेहं समूदेस होवाच श्रद्धा माविददृत्विजो मे ह्वयन्त्विति ।
तस्मै ह कुरुपञ्चालानृत्विज ऊहुः ।
तेषु हागतेषु शैलनो बिभयां चकार गच्छद्ब्राह्मणा इवोदन्त्यान्वाहिनो लघूयेदिति ।
स होवाच सम्राड्वाक्यं मेऽस्तीति ।
तिस्रो वा इमा विराजो तृप्यन्तीः सर्वकामा अन्नाभिधानाः ।
तासु स्म त्वा योऽन्तरवदधाति तं स्मैवोद्गातारं वृणीष्व ।
स वाव तेषां कामानामभिवोढा य एतासु कामाः ।
स उ एव पुनर्मृत्योरतिवोढा य एवं वेदेति २४५

अथ ह प्रधावयां चकार ।
तस्मिन्न प्रेष्यन्नैमान्ह स्म पृच्छत्यासां विराजामृद्धिम् ।
ते ह स्म नाभ्यापयन्ति ।
य उ ह स्माभ्यापयन्तीति यां ह स्मैकामभ्यापयन्ति ।
स ह स्मरते ब्राह्मणं बताहं ब्राःमणमेतासु मीमांसमानमपश्यमच्छ धावत शैलनमिति ।
तद्व्यचनं हास यथा शैलन इयेष ।
ता एतास्तिस्रो विराजो दैवी यज्ञिया मानुषी ।
सैषा दैवी विराड्यदिमे लोकाः ।
सा न्यूना ।
यजमानावधानायैव तन्न्यूना ।
तदन्तर्यजमानमवदधाति ।
तस्या एतस्यै चन्द्र मा एवापिधानम् ।
एतद्धि देवानां प्रत्यक्षमन्नाद्यं यच्चन्द्र माः ।
अथैषा यज्ञिया विराड्यदेता बहिष्पवमान्यः ।
सा न्यूना ।
यजमानावधानायैव तन्न्यूना ।
तदन्तर्यजमानमवदधाति ।
तस्या एतस्यै हिंकार एवापिधानम् ।
हिंकारेण ह्येव देवेभ्योऽन्ततोऽन्नाद्यं प्रदीयते ।
अथैषा मानुषी विराड्यदिमे पुरुषे प्राणाः ।
सा न्यूना ।
स उ एव यजमानप्रत्यक्षम् ।
तन्न्यूना ।
तस्या एतस्या अन्नमेवापिधानम् ।
नाभिर्वा एतास्तिस्रो विराजः ।
अभि ह तान्कामानाप्नोति य एतासु कामा ।
अपि त्विह तेषु भवत्यति ह पुनर्मृत्युं मुच्यते ।
बहुपुरुषमस्मिँ ल्लोकेऽन्नमत्ति ।
न ह्येतदेकपुरुषायान्नाद्यं यदेतासु ।
यद्ध वै किं चेदमस्मिँ ल्लोक आत्मन्वत्तद्ध सर्वं मृत्युरेवाभिव्यादाय तिष्ठति ।
स यो ह स मृत्युः संवत्सर एव सः ।
तस्य हर्तव एव मुखानि ।
तद्यद्वै किं च म्रियते न हास्यानृतौ म्रियते य एवं वेद ।
ऋतुषु वाव प्रजायते प्रजया पशुभिर्य एवं वेद २४६

ता एता नव बहिष्पवमान्यः ।
ताष्षड्बृहत्यः ।
षडु मृत्योर्मुखान्यृतव एव ।
अथ ह वा एतानि मृत्योर्मुखानि बृहत्येव प्रतिविभवितुमर्हति नान्यच्छन्दः ।
स बृहत्यैवर्तोर्मुखमपिदधाति बृहत्यर्तोर्बृहत्यर्तोः ।
स यथा समेन विषममतीत्य प्रत्यवेक्षेतैवमेवैतं मृत्युं पराङतीत्य प्रत्यवेक्षते ।
तमेव तं त्रिवृतं वज्रमुपप्रवर्तयति ।
स एषोऽहरहरिमाँ ल्लोकाननुवर्तते ।
तद्ध स्माह नगरी जानश्रुतेयो न हैव तावद्देवासुरं भविता यावदेष त्रिवृद्वज्रोऽहरहरिमाँ ल्लोकाननुवर्तत ।
ऊर्ध्वा ह्ययमग्निर्दीप्यते तिर्यङ्ङयं वायुः पवतेऽर्वाङसावादित्यस्तपति ।
त एतेऽनिमेषमन्योन्यमीक्षन्ते ।
कथमेतेष्वेवं सत्सु देवासुरं स्यादिति ।
एष उ एवास्य त्रिवृद्वज्रोऽहरहरिमाँ ल्लोकाननुवर्तमानः सर्वं पाप्मानमपघ्नन्पल्ययते य एवं वेद २४७

तदाहुः स वाद्य यजेत स वान्यं याजयेद्यश्चतुःष्टोमेन याजयन्सर्वस्तोमेन याजयति ।
नवैता बहिष्पवमान्यो भवन्ति ।
तासां सप्तविंशतिः पदानि ।
तेन त्रिणवं स्तोमं नान्तर्यन्ति ।
नवैवैता बहिष्पवमान्यो भवन्ति ।
चतुर्विंशत्यक्षरा गायत्री ।
तत्त्रयस्त्रिंशत् ।
तेन त्रयस्त्रिंशं स्तोमं नान्तर्यन्ति ।
एतद्वै चतुःष्टोमेन याजयति ।
यो वै स्तोमानामवमं परमं वेद गच्छति परमताम् ।
त्रिवृद्वाव स्तोमानामवमस्त्रिवृत्परमः ।
तदु होवाच बर्कुर्वार्ष्णस्त्रिवृतं स्तोमं त्रयस्त्रिंशं भवन्तमपश्यं तस्मादहं परमतामगच्छमिति ।
गच्छति परमतां य एवं वेद ।
अथ ह स्माहारुणिः किं सोऽभिचरेत्किं वाभिचार्यमाण आद्रि येत य एतं त्रिवृतं वज्रं त्रिभृष्टिमच्छिद्र मच्छम्बट्कारिणमहरहरिमाँ ल्लोकाननुवर्तमानं वेद ।
स्वयमभिचरितो वाव स यमेवंविद्द्वेष्टि यो वैवंविदं द्वेष्टीति ।
एष उ एवैनं त्रिवृद्वज्रस्त्रिभृष्टिरच्छिद्रो ऽच्छम्बट्कार्यहरहरिमाँ ल्लोकाननुवर्तमानोऽभिवर्तते ।
तस्य न भूत्या अल्पिकेव चनाशास्ति परापरैव भवतीति ।
२४
तदु ह स्माहोपजीवः खाळायनोऽहमेवैतं त्रिवृतं वज्रं प्रत्यक्षं वेद तस्माद्यमहं द्वेष्मि यो मां द्वेष्टि तावुभौ श्वः श्व एव पापीयांसौ भवत इति ।
अग्निर्वा अस्य लोकस्य वज्रो वायुरन्तरिक्षस्यादित्यो दिवः ।
तदिदमध्यात्मम् ।
योऽग्निर्वागेव सा यो वायुः प्राण एव स य आदित्यश्चक्षुरेव तत् ।
तस्माद्यदहं द्विषन्तमभिवदामि यदभिप्राणिमि यदभिवीक्षे वज्रमेवाहं तस्मै तं प्रहरामि ।
तस्य न श्रेम्णोऽल्पिकेव चनाशास्ति ।
एता उ एवैनं देवता धूर्वन्ति य एवं विद्वांसं धूर्वतीति ।
अथ ह स्माह श्वेतकेतुरारुणेयो यथाश्वस्य श्वेतस्य कृष्णकर्णस्येत्थादानीतस्य रूपं स्यादेवमेवाहमेतस्य स्तोमस्य रूपं वेद ।
तावद्दृशेन्यं तावद्वपुषेण्यम् ।
तस्मान्मां य एव पूर्वाह्णे दिदृक्षन्ते तेऽपराह्णे दिदृक्षन्ते नैव सुदृशेन्यमिव सन्तम् ।
नाह कदा चन चक्षुष्मन्तं पर्येमीति ।
तदु होवाच शाट्यायनिः कोऽश्वश्श्वेतः किमेकमिति ।
यथैवास्याग्ने रूपं यथा त्विषिर्यथास्य वायोर्यथामुष्यादित्यस्यैवमेवैतस्य स्तोमस्य रूपमेवं त्विषिः ।
तदेवैतत्प्रजा अभिपरिवार्य दिदृक्षमाणास्तिष्ठन्ति ।
तस्माद्बहिष्पवमाने ये च विजानन्ति ये च न ते सर्वेऽनीशाना अभिपरिवार्य दिदृक्षमानास्तिष्ठन्तीति ।
अथो हैता यश एवाप्यन्यासां देवतानाम् ।
तासामेतदिन्द्रि यं वीर्यं रसस्तेजः संभृतं यदेता बहिष्पवमान्यः ।
स य एवमेतद्देवतानामिन्द्रि यं वीर्यं रसं तेजः संभृतं वेदेन्द्रि यवानेव वीर्यवान्यशस्वी त्विषिमान्भवति २४९

तदाहुर्यत्पुरुषो योषां संभविष्यन्परोक्षं निलयनमिच्छतेऽन्त एवान्ये पशवोऽन्योन्यस्य स्कन्दन्ति किं तद्यज्ञे क्रियते यस्मात्तत्तथेति ।
स ब्रूयाद्यस्मात्त्रिवृत्स्तोमो बहिष्पवमाने प्राङिवोत्क्रम्य धिष्ण्येभ्यो निलीय गायत्रीं स्कन्दति मध्य एवान्य ऋत्विजो धिष्ण्यानां यदन्त आसते तस्मात्तत्तथेति ।
त्रिवृतं हि स्तोमं पुरुषोऽन्वायत्तो धिष्ण्यानन्ये पशव इति ।
तद्वेवाहुर्यत्स त्रिवृत्स्तोमो गायत्रीं स्कन्दति किं सा ततः प्रजनयतीति ।
इळान्तं यज्ञं सप्तनाभिमिति ब्रूयात् ।
गायत्री गर्भं धत्ते ।
सा पुरोनुवाक्यां प्रजनयति पुरोनुवाक्या याज्यां याज्या वषट्कारं वषट्कार आहुतीराहुतयो दक्षिणा दक्षिणाः स्वर्गं लोकम् ।
तद्यथा वित्तं प्रवाहं क्षिप्रं प्रवहेदेवमेवैनमेता देवताः स्वर्गाय लोकाय प्रवहन्ति ।
त्रिवृदेवैनं स्तोमो गायत्र्! यै प्रयच्छति गायत्री पुरोनुवाक्यायै पुरोनुवाक्या याज्यायै याज्यावषट्काराय वषट्कार आहुतीभ्य आहुतयो दक्षिणाभ्यो दक्षिणाः स्वर्गं लोकं गमयन्ति ।
स एष इळान्तो यज्ञः सप्तनाभिः ।
तस्य ह त्रिवृदेव स्तोमो नाभिर्गायत्री नाभिः पुरोनुवाक्या नाभिर्याज्या नाभिर्वषट्कारो नाभिराहुतयो नाभिर्दक्षिणा नाभिः ।
उप हैनं यज्ञो नमति य एवं वेद २५०

पञ्चदशान्याज्यानि भवन्ति पञ्चदशापूर्यमाणस्यार्धमासस्य रात्रयः ।
तदेव तेनाप्नोति ।
दश हस्त्या अङ्गुलयश्चत्वार्यूर्वष्ठीवानि यदूर्ध्वं नाभेस्तत्पञ्चदशम् ।
तदेवात्रोपसंदधाति ।
पञ्चदशो माध्यंदिनः पञ्चदशापोच्छतोऽर्धमासस्य रात्रयः ।
तदेव तेनाप्नोति ।
दश पद्या अङ्गुलयश्चत्वार्यूर्वष्ठीवानि यदवाचीनं नाभेस्तत्पञ्चदशम् ।
तदेवात्रोपसंदधाति ।
सप्तदशानि प्र्ष्ठानि ।
द्वादश मासाः पञ्चर्तवः ।
तदेव तेनाप्नोति ।
दश हस्त्या अङ्गुलयः सप्त शीर्षन्प्राणाः ।
तत्सप्तदशम् ।
तदेवात्रोपसंदधाति ।
सप्तदशार्भवः ।
द्वादश मासाः पञ्चर्तवः ।
तदेव तेनाभिपूर्वमाप्नोति ।
दश पद्या अङ्गुलयश्चत्वार्यूर्वष्ठीवानि त्रयोऽवाचः प्राणाः ।
तत्सप्तदशम् ।
तदेवात्रोपसंदधाति ।
एकविंशमग्निष्टोमसाम ।
द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः ।
तदेव तेनाप्नोति ।
दश हस्त्या अङ्गुलयो दश पद्या आत्मैकविंशः ।
तदेवात्रोपसंदधाति २५१

स हैवं विद्वानहोरात्रयोरर्धमासशो मासश ऋतुशः संवत्सरश एतस्मिन्सर्वस्मिन्नात्मानमुपसंधाय तं मृत्युं तरति यः स्वर्गे लोके ।
न हैवंवित्पुनर्म्रियते ।
तस्य हर्ङ्मयान्यस्थानि भवन्ति साममयानि मांसानि ।
स एषोऽपहतपाप्मा धूतशरीरोऽतीत्यैतं मृत्युं शरीरं धूनुते ।
अथैते दैवी च मानुषी च विराजौ ।
तयोरेष एतदादित्योऽध्यूढस्तपति ।
चतस्रो दिशश्चत्वारोऽवान्तरदेशा द्वाविमौ लोकौ ।
एषा दैवी विराट् ।
अथ मानुषी ।
चत्वारोऽत्तारष्षडाद्याः ।
ब्राह्मणश्च राजन्यश्च वैश्यश्च शूद्र श्चैतेऽत्तारः ।
गौश्चाश्वश्चाजाश्चाविश्च व्रीहिश्च यवश्चैत आद्याः ।
एतयोरेष एतदादित्योऽध्यूढस्तपति ।
तन्न शोको न हिमो नाशनायति न पिपासति नास्य का चनावृत्तिरस्ति ।
न ह वा अशनायति न पिपासति नास्य का चनावृत्तिर्भवति य एवं वेद २५२

यजमानं ह वा एतदुद्गाता रेतो भूतं सिञ्चति यद्बहिष्पवमानं गायति ।
मन एव रेतस्यया समीरयति प्राणं गायत्र्! या चक्षुस्त्रिष्टुभा श्रोत्रं जगत्या वाचमनुष्टुभा ।
आत्मानमेव पङ्क्त्या प्रत्युपदधाति ।
अथ यदेतदुत्तमं तृचं जन्मैव तत् ।
प्रैव तेन जनयति ।
यस्मादेतद्घोषीवोपब्दिमदिव गायते तस्माद्घोषीवोपब्दिमदिव गर्भा जायन्ते ।
तदुवा आहुरघोषमेव गेयम् ।
यदा वै विजायमाना क्रूरिकुरुतेऽथ सा घोषं करोति ।
अथो शनैरिव वा अघोषमिव महाहृष्टिर्विजायते ।
अथो हैतत्सत्यं यद्गायत्रम् ।
तस्य संपदं लोभयेद्यद्र थन्तरवर्णां अभ्यस्येत् ।
तस्मादघोषमेव गेयमिति ।
अथाग्नेयमाज्यमेकदेवत्यम् ।
प्रेतिरेव सा ।
अथ मैत्रावरुणं द्विदेवत्यम् ।
प्रतिष्ठितिरेव सा ।
अथैन्द्र मेकदेवत्यम् ।
प्रेतिरेव सा ।
अथैन्द्रा ग्नं द्विदेवत्यम् ।
सा वा एषा प्रेतिश्चैव प्रतिष्ठितिश्च ।
प्रतितिष्ठति य एवं वेद ।
त्रिवृत्पञ्चदशाभ्यां पुरुषोऽस्मिँ ल्लोके प्रतिष्ठितः ।
स यमेव हरति स त्रिवृद्येन प्रतितिष्ठति स पञ्चदशः ।
तौ वा एतावुभावेव त्रिवृतावुभौ पञ्चदशौ ।
तेजो वै ब्रह्मवर्चसं त्रिवृत्स्तोम ओजो वीर्यं पञ्चदशः ।
ओजसैव तद्वीर्येण प्रतिष्ठाय तेजो ब्रह्मवर्चसं हरति य एवं वेद २५३

अथ माध्यंदिनस्य पवमानस्य गायत्री ।
योऽयमवाङ्प्राण एष एव सः ।
तस्यां द्वे सामनी ।
तस्मादेतेन द्वयं प्राणेन करोति भस्म च करोति वातं च ।
नाना प्रस्तावौ नाना निधने हिंकारोऽन्तरेण ।
तस्मान्नेतर इतरमनुनिनर्दति नेतर इतरम् ।
एतेन हि तद्विहृतम् ।
अथ बृहती ।
योऽयं प्राङ्प्राण एष एव सः ।
तस्यां द्वे सामनी ।
तस्मादेतेन द्वयं प्राणेन करोति रेतश्च सिञ्चति मेहति च ।
नाना प्रस्तावौ नाना निधने हिंकारोऽन्तरेण ।
तस्मान्नेतर इतरमनुनिनर्दति नेतर इतरम् ।
एतेन हि तद्विहृतम् ।
अथ त्रिष्टुप् ।
नाभिरेव सा ।
तस्यामेकं साम ।
तस्मादेतेनैकमेव प्राणेन करोति यदेव प्राणानुदनतोऽनूदनिति ।
अथ पृष्टाःनि ।
इन्द्रि यं वै वीर्यं पृष्ठानि ।
तस्माद्ये के चानूकभाजो गोरश्वस्य पुरुषस्य तेषामनूकमेव बलिष्ठम् ।
इन्द्रि यं ह्येतद्वीर्यं यत्पृष्ठानि ।
तानि बृहतीषु भवन्ति ।
तस्मादिमा बृहतीरिव कीकसा बृहतीरिव पशवः पृष्ठमभिसमायन्ति ।
अथार्भवस्य पवमानस्य गायत्री ।
योऽयं प्राण एष एव सः ।
तस्यां द्वे सामनी ।
तस्माद्द्वयं प्राणेन करोति प्राण्यापानिति ।
नाना प्रस्तावौ नाना निधने हिंकारोऽन्तरेण ।
तस्मान्नेतर इतरमनुनिनर्दति नेतर इतरम् ।
एतेन हि तद्विहृतम् ।
अथोष्णिक्ककुभौ ।
चक्षुषी ते ।
समानं छन्दः ।
द्वे सामनी ।
तस्माद्द्वे अक्ष्यौ समानं पश्यतः ।
त्रिपदोरृचोर्भवतः ।
तस्मात्त्रिवृच्चक्षुश्शुक्लं कृष्णं कनीनिका ।
परोवरी यस्योरृचोर्भवतः ।
तस्मात्परोवरीयः पुरुषः पश्यति ।
नाना प्रस्तावो नाना निधने हिंकारोऽन्तरेण ।
तस्मान्नानावीर्ये चक्षुषी ।
अथानुष्टुभ् ।
वागेव सा ।
तस्यां द्वे सामनी ।
तस्माद्द्वयं वाचा करोत्यन्नं चैनयात्ति वदति च ।
नाना प्रस्तावो नाना निधने हिंकारोऽन्तरेण ।
तस्मान्न सर्वं सत्यं वाचा वदति न सर्वमनृतम् ।
एतेन हि तद्विहृतम् ।
अथ जगती ।
श्रोत्रमेव तत् ।
तस्यामेकं साम ।
तस्मादेतेनैकमेव श्रोत्रेण करोति यदेव श्र्णोति ।
चतुष्पदायामृचि भवति ।
तस्मात्समानत्र सन्सर्वा अनु दिशश्शृणोति ।
अपि पराङ्यन्पश्चाद्वदतश्शृणोति ।
अथ यज्ञायज्ञीयम् ।
शिर एव तत् ।
अध्यूढं वा एतदन्येष्वङ्गेषु यच्छिरः ।
अध्यूढमन्येषु स्तोत्रेषु यज्ञायज्ञीयम् ।
अध्यूढोऽन्येषु स्वेषु भवति य एवं वेद ।
उपरि वा एतदन्येभ्योऽङ्गेभ्यो यच्छिरः ।
उपर्यन्येभ्यः स्तोत्रेभ्यो यज्ञायज्ञीयम् ।
उपर्यन्येभ्यः स्वेभ्यो भवति य एवं वेद ।
स एषोऽपहतपाप्मा यज्ञ एव प्रत्यक्षम् ।
तस्य ह नोपवदंश्च न पापं कर्तास्ति ।
यद्येनं बहिष्पवमानेऽनुव्याहरेद्यज्ञस्य रेतः सिक्तमचीक्ळ्पं यज्ञमारोऽरेतस्का ते प्रजा भविष्यतीत्येनं ब्रूयात् ।
यद्येनमेकदेवत्य आज्येऽनुव्याहरेद्यज्ञस्य प्रेतिमचीक्ळ्पं यज्ञमारः प्रेत्य जने मरिष्यसीत्येनं ब्रूयात् ।
यद्येनं द्विदेवत्य आज्येऽनुव्याहरेद्यज्ञस्य प्रतिष्ठामचीक्ळ्पं यज्ञमारोऽप्रतिष्टिःतो भविष्यसीत्येनं ब्रूयात् ।
यद्येनं माध्यंदिनस्य पवमानस्य गायत्र्! यामनुव्याहरेद्यज्ञस्यावाञ्चं प्राणमचीक्ळ्पं यज्ञमारो विघातस्त्वा हनिष्यतीत्येनं ब्रूयात् ।
अथो ह ब्रूयादवस्रावस्त्वा हनिष्यतीति ।
यद्येनं बृहत्यामनुव्याहरेद्यज्ञस्य शिश्नमचीक्ळ्पं यज्ञमारो मूत्रग्राहस्त्वा हनिष्यतीत्येनं ब्रूयात् ।
अथो ह ब्रूयादरेतस्को भविष्यसीति ।
यद्येनं त्रिष्टुभ्यनुव्याहरेद्यज्ञस्य नाभिमचीक्ळ्पं यज्ञमार उदावर्तस्त्व हनिष्यतीत्येनं ब्रूयात् ।
यद्येनं पृष्ठेष्वनुव्याहरेद्यज्ञस्येन्द्रि यं वीर्यमचीक्ळ्पं यज्ञमारो वज्रस्त्वा हनिष्यतीत्येनं ब्रूयात् ।
अथो ह ब्रूयादनाज्ञातवधस्त्वा हनिष्यतीति २५४

यद्येनमार्भवस्य पवमानस्य गायत्र्! यामनुव्याहरेद्यज्ञस्य प्राणमचीक्ळ्पं यज्ञमारः प्राणस्त्वा हास्यतीत्येनं ब्रूयात् ।
अथो ह ब्रूयात्प्रमायुको भविष्यसीति ।
यद्येनमुष्णिक्ककुभोरनुव्याहरेद्यज्ञस्य चक्षुषी अचीक्ळ्पं यज्ञमारोऽन्धो भविष्यसीत्येनं ब्रूयात् ।
यद्येनमनुष्टुभ्यनुव्याहरेद्यज्ञस्य वाचमचीक्ळ्पं यज्ञमारो वाक्तेऽपक्रमिष्यतीत्येनं ब्रूयात् ।
अथो ह ब्रूयादशनया मरिष्यसीति ।
यद्येनं जगत्यामनुव्याहरेद्यज्ञस्य श्रोत्रमचीक्ळ्पं यज्ञमारो बधिरो भविष्यसीत्येनं ब्रूयात् ।
यद्येनं यज्ञायज्ञीयेऽनुव्याहरेद्यज्ञस्य शिरोऽचीक्ळ्पं यज्ञमारश्शिरस्ते विपतिष्यतीत्येनं ब्रूयात् २५५

एते ह वै प्रतिव्याहाराः ।
न हैवंविद्यज्ञियामार्तिमार्छति ।
य एवैनमुपवदति स आर्तिमार्छति ।
स य एनमुपवदेत्तं ब्रूयात्पूर्णमेवाहमेतं साङ्गं सतनुं सर्वं यज्ञं वेद स यत्त्वमत्रोनं वेत्थ तत्त्वयैवापिदधानीति ।
स एवार्तिमार्छति य एवं विद्वांसमुपवदति ।
स एष प्रजापतिरग्निष्टोमोऽमूमेकविंशीं यज्ञायज्ञीयस्यासु बहिष्पवमानीसु नवसु प्रत्युपधाय शय एता द्विष्टना विराजो दुहानः पञ्च पञ्चदशानि पञ्च सप्तदशानि ।
ता एव पञ्च द्वात्रिंशिनीर्विराजः ।
दुह्रे ह वै विराजं सर्वान्कामान्य एवं वेद ।
न हैवंविदोऽनृतं चन वदतो यज्ञः स्रवति ।
स्रवति ह वा अनृतं वदतो यज्ञोऽथो ह पूयति ।
नो ह त्वेवंविदो यज्ञः स्रवति न पूयति ।
तस्मात्कुरुपञ्चाला द्विष्टनां दुह्रे ।
प्रजापतेर्हि सा ।
तस्माद्वन्य उदन्ता न दुह्रे ।
न हि ते तां विदुः ।
तस्माद्वन्य उदन्ता अशनायुकतरा इव स एष प्रजापतिरग्निष्टोमः – २५६

– परिमण्डलो भूत्वानन्तो भूत्वा शये ।
तदनुकृतीदमप्यन्या देवता परिमण्डलाः ।
परिमण्डल आदित्यः परिमण्डलश्चन्द्र माः परिमण्डला द्यौः परिमण्डलमन्तरिक्षं परिमण्डलेयं पृथिवी ।
अपि यदिदं पुरुषे दिव्यं तत्परिमण्डलम् ।
एतस्यैव न्यङ्गमनुन्यञ्जानः परिमण्डलां महतीमनन्तां श्रियं जयति य एवं वेद ।
स एष यज्ञ ऊर्ध्व एव पुरुषमन्वायत्तः ।
तस्य पादावेव बहिष्पवमानम् ।
इमान्येव चत्वार्यूर्वष्ठीवान्याज्यानि ।
यदर्वाचीनं नाभेः स त्रिछन्दा माध्यंदिनः ।
पृष्ठान्येव पृष्ठानि ।
अयमार्भव इदमग्निष्टोमसाम ।
तद्ध नगरिणं दाल्भ्यं ब्राह्मणः पप्रच्छ कद्र य्ङ्यज्ञ इति ।
स होवाचोर्ध्व एव पुरुषमन्वायत्त इति ।
एवं ह तदुवाच ।
स य एवमेतदूर्ध्वमात्मन्यज्ञं तायमानं वेदोर्ध्व एव प्रजया पशुभी रोहन्नेति ।
य उ एनं प्रत्यञ्चं वेद प्रत्यङ्भूतिर्भवति ।
तस्येदमेव बहिष्पवमानमिमान्याज्यान्ययं माध्यंदिनः पृष्ठान्येव पृष्ठान्ययमार्भवः प्रतिष्ठैव यज्ञायज्ञीयम् ।
प्रत्यङ्भूतिर्भवति ।
य एवमेतावात्मन्यज्ञौ तायमानौ वेदोप हैनं यज्ञौ नमतः २५७

तस्यैष श्लोकः

यदस्य पूर्वमपरं तदस्य

यद्वस्यापरं तद्वस्य पूर्वम्

अहेरिव सर्पणं शाकलस्य

न विजानामि यतरत्पुरस्तात्
इति ।
शकलो ह गौपायनो यज्ञं मिमान इयाय ।
स ह स्मैतन्न विजानाति कतरद्यज्ञस्य पूर्वं कतरदपरं कतरदणीयः कतरद्स्थवीय इति ।
तदाहुः कुतो यज्ञस्यानिष्ठमिति ।
यतो वरिष्ठमिति ।
कुतो वरिष्ठमिति ।
यतोऽणिष्ठमिति ।
बहिष्पवमानं वाव प्रति यज्ञोऽणिष्ठः ।
तदिदं पादाववोचत् ।
पादौ वै प्रति पुरुषोऽणिष्ठः ।
तद्वै वरिष्ठः ।
पद्भ्यां ह्येति ।
कुतो वरिष्ठ इति ।
यतोऽणिष्ठ इति ।
यज्ञायज्ञीयं वाव प्रति यज्ञोऽणिष्ठः ।
तदिदं शिरोऽवोचत् ।
शिरो वै प्रति पुरुषोऽणिष्ठः ।
तद्वै वरिष्ठः ।
अक्षिभ्यां हि पश्यन्नेति ।
तदाहुर्यदूर्ध्वो यज्ञस्तायेत देवा एव जीवेयुर्न मनुष्याः ।
यदर्वाङ्तायेत मनुष्या एव जीवेयुर्न देवा इति ।
ऊर्ध्वश्च ह वै यज्ञस्तायतेऽर्वाङ्चाथो ह तिर्यङ् ।
तद्यत्पृच्छेयुः कद्र य्ङ्यज्ञ इत्यूर्ध्व इति ब्रूयादथो अर्वाङित्यथो तिर्यङ्ङिति ।
सर्वा एव दिश इति ब्रूयात् ।
सर्वा उ ह वै एवंविदो यज्ञस्ततो भवति ।
कुरुपञ्चाला ह ब्रह्मोद्यमूदिरे ।
ते ह श्वानं संवेष्टितं शयानमुपेयुः ।
ते होचुरस्मिन्न्वेव नो विजयोऽध्यस्त्विति ।
ते ह पञ्चालाः कुरून्पप्रच्छुः किमस्य यज्ञस्येवेति ।
तद्ध न प्रत्यूचुः ।
स होवाच वसिष्ठश्चैकितानेयो यथा वा असावदोऽमूमेकविंशीं यज्ञायज्ञीयस्यासु बहिष्पवमानीषु नवसु प्रत्युपधाय शय एवं वा अयमिदमुभावन्तौ संधाय शये ।
तस्य वा अयं यज्ञक्रतोरनया शय्ययो रूपं निगच्छतीति ।
तस्मादिदमनर्थ्यं सन्तं बिभृतेति ।
तेन ह जिग्युः २५८

द्विर्ह वै यजमानो जायते मिथुनादन्यज्जायते यज्ञादन्यत् ।
तद्यन्मिथुनाज्जायते तदस्मै लोकाय जायते ।
अथ यद्यज्ञाज्जायते तदमुष्मै लोकाय जायते गन्धर्वलोकाय जायते देवलोकाय जायते स्वर्गलोकाय जायते ।
यज्ञो वै यजमानो यज्ञः सोमो राजा ।
तद्यद्धविर्धाने ग्रावभिस्सोमं राजानमभिषुण्वन्ति यजमानमेव तद्रे तः कुर्वन्ति ।
प्रजापतिरेष यदुद्गाता ।
स त्वष्टा स रेतसः सेक्ता स रूपाणां विकर्ता ।
तद्यद्बहिष्पवमाने रेतस्यां गायति यजमानमेव तद्रे तो भूतं सिञ्चति ।
यदृचमसाम्नीं गायेदस्थ्येव जायते न मांसम् ।
यत्सामानृचं गायेन्मांसमेव जायते नास्थि ।
ऋचं साम्नाभिलिप्तां गायति ।
तस्माल्लोम्ना त्वचा मांसेन पुरुषोऽभिलिप्तो जायते ।
तस्यां न हिंकुर्यात् ।
यद्धिंकुर्याद्वज्रेण हिंकारेण रेतो विच्छिन्द्यात् ।
यो हि तदपि वालेन वीयात्स एवैनद्विच्छिन्द्यात् ।
तामधीयन्गायेत् ।
यदनधीयन्गायेदरेतस्का गर्भा जायेरन् ।
अरेतस्का ह वै दुरुद्गातुर्वर्तन्यां गर्भा जायन्ते २५९

गायत्रीं गायति ।
प्राणो वै गायत्री ।
तस्यै द्वे अक्षरे व्यतिषजति ।
प्राणापानावेव तद्व्यतिषजति ।
तस्मात्प्राणापानौ तद्व्यतिषक्तौ प्रजा अनुसंचरत आ च परा चायातयामानौ ।
तामधीयन्गायेत् ।
यदनधीयन्गायेन्मृता गर्भा जायेरन् ।
मृता ह वै दुरुद्गातुर्वर्तन्यां गर्भा जायन्ते ।
त्रिष्टुभं गायति ।
चक्षुर्वै त्रिष्टुप् ।
तस्यै द्वे अक्षरे द्योतयति ।
चक्षुषी एव तद्दधाति ।
तस्माद्युक्ते इव चक्षुषी ।
तामधीयन्गायेत् ।
यदनधीयन्गायेदन्धा गर्भा जायेरन् ।
अन्धा ह वै दुरुद्गातुर्वर्तन्यां गर्भा जायन्ते ।
जगतीं गायति ।
श्रोत्रं वै जगती ।
तस्यै चत्वार्यक्षराणि द्योतयति ।
श्रोत्रमेव तद्दधाति ।
श्रोत्रे द्वे परिश्रवणे द्वे ।
तस्मात्समानत्र सन्सर्वा अनुदिशश्शृणोति ।
अपि पराङ्यन्पश्चाद्वदतश्शृणोति ।
तामधीयन्गायेत् ।
यदनधीयन्गायेद्बधिरा गर्भा जायेरन् ।
बधिरा ह वै दुरुद्गातुर्वर्तन्यां गर्भा जायन्ते ।
अनुष्टुभं गायति ।
वाग्वा अनुष्टुप् ।
तामर्वाचीमभिनुदन्गायति वाचोऽनपक्रामाय ।
यत्पराचीमपनुदन्गायेद्वाचं प्रधमेद्वागस्मादपक्रामुका स्यात् ।
तां यदर्वाचीमभिनुदन्गायत्यात्मन्नेव तद्वाचं प्रतिष्ठापयति ।
तस्यै निरुक्तं चानिरुक्तं च पदे गायति ।
निरुक्तेन वै वाचो भुञ्जतेऽनिरुक्तमस्या उपजीवनीयम् ।
भुङ्क्ते वाचोप चैनं जीवति य एवं वेद ।
स यन्निरुक्तमेव गायेद्वदेयुरेव प्रजा न तूष्णीमासीरन् ।
अथ यदनिरुक्तं गायेत्तूष्णीमेव प्रजा आसीरन्न वदेयुः ।
यस्मान्निरुक्तं चानिरुक्तं च पदे गायति तस्मात्प्रजा वदन्ति च तूष्णीं चासते २६०

तां बलवदुपब्दिमतीं निघातं गायेत् ।
निघ्नदिव ह खलु वा एतच्छन्दो यदनुष्टुप् ।
अनुष्टुभा वै वाचा छन्दसा देवा असुरानवाचोऽवाघ्नन् ।
तां यद्बलवदुपब्दिमतीं निघातं गायति – भ्रातृव्यो वै पाप्मा – भ्रातृव्यमेतत्पाप्मानमवाचमवहन्ति श्रियमात्मनाश्नुते ।
तामधीयन्गायेत् ।
यदनधीयन्गायेदजिह्वा गर्भा जायेरन् ।
अजिह्वा ह वै दुरुद्गातुर्वर्तन्यां गर्भा जायन्ते ।
पङ्क्तिं गायति ।
ऋतवो वै पङ्क्तिः ।
तां गायत्रीमेव प्रसृतां गायति ।
तस्माद्गर्भा जायमानाः प्रसार्यन्ते ।
तामधीयन्गायेत् ।
यदनधीयन्गायेत्सामि गर्भाः पतेयुः ।
सामि ह वै दुरुद्गातुर्वर्तन्यां गर्भा पतन्ति ।
अथ यदेतदुत्तमं तृचं जन्मैव तत् ।
प्रैव तेन जनयति ।
मनो वै रेतस्या प्राणो गायत्री चक्षुस्त्रिष्टुप्श्रोत्रं जगती वागनुष्टुप् ।
स यो मनो रेतस्येति विद्वानुद्गायति महामना मनस्व्यस्मादाजायते ।
अथ यः प्राणो गायत्रीति विद्वानुद्गायति सर्वमायुरेति ।
अथ योऽस्मादाजायते स सर्वमायुरेति ।
अथ यश्चक्षुस्त्रिष्टुबिति विद्वानुद्गायत्यह्रीतमुखी पश्यो दृष्ट्यास्मादाजायते दर्शनीयः ।
अथ यश्श्रोत्रं जगतीति विद्वानुद्गायति शुश्रूषुश्श्रोत्रियोऽस्मादाजायते श्रवणीयः अथ यो वागनुष्टुबिति विद्वानुद्गायति शंस्तोद्गाता वाचाराध्यस्मादाजायते – २६१

– सभेयः ।
एवं ह्येतत्कुरुपञ्चाला अविदुः ।
तस्मात्कुरुपञ्चालेषु सर्वैर्वीरैः सह वीर आजायते ।
अथ यर्ह्येतदुदन्ताः पुरा नावेदिषुस्तस्मादुदन्तेषु पुरा सर्वैर्वीरैः सह वीरो नाजनि ।
अथ यत इदमुदन्तानेवंविदश्च सचन्त एवंविदश्चैनान्याजयन्ति ततो हार्वाचीनमुदन्तेषु सर्वैर्वीरः सह वीर आजायते ।
कुरुपञ्चाला ह ब्रह्मोद्यमूदिरे ।
ते ह पञ्चालाः कुरून्पप्रच्छुः किं वयं तद्यज्ञेऽकुर्म येनास्मासु सर्वैर्वीरैः सह वीर आजायत इति ।
तद्ध न प्रत्यूचुः ।
तेन हैनाञ्जिग्युः ।
ते यत्प्रत्यवक्ष्यन्यस्माद्वयमेवंविदश्च स्म एवंविदश्च नो याजयन्ति तेनास्मासु सर्वैर्वीरैः सह वीर आजायत इति ।
सर्वैर्ह वा अस्माद्वीरैः सह वीर आजायते य एवं वेद ।
तदाहुर्विगेया ३ धुरा ३ धूरो न विगेया ३ इति विगेया ३ इत्याहुः – । २६२

कुरवः ।
गायत्रं वै प्रातःसवनं त्रैष्टुभं माध्यंदिनं सवनं जागतं तृतीयसवनम् ।
तदेवानुष्टुबन्वायत्ता ।
स यद्गायत्रे सति प्रातःसवने गायत्रीं गायति – ब्रह्म वै गायत्री ब्रह्म प्रातःसवनं – स्व एव तदायतने ब्रह्म दधाति ।
अथ यत्त्रिष्टुभं गायति – क्षत्रं वै त्रिष्टुप् ।
एतानि वै क्षत्रे शिल्पानि हस्ती निष्कोऽश्वतरीरथोऽश्वरथो रुक्मः कंसः – तान्येव तदाहृत्य ब्रह्मण्यनक्ति ।
अथ यज्जगतीं गायति – विड्वै जगती ।
एतानि वै विशि शिल्पानि गोऽश्वं हस्तिहिरण्यमजाविकं व्रीहियवास्तिलमाषाः सर्पिः क्षीरं रयिः पुष्टिस्- तान्येव तदाहृत्य ब्रह्मण्यनक्ति ।
तदेवानुष्टुबन्वायत्ता ।
अथ यदनुष्टुभं गायति – आनुष्टुभो वै शूद्र ः! – शूद्रा देव तदाहृत्य ब्रह्मण्यनक्ति २६३

तद्यथा तूष्णीं कशनैर्विहन्यादेवमेवैतानि सर्वाणि शिल्पान्याहृत्य ब्रह्मण्यनक्ति ।
तस्माद्विगेया इति ।
यतो ह वा इदमेता विगीयन्ते ततो हेदं ब्राह्मणा जीयन्ते ।
अथ यर्हि एता न विजगुरन्नाद्या ह ब्राह्मणा आसुः ।
एकापच्चादेवा हर्वाशत एकशकटे वशे हस्मदमथित्वा सत्ययज्ञः पौलुषिर्याति ।
अथ यत इदमेता विगीयन्ते ततो हैतानि शिल्पानि ब्राह्मणेष्वधिगम्यन्ते ।
गायत्रीं पुरस्ताद्गायति गायत्रीमुपरिष्टात् ।
ब्रह्म वै गायत्री ।
ब्रह्मणैव तदेतान्य् उभयतश्शिल्पानि परिगृह्णाति ।
ब्रह्मणा हैनमेतान्युभयतश्शिल्पानि परिगृहीतान्युपतिष्ठन्ते य एवं वेद ।
न विगेया इत्याहुः पञ्चालाः ।
स्वयं विगीता वा एता यद्धुरः ।
अनुसवनं वा एता विगायन्नभ्यारोहति ।
अथ यदेनान्पापी कीर्त्तिरनूत्तिष्ठति व्यगासिषुरिति ।
यौ वै युध्येते यावृतीयेते तावाहुर्व्यगासिष्टामिति अथो ये राष्ट्रे व्यवबिन्धाने – २६४

तिष्ठत इति ।
गायत्रं वै प्रातःसवनं त्रैष्टुभं माध्यंदिनं सवनं जागतं तृतीयसवनम् ।
तदेवानुष्टुबन्वायत्ता ।
स यद्गायत्रे सति प्रातःसवने गायत्रीं गायति – ब्रह्म वै गायत्री – ब्रह्मैव तद्ब्राह्मणस्य स्वेऽन्वाभजति ।
सोऽस्यादित्सत उपजिहीर्षते ।
अथो अस्यैव तत् ।
स्वेऽनु ह्येनमाभजति ।
अथ यत्त्रिष्टुभं गायति – क्षत्रं वै त्रिष्टुप्क्षत्रियमेव तद्ब्राह्मणस्य स्वेऽन्वाभजति ।
सोऽस्यादित्सत उपजिहीर्षते ।
अथो अस्यैव तत् ।
स्वेऽनु ह्येनमाभजति ।
अथ यज्जगतीं गायति – विड्वै जगती – वैश्यमेव तद्ब्राह्मणस्य स्वेऽन्वाभजति ।
सोऽस्यादित्सत उपजिहीर्षते ।
अथो अस्यैव तत् ।
स्वेऽनु ह्येनमाभजति ।
तदेवानुष्टुबन्वायत्ता ।
अथ यदनुष्टुभं गायति – आनुष्टुभो वै शूद्र ः! – शूद्र मेव तद्ब्राह्मणस्य स्वेऽन्वाभजति ।
सोऽस्यादित्सत उपजिहीर्षते ।
अथो अस्यैव तत् ।
स्वेऽनु ह्येनमाभजति ।
यद्याविर्नाथो पाकेनैव लिप्सते ।
तस्मान्न विगेया इति ।
यतो ह वा इदमेता विगीयन्ते ततो हेदं ब्राह्मणा जीयन्ते ।
अथ यर्ह्येता न विजगुरज्येया ह ब्राह्मणा आसुः २६५

गायत्रं वै प्रातःसवनं त्रैष्टुभं माध्यंदिनं सवनं जागतं तृतीयसवनम् ।
तदेवानुष्टुबन्वायत्ता ।
स यद्गायत्रं सत्प्रातःसवनं सर्वमेव गायत्रं गायति ब्रह्मण एव तं केवलमुद्धारमुद्धरति ।
सोऽस्य ब्रह्मणः केवल उद्धार उद्धृतो भवति ।
अथ यत्त्रैष्टुभं सन्माध्यंदिनं सवनं गायत्रेणैवानुप्रतिपद्यते ब्राह्मणमेव तत्क्षत्रियस्य स्वेऽन्वाभजति ।
सोऽस्मै दित्सति श्रद्धया कर्मणोपचारेण ।
यदा वै क्षत्रियं श्रद्धा विन्दति ब्राह्मणं वाव स तर्हीच्छति ।
सोऽस्मै ददाति ।
अथ यज्जागतं सत्तृतीयसवनं गायत्रेणैवानुप्रतिपद्यते ब्राह्मणमेव तद्वैश्यस्य स्वेऽन्वाभजति ।
सोऽस्मै दित्सति श्रद्धया कर्मणोपचारेण ।
यदा वै वैश्यं श्रद्धा विन्दति ब्राह्मणं वाव स तर्हीच्छति ।
सोऽस्मै ददाति ।
तदेवानुष्टुबन्वायत्ता ।
अथ यदनुष्टुभं गायति – आनुष्टुभो वै शूद्र ः! – ब्राह्मणमेव तच्छूद्र स्य स्वेऽन्वाभजति ।
सोऽस्मै दित्सति श्रद्धया कर्मणोपचारेण ।
यदा वै शूद्रं श्रद्धा विन्दति ब्राह्मणं वाव स तर्हीच्छति ।
सोऽस्मै ददाति ।
केवलं स्वं कुरुतेऽपित्वी क्षत्रे भवत्यपित्वी विशि ।
यात्यन्तःस्थां नान्तःस्थायां जीयते ।
उप हैनं शतं परिस्कन्दास्तिष्ठन्तेऽथो भूयांसो य एवं विद्वान्धुरो न विगायतीति ।
स यदि विगायेददो विद्वान्विगायेत् ।
यद्यु न विगायेदिदं विद्वान्न विगायेत् ।
आर्तिः सा योऽन्यतरदेव वेदेति ह स्माह शाट्यायनिः २६६

रेतस्यां गायति ।
रेतस्तत्सिञ्चति ।
तद्रे तः सिक्तं गायत्र्! योद्वर्धयति वर्षीयसा छन्दसा ।
तत्त्रिष्टुभोद्वर्धयति वर्षीयसा छन्दसा ।
तज्जगत्योद्वर्धयति वर्षीयसैव छन्दसा ।
तद्यद्वर्षीयसा वर्षीयसा छन्दसोद्वर्धयति तस्माद्वर्धमानस्य भूयो भूयो वीर्यं भवति ।
अनुष्टुभा निष्ठं गच्छति ह्रसीयसैव छन्दसा ।
तस्मादुत्तरवयसे प्रतितरामिवाववर्धते ।
पङ्क्त्या निष्ठां गच्छति ।
तस्मात्पञ्चमे मासि गर्भा विक्रियन्ते ।
अनुष्टुभा वाचा निष्ठां गच्छति ।
तस्मादु जीर्णस्य वाचं शुश्रूषन्ते ।
शिरो वा एतद्यज्ञस्य यद्बहिष्पवमानम् ।
तद्वै तत् ।
रेतस्यैवापि सर्व आत्मा स यद्बहिष्पवमाने – २६७

– गायत्रीं गायति ।
प्राणो वै गायत्रः ।
गायत्रं शिर एव ।
तदायतनो वै प्राणो यच्छिरः ।
स्व एव तदायतने प्राणं दधाति ।
त्रिष्टुभं गायति ।
चक्षुर्वै त्रिष्टुप् ।
तामेव तदाहृत्य शीर्षन्नियुनक्ति ।
यन्नियुनक्ति तस्मान्नियुक्तमिव चक्षुः ।
तामन्यत्रायतनां सतीं नियुनक्ति ।
तस्मादुत जीवत एव चक्षुरपक्रामति ।
जगतीं गायति ।
श्रोत्रं वै जगती ।
तामेव तदाहृत्य शीर्षन्नियुनक्ति ।
यन्नियुनक्ति तस्मान्नियुक्तमिव श्रोत्रं ।
तामन्यत्रायतनां सतीं नियुनक्ति तृतीयसवनायतनाम् ।
तां यदन्यत्रायतनां सतीं नियुनक्ति तस्मादुत जीवत एव श्रोत्रमपक्रामति ।
अनुष्टुभं गायति ।
वाग्वा अनुष्टुप् ।
तामेव तदाहृत्य शीर्षन्नियुनक्ति ।
यन्नियुनक्ति तस्मान्नियुक्तेव वाक् ।
तामन्यत्रायतनां सतीं नियुनक्ति तृतीयसवनायतनां वा सर्वायतनां वा ।
तां यदन्यत्रायतनां सतीं नियुनक्ति तस्मादुत जीवत एव वागपक्रामति ।
अपान्ये प्राणाः क्रामन्ति न प्राणः २६८

तदाहुः किं तद्यज्ञे क्रियते यस्माज्जीवत एवान्ये प्राणा अपक्रामन्ति न प्राण इति ।
स ब्रूयाद्यस्मात्स्व आयतने गायत्रीं गायति तस्माद्यावज्जीवति तावत्प्राणो नापक्रामतीति ।
अथ ह वै धुरां विज्ञाश्च संज्ञाश्च ।
मनो वै रेतस्या प्राणो गायत्री चक्षुस्त्रिष्टुप्श्रोत्रं जगती वागनुष्टुप् ।
मनसा सुहार्दसं च दुर्हार्दसं च विजानाति ।
प्राणेन सुरभि चासुरभि च विजानाति ।
चक्षुषा दर्शनीयं चादर्शनीयं च विजानाति ।
श्रोत्रेण श्रवणीयं चाश्रवणीयं च विजानाति ।
वाचा स्वादु चास्वादु च विजानाति ।
एता इह विज्ञाः ।
वि ह वै ज्ञायते श्रेयान्भवति य एवं वेद ।
ता उ एव संज्ञाः ।
मनो वै रेतस्या प्राणो गायत्री चक्षुस्त्रिष्टुप्श्रोत्रं जगती वागनुष्टुप् रेतस्यायां प्रस्तुतायां यस्य कामयेत – २६९

तस्य मनसा मनो ध्यायेत् ।
गायत्र्! यां प्रस्तुतायां यस्य कामयेत तस्य प्राणेन प्राणं ध्यायेत् ।
त्रिष्टुभि प्रस्तुतायां यस्य कामयेत तस्य चक्षुषा चक्षुर्ध्यायेत् ।
जगत्यां प्रस्तुतायां यस्य कामयेत तस्य श्रोत्रेण श्रोत्रं ध्यायेत् ।
अनुष्टुभि प्रस्तुतायां यस्य कामयेत तस्य वाचा वाचं ध्यायेत् ।
एता उ ह संज्ञाः ।
सं ह वै तेन जानीते येन कामयतेऽनेन संजानीयेति य एवं वेद ।
अथैता देवधुरश्च मनुष्यधुरश्च संदधाति ।
मनो वै मनुष्यधूरापो देवधूः ।
रेतस्यायां प्रस्तुतायां मनसापः संदध्यात् ।
तदन्तरा यजमानस्य मनोऽवयातयेत् ।
प्राणो वै मनुष्यधूर्वायुर्देवधूः ।
गायत्र्! यां प्रस्तुतायां प्राणेन वायुं संदध्यात् ।
तदन्तरा यजमानस्य प्राणमवयातयेत् ।
चक्षुर्वै मनुष्यधूरादित्यो देवधूः ।
त्रिष्टुभि प्रस्तुतायां चक्षुषादित्यं संदध्यात् ।
तदन्तरा यजमानस्य चक्षुरवयातयेत् ।
श्रोत्रं वै मनुष्यधूर्दिशो देवधूः ।
जगत्यां प्रस्तुतायां श्रोत्रेण दिशः संदध्यात् ।
तदन्तरा यजमानस्य श्रोत्रमवयातयेत् ।
वाग्वै मनुष्यधूर्पृथिवी देवधूः ।
अनुष्टुभि प्रस्तुतायां वाचा पृथिवीं संदध्यात् ।
तदन्तरा यजमानस्य वाचमवयातयेत् ।
एतद्वै देवधुरश्च मनुष्यधुरश्च संदधाते ।
तद्वै देवधुरश्च मनुष्यधुरश्च संधाय तं मृत्युं तरति यः स्वर्गलोके ।
न हैवंवित्पुनर्म्रियते ।
देवतास्वात्मानमुपसंदधाति २७०

अथैतेषां महतां ब्राह्मणानां समुदितमारुणेर्जीवलस्य कारीरादेरषाढस्य सावयस्येन्द्र द्युम्नस्य भाल्लवेयस्येति ।
जीवलश्च ह कारीरादिरिन्द्र द्युम्नश्च भाल्लवेयस्तौ हारुणेराचार्यस्य सभागावाजग्मतुः ।
ते हाषाढस्य गृहेषु शिश्यिरे ।
स होवाचाषाढ आमारुणे यत्सहैव ब्रह्मचर्यमचराव सहान्वब्रवीवह्यथ केनेदं त्वमस्मानत्यनूचिषे ।
यदिदं त्वमियत्प्रियः कीर्तेरियत्प्रियश्चक्षुषः इयत्प्रियः सनेरसि केन त्वमिदं प्रापिथेति ।
स होवाच धूर्ष्वेवाहं तदुपास इति ।
किं त्वं तद्धूर्षूपास्स इति ।
प्रियमिति ।
य आसां प्रियमुपास्ते किं स भवतीति ।
प्रिय एव स कीर्तेर्प्रियश्चक्षुषः प्रियः सनेर्भवतीति ।
एवमेव त्वमसीति होचुः ।
अथ होचुर्जीवलं कारीरादिं यदिदं त्वमेव तस्यार्धस्य श्रेष्ठोऽसि यस्मिन्नस्यपि त्वा राजानोऽधस्तादुपासते केन त्वमिदं प्रापिथेति ।
स होवाच धूर्ष्वेवाहं तदुपास इति ।
किं त्वं तद्धूर्षूपास्स इति ।
श्रियमिति ।
य आसां श्रियमुपास्ते किं स भवतीति ।
यस्मिन्नेवार्धे भवति तस्य श्रेष्ठो भवत्यप्येनं राजानोऽधस्तादुपासत इति ।
एवमेव त्वमसीति होचुः ।
अथ होचुरषाढं सावयसं यत्त्वं शार्कराक्षाणां वाव ग्रामण्येवासि केन त्वमिदं प्रापिथेति ।
स होवाच धूर्ष्वेवाहं तदुपास इति ।
किं त्वं तद्धूर्षूपास्स इति ।
जातमिति ।
य आसां जातमुपास्ते किं स भवतीति ।
यत्रैव सजातो भवति तद्ग्रामणीर्भवतीति ।
एवमेव त्वमसीति होचुः ।
अथ होचुरिन्द्र द्युम्नं भाल्लवेयं यदिदं तवोपर्युपर्यन्यान्कीर्तिश्चरति विवचनमेवासि केन त्वमिदं प्रापिथेति ।
स होवाच धूर्ष्वेवाहं तदुपास इति ।
किं त्वं तद्धूर्षूपास्स इति ।
यश इति ।
य आसां यश उपास्ते किं स भवतीति ।
उपर्युपर्येवान्यान्कीर्तिश्चरति विवचनमेव भवतीति ।
एवमेव त्वमसीति होचुः ।
ते होचुरित्थं चेदिदमभूदेतेदं संप्रब्रवामहा इति २७१

ते हारुणिमूचुस्त्वं वै नो आचार्योऽसि त्वं प्रथमो ब्रूष्वेति ।
स होवाच गायत्रीमेवाहं प्रियमुपास इति ।
प्राणो वै गायत्री प्राणो वै प्रियम् ।
न वै प्राणात्प्रेयः किं चनास्ति ।
स य एवमेतां गायत्रीं प्रियमुपास्ते यथा प्रिय एव प्राण आत्मनेवं प्रिय एव स कीर्तेरेवं प्रियश्चक्षुष एवं प्रियः सनेर्भवतीति ।
अथ होवाच जीवलः कारीरादिस्त्रिष्टुभमेवाहं श्रियमुपास इति ।
क्षत्रं वै त्रिष्टुप्क्षत्रं वै श्रीः ।
स य एवमेतां त्रिष्टुभं श्रियमुपास्ते यस्मिन्नेवार्धे भवति तस्य श्रेष्ठो भवत्यप्येनं राजानोऽधस्तादुपासत इति ।
अथ होवाचाषाढः सावयसो जगतीमेवाहं भूमानं प्रजातिमुपास इति ।
भूमा वै प्रजातिर्जगती छन्दसाम् ।
स य एवमेतां जगतीं भूमानं प्रजातिमुपास्ते भूमानमेव प्रजया पशुभिर्गच्छति यत्रैव सजातो भवति तद्ग्रामणीर्भवतीति ।
अथ होवाचेन्द्र द्युम्नो भाल्लवेयोऽनुष्टुभमेवाहं यश उपास इति ।
वाग्वा अनुष्टुब्वागु वै यशः ।
वागुपर्युपर्यन्यान्कीर्तिश्चरति ।
स य एवमेतामनुष्टुभं यश उपास्त एषैवास्य वागनुष्टुबुपर्युपर्येवान्यान्कीर्तिर्विहरन्त्येति विवचनमेव भवतीति २७२

ते ह वै ते तथैकैकेनैवासुः ।
अथ य एवमेतानि सर्वाण्येकधा वेदैवं ह्येतानि सर्वाण्येकधा भवन्त्येकधैव श्रेष्ठः स्वानां भवति ।
तदु होवाच वासिष्ठश्चैकितानेयः पश्चैवानुबुध्य धुरो ह वा इमे ब्राह्मणा मीमांसमानास्तामेव धुरं नावाग्मन्यस्यामेता धुरि सर्वा अधीति ।
रेतस्यां ह वै स तदुवाच ।
यां ह वा आहुरेका धूरिति रेतस्या ह वै सा धुरां धूरन्नं तद् ।
धुरामलंकरणम् ।
सुरभिर्गन्धो गायत्र्! यै दर्शनीयं त्रिष्टुभश्श्रवणीयं जगत्यै ।
यदेव वाचा पुण्यं वदति तदनुष्टुभः ।
स ह वा एना अन्नमादधाति य एना एतैः समर्धयति ।
ता एनमन्नाद्यमाना अन्नादं श्रेष्ठं स्वानां कुर्वन्ति ।
अन्नादः श्रेष्टः स्वानां भवति य एवं वेद २७३

त्रयो ह वा एते समुद्रा यत्पवमाना अग्निर्वायुरसावादित्यः ।
तैश्छन्नैरुद्गायेत् ।
स यर्हि वै प्रजापतिः प्रजाभ्यो वृष्टिमन्नाद्यं प्रयच्छति छाद्यन्त एते तर्हि ।
प्रजापतिरेष सः ।
यदुद्गास्यन्पवमानैश्छन्नैरुद्गायति छादयत्येव यजमानमन्नाद्येन छादयत्यात्मानं छादयति प्रजाः ।
बहुवर्षी तत्र पर्जन्यो भवतीति ह स्माह कूटः शैलनो यत्राहमुद्गायामीति ।
यत्र वै बहुवर्षी पर्जन्यो भवति कल्याणो वै तत्र बलीवर्दोऽश्वतरो हस्ती निष्कः पुरुषः ।
रूपं रूपं वाव तत्र कल्याणमाजायत इत्येतद्ध तद्विद्वानुवाच ।
यो वै देवांश्च मनुष्यांश्च व्यावर्तयति वि पाप्मना वर्तते ।
देवा वै पवमानाः प्रजाः पृष्ठोक्थानि ।
तैश्छन्नैः परोक्षमनिरुक्तैः पवमानैरुद्गायेत् ।
छन्ना इव हि परोक्षमनिरुक्ता इव देवाः ।
प्रजाः पृष्ठोक्थानि ।
तैरच्छन्नैः प्रत्यक्षं निरुक्तैरुद्गायेत् ।
अच्छन्ना इव हि प्रत्यक्षं निरुक्ता इव मनुष्याः ।
एतद्वै देवांश्च मनुष्यांश्च व्यावर्तयति वि पाप्मना वर्तते य एवं वेद २७४

दैवीं ह वा एष संसदमेति यः पवमानैरुद्गायति ।
स यथा श्रेयांसमभ्यायन्नेवं शिक्षन्निवोपशिक्षन्निवोपनमस्यन्निव ।
संसिद्धैः शक्नुवन् अनुपहन्यमान उद्गायेत् ।
यथायन्तमामीवेद्यथा यद्याचेत्तद्दद्यात्तादृक्तत् ।
अथ य एतैरसंसिद्धैरशक्नुवन्नुपहन्यमान उद्गायेद्यथायन्तं प्रतिमीवेद्यथा यद्याचेत्तन्न दद्यात्तादृगु तत् ।
तदु हात्रैव यज्ञस्य समृद्धं च व्यृद्धं च विज्ञायते ।
अतिहार्या ह वा एषा यत्पवमानाः ।
यो वा अतिहार्यामसंवीतोऽतिगाहते मृदा वै स लिप्यत आयति वा ।
अथ यः संवीतोऽतिगाहते न मृदा लिप्यते नायती ।
एवमिव वै पवमाना उपचार्याः ।
तदाहुर्यदन्यानि स्तोत्राणि स्तोत्रियप्रतिपदोऽथ कस्मात्पवमाना अस्तोत्रियप्रतिपद इति ।
स ब्रूयात्प्राणा वै पवमानाः प्राणा उ पावमान्यः ।
तद्यत्पवमानान्पावमानीभिरेवानुप्रतिपद्येरन्पराञ्च एव प्राणान्निर्मृज्युरिति ।
तान्यदनुष्टुभानुप्रतिपद्यन्ते वाग्वा अनुष्टुब्वाच्यपानो नियतो वाचैव तदपानं दाधार २७५

६ ।
तदाहुरशान्तमिव वा एतत्स्तोत्रं यत्स्तोत्रियेण नानुप्रतिपद्यन्ते ।
केनैषां स्तोत्रियप्रतिपदोऽनितं भवतीति ।
स ब्रूयाद्वाग्वा अनुष्टुब्वाच्यु वै सर्वाणि छन्दांसि ।
यदाग्नेयमैन्द्रं पवमानं तेनैषां स्तोत्रियप्रतिपदोऽनितं भवति ।
जया ह वै नामैतेते स्तोमा यत्पवमानाः ।
पवमानैर्वै देवा असुरान्पराञ्च एव जयन्त आयन् ।
तद्यत्पवमानाः पराञ्च एव भवन्ति यथा पराङेव जयन्नियात्तादृक्तत् ।
तान्यदनुष्टुभानुप्रतिपद्यन्ते वाग्वा अनुष्टुब्वागु वै वाचयित्री वाचा वा आह प्रेहि जयाभिक्राम मापक्रमीरिति ।
स यथा वाचा ब्रूयाद्प्रेहि जयाभिक्राम मापक्रामीरिति तादृक्तत् ।
देवा वै पवमानाः ।
तानि देवानां स्तोत्राणि ।
तानि देवा अन्वायत्ताः ।
प्रजाः पृष्ठोक्थानि ।
तानि प्रजानां स्तोत्राणि ।
तानि प्रजा अन्वायत्ताः ।
तद्यत्पवमानैः पराचीनैरेव स्तुवते तस्मात्पराञ्चो देवाः ।
पराङादित्य एति पराङ्चन्द्र माः पराञ्चि नक्षत्राणि पराङग्निर्दहन्नेति ।
अथ यस्मात्पृष्ठोक्थैः पराचीनैश्चार्वाचीनैश्च स्तुवते तस्मादु पराचीश्चार्वाचीश्च प्रजाः ।
पराञ्चः प्रातः प्रेरते ते सायं समावर्तन्ते ।
पराग्रेतस्सिक्तं तदर्वाक्प्रजायते २७६ । ।

पृथुर्ह वैन्यो दिव्यान्व्रात्यान्पप्रच्छ यज्ञस्य धाम परमं गुहा सन्निर्मितं महतोऽन्तरिक्षात् । कस्माद्यन्ति पवमानाः पराञ्चः कस्मादुक्थ्याः पुनरभ्याकनिक्रदति इति ।
देवा अन्यां वर्तनिमध्वरस्य मानुषास उपजीवन्त्यन्याम् । तस्माद्यन्ति पवमानाः पराञ्चस्तस्मादुक्थ्याः पुनरभ्याकनिक्रदति इति ह प्रत्यूचुः ।
यो वै देवान्मनुष्येष्वाभक्तान्वेद मनुष्यानु देवेष्वाभक्त एव देवेषु भवत्याभक्तो मनुष्येषु ।
गच्छति तं लोकं यत्र देवा नास्माद्देवता अपक्रामन्ति ।
देवा वै पवमानाः प्रजा पृष्ठोक्थानि ।
साम वै देवाः प्रजाश्छन्दांसि ।
तद्यत्पवमानसामानि पराञ्च्येव भवन्त्यथेयमृगनुनिवेष्टते तेन देवा मनुष्येष्वाभक्ताः ।
अथ यदभ्यावर्तिष्वृचं निवेष्टमानां सामानुनिवेष्टते तेनो मनुष्या देवेष्वाभक्ताः ।
स य एतदेवं वेदाभक्त एव देवेषु भवत्याभक्तो मनुष्येषु ।
गच्छति तं लोकं यत्र देवा नास्माद्देवता अपक्रामन्ति २७७

यो वै देवरूपं च मनुष्यरूपं च व्यावर्तयति वि पाप्मना वर्तते ।
देवा वै पवमानाः प्रजाः पृष्ठोक्थानि ।
तद्यत्पवमानान्पावमानीष्वेव स्तुवते तस्माद्देवा एकरूपाः सर्वे शुक्लाः ।
अथ यस्मात्पृष्ठोक्थैर्नानारूपासु नानादेवत्यासु स्तुवते तस्मादु प्रजा नानारूपाः श्वेतो रोहितः कृष्णः ।
एतद्वै देवरूपं च मनुष्यरूपं च व्यावर्तयति वि पाप्मना वर्तते य एवं वेद ।
यो वै देवानामुद्धारं वेदोदुद्धारं हरत उद्धार्यो भवति ।
बहिष्पवमानं वाव देवानामुद्धारः ।
तेन सकृद्धिंकृतेन पराचा स्तुवते ।
तस्मात्पराङुद्धारः ।
स एष एव देवानां श्रेष्ठः ।
तस्योद्धारः प्रजाः ।
प्रजापतेरेवोदुद्धारं हरत उद्धार्यो भवति य एवं वेद ।
तमेतं यज्ञस्यरसं प्रवृह्य पराङ्यस्मात्प्रजापतये प्रयच्छति तस्माद्बहिष्पवमानेन स्तोष्यन्तः प्रह्वारा इव प्रकुपिता इव सर्पन्ति ।
एवमिव वै श्रेयस उपचारः ।
तस्मादु तस्य स्तोत्रे न व्याहरेत् ।
को हि श्रेयसः परिवेषणमववदितुमर्हति ।
यो वै श्रेयसः परिवेषणमववदति यया वै स तमार्त्या कामयते तयैनं निनयति ।
अथ यत्ततोऽध्वर्युः संप्रैषान्वदति प्रजापतय एव तद्यज्ञस्य रसं प्रदाय तमाप्याययति ।
तेनास्यापीतेन रसवता स्तुतं भवति २७८

यो वै देवयशसं च मनुष्ययशसं च वेद यश एव देवेषु गच्छति यशो मनुष्येषु ।
पवमाना वै देवयशसम् ।
ते ह ते प्राणा एव ।
त एनं देवेषु निवेदयन्ते ।
अभ्यावर्ता मनुष्ययशसम् ।
ते ह तेऽपाना एव ।
त एनं मनुष्येषु निवेदयन्ते ।
एतद्वै देवयशसं च मनुष्ययशसं च ।
स य एवमेतद्देवयशसं च मनुष्ययशसं च वेद यश एव देवेषु गच्छति यशो मनुष्येषु ।
यो वै मितं चामितं च वेद मितं च हास्यामितं च बहु भवति ।
देवा वै पवमानाः प्रजाः पृष्ठोक्थानि ।
साम वै देवाः प्रजाः शस्त्राणि ।
तदेव एतत् ।
एत एवापि सर्वे देवा यत्स्तोत्राणि ।
तद्यन्मितानि स्तोत्राणि भवन्ति तस्मान्मिता देवाः ।
अष्टौ वसव एकादश रुद्रा द्वादशादित्याः ।
अथ यस्मादमितानि शस्त्राणि तस्माद्वमिताः प्रजाः ।
न तान्विद्म यावन्तो ब्राह्मणा यावन्तो राजन्या यावन्तो वैश्या यावन्तः शूद्रा इति ।
एतद्वै मितं चामितं च ।
मितं हास्यामितं च बहु भवति य एवं वेद ।
ये अर्वाञ्चस्तं उ पराच आहुर्ये पराञ्चस्तं उ अर्वाच आहुः । इन्द्र श्च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति इति ।
पवमाना वै पराञ्चः ।
तेषां चमसा अर्वाञ्चः ।
ते ह ते प्राणा एव ।
तस्मात्प्राण्यापानितुं शक्नोति ।
अभ्यावर्ता अर्वाञ्चः ।
तेषां पराञ्चश्चमसाः ।
ते ह तेऽपाना एव ।
तस्माद्वपान्य प्रानितुं शक्नोति २७९

यो वै सवनानां ज्यैष्ठ्यं वेद गच्छति ज्यैष्ठ्यं न ज्यैष्ठ्यादवरोहति ।
गायत्री वै प्रातःसवनस्य ज्यैष्ठ्यम् ।
तद्यत्तत्रान्यदन्यच्छन्दः क्रियतेऽथ तद्गायत्रमित्याख्यायते ।
त्रिष्टुम्माध्यंदिनस्य सवनस्य ज्यैष्ठ्यम् ।
तद्यत्तत्रान्यदन्यच्छन्दः क्रियतेऽथ तद्त्रैष्टुभमित्याख्यायते ।
जगती तृतीयसवनस्य ज्यैष्ठ्यम् ।
तद्यत्तत्रान्यदन्यच्छन्दः क्रियतेऽथ तज्जागतमित्याख्यायते ।
एतद्वै सवनानां ज्यैष्ठ्यम् ।
स य एवमेतत्सवनानां ज्यैष्ठ्यं वेद गच्छति ज्यैष्ठ्यं न ज्यैष्ठ्यादवरोहति ।
यो वै देवानां गृहान्वेद गृही भवति विन्दते गृहान् ।
छन्दांसि वाव देवानां गृहाः ।
अष्टाक्षरा गायत्र्! यष्टौ वसवः ।
गायत्र्! यैव वसवो गृहिणः ।
एकादशाक्षरा त्रिष्टुबेकादश रुद्रा ः! ।
त्रिष्टुभैव रुद्रा गृहिणः ।
द्वादशाक्षरा जगती द्वादशादित्याः ।
जगत्यैवादित्या गृहिणः ।
अनुष्टुभैव विश्वे देवाः ।
सवनैरिन्द्रा ग्नी ।
स य एवमेतान्देवानां गृहान्वेद गृही भवति विन्दते गृहान् ।
यो वै देवानां तृप्तिर्वेद तृप्यत्यात्मना तृप्यत्यस्य प्रजा २८०

तदु ह स्माहेयपिः सौमापः स वाद्य यजेत स वान्यं याजयेद्यो यथा महति तीर्थे सिकते गा असंबाधमानाः संतर्पयेदेवं सर्वा देवता अनुसवनं छन्दःसु अक्षरमक्षरमनु असंबाधमानाः संतृप्यन्तीर्विद्यादिति ।
अष्टाक्षरा गायत्र्! यष्टौ वसवः ।
वसूनां गायत्रं प्रातःसवनम् ।
तत्ते प्रातःसवने छन्दःस्वक्षरमक्षरमनु असंबाधमानाः संतृप्यन्ति ।
एकादशाक्षरा त्रिष्टुबेकादश रुद्रा ः! ।
रुद्रा णां त्रैष्टुभं माध्यंदिनं सवनम् ।
तत्ते माध्यंदिने सवने छन्दःस्वक्षरमक्षरमनु असंबाधमानाः संतृप्यन्ति ।
द्वादशाक्सरा जगती द्वादशादित्याः ।
आदित्यानां जागतं तृतीयसवनम् ।
तत्ते तृतीयसवने छन्दःस्वक्षरमक्षरमनु असंबाधमानाः संतृप्यन्ति ।
स य एवमेता देवानां तृप्तीर्वेद तृप्यत्यात्मना तृप्यत्यस्य प्रजा २८१

तद्यत्र ह वा एवंविद्यजत एवम्विद्वा याजयति न हैव तस्य देवा ईशते ।
यत्तन्नागच्छेयुर्यदि च ह भक्षयिष्यन्तो भवन्ति यदि च नाथ हैव गच्छन्ति ।
यदि ह शुचिर्भवति भक्षयन्ति यद्यशुचिर्प्रेक्षयन्ति ।
तद्धापि पणाय्यं यस्य प्रेक्षीवायन् ।
यो वै देवानां पात्रं वेद पात्र्! यः स्वानां भवति ।
ब्राह्मणो ह वाव देवानां पात्रम् ।
पात्र्! यः स्वानां भवति य एवं वेद ।
तद्यथा ह वै शुद्धेन शुचिना पात्रेण पिपासन्त्येवं ह वाव देवा ब्राह्मणेन शुद्धेन शुचिना पिपासन्ति ।
तस्मादु ह ब्राह्मणेन शुद्धेनैव शुचिना बुभूसितव्यम् २८२

प्रजापतिर्देवानसृजत ।
तान्मृत्युः पाप्मान्वसृज्यत ।
ते देवाः प्रजापतिमुपेत्याब्रुवन्कस्मा उ नोऽसृष्ठा मृत्युं चेन्नः पाप्मानमन्वस्रक्ष्यन्नासिथेति ।
तानब्रवीच्छन्दांसि संभरत तानि यथायतनं प्रविशत ततो मृत्युना पाप्मना व्यावर्त्स्यथेति ।
वसवो गायत्रीं समभरन् ।
तां ते प्राविशन् ।
तान्साच्छादयत् ।
रुद्रा स्त्रिष्टुभं समभरन् ।
तां ते प्राविशन् ।
तान्साच्छादयत् ।
आदित्या जगतीं समभरन् ।
तां ते प्राविशन् ।
तान्साच्छादयत् ।
विश्वे देवा अनुष्टुभं समभरन् ।
तां ते प्राविशन् ।
तान्साच्छादयत् ।
मरुतः पङ्क्तिं समभरन् ।
तां ते प्राविशन् ।
तान्साच्छादयत् ।
साध्याश्चाप्त्याश्चातिच्छन्दसं समभरन् ।
तां ते प्राविशन् ।
तान्साच्छादयत् २८३

सवनान्येवेन्द्रा ग्नी अनुप्राविशताम् ।
ततो वै तान्मृत्युः पाप्मा न निरजानात् ।
कुतो हि तस्य मृत्युः पाप्मेशिष्यते यं न निर्जानाति ।
न हैनं मृत्युः पाप्मानुविन्दति य एवं वेद ।
छन्दांसि वाव तान्मृत्योः पाप्मनोऽच्छादयन् ।
तद्यदेनाञ्छन्दांसि मृत्योः पाप्मनोऽच्छादयंस्तच्छन्दसां छन्दस्त्वम् ।
छादयन्त्येवैनं छन्दांसि मृत्योः पाप्मनो य एवं वेद ।
तद्येन येन ह वै छन्दसैवंविदार्त्विजं करोति तत्तदेव स तर्हि प्रपन्नो भवति ।
येन येन ह्येवैनं छन्दसा कुर्वन्तमुपवदति तस्मादावृश्च्यते ।
तस्य हैतस्य नैव का चनार्तिरस्ति य एवं वेद ।
य एवैनमुपवदति स आर्तिमार्च्छति ।
अथ होर्जो जानायनः कपिवनं भौवायनं पप्रच्छ यद्गायत्रं प्रातःसवनं त्रैष्टुभं माध्यंदिनं सवनं जागतं तृतीयसवनमथ केयमनुष्टुबयातयाम्नी सवनमुखान्युपापतत्यान्ताद्यज्ञं वहतीति ।
स होवाच वाग्वा अनुष्टुब्वाचो यज्ञस्तायते ।
तद्यथा वा अदो भद्र बलीवर्देन रज्ज्वभिहितेन पुनः पुनः प्रतिधावन्ति प्रतिकूलाय वा गुरवे वोद्वोढ व एवं वा एतं वाचमनुष्टुभं सवनमुखेषु पर्याणाय युञ्जन्ति ।
प्रतिकूलानीव वा एतानि यत्सवनमुखानि ।
सैषा वागेवायातयाम्न्यान्ताद्यज्ञं वहति ।
यो वा अनुष्टुभं सर्वत्रापीं वेद सर्वत्र हास्यापि पुण्ये भवति ।
अष्टाक्षरा गायत्र्! येकादशाक्षरा त्रिष्टुब्द्वादशाक्षरा जगती वागिति यज्ञायज्ञीयस्य निधनम् ।
तद् द्वात्रिंशत् । द्वात्रिंशदक्षरानुष्टुप् ।
अपि वा एतस्यै प्रातःसवनेऽपि माध्यंदिने सवनेऽपि तृतीयसवनेऽपि वा एतस्यै ब्रह्मण्यपि क्षत्रेऽपि विश्यपि वा एतस्या अस्मिँ ल्लोकेऽप्यन्तरिक्षेऽप्यमुष्मिन्स य एवमेतां अनुष्टुभं सर्वत्रापीं वेद सर्वत्र हैवास्यापि पुण्ये भवति २८४

अथ हाहीनसमाश्वत्थिं केशी दार्भ्यः केशिनः सात्यकामिनः पुरोधाया अपरुरोध ।
स ह स्थविरतरोऽहीना आस कुमारतरः केशी ।
तं होवाचां केशिन्किं मे विद्वान्राजन्यमुपाहृथा इति ।
स होवाच दहेदनुष्टुभमेव सर्वाणि छन्दांष्युपास्महे बृहतीं पशून्यज्ञं स्वर्गं लोकमिति ।
तं हास्रं विवेद ।
स ह कृपयां चक्रे ।
तं होवाच मा कृपयथाः ।
यदि राजन्यकाम्या कृपयस एष ते राजन्यः ।
अपि वै वयमन्यं राजन्यमेषिष्यामहा इति ।
स होवाच नैतत्केशिन्राजन्यकाम्या ब्रह्मचर्यमेव वै मा तदनुसम्स्मृत्यास्रमविदत् ।
चचार वै ब्रह्मचर्यम् ।
उपजरसं वावेदमशृण्म यदयमियत्कुमारकोऽभिवेदयत इति ।
एवमेवैतदनुसम्स्मृत्यास्रमविददिति ।
स यदनुष्टुभं सर्वाणि छन्दांस्युवाचाष्टाक्षरा गायत्र्! येकादशाक्षरा त्रिष्टुब्द्वादशाक्षरा जगती वागिति यज्ञायज्ञीयस्य निधनम् ।
तद्द्वात्रिंशत् ।
द्वात्रिंशदक्षरानुष्टुप् ।
एतदनुष्टुभं सर्वाणि छन्दांस्युवच ।
बृहतीं पशूनिति ।
या वा अनुष्टुप्सा बृहती ।
चतुष्पात्सु वा एषा पशुषूपहितेषु बृहत्यभवत् ।
यज्ञमिति ।
यो ह्येव पशुमान्भवति तं यज्ञ उपनमति ।
स्वर्गं लोकमिति ।
बृहती ह्येव स्वर्गो लोकः ।
अथ ह संगमन क्षैमिः सत्ययज्ञं पौलुषिं पप्रच्छाचार्येण प्रहित आरुणिना सत्ययज्ञ पौलुषे यत्स्तुता गायत्री भवति स्तूयते त्रिष्टुबस्तुता जगती कथं ताः सर्वाः संपद्य माध्यंदिनं सवनमुद्यच्छन्तीति ।
तद्ध न प्रत्युवाच ।
तेन हैनं जिगाय ।
स यत्प्रत्यवक्ष्यद्यस्माद्ब्राह्मणश्च वैश्यश्च क्षत्रियमधस्तादुपासाते अथो यदस्याद्यावभवतामथो यदेवैतद्द्वादशाक्षरं पदमिति २८५

छन्दांसि यदिमाँ ल्लोकान्व्यभजन्तेममेव लोकं गायत्र्! यभजतान्तरिक्षं त्रिष्टुबमुं जगती ।
ब्रह्म वै गायत्री क्षत्रं त्रिष्टुब्विड्जगती ।
सेयं त्रिष्टुबस्मिन्नन्तरिक्षे नालमनेनोत्पादनेनारारण्यत ।
सेमां गायत्रीम्प्राङभ्यविध्यत् ।
तां अभ्यतपत् ।
तस्या अबिभेदायतनं म उपहरिष्यत इति ।
तामब्रवीन्नमस्तेऽस्तु किंकामा माभिविध्यसीति ।
प्रदानं मे प्रयच्छेत्यब्रवीत् ।
तस्यै द्वे अष्टाक्षरे पदे प्रायच्छत् ।
सामूं जगतीमुपपल्यायत ।
तामभ्यविध्यत् ।
तां अभ्यतपत् ।
तस्या अबिभेदायतनं म उपहरिष्यत इति ।
तामब्रवीन्नमस्तेऽस्तु किंकामा माभिविध्यसीति ।
प्रदानं मे प्रयच्छेत्यब्रवीत् ।
तस्यै द्वादशाक्षरं पदं प्रायच्छत् ।
सेमामेव गायत्रीं पुनरुपपल्यायत ।
तामब्रवीद्यत्ते प्रदानं प्रादां किमु न्वेवेच्छसीति ।
सर्वमेव म आत्मानं प्रयच्छेत्यब्रवीद् ।
अथ किमु मे भविष्यतीति ।
समानं नावन्नाद्यं भविष्यति पुरस्त्वा धास्य इति ।
तथेति ।
तां पुरोऽधत्त ।
तस्यै सर्वमात्मानं प्रायच्छत् ।
तद्यद्गायत्री सर्वमात्मानं प्रायच्छत्तस्माद्ब्राह्मणः सर्वेणात्मना क्षत्रियमभ्येति ।
अथो यज्जगती न सर्वमिवात्मानं प्रायच्छत्तस्मादु क्षत्राद्विडपक्राममिव चरति ।
यां यां एव तां गायत्री च जगती च संप्रायच्छतां सैवैषा बृहत्यभवत् ।
तस्माद्बृहत्यै त्रीणि चाष्टाक्षराणि पदानि द्वादशाक्षरं च ।
सैषा गायत्री प्रथमतो युजते उच्चा ते जातमन्धसा इति ।
एषा पुरोहितावसाने ।
विन्दते पुरोधां वा पुरोधामात्रं वा य एवं वेद २८६

अथ बृहत्यथ त्रिष्टुप् ।
तदेतद्ब्रह्मणा च क्षत्रेण चोभयतोऽन्नाद्यं परिगृहीतम् ।
ब्रह्मणा च ह वा एनं क्षत्रेण चोभयतोऽन्नाद्यं परिगृहीतमुपतिष्ठते य एवं वेद ।
तस्माद्ब्राह्मणेन क्षत्रियाय न द्रो ग्धव्यं न क्षत्रियेण ब्राह्मणाय ।
समानं ह्येनयोरन्नाद्यम् ।
तस्माद्यद्ब्राह्मणो महदिव गच्छति क्षत्रियमेव स तस्यान्नाद्यस्य द्वितीयं गोप्तारमिच्छते ।
यत्क्षत्रियो ब्राह्मणमु एव ।
चतुरक्षराणि ह वा अग्रे छन्दांस्यासुरयज्ञवाहानि ।
अथ हेन्द्र स्य त्रिदिवे सोम आस ।
तं हाग्नयो गन्धर्वा जुगुपुरेत एव धिष्णयाः ।
त उ एवाशीविषाः ।
स हिरण्मय्योः कुश्योरास ।
ते ह स्म निमेषमात्रमभिसंपततः ।
तानीमानि छन्दांस्यब्रुवन्सोममाहराम यज्ञं तनवामहा इति ।
सा जगती प्रथमोदपतदोजिष्ठा बलिष्ठा भूयिष्ठा वीर्यवत्तमा मन्यमाना ।
तस्यै परेतायै सोमपालास्त्रीण्यक्षराण्यविन्दन्त ।
सैकाक्षरा पुनरागच्छद्दीक्षां च पशूंश्चाहरन्ती ।
तस्माद्य एव पशुमान्भवति तं दीक्षोपनामुका ।
अथ त्रिष्टुबुदपतत् ।
तस्यै परेतायैसोमपाला एकमक्षरमविन्दन्त ।
सा त्र्! यक्षरा पुनरागच्छत्तपश्च दक्षिणाश्चाहरन्ती ।
तस्मात्त्रिष्टुभो लोके दक्षिणा नीयन्ते तस्मादु तमेव तपस्तप्यमानं मन्यन्ते – २८७

– यो ददत् ।
अथ गायत्र्! युदपतत् ।
तामनुष्टुम्माता प्रत्यन्वैक्षत ।
तस्मान्माता पुत्रं जनं यन्तं प्रत्यन्वीक्षेत जीवन्नाहरन्नागच्छेति ।

क्त्च्क्त्च्वागेषा यत्पृष्ठानि ।
तामेतां विप्रयुञ्जते ।
तां विहरन्ति ।
सा प्रथममहः प्राप्य रथन्तरं भवति ।
इयमेव पृथिवी ।
वाग्वै रथन्तरम् ।
सैषावदति ।
सा द्वितीयमहः प्राप्य बृहती भवति यामिमां श्रेष्ठी वाचं वदतीत्यवोचदिति ।
सा हि दूराच्छ्रूयते ।
सा तृतीयमहः प्राप्य वैरूपा भवति यदिदं तिर्यग्वाच एहि प्रेह्याहरोपाहराशय पाययेति ।
सा चतुर्थमहः प्राप्य विराड्भवति ।
तूष्णीं निषद्यम् ।
एतद्ध वै वैराज्यं वाचो यत्तूष्णींनिषद्यं यामिमां श्रेष्ठिनस्तूष्णीमासीनस्यैव जिज्ञासन्ते ।
सा पञ्चममहः प्राप्य शक्वरी भवति यया प्रशिष्टश्शक्नोति ।
सा षष्ठमहः प्राप्य रेवती भवति ययान्नाद्यं प्रदीयते ।
सा न मासि-मास्यात्तव्या ।
लेलिभस्यैतदाजानं यामिमां लेलिभा वाचं वदन्ति ।
इमां वा अयं ह्योऽवददिमां पूर्वेद्युरिमां पूर्वसमाम् ।
समानीं बत वाचं वदति न बतैनं पर्येतीति ।
एवं तद्यन्मासि-मासि पृष्ठान्युपयन्ति १

क्त्चथ यथा तूष्णीमासित्वा यदेव कल्याणं यत्पुण्यं तद्व्याहरेत् ।
सा व्याहृतं बत व्याहार्षीद्व्याहर्ता बतेति ।
एवं तद्यदुपरिष्टात्संवत्सरस्य पृष्ठान्युपयन्ति ।
अभ्येव रथन्तरेण क्रन्दति रेत एव बृहता सिञ्चति गर्भानेव वैरूपेण दधाति जनयत्येव वैराजेन वर्धयत्येव शक्वरीभिरन्नाद्यमेव रेवतीभिः प्रदीयते ।
तत्कुतो मासि-मासि जनिष्यते ।
यो वै मास्यो गर्भोऽवपद्यतेऽस्रावीदिति वै तमाहुः ।
स यथा सामि गर्भाः पतेयुर्यथा वामा ओषधीर्दायुस्ताः किं दिता स्युश्शुष्येयुरेवैवं तद्यन्मासि-मासि पृष्ठान्युपयन्ति २

क्त्चथ यथो संवत्सरं भृत्वा गर्भं जनयेदृतौ पक्वा ओषधीः प्रचिनुयुस्तासां कामान्कुर्वीरन्नेवं तद्यदुपरिष्टात्संवत्सरस्य पृष्ठान्युपयन्ति ।
अथ ह स्माह चित्रो गाङ्ग्यायनि स्पन्दनैषा बहुदोहिनी यत्पृष्ठानि ।
कोऽहरह स्पन्दनायै धारयितॄनेषिष्यति ।
न वा एतान्यव्यूढे दुह्रे नो वा एतान्युपरिष्टाद्व्यूढे दशरात्रे गायत्र्! या परिहृतानि दुह्रे ।
स यथा स्पन्दनां रज्जुभिर्व्यपतत्य दुह्युरेवमेतान्युपरिष्टाद्व्यूढे दशरात्रे गायत्र्! या परिहृतानि दुह्रे ।
स यथा उपसृजेदेवं तद्यद्गायत्रमुखस्त्र्! यहो यथाभिदध्यादेवं तद्यद्गायत्रमध्यो यथापहृत्य दुह्यादेवं तद्यद्गायत्रोत्तमः ।
तस्मादुपरिष्टादेवोपेत्यानीति ।
तदु होवाच शाट्यायनिर्यो वा एष चन्द्र मा एष वाव संवत्सर एष प्रजापतिरेष मास इति ।
एतावान्वावैष यावान्मासः ।
एतं वावैष आप्त्वा पुनः पल्ययते ।
स पञ्चदश रात्रीरूर्ध्व एति पञ्चदशार्वाङ् ।
या आपूर्यते ता ऊर्ध्व एत्यथ या अपोछंस्ता अर्वाङ् ।
स आपूर्यमाणोऽमुं लोकं गच्छति ।
सोऽमुना लोकेन संस्पृश्यान्नं भवति ।
स यदस्य तत्र स्वद्यं तत्स्वद इत्यपोछन्निमं लोकं आगच्छति ।
स इमा अप ओषधीः प्रविशति ।
स इमा अप ओषधीः प्रविश्यास्वप्स्वोषधीष्वात्मानं न्युद्यापूर्यमाणोऽमुं लोकं गच्छति ३

क्त्च्स एवमेव पुनः पल्ययमानस्संवत्सरमाप्नोति ।
स यावद्ध वै द्वादशभिस्संवत्सरैरवरुन्द्धे तावदेकेनैव संवत्सरेणावरुन्द्धे य एवं विद्वान्मासि-मासि पृष्ठान्युपैति ।
तानेतांश्चतुरोऽभिप्लवानुपयन्ति ।
तेषां चतुर्विंशती रात्र्! यः ।
चतुर्विंशत्यर्धमासस्संवत्सरः ।
तदेषामुपरिष्टात्संवत्सरस्य मासि-मासि संवत्सर आप्तो भवति ।
पृष्ट्यं पञ्चममुपयन्ति ।
तदेषां उपरिष्टात्संवत्सरस्य मासि-मासि पृष्ठान्युपेतानि भवन्ति ।
अथ ह स्माह महित्थश्शैन्मिषिर्यं वा इममाहुरपृष्टोऽधुवकोष्णीषः कुलस्य कुलस्योद्भिदा वेष्टत इत्येष ह वाव सोऽपृष्ठोऽधुवकोष्णीषो य एव निर्हृतपृष्ठ्यष्षडहः ।
ते किं तत्पृष्ठ्यस्य षडहस्य स्तोमानेव कुर्वन्त आद्रि येरन् ।
अभिप्लवानेवैतान्पञ्चोपेत्योपरिष्टादेव पृष्ठान्युपेत्यानीति ४

क्त्चसौ वा आदित्योऽत्राग्र आसीद्यत्रैतच्चात्वालम् ।
स इदं सर्वं प्रातपत् ।
तस्य देवाः प्रदाहादबिभयुः ।
तेऽब्रुवन्सर्वं वा अयमिदं प्रधक्ष्यति ।
एतेमूर्ध्वमुदूहामेति ।
तं षड्भिर्मासैरूर्ध्वमुदौहन् ।
तमेकविंशे विषुवत्यध्यादधुः ।
स एष एकविंशे विषुवत्यध्याहितस्तपति ।
तद्ये च ह वा इत ऊर्ध्वा लोका ये चामुतोऽर्वाञ्चस्तेषामेष एतदुभयेषां विषुवति ।
तद्यदुभयेषां विषुवति तस्माद्विषुवान्सः ।
यथा वै रथनाभावरास्समग्रा एवं हैतस्मिन्सर्वे लोकास्समग्राः ।
तान्वा एतानेके परस्ताद्विषुवत ऊर्ध्वानेव षडहानुपयन्ति ।
यथैवैत आ विषुवत उपयन्त्येवमेवापि पराञ्चः ।
पराङ्वै स्वर्गो लोकः ।
पराञ्च एतं स्वर्गं लोकं रोहाम ।
प्रत्यवरोहस्स यदर्वाञ्च उपेयाम ।
अथैवमप्रत्यवरूढमिति वदन्तस्ते ये ह ते तथोपयन्ति य एवं तस्मादादित्यादर्वाञ्चो लोकास्तानेवाप्नुवन्ति ।
यद्यपि बहून्संवत्सरानुपयन्त्यथ तानेवाप्नुवन्ति ।
अथ य एवैतान्पराचश्चार्वाचश्च षडहानुपयन्ति त एवैतानुभयाँ ल्लोकानाप्नुवन्ति पराङियानर्वाङिति ५

क्त्च्स इमं लोकमन्तिकादभ्यतपत् ।
ते वायुमवस्तात्पर्यौहन् ।
तेनैनमशमयन् ।
अपो ह वा एष एतद्बिभर्ति ।
तेऽद्भिरेवैनं तदशमयन् ।
सोऽमुं परं लोकं प्रातपत् ।
ते चन्द्र मसं परस्तात्पर्यौहन् ।
तेनैनमशमयन् ।
प्रजापतिर्वै चन्द्र माः ।
प्रजापतिनैवैनं तदशमयन् ।
त्रिषु ह वा अयमिदं लोकेषु पवते ।
त्रिषु तत आदित्यस्त्रिषु नक्षत्राणि तस्मात्तान्यणिष्ठाणि परार्ध्यानि ह्येते ह वाव द्वादश देवलोकाः ।
अथ यथोषसो वा यद्वैवमेवान्ये लोकाः ।
स इमं लोकमोकं प्रजानन्नभ्यवाविध्यत्तन्त्रिभिः ।
स्वरसामभिरवस्तादुपादधुः ।
सोऽमुं परं लोकं प्रापश्यत् ।
तमुदेवाविध्यत्तन्त्रिभिः ।
स्वरसामभिः परस्तादुपादधुः ।
तमेतदत्रास्पृण्वन् ।
यदस्पृण्वंस्तत्स्वराणां स्वरत्वम् ।
सप्तदशा स्वरसामानो भवन्ति ।
अन्नं वै सप्तदशम् ।
अन्नाद्य एवैनं तदध्यादधुः ।
अथो प्रजापतिर्वै सप्तदशः ।
प्रजापतिनैवैनं तदन्नाद्येऽध्यादधुः ।
स एषो हि पूर्वेऽन्नाद्येऽध्याहितस्तपति ।
ते वा एते स्वरसामान एकपञ्चाशत्सत्रिंशिनीर्विराजस्संपद्यन्ते पञ्चविंशतिरवस्तात्पञ्चविंशतिः परस्तात् ।
अथ यैकपञ्चाशी तस्यामेष एतन्मध्ये व्यूह्याध्याहितस्तपति ।
तन्न शोको न हिमो नाशनायति न पिपासति नास्य का चनावृत्तिरस्ति ।
न ह वा अशनायति न पिपासति नास्य का चनावृत्तिर्भवति य एवं वेद ६

क्त्च्स यथा सर्पिषः कुम्भं वा मधुकुम्भं वा जालोद्दिताशयं ह्रियेरन्नेवमेवैष एताभिर्विराड्भिः परिगृहीतः ।
प्राञ्च प्रत्यञ्च यत एताभिर्धृतः ।
तान्वा एतानेके स्वरसाम्नोऽग्निष्टोमानेव कुर्वन्ति स्तोत्रबृहतीमिदं कुर्म इति वदन्तः ।
ये वै त्रयोऽग्निष्टोमाष्षट्त्रिंशत्तानि स्तोत्राणि ।
द्वादशैकस्य द्वादशैकस्य द्वादशैकस्य तत्षट्त्रिंशत् ।
षट्त्रिंशदक्षरा वै बृहती ।
बृहती स्वर्गो लोकः ।
सैतं स्पृशति ।
ते बृहत्यैतं स्वर्गं लोकं गच्छामेति ।
ते ह ते गच्छन्त्येव यथा त्वृतेऽन्नाद्गच्छेदेवम् ।
अथ यदुक्थ्या भवन्ति ।
पशवो वा उक्थानि ।
अन्नं पशवः ।
स यथान्नेन सह श्रेयांसं प्रतिनन्दन्तमुपेयादेवमेवैनमेतदुक्थ्यै स्वरसामभिरुपयन्ति ।
अथो हैतौ देवतत्त्वावेव यद्विश्वजिदभिजितौ ।
अन्नमेतद्यत्स्वरसामानः ।
स यथा सूनायामन्नमाधाय श्रेयस उपहरेदेवमेवास्मा एतद्विश्वजिदभिजिद्भ्यामेतदन्नमुपहरति ।
अथो हैषा शान्तिरेव क्रियते ।
अग्निष्टोमसाम स्यादाग्निमारुतं शस्त्रं विषुवान् ।
क एतांस्त्रीनग्नीनभ्युपेत्य शोभयतः प्रदग्धो हैव शयीत ।
तद्यदुक्थान्यन्तरेण भवन्ति ।
पशवो वा उक्थानि ।
अन्नं पशवः ।
अन्नेनैतमशमयन् ।
नार्मेधेनैवैनं तच्छमयित्वान्तत उपयन्ति ७

क्त्च्ता उ वा एतौ विश्वजिदभिजितौ ।
अष्टावन्यस्सत्रिंशिनीर्विराजस्संपद्यन्तेऽष्टावन्यः ।
अयं वै लोकोऽभिजिदसौ विश्वजित् ।
पशव स्वरसामानः ।
तद्यदभिजिता स्तुत्वा स्वरसामभि स्तुवतेऽस्मिन्नेवैतल्लोके पशून्प्रतिष्ठापयन्ति ।
अथ यत्स्वरसामभि स्तुत्वा विश्वजिता स्तुवते तस्मादमुतःप्रदानात्पशवो जीवन्ति ।
तस्य वा एतस्य वैषुवतस्याह्नो दश च पञ्चविंशानि स्तोत्राणि भवन्ति द्वे च स्तोत्रिये ।
ततो यानि दश पञ्चविंशानि स्तोत्राणि महाव्रतं तत् ।
तैरस्य वैषुवतेऽहनि महाव्रतमुपेतं भवति ।
अथ ये द्वे स्तोत्रिये आदित्य एव स एतस्मिन्नहन्प्रतिष्ठितः ।
अथ ह स्म वा एतत्पुरा त्रिर्महाव्रतमुपयन्त्यारम्भणीयेऽहन्वैषुवते महाव्रतीये ।
तस्य वा एतस्यारम्भणीयस्याह्नश्चतुर्दश च पञ्चविंशानि स्तोत्राणि भवन्ति दश च स्तोत्रियाः ।
ततो यानि चतुर्दश पञ्चविंशानि स्तोत्राणि महाव्रतं तत् ।
तैरस्यारम्भणीयेऽहनि महाव्रतमुपेतं भवति ।
अथ या दश स्तोत्रिया दशाक्षरा विराट् ।
अन्नं विराट् ।
तेनो हावसेन यन्त्या वैषुवतादह्नः ।
अथ ये द्वे स्तोत्रिये विषुवतोऽतिरिच्येते तदु हान्नपानम् ।
द्वयमु ह वा अन्नस्य रूपं यच्चैवाश्नाति यच्च पिबति ।
स यथाश्नंश्च पिबंश्चेयादेवमेवैतदेताभ्यां यन्त्या महाव्रतीयादह्नः ।
त एतं स्वर्गं लोकमागच्छन्ति ।
एतन्महाव्रतीयमहः ।
एष वाव स्वर्गो लोको यन्महाव्रतीयमहः ।
स य एतदेवं वेद त्रिरुपेतमस्य महाव्रतं भवति गच्छति स्वर्गं लोकम् ८

क्त्च्तदाहुस्तमीं हिन्वन्त्यग्रुव इत्येवैतस्याह्नः प्रतिपत्कार्येति ।
तमर्केभिस्तं सामभिरिति शीर्ष्णस्तदिदास भुवनेषु ज्येष्ठमित्यात्मनः ।
तत्तदितीव वा एतेनाह्ना चरन्ति ।
ततो ह वै प्रजापतिः ।
ततो ह वा एष सर्वासां देवतानाम् ।
तत्पितैतदहः प्रजेतराणि ।
स यथा पुत्रः पितरमागत्य तत ततेति ह्वयेत्तादृक्तत् ।
सो वा उभयरूपा भवति ।
तमिति वै पुंसो रूपमग्रुव इति स्त्रियै ।
उभयमु ह वा एतद्भूत्वा प्रजापतिः प्रजज्ञे ।
तदाहुरभ्युदिते वैषा प्रतिपत् ।
योगे त्वागते पवस्व वाचो अग्रिय इत्येव प्रतिपत्कार्येति ।
मनो वै प्रजापतिः ।
मनो वै वाचोऽग्रम् ।
तदेनं तत्स्वेनैव रूपेणारभन्ते ।
सो वै मिथुना-भवति ।
पवस्वेति वै पुंसो रूपं वाच इति स्त्रियै ।
तदेतन्मिथुनं प्रजननं क्रियते ।
मिथुनेन जायते य एवं वेद ।
तस्मादेषैव प्रतिपत्कार्या ।
उपास्मै गायता नर इति द्वितीया ।
तदेतस्मादह्नो न यन्ति ।
दविद्युतत्या रुचेति तृतीया प्रत्यक्षमेतस्याह्नो रूपम् ।
तमीं हिन्वन्त्यग्रुव इति चतुर्थी याभ्युदिता प्रतिपत्तां नेदन्तरयामेति ९

सना च सोम जेषि चेति दशर्चं भवति ।
ऋषयो वा एतदृद्धिकामा उपोत्थानं प्रियं वाचोऽपश्यन् ।
अथा नो वस्यसस्कृध्यथा नो वस्यसस्कृधीति तेनास्तुवत ।
ततो वै ते सर्व एवार्ध्नुवन् ।
सर्वे हैवर्ध्नुवन्ति य एवं विद्वांस एतेन दशर्चेन स्तुवते ।
तस्मिन्ह स्माह शक्तिर्विराजं गेयां सना च सोम जेषि च पवमान महि श्रव एकं द्वे त्रीणि चत्वारिपञ्च षट्सप्ताष्टौ नव दश हुंभा ओइ भूरिति ।
तदाहुः कृत्रिमेवैषा विराडुपाकार्येव ।
संपदं लोभयति ।
ओमित्येतदेवाक्षरं गेयमिति ।
एतद्ध वा इदं सर्वमक्षरम् ।
यथा सूच्या पलाशानि संतृण्णानि स्युरेवमेतेनाक्षरेणेमे लोकास्संतृण्णाः ।
दशधा वा एतदतिविध्येमान्क्षरति शतधेमान्सहस्रधेमान् ।
तस्मादेतदेवाक्षरं गेयमिति पर्यासो भवति ।
यः पर्यासो कामस्स न उपाप्तोऽसदिति ।
ताः पञ्चविंशति स्तोत्रियास्संपद्यन्ते ।
पञ्चविंशो वै प्रजापतिः ।
प्राजापत्यं महाव्रतं तत्तत्सलक्ष्म क्रियते १०

अथ ह स्माहार्यकचित्सर्वमेवैतदहश्चतुर्विंशं कार्यम् ।
एकमेवैतत्स्तोत्रं पञ्चविंशं कुर्युः ।
अभ्यारोहो वा एष एकस्य स्तोत्रस्य यत्सर्वं पञ्चविंशं कुर्वन्ति ।
तथैतत्स्तोत्रमनभ्यारूढं भवतीति ।
तदु होवाच शाट्यायनिः कर्तपत्यमिवैतद्यन्न्वावैकस्यै स्तोत्रियायै छिद्यते यद्द्वाभ्यां यत्तिसृभ्यः ।
तस्य न्वेव प्रायश्चित्तिं विन्दन्ति वा न वाथ किं यदेकादशभ्यश्छिद्यते ।
को तस्य प्रायश्चित्तिः ।
एकदेवत्यं वा एतदहः प्राजापत्यमेव ।
प्रजापतिं वावैतेनाह्ना परिवेविषति ।
तस्मात्सर्वमेवैतदहः पञ्चविंशं कार्यमिति ।
तस्य त्रीणि शतानि स्तोत्रिया भवन्ति द्वाषष्टिश्च ।
ततो यानि हि त्रीणि शतानि विराट्सा ।
अथ या षष्टिरूधस्तत् ।
अथ ये द्वे स्तनावेव तावेतस्यैवाह्नो दोहाय ११

सुषमिद्धो न आ वहेत्याप्रीराज्यं भवति ।
यत्र ह वै क्व चाप्रीराज्यं प्रजापतेरेव तत् ।
प्रजापतिमेव तेनाप्रीणन्ति ।
ता नश्शक्तं पार्थिवस्येति मैत्रावरुणम् ।
तद्वदह भवति ।
अनिरुक्तमु वै प्राजापत्यम् ।
प्राजापत्येऽहंस्तत्तत्सलक्ष्म क्रियते ।
महं इन्द्रो य ओजसेत्यैन्द्रं भवति ।
निष्कस्य हैतन्मणे रूपम् ।
तस्मान्निष्कं मणिं स्रजं पुरस्ताद्बिभ्रति ।
तदिदास भुवनेषु ज्येष्ठमिति रथस्य हैतद्रू पम् ।
तस्मात्तमभिहायैव तिष्ठन्ति ।
मह स्तवानो अद्रि व इति हस्तिनो हैतद्रू पम् ।
तस्मात्तं पार्श्वत इवाधिरोहन्ति ।
तानि वा एतानि महद्रू पाणि संपद्यन्ते ।
महद्रू पो वै प्रजापतिः ।
प्राजापत्यं महाव्रतं तत्तत्सलक्ष्म क्रियते ।
उप हैनमेतानि रूपाण्यक्रीतानि तिष्ठन्ते य एवं वेद ।
इयं वामस्य मन्मन इत्यैन्द्रा ग्नं भवति ।
इन्द्रा ग्नी पूर्व्यस्तुतिरभ्राद्वृष्टिरिवाजनीति ।
अजनीति वा आहुर्जातम् ।
जायत उ एतेनाह्ना ।
यथा ह वा इदमाण्डान्निर्भिद्येरन्नेवमेवैतस्मादह्नो निर्भिद्यन्ते ।
शृणुतं जरितुर्हवमिन्द्रा ग्नी वनतं गिरः
ईशाना पिप्यतं धियः
मा पापत्वाय नो नरेन्द्रा ग्नी माभिशस्तये
मा नो रीरधतं निदे
इति पाप्मन एवैषोपहतिः १२

उच्चा ते जातमन्धसेति माध्यंदिनस्य पवमानस्यान्धस्वतीर्गायत्र्! यो भवन्ति प्राजापत्याः ।
प्राजापत्येऽहंस्तत्तत्सलक्ष्म क्रियते ।
तासु गायत्रमुक्तब्राह्मणम् ।
अथामहीयवं प्राजापत्यं साम प्राजापत्येऽहन्क्रियते ।
अहरेव तद्रू पेण समर्धयन्ति ।
तेनैभ्यः समृद्धेन स्वायां जनतायामर्धुकं भवति ।
अथ दोहादोहीयं दुग्ध्या एव एतस्याह्नो दोहाय ।
अथ हरिश्रीर्निधनम् ।
श्रीर्वै हरिश्रीर्निधनम् ।
एतेन वा इन्द्र स्सर्वेषां देवानां श्रियमगच्छत् ।
श्रियमेवैतेन गच्छन्ति ।
ता दश स्तोत्रिया गायत्र्! यां संपद्यन्ते ।
दशाक्षरा विराट् ।
अन्नं विराट् ।
मुखं गायत्री छन्दसाम् ।
मुखत एवैतदात्मनोऽन्नाद्यं दधते ।
पुनानस्सोम धारयेत्युभयरूपा बृहती भवति ।
एषा ह वा उभे सामनी उद्ययाम ।
तस्मादेतां कुर्वन्त्येव बृहत्साम्नः कुर्वन्ति रथन्तरसाम्नः ।
आ पृच्छ्येन सधस्थेन प्रत्नेन धरुणेन च
पिबाच्युदिन्द्र त्वं सोममृचोर्गर्भे अध्याहितः
इति यत्र ह वै क्व चैषा बृहती क्रियते न हैव तस्येन्द्र ईशेत तं नागच्छेत् १३

तासु रौरवं प्रज्ञातमग्निष्टोमसाम ।
प्रज्ञातमग्निष्टोमसाम नेदन्तरयामेति ।
अथार्कपुष्पमन्नं वा अर्कः ।
तस्यैतत्पुष्पं यदारण्यम् ।
तद्ध्यरण्ये जायत आरण्यस्यैवान्नाद्यस्यावरुद्ध्यै ।
अथाभीशवं तृप्त्या एव ।
तर्पयन्त्येवैनमेतेन ।
अथ पञ्चविंशत्यक्षरनिधनमाङ्गिरसम् ।
अङ्गिरसो वा ऋद्धिकामास्तपोऽतप्यन्त ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
ततो वै ते सर्व एवार्ध्नुवन् ।
सर्वे हैवर्ध्नुवन्ति य एवं विद्वांस एतेन साम्ना स्तुवते ।
तत्पञ्चविंशत्यक्षरनिधनं भवति ।
पञ्चविंशो वै प्रजापतिः ।
प्राजापत्यं महाव्रतं तत्तत्सलक्ष्म क्रियते ।
अथ नौधसं प्रज्ञातं ब्रह्मसाम ।
प्रज्ञातं ब्रह्मसाम नेदन्तरयामेति ।
अथ पृश्नि अन्नं वै पृश्नि अन्नाद्यस्यैवावरुद्ध्यै ।
अथ रौहिणकम् ।
एतेन वै प्रजापतिरेकशफानां पशूनां काममारोहत् ।
तद्यत्काममारोहत्तद्रौ हिणकस्य रौहिणकत्वम् ।
कामं पशूनां रोहति य एवं वेद ।
यथा ह वा इम आरण्याः पशवो मृगा एवमेतेऽग्र एकशफाः पशव आसुः ।
तानेतैरेव रौहिणकस्य किट्किटाकारैर्ग्राममुपानयत् ।
तत्त्रयोदशनिधनं भवति त्रयोदशस्य मास उपाप्त्यै ।
तद्वा अशीतिभिस्संपन्नम् ।
आशयन्त्येवैनमेतेन ।
अथ दैर्घश्रवसमन्नं वै दैर्घश्रवसमन्नाद्यस्यैवावरुद्ध्यै ।
अथ समन्तं समन्ताः प्रजापशुभिरसामेति ।
अथ यौधाजयं त्रिणिधनं सवनानां क्ळ्प्त्यै ।
अथौशनमन्त्यं साम ।
अन्त्येन साम्नान्त्यं स्वर्गं लोकमश्नवामहा इति १४

तदाहुस्तवश्शाव्यमेवैतस्याह्नः पृष्ठं कार्यमिति ।
तस्यैषा कल्याण्येव प्रशंसा न त्वेवास्मिन्द्वौ संपादयतः ।
वामदेव्यमेवेत्याहुः ।
वामदेव्यं हि ।
तद्ध वै प्रत्यक्षं वामदेव्यं यद्रा जनम् ।
तस्य प्राणेन प्रस्तौति ।
ऋचा वै वामदेव्यस्य प्रस्तौति ।
प्राणेनैतस्य हिं हिं हिं प्राणोऽसदिति वै हिंकुर्वन्ति ।
यथा ह वै वयस आशय एवं राजनस्य वामदेव्यम् ।
प्रजापतिर्वै पितादित्यः पुत्रः ।
प्रजापतिर्वामदेव्यमादित्यो राजनम् ।
तस्मादेष एतयोराभावत्तरं तपति ।
एतद्ध्यस्मात्तेजो निर्भिन्नम् ।
तद्वा अशीतिभिस्संपन्नम् ।
एकैकस्यां स्तोत्रियायां द्वे द्वे अशीत्यौ संपद्येते ।
ताः पञ्चाशदशीतयस्संपद्यन्ते ।
द्वे ह वा अशीत्यावहश्चैव रात्रिश्च ।
ताभ्यामेनमाशयन्ति ।
आशयन्त्येवैनमेताभ्याम् ।
तस्य यन्निधन पृष्ठान्येव तानि १५

वागिति रथन्तरम् ।
इळेति वैरूपम् ।
तच्छक्वर्यस्तद्रे वतयः ।
स्वरिति वैराजम् ।
बृहदिति बृहत् ।
भा इत्यसौ वा आदित्यः ।
भा इत्येतदेवास्य निधनम् ।
एतस्य सलोमतामश्नुते य एवं वेद ।
तदेतत्सर्वाणि पृष्ठान्यभिवदत्येतेन सामनिधनेन ।
त उ वै पञ्च पञ्चविंशास्सामनिधनानां संस्तुतानां संपद्यन्ते ।
तानु एतान्निधनैरेव होतानुशंसति ।
तदाहुरात्मनाग्रे प्रतिपद्यमथ शीर्ष्णा ।
आत्मा वा अग्रेऽथ शिर इति ।
तदु ह तद्यथा कर्तं पतेत्तादृक्तद्यत्पञ्चविंशादात्मनस्त्रिवृच्छिरोऽभि प्रत्यवरोहेयुः ।
शीर्ष्णैव प्रतिपद्यम् ।
सर्वा ह वा एतद्देवता स्तोत्रं प्रत्युपतिष्ठन्ति मया प्रतिपत्स्यते मया मयेति ।
स यदि शीर्ष्णा प्रतिपद्येत यैव शिरःप्रतिपद्देवता भवति तामेव तेनर्ध्नोति ।
यदि पक्षेण यैव पक्षौप्रतिपद्देवता भवति तामेव तेनर्ध्नोति ।
यदि पुच्छेन यैव पुच्छंप्रतिपद्देवता भवति तामेव तेनर्ध्नोति ।
यद्यात्मना यैवात्मनःप्रतिपद्देवता भवति तामेव तेनर्ध्नोति ।
अन्तरिता इतरा देवता भवन्ति ।
सर्वा उ ह वै देवताश्शीर्षन्नेवेमे वै वसवः १६

इमे रुद्रा इम आदित्या इमे विश्वे देवाः ।
अयमेवायं लोक इदमन्तरिक्षमयमसौ लोक इमा दिश श्रोत्रमिदं रथन्तरमिदं वामदेव्यमिदं बृहदिदं यज्ञायज्ञीयम् ।
तदेतच्छीर्ष्णा प्रतिपद्यमानस्सर्वाभिर्देवताभिस्सर्वैरेभिर्लोकैस्सर्वैस्सामभिरनन्तरायं प्रतिपद्यते ।
स यदितोऽन्येनाङ्गेन प्रतिपद्येत यैव तत्प्रतिपद्देवता स्यात्तामेवर्ध्नुयात् ।
अन्तरिता इतरा देवता स्युः ।
अथैतच्छीर्ष्णा प्रतिपद्यमानस्सर्वाभिरेव देवताभिरनन्तरायं प्रतिपद्यते ।
अथो हैतद्देवतानां प्रियं यच्छीर्ष्णा प्रतिपद्यते सर्वा नो नापरात्सीदिति १७

रेतो वा एतदग्रे प्रविशति यद्गायत्रम् ।
ततोऽन्यान्यङ्गानि विक्रियन्ते ।
प्राणो वा एष प्रविशति यद्गायत्रम् ।
तमन्यान्यङ्गान्युपसंसीदन्ति ।
स इमान्प्राणानाकाशानभिनिर्मन्थति ।
प्राणो वै गायत्रः ।
गायत्रं शिर एव ।
तदायतनो वै प्राणो यच्छिरः ।
तस्मात्त्रिवृतैव शीर्ष्णा प्रतिपद्यमथ पञ्चदशेन पक्षेणाथ सप्तदशेनाथैकविंशेन पुच्छेनाथ पञ्चविंशेनात्मना ।
तदूर्ध्वाः कीर्तिमूर्ध्वा श्रियमूर्ध्वा स्वर्गं लोकं रोहन्ति ।
अथो हैषां तैरेव ज्योतिष्टोमस्य स्तोमैश्शिवैश्शान्तैरेतदहः परिष्टुतं भवति ।
अथो हैषामेत एव ज्योतिष्टोमस्य स्तोमाश्शिवाश्शान्ताः परिमाद्भाजनं भवन्ति १८

तदेतत्सर्वपृष्ठं सर्वस्तोममहः ।
तद्यदेतेन सामनिधनेन सर्वाणि पृष्ठान्यभिवदति तेन सर्वपृष्ठम् ।
अथ यदेते ज्योतिष्टोमस्य स्तोमाश्शिवाश्शान्ताः परिमाद्भाजनं भवन्ति तेन सर्वस्तोमम् ।
संपदा हैव त्रिणवत्रयस्त्रिंशौ स्तोमावभिसंपद्येते ।
सर्वपृष्ठेन हास्य सर्वस्तोमेनैतेनाह्ना स्तुतं भवति य एवं वेद ।
तेन हैतेनैकेऽपि तृतीयं कृत्वा स्तुवत एकं वावेदं सामेति वदन्तः ।
तेषां ह तेषाममुष्मिँ ल्लोके नैव शिरश्चान्यानि चाङ्गानि विज्ञायन्ते १९

पिण्डाः पिण्डा इव हि भवन्त्यक्रताः ।
यथाङ्गमेव स्तोतव्यम् ।
ते हैवामुष्मिँ ल्लोके साङ्गास्सतनवोऽमृतास्संभवन्ति ।
अथ हैके सकृदेव शीर्ष्णे हिंकुर्वन्ति पराङेतद्यच्छिर इति वदन्तः ।
त्रिस्त्रिरितरेभ्योऽङ्गेभ्यः ।
ते त्रयोदश हिंकारास्संपद्यन्ते ।
एवं त्रयोदशस्य मास उपाप्तिरिति ।
तदु ह शश्वन्न तथा ।
त्रिरेव शीर्ष्णे हिंकुर्वन्तस्त्रिस्त्रिरितरेभ्योऽङ्गेभ्यः ।
ते पञ्चदश हिंआरास्संपद्यन्ते ।
पञ्चदशो वा इन्द्र ः! ।
षन्द्रं महाव्रतं तत्तत्सलक्ष्म क्रियते २०

तदाहुर्नौधसमेवैतस्याह्नो ब्रह्मसाम कार्यमिति ।
तद्ध तत्पक्षमनुवदति ।
रथन्तरमेव श्यैतमेव कार्यमिति ।
तदु ह तत्पक्षमेवानुवदति ।
बृहदेव पञ्चनिधनमेव वामदेव्यं कार्यमिति ।
आत्मानं हैव तदनुवदति ।
श्रायन्तीयमेव कार्यमिति न ह वै किं चन श्रायन्तीयमनुवदति ।
महावैष्टम्भमव कार्यम् ।
तद्दिङ्निधनं भवति ।
दिशो वै पृष्ठानि ।
इयमेव प्राची दिग्रथन्तरमियं बृहदियं वैरूपमियं वैराजममूर्महानाम्नीरिमा रेवतयः ।
दिग्भ्यो वा एतस्मा अन्नाद्यं हरन्ति ।
दिग्भ्यो वा अस्मा अन्नाद्यं ह्रियते य एवं वेद ।
अथो हैषामेतेनैव सर्वाणि पृष्ठानि ब्रह्मसामवन्ति भवन्ति ।
तस्मादु हैतत्सामैतस्मादह्नो नान्तरित्यम् ।
तदु सतोबृहतीषु भवत्युत्क्रान्त्या एवानपभ्रंशाय २१

तदाहुरिलान्दमेवैतस्याह्नो अग्निष्टोमसाम कार्यमिति ।
तस्यैषा कल्याण्येव प्रशंसा ।
अतिरिच्यते यद्व्यवच्छिन्द्युरामणीयं तद्यददः पक्षम् ।
इलान्दं तदार्भवस्य पवमानस्यानुष्टुभि कार्यं यदभ्युदितं तन्नेदन्तरयामेति ।
वारवन्तीयमेव कार्यमिति ।
तस्यैषा कल्याण्येव प्रशंसा ।
निषिद्धमिव तु यावद्धैव कृत्वो यजते तावद्बुभूषति तावत्कामयते श्रेयान्स्यां श्रेयान्स्यामिति ।
तदार्भवस्यैव पवमानस्य गायत्र्! यां कार्यं यदभ्युदितं तन्नेदन्तरयामेति ।
तदु वा आहुर्यद्वावान्या वाङ्नातिवदति तदेतस्याह्नोऽग्निष्टोमसाम कार्यम् ।
यज्ञायज्ञीयं वावान्या वाङ्नातिवदति ।
वाग्वै यज्ञायज्ञीयम् ।
कुतो हि वाग्वाचमतिवदिष्यति ।
तस्मादेतस्याह्नो यज्ञायज्ञीयमेवाग्निष्टोमसाम कार्यमिति ।
अथैतच्चतुस्त्रिंश-संमितमनुष्टुभि कुर्वन्ति ।
त्रयस्त्रिंशद्वै देवताः ।
प्रजापतिश्चतुस्त्रिंशः ।
सप्रजापतिका एवैतेन देवा ऋध्नुवन्ति ।
अथ यदारम्भणीयेऽहंस्त्रयस्त्रिंशत्संमितं भवति देवता एव तेनर्ध्नुवन्ति ।
अथैतेन सप्रजापतिका एवैतेन देवता अन्तत ऋद्ध्वाप्त्वोत्तिष्ठन्ति २२

तदाहुः कां देवतां दीक्षमाणा अनुनिषीदन्ति कामनूत्तिष्ठन्तीति ।
स ब्रूयादग्निं देवतानां दीक्षमाणा अनुनिषीदन्त्यादित्यमनूत्तिष्ठन्तीति ।
तस्माद्दीक्षितान्सत आहुरासत इति यद्यपि ते शयीरन्नथोत्तिष्ठेयुः ।
अग्निर्हि देवानामासीनानां श्रेष्ठः ।
अग्निदेवत्या हि तर्हि भवन्ति ।
तस्मादुत्थितान्सत आहुरुदस्थुरिति यद्यपि त आसीरन्नथो शयीरन् ।
आदित्यो हि देवानामुत्थितानां श्रेष्ठः ।
आदित्यदेवत्या हि तर्हि भवन्ति ।
तदाहुः के भूत्वोत्तिष्ठन्तीति ।
स ब्रूयान्मनुष्या भूता दीक्षन्ते देवा भूत्वोत्तिष्ठन्तीति ।
त एतदृग्रेतसं यजूरेतसं ब्रह्मणि योनौ रेतो दधतो यन्ति ।
अग्नावेव तदाहुतीभिरभिजुह्वतो यन्ति ।
तस्माद्दीक्षोपसत्सु वीव ग्लायन्ति ।
तरुणमिव तर्हि रेतो भवति ।
तस्मादु स्त्री दुर्हृदिनी वीव ग्लायति ।
तरुणमिव हि तर्हि रेतो भवति ।
तान्स्तुतिशस्त्रैस्त्रिर्वर्धयन्तोऽभिशृण्वन्तो यन्ति ।
तस्माद्गर्भा अनश्नतस्संभवन्ति २३

त ऋङ्मया यजुर्मयास्साममया ब्रह्ममया हिरण्मया अमृतास्संभवन्ति ।
ऋङ्मयो ह वै यजुर्मयस्साममयो ब्रह्ममयो हिरण्मयोऽमृतस्संभवत्यृङ्मयान्यस्यास्थानि भवन्ति य एवं वेद ।
तानुद्गाता पुरस्तात्संवत्सरस्य जनयित्वा होत्रे प्रयच्छति ।
तान्होता सूक्तैस्सूते ।
तत्सूक्तानां सूक्तत्वम् ।
ताञ्छस्त्रैः प्रशास्ति ।
तच्छस्त्राणां शस्त्रत्वम् ।
तानुक्थैरुत्थापयति ।
तदुक्थानां उक्थत्वम् ।
तेभ्य एतद्देव्यं मध्वशीतिभिरन्नाद्यं प्रयच्छति ।
मधु हास्यास्मिंश्च लोकेऽमुष्मिंश्चान्नं भवति य एवं वेद ।
अक्षरेणाक्षरेणो हास्मै विद्यास्सर्वान्कामान्दुह्रे ।
तस्मात्संवत्सर एव शस्यं संवत्सरे प्रोच्यम् ।
तस्माद्ब्राह्मणो हतो न स्तायाद्भवति ।
तस्माद्रे तस्सिक्तं न स्तायाद्भवति ।
तस्मादु हैवं विद्वान्न स्तायाद्भवति ।
अशीतिभिर्वै देवा इमाँ ल्लोकानिमानध्वन आश्नुवत ।
तदशीतीनामशीतित्वम् ।
तिसृभिरेवेमं लोकमाश्नुवत तिसृभिरन्तरिक्षं तिसृभिरमुं चतसृभिरेव दिश आश्नुवत चतसृभिरवान्तरदेशानेकयामूमूर्ध्वां द्वानवाशीतयोऽभवन् ।
नव प्राणाः ।
अश्नुते प्राणान् ।
सप्राणस्संभवति ।
सर्वमायुरेति ।
नाकामो म्रियते २४

अथैषौदुम्बरी राजासन्दी ।
तस्यै बृहद्र थन्तरे पूर्वौ पादौ वैरूपवैराजे अपरौ शाक्वररैवते अनूच्यानि ऋचः प्राचीनमाताना यजूंषि तिरश्चीनं सामान्यास्तरणं वाकोवाक्यमतीरोका श्रीरुपबर्हणम् ।
तस्यै प्रजापतिश्च बृहस्पतिश्च पूर्वौ पादावधारयेतां सोमश्च वरुणश्चापरौ ।
तस्यामेतमादित्यमभ्यषिञ्चन्त ।
वसवो राज्याय रुद्रा वैराज्यायादित्या स्वाराज्याय विश्वे देवास्साम्राज्याय मरुतस्सार्ववश्याय साध्याश्चाप्त्याश्च पारमेष्ठ्याय ।
तन्न हैतावत्कयाचन देवतया जितं यावदादित्येन ।
ये हि सुता देवानामासंस्त एनमसुवत ।
तस्मिन्दिशो अपित्वमैच्छन्त यथा राजनि विजितिन्यपित्वमिच्छन्त एवम् ।
ता अब्रवीद्प्रदानं मे प्रयच्छतेति ।
सेयं प्राची दिक्प्रायच्छन्मदुदयेत्यहश्च सत्यं च ।
मामभ्युदयेत्यूर्ध्वा दिक्प्रायच्छत्क्षत्रं च राष्ट्रं च ।
मामभ्यपक्रामेति दक्षिणा दिक्प्रायच्छदन्नं च रथं च ।
मामभ्यपक्रामेत्युदीची दिक्प्रायच्छद्रू पं च वर्णं च ।
समया मामयेत्यन्तरिक्षं प्रायच्छत्प्रकाशं चासंबाधं च ।
मामभ्यस्तमयेति प्रतीची दिक्प्रायच्छदृतं च रात्रिं च अनु मामातपेति पृथिवी प्रायच्छत् २५

– क्षेमं च विमोकं च ।
अथ हाप श्रेयसीर्मेनिरे ।
ताः प्रति त्वा वयमातपाम इति यात्रां च प्रयां च प्रायच्छन् ।
अद्भिर्ह वा एष एतदेत्यपामेवायनेन ।
तासामेतासामूर्ध्वाश्छायाः प्रति हैनं तदातपन्ति ।
स एवमेता दिश उपाप्नोति ।
अस्यै प्राच्यै दिश उदेति ।
अभ्युदेतीमामूर्ध्वां दिशम् ।
षडित्थं मास एति षडित्थम् ।
समयान्तरिक्षमेति ।
अभ्यस्तमेतीमां अपरां दिशम् ।
अन्विमां पृथिवीमातपति ।
तद्यथा पतिर्जाया अनुसंचरेदेवमेवैना एष एतदनुसंचरति ।
स षक्षताहमेवेदं सर्वं संवृणजा इति ।
स वशमेव दिव आदत्त क्षत्रं नक्षत्राणामात्मानमन्तरिक्षस्य रूपं वायोराज्ञां मनुष्याणां चक्षः पशूनामूर्जमपां रसमोषधीनां चरथं वनस्पतीनां शिश्नं वयसामर्चिषमग्नेर्हृदयं पृथिव्यै गन्धं हिरण्यस्य स्तनयित्नुं वाचस्सङ्गमं पितॄणां भां चन्द्र मसः ।
तद्यदेतेषां भूतानामादत्त तदादित्यस्यादित्यत्वम् ।
स य एतदेवं वेदैष एवादित्यो भूत्वैतस्यां राजासन्द्यामास्ते २६

न ह ब्रूयात्सत्त्रमासिष्य इति ।
श्रमिष्यामीत्येव वक्तव्यम् ।
द्वे ह वाव देवते सत्त्रमासाते प्राणापानावेव ।
तयोस्सोऽभ्यारोहः ।
तद्यत्ताविदं सत्त्रायेते तस्मात्तौ सत्त्रसदौ ।
तस्मादु श्रमिष्यामीत्येव वक्तव्यम् ।
तस्यैष श्लोकः
सप्तर्षयः प्रतिहितास्सुभूते
सप्त पश्यन्ति बहुधा निविष्टौ
सप्तैतं लोकमुपयन्त्यापो
ऽस्वप्नजौ सत्त्रसदौ यत्र देवा
इति ।
सप्तर्षयः प्रतिहितास्सुभूत इति पुरुषो वै सुभूतम् ।
त इमे सप्तर्षयः प्रतिहिताः प्राणा एव ।
स्पत पश्यन्ति बहुधा निविष्टाविति बहुधा ह्येतौ निविष्टौ पश्यन्ति यत्प्राणापानौ ।
सप्तैतं लोकमुपयन्त्याप इतीमा द्वयीराप इमा द्वयीरिमा एका इमा द्वयीरवाचीः ।
अस्वप्नजौ सत्त्रसदौ यत्र देवा इत्येते एव ते देवते स य एतदेवं वेद – २७

यदि च स ह सत्त्रमास्ते यदि च नाथ हास्यासितमेव सत्त्रं भवति ।
य उ एवं विद्वाञ्छ्रममुपपरैत्येते एवास्य देवते भागास्सत्त्रमासाते सोऽनार्तस्संवत्सरस्योदृचं गच्छति ।
असावेव संवत्सरो योऽसौ तपति ।
तस्य यद्भाति तत्संवद्यन्मध्ये कृष्णं मण्डलं तत्सर इत्यधिदेवतम् ।
अथाध्यात्मम् ।
अयमेव संवत्सरो योऽयं चक्षुषि पुरुषः ।
तस्य यच्छुक्लं तत्संवद्यन्मध्ये कृष्णं मण्डलं तत्सरः ।
तस्यैष श्लोकः
मदेवोदेति सूर्योऽस्तं मदु च गच्छति
मां सर्वे देवा अन्वायत्ता मामु नात्येति किं चन
इति ।
मदेवोदेति सूर्य इत्येवंविदो ह वाव सूर्य उदेति ।
अस्तं मदु च गच्छतीत्येवंविदो ह वावास्तमेति ।
मां सर्वे देवा अन्वायत्ता इत्येवंविदं ह वाव सर्वे देवा अन्वायत्ताः ।
मामु नात्येति किं चनेत्येवंविदं ह वाव न किं चनात्येति २८

तदाहुः किं संवत्किं सरं किमयनमिति ।
स ब्रूयात्त्रय्येव विद्या संवत् ।
तां हि सर्वे देवास्संवान्ताः ।
अहोरात्रे एव सरः ।
ते हीदं सर्वं सरतः ।
आदित्य एवायनम् ।
स ह्येषु लोकेष्वेति ।
इत्यधिदेवतम् ।
अथाध्यात्मम् ।
अन्नमेव संवत् ।
तद्धीदं सर्वं संवान्तम् ।
वागेव सरः ।
वाचा हि पुरुषस्सरति ।
प्राण एवायनम् ।
स ह्यस्मिन्सर्वस्मिन्नेति ।
स य एवमेतदधिदेवतं चाध्यात्मं च संवत्सरायणं वेदानार्त एव संवत्सरस्योदृचं गच्छति तदाहुः कथं संवत्सर एकच्छन्दा बार्हतो भवतीति – २९

अहोभिरिति ब्रूयात् ।
कथमहोभिरिति ।
अतिरात्रावारम्भणीयमहाव्रतीये अहनी पृष्ठ्याभिप्लवावभिजित्त्रय स्वरसामानः प्रत्यञ्चस्त्रय स्वरसामानो विश्वजिद्गोआयुषी दशरात्रो वैषुवतमेव सप्तत्रिंशमेतस्मिन्स्वर्गे लोकेऽध्यूढम् ।
तस्यैष श्लोकः
तां विंशतिस्सप्तशतानि चाहुष्
षट्त्रिंशिनीं बृहतीं कल्पमानाम्
सानुष्टुब्भूत्वा पशुभिस्सयोनिर्
देवान्पितॄन्ददते मनुष्यांश्च
इति ।
तां विंशतिस्सप्तशतानि चाहुरित्यहोरात्रा एव ते ।
षट्त्रिंशिनीं बृहतीं कल्पमानामित्येवं ह तदहोभिष्षट्त्रिंशिनी बृहती कल्पते ।
सानुष्टुब्भूत्वा पशुभिस्सयोनिरितीयमेव दिग्गामाहरदियमश्वमियमजामियमविम् ।
अनुष्टुभे वा एतस्यै सत्यै दिशश्शुल्कमाहरन्नित्येवं ह तत् ।
देवान्पितॄन्ददते मनुष्यांश्चेति ।
वाग्वा अनुष्टुप् ।
वाचो वा इदं सर्वं यतम् ।
एवं वै संवत्सर एकच्छन्दा बार्हतो भवतीति ३०

अयमेव स्पृष्ट्यो योऽयं पवते ।
एतेन हीदं सर्वं स्पृष्टम् ।
स्पृष्ट्यो ह वै नामैषः ।
तं पृष्ठ्य इति परोक्षमाचक्षते ।
सर्वान्कामान्स्पृशति य एवं वेद ।
असावेवाभिप्लवो योऽसौ तपति ।
एष हीदं सर्वमभिप्लवते ।
तदाहुर्यत्पृष्ठ्याभिप्लवावित्याचक्षतेऽभिप्लवमु वै पूर्वमुपयन्ति ।
कथं पृष्ठ्यः पूर्व उपेतो भवतीति ।
स ब्रूयाद्यदेवायमवरो वायुः पवते पर आदित्यस्तेनेति ।
अथो यत्परं सन्तमभिप्लवमवरमुपयन्ति व्यतिषङ्गायानिर्मार्गाय सर्वायुष्टायै ।
तदाहुर्यच्चत्वारोऽभिप्लवस्य स्तोमाष्षट्पृष्ठ्यस्य कथं तत्सभारमिति ।
स ब्रूयाद्यदेवैते सदृश्यौ देवते वायुश्चादित्यश्च तेन सभारमिति ।
अथो यद्ब्रह्माभिप्लवः क्षत्रं पृष्ठ्यस्तेनो एवेति ३१

तदाहुर्यदेते पृष्ठ्यस्य विषमा स्तोमास्त्रिवृत्पञ्चदशस्सप्तदश एकविंशस्त्रिणवस्त्रयस्त्रिंश इति कथमेतत्समात्सममुपेतं भवतीति ।
स ब्रूयाद्ब्रह्म वै त्रिवृत् ।
क्षत्रं पञ्चदशः ।
ब्रह्म वै क्षत्राज्ज्यायः ।
तेन समात्सममुपेतं भवति ।
विट्सप्तदशः ।
क्षत्रमु वै विशो ज्यायः ।
तेन समात्सममुपेतं भवति ।
एकविंशं स्तोममनु शूद्र ः! ।
वैश्यो वै शूद्रा ज्ज्यायान् ।
तेन समात्सममुपेतं भवति ।
त्रिणवं स्तोममनु ग्राम्याः पशवः ।
शूद्रो वै ग्राम्येभ्यः पशुभ्य श्रेयान् ।
अत्ता हि स तेषाम् ।
तेन समात्सममुपेतं भवति ।
त्रयत्रिंशं स्तोममन्वारण्याः पशवः ।
ग्राम्या वै पशव आरण्येभ्यः पशुभ्य श्रेयांसः ।
बिभ्यत इतरे चरन्त्यधिगन्तेतरेषां हन्ता ।
तेन समात्सममुपेतं भवति ।
तदाहुः कस्मादेकरूपोऽभिप्लवो द्विरूपः पृष्ठ्यस्समान एव सन्व्यूढश्च समूढश्चेति ।
स ब्रूयाद्यस्मादिदं ब्रह्म ब्रह्मैव ।
अथ यस्मादु क्षत्रियस्सन्ब्राह्मणो भवति तस्मादेकरूपोऽभिप्लवो द्विरूपः पृष्ठ्य इति ।
तद्धैतदेकेऽभिप्लवस्य षष्ठमहरुक्थ्यं कुर्वन्त्येवं सभारमिति ।
तदु होवाच शाट्यायनिर्मोहयन्ति तेऽभिप्लवं ये तथा कुर्वन्ति ।
अब्रह्म तर्हि भवति ।
तस्मात्तथा न कार्यमिति ।
अथ हैके पृष्ठ्यस्य षष्ठादह्नो द्विपद उद्धरन्त्येवं सभारमिति ।
तदु होवाच शाट्यायनि स्वर्ग एष लोको यत्पृष्ठ्यष्षडहः ।
यजमान एष निदानेन यद्द्विपदः ।
तमायतनाच्च्यावयन्ति ।
स य एनांस्तथा चक्रुषो ब्रूयादायतनाद्वा च्योष्यन्तेऽस्माद्वा लोकादिति तथा हैव स्युः ।
तस्मात्तथा न कार्यमिति ३२

तदाहुर्यदिदं प्रायणीयमहस्त्रिवृदाचक्षते प्रायणीयमित्यदश्चतुर्विंशं कथमेतत्त्रिवृता प्रयतं भवतीति ।
स ब्रूयाद्यदेवैते चत्वारिंशत्त्रिवृतस्संपद्यन्ते तेन त्रिवृता प्रयतं भवतीति ।
अथो यच्चतुर्विंशत्यक्षरा गायत्री तेनो एवेति ।
तदाहुः कथमेतद्वैषुवतीयमहश्छन्दोम्यं भवतीति ।
स ब्रूयाद्यावन्ति सप्तानां चतुरुत्तराणां छन्दसामक्षराणि तावत्येतस्याह्न स्तोत्रियाः ।
तेन छन्दोम्यं भवतीति ।
तदाहुर्यदुपरिष्टाद्विषुवतश्छन्दोमानुपयन्ति कथं पुरस्ताद्विषुवतश्छन्दोमा उपेता भवन्तीति ।
स ब्रूयाद्य एवैष आरम्भणीयस्याह्नश्चतुर्विंशश्छान्दोमिकस्तोमस्तेन पुरस्ताद्विषुवतश्छन्दोमा उपेता भवन्तीति ।
अथो यदेव पृष्ठ्यस्य द्वे द्वे अहनी समस्ते छन्दोमास्संपद्यन्ते तेनो एवेति ३३

तदाहुर्यत्षट्कृत्वः पुरस्ताद्विषुवतः पृष्ठ्यान्युपयन्ति विष्वजिति सप्तममुपरिष्टात्कथं तत्सभारमिति ।
स ब्रूयाद्यद्वा अर्वाचीनं विषुवतस्तदयं लोको यदूर्ध्वं विषुवतस्तदसौ लोकः ।
आसन्न इव वा अयं लोकः ।
प्ररिक्त इवासावन्यः ।
द्वितीयो ह्ययं लोकः ।
तद्यद्विश्वजिति सप्तममुपरिष्टात्पृष्ठ्यान्युपयन्त्येवं सभारमिति ।
अथो य एवं विश्वजित्पृष्ठमयमेव ।
गौर्वै रथतरमश्वो बृहदजा वैरूपमविर्वैराजं व्रीहयश्शक्वर्यो यवा रेवतयः ।
स एष रथस्संसक्तो यत्पृष्ठानि ।
तस्यैषोऽक्षो यद्गायत्रीषु बृहदग्निष्टोमसाम भवत्येतस्य रथस्यानपव्याथाय ।
अथ य एतन्निर्हृतपृष्ठमुपयन्ति विषक्तरथं ते विश्वजितं शून्यमुपयन्ति ।
ते न किं चन व्यश्नुवते ।
तस्मात्पृष्ठमय एव विश्वजित्कार्य इति ३४

तद्धैतदेके स्वरसाम्नां स्वराण्येव पृष्ठानि कुर्वन्ति ।
पृष्ठेन वा अहराख्यायते स्वरसामान इत्येत आख्यायन्ते ।
तस्मात्स्वरसाम्नां स्वराण्येव पृष्ठानि कार्याणीति ।
ते चेत्स्वराणि पृष्ठानि कुर्युर्यानि ष्टं भवन्ति तान्येकबृहतीषु कुर्युः ।
तदु होवाच शाट्यायनिर्वयं वाव प्रत्यक्षं स्वराणि पृष्ठानि कुर्मो ये बृहद्र थन्तरे कुर्मः ।
इदं वै रथन्तरमदो बृहत् ।
आभ्यामु वै लोकाभ्यामिदं सर्वं स्पृतम् ।
तस्माद्बृहद्र थन्तरे एव पृष्ठे कार्ये इति ।
अथो हैते विच्छिन्नान्स्वरसाम्न उपयन्ति ये त्रीण्युपयन्ति ।
सर्वाण्येव कार्याणि ।
तथा द्वाभ्यां द्वाभ्यामहस्तायते ।
एवं संगृहीता स्वरसामानो भवन्त्यविच्छिन्नाथो पापवस्यसस्य व्यावृत्त्या इति तद्धैतदेके विषुवतो बृहतीष्वेव बृहत्पृष्ठं कुर्वन्ति – ३५

– बार्हतो विषुवान्बार्हतो वासावादित्यः ।
बृहत्यामेष एतदध्यूढस्तपति ।
तस्माद्बृहतीष्वेव बृहत्पृष्ठं कार्यमिति ।
अथ हैके बृहतीष्वेव दिवाकीर्त्यं पृष्ठं कुर्वन्ति ।
बृहत्यायतनानि पृष्ठानि ।
इदं वा अन्तरिक्षं बृहती ।
तस्यामयं वायुरन्तः पवते ।
तत्पृष्ठं तस्या उ एव यद्द्वादशाक्षरं पदं तेन जगतीषु कृतं भवति ।
एवं तृतीयसवनमयातयाम क्रियत इति ।
तदु होवाच शाट्यायनिर्जागतो विषुवान् ।
जागतमेतत्साम ।
जागतोऽसावादित्यः ।
यदा ह्येष उदेत्यथ जगदेतस्यैव प्रयाणमनु प्रैति ।
तस्माज्जगतीष्वेव दिवाकीर्त्यं पृष्ठं कार्यमिति ।
ततो यास्तिस्रो जगत्यश्चतस्रस्ता बृहत्यः ।
तेन बृहतीषु कृतं भवति ।
तास्संस्तुता अष्टाविंशतिर्बृहत्यस्संपद्यन्ते ।
तेनो एव बृहत्यन्तरिता भवति ।
अथो हैतत्प्राणस्यैव रेतो निर्मितं यद्दिवाकीर्त्यम् ।
प्रजननं जगती ।
सोऽसावादित्यः ।
तद्यज्जगतीषु दिवाकीर्त्यं पृष्ठं कुर्वन्ति स्वेनैवैनं तदायतनेन समर्धयन्ति ।
तेनैभ्यः समृद्धेन स्वायां जनतायामर्धुकं भवति ३६

तदेतत्पृच्छन्ति किं तद्दिवाकीर्त्येऽहन्क्रियते येन प्रजाः प्रजनयति येन च प्रजा दाधारयति ।
स ब्रूयात्प्राणस्यैव रेतो निर्मितं यद्दिवाकीर्त्यम् ।
प्रजननं जगती ।
तेन प्रजाः प्रजनयति ।
अथ यत्प्राणो भूत्वा पराणि चावराणि चाहानि दाधर्ति तेनो एव प्रजा दाधारयति ।
प्राण एव दिवाकीर्त्यम् ।
चक्षुषी भ्राजाभ्राजे ।
श्रोत्रं विकर्णम् ।
वाग्दशस्तोभम् ।
त इमे प्राणा मध्यतो हिताः ।
तद्धैतदेक उदित एवाज्यग्रहान्गृह्णन्ति ।
उदिते प्रातरनुवाकमुपाकुर्वन्ति ।
दिवाकीर्त्यं वै नामैतदहः ।
तन्न रात्र्! या संसृजेयुरिति ।
तदु होवाच शाट्यायनिस्सामभिर्वा अहान्यभिष्टुतान्यृग्भी रात्रयः ।
सैषां रात्रिरनभिष्टुता शून्या भवति ।
अथो प्रजापतिरेष यत्प्रातरनुवाकः ।
तमायतनाच्च्यावयन्ति ।
स य एनांस्तथा चक्रुषो ब्रूयादायतनाद्वा च्योष्यन्तेऽस्माद्वा लोकादिति तथा हैव स्युः ।
तस्माद्यथैवेतरेषामह्नां तथा कार्यम् ।
प्राणापानावुपांश्वन्तर्यामौ ।
उदितेऽन्यं जुह्वत्यनुदितेऽन्यम् ।
बहिर्वै सन्तं प्राणमुपजीवन्त्यन्तस्सन्तमपानम् ।
तद्यदुदितेऽन्यं जुह्वत्यनुदितेऽन्यं बहिस्सन्तं प्राणमुपजीवामान्तस्सन्तमपानमिति ।
अथ य एतावुदिते जुह्वति प्राणापानावुत्खिदन्ति ।
स य एनांस्तथा चक्रुषो ब्रूयात्प्राणापानावुदखात्सुर्मरिष्यन्तीति तथा हैव स्युः ।
तस्माद्यथैवेतरेषामह्नां तथा कार्यम् ३७

तानि वा एतानि दीक्षमाणादुत्क्रामन्त्यग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुबन्धः पितृयज्ञो गृहमेधो ब्रह्मौदनो मिथुनम् ।
तद्यद्दीक्षोपसत्सु स्वाहेति व्रतयति तेनास्य दीक्षोपसत्स्वनन्तरितमग्निहोत्रं भवति ।
यदुपांश्वन्तर्यामावुदितेऽन्यं जुह्वत्यनुदितेऽन्यं तेन सुत्यायाम् ।
यत्पुरोडाशस्तेन पौर्णमासम् ।
यद्दधि तेनामावास्यम् ।
यत्पयस्या तेन चातुर्मास्यानि ।
यत्पशुमालभन्ते तेन पशुबन्धः ।
यदुपासनान्युपास्यति तेन पितृयज्ञः ।
यद्धानाः करम्भो भवति तेन गृहमेधः ।
यत्सौम्यमाहरति तेन ब्रह्मौदनः ।
यत्पत्नीस्संख्यापयति तेन मिथुनम् ।
तद्धैक आहुः प्राणेन त्वा संभवामनीत्येव प्रतिष्णामभिप्राण्यानीति ।
तदु होवाच शाट्यायनिरवकीर्णरूपमिवैतत् ।
एको वाव पुमान्प्राणावे विद्ययैवैतदनन्तरितमथो यदेव यज्ञायज्ञीयस्य स्तोत्रे संख्यापयन्ति ३८

तदाहुर्यदन्यैरन्यैः सामभि स्तुवतेऽन्या अन्या अनुशंसन्त्यथ कस्मात्समाना गृहा इति ।
स ब्रूयादन्नं वै साम ।
अन्नमृक् ।
प्राणा गृहाः ।
अन्यदन्यद्वै प्राणेभ्योऽन्नमाहरन्ति ।
तस्मादन्यैरन्यैः सामभि स्तुवतेऽन्या अन्या अनुशंसन्ति समाना एव गृहा इति ।
प्राणा एव साम ।
तन्मूलम् ।
अथ यथा वृक्षस्य स्कन्धांसि वा शाखा वा पलाशानि वैवमन्यानि सामानि ।
स य एतदेवं वेद सर्वाण्येवास्य सामानि विदितानि भवन्ति ।
वागेवर्क् ।
तन्मूलम् ।
अथ यथा वृक्षस्य स्कन्धांसि वा शाखा वा पलाशानि वैवमन्या ऋचः ।
स य एतदेवं वेद सर्वा एवास्यर्चो विदिता भवन्ति ।
मन एव यजुः ।
तन्मूलम् ।
अथ यथा वृक्षस्य स्कन्धांसि वा शाखा वा पलाशानि वैवमन्यानि यजूंषि ।
स य एतदेवं वेद सर्वाण्येवास्य यजूंषि विदितानि भवन्ति ३९

तदाहुः किं नातिष्टुवन्ति किं नातिशंसन्ति किं नातिगृह्णन्तीति ।
स ब्रूयात्प्राणमेव नातिष्टुवन्ति ।
स्तुते वै प्राण एव परिशिष्यते ।
वाचमेव नातिशंसन्ति ।
शस्ते वै वागेव परिशिष्यते ।
मन एव नातिगृह्णन्ति ।
गृहीते वै मन एव परिशिष्यते ।
नातिष्टुतं नातिशस्तं नातिगृहीतमेवंविदस्संपन्नमेव भवति ।
अथ ह वै समृद्ध एव यज्ञ उपासितव्यः ।
यदधीयन्ननुपहन्यमानः करोति तत्स्वर्ग्यम् ।
स्वर्ग्यं म एतत्स्वर्गलोक एतेन भविष्यामीत्येव तद्विद्यात् ।
अथ यद्दुरधीयन्नुपहन्यमानो विषिञ्चन्करोति पुष्टिस्सा प्रजननम् ।
पुष्टिर्म एषा प्रजननं बहुर्भविष्यामि प्रजनिष्य इत्येव तद्विद्यात् ४०

अथ ह वै त्रयः पूर्वेऽग्नय आसुर्भूपतिर्भुवनपतिर्भूतानां पतिः ।
अयं वै लोको भूपतिरन्तरिक्षं भुवनपतिरसावेव लोको भूतानां पतिः ।
अथ हायं भूतिर्नाम ।
तेषां ह वषट्कारश्शीर्षाणि चिच्छेद ।
त इमास्तिस्रः पृथिवीः प्रविविशुः ।
तस्माद्यदग्निहोत्रस्य वाज्यस्य वावस्कन्देत्तदभिमृशेद्भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहेति ।
एतेषु हैवास्याग्निषु हुतमस्कन्नं भवति ।
अथ ह वै त्रयः पूर्व ऋषय आसुश्शूर्पंयवमस्ह्वाना अन्तर्वान्कृषिस्सोल्वालाः ।
ते ह यज्ञस्य कृन्तत्राणि ददृशुः ।
तस्यैताः प्रायश्चित्तीर्ददृशुः शं च म उप च म आयुश्च मे भूयश्च मे यज्ञ शिवो मे संतिष्ठस्व यज्ञ स्विष्टो मे संतिष्ठस्व यज्ञारिष्टो मे संतिष्ठस्वेति ।
तस्मादेता दर्शपूर्णमासाभ्यां वा चातुर्मास्यैर्वा पशुबन्धेन वा सौम्येन वाध्वरेणेष्ट्वोपरिष्टाज्जपेत् ।
यदेवात्र यज्ञस्य विधुरं भवति तदेव तेन शमयति ।
प्राण एवाविषुवतो व्यानो विषुवानपानो यदूर्ध्वं विषुवतः ।
अपानो वा इदं सर्वमाहरति ।
तस्माद्वयं परस्ताद्विषुवतोऽर्वाचष्षडहानुपैमः ४१

तद्ध क्रतुजिज्जानकिरियपिं सौमापं पप्रच्छ प्राणेन स्वी३दपानेना३ अस्मिञ्जीवति मर्त्यः ।
तद्ब्रूतात्संगतेभ्यः कुरूणां ब्राह्मणेभ्य इति ।
स होवाचेहैवाहं त्वां प्रतिवक्ष्यामीति ।
तं ह प्रत्युवाच न प्राणेन नापानेन ।
अस्मिञ्जीवति मर्त्ये व्यानोऽध्यक्षः पशोस्स तं विष्वञ्चं ईर्यत इति ।
पुरुषो वै पशुः ।
पशुरुत्पशुस्सः ।
व्यानो ह वा एतं विष्वञ्चमीर्यते ।
तान्वा एतानेके परस्ताद्विषुवत ऊर्ध्वानेव षडहानुपयन्ति ।
यं वावैतं पृष्ठ्यं पूर्वमुपैमस्तेन व्यावृत्ता भवन्ति ।
अथो एवमजामीति ।
तदु होवाच शाट्यायनिरुभये वा एत ऊर्ध्वा भवन्ति ये चोर्ध्वा ये चार्वाञ्चः ।
सवनैर्वा एत ऊर्ध्वा भवन्त्याप्नुम उ तं कामं य आवर्तेष्विति ।
तदाहुर्यद्यथापां विवर्त एवमेते यद्गोआयुषी ।
कतरेषामेते अह्नाम् ।
परेषामवरेषामिति ।
उभयेषामेवेति ब्रूयात् ।
उभयानि ह वा एते अहानि संगृह्य तिष्ठतः पराणि चावराणि च ।
तस्मात्त्र्! यहेणान्यत्तनुमहे त्र्! यहेणान्यत् ।
स द्व्यहस्सन्षडहो भवति ।
तदूर्ध्वे गोआयुषी भवत ऊर्ध्वो दशरात्रः ।
तद्धैतदेके विहृते गोआयुषी उपयन्त्युपरिष्टाद्विश्वजित आयुः पुरस्ताद्दशरात्रस्य गाम् ।
एवमजामीति ।
अथो एवमेवैतयोः पुरोपाययनम् ।
तत्प्रमत्ता नैमिशीया अतीयुः ।
तेऽत्र पुरस्ताद्दशरात्रस्य सहोपेयुः ।
तत इदमर्वाचीनमेवोपयन्ति ।
तदु होवाच शाट्यायनिः प्राणापानावेतौ यद्गोआयुषी ।
अन्नपाने ते विच्छिन्दन्ति ये विहरन्ति ।
अथो एष वाव देवयानः पन्था यद्गोआयुषी ।
स्वर्ग एष लोको यद्दशरात्रः ।
त एतेन देवयानेन पथैतं स्वर्गं लोकं गच्छन्ति ।
अथ य एते विहरन्त्येतं देवयानं पन्थानं विच्छिन्दन्ति ते न किं चन व्यश्नुवते ।
तस्मात्सहैवोपेत्ये इति ४२

गोबलं ह वार्ष्णं शाट्यायनिरुवाच पितृमानसि भगवः पितामहवान् ।
संवत्सराय दीक्षिष्येऽनु मा शाधीति ।
तथेति होवाच ।
अयनं ते वक्ष्यामि यद्विद्वाननार्तस्संवत्सरस्योदृचं गच्छत्युत्थायो योगक्षेमी पणाय्यो भवतीति ।
तान्वा एतान्द्वादश मासो यन्तीति होवाच ।
ततो यांश्चतुरो मासो यन्त्यग्नेरेव तानयनेन यन्ति ।
अग्निं चैव तेन देवतानामुपाप्नुवन्तीमं च लोकं इति ।
अथ यानपरांश्चतुरो मासो यन्ति वायोरेव तानयनेन यन्ति ।
वायुं चैव तेन देवतानामुपाप्नुवन्त्यन्तरिक्षलोकं चेति ।
यानपरांश्चतुरो मासो यन्त्यादित्यस्यैव तानयनेन यन्ति ।
आदित्यं चैव तेन देवतानामुपाप्नुवन्त्यमुं च लोकमिति ४३

एतद्वा अयनमिति होवाच ।
तद्यद्वा इदमाहुरनयनेनागादिति ।
य एवैतदविद्वांसस्संवत्सराय दीक्षन्ते तेऽनयनेन यन्ति ।
अथ य एतदेवं वेदानार्त एव संवत्सरस्योदृचं गच्छत्युत्थायो योगक्षेमी पणाय्यो भवति ।
त एतं स्वर्गं लोकमागच्छन्ति ।
एतन्महाव्रतीयमहः ।
एष वाव स्वर्गलोको यन्महाव्रतीयमहः ।
तत्पञ्चविंशं भवति ।
ततो या विंशतिर्विराट्सा ।
अथ याश्चतस्र इमा एव ताश्चतस्रो दिशः ।
अथ या पञ्चविंशीयमेव सोर्ध्वा दिक् ।
दिशो वै यत्र समुदश्रयन्त तदेषोऽत्यग्रो नाम लोकोऽभवद्य एष तपति ।
एतमेवैतत्पञ्चविंश्याभ्यारोहन्ति ।
एतस्य सलोकतां गच्छन्ति ।
तदाहुर्यदेतेनाह्ना भूयिष्ठमीप्सन्ति यन्महाव्रतीयेनाथ कस्मादयं वारणः पञ्चविंशस्तोमः क्रियत इति ।
कृत्स्नस्यान्नाद्यस्यावरुद्ध्या इति ब्रूयात् ।
पुरुषमेव पञ्चभि स्तोत्रियाभिरवरुन्द्धे गां पञ्चभिरश्वं पञ्चभिरजां पञ्चभिरविं पञ्चभिः ।
स एष कृत्स्नसैवान्नाद्यस्यावरुद्ध्या अन्ततः पञ्चविंशस्तोमः क्रियत इति ।
अथ यावतिरात्रौ प्रतिष्ठैव सा ।
अस्मिन्नेव लोके प्रायणीयेनातिरात्रेण प्रतिष्ठाय प्रयन्ति ।
अमुष्मिँ ल्लोक उदयनीयेनातिरात्रेण प्रतिष्ठायोद्यन्ति ।
ते हाप्यबुभूषन्त इव भवन्ति प्रत्यिव तिष्ठन्ति ४४

अथैषौदुम्बरी राजासन्दी ।
तां हैके प्राचीमेव निदधति ।
उदीचीमेव निदध्यात् ।
तस्या इमाववान्तरदेशौ पूर्वौ पादाविमावपराउ ।
तां हैके प्राचीमेवाधिरोहन्ति ।
तदु होवाच शाट्यायनिरुदञ्चो वै सामार्त्विज्यं कुर्वन्ति ।
उदीचिनदेवत्या उद्गातारः ।
उदीच्यैवारुह्येति ।
तां हैके नमस्कारेणैवाधिरोहन्ति नमस्तेऽस्तु भगवति विद्म त्वा सा नश्शिवैधीति ।
तूष्णीं हैवैकेऽधिरोहन्ति ।
मनो वै प्रजापतिः ।
प्राजापत्यमेतदहरिति ।
तामनेनाग्रेऽधिरोहेदथानेनाथानेनाथानेनामृतं गमयेयमिति ।
अथास्मा आरूढाय वाणं शततन्त्रीमाहरन्ति ।
तमेतेन संतानेन संतनोति
भूर्भुव स्वर्
वदा वदा वदा वदी वदा वदोरुः
पृथुस्सुगस्सुगन्तुः
कर्मः करणः करः करिष्यन्
षन्द्री ं! वाचं बृहतीं विश्वरूपाम्
शतायुषं प्रवद देव वाण
इति ।
अथेन्द्र णतया चेषीकया वेतसशाखया चोल्लिखति मनो ज्योतिरिति वाक्सत्यमिति मनो भद्र इति ।
तं प्रयच्छति ४५

अथैता अन्याः परिमादः कुरुते ।
अथ स्तुते ।
अथ शीर्ष्णाग्रे स्तुतेऽथ दक्षिणेन पक्षेनाथोत्तरेणाथ पुच्छेनात्मनोत्तमेन ।
तत्सलोमाय ।
शीर्ष्णोद्गाता प्रतिपद्यत आत्मना होता ।
यां ह्येव प्राह तया प्रतिपद्यते ।
अथ यदन्यां प्राहान्यया प्रतिपद्यते विलोम तत् ।
अथ हैक आत्मनैवाग्रे प्रतिपद्यन्ते ।
तदु होवाच शाट्यायनिर्यथान्धो द्वारमृच्छेत्तादृक्तदिति ।
अथ हैके स्तुत्वाइवोपावरुह्यैतदहश्शस्यमानमीक्षमाणा आसते ।
तदु होवाच शाट्यायनिरीश्वरः पापीयान्भवितोर्यस्तथा करोति ।
क्षत्रं वै साम ।
विट्छस्त्रम् ।
उपर्येवासीत ।
राजानमेवाह्रियमाणं प्रत्यवरोहेत् ।
तथास्य राजा प्रत्यवरूढो भवति ।
तस्यै प्रत्यवरोहो
मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम्
पिपृतां नो भरीमभिः
इति ।
तामेतामासन्दीमुत्तरतः पर्याहृत्य निदधति ४६

तदाहुर्यद्विहृतमेतदहश्शस्यते विहृतासु स्तुध्वा३ अविहृतासू३ इति । विहृतास्विति ब्रूयात् ।
य एता राजन्यस्य देवतास्ताभिर्विहृतं भवति ।
तद्यद्गायत्रीषु शिरो भवति बृहतीषु च ककुप्सु च पक्षौ द्विपदासु च पुच्छं त्रिष्टुप्स्वात्मा कथमतो विहृतं भवतीति ।
एतस्यात्मनः पञ्चविंशं शतं त्रिष्टुभो भवन्ति ।
ततो यच्छतमायुष्टत् ।
अथ याः पञ्चविंशतिः पुरुषस्सः ।
पञ्चेमाः पञ्चेमाः पञ्चेमाः पञ्चेमाश्चत्वारि प्राङ्गानि ।
आत्मा पञ्चविंशः ।
स एष शतायुः पुरुषः ।
तदाहुर्यदन्यास्त्रिष्टुभस्संपूर्णाक्षरासु स्तुवत इति ।
स ब्रूयात्त्रैष्टुभो वै पुरुषस्त्रिष्टुब्योनिः ।
तानीमानि पुरुषस्यान्यूनानि ।
तस्माद्व्यूनाक्षराः ।
अथ यद्विषमेण समस्तेनो संपूर्णाक्षरा इति ।
तदाहुर्यत्पञ्चविंशः पुरुषः पुरुषस्यैतत्स्तोत्रमित्याहुः ।
अथ कस्मादेतानि विषमाणि सामानि क्रियन्ते पुरुषस्य सर्वताया इति ।
स ब्रूयान्मनो वै प्रजापतिः ।
प्रजापतिः पुरुषः ।
तस्यैषो अन्तरात्मा यदेताः पञ्चविंशति स्तोत्र्! याः ।
अथो यथा पुरुषस्य केशा नखा लोमानि श्मश्रूणि तादृक्तत् ।
यदेतानि विषमाणि सामानि क्रियन्ते पुरुषस्य सर्वताया इति ४७

तदाहुर्यद्बृहत्यायतनानि पृष्ठानि कथमतो बृहतीषु कृतं भवतीति ।
एतस्यात्मनो द्वापञ्चाशं शतं बृहतयो भवन्त्येका च ककुप् ।
तेन बृहतीषु कृतं भवति ।
तेनो एव ककुप्पृष्ठेभ्यो न च्यवत इति ।
तदाहुः किंछन्दाः पञ्चविंश स्तोम इति ।
पङ्क्तिछन्दा इति ब्रूयात् ।
एतद्ध वै प्रत्यक्षं पञ्चविंशस्य स्तोमस्य छन्दो यत्पङ्क्तिः ।
एतस्यात्मनस्सप्तत्रिंशं शतं पङ्क्तयो भवन्त्यर्धपङ्क्तिश्च ।
तेन पङ्क्तिश्छन्दाः ।
ता उ एव द्वानवतिरतिछन्दसः ।
अतिछन्दा वै सर्वाणि छन्दांस्यभिभवति ।
तद्वा अस्य तत्सर्वाण्येव छन्दांस्युपेतानि भवन्ति ।
तदाहुः कथमेतत्सर्वमहः पञ्चविंशं भवतीति ।
संपदेति ब्रूयात् ।
कथं संपदेति ।
पद्येति नव शीर्ष्णो गायत्र्! यः ।
तासां सप्तविंशतिः पदानि ।
षट्छतं पक्षयोर्द्वाचत्वारिंशत्पुच्छस्य ।
तद्यानीमानि सप्तविंशतिश्शीर्ष्णः पदानि ततो द्वे आदाय षट्छत उपदधति ।
अथ पञ्चविंशः परिशिष्यते ।
ततो यच्छतं चत्वारस्ते पञ्चविंशाः ।
अथ यान्यष्टावतिरिच्यन्ते तानि द्वाचत्वारिंशत्युपदधति ।
तौ द्वौ पञ्चविंशौ ।
पञ्चविंश एव पञ्चविंशम् ।
सर्वं पञ्चविंशं भवतीति ४८

एष वाव यज्ञानां विषुवान्यदग्निष्टोमः ।
ते ये प्राञ्चो हविर्यज्ञा औपवसथात्तेऽपियन्ति ।
अथ य उत्तरे यज्ञक्रतवस्सुत्यायां तेऽपियन्ति ।
यत्त्रिवृद्बहिष्पवमानं ये त्रिवृत स्तोमास्तेन तेऽपियन्ति ।
यत्पञ्चदशान्याज्यानि पञ्चदशो माध्यंदिनो ये पञ्चदशा स्तोमास्तेन तेऽपियन्ति ।
यत्सप्तदशानि पृष्ठानि सप्तदश आर्भवो ये सप्तदशा स्तोमास्तेन तेऽपियन्ति ।
यदेकविंशमग्निष्टोमसाम य एकविंशा स्तोमास्तेन तेऽपियन्ति ।
यदेकविंशं सर्वे स्तोमा अभिसंपद्यन्ते तेन सर्वे स्तोमा अपियन्ति ।
अयमेवाग्निष्टोमो योऽयं पवते ।
ते ये प्राञ्चो यज्ञक्रतवोऽग्निस्ते निदानेन ।
अथ य उत्तरे यज्ञक्रतव आदित्यस्ते निदानेन ।
यदा वा अग्निरुद्वायति वायुमेवाप्येति ।
यदा आदित्योऽस्तमेति वायुमेवाप्येति ।
तस्य वा एतस्य तथैव वाग्निष्टोमस्य चतुर्विंशति स्तुतशस्त्राणि ।
एवं चतुर्विंशतिः पुरोवातो दक्षिणतोवातः पश्चात्वात उत्तरतोवात ऊर्ध्वतोवात इति ।
प्राण एवाग्निष्टोमस्तोमः ।
ते ये प्राञ्चो यज्ञक्रतवो वाक्ते निदानेन अथ य उत्तरे यज्ञक्रतवश्चक्षुस्ते निदानेन – ४९

– यदा वै तूष्णीमास्ते प्राणमेव वागप्येति ।
यदा स्वपिति प्राणमेव चक्षुरप्येति ।
तद्यदेवंविद्वदति हविर्यज्ञैरस्य तदिष्टं भवति ।
यत्प्राणित्यग्निष्टोमेनास्य तदिष्टं भवति ।
यद्वीक्षत उत्तरैरस्य तद्यज्ञक्रतुभिरिष्टं भवति ।
तद्यदेवंविद्वदति यत्प्राणिति यद्वीक्षत एतैर्हास्य तत्सर्वैर्यज्ञक्रतुभिरिष्टं भवति ।
स एष समानप्रायणस्समानसंबन्धनस्संवत्सरः ।
तस्य मन एव प्रायणं वाक्संबन्धनम् ।
स एष संवत्सरोऽग्निष्टोमानेवाभिसंपद्यते ।
षडतिरात्रस्यातियन्ति त्रीण्युक्थानि त्रिदेवत्यस्सन्धिः ।
त्रीण्यारम्भणीयस्याह्नोऽतियन्ति ।
अथ यत्र ह क्व चाभिप्लवस्सप्त तेऽग्निष्टोमाः ।
षट्कृत्वः पृष्ठ्यमुपयन्ति ।
द्वयोष्षडतियन्ति द्वयोष्षट् ।
सोऽग्निष्टोमः ।
द्वयोष्षट् ।
तदमूनि षडुपदधाति ।
सोऽग्निष्टोमः ।
अग्निष्टोमोऽभिजित् ।
नव स्वरसाम्नामतियन्ति ।
तदमूनि त्रीण्युपदधाति ।
सोऽग्निष्टोमः ।
अग्निष्टोमो विषुवान् ।
प्रतीचां स्वरसाम्नां नवातियन्ति ।
पञ्चकृत्वः पृष्ठ्यमुपयन्ति ।
द्वयोष्षडतियन्ति द्वयोष्षट् ।
सोऽग्निष्टोमः ।
एकस्य त्रीणि ।
तान्येषु नवसूपदधाति ।
सोऽग्निष्टोमः ।
अग्निष्टोमो विश्वजित् ।
गोआयुषोष्षडतियन्ति ।
द्वादशाग्निष्टोमा दशरात्रः ।
अग्निष्टोमो महाव्रतीयमहः ।
षडतिरात्रस्यातियन्ति ।
तदमूनि षडुपदधाति ।
सोऽग्निष्टोमः ।
द्वादशकृत्वष्षोडशिनमुपयन्ति ।
सोऽग्निष्टोमः ।
यद्यु वा अतिरात्रे षोडशिनमुपयन्ति मोहयन्त्यमूं विराजस्संपदम् । ईमामग्निष्टोमसंपदं रिच्यते ।
स ह सोऽनिधानो वज्रो हिनस्ति ।
अथ वा अनिधानो वज्रः ।
स एष समानप्रायणस्समानसंबन्धनस्संवत्सरः ।
तस्य मन एव प्रायणं वाक्संबन्धनम् ।
स एष संवत्सरोऽग्निष्टोमानेवाभिसंपद्यते ।
संपदा हाग्निष्टोमायनं भवति ।
उपाप्तान्यु तान्यहानि भवन्ति यानि संवत्सरे चित्रियाणि ।
तेन हैतेनायनेनोभौ कामावुपाप्नोति यश्चाग्निष्टोमायने यश्च मासि पृष्ठे ५०

महाव्रतत्रयं समाप्तम्

द्वया ह वै पूर्व ऋतव आसुः प्राणर्तवो देवर्तवः ।
अथेम एतर्ह्यृतव एव ।
प्राण एव वसन्त आस ।
वाग्ग्रीष्मः ।
चक्षुर्वर्षाः ।
आर्द्र मिव वै चक्षुराद्रा र्! इव वर्षाः ।
श्रोत्रं शरत् ।
मनो हेमन्तः ।
या इमाः पुरुष आपस्स शिशिरः ।
अथ देवर्तवः ।
वायुरेव वसन्त आस ।
अग्निर्ग्रीष्मः ।
पर्जन्यो वर्षाः ।
आदित्यश्शरत् ।
चन्द्र मा हेमन्तः ।
या अमूर्दिव्या आपस्स शिशिरः ।
स यस्स प्राणो वसन्त आस यो वायुर्वसन्तस्सोऽयमेतर्हि वसन्तः ।
अथ या वाग्ग्रीष्म आस योऽग्निर्ग्रीष्मस्सोऽयमेतर्हि ग्रीष्मः ।
अथ यश्चक्षुर्वर्षा आसुर्याः पर्जन्यो वर्षास्ता इमा एतर्हि वर्षाः ।
अथ यच्छ्रोत्रं शरदास य आदित्यश्शरत्सेयमेतर्हि शरत् ।
अथ यन्मनो हेमन्त आस यश्चन्द्र मा हेमन्तस्सोऽयमेतर्हि हेमन्तः ।
अथ या इमाः पुरुष आपश्शिशिर आसुर्या अमूर्दिव्या आपस्स शिशिरस्सोऽयमेतर्हि शिशिरः ५१

त एते षडृतवष्षड्दिशः ।
त एत ऋतवो दिग्भिर्मिथुना वसन्तेनेयं प्राची दिङ्मिथुना ग्रीष्मेणेयं वर्षाभिरियं शरदेयं हेमन्तेनासौ शिशिरेणेयम् ।
तद्यथा पतिं जाया अनिमेषमीक्षेरन्नेवमेवैना एवंविदं दीक्षमाणमीक्षन्ते ।
तद्यद्दिग्भिरीक्षितस्तस्माद्दीक्षितः ।
स दीक्षिष्यमाण आदित्यमुपतिष्ठेत त्वं देवता दीक्षितासि ।
सा दीक्षमाणस्य तेज इन्द्रि यं वीर्यं यश आदत्से ।
मा मे तेज इन्द्रि यं वीर्यं यश आदिथाः ।
तव दीक्षामनु दीक्ष इति ।
अथर्तूनन्वारोहति ।
य ऋतव ऋतुभ्योऽध्यासन्
पुरा सूर्याच्चन्द्र मसश्च पूर्वे
येभिः प्रजानन्प्रदिशो दिशश्च
तानन्वारोहामि तपसा ब्रह्मणा च
इति प्राणर्तूनन्वारोहति ।
य ऋतवश्चन्द्र मसोऽधि पूर्व
ऋचं वाचं ब्रह्माणमाबभूवुः
इत्येवंविदं ह्याभवन् ।
येभिः प्रजानन्प्रदिशो दिशश्च
तानन्वारोहामि तपसा ब्रह्मणा च
इति देवर्तूनन्वारोहति ।
य एक ऋतुस्त्रय ऋतवश्च
ये षट्चतुर्विंशतिरृतवो ये
द्वादश सप्तदशान्युत विंशतिश्च
तानन्वारोहामि तपसा ब्रह्मणा च
इतीमानृतूनन्वारोहति ।
स एवमेतैस्तैरृतुभिः परिगृहीतः ।
स यथा तैरृतुभिः परिगृहीत एवमेवानार्तस्संवत्सरस्योदृचं गच्छति ।
ऋतुरृतुर्हैवंविदे कल्पते ५२

केशी ह दार्भ्यो दर्भपर्णयोर्दिदीक्षे ।
अथ ह सुत्वा याज्ञसेनो हंसो हिरण्मयो भूत्वा यूप उपविवेश ।
तं ह केशी३निति नाम्नाभ्युवाद ।
स ह चुक्रोध स्थविरोऽस्मि पञ्चालानां राजा ।
स उ वै दीक्षितोऽस्मि ।
को नु मा३ं! हेयन्नाम्नैवाभिवदितुमर्हतीति ।
स होवाच मा क्रुधः ।
अभिवदिता ते तेनास्मि यदहमेतस्यै विशस्त्वत्पूर्वो राजासम् ।
अभिवदितो वाव ते तेनास्मि यददीक्षितोऽसि ।
इष्टापूर्तस्य त्वमक्षितिं वेत्थ ।
दीक्षामहं वेद ।
संप्रब्रवावहा इति ।
स होवाच अग्निर्दीक्षितः पृथिवी दीक्षा वायुर्दीक्षितोऽन्तरिक्षं दीक्षा आदित्यो दीक्षितो द्यौर्दीक्षा प्रजापतिर्दीक्षितो मनो दीक्षा ।
स दीक्षेत यया दीक्षयाग्निर्दीक्षितस्तया दीक्षया दीक्षे यया दीक्षया वायुर्दीक्षितस्तया दीक्षया दीक्षे यया दीक्षयादित्यो दीक्षितस्तया दीक्षया दीक्षे यया दीक्षया प्रजापतिर्दीक्षितस्तया दीक्षया दीक्ष इति ५३

अथ हेतर उवाच ।
ब्रह्मणे ददद्ब्रूयाद्ब्रह्मन्मनस्ते ददानि तदनेन निष्क्रीणानि ब्रह्मन्निदं ददानीति यद्दास्यन्स्यात् ।
स यन्मनो ददाति चन्द्र मा वै मनश्चन्द्र मसमेवास्मै तद्ददाति ।
तद्यावच्चन्द्र मा न क्षीयते तावदस्य तद्दत्तं न क्षीयते ।
होत्रे ददद्ब्रूयाद्धोतर्वाचं ते ददानि तामनेन निष्क्रीणानि होतरिदं ददानीति यद्दास्यन्स्यात् ।
स यद्वाचं ददात्यग्निर्वै वागग्निमेवास्मै तद्ददाति ।
तद्यावदग्निर्न क्षीयते तावदस्य तद्दत्तं न क्षीयते ।
अध्वर्यवे ददद्ब्रूयादध्वर्यो प्राणं ते ददानि तमनेन निष्क्रीणान्यध्वर्यो इदं ददानीति यद्दास्यन्स्यात् ।
स यत्प्राणं ददाति वायुर्वै प्राणो वायुमेवास्मै तद्ददाति ।
तद्यावद्वायुर्न क्षीयते तावदस्य तद्दत्तं न क्षीयते ।
उद्गात्रे ददद्ब्रूयादुद्गातश्चक्षुस्ते ददानि तदनेन निष्क्रीणान्युद्गातरिदं ददानीति यद्दास्यन्स्यात् ।
स यच्चक्षुर्ददात्यादित्यो वै चक्षुरादित्यमेवास्मै तद्ददाति ।
तद्यावदादित्यो न क्षीयते तावदस्य तद्सत्तं न क्षीयते ।
सदस्याय ददद्ब्रूयात्सस्यात्मानं ते ददानि तमनेन निष्क्रीणानि सदस्येदं ददानीति यद्दास्य स्यात् ।
स यदात्मानं ददात्याकाशो वा आत्माकाशमेवास्मै तद्ददाति ।
तद्यावदाकाशो न क्षीयते तावदस्य तद्दत्तं न क्षीयते ।
होत्रकेभ्यो ददद्ब्रूयाद्धोत्रका श्रोत्रं वो ददानि तदनेन निष्क्रीणानि होत्रका इदं ददानीति यद्दास्यन्स्यात् ।
स यच्छ्रोत्रं ददाति दिशो वै श्रोत्रं दिश एवैभ्यस्तद्ददाति ।
तद्यावद्दिशो न क्षीयन्ते तावदस्य तद्दत्तं न क्षीयते ।
प्रसर्पकेभ्यो ददद्ब्रूयात्प्रसर्पका लोमानि वो ददानि तान्यनेन निष्क्रीणानि प्रसर्पका इदं ददानीति यद्दास्यन्स्यात् ।
स यल्लोमानि ददात्योषधिवनस्पतयो वै लोमान्योषधिवनस्पतीनेवैभ्यस्तद्ददाति ।
तद्यावदोषधिवनस्पतयो न क्षीयन्ते तावदस्य तद्दत्तं न क्षीयते ।
सैषेष्टापूर्तस्याक्षितिः ।
स य एवमेतामिष्टापूर्तस्याक्षितिं वेद न हास्येष्टापूर्तं क्षीयते ।
तदु वा आहुर्वाग्वाव दीक्षितो वाग्दीक्षा वागिदं सर्वं क्षियति ।
वाचि वावेदं सर्वं क्षितमिति वाव तौ तत्संप्रोचाते ।
तदु होवाअ शाट्यायनी रथन्तरेण दीक्षे वामदेव्येन दीक्षे बृहता दीक्ष इत्येव दीक्षेत ।
अथ विमुञ्चेत बृहता विमुञ्चे वामदेव्येन विमुञ्चे रथन्तरेण विमुञ्च इति ।
सैषा दीक्षायै युक्तिश्च विमुक्तिश्च ।
स य एवमेतां दीक्षायै युक्तिं च विमुक्तिं च वेद वसीयानेव भवति ५४

हृत्स्वाशया आल्लकेयो दन्तालस्य धौम्यस्यान्तेवास्यास ।
अथ ह दन्तालो धौम्यस्त्रयं वेदमाप्रपदं विदां चकार ।
तस्माद्ध सामवेदमनूच्य व्याजहारसंवत्सराय दीक्षिष्य इति ।
अथ ह स्म ततः पुरो विपृच्छमानाश्चरन्ति संवत्सराय दीक्षिष्यामह इति ।
अथो ह स्म समवसायान्योऽन्यस्य वरणमाक्रोशमाना निभृत्यमनुपृच्छन्त आसते ।
ते ह स्म यावन्तस्संपादयन्ति ते ह स्म दीक्षन्ते ।
शश्वद्धैषा तदाशीरेव ।
तत्सत्त्रं भवति यत्तमेव ब्राह्मणं कृत्वोत्तिष्ठन्ति येनाब्राह्मणोक्तेन सह दीक्षन्ते ।
तस्मादब्राह्मणोक्तेन सह दीक्षेत ।
तस्य ह स्मास्य राजन्यबन्धोश्शार्दूलाजिनं मणिं हिरण्यमुपावहितं भवति ।
तद्ध स्म श्रोत्रियायोपप्रहित्याह संवत्सराय दीक्षिष्येऽनु मा शाधीति ।
तस्मै ह स्म राजन्यबन्धवे वक्तव्यं मन्यन्ते ५५

स ह तथैव पल्ययमानस्सोमशुष्मं सात्ययज्ञिमाजगाम ।
तं होवाच प्राचीनयोग्य संवत्सराय दीक्षिष्ये ।
भगवोऽनु नश्शाधीति ।
तथेति ।
तं ह वदन्नभिराधयां चकार ।
तं होपेयाय ।
तस्मै यदेमां क्ळ्प्तिं प्रोवाचाभ्यूहमनुजगौ प्रस्तावप्रतिहारान्विदधावथ हैनमनुशशास ।
अयं वाव संवत्सर इति होवाच ।
तस्यायमेव देवयानः पन्था इमे वर्तन्यावियं गतिरिति ।
स यदेतदेवं वेदानार्त एवं संवत्सरस्योदृचं गच्छति ।
पुरुषो वै प्रजापतिः ।
प्रजापतिस्संवत्सरः ।
स यो ह पुरुषो य एवायमन्तरिक्ष आकाश एष एव स पुरुषः ।
तद्यद्दृश्वदन्तरिक्षे न रमते पूर्णत्वैतन्न रमते ।
अथो यदस्मिन्सर्वस्मिनन्तरीक्षते तस्मादन्तरिक्षम् ।
अथो यदिदं सर्वं युते तस्माद्वायुः ।
अथो यदिदं सर्वं वाति तस्माद्वातः ।
तस्यैतस्याकाशस्यात्मा दमुमूढो यदसावादित्यः ।
स एष आदित्ये पुरुषः ।
अथ यत्ततः पर आकाशस्तस्यैष आत्मा समुमूढो यच्चन्द्र माः ।
स एष चन्द्र मसि पुरुषः ।
स न नाना मन्तव्य इति ह स्माह शाट्यायनिः ।
य एवायं चक्षुषि पुरुष एष एवादित्य एष चन्द्र मसीति ।
तमनयैव पुरुषविधयाप्नोति ५६

प्राण एव प्रायणीयोऽतिरात्रः ।
प्राणो हीदं सर्वं प्राणयत ।
तद्यत्प्राणयत तस्मात्प्राणः ।
वागेवारम्भणीयमहः ।
वाचा हि सर्वस्संवत्सरस्सर्वे यज्ञक्रतव आरब्धाः ।
तस्मादारम्भणीयेऽहन्सर्वाणि रूपाणि क्रियन्ते ।
सर्वाणि ह रूपाणि वाचि ।
अयमेकोऽभिप्लवोऽयमेकोऽयमेकोऽयमेकः ।
तस्यास्याभिप्लवस्येदं प्रथममहः ।
तस्येदमेव प्रातस्सवनमिदं माध्यन्दिनं सवनमिदं तृतीयसवनम् ।
इदमेव द्वितीयमहः ।
तस्येदमेव प्रातस्सवनमिदं माध्यन्दिनं सवनमिदं तृतीयसवनम् ।
इदमेव वैरूपं तृतीयमहः ।
तस्येदमेव प्रातस्सवनमिदं माध्यन्दिनं सवनमिदं तृतीयसवनम् ।
इदमेव शाक्वरं पञ्चममहः ।
तस्मादनेनोपसंगृह्य शक्नोति ।
तस्येदमेव प्रातस्सवनमिदं माध्यन्दिनं सवनमिदं तृतीयसवनम् ।
इदमेव रैवतं षष्ठमहः ।
तस्मादनया प्राश्नाति ।
तस्येदमेव प्रातस्सवनमिदं माध्यन्दिनं सवनमिदं तृतीयसवनम् ।
एवमस्याभिप्लवस्यैवमस्यैवमस्य ।
अयमेवात्मा पृष्ठ्यः ।
इम एव नव प्राणाः ।
त्रिवृत्प्रायणीयमहर्यत्प्राण इदं सर्वं प्राणयत ।
तद्यत्प्राणयत तस्मादप्येतत्प्रायणीयमहः ।
इमा एव ग्रीवाः पञ्चदशमहः ।
ओजो वै वीर्यम् ।
ग्रीवा ओजः ।
वीर्यं पञ्चदशः ।
तस्मात्पशवो ग्रीवाभिर्भारं वहन्ति ।
अष्टाविमे जत्रवोऽष्टाविम ऊर्ध्वो जत्रुस्सप्तदशः ।
तदेव सप्तदशमहः ।
इदमेवोदरमेकविंशमहः ।
सर्वे वै स्तोमा एकविंशमभिसंपन्नाः ।
सर्वमन्नाद्यमुदरे प्रतिष्ठितम् ५७

त्रयोदशेमाः परिशवस्त्रयोदशेमा अण्डपरिशुस्सप्तविंशती ।
तदेव त्रिणवमहः ।
त्रयस्त्रिंशदिमानि पृष्टिकाण्डानि सह किंकालुकाभिः ।
तदेव त्रयस्त्रिंशमहः ।
अयमभिजिदयं विश्वजिच्छुक्लं कृष्णं कनीनिका ।
त इमे त्रय स्वरसामान इमे त्रयोऽयं विषुवान् ।
प्राणापानावेव गोआयुषी ।
इम एव दश प्राणा दशरात्रः ।
मन एव महाव्रतीयमहः ।
उदान एवोदयनीयोऽतिरात्रः ।
त एते दश प्राणा दश स्तोमा दश छन्दांसि ।
इमे ह सप्त मुख्याः प्राणा द्वाववाञ्चौ नाभ्यां दशमः ।
इमे ह पृष्ठ्यस्य षडहस्य स्तोमाः ।
छन्दोमाः पञ्चविंशः ।
चतुर्धा इमान्यु ह सप्त चतुरुत्तराणि छन्दांसि सद्विपदाविराडतिच्छन्दाः ।
प्राण एव गायत्री चक्षुषी उष्णिक्ककुभौ श्रोत्रं जगती वागनुष्टुब्मनो बृहत्यात्मा पङ्क्तिर्बलं त्रिष्टुप् ।
प्रतिष्ठा द्विपदा मांसानि विराट्शरीराण्यतिच्छन्दाः ।
तेषामेषां सप्तानां चतुरुत्तराणां छन्दसां द्वादशैकविंशास्संपद्यन्ते ५८

गायत्र्! या उष्णिहोऽनुष्टुभश्चतुरशीतिरक्षराणि ।
ते चत्वार एकविंशाः ।
पङ्क्तेश्च त्रिष्टुभश्च चतुरशीतिरक्षरानि ।
ते चत्वार एकविंशाः ।
बृहत्यै च जगत्यै च चतुरशीतिरक्षराणि ।
ते चत्वार एकविंशाः ।
अथ त्रयाणां छन्दसां दशशतमक्षराणि ।
विंशत्यक्षरा द्विपदा ।
त्रिंशदक्षरा विराट् ।
षष्ट्यक्षरातिच्छन्दाः ।
तानि दशशतमक्षराणि संपद्यन्ते ।
ततो द्वे आदत्ते ।
अथ द्वादश त्रिवृतस्संपद्यन्ते ।
तानिमान्द्वादश त्रिवृतो द्वादशस्यैकविंशेषूपदधाति ।
ते द्वादश सत्रिंशिनो मासास्संपद्यन्ते तदेतच्छन्दांसि त्रिवृतं चैव स्तोममभिसंपद्यन्ते – ५९

– एकविंशं च वा पञ्च प्राणं चाग्नीञ्चादित्यं च ।
अथ ये द्वे अक्षरे ते बृहद्र थन्तरे ते अहोरात्रे ।
सोऽर्धमासस्स मासस्स ऋतुस्स संवत्सरः ।
तदाहुर्यत्प्राणाश्छन्दांसि छन्दांसि स्तोमा इत्याहुः कथं यजमानः प्राणैश्छन्दांस्यप्येति ।
छन्दोभि स्तोमाण्स्तोमैर्बृहद्र थन्तरे बृहद्र थन्तराभ्यामहोरात्रे अहोरात्राभ्यामर्धमासमर्धमासेन मासं मासेनर्तुमृतुना संवत्सरम् ।
कुतस्संवत्सरो जायते क्व प्रतिष्ठित इति ।
स विद्यादहमेव संवत्सरोऽस्मि मयि प्रतिष्ठित इति ।
एवंविदो ह वाव संवत्सरो जायत एवंविदि प्रतिष्ठितः ।
अथो आहुरादित्य एव संवत्सरः ।
एतं हि सर्वा श्रीस्सर्वं यशस्सर्वे देवास्समेतास्तस्मादादित्य एव संवत्सर इति ।
तस्य यद्भाति तत्संवद्यन्मध्ये कृष्णं मण्डलं तत्सर इत्यधिदेवतम् ।
अथाध्यात्मम् ।
अयमेव संवत्सरो योऽयं चक्षुषि पुरुषः ।
तस्य यच्छुक्लं तत्संवद्यन्मध्ये कृष्णं मण्डलं तत्सरः ।
अथो आहुरादित्य एव संवच्चन्द्र मास्सरः ।
तमेष सरति ।
तं पौर्णमास्यामाप्नोतीति ।
तदु वा आहुः प्राण एव संवद्वाक्सरः ।
एताभ्यां हि समश्नुत इति तस्य वा एतस्य संवत्सरस्याग्निष्टोमसामान्येव देवयानः पन्थाः – ६०

– तानि वा एतानि रौहिणकानि नाम ।
एतैर्वै देवा स्वर्गं लोकमारोहन् ।
यदरोहंस्तस्माद्रो हिणकानि ।
तस्माद्वयमन्वहमेवाग्निष्टोमसामानि कुर्मः ।

अथ वर्तन्यौ बृहद्र थन्तरे ।
एताभ्यां ह वा एष एतद्वर्तते ।
तस्माद्वयमतिरात्र उभे बृहद्र थन्तरे कुर्मः कृत्स्नं नस्साम युक्तं यज्ञं वहत्कृत्स्नेन साम्नोदृचमश्नवामहा इति ।
अथ गतिः ।
यश्चैवासावादित्ये पुरुषो यश्चायमध्यात्मंस्तदेतत्प्रजापत्ययनमित्येवोपासितव्यम् ।
एतेन वा अयनेन प्रजापतिरिमामृद्धिमार्ध्नोदिमां व्यष्टिं व्याश्नुत ।
तद्यामेव प्रजापतिरृद्धिमार्ध्नोद्यां व्यष्टिं व्याश्नुत तामेवर्द्धिमृध्नोति तां व्यष्टिं व्यश्नुते य एवं वेद ६१

एष वाव दीक्षितो य एष तपति ।
स एष इन्द्रि यं ज्यैष्ठ्यं श्रैष्ठ्यमभि दीक्षितः ।
तस्य येऽर्वाञ्चो रश्मयस्तानि श्मश्रूणि य ऊर्ध्वास्ते केशाः ।
अहोरात्रे एव कृष्णाजिनस्य रूपम् ।
अहरेव शुक्लस्य रूपं रात्रिः कृष्णस्य ।
अथ यदेतन्मण्डलं ता आपस्तदन्नं तदमृतम् ।
तस्मिन्नेतस्मिन्मण्डले तेजोमयश्छन्दोमयपुरुषः ।
स प्राणस्स इन्द्र स्स प्रजापतिस्स दीक्षितः ।
तदेतद्दीक्षयैव संगृहीतम् ।
तत आभ्यः प्रजाभ्योऽन्नाद्यं विसृजते ।
तस्येमा एव दिशः पत्नय आसन् ।
तं हेमास्तिस्रो दिशोऽतिचेरुः ।
इयं हैवास्यानुव्रततमास येयं दक्षिणा दिक् ।
तस्मादेष एतामेवाभ्युपावर्तते ।
यद्यप्युत्तरत उदेत्यथैतामेवाभ्युपावर्तते ।
तस्माद्यास्य प्रिया जाया स्यात्तां दक्षिणार्ध्यां कुर्यात् ६२

प्रथमां संनह्यति प्रथमां वाचयति प्रथमां पूर्णपात्र आगच्छत्यनन्तरिताः पत्नय स्थ ।
उदगु यज्ञीयं कर्म संतिष्ठते ।
इति न्वधिदेवतम् ।
अथाध्यात्मम् ।
अयमेव दीक्षितो योऽयं चक्षुषि पुरुषः ।
तस्य यान्यर्वाञ्चि पक्ष्माणितानि श्मश्रूणि यान्यूर्ध्वानि ते केशाः ।
यदेव शुक्लं च कृष्णं च तत्कृष्णाजिनस्य रूपम् ।
शुक्लमेव शुक्लस्य रूपं कृष्णं कृष्णस्य ।
अथ यदेतन्मण्डलं ता आपस्तदन्नं तदमृतम् ।
तस्मिन्नेतस्मिन्मण्डले तेजोमयश्छन्दोमयः पुरुषः ।
स प्राणस्स इन्द्र स्स प्रजापतिस्स दीक्षितः ।
स हैवंविद्दीक्षमाणो यथैवैष एतदिन्द्रि यं ज्यैष्ठ्यं श्रैष्ठ्यमभि दीक्षित एवमेवेन्द्रि यं ज्यैष्ठ्यं श्रैष्ठ्यमभि दीक्षितो भवति ।
तस्मादु हैवंविदि दीक्षित ईश्वरो राष्ट्राणि समुत्कम्पितोः क्षामरन्ध्र इव हि समाभवति ।
एवं ह्येतदिन्द्रि यं ज्यैष्ठ्यं श्रैष्ठ्यमभि दीक्षितो भवति ।
तस्मादु सर्वमेवाभिवदत्याचार्यं पितरं क्षत्रियम् ।
एवं ह्येतदिन्द्रि यं ज्यैष्ठ्यं श्रैष्ठ्यमभि दीक्षितो भवति ६३

विचक्षणवतीं वाचं वदति ।
अन्नं वै विचक्षणम् ।
अन्नवतीमेव तद्वाचं वदति ।
विचक्षणवतीं वाचं वदति ।
सोमो वै विचक्षणः ।
अन्नमु सोमः ।
अन्नवतीमेव तद्वाचं वदति ।
विचक्षणवतीं वाचं वदति ।
प्राणो वै विचक्षणः ।
तस्य वागेव मिथुनम् ।
मिथुनवतीमेव तद्वाचं वदति ।
विचक्षणवतीं वाचं वदति ।
अन्नं वै विचक्षणम् ।
अन्नेन हीमाः प्रजा विपश्यन्ति ।
तत आभ्यः प्रजाभ्योऽन्नाद्यं प्रयच्छति ।
स यदास्मै व्रतं प्रयच्छेत्सर्वमेव व्रतयेत्सर्वस्यान्नाद्यस्यावरुद्ध्यै ।
यद्यु परिशिंष्याद्व्रतप्रदं ब्रूयादशान वा पिब वेति ।
यद्य उ व्रतप्रदोऽनुच्छिष्टाशी वा स्यात्परि वा शिंष्यात्तदद्भिरभ्युक्ष्य छायायां निषेक्तवै ब्रूयात् ।
तदोषधीभिरभिसंछादयितवै ब्रूयात् ।
तदोषधीनां मूलान्युपसिञ्चति ।
वर्षुकः पर्जन्यो भवति यत्रैवंविद्वान्दीक्षिते ।
दीक्षिता ऊदशूशुषन्नितीहाहुः ।
स यदा दीक्षणीयेष्टिस्संतिष्ठेत यदैनमध्वर्युरभ्यञ्जयेद्यदा संपवयेदथैतमादित्यमुपतिष्ठेत त्वं देवता दीक्षितासि ।
सा दीक्षमाणस्येन्द्रि यं ज्यैष्ठ्यं श्रैष्ठ्यं यश आदत्से ।
मा म इन्द्रि यं ज्यैष्ठ्यं श्रैष्ठ्यं यश आदिथाः ।
तव दीक्षामनु दीक्ष इति ।
तस्यैषा देवता दीक्षमानस्येन्द्रि यं ज्यैष्ठ्यं श्रैष्ठ्यं यशो नादत्ते ६४

तमध्वर्युरभ्यज्य प्रपाद्यौद्ग्रहणानि जुहोति ।
यदौद्ग्रहणानि जुहोति यदस्मा औदुम्बरदण्डं प्रयच्छत्यथैतमाहवनीयमुपतिष्ठेत वाचा मे वाग्दीक्षितामग्नये समष्टवा उ प्राणेन मे प्राणो दीक्षितां वायवे समष्टवा उ चक्षुषा मे चक्षुर्दीक्षितां सूर्याय समष्टवा उ मनसा मे मनो दीक्षितां प्रजापतये समष्टवा विति ।
तदेताभिरनार्ताभिर्देवताभिरिमा स्वा देवता दीक्षयति ।
अथाह अग्निर्दीक्षितः पृथिवी दीक्षा सा मा दीक्षा दीक्षेत तया दीक्षया दीक्षे ।
वायुर्दीक्षितोऽन्तरिक्षं दीक्षा सा मा दीक्षा दीक्षेत तया दीक्षया दीक्षे ।
आदित्यो दीक्षितो द्यौर्दीक्षा सा मा दीक्षा दीक्षेत तया दीक्षया दीक्षे ।
प्रजापतिर्दीक्षितो मनो दीक्षा सा मा दीक्षा दीक्षेत तया दीक्षया दीक्षे ।
वाचं म ऋचोऽनु दीक्षन्तां मनो यजूंषि प्राणं सामानि ।
श्रद्धां मे सोमो राजानु दीक्षताम् ।
ऋचा दीक्षे यजुषा दीक्षे साम्ना दीक्षे पृथिव्या दीक्षेऽन्तरिकेण दीक्षे दिवा दीक्ष इत्यत्र कृत्स्नो दीक्षितः अथ यस्यादीक्षिता इमे लोका अदीक्षितानि छन्दांस्यदीक्षितस्सोमो राजा – ६५

– तं सकाममभ्यश्नुवीत ।
अथ हैवंविद्दीक्षमान एव सर्वान्कामानुपाप्नोति ।
तस्माद्दीक्षासु न राजानं परिवेविष्यात् ।
यद्व्रतो ह्येवैष भवति तद्व्रता इमे लोकास्तद्व्रतानि छन्दांसि तद्व्रतस्सोमो राजा ।
अथाह भूर्भुव स्वस्सुपोषः पोषैस्सुवीरो वीरैस्सुप्रजः प्रजयासमिति ।
तदेतामपरिमितामाशिषमन्त आशास्ते तपो मे प्रतिष्ठेति ।
तत्तपः प्रतिष्ठां कुरुते ।
श्रद्धा मेऽक्षितिरिति तच्छ्रद्धामक्षितिं कुरुते ।
सत्यं मे गृहपतिरित्येष वै सत्यम् ।
सत्यं य एष तपति ।
सैषानार्ता देवता ।
तदेतामनार्तां देवतां गृहपतिं कुरुते ।
स वा एष सुव्रतः ।
यद्ध्येषा खला स्यात्सर्वमिदं प्रदहेत् ।
तस्माद्गृहपतिस्सुव्रत स्यात् ।
स यद्वदीक्षितव्रतं चरेदपापवद्यं वा पापं वदेन्मिथुनं वा चरेदन्यद्वा मिथ्याकुर्यादेतमेवादित्यमेतैस्सर्वैर्जपैरुपतिष्ठेत ।
ततो हैव दीक्षितः ।
स वा एष एतर्ह्यदीक्षितः ।
यद्वेवास्मिन्दीक्षिते यश आसीत्तद्वेवास्मिन्नप्येतर्हि यशः ।
तदाहुस्स वाद्य दीक्षेत स वान्यं दीक्षयेद्य एतस्य दीक्षितयशसस्य व्यवच्छित्तिं विद्यादिति ।
कृष्णाजिनं वाव दीक्षितयशसम् ।
एतद्धि सर्वेषां वेदानां रूपम् ।
यानि शुक्लानि तानि साम्नां रूपं यानि कृष्णानि तान्यृचाम् ।
यदि वेतरथा ।
यान्येव बभ्रूणीव हरीणि तानि यजुषाम् ।
तस्माद्यद्यप्येनददृष्टो वस्ते दिदृक्षन्त एवैनम् ।
एतद्ध्यस्मिन्दीक्षितयशसं भवति ६६

ते ये सकृष्णाजिना अपोऽभ्यवयन्ति य एतस्माद्दीक्षितयशसादवच्छिद्यन्ते ते सर्वमात्मानं प्रप्लाव्य पाप्मना सहोदायन्ति ।
स यदावभृथेष्टिस्संतिष्ठेताथोन्मुच्य कृष्णाजिनमद्भिरभ्युक्षेदिन्द्रि याज्ज्यैष्ठ्याच्छ्रैष्ठ्यान्मा योषमिति अथ यं रातिं मन्यते तस्मै प्रयच्छति ।
अथाप आचामति भक्षस्यावभृथोऽसि भक्षणस्यावभृथोऽसि भक्षितस्यावभृथोऽसीति ।
स यदेवात्रर्जीषे किं चित्सक्तं भवति तस्यैष भक्षः ।
अथापः प्रविशति ।
न्यञ्चनं वा एतत्प्रपदनं यदापः ।
न्यञ्चनमेवैतत्प्रपदनं प्रपद्यते पाप्मनोऽनन्ववायाय ।
यद्याप स्यन्देरन्प्रतिस्रोतं गाहेत पाप्मानं मे निर्वहानिति ।
सर्वा उ ह त्वा आप स्यन्दन्ते ।
या उ ह स्थावरा अवाचीस्ता स्यन्दन्तेऽवाञ्चमेवास्य ताः पाप्मानं निर्वहन्ति ।
अन्योऽन्यस्य जायापती पृष्ठं प्रधावतः ।
वज्रो वा आपः ।
वज्रेणैव तत्सर्वं पाप्मानमपहनाते ।
अथो द्वन्द्वमेव तन्मिथुनं प्रजननं कुर्वाते प्रजात्यै ।
स्नात्वा क्षिप्र उदेयात्क्षिप्रे पाप्मनो व्यावृत्त्या इति ६७

उन्नेतरुन्मा नयेत्याह ।
विष्णुर्वा उन्नेता यज्ञो वै विष्णुः ।
यज्ञ एवैनं तत्सर्वस्मात्पाप्मनो विमुच्योन्नयति ।
उद्वयं तमसस्परि सुवः पश्यन्तो ज्योतिरुत्तरम्
देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम्
इत्येतां जपन्नुदैति ।
एतद्वै ज्योतिरुत्तमं य एष तपति ।
सैषानार्ता देवता ।
तदेतामनार्तां देवतामारभ्योदैति ।
औदुम्बरीराद्रा र्स्स!पलाशास्समिधः कुर्वत एधोऽस्येधिषीमहीति गत्वाहवनीये समिधमभ्यादधाति समिदसि तेजोऽसि तेजो मयि धेहि स्वाहेति ।
अभ्याधायोपतिष्ठते
अपोऽन्वचार्षं रसेन समसृक्ष्महि
पयस्वं अग्न आगमं तं मा संसृज वर्चसा
इति ।
एवमेव पत्नी गार्हपत्येऽभ्याधायोपतिष्ठते ।
आज्यस्थालीं सस्रुवामादायोत्तरेणाग्नीध्रं च सदश्च परीत्यापरेण गार्हपत्यमुपविश्योपस्थे कृष्णाजिनमाधाय चतुर्गृहीतमाज्यं गृहीत्वा जुहोति मयीन्द्रि यं ज्यैष्ठ्यं श्रैष्ठ्यमग्निर्दधातु स्वाहेति ।
स यदेवास्मिन्दीक्षिते यशो भवति तदस्मिन्नुत्थिते यशो भवति ।
तत्कृष्णाजिनं नातिपादयेत्स्रुगवधानं वैनत्कुर्वीत हविषो वाधिपेषणं पुनर्दीक्षितायै वैनन्निदधीत ।
एषा वै कैशिनी दीक्षा ।
एतां ह केशी दार्भ्यो दीक्षामुपनिषसाद ६८

मृत्युप्रजापती यदयजेतां तौ यज्ञाभ्यामेवास्पर्धेताम् ।
अथ ह तर्हि यज्ञायुधान्यासुर्यथेमान्येतर्हीष्टीष्वायुधानि ।
तद्यद्यज्ञे स्तूयते यच्छस्यते यत्प्रचर्यते सा प्रजापतेस्सेनास ।
अथ यद्वीणायां गीयते यन्नृत्यते यद्वृथाचर्यते सा मृत्योस्सेनास ।
तयोर्ह समावत्यावेव सेने आसतुर्यावत्येवेतरस्य तावतीतरस्य ।
तौ ह ज्योगेवाविजयमानौ चेरतुर्बहून्येव वर्षाणि ।
स प्रजापतिरकामयत जयेयं मृत्युमिति ।
स एतां यज्ञे संपदमपश्यदेतत्संख्यानम् ।
तेन मृत्युमजयत् ।
तस्य पराजितस्य राजाशुच्यत् ।
स प्रत्यङ्पतित्वा पत्नीशालां प्रापद्यत ।
तस्मात्पत्नीभ्य हय च यस्संपदासुत इत्यसुत इति हैतन्न हि सोऽसूयत तस्य यानि स्तुतशस्त्राण्यासन्यदेवैतद्वीणायां गीयते यन्नृत्यते यद्वृथाचर्यते तान्येव तानि – ६९

– अथ यो यूप आसीद्य एवैष वीणायै दण्डस्स एव सः ।
अथ या रशना आसन्यान्येवैतानि वीणाया उपवाणानि ता एव ताः ।
अथ यो द्रो णकलश आसीद्यैवैषा वीणायै सूना स एव सः ।
अथ यदधिषवणं चर्मासीद्यदेवैतद्वीणायै चर्म तदेव तत् ।
अथ य उपरवा आसन्य एवैते वीणाया आकाशास्त एव ते ।
अथ ये ग्रावाण आसन्यान्येवैतानि वीणायै वादनानि त एव ते ।
अथ यानि सप्त चतुरुत्तराणि छन्दांस्यासन्या एवैतास्सप्त वीणायै तन्त्र्! यस्तान्येव तानि ।
अथ ये दशरात्रे स्तोमा आसन्या एवैता दशाङ्गुलयस्त एव ते ।
तदाहुर्नैतर्हि संसवोऽस्ति ।
यो हि द्वितीयो यज्ञ आसीदशुच्यत्सः ।
एक एव यज्ञः ।
प्रजापतिर्यज्ञ एवेति ७०

अथ वा अतस्संख्यानस्यैव ।
तस्य वा एतस्य संवत्सरस्य सप्त विंशतिशतान्यहोरात्राणां भवन्ति ।
ता नवाशीतयः ।
अथास्य सवनानामशीतिश्च सहस्रं च त्रीणि च ।
तावन्तः पवमानाः ।
तदेतच्छ्लोकेनाभिगीतम्
अष्टावेता नवतयो भवन्त्यहोरात्राणां परिवत्सरस्य
अशीतिरस्मिन्सवनानि त्रीणि च सहस्रं च पवमानाश्च सर्वे
इति ।
अथास्य स्तुतशस्त्राणां षष्टिशते च द्वे दश च सहस्राणि ।
अथास्मिन्धिष्णिया य अग्नयो विह्रियन्ते दश चैव सहस्राण्यष्टौ च शतानि त्रिंशतं च ।
तदेतच्छ्लोकेनाभिगीतम्
षष्टिशते द्वे मासि षट्च स्तुतशस्त्राणामा शतं चा शतानि
दश सहस्राणि शतान्यष्टौ संवत्सरे धिष्णियास्त्रिंशतं च
इति ७१

तावन्ति तारकनक्षत्रानि तावन्ति ज्योतींषि तावन्तोऽर्काः ।
आप्नोति ह वा एतानि तारकनक्षत्राण्याप्नोति ज्योतींष्याप्नोत्यर्कान्य एवं वेद ।
अथास्य स्तोत्र्! याणां नवतिश्च सहस्राणि त्रीणि च शतानि षण्णवतिश्च ।
तदेतच्छ्लोकेनाभिगीतम्
स्तोत्र्! या अस्य नवतिस्सहस्रा त्री च शता नवतिश्चोप षट्च
ताभिस्संस्तुतो विवसान एति भूतं भविष्यद्भुवनं प्रजापतिः
इति ।
अथास्य पदानां चत्वारि च सहस्रा त्रिंशं चायुतानि सप्त शतानि पञ्चाशतं पदानि ।
तदेतच्छ्लोकेनाभिगीतम्
चत्वारि सहस्रा त्रिंशं चायुतानि सप्त शतानि पञ्चाशतं पदानि
संवत्सरस्य कविभि स्तुतस्यैतावती मध्यमा देवमात्रा
इति ७२

अथास्याक्षराणामयुतमेकं प्रयुतानि षष्टिर्नियुते द्वे नव चाक्षराणि सप्त सहस्राणि दशतो दश ।
तदेतच्छ्लोकेनाभिगीतम्
अयुतमेकं प्रयुतानि षष्टिर्नियुते द्वे नव चाक्षराणि
सप्त सहस्राणि दशतो दशैतावानात्मा परमः प्रजापतेः
इति ।
तदेतदनन्तं यत्संख्यानम् ।
तदेतदमृतं यत्संख्यानम् ।
स एष सुकृतस्सो यत्संख्यानम् ।
अथ यदसंख्यानं मर्त्यं तत् ।
तस्मादु समेव चक्षीत ।
सा हैषा देवानां सेना यत्संख्यानम् ।
मनुष्यसेनया वाव नु तं स्तृणुते यं तिस्तीर्षते ।
तादृगिह तं स्तृणवातै यं देवसेनया तिस्तीर्षाता इति ।
अथैते त्रयः पन्थानस्सुकृता देवयाना अक्षर्यः पद्य ऋक्म्यश्च ।
ते विद्वांसोऽभिवहन्ति ब्राह्मणं यत्र मृत्युर्भवत्यन्नमस्य ।
तदेतच्छ्लोकेनाभिगीतम्
त्रयः पन्थानस्सुकृता देवयाना अक्षर्यः पद्य ऋक्म्यश्च
ते विद्वांसोऽभिवहन्ति ब्राह्मणं यत्र मृत्युर्भवत्यन्नमस्य

अक्षरशः पच्छोऽमृतं लिहानाः – ७सुवरायन्देवता देवसत्त्रात्
तपसा कर्म कवयोऽनुगत्य
आह्नाय मृत्युमति मेधयायन्

विजानन्तो दहन्तो यन्ति शोकम्
मनीषिणो यदपक्षाः पतन्ति
यत्रामृतं विद्यते नोत मृत्युस्
तत्र विद्वांसः कवयः क्षियन्ति
इति ।
एवंविद्वांसो यजमानमृत्विजो लोकान्पशूनभि कामान्वहन्ति ।
स यज्ञेषु स्तुतशस्त्रमश्नुतेऽक्षय्या यस्य भवन्त्यृत्विजोऽध्वर्युर्होतोत सामगः ।
तस्मै छन्दांसि मधुधाराः क्षरन्ति ।
स यज्ञेषु स्तुतशस्त्रमश्नुतेऽक्षय्या यस्य भवन्त्यृत्विजोऽध्वर्युर्होतोत सामगः ।
तस्मै छन्दांस्यमृतकुल्या अभिवहन्ति ऊर्मिणी स्तोत्रशस्त्रैरिति ७४

एकैकमु ह वा एतेषामक्षराणां यावतीयं पृथिवी तावत् ।
ऊर्जोऽन्नाद्यस्य मधुनोऽमृतस्य कामस्य-कामस्य पिब्दमानं तिष्ठति ।
तद्धैवंविद्वान्ब्राह्मणस्सहस्रं-सहस्रं देवयुगान्युपजीवति ।
तद्यदाप्यतेऽथेतरदुपसंक्रामत्यथेतरत्पुनराख्यायते ।
तस्मादु हैवंविदे ब्राह्मणाय दित्सन्त्यस्योर्जोऽन्नाद्यस्य मधुनोऽमृतस्य कामस्य-कामस्य लिप्सामहा इति ।
यथा ह वा इदं क्षेत्रपादं वा क्षेत्ररज्जुं वावक्रीयासत एवमेवैवंविदो ब्राह्मणाल्लोकमवक्रीणते ।
स यथा क्रये पर्यवेते क्षेत्रिणमेव क्षेत्राण्यपियन्त्येवं लोकिनमेव लोका अपियन्ति ।
स यद्ध वा अप्येवंविद्वान्ब्राह्मणः पूर्णां पृथिवीं प्रतिगृह्णीयादेकमेव तस्याक्षरं ज्यायः ।
तस्मादु हैवंविद्वान्ब्राह्मणो दद्याच्चैव प्रतिगृह्णीयात् ७५

जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे ।
ते तदु ह कुरुपञ्चालानां ब्राह्मणा अभिसमाजग्मुः ।
स ह सहस्रं गवामवरुन्धान उवाच ब्राह्मणा एता वो यो ब्रह्मिष्ठस्स उदजतामिति ।
स होवाच वाजसनेयोऽर्वाचीरेतास्सोम्येति ।
तं होचुस्त्वं नु नो ब्रह्मिष्ठोऽसी३ इति ।
स होवाच नमो वो ब्रह्मिष्ठायास्तु ।
गोकामा एव वयं स्म इति ।
ते होचुः को न इमं प्रक्ष्यतीति ।
स होवाच विदग्धश्शाकल्योऽहमिति ।
तं ह पुरस्कृत्येयुः ।
तं ह प्रतिख्यायायन्तमुवाच त्वां स्विच्छाकल्य ब्राह्मणा उल्मुकावक्षयणमक्रता३ इति ।
स होवाच यदि तेनोल्मुकावक्षयणं स्मः प्रक्ष्यामो न्वै त्वामिति ।
तं ह पप्रच्छ कति देवा याज्ञवल्क्येति ।
स होवाच त्रयश्च त्रिंशच्च त्रयश्च त्री च शता त्रयश्च त्री च सहस्रा यावन्तो निविदाभ्याहूता इति ।
ओमिति होवाच ७६

कत्येव देवा इति ।
त्रय इति ।
ओमिति होवाच ।
कत्येव देवा इति ।
द्वाविति ।
ओमिति होवाच ।
कत्येव देवा इति ।
एक इति ।
ओमिति होवाच ।

कतमे त्रयश्च त्रिंशच्च त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ।
महिमान एवैषां त इति होवाच ।
त्रयस्त्रिंशद्वावेति ।
कतमे त्रयस्त्रिंशदिति ।
अष्टौ वसव एकादश रुद्रा द्वादशादित्या इन्द्र श्चैव प्रजापतिश्च त्रयस्त्रिंशाविति ।
कतमे वसव इति ।
अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौश्च चन्द्र माश्च नक्षत्राणि चैते वसवः ।
एतेषु हीदं सर्वं वसु हितमिति ।
तस्माद्वसव इति ।
कतमे रुद्रा इति ।
दश पुरुषे प्राणा इति होवाच ।
आत्मैकादशः ।
ते यदोत्क्रामन्तो यन्त्यथ रोदयन्ति ।
तस्माद्रुद्रा इति ।
कतम आदित्या इति ।
द्वादश मासास्संवत्सर इति होवाच ।
एत आदित्याः ।
एते हीदं सर्वमाददाना यन्ति ।
तस्मादादित्या इति ।
कतमे त्रय इति ।
इम एव लोका इति ।
कतमौ द्वाविति ।
अहोरात्राविति ।
कतम इन्द्र ः! कतमः प्रजापतिरिति ।
वागेवेन्द्रो मनः प्रजापतिरिति ।
कतमैका देवतेति ।
प्राण इति ।
स होवाचानतिप्रश्न्यां वै मा देवतामत्यप्राक्षीः पुरैतावतिथ्या मर्तासि ।
न ते शरीराणि चन गृहान्प्राप्स्यन्तीति ।
तद्ध तथैवास ।
स ह तथैव ममार ।
तस्य हापहारिणोऽनन्तरेण शरीराण्यपजह्रुरन्यन्मन्यमानाः ।
तस्मादु ह नोपवदेत् ।
अपि ह्येवंवित्परो भवतीति ७७

ब्रह्म च ह वै सुब्रह्म चैषु लोकेष्वासतुरस्मिन्भुवने ।
ततस्सुब्रह्मोच्चक्राम ।
असौ वा आदित्यो ब्राह्माथो वागेव सुब्रह्म ।
ते देवा इहैव वेद्या अन्तर्वेदि यज्ञेन ब्रह्म पर्यगृह्णन् ।
तदिदमप्येतर्हि वेद्या अन्तर्वेदि यज्ञेन ब्रह्म परिगृहीतम् ।
तदाहुर्यदन्या होत्रा अन्तर्वेदि कुर्वन्त्यथ कथं सुब्रह्मण्यो बहिर्वेदि करोतीति ।
स ब्रूयादेष वेद्या आत्मा यदुत्कर एतत्प्रत्यक्षं ब्रह्म यत्सुब्रह्मण्या ।
यदुत्करमास्याथ सुब्रह्मण्यामाह्वयति तेनास्यान्तर्वेदि कृतं भवतीति ।
सुब्रह्मण्यो३ं! सुब्रह्मण्यो३ं! सुब्रह्मण्यो३मिति त्रिराह ।
वाग्वै सुब्रह्मण्या ।
तदेतां वाचं प्रथमत आरभते ।
अथो ब्रह्म वाग्रस ॐकारः ।
तामेतां वाचं रसेन प्रीणाति तद्धैतदेक ॐ सुब्रह्मण्येत्याह्वयन्ति – ७८

प्राणो ह्यग्रेऽथ वागिति ।
तद्ध तन्न तथा ।
यथा मध्वासिच्य लाजानावपेत्तदन्यधेव स्यात्तादृक्तत् ।
तस्मात्सुब्रह्मण्यो३मित्येवाह्वयेत् ।
इन्द्रा गच्छेति ।
इन्द्र मेव तद्यज्ञ आह्वयति ।
हरिव आगच्छेति ।
हरिभ्यामायाहीति वावैनं तदाह ।
प्रानापानौ वास्य हरी ।
तौ हीदं सर्वं हर्तारौ हरतः ।
अथो अहोरात्रौ वास्य हरी ।
तौ हीदं सर्वं हर्तारौ हरतः ।
मेधातिथेर्मेषेति ।
मेह्दातिथेर्ह मेषो भूत्वा राजानं पपौ ।
वृषणश्वस्य मेन इति ।
वृषणश्वस्य ह मेना भूत्वा मघवा कुल उवास ।
गौरावस्कन्दिन्निति ।
ततो हैव गौरो भूत्वार्णवमवचस्कन्द ।
अहल्यायै जारेति ।
अहल्यायै ह मैत्रेय्यै जार आस ।
कौशिक ब्राह्मण कौशिक ब्रुवाणेति ।
यद्ध वा आसुरैर्महासंग्रामं संयेते तद्ध वेदान्निराचकार ।
तान्ह विश्वामित्रादधिजगे ।
ततो हैव कौशिक ऊचे अथ ह वा एके कौशिक ब्राह्मण गौतम ब्रुवाणेत्याह्वयन्ति – ७९

– तदु ह वा आरुणिनैव यशस्विनोपज्ञातम् ।
तस्मादु तस्याशां नेयात् ।
तस्मात्कौशिक ब्राह्मण कौशिक ब्रुवाणेत्येवाह्वयेत् ।
देवा ब्रह्माण आगच्छतागच्छतेति देवांश्चैव तद्ब्राह्मणांश्च समामन्त्रयन्ते ।
ते हास्मै समामन्त्रितास्सुमतिमिच्छन्ते ।
तस्मादु ह समामन्त्र्! य मापराध्नुयान्नेन्मोपवदादिति ।
तदाहुः किंछन्दस्सुब्रह्मण्येति ।
त्रिष्टुबिति ब्रूयात् ।
षन्द्री हि त्रिष्टुबिति ।

तदाहुः किंदेवत्या सुब्रह्मण्येति ।
षन्द्री ति ब्रूयात् ।
इन्द्रं ह्येनयाह्वयतीति ।
अथो ह ब्रूयाद्वैश्वदेवीति ।
विश्वान्ह्येनया देवानाह्वयतीति ।
तदाहुर्यदन्या होत्रा स्तोत्रवत्यश्शस्त्रवत्योऽथ क्व सुब्रह्मण्यायै स्तोत्रं क्व शस्त्रमिति ।
स ब्रूयादेतस्यामेवैतत्सर्वं यदृक्साम यजुः ।
तेनास्य सुब्रह्मण्या स्तोत्रवती शस्त्रवती भवतीति ।
तदाहुः किमिव स्वित्सुब्रह्मण्यर्गिव स्वी३त्सामेवा३ उताहो यजुरिवा३ इति ।
स ब्रूयान्नैवैषर्ङ्न यजुर्न साम ।
सर्वमिवैव ।
सर्वमिव ह्येव ब्रह्मेति ।
अथ यां क्रीते राजनि सुब्रह्मण्यामाह्वयति यामेतां दक्षिणासु नीयमानासूत्करे तिष्ठन्सुब्रह्मण्यामाह्वयति सैवेयम् ।
अथो यत्प्रायणं तदुदयनमसदिति ।
अथो आगत एवेन्द्र स्तं मा निर्वोचामेति ।
एषा ह वै धेनुः पञ्चवत्सा पञ्चपदा ।
यद्ध वा इदमाहुः पाङ्क्ताः पशव इत्येतद्ध तत् ।
तां ह वा एके यथादेवतमाह्वयन्ति ।
सर्वाग्नेयीमग्निष्टुत षन्द्री मिन्द्र स्तोमस्य वैश्वदेवीं वैश्वदेवस्य अनिरुक्तामनिरुक्तस्य ।
तदु ह शश्वन्न तथा ।
नो हि ब्रह्मणो व्यापादोऽस्ति ।
यथानिपतितमेवाह्वयेद्यथानिपतितमेवाह्वयेत् ।

एकाहाः

अथैष उपशदः ।
कश्यपो वा अकामयत उपोप मा प्रजाः पशवः शीयेरन्नुपोप प्रजया पशुभिः प्रजायेयेति ।
स एतं यज्ञमपश्यत् ।
तमाहरत् ।
तेनायजत ।
ततो वै तमुपोप प्रजाः पशवोऽशीयन्त उपोप प्रजया पशुभिः प्राजायत ।
उपोप ह वा एनं प्रजाः पशवः शीयन्त उपोप प्रजया पशुभिः प्रजायते य एवं वेद ।
तस्य त्रिवृद्बहिष्पवमानं भवति ।
न्यूनं वै त्रिवृत् ।
न्यूनं प्रजननम् ।
तद्यत्प्रजननं तन्मा प्रजनयादिति ।
तस्यैकोत्तरा स्तोमा भवन्ति ।
अनन्तर्हितात्प्रजननात्प्रजाया इति ।
यद्वेवैषैकैका स्तोत्र्! योपशीयते तस्मादुपशदः ।
तस्योभये स्तोमा भवन्त्ययुजश्च युग्मन्तश्च ।
एतद्वै दैव्यं मिथुनं प्रजननं यदुभये स्तोमाः ।
तद्यद्दैव्यं मिथुनं प्रजननं तन्मा प्रजनयादिति ।
तस्योभे बृहद्र थन्तरे सामनी भवतः ।
एतद्वै दैव्यं मिथुनं प्रजननं यदुभे बृहद्र थन्तरे ।
तद्यद्दैव्यं मिथुनं प्रजननं तन्मा प्रजनयादिति ८१

तस्य वसिष्ठस्य जनित्रे आदिष्टसामनी पवमानयोर्भवतः ।
एतद्वै दैव्यं मिथुनं प्रजननं यद्वसिष्ठस्य जनित्रे ।
तद्यद्दैव्यं मिथुनं प्रजननं तन्मा प्रजनयादिति ।
तस्य सविंशमग्निष्टोमसाम भवति ।
सा विराट् ।
अन्नम्विराट् ।
विराज्येव तदन्नाद्ये यज्ञस्यान्ततः प्रतितिष्ठति ।
तदाहुरप्रजननी स्तोमो विराजमभि सम्पन्नो नैनेन यजेतेति ।
तदु वा आहुः प्रजनन एव ।
अन्नं वै विराट् ।
अशिताद्वै रेतस्सिच्यते ।
रेतसः प्रजाः प्रजायन्ते ।
तस्मात्प्रजनन एवेति ।
अथो आहुरष्टादशमेवाच्छावाकस्य कृत्वा सविंशमार्भवमेकविंशमग्निष्टोमसाम कुर्यादिति ।
तदु प्रज्ञात एकविंशे स्तोमेऽन्तत स्तोत्राणां प्रतितिष्ठति ।
अथैष शदः ।
आदित्यो वा अकामयत अवशात्यैव सर्वं पाप्मानं स्वर्गं लोकमभ्युत्क्रामेयमिति ।
स एतं यज्ञमपश्यत् ।
तमाहरत् ।
तेनायजत ।
ततो वै सोऽवशात्यैव सर्वं पाप्मानं स्वर्गं लोकमभ्युदक्रामत् ।
स एषोऽपहतपाप्मा तपति ।
अवशात्य हैव सर्वं पाप्मानं स्वर्गं लोकमभ्युत्क्रामति य एवं वेद ।
यद्वेवैषैकैका स्तोत्र्! यावशीयते तस्माच्छदः ८२

अथैष पुनस्तोमः ।
स हायमृषिरागत्य न शशाकोत्थातुमसुराशनेन ।
गरो हैनमाविवेश यद्वा मित्राय दुद्रो ह यद्वा विद्विषाणानामशनमाश ।
स हेन्द्र मुवाच न वै शक्नोम्युत्थातुमिति ।
स एतं यज्ञमपश्यत् ।
तमाहरत् ।
तेनैनमयाजयत् ।
तस्य त्रिवृत्प्रातस्सवनं भवति त्रिवृत्तृतीयसवनम् ।
न्यूनं वै त्रिवृन्न्यूनान्निक्षरति ।
तमेताभ्यां त्रिवृद्भ्यां सवनाभ्यां यथा दृतिमुभयत आदृत्य निक्षालयेदेवं हैवास्य सर्वं पाप्मानं निक्षालयां चकार ।
इतश्च ह वै स तदूर्ध्वं इतश्चावाञ्चं पाप्मानं अपजघ्ने ।
इतश्च हैवोर्ध्वमितश्चावाञ्चं पाप्मानमपहते य एवं वेद ।
स इहातिप्ररिक्तो न शशाकोत्थातुम् ।
स हेक्षां चक्रे कथं न्वहमिमं पुनस्संश्रीणीयामिति ।
तमेतेनैव पुनरयाजयत् ।
तेनैनं पुनस्समश्रीणात् ।
सास्य पुनस्तोमता ।
तस्य द्वादशं माध्यंदिनं सवनं भवति ।
द्वादश मासास्संवत्सरः ।
संवत्सरेणैवास्य तद्रि क्तमात्मानं मध्यतः पुनस्समश्रीणात् ।
स यथा जात्वप्रतिजगृहिवान्स्यादेवमास ।
यथा द्विदतः कुमारस्य सातं स्यादेवं हैवास्य सातमास ।
स यो गरगीर्मन्येताप्रतिगृह्यस्य प्रतिगृह्यानाश्यान्नस्यान्नमशित्वा स एतन यजेत ।
एताभ्यामेव त्रिवृद्भ्यां सवनाभ्यामितश्चोर्ध्वमितश्चावाञ्चं विष्वञ्चं गरं व्यस्यते ८३

तस्य बृहत्पृष्ठं भवति ।
इदं वै रथन्तरमदो बृहत् ।
आसन्नमिव वा इदं प्ररिक्तमिवादः प्ररिक्त्या एव ।
तस्य प्र यो रिरिक्षे ओजसेत्येतासु गारं ब्रह्मसाम भवति गरस्यैवापहत्यै ।
तदु वा आहुर्या इद्वै ताः कामदुघा आसन्नेतेन वाव ता यज्ञेन परिगृह्याहरतामिति ।
तस्य त्रिवृत्प्रातस्सवनं भवति त्रिवृत्तृतीयसवनं द्वादशं माध्यंदिनं सवनम् ।
द्वादशाक्षरा वै जगती ।
पशवो जगती पशवः कामदुघाः ।
ब्रह्म वै त्रिवृत् ।
ब्रह्मणा वै एनास्तदुभयतः परिगृह्याजह्रतुः ।
तासामेका श्रवणा दुहे ।
तां भूमावुपोपतुः ।
तामेतां वक्रेण दारुणान्विच्छन्ति लाङ्गलेन विश एका तां वणिज्यया ब्रह्मैका तां ब्रह्मचर्येण क्षत्रमेका तां राजानुचर्येण ।
अथ यास्तिस्रः परिशिष्टा आसुस्तानि हैवोक्थानि चक्रतुः ।
स एष उक्थ्यो यज्ञः ।
शश्वद्धैष एव प्रथम उक्थ्यानामथ ततोऽग्निष्टोमा एव पराञ्चः ।
स यः पशुकाम स्यात्स एतेन यजेत ।
तस्मिन्नु ह तर्ह्युभे बृहद्र थन्तरे कुर्युः ।
द्वया उ ह वै पशवः ।
राथन्तरा अन्ये बार्हता अन्ये ।
ये ह वा अन्यतोदन्ताः पशवस्ते राथतरा य उभयतोदन्तास्ते बार्हताः ।
उभयेषामेव पशूनामवरुद्ध्यै ।
स उक्थ्यो भवति पशवो वा उक्थानि पशूनामेवावरुद्ध्यै ।
तस्योद्वंशीयमच्छावाकसाम भवति सर्वपृष्ठरूपं पृष्ठानि वै पशवोऽभिपूर्वाणामेव पशूनामवरुद्ध्यै ८४

अथैतौ विराट्स्वराजौ ।
देवा वा अकामयन्त विराजमन्नाद्यमवरुन्धीमहि विराज्यन्नाद्ये प्रतितिष्ठेमेति ।
त एतं विराजं यज्ञमपश्यन् ।
तमाहरन् ।
तेनायजन्त ।
ततो वै ते विराजमन्नाद्यमवारुन्धत विराज्यन्नाद्ये प्रत्यतिष्ठन् ।
विराजमेवान्नाद्यमवरुन्द्धे विराज्यन्नाद्ये प्रतितिष्ठति य एवं वेद ।
स ह वै विराड्यत्रान्यस्य लोकं नाभिध्यायति ।
तमेवैतेन जयति ।
तस्य दश त्रिवृन्ति स्तोत्राणि भवन्ति तास्तिस्रो विराजः पञ्चदशे द्वे ।
सो विराट् ।
ताश्चतस्रो विराजस्संपद्यन्ते ।
अन्नं विराट् ।
विराज एवान्नाद्यस्यावरुद्ध्यै ।
तस्य रथन्तरं पृष्ठं भवति ।
इयं वै रथन्तरम् ।
इयमु वै विराट् ।
य उ वा अस्यै भूयिष्ठं परिगृह्णाति स विराजति ।
अन्नं विराट् ।
विराज एवान्नाद्यस्यावरुद्ध्यै ।
तस्येन्दुस्समुद्र मुर्विया विभातीत्येतदादिष्टसाम माध्यंदिने पवमाने भवति पृथिव्यै साम ।
स्तोममेव तद्रू पेण समर्धयन्ति ८५

त उ वा अकामयन्त विराजमन्नाद्यमवरुध्य स्वराज्यं लोकं गच्छेमेति ।
त एतं स्वराजं यज्ञमपश्यन् ।
तमाहरन् ।
तेनायजन्त ।
ततो वै ते विराजमन्नाद्यमवरुध्य स्वराज्यं लोकमगच्छन् ।
विराजमेवान्नाद्यमवरुध्य स्वाराज्यं लोकं गच्छति य एवं वेद ।
स ह वै स्वराड्यत्रान्यस्य लोकं नाभिध्यायति ।
तमेवैतेन जयति ।
तस्य दश त्रिवृन्ति स्तोत्राणि भवन्ति ।
तास्तिस्रो विराजः ।
पञ्चदशं च सप्तदशं च द्वे ।
सोऽनुष्टुप् ।
एषो ह वै छन्दसां स्वाराज्यं लोकमानशे यदनुष्टुप् ।
प्रजापतिर्वा अनुष्टुप् ।
प्रजापतिर्वै स्वाराज्यम् ।
अन्नमु वै विराट् ।
विराज्येव तदन्नाद्ये प्रतिष्ठाय स्वाराज्यं लोकमगच्छन् ।
विराज्येव तदन्नाद्ये प्रतिष्ठाय स्वाराज्यं लोकं गच्छति य एवं वेद ।
तस्य बृहत्पृष्ठं भवति ।
अदो वै बृहत् ।
अदो वै स्वाराज्यम् ।
अमुमेवैतेन स्वाराज्यं लोकमगच्छन् ।
अमुमेवैतेन स्वाराज्यं लोकं गच्छति य एवं वेद ।
तस्येन्दुस्समुद्र मुर्विया विभातीत्येतदादिष्टसामार्भवे पवमाने न भवतीति दिवस्सामैकारवद्भवति ।
अर्वाङिव ह्यसौ लोकः ।
स्तोममेव तद्रू पेण समर्धयन्ति ।
अथो यदेकारवद्भवति स्वर्गाल्लोकान्नेत्पराञ्चोऽतिपद्यामहा इति ८६

अथैष ऋषभः ।
इन्द्रो वा अकामयत ऋषभस्सर्वासां प्रजानां स्यामृषभतां गच्छेयमिति ।
स एतं यज्ञमपश्यत् ।
तमाहरत् ।
तेनायजत ।
ततो वै स ऋषभस्सर्वासां प्रजानामभवदृषभतामगच्छत् ।
ऋषभ एव स्वानां प्रजानां भवत्यृषभतां गच्छति य एवं वेद ।
तच्छ्रीर्वा ऋषभः ।
श्रियं वै स तदगच्छत् ।
ऋषभो वै राजा मनुष्याणाम् ।
ऋषभ ऋषभः पशूनाम् ।
ऋषभोऽश्ववृषो वळवानाम् ।
ऋषभो बस्तोऽजानाम् ।
ऋषभो वृष्णिरवीनाम् ।
ऋषभः कृष्ण एणीनाम् ।
ऋषभ ऋष्यो रोहिताम् ।
एते ह वा आसाण्श्रियः ।
श्रियं ह गच्छति य एवं वेद ।
स पञ्चदशो भवति ।
वज्रो वै पञ्चदशः ।
वज्र इन्द्र ः! ।
षन्द्र एष यज्ञस्तत्तत्सलक्ष्म क्रियते ।
तस्यैकविंशो माध्यंदिनो भवति ।
सा हास्य ककुप् ।
य उ ह वा एषां लोकानां श्रेष्ठास्ते ककुभः ।
अग्निर्वा अस्य लोकस्य ककुब्वायुरन्तरिक्षस्य आदित्यो दिवः ।
ककुभामेको भवति य एवं वेद ।
तस्य बृहत्पृष्ठं भवति ।
इन्द्रो वै बृहत् ।
श्रीः पृष्ठानि ।
इन्द्र मेव तच्छ्रिया समर्धयन्ति ।
तस्य ऋषभः पावमान ऋषभो वैदन्वत इत्येते आदिष्टसामनी पवमानयोर्भवतः ।
स्तोममेव तद्रू पेण समर्धयन्ति ८७

अथैष व्योमा ।
देवा वा अकामयन्त व्योम स्याम व्योमानं लोकं गच्छेमेति ।
त एतं यज्ञमपश्यन् ।
तमाहरन् ।
तेनायजन्त ।
ततो वै ते व्योमासन्व्योमानं लोकमगच्छन् ।
व्योमा हैव भवति व्योमानं लोकं गच्छति य एवं वेद ।
स ह वै व्योमा यत्रान्यस्य लोकं नाभिध्यायति ।
तमेवैतेन जयति ।
सप्तदशो भवति ।
प्रजापतिर्वै सप्तदशः ।
प्रजापतिर्वै व्योमा ।
व्योम्ना व्योमानोऽसाम व्योम्ना व्योमानं लोकं गच्छामेति ।
तस्योभे बृहद्र थन्तरे सामनी भवतः ।
न ह वा एतयोरन्यतरद्व्योम ।
उभे ह वा एते व्योम ।
व्योम्ना व्योमानोऽसाम व्योम्ना व्योमानं लोकं गच्छामेति ।
तस्यैकविंश आर्भवः पवमानो भवत्यग्निष्टोमसाम वा ।
द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः ।
एष उ ह वै व्योमा येऽर्वाञ्चः प्रजापतेर्देवास्तेषां ।
व्योम्ना व्योमानोऽसाम व्योम्ना व्योमानं लोकं गच्छामेति ।
तस्यार्को देवानां परमे व्योमनर्कस्य देवाः परमे वियोमन्नित्येते आदिष्टसामनी पवमानयोर्भवतः ।
स्तोममेव तद्रू पेण समर्धयन्ति ८८

अथैतावुद्भिद्वलभिदौ ।
प्रजनन्कामो हैताभ्यां यजेत ।
त्रिवृत्पञ्चदशौ स्तोमौ भवतस्सप्तिसप्तदशाः ।
ऊनातिरिक्तौ मिथुनौ प्रजननी ।
ऊनमन्यस्यातिरिक्तमन्यस्य ।
ऊनातिरिक्ताद्वै मिथुनात्प्रजाः पशवः प्रजायन्ते ।
तत्तत्प्रजननं क्रियते ।
तस्मादुभाभ्यां प्रजननकामो यजेत ।
अथो आहुर्ब्रह्मवर्चसकाम एवाभ्यां यजेतेति ।
षड्वा एतयोरन्यतरो गायत्रीरभिसंपद्यते षडन्यतरः ।
ब्रह्म वै गायत्री ।
गायत्रीमेतौ यज्ञावभिसंपन्नौ ।
तस्मादुभाभ्यां ब्रह्मवर्चसकामो यजेत ।
अथो आहुरायुष्काम एवाभ्यां यजेतेति ।
प्राणो वै गायत्री ।
गायत्रीमेतौ यज्ञावभिसंपन्नौ ।
तस्मादुभाभ्यामायुष्कामो यजेत ।
अथो आहुस्तेजस्काम एवाभ्यां यजेतेति ।
तेजो वै गायत्री ।
गायत्रीमेव तौ यज्ञावभिसंपन्नौ ।
तस्मादुभाभ्यां तेजस्कामो यजेत ।
अथो आहु स्वर्गकाम एवाभ्यां यजेतेति ।
या वै षड्गायत्र्! यश्चतस्रस्ता बृहत्यः ।
बृहती वै स्वर्गं लोकमानशे ।
तस्मादुभाभ्यां स्वर्गकामो यजेत ।
अथो आहुः पशुकाम एवाभ्यां यजेतेति ।
या वै षड्गायत्र्! यस्तिस्रस्ता जगत्यः ।
पशवो जगती ।
तस्मादुभाभ्यां पशुकामो यजेत ८९

ते देवा एतावुद्भिद्वलभिदावपश्यन् ।
ताभ्यां एना अभिप्रा धावयन् ।
ते वलभिदैव वलमभिन्दन् ।
उद्भिदा गा उदसृजन्त ।
स वा एष त्रिवृत्पञ्चदशो वलभिद्भवति रथन्तर्सामोत्सेधब्रह्मसामा ।
अथैष उद्भित्सप्तिसप्तदशो भवति बृहत्सामा निषेधब्रह्मसामा ।
तद्यथा ह वै मयूखो वा तीक्ष्णश्शङ्कुर्वैवमेष यत्त्रिवृत्स्तोमः ।
तद्यथा मयूखेन वा तीक्ष्णेनाभिनिधाय शङ्कुना वा कूटेनाभिहन्यादेवमेवैतेन त्रिवृता स्तोमेन वलमभिनिधाय पञ्चदशेन वज्रेण व्यासुः ।
अथो आहुरग्निरेवैष यत्त्रिवृत्स्तोमः ।
वज्र एष यत्पञ्चदशः ।
तद्यथाग्निनाश्मानमभ्योष्य तं कूटेन भिन्द्यादेवमेवैतेन त्रिवृताग्निना स्तोमेन वलमभ्योष्य पञ्चदशेन वज्रेण व्यासुरिति ।
ता हान्तर एव तस्थुरयनमविन्दमानाः ।
ता होत्सेधेनैवोत्सिषिधुः ।
अथैष उद्भित्सप्तिसप्तदशो भवति ।
ततो याः सप्त त एव सप्ततयाः पशवोऽथ यास्सप्तदश स एव सप्तदशः प्रजापतिः ।
ताः पितरमेव प्रजापतिं पश्यन्तीः प्रतिमोदमाना उदेयुः ।
ता होदेत्य महदेवाभि विससृजिरे ।
तासां ह देवाः परावापाद्बिभयां चक्रुः ।
ता होत्सेधेनैवोत्सिध्य निषेधेन निषिध्यात्मन्दधिरे ।
स यः पशुकाम स्यात्स एताभ्यां यजेत ।
वलभिदैव वलं भिनत्त्युद्भिदा गा उत्सृजते ।
उत्सेधेनैवैना उत्सिध्य निषेधेन निषिध्यात्मन्धत्ते अव पशून्रुन्द्धे बहुपशुर्भवति ९०

अथैतौ सत्राजित्पृतनाजितौ ।
देवासुरा वै संवत्सरे प्रजापतावस्पर्धन्तैषु च लोकेषु ।
ते देवा अकामयन्त जयेम पृतनामिति ।
त एतं पृतनाजितं यज्ञमपश्यन् ।
तमाहरन् ।
तेनायजन्त ।
ततो वै ते तां पृतनामजयन् ।
यत्पृतनामजयंस्तत्पृतनाजितः पृतनाजित्त्वम् ।
जयति पृतनां द्विषन्तं भ्रातृव्यं य एवं वेद ।
स चतुर्विंशो भवति ।
चतुर्विंशत्यर्धमासस्संवत्सरः ।
संवत्सरादेवैनांस्तदजयन् ।
तस्य रथन्तरं पृष्ठं भवति ।
इदं वै रथन्तरम् ।
अस्मादेवैनांस्तल्लोकादजयन् ।
तस्य द्वादश स्तोत्राणि भवन्ति ।
द्वादश मासास्संवत्सरः ।
मासश एवैनांस्तत्संवत्सरादजयन् ।
तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति ।
चतुर्विंशत्यर्धमासस्संवत्सरः ।
अर्धमासश एवैनांस्तत्संवत्सरादजयन् ९१

ते जिताः पञ्चविंशमेव पितरं प्रजापतिं प्रापद्यन्तामुं च लोकम् ।
तानकामयन्तात एनान्सत्रा जयेमेति ।
त एतं सत्राजितं यज्ञमपश्यन् ।
तमाहरन् ।
तेनायजन्त ।
ततेनान्सत्राजयन् ।
यत्सत्राजयंस्तत्सत्राजितस्सत्राजित्त्वम् ।
सत्रा द्विषन्तं भ्रातृव्यं जयति य एवं वेद ।
स पञ्चविंशो भवति ।
चतुर्विंशत्यर्धमासस्संवत्सरः ।
प्रजापतिः पञ्चविंशः ।
संवत्सरादेवैनांस्तत्प्रजापतेरजयन् ।
तस्य द्वादश स्तोत्राणि भवन्ति ।
द्वादश मासास्संवत्सरः ।
मासश एवैनांस्तत्संवत्सरादजयन् ।
तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति ।
चतुर्विंशत्यर्धमासस्संवत्सरः ।
अभिपूर्वमेवैनांस्तदर्धमासशस्संवत्सरादजयन् ।
ततो वै देवा अभवन्परासुराः ।
भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद ९२

अथो आहुः प्रजाकाम एव प्रजापतिरेतं पृतनाजितं यज्ञमपश्यत् ।
तमाहरत् ।
तेनायजतेति ।
तस्य द्वे अष्टाशीतिशते स्तोत्रिया भवन्ति ।
तन्न्यूनम् ।
न्यूनात्प्रजननम् ।
द्वे हि ते स्त्रिया ऊने यतः सा प्रजायते ।
तत्तत्प्रजननं क्रियते ।
स चतुर्विंशो भवति ।
चतुर्विंशत्यर्धमासस्संवत्सरः ।
संवत्सरः प्रजननं क्रियते ।
तस्य द्वादश स्तोत्राणि भवन्ति ।
द्वादश मासास्संवत्सरः ।
संवत्सरः प्रजननम् ।
तत्तत्प्रजननं क्रियते ।
तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति ।
चतुर्विंशत्यर्धमासस्संवत्सरः ।
संवत्सरः प्रजननम् ।
तत्तदभिपूर्वं प्रजननं क्रियते ।
प्र प्रजया पशुभिर्जायते य एवं वेद ।
ताः प्रजन्याकामयतान्नवतीर्म इमाः प्रजा स्युरिति ।
स एतं सत्राजितं यज्ञमपश्यत् ।
तमाहरत् ।
तेनायजत ।
स पञ्चविंशो भवति ।
चतुर्विंशत्यर्धमासो वै संवत्सरः ।
अन्नाद्यं पञ्चविंशी ।
अन्नाद्यमेवाभ्यस्तत्पञ्चविंश्या प्रायच्छत् ।
तस्य त्रीणि शतानि स्तोत्र्! या भवन्ति ।
सा विराट् ।
अन्नं विराडेतदेवाभ्यस्तदन्नाद्यं प्रायच्छत् ।
ता अस्यान्नवतीः प्रजा अभवन् ।
स यः कामयेत बहुभिः प्रजया पशुभिः प्रजायेयान्नावतीर्म इमाः प्रजा स्युरिति स एताभ्यां यजेत ।
बहुरेव प्रजया पशुभिः प्रजायतेऽन्नवतीरस्य प्रजा भवन्ति ९३

अथैष विराट्स्वराजौ ।
भ्रातरावेतेन यज्ञेन यजेयाताम् ।
यौ कामयेयातां राज्यं नावन्यतरो गच्छेत्स्वाराज्यमन्यतर इति स वा एष विराजं चानुष्टुभं चाभिसंपद्यते ।
एतद्ध वै राज्यं यद्विराट् ।
अथैतत्स्वाराज्यं यदनुष्टुप् ।
विराजैव कनीयान्राज्यं गच्छति अनुष्टुभा ज्यायान्स्वाराज्यं लोकम् ।
तस्योभे बृहद्र थन्तरे सामनी भवतः ।
एतद्ध वै राज्यं यद्र थन्तरम् ।
अथैतत्स्वाराज्यं यद्बृहत् ।
रथन्तरेणैव कनीयान्राज्यं गच्छति ।
बृहता ज्यायान्स्वराज्यं लोकम् ।
तस्य त्रीणि त्रिवृन्ति स्तोत्राणि भवन्ति त्रीणि पञ्चदशानि त्रीणि सप्तदशानि त्रीण्येकविंशानि ।
त्रिवृद्भिरेव कनीयान्राज्यं गच्छति पञ्चदशैर्ज्यायान्स्वाराज्यं लोकम् ।
सप्तदशैरेव कनीयान्राज्यं गच्छत्येकविंशैर्ज्यायान्स्वाराज्यं लोकम् ९४

तदाहुर्भूतस्यैवैष यज्ञो न बुभूषतोऽप्रजननी स्तोमो विराजं चानुष्टुभं चाभिसंपद्यते ।
संपन्नमिव वा एतच्छन्दः पूर्णमिव प्रजननं यद्विराट् ।
अन्त उ वा एष छन्दसां यदनुष्टुबिति ।
तदु वा आहुरुभयोरेवैष यज्ञो भूतस्य च बुभूषतश्चेति ।
तस्यैते त्रिवृत्पञ्चदशा स्तोमा भवन्ति सप्तदशैकविंशा ऊनातिरिक्ता मिथुनाः प्रजनयः ।
ऊनमन्यस्यातिरिक्तमन्यस्य ।
ऊनातिरिक्ताद्वै मिथुनात्प्रजाः पशवः प्रजायन्ते ।
त्रिवृच्च पञ्चदशश्च तन्मिथुनं प्रजननम् ।
सप्तदशश्चैकविंशश्च तन्मिथुनं प्रजननम् ।
तद्यन्मिथुनं प्रजननं तन्मा प्रजनयादिति ।
अथो यदुभे बृहद्र थन्तरे सामनी भवत एतद्वै दैव्यं मिथुनं प्रजननं यदुभे बृहद्र थन्तरे तद्यद्दैव्यं मिथुनं प्रजननं तन्मा प्रजनयादिति ।
अनेन हत्वाप प्रजननतमो यद्विराजमभिसंपद्यते ।
अन्नं वै विराट् ।
अशिताद्वै रेतस्सिच्यते ।
रेतसः प्रजाः प्रजायन्ते ।
अथो यदनुष्टुभमभिसंपद्यत आनुष्टुभो वै प्रजापतिः प्रजापतिः प्रजननं स यः प्रजननं स मा प्रजनयादिति ९५

तस्य युवं हि स्थ स्वःपती इत्येषो प्रतिपत्कार्या ।
एषा वै द्वयोस्संयजमानयोः प्रतिपत् ।
तदु वा आहुः पवस्व वाचो अग्रिय उपास्मै गायता नर इत्येते एव प्रतिपदौ कार्ये ।
एते वाव द्वयोः संयजमानयोः प्रतिपदौ ।
अथो उभे ह्यत्र सामनी क्रियेते ।
तस्मादेते एव प्रतिपदौ कार्ये इति ।
तस्मिन्नेतानि सामान्यवकल्पयन्ति गौषूक्ताश्वसूक्ते हाविष्मत-हाविष्कृते ।
ये द्वे द्वे सामनी यानि द्वयोस्संयजमानयोस्सामानि तानि ।
तस्य विराट्स्वराजमार्भवस्य पवमानस्यानुष्टुभि कुर्वन्ति ।
विराट्स्वराजो ह्येष यज्ञः ।
स्तोममेव समर्धयन्ति ९६

अथैष ज्येष्ठयज्ञः ।
यो ज्यैष्ठ्यकाम स्यात्स एतेन यजेत ।
स वा एषोऽष्टावेकविंशानभिसंपद्यते ।
द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः ।
एष उ ह वा अग्रं ज्यैष्ठ्यम् ।
स योऽग्रं ज्यैष्ठ्यं स माग्रं ज्यैष्ठ्यं गमयादिति ।
तस्य सप्तदशाः पवमाना भवन्ति ।
प्रजापतिर्वै सप्तदशः ।
प्रजापतिर्वा अग्रं ज्यैष्ठ्यम् ।
सो योऽग्रं ज्यैष्ठ्यं स माग्रं ज्यैष्ठ्यं गमयादिति ।
तस्योत्तरावन्ति स्तोत्राणि भवन्ति ।
उत्तरावतीमेवैनं तच्छ्रियमुत्तरावन्तं स्वर्गं लोकं गमयन्ति ।
तस्य बृहत्पृष्ठं भवति ।
श्रीर्वै बृहज्ज्यैष्ठ्यम् ।
अदो वै बृहददो वै ज्यैष्ठ्यम् ।
तदेनं तच्छ्रियामेव मध्यतो ज्यैष्ठ्ये प्रतिष्ठापयन्ति ।
तस्य द्वादश स्तोत्राणि भवन्ति ।
द्वादश मासास्संवत्सरः ।
संवत्सरो वा अग्रं ज्यैष्ठ्यम् ।
सो योऽग्रं ज्यैष्ठ्यं स माग्रं ज्यैष्ठ्यं गमयादिति ।
तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति ।
चतुर्विंशत्यर्धमासस्संवत्सरः ।
संवत्सरो वा अग्रं ज्यैष्ठ्यम् ।
सो योऽग्रं ज्यैष्ठ्यं स माग्रं ज्यैष्ठ्यं गमयादिति ।
स यो ज्येष्ठो ज्यैष्ठिनेयस्समग्रिय स्यात्स एतेन यजेत गच्छति ज्यैष्ठ्यं न ज्यैष्ठ्यादवरोहति ९७

अथैष दुराशः ।
पौर्णमासेन हविषेष्ट्वा आदित्याय चरुं निर्वपति ।
तस्मिञ्छतमानं हिरण्यं ददाति सुवर्णं चन्द्र मसेऽपराह्णे ।
तस्मिञ्छतमानं हिरण्यं ददाति रजतम् ।
स एवमेतौ पूर्वाह्णापराह्णावेतमपरपक्षं यजते ।
तस्यामावास्यायां दीक्षोपरिष्टात्सुत्या ।
तद्वा एतत्सूर्याचन्द्र मसोरेवायनम् ।
सूर्याचन्द्र मसौ वा अकामयेतां समानेन यज्ञेन समानीमृद्धिमृद्ध्नुयाव ।
अहरेव नावन्यतरोऽभिजयेद्रा त्रिमन्यतर इति ।
तावेतं यज्ञमपश्यताम् ।
तमाहरताम् ।
तेनायजेताम् ।
ततो वै तौ समानेन यज्ञेन समानीमृद्धिमार्ध्नुताम् ।
अहरेवैनयोरन्यतरोऽभ्यजयद्रा त्रिमन्यतरः ।
एषा ह वा एनयोः समान्यृद्धिर्यत्समाने लोके पूर्वाह्णापराह्णौ यजते ।
अहर्वै पूर्वाह्णो रात्रिरपराह्णोऽहोरात्रयोरेवाभिजित्यै ।
पूर्वपक्षापरपक्षौ यजते ।
अहर्वै पूर्वपक्षो रात्रिरपरपक्षोऽहोरात्रयोरेवाभिजित्यै ।
शतमाने भवतः ।
शतायुर्वै पुरुषः शतेन्द्रि यः शतवीर्यस्तस्यैवेन्द्रि यस्य वीर्यस्यावरुद्ध्यै ९८

सप्तदश स्तोमो भवति ।
प्रजापतिर्वै सप्तदश ।
प्रजापति स्वर्गस्य लोकस्याभिनयिता ।
स मा स्वर्गं लोकमभिनयादिति ।
तस्य शतमनड्वाहो दक्षिणा भवन्ति ।
शतायुर्वै पुरुषः शतेन्द्रि यः शतवीर्यस्तस्यैवेन्द्रि यस्य वीर्यस्यावरुद्ध्यै ।
सर्वे वह्नयो भवन्ति ।
वह्निना हि तत्र गच्छति यत्र जिगमिषति ।
सर्वे वरा भवन्ति ।
वर इव वै स्वर्गो लोक स्वर्गस्यैव लोकस्यर्द्ध्यै ।
एतदन्यो दद्यादथान्य स्तोत्रे स्तोत्रे सप्तदश सप्तदश निष्कान्दद्यात् ।
देवासुरा यज्ञेऽस्पर्धन्त ।
ते यद्यदेव देवा यज्ञेऽकुर्वत तत्तद्वेवासुरा अन्वकुर्वत ।
ते देवा अब्रुवन्यद्यद्वाव वयं यज्ञे कुर्महे तत्तन्नोऽसुरा अनुकुर्वते ।
एत हिरण्यसोमेन यजामहा इति ।
अथ ह तर्हि देवेष्वेव हिरण्यमास नासुरेषु ।
संवृक्तं ह देवैरसुराणां हिरण्यमास ।
ते हिरण्यसोमेनायजन्त ।
ते स्तोत्रे स्तोत्रे सप्तदश सप्तदश निष्कानददुः ।
तदेषामसुरा नोदाश्नुवत ।
तेऽब्रुवन्दुराशं बतेदं देवा अक्रतेति ।
तदेव दुराशस्य दुराशत्वम् ।
ततो वै देवा अभवन्परासुराः ।
भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद ।
तस्य शुक्रचन्द्रे आदिष्टसामनी पवमानयोर्भवतः ।
सूर्याचन्द्र मसोर्ह्येष यज्ञः ।
स्तोममेव तद्रू पेण समर्धयन्ति ९९

अथैषोऽपचितिः ।
प्रजापतिः प्रजा असृजत ।
ता एनं सृष्टा नापाचायन् ।
सोऽकामयत अपचितिमासु प्रजासु गच्छेयमिति ।
स एतं यज्ञमपश्यत् ।
तमाहरत् ।
तेनायजत ।
ततो वै तं ता अपाचायन् ।
इन्द्र मु वै देवा नापाचायन् ।
स प्रजापतिमुपाधावन्न वै मेमे देवा अपचायन्तीति ।
तस्मा एतमपचितिं यज्ञं व्यदधात् ।
तमाहरत् ।
तेनायजत ।
ततो वै तं देवा अपाचायन् ।
दर्भमु ह वै शातानीकिं पञ्चाला राजानं सन्तं नापचायां चक्रुः ।
अपि ह स्मैनं कुमारा दर्भ दर्भेति ह्वयन्ति ।
तस्य हैतौ ब्राह्मणावासतुरहीना आश्वत्थिः केशी सात्यकामिरिति ।
तौ हैनमुपसमेयतुः ।
स ह ध्यायन्निषसाद ।
तं होचतुः ।
किं नु राजन्यो ध्यायतीति ।
स होवाच न हि मे ध्येयम् ।
पञ्चाला वै मेमे राजानं सन्तं नापचायन्त्यपि मा कुमारा दर्भ दर्भेति ह्वयन्ति ।
तदेवैतद्ध्यायामीति ।
तं होचतुरपचितिरिति वा अयं यज्ञक्रतुरस्ति तेन त्वा याजयावेति ।
तथेति ।
तेन हैनं याजयां चक्रतुः ।
स हैषु तथामात्रमपचितिं जगाम यदप्येतर्हि पञ्चाला दर्भान्कुशा इत्येवाचक्षते १००

अस्य वा एतस्य गायत्रीमेव प्रातस्सवनं संपद्यते त्रिष्टुभं माध्यन्दिनं सवनं जगतीं तृतीयसवनम् ।
तद्यद्गायत्रीं प्रातस्सवनं संपद्यतेऽष्टाक्षरा गायत्र्! यष्टौ वसवो गायत्र्! यैव तच्छन्दसा प्रजापतिश्चेन्द्र श्च वसुषु देवेषु प्रातस्सवनेऽध्यपिचितिमगच्छताम् ।
अथ यत्त्रिष्टुभं माध्यन्दिनं सवनं संपद्यत एकादशाक्षरा त्रिष्टुबेकादश रुद्रा स्त्रिष्टुभैव तच्छन्दसा प्रजापतिश्चेन्द्र श्च रुद्रे षु देवेषु माध्यन्दिने सवनेऽध्यपचितिमगच्छताम् ।
अथ यज्जगतीं तृतीयसवनं संपद्यते द्वादशाक्षरा जगती द्वादशादित्या जगत्यैव तच्छन्दसा प्रजापतिश्चेन्द्र श्चादित्येषु देवेषु तृतीयसवनेऽध्यपचितिमगच्छताम् ।
अष्टाक्षरा गायत्री ।
एकादशाक्षरा त्रिष्टुप् ।
द्वादशाक्षरा जगती ।
वागिति यज्ञायज्ञीयस्य निधनम् ।
तद्द्वात्रिंशत् ।
द्वात्रिंशदक्षरानुष्टुप् ।
विश्वेषां देवानामनुष्टुप् ।
अनुष्टुभैव तच्छन्दसा प्रजापतिश्चेन्द्र श्च विश्वेषु देवेषु तृतीयसवनेऽध्यपचितिमगच्छताम् ।
एतावन्तो वै देवाः ।
एतावन्ति देवजातानि ।
तेष्वेव तदध्यपचितिमगच्छताम् १०१

गायत्रो वै ब्राह्मणः ।
त्रैष्टुभो राजन्यः ।
जागतो वैश्यः ।
आनुष्टुभः शूद्र ः! ।
तद्यद्गायत्रीं प्रातस्सवनं संपद्यते गायत्र्! यैव तच्छन्दसा दर्भः शातानीकिर्ब्राह्मणे मनुष्येऽध्यपचितिमगच्छत् ।
अथ यत्त्रिष्टुभं माध्यन्दिनं सवनं संपद्यते त्रिष्टुभैव तच्छन्दसा दर्भः शातानीकी राजन्ये मनुष्येऽध्यपचितिमगच्छत् ।
अथ यज्जगतीं तृतीयसवनं संपद्यते जगत्यैव तच्छन्दसा दर्भः शातानीकिर्वैश्ये मनुष्येऽध्यपचितिमगच्छत् ।
अष्टाक्षरा गायत्री ।
एकादशाक्षरा त्रिष्टुप् ।
द्वादशाक्षरा जगती ।
वागिति यज्ञायज्ञीयस्य निधनम् ।
तद्द्वात्रिंशत् ।
द्वात्रिंशदक्षरानुष्टुप् ।
आनुष्टुभः शूद्र ः! ।
अनुष्टुभैव तच्छन्दसा दर्भः शातानीकिः शूद्रे मनुष्येऽध्यपचितिमगच्छत् ।
एतावन्तो वै मनुष्याः ।
एतावन्ति मनुष्यजातानि ।
तेष्वेव तदध्यपचितिमगच्छत् १०२

तदाहुः कैतस्य यज्ञस्य विधृतिः कापचितिरिति ।
स ब्रूयाद्यदेव सवनात्सवनं न समैति ।
यद समैव सवनं संपद्यते सैवैतस्य यज्ञस्य विधृतिस्सापचितिरिति ।
तस्य आहुर्दविद्युतत्या रुचेत्येव प्रतिपदं कार्याम् ।
एषा वै गणिनी प्रतिपद्बहुरूपा ।
गणा इव वै तं सचन्ते य श्रियमश्नुत इति ।
तदु वा आहुः पवस्व वाचो अग्रिय उपास्मै गायता नर इत्येते एव प्रतिपदौ कार्ये ।
एते वाव गणिन्यौ प्रतिपदौ बहुरूपे ।
अथो उभे ह्यत्र सामनी क्रियेते ।
तस्मादेते एव प्रतिपदौ कार्ये इति ।
बृहद्र थन्तरे भवतः ।
ब्रह्म वै रथन्तरं क्षत्रं बृहत् ।
ब्रह्म च वै क्षत्रं चापचिते रूपम् ।
भद्र श्रेयसी भवतः ।
भद्रे ण वै देवा भद्रा अभवञ्छ्रेयसा श्रियमगच्छन् ।
सहोमहसी भवतः ।
सहसा वै देवा असुरानसहन्त ।
महसा महोऽभवन् ।
भर्गयशसी भवतः ।
भर्गेण वै देवा भर्गोऽभवन् ।
यशसा यशोऽगच्छन् ।
उत्सेधनिषेधौ भवतः ।
उत्सेधेन वै देवा औत्सेध्यमुदसेधन् ।
निषेधेन निषेध्यं न्यषेधन् ।
सदोविशीयं च विशोविशीयं च भवतः ।
सदोविशीयेन वै देवा विशमसीदन् ।
विशोविशीयेन विशो विशो राजानोऽभवन् ।
धर्मविधर्मणी भवतः ।
धर्मेण वै देवा धर्मोऽभवन् ।
विधर्मणा विधर्मापाघ्नत ।
तस्मिनेता उभयीर्द्विपदातिच्छन्दसः क्रियन्ते ज्येष्ठानि च ह्रसिष्ठानि च छन्दांसि ।
पशवो वै छन्दांसि ।
तस्माद्भूतमुभये पशव उपतिष्ठन्ते ज्येष्ठाश्च ह्रसिष्ठाश्च ।
उभये ह वा एनं पशव उपतिष्ठन्ते ज्येष्ठाश्च ह्रसिष्ठाश्च य एवं वेद ।
तस्याश्वरथश्चतुर्युग्दक्षिणा भवति ।
सर्वे शतक्रियोऽश्वाः ।
स रुक्मी प्रावेपी सर्वाभरण्यंशुमान्भवति ।
तस्य वैयाघ्रः परिवारो भवति द्वैपो धन्वधिरार्क्ष उपासङ्गः ।
खाड्गकवचोऽध्यास्थाता भवति संनद्धस्संनद्धसारथिरावृतः प्रतिहिताभ्याम् ।
निष्की स्रग्वी संग्रहीता भवति ।
एतद्वै त्विषे रूपमेतदपचितेः ।
तस्मिन्नेतदपचितं धनं ददाति ।
अपचिता एवापचितं धनं ददानीति ।
स्तोममेव तद्रू पेण समर्धयन्ति १०३

अथैतावभिभूश्च विनुत्तिश्च ।
देवासुरा अस्पर्धन्त ।
ते देवा अकामयन्ताभीमानसुरान्भवेमेति ।
त एततभिभुवं यज्ञमपश्यन् ।
तमाहरन् ।
तेनायजन्त ।
तेनासुरानभ्यभवन् ।
यदभ्यभवंस्तदभिभुवोऽभिभूत्वम् ।
अभि ह वै द्विषन्तं भ्रातृव्यं भवति य एवं वेद ।
तस्य त्रिवृतावभितो भवतः ।
ब्रह्म वै त्रिवृत् ।
ब्रह्मणा वा एनांस्तदभ्यभवन् ।
ब्रह्मणैव द्विषन्तं भ्रातृव्यमभिभवति य एवं वेद ।
ते जितास्त्रस्त्रिंशमेव पितरं प्रजापतिं प्रापद्यन्त ।
यथा ज्येष्ठायां वरिष्ठायां पुरि परियतेरंस्तथा तानकामयन्तात एनान्विनुदेमहीति ।
त एतं विनुत्तिं यज्ञमपश्यन् ।
तमाहरन् ।
तेनायजन्त ।
तत एनान्व्यनुदन्त ।
यद्व्यनुदन्त तद्विनुत्तेर्विनुत्तित्वम् ।
वि ह वै द्विषन्तं भ्रातृव्यं नुदते य एवं वेद ।
तस्य त्रिवृतौ मध्ये भवतः ।
ब्रह्म वै त्रिवृत् ।
ब्रह्मणा वा एनांस्तद्व्यनुदन्त ।
ब्रह्मणैव द्विषन्तं भ्रातृव्यं विनुदते य एवं वेद १०४

अथो आहुरग्निरेवैष यत्त्रिवृत्स्तोमः ।
तद्यथा भ्रमलान्संपन्नानग्निनाभ्यौषेदेवमेवैनांस्तत्त्रिवृता अग्निना स्तोमेन त्रयस्त्रिंशाभ्यामुभयत उपमार्याभ्यौषन् ।
ते विपलय्येमामुपासर्पन्निति ।
ततो वै देवा अभवन्परासुराः ।
भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद ।
अथो आहुः पुरोधाकाम एवैनेन यजेत यदभिभूरिति ।
तस्य त्रिवृतावभितो भवतस्त्रयस्त्रिंशौ मध्ये ।
ब्रह्म वै त्रिवृत्क्षत्रं त्रयस्त्रिंशः ।
ब्रह्मणैव तदुभयतः क्षत्रं परिगृह्णाति ।
यदो वै ब्रह्मणा क्षत्रं परिगृह्णात्यथ स तस्य पुरोधां गच्छति ।
गच्छति पुरोधां पुर एनं दधते ।
अथो आहुरन्तस्थाकाम एवैनेन यजेत यद्विनुत्तिरिति ।
तस्य त्रिवृत्तौ मध्ये भवतस्त्रयस्त्रिंशावभितः ।
ब्रह्म वै त्रिवृत्क्षत्रं त्रयस्त्रिंशः ।
क्षत्रेणैव तदुभयतो ब्रह्म परिगृह्णाति ।
यदो वै क्षत्रेण ब्रह्म परिगृह्णात्यथ स तस्यान्तस्थां तिष्ठति ।
तिष्ठत्यन्तस्थां नान्तस्थायां जीयते ।
अथो आहू राजानौ हेद्वा एतौ स्तोमौ स्तोमराजाविति १०५

तस्य वा एतस्याभिभुवस्त्रिवृतावभितो भवतस्त्रयस्त्रिंशौ मध्ये ।
तयोष्षट्षष्टि स्तोत्र्! याः ।
ततो याष्षष्टिरासन्दी सा ।
अथ याश्चतस्र आसन्दीपादास्ते ।
अथ ये द्वे यजमान एवैष द्विपादेतस्यां राजासन्द्यामध्यूढः ।
गच्छति राज्यं य एवं वेद ।
यद्यस्मिँ ल्लोके नाथ वा अमुष्मिन् ।
अथो आहुर्यस्य द्वावेतौ त्रिवृतौ मध्ये मध्ये सा हेद्वा अप्यासन्दीति ।
मध्ये विनतेव वा आसन्दी ।
मध्ये विनत इवैष ।
सा ह वै सुषिमत्तरा या मध्ये विनता ।
गच्छति राज्यं य एवं वेद यद्यस्मिँ ल्लोके नाथ वा अमुष्मिन् ।
अथो आहुः पुनरसौ हेद्वा एतौ यज्ञक्रतू इति ।
षड्वा एतयोरिति ऊर्ध्वा स्तोमा उद्यन्ति ।
षडमुतोऽर्वाञ्चष्षड्भिरेवेते ऊर्ध्वं स्वर्गं लोकं गच्छति प्रत्येवामुतष्षड्भिरवरोहति गच्छति स्वर्गं लोकं प्रत्यस्मिँ ल्लोके तिष्ठति ।
अथो ह वेद योऽसावासं सोऽयमस्मीति पुनर्हैवास्मिँ ल्लोक आजायते ।
अथो आहु स्वर्गकाम इद्य आभ्यामपियजेतेति १०६

तयोर्वा एतयोस्सह त्रिवृतौ सह पञ्चदशौ सह सप्तदशौ सहैकविंशौ सह त्रिञवौ सह त्रयस्त्रिंशौ ।
स यथा द्वाभ्यां द्वाभ्यां प्रतितिष्ठन्नियादेवमेवैताभ्यां स्वर्गे लोके प्रतितिष्ठति ।
अथो आहुरन्विष्टीनां हेद्वा एतौ यज्ञक्रतू इति ।
स यस्संवत्सरभृता वासंवत्सरभृता वाग्निना चित्येन यजेत स एताभ्यां यजेत ।
सद्यो हैवास्य संवत्सर ऋतुशो मासशोऽर्धमासशोऽन्विष्टो भवति ।
तद्यत्पृष्ठ्यस्य षडहस्य स्तोमा भवन्त्यृतवो वै पृष्ठानि ।
संवत्सर ऋतवस्तेनर्तुशः ।
अथ यद्द्वादश स्तोत्राणि भवन्ति द्वादश मासास्संवत्सरस्तेन मासशः ।
अथ यच्चतुर्विंशति स्तुतशस्त्राणि भवन्ति चतुर्विंशत्यर्धमासस्संवत्सरस्तेनार्धमासशः ।
सद्यो हैवास्य संवत्सरोऽन्विष्टो भवति य एवं वेद १०७

अथैष मनुस्तोमः ।
मनुर्वा अकामयत बहुः प्रजया पशुभिः प्रजायेय मानवीः प्रजास्सृजेयेति ।
स एतं यज्ञमपश्यत् ।
तमाहरत् ।
तेनायजत ।
ततो वै स बहुः प्रजया पशुभिः प्राजायत ।
ता इमा मानवीः प्रजा असृजत ।
स यः कामयेत बहुः प्रजया पशुभिः प्रजायेय मानवीः प्रजाः सृजेयेति स एतेन यजेत ।
बहुरेव प्रजया पशुभिः प्रजायते मानवीः प्रजास्सृजते ।
तस्य पृष्ठ्यस्य षडहस्य स्तोमा भवन्ति ।
ऋतवो वै पृष्ठानि ।
संवत्सर ऋतवः ।
संवत्सरः प्रजननम् ।
स यः प्रजननं स मा प्रजनयादिति ।
तस्योभये स्तोमा भवन्त्ययुजश्च युग्मन्तश्चैव ।
तद्वै दैव्यं मिथुनं प्रजननं यदुभये स्तोमाः ।
तद्यद्दैव्यं मिथुनं प्रजननं तन्मा प्रजनयादिति ।
तस्य व्यतिषक्ता स्तोमा भवन्ति व्यतिषक्ताद्वै मिथुनात्प्रजाः पशवः प्रजायन्ते प्रजात्या एव ।
तस्योभे बृहद्र थन्तरे सामनी भवतः ।
एतद्वै दैव्यं मिथुनं प्रजननं यदुभे बृहद्र थन्तरे ।
तद्यद्दैव्यं मिथुनं प्रजननं तन्मा प्रजनयादिति ।
तस्य छन्दोमाः पवमाना भवन्ति ।
पशवो वै छन्दोमाः ।
पशवः प्रजननम् ।
तद्यत्प्रजननं तन्मा प्रजनयादिति ।
तस्य मानवं ब्रह्मसाम भवति ।
ब्रह्म वै ब्रह्मसाम ।
यजमानकामो एष यद्ब्रह्मसाम स्व एव तदायतने यजमानं कामैस्समर्धयन्ति ।
स उक्थ्यो भवति ।
प्रजा वै पशव उक्थानि ।
प्रजा वै पशवः प्रजननम् ।
तद्यत्प्रजननं तन्मा प्रजनयादिति १०८

अथो आहुरन्विष्टीनां हेद्वा एष एको यज्ञक्रतुरिति ।
स यस्संवत्सरभृता वासंवत्सरभृता वाग्निना चित्येन यजेत स एतेन यजेत ।
सद्यो हैवास्य संवत्सर ऋतुशोऽर्धमासशो मासशो रात्रिशोऽन्विष्टो भवति ।
तद्यत्पृष्ठ्यस्य षडहस्य स्तोमा भवन्त्यृतवो वै पृष्ठानि संवत्सर ऋतवस्तेनर्तुशः ।
अथ यत्पञ्चदश स्तोत्राणि भवन्ति पञ्चदश वार्धमासस्य रात्रयस्तेनार्धमासशः ।
अथ यत्त्रिंशत्स्तुतशस्त्राणि भवन्ति त्रिंशन्मासस्य रात्रयस्तेन मासशः ।
अथ यत्त्रीणि षष्टिशतानि स्तोत्रिया भवन्ति तावतीः संवत्सरस्य रात्रयस्तेन रात्रिशः ।
सद्यो हैवास्य संवत्सरोऽन्विष्टो भवति य एवं वेद ।
ताः प्रजन्याकामयत स्वर्गं लोकं गच्छेयमिति ।
स एतमुत्तरं मनुस्तोममपश्यत् ।
तमाहरत् ।
तेनायजत ।
तस्य पृष्ठ्यस्य षडहस्य स्तोमा भवन्त्यृतवो वै पृष्ठानि ।
संवत्सर ऋतवः ।
संवत्सर स्वर्गो लोक स्वर्गस्यैव लोकस्य समष्ट्यै ।
तस्योर्ध्वा स्तोमा भवन्त्यूर्ध्वो वै स्वर्गो लोक स्वर्गस्यैव लोकस्य समष्ट्यै ।
तस्योभे बृहद्र थन्तरे सामनी भवत स्वर्ग्ये स्वर्गस्यैव लोकस्य समष्ट्यै ।
तस्य छन्दोमाः पवमाना भवन्ति पशवो वै छन्दोमाः ।
पशव स्वर्गो लोक स्वर्गस्यैव लोकस्य समष्ट्यै ।
तस्य पञ्चविंशं ब्रह्मसाम भवति ।
अन्नं वै पञ्चविंशम् ।
यजमानकामो वा एष यद्ब्रह्मसाम ।
स्व एव तदायतने यजमानमन्नाद्येन समर्धयन्ति ।
स उक्थ्यो भवति प्रजा वै पशव उक्थानि ।
प्रजा वै पशव स्वर्गो लोक स्वर्गस्यैव लोकस्य समष्ट्यै १०९

अथो आहुरन्विष्टीनां हेद्वा एष एको यज्ञक्रतुरिति ।
तत एव रात्रिमुपयन्ति ।
अतिरात्रेण वै देवा ऊर्ध्वा स्वर्गं लोकमायन् ।
ते स्वर्गं लोकं गत्वा सार्धमेवाव्यवसिता आसत ।
दिशोऽप्रजानानास्ते अकामयन्त दिशः प्रजानीयामेति ।
अहोरात्रयोर्ह वै परस्तात्स्वर्गो लोकः ।
त एतान्युपरिष्टाद्रा त्रेश्चत्वारि स्तोत्राण्यपश्यन् ।
तैरस्तुवत ।
तैरेव स्तुत्वा दिशः प्राजानन् ।
ततो वै ते यत्र यत्र स्वर्गस्य लोकस्याकामयन्त तत्तद्व्यवास्यन् ।
यत्र यत्र ह वै स्वर्गस्य लोकस्य कामयते तत्तद्व्यवस्यति य एवं वेदेति ह स्माह जानश्रुतेयः ।
अथ ह स्माह वैतहव्यः ।
प्रजापतिः पशूनसृजत ।
तेऽस्मात्सृष्टाः प्राद्र वन् ।
तानग्निष्टोमेनाविवारयिषत ।
ते तदत्याद्र वन् ।
तानुक्थ्येनाविवारयिषत ।
ते तदत्याद्र वन् ।
तान्षोडशिनाविवारयिषत ।
ते तदत्येवाद्र वन् ।
तान्पर्यायैः पर्यायमैत् ।
यत्पर्यायैः पर्यायमैत्तत्पर्यायाणां पर्यायत्वम् ।
तानाश्विनेन क्रतुना पर्यगृह्णात् ।
तेषां परिगृहीतानां यथा क्षुद्रा मत्स्या अक्षोरक्ष्यतिशीयेरन्नेवमेव ये क्षुद्रा ः! पशव आसुस्तेऽतिशेदुः ।
तानकामयताप्त्वैनानात्मन्यच्छेयमिति ।
स एतान्युपरिष्टाद्रा त्रेश्चत्वारि स्तोत्राण्यपश्यत् ।
तैरस्तुत ।
तैरेवैनानाप्त्वात्मन्ययच्छत् ।
यदाप्त्वात्मन्ययच्छत्तस्मादप्तोर्यामः ।
यद्वेवाप्तुश इव सोमस्य प्रभावयन्नन्वेतस्मादप्तोर्यामः ११०

ता द्वाषष्टि स्तोत्रियास्संपद्यन्ते ।
ततो याष्षष्टिस्सा विराट् ।
पशवो विराट् ।
अथ ये द्वे यजमान एवैष द्विपात्परस्तात्पर्यूढः ।
पशूनां गुप्त्यै पशूनामपरावापाय ।
नास्य वित्तं परोप्यते य एवं वेद ।
अथो आहुरेकमेवैतत्स्तोत्रं सत्तच्चतुर्धा विहृत्य स्तुयुष्षड्भिरेव होत्रे स्तुयुष्षड्भिर्मैत्रावरुणाय षड्भिर्ब्राह्मणाच्छंसिने षड्भिरच्छावाकाय ।
तदु होतैवानुशंसेदिति ।
ताश्चतुर्विंशति स्तोत्र्! यास्संपद्यन्ते ।
चतुर्विंशत्यर्धमासस्संवत्सरः ।
संवत्सरः प्रजापतिः ।
प्रजापतिरेवैष परस्तात्पर्यूढः ।
पशूनां गुप्त्यै पशूनामपरावापाय ।
नास्य वित्तं परोप्यते य एवं वेद ।
तदु वा आहुस्त्रिवृत्पञ्चदशं सप्तदशमेकविंशमित्येवैतानि स्तोत्राणि स्युः ।
एकविंशं वा अनु सर्वे यज्ञक्रतवस्संतिष्ठन्ते ।
अथो एष वाव दृढः प्रतिष्ठित स्तोमो यदेकविंशः ।
तस्मादेकविंश एव स्तोमोऽन्ततः कार्य इति ।
तदाहुः पृष्ठरूपैरेवान्वियुरिति १११

अभि त्वा वृषभा सुत इत्यार्षभम् ।
अभीति रथन्तरस्य रूपम् ।
तेन रथन्तरस्य रूपान्न यन्ति ।
यदद्य कच्च वृत्रहन्निति शाकलं हिंकारवद्वामदेव्यस्य रूपम् ।
तेन वामदेव्यस्य रूपान्न यन्ति ।
तमिन्द्रं वाजयामसीत्येदावसुनिधनं बहिर्निधनं बृहतो रूपम् ।
तेन बृहतो रूपान्न यन्त्यथो पशवो वै वसु पशूनामेवावरुद्ध्यै ।
अथो हैनांस्तदिदं वस्वित्येवाप्त्वोपेयायेदं विष्णुर्विचक्रम इतीळानां संक्षारः पशवो वा इळानां संक्षारः पशूनामेवावरुद्ध्यै ।
एतद्ध वा एनांस्तन्निजुह्व एहीळा एहीळा इति पशवो वा इळा तस्मादेतान्यतिरिक्तोक्थानि कार्याणीति ।
तदु होवाच ताण्ड्यः प्रजापतिः पशूनसृजत ।
तेऽस्मात्सृष्टा अपाक्रामन् ।
सोऽग्निमब्रवीदेतान्मे वारयस्वेति ।
तान्स जराबोधीयेन नावारयत ।
स इन्द्र मब्रवीदेतान्मे वारयस्येति ।
तान्स सत्रासाहीयेन नावारयत ।
स ईशानं देवमब्रवीदेतान्मे वारयस्वेति ।
तान्स मार्गीयवेण नैवावारयत ।
स विष्णुमब्रवीदेतान्मे वारयस्वेति ।
तान्स वैष्णवीषु वारवन्तीयेनैवावारयत ।
यदवारयत तद्वारवन्तीयस्य वारवन्तीयत्वम् ।
तस्मादेतान्यतिरिक्तोक्थानि कार्याण्येवेति ११२

अथैष गोसवः ।
स्वर्गकामो हैतेन यजेत ।
स वा एष षट्त्रिंशो भवति ।
षट्त्रिंशदक्षरा वै बृहती ।
बृहती स्वर्गो लोकः साम्राज्यं ।
बृहत्यामेव तत्स्वर्गे लोके साम्राज्ये प्रतितिष्ठन्तो यन्ति ।
बृहत्यु ह वा इमान्सर्वाँ ल्लोकानक्षरैर्व्याप्नोति दशभिरेवाक्षरैरिमं लोकं व्याप्नोति दशभिरन्तरिक्षं दशभिरमुं चतुर्भिर्दिशो द्वाभ्यामहोरात्रे ।
सा येमांल्लोकान्व्याप्नोति तयेमांल्लोकान्व्याप्नवानीति ।
तस्य स्तोत्रं स्तोत्रं चतुरश्चतुरस्त्रिवृतोऽभिसंपद्यते ।
त्रिवृतं वा अन्ये स्तोमा अभिसंपद्यन्ते त्रिवृत्स्वर्गं लोकम् ।
स यथा क्षिप्राश्वेन चतुर्युजा यत्र जिगमिषेत्तद्गच्छेदेवमेवैतेन स्वर्गं लोकं गच्छति ।
तस्योभे बृहद्र थन्तरे सामनी भवत स्वर्ग्ये स्वर्गस्य लोकस्य समष्ट्यै ।
स उक्थ्यो भवति प्रजा वै पशव उक्थानि ।
प्रजा वै पशव स्वर्गो लोक स्वर्गस्यैव लोकस्य समष्ट्यै ।
तस्य द्वादश सहस्राणि दक्षिणा भवन्ति द्वादश मासास्संवत्सरस्संवत्सर स्वर्गो लोक स्वर्गस्यैव लोकस्य समष्ट्यै ।
तस्य व्रतम् ।
उप मातरमियादुप स्वसारमुप सगोत्राम् ।
उपाह्वर्योदकमाचामेदुपाह्वर्य तृणान्याछिन्द्यात् ।
यत्र यत्रैनं विष्ठा विन्देत्तत्तद्वितिष्ठेत ।
अनडुहो ह लोकं जयति ।
तेन हैतेन जनको वैदेहो इयक्षां चक्रे ।
तमु ह ब्राह्मणा अभितो निषेदुः ।
स ह पप्रच्छ क स्तोम इति ।
स होवाच सुदक्षिणः क्षैमिर्नायं त्रिवृदेवाहुरिति ।
तस्य किं व्रतं का दक्षिणा इति ।
तस्मा उ हैतत्प्रोवाच ।
स होवाच उदेवास्य दक्षिणा आशंसे व्रतं त्वेवास्य नोदाशंस इति ।
तेनो ह स नोपदधर्ष यष्टुम् ।
तेनो ह पुण्यकेशो यौधेनिरीजे शैब्यो राजा ।
तं ह सभायामेव विष्ठा विवेद ।
स ह तदेवोदावृणान उवाच स्थविरयज्ञो वाव किलायमास ।
स्थविर एवानेन यज्ञेन यजेत ।
स्थविरस्य ह्येवेदं सर्वमनुज्ञातमिति ।
स हैष स्थविरयज्ञ एव ।
तेन हैतेनोत्तरवयस्ये व यजेत ११३

अथैष विवधः ।
पशुकामो हैतेन यजेत ।
स वा एष षट्च पङ्क्तीरभिसंपद्यते दश च स्तोत्र्! याः ।
ततो याष्षट्पङ्क्तयः पशवस्ते ।
अथ या दश स्तोत्र्! याः पशूनामेव स दोहः ।
पय एवैषां तत् ।
ते उ एव द्वे पञ्च पञ्च पञ्चिन्यौ पङ्क्त्यौ संपद्येते ।
त उ ते पशव एव ।
तस्य सविंशं प्रातस्सवनं भवति सदशं माध्यंदिनं सवनं सविंशं तृतीयसवनम् ।
तद्यथा ह वै विवधस्योभयतस्सगुरु सविवधतायै तादृक्तद्यत्सदशं माध्यंदिनं सवनं भवति ।
सविंशे अभितः पूर्वार्धं च जघनार्धं च भूयिष्ठं भाजयन्ति ।
तस्मात्पशवः पूर्वार्धेन च जघनार्धेन च भूयिष्ठं भाजयन्ति ।
वहन्ति पूर्वार्धेन दुह्रे च जघनार्धेन प्र च जनयन्ति ।
उभयं धेनुपयसं चानडुत्पयसं चावरुन्धे य एवं वेद ।
तस्मिन्नु ह तर्ह्युभे बृहद्र थन्तरे कुर्युर्द्वया उ ह वै पशवो राथन्तरा अन्ये बार्हता अन्ये ।
ये ह वा अन्यतोदन्ताः पशवस्ते राथन्तरा य उभयतोदन्तास्ते बार्हता उभयेषामेव पशूनामवरुद्ध्यै ।
स उक्थ्यो भवति पशवो वा उक्थानि पशूनामेवावरुद्ध्यै ।
तस्योद्वंशीयमच्छावाकसाम भवति सर्वपृष्ठरूपं पृष्ठानि वै पशवोऽभिपूर्वाणामेव पशूनामवरुद्ध्यै ११४

अथैष सद्यःक्रीः ।
ते वृता नापाक्रामन् ।
त एत्यायाजयन् ।
तेभ्य एतां वाचं वळवां श्वेतां भूतां अश्वाभिधान्यभिहितामानयन्निमां प्रतिगृह्णीतेति ।
तेऽब्रुवञ्श्रेयसीयमस्मन्नो इमामुद्यंस्याम इति ।
सा क्रुद्धा न मा प्रत्यगृह्णन्निति सिंह्युभयतोमुखी भूत्वोर्ध्वोदक्रामत् ।
सोभयान्देवासुरानन्तरातिष्ठद्यं देवानामुपाप्नोद्यं असुराणां तमाददाना ।
तामुपैव देवा अमन्त्रयन्तोपासुराः ।
सा देवानभ्युपावर्तमानाब्रवीत्किं मे तत स्याद्यद्वोऽभ्युपावर्तेयेति ।
पूर्वां त्वाग्नेराहुतिरश्नुवीतेति ।
तामध्वरेऽवाकल्पयन् ।
सैषोत्तरवेदिः ।
तामेतां पूर्वामग्नेराहुतिरश्नुते ११५

धारयन्त्यग्निं व्याधारयन्त्युत्तरवेदिम् ।
एतदेनां तत्पूर्वामग्नेराहुतिरश्नुते ।
अथैतेभ्य एतमादित्या आदित्यमेवाश्वं श्वेतं भूतमश्वाभिधान्यभिहितमानयन्निममु वै प्रतिगृह्णीतेति ।
तेऽब्रुवञ्श्रेयानु वावायमस्मन्नो वावेममुद्यंस्याम इति ।
तान्देवाश्चर्षयश्चोपसमेत्याब्रुवन्विच्छेत्स्यन्ते वा अदक्षिणा यज्ञाः प्रतिगृह्णीतेति ।
तदेषाभ्यनूच्यते
आदित्या ह जरितरङ्गिरोभ्योऽश्वं दक्षिणामनयंस्
तं ह जरितर्न प्रत्यायंस्तं ह जरितर्न प्रत्यगृह्णंस्
तामु ह जरितः प्रत्यायंस्तामु ह जरितः प्रत्यगृह्णन्न् । अहा नेदसन्नपुरोगवाणि यज्ञा नेदसन्नविचेतनासः ११६

आदित्या रुद्रा वसवस्त्वेळत इदं राधः प्रतिगृह्णीह्यङ्गिर
इदं राधो बृहत्पृथु देवा ददतु वो वरम्
तद्वो अस्तु सुचेतनं
युष्मे अस्तु दिवे दिवे प्रत्येव गृभायत
इत्येवैनान्प्रत्यग्राहयन् ।
ततो वा आदित्याः पूर्वे स्वर्गं लोकमागच्छनहीयन्ताङ्गिरसः ।
स यो भ्रातृव्यवान्स्याद्योऽभिचरेद्य स्पर्धेत स एतेन यजेत ।
हीयतेऽस्य पाप्मा भ्रातृव्यो गच्छति स्वर्गं लोकम् ।
यवोर्वरा वेदिर्भवति ।
सा हि पुराकृता भवति ।
यवानामुत्तरवेदिः ।
यवैर्वा आदित्या अङ्गिरसां यज्ञमयुवत ।
यद्यज्ञं यवैरयुवत तद्यवानां यवत्वम् ।
यवैरेव द्विषतो भ्रातृव्यस्य यज्ञं युते ।
खलेवला यूप स्फ्याग्रो भवत्यैन्द्र ः! ।
विजित्यै सह पशू आलभन्ते समष्ट्यै ।
पुमान्गौस्सोमक्रयणो भवति वीर्यं वै पुमान्वीर्यवन्तोऽसामेति ।
साण्डो भवति सेन्द्र त्वाय ।
कुंभ्या वसतीवर्य्यो भवन्ति यः पुरेजानस्तस्य गृहेभ्यः ।
ता हि पुरागृहीता भवन्ति ।
सर्पिष्मन्तमशित्वा निपद्यते ।
यमेवामुं दीक्षणीयमश्नाति स एवास्य सोऽशितो भवति ।
प्रियायै जायाया अन्तरोरू शेतेऽनिपद्यमानः ।
तपस्यमेवास्य तद्धिरण्यं मुख आधाय शेते ।
सत्यं वै हिरण्यम् ।
सत्यमेवास्य तदुदितं भवति ११७

अश्व श्वेतो दक्षिणा भवति स्वर्ग्यो वा अश्व स्वर्गस्यैव लोकस्य समष्ट्यै ।
अश्वरथस्सोमप्रवाको भवति योजनं परमम् ।
एतद्ध वै परमाणामध्वानामवमं यद्योजनमवमानां वा परमम् ।
तस्मिन्दधिदृतिरुपावहितो भवति ।
तस्य यत्सर्पिस्संपतति तदाज्यकुंभेऽवास्यन्ति ।
तद्धि सद्योजमिव द्विक्रोशमित्थं द्विक्रोशमित्थमृत्विजो विनिहिता भवन्ति ।
त एनं प्रातरुपसमेत्य याजयन्ति ।
स जुह्वत्त्रिर्निमीलयति त्रिर्वीक्षते ।
ता एव दीक्षोपसदः ११८

स त्रिवृद्र थन्तरसामा भवति ब्रह्म वै त्रिवृत् ।
ब्रह्म रथन्तरं ब्रह्मणा स्वर्गं लोकं गच्छामेति ।
अथो आहुस्त्रिवृदेव बृहत्साम स्यादिति ।
ब्रह्म वै त्रिवृत्क्षत्रं बृहत् ।
ब्रह्मणा च क्षत्रेण च संयुग्भ्यां स्वर्गं लोकं गच्छामेति ।
तदु वा आहुस्त्रिवृदेव रथन्तसामा स्यात् ।
ब्रह्म वै त्रिवृत् ।
ब्रह्म वै रथन्तरम् ।
ब्रह्म वै स्वर्गस्य लोकस्येशे ।
तस्मिंस्त्रिवृदेव रथन्तरसामा स्यादिति ।
तस्मिन्नाहुरियवन्ति सामानि कार्याण्यियवद्भिर्वै देवा स्वर्गं लोकमगच्छन्नियवद्भि स्वर्गं लोकं गच्छामेति ।
अथो आहुर्यान्येवाग्नियोनीनि सामानि तानि कार्याणि ।
अशृत इव वा एष यत्सद्यःक्रीः ।
अग्निर्वा अशृतस्य श्रपयितेति ।
तदु वा आहुरग्निष्टोमसामान्येव कार्याणीति ।
एतानि वा अग्नियोनीनि यदग्निष्टोमसामानि ।
तस्मादग्निष्टोमसामान्येव कार्याणीति ।
अथैष क्षिप्रात्क्षेपीयान्क्षिप्रात्क्षेपीय स्वर्गं लोकं गच्छामेति ।
तस्य द्वादश स्तोत्राणि भवन्ति द्वादश मासास्संवत्सरस्संवत्सर स्वर्गो लोक स्वर्गस्यैव लोकस्य समष्ट्यै ।
तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति चतुर्विंशत्यर्धमासस्संवत्सरः ।
संवत्सर स्वर्गो लोक स्वर्गस्यैव लोकस्य समष्ट्यै ११९

अथैतावनुक्रियौ ।
आदित्याश्च वा अङ्गिरसश्च स्वर्गे लोकेऽस्पर्धन्त ।
त आदित्याः पूर्वे स्वर्गं लोकमगच्छन् ।
तेऽङ्गिरसोऽकामयन्त वयमपि तं लोकं गच्छेम यमादित्या अग्मन्निति ।
त एतं यज्ञमपश्यन् ।
तमेव सन्तं परोक्षेणैव तमाहरन् ।
तेनायजन्त ।
ते वळवामेव श्वेतां दक्षिणां नीत्वादित्यैस्सलोका अभवन् ।
ते हैत आदित्याश्चाङ्गिरसश्च सलोकाः ।
सलोको ह वा आदित्यैश्चाङ्गिरोभिश्च भवति य एवं वेद ।
अथो आहुर्यस्मादेव श्रेयान्भ्रातृव्य स्यात्सोऽनेन यजेतेति ।
पूर्वप्रेत इव ह वा एष य श्रेयान् ।
पूर्वप्रेतानिव वा एतेन ते तानाप्नुवन् ।
आप्त्वा श्रेयांसं वसीयानात्मना भवति १२०

गोधूमोर्वरा वेदिर्भवति ।
सा हि पुराकृता भवति ।
गोधूमानामुत्तरवेदिः परोक्षतायै ।
खलेवला यूप स्फ्याग्रो भवत्यैन्द्र ः! ।
विजित्यै सह पशू आलभन्ते समष्ट्यै ।
स्त्रीगौस्सोमक्रयणी भवति परोक्षतायै ।
कुंभ्या वसतीवर्यो भवन्ति यः पुरेजानस्तस्य गृहेभ्यः ।
ता हि पुरागृहीता भवन्ति ।
सर्पिष्मन्तमशित्वा निपद्यते ।
यमेवामुं दीक्षणीयमश्नाति स एवास्य सोऽशितो भवति ।
प्रियायै जायाया अन्तरोरू शेतेऽनिपद्यमानः ।
तपस्यमेवास्य तद्धिरण्यं मुख आधाय शेते ।
सत्यं वै हिरण्यम् ।
सत्यमेवास्य तदुदितं भवति ।
रजतं भवति परोक्षतायै ।
वळवा श्वेता दक्षिणा भवति परोक्षतायै ।
अश्वतरीरथस्सोमप्रवाको भवति त्रैपदं परमं परोक्षतायै ।
तस्मिन्दधिदृतिरुपावहितो भवति ।
तस्य यत्सर्पिस्संपतति तदाज्यकुंभेऽवास्यन्ति ।
तद्धि सद्योजमिवाध्यर्धक्रोशेऽध्यर्धक्रोश ऋत्विजो विनिहिता भवन्ति ।
त एनं प्रातरुपसमेत्य याजयन्ति ।
स जुह्वत्त्रिर्निमीलयति त्रिर्वीक्षते ।
ता एव दीक्षोपसदः ।
स वा एषोऽष्टादशपवमानो भवति ।
परोक्षं त्रिवृत् ।
अग्निष्टोमयज्ञा वा आदित्या उक्थ्ययज्ञा अङ्गिरसः ।
स एष उक्थ्यो निदानेन सन्नग्निष्टोमः प्रत्याह्रियते क्षिप्रतायै ।
अथैष चतुर्विंशपवमानो भवति ।
परोक्षं त्रिवृदु एव ।
स वा एषोऽतिरात्रो निदानेन सन्षोडशीमान्वा अग्निष्टोमः प्रत्याह्रियते क्षिप्रतायै १२१

अथैष परिक्रीः ।
खण्डिकश्च हौद्भारिः केशी च दार्भ्यः पाञ्चालेषु पस्पृधाते ।
स ह खण्डिकः केशिनमभिप्रजिघाय ।
सद्यःक्रिया वै स्यो यक्ष्यत इति ।
अथ हैतेन प्रोच्य भ्रातृव्याय यजन्ते ।
तस्य हैते ब्राह्मणा आसुरहीना आश्वत्थिः केशी सात्यकामिर्गङ्गिना राहक्षितो लुशाकपिः खार्गलिरिति ।
ते हैनमुपसमेयुः ।
स ह ध्यायन्निषसाद ।
तं होचुः किं नु राजन्यो ध्यायतीति ।
स होवाच न हि मे ध्येयम् ।
यूयं ब्राह्मणा अनुब्रूथादित्याश्चाङ्गिरसश्च स्वर्गे लोकेऽस्पर्धन्त ।
त आदित्याः पूर्वे स्वर्गं लोकमगच्छन्नहीयन्ताङ्गिरस इति ।
स य एतेन प्रोच्य भ्रातृव्याय यजते स एव भवति परास्य द्विषन्भ्रातृव्यो भवति १२२

तमु वै मायं खण्डिकोऽभिप्राहैषीत्सयःक्रिया वै स्यो यक्ष्यत इति ।
स एव नूनं भविष्यति परा स्यो भविष्यतीत्येवैतद्ध्यायामीति ।
तं होचुः परिक्रीरिति वा अयं यज्ञक्रतुरस्ति ।
तेन त्वा याजयामेति ।
तथेति ।
तेन हैनं याजयां चक्रुः ।
तस्य वा एतस्य तृचस्य तृचस्यैकैकया स्तुवन्ति ।
ब्रह्म वै प्रथमा स्तोत्रिया क्षत्रं द्वितीया विट्तृतीया ।
अवलम्ब उ ह वै ब्रह्मणः क्षत्रं च विट्च ।
क्षत्रं चो ह वै विशं चानु भ्रातृव्यलोकः ।
स ये द्वे अवचिच्छेद भ्रातृव्यलोकमेव तदवचिच्छेद ।
आत्मा वै प्रथमा स्तोत्रिया जाया द्वितीया प्रजा तृतीया ।
अवलम्ब उ ह वा आत्मनो जाया च प्रजा च ।
जायां चो ह वै प्रजां चानु भ्रातृव्यलोकः ।
स ये द्वे अवचिच्छेद भ्रातृव्यलोकमेव तदवचिच्छेद १२३

ततो वै स खण्डिकं निःसारयां चकार ।
ततो वै केशी दार्भ्योऽभवत्परा खण्डिकः ।
भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद ।
तस्य तिसृषु बहिष्पवमानं भवति चतसृष्वाज्यानि पञ्चसु माध्यंदिनः पवमानश्चतसृषु पृष्ठानि सप्तस्वार्भवः पवमान एकस्यामग्निष्टोमसाम ।
ताश्चतुर्विंशति स्तोत्र्! यास्संपद्यन्ते ।
चतुर्विंशत्यर्धमासस्संवत्सरः ।
संवत्सरादेव तत्खण्डिकमौद्भारिं केशी दार्भ्यो नुनुदे संवत्सरादन्तरियाय ।
संवत्सरादेव द्विषन्तं भ्रातृव्यं नुदते संवत्सरादन्तरेति य एवं वेद १२४

अथैष एकत्रिकः ।
प्रजननकामो हैतेन यजेत ।
प्रजापतिर्वा अकामयत बहुः प्रजया पशुभिः प्रजायेयेमां व्यष्टिं व्यश्नुवीयेति ।
स एतं यज्ञमपश्यत् ।
तमाहरत् ।
तेनायजत ।
स षक्षत केन स्तुवीयेति ।
स आत्मानमपश्यत् ।
तेनास्तुत स षक्षत केन न्वेव स्तुवीयेति ।
स प्राणापानव्यानानपश्यत् ।
तैरस्तुत ।
स आत्मना स प्राणापानव्यानैस्स आत्मना स प्राणापानव्यानैस्स एवमेव विपर्यासं यज्ञं समस्थापयत् ।
ततो वै स बहुः प्रजया पशुभिः प्राजायतेमां व्यष्टिं व्यश्नुते य एवं वेद १२५

तेन हैतेनोदरश्शाण्डिल्य इयक्षां चक्रे ।
तस्य ह मनस्येवास एकत्रिकेण यजेयेति ।
न ह तु कस्मै चनोवाच ।
अथ हास्य जाया गन्धर्विण्यास ।
तां हायं गन्धर्व उपन्येयाय ।
तां होवाचैकत्रिक इति वै यज्ञक्रतुर्दारुण इवास्ति ।
तेन वै ते पतिर्यक्ष्यत इति ।
सा हेयं पतिं पप्रच्छैकत्रिक इति वै यज्ञक्रतुर्दारुण इवास्ति ।
सत्यं त्वं तेन यक्ष्यसा३ इति ।
स होवाच यदहमिदं नैव कस्मै चनावोचं मनस्येव मेऽभूत्कस्त इदमवोचदिति ।
यो मायं गन्धर्व उपन्यैतीति ।
तं वै त्वं पृच्छतादिति होवाच ।
यष्टव्यं तेना३ न यष्टव्या३मिति ।
तं ह पप्रच्छ यष्टव्यं तेना३ न यष्टव्या३मिति ।
स होवाच यथा वा एनं स वेदैवमेनं वयं विद्मः ।
यस्त्वस्येत्थं स्तोत्रं विद्यात्स एनेन यजेतेति यथैनेनादः प्रजापतिस्तुष्टुवे ।
तेनो ह स नोपदधर्ष यष्टुम् १२६

शश्वद्धोदरश्शाण्डिल्यस्तेनैव पणाय्यतां जगाम यदस्य मनस्येवासैकत्रिकेण यजेयेति ।
स वा एषोऽन्यतर इव यज्ञक्रतुस्सुपणाय्यो वैनेनेष्ट्वा भवति सुपापीयान्वा ।
तस्यैकस्यां बहिष्पवमानं संपद्यते उपास्मै गायता नर इति ।
तिसृषु माध्यंदिनः पवमानो गायत्रमेव गायत्र्! यामुत्सेधस्सतोबृहत्यां सैवेळा तन्निधनमाउशनमेव त्रिष्टुभि ।
एतस्यामार्भवः पवमानोऽया रुचा हरिण्या पुनान इति ।
एतस्यामतिच्छन्दसि गायत्रपार्श्वम् ।
स एव स्वरस्तन्निधनम् ।
सप्तपदा भवति ।
सप्त वै छन्दांसि ।
अतिच्छन्दा वै सर्वाण् छन्दांस्यभिभवति ।
तदस्य तत्सर्वाण्येव छन्दांस्युपेतानि भवन्ति ।
तदाहुः पञ्चनिधनमेव वामदेव्यं कार्यम् ।
पञ्चछन्दा आर्भवः पवमानस्सप्तसामा ।
यदह पञ्चनिधनानि तेन छन्दांसि प्रति विभवति ।
यदु वै सप्तपदा तेन सामान्यत्रेव विभवतीति ।
तदु वा आहुर्गायत्रपार्श्वमेव कार्यम् ।
स एव स्वरस्तन्निधनम् ।
आत्मा वै स्वरः प्रजा निधनम् ।
एतदेव समृद्धतरमिव यद्गायत्रपार्श्वम् ।
तस्माद्गायत्रपार्श्वमेव कार्यमिति ।
ताश्चतुर्विंशति स्तोत्र्! यास्संपद्यन्ते ।
चतुर्विंशत्यर्धमासस्संवत्सरः ।
संवत्सरः प्रजननम् ।
स यः प्रजननं स मा प्रजनयादिति १२७

अथैष बृहस्पतिसवः ।
प्रजापतिः प्रजास्ससृजानस्स व्यस्रंसत ।
सोऽन्नं भूतोऽशयत् ।
तस्य सर्वे देवा ममत्विन आसन्मम ममेति ।
तेऽब्रुवन्वीदं भजामहा इति ।
तस्य विभागे न समपादयन् ।
तेऽब्रुवनाजिमस्यायामेति ।
त आजिमायन् ।
स बृहस्पतिराजिसरणं पन्थानमपश्यत् ।
स पूर्वः परीत्य रथेन वृत्वातिष्ठत् ।
ते देवास्तन्नाविन्दन्येनात्यसरिष्यन् ।
शश्वद्ध यावानेव रथयानाय तावानाजिरास ।
ततो वै स तमाजिमुदजयत् ।
यद्बृहस्पतिरुदजयत्तस्माद्बृहस्पतिसवः ।
तमाजिमुज्जिगिवांसमिन्द्रो ऽब्रवीत्पुरस्त्वा दधे ।
मामनेन यज्ञेन याजयेति ।
तथेति ।
तं पुरोऽधत्त ।
तेनैनमयाजयत् ।
ततो वा इन्द्र स्सर्वेषां देवानां श्रैष्ठ्यमगच्छत् ।
गच्छति स्वानां श्रैष्ठ्यं य एवं वेद ।
स वा एष द्वयोरेव यज्ञो ब्राह्मणस्य चैव राजन्यस्य च ।
यद्बृहसोअतिरुदजयत्तेन ब्राह्मणस्य ।
यदिन्द्रो ऽयजत तेनो राजन्यस्य ।
स उ हेन्द्र स्यैवैकस्य पुरोहित आस नेतरेषां देवानाम् ।
सोऽकामयत सर्वेषां देवानां पुरोधां गच्छेयमिति ।
स एतेनैव यज्ञेनायजत ।
ततो वै स सर्वेषां देवानां पुरोधामगच्छत् ।
बृहस्पतिर्वै देवानां पुरोहितः १२८

स त्रिवृद्र थन्तरसामा भवति ।
ब्रह्म वै त्रिवृद्ब्रह्म रथन्तरम् ।
ब्रह्मणा वाव स तद्ब्रह्मवर्चसमार्ध्नोत् ।
ब्रह्मणैव ब्रह्मवर्चसमृध्नोति य एवं वेद ।
तस्य त्रयस्त्रिंशद्दक्षिणा भवन्ति ।
त्रयस्त्रिंशद्वै देवताः ।
देवतानामेव पुरोधामाश्नुत ।
अश्वश्चतुस्त्रिंशः ।
प्रजापतेर्वा एतद्रू पं यदश्वः ।
सप्रजापतिकानामेव तेन देवतानां पुरोधामाश्नुत ।
तस्यैता यथापूर्वमनुसवनं दक्षिणा ददात्यष्टौ प्रातस्सवने ददात्येकादश माध्यंदिने सवने द्वादश तृतीयसवनेऽनूबंध्यायामेकामुदवसानीयायामेकाम् ।
अनुसवनमश्वं तृतीयशः ।
तद्या अष्टौ प्रातस्सवने ददात्यष्टौ वसवो वसूनामेव पुरोधामाश्नुत ।
अथ या एकादश माध्यंदिने सवनेकादश रुद्रा रुद्रा णामेव तेन पुरोधामाश्नुत ।
अथ या द्वादश तृतीयसवने द्वादशादित्या आदित्यानामेव तेन पुरोधामाश्नुत ।
अथ यामनूबंध्यायामेकां मित्रावरुणयोरेव तेन पुरोधामाश्नुत ।
अथ यामुदवसानीयायामेकां कर्म कर्म मे दक्षिणावदसदिति ।
अथ यमनुसवनमश्वं तृतीयशः प्रजापतेरेव तेन पुरोधामाश्नुत १२९

तदाहुर्मनसैव प्रातस्सवने दद्यान्मनसा तृतीयसवने माध्यंदिन एव सवने दद्यादिति ।
तदु वा आहुरतीर्थं वै प्रातसवनं दक्षिणानामतीर्थं तृतीयसवनम् ।
माध्यंदिन एव सवने दद्यात् ।
तदेव तीर्थं तदायतनम् ।
नैवेतरयोः सवनयोर्मनसा चन दददाद्रि येतेति ।
ब्रह्मणेऽश्वं ददाति ।
ब्रह्मणो ह्येवैकदक्षिणा ।
तद्यदा माध्यंदिनीयाश्चमसाः प्रतिष्ठेरन्नथ जघनेनाहवनीयं प्राचीनग्रीवं कृष्णाजिनमुपस्तृणीतेति ब्रूयादुदीचीनग्रीवं वा ।
तद्यजमान आस्ते स हुतानां चमसानामुन्मार्ष्टि देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां सरस्वत्यै त्वा वाचो यन्तुर्यन्त्रेण बृहस्पतेस्त्वा साम्राज्येन ब्रह्मणाभिषिञ्चामीति ।
मुखं विमार्ष्टि ।
स सोमाभिषिक्तस्तेजस्वी ब्रह्मवर्चसी भवति ।
त्रिरुत्क्रोशन्ति त्रयो वा इमे लोका एष्वेवास्य तल्लोकेषु श्रुतिं दधति १३०

तस्याष्टशतं स्तोत्रिया भवन्ति ।
ततो यच्छतं सा विराट् ।
क्षत्रं विराट् ।
अथ या अष्टौ सा गायत्री ।
तेजो ब्रह्मवर्चसं गायत्री ।
तेज एव तद्ब्रह्मवर्चसं क्षत्रस्य पुरस्ताद्दधाति ।
तस्माद्ब्राह्मणः क्षत्रियस्य पुरोहितः ।
स यः पुरोधाकाम स्यात्स एतेन यजेताश्नुते पुरोधाम् ।
तं हैक एकछन्दसमेव कुर्वन्ति गायत्रमेव सर्वं गायत्रो वै बृहस्पतिः ।
ब्रह्म वै गायत्री ।
ब्रह्म बृहस्पतिर्ब्रह्मणा वा ब्रह्मवर्चसमृध्नवामेति ।
ते ये ह ते तथा कुर्वन्त्यग्निं चैव तेन देवतानामुपाप्नुवन्ति गायत्रीं च छन्द इमं च लोकम् ।
अन्तरिता हैषामितराश्च देवता भवन्तीतराणि च छन्दांसीतरे च देवा इतरे च लोका इतरे च कामाः ।
तस्माद्यथाछन्दसमेव कार्यं सर्वासां देवतानां सर्वेषां छन्दसां सर्वेषां देवानां सर्वेषां लोकानां सर्वेषां कामानामुपाप्त्यै ।
तस्य बृहद्बार्हस्पत्यमादिष्टसामार्भवे पवमाने भवति ।
बृहस्पतिसवो ह्येषः ।
स्तोममेव तद्रू पेण समर्धयन्ति १३१

अथैष इन्द्रा ग्न्योः कुलायः ।
इन्द्रा ग्नी वा अकामयेतां सदृशानामेव सतां देवानां श्रेष्ठतां गच्छेव समानेन यज्ञेन समानीमृद्धिमृध्नुयावेति ।
तावेतं यज्ञमप्श्यताम् ।
तमाहरताम् ।
तेनायजेताम् ।
ततो वै तौ सदृशानामेव सतां देवानां श्रेष्ठतामगच्छतां समानेन यज्ञेन समानीमृद्धिमार्ध्नुताम् ।
तद्ब्रह्म वा अग्निः ।
क्षत्रमिन्द्र ः! ।
स वा एष त्रिवृत्पञ्चदशो भवति ।
ब्रह्म वै त्रिवृत् ।
क्षत्रं पञ्चदशः ।
त्रिवृतैवाग्नि श्रेष्ठतामगच्छत्पञ्चदशेनेन्द्र ः! ।
तस्योभे बृहद्र थन्तरे सामनी भवतः ।
ब्रह्म वै रथन्तरं क्षत्रं बृहत् ।
रथन्तरेणैवाग्नि श्रेष्ठतामगच्छद्बृहतेन्द्र ः! ।
तौ यौ ब्राह्मणश्च राजन्यश्च कामयेयातां सदृशानामेव सतां स्वानां श्रेष्ठतां गच्छेव समानेन यज्ञेन समानीमृद्धिमृध्नुयावेति तावेतेन यजेयाताम् ।
सदृशानामेव सतां स्वानां श्रेष्ठतां गच्छतस्समानेन यज्ञेन समानीमृद्धिमृध्नुतः ।
त्रिवृतैव ब्राह्मण श्रेष्ठतां गच्छति पञ्चदशेन राजन्यः ।
रथन्तरेणैव ब्राह्मण श्रेष्ठतां गच्छति बृहता राजन्यः तद्यदेतानि त्रिवृत्पञ्चदशस्तोत्राणि व्यतिषक्तानि भवन्ति – १३२

– तस्मादिन्द्रा ग्न्योः कुलायः ।
तदाहुस्सत्रे तद्व्यतिषक्तं यत्त्रिवृत्पञ्चदशम् ।
त्रिवृत्पञ्चदशमित्येवैतानि स्तोत्राणि व्यतिषक्तानि भवन्ति ।
षडेव त्रिवृन्ति स्तोत्राणि स्युः षट्पञ्चदशानीति ।
यान्येवार्वाञ्चि माध्यंदिनात्तान्येव त्रिवृन्ति स्युर्यान्यूर्ध्वं तानि पञ्चदशानीति ।
पञ्चदशस्त्वेव माध्यंदिनः स्यात्त्रिवृद्धोतुः पृष्ठम् ।
तस्मिन्पञ्चदशे माध्यम्दिने रथन्तरमवकल्पयन्ति ।
ब्रह्म वै रथन्तरं क्षत्रं पञ्चदशः ।
ब्रह्मैव तत्क्षत्रे प्रतिष्ठापयन्ति ।
अथ यत्त्रिवृद्धोतुः पृष्ठं भवति ब्रह्म वै त्रिवृत्क्षत्रं बृहत्क्षत्रमेव तद्ब्रह्मन्प्रतिष्ठापयन्ति ।
तावेतावेवमन्योऽन्यस्मिन्प्रतिष्ठाय श्रेष्ठतामगच्छताम् ।
तयोर्हैतयोरजय्यमेव ।
अजय्यां ह वै कीर्तिमजय्यां श्रियमजय्यं स्वर्गं लोकं जयति य एवं वेद ।
यद्वेवैते त्रिवृत्पञ्चदशे स्तोत्रे व्यतिषक्ते भवतो व्यतिषक्ताद्वै मिथुनात्प्रजाः पशवः प्रजायन्ते प्रजात्या एव ।
अथो प्राणा वै स्तोमा व्यतिषक्ता वा इमे प्राणा अनिर्मार्गाय ।
तस्मात्त्रिवृत्पञ्चदशान्येवैतानि स्तोत्राणि व्यतिषक्तानि स्युरिति ।
तस्यैन्द्रा ग्नं सामादिष्टसाम माध्यंदिने पवमाने भवति ।
इन्द्रा ग्न्योर्ह्येष यज्ञः ।
स्तोममेव तद्रू पेण समर्धयन्ति १३३

अथैषोऽग्निष्टुत् ।
इन्द्रं वै भूतानि पर्यचक्षत त्रिशीर्षाणं त्वाष्ट्रमवधीद्यतीन्सालावृकेभ्यः प्रादादरुर्मुखानवधीद्बृहस्पतेः प्रत्यवधीत्संधां संहितं अतीत्य नमुचेरासुरस्य शिरः प्राच्छैत्सीदित्येतेभ्यो देवकिल्बिषेभ्यस् ।
स हारण्य एव चचारानभ्यवयन्देवान् ।
स उ ह देवानुवाच याजयत मेति ।
नेति होचुः ।
एता वै त्वया संधा अतीता एतानि देवकिल्बिषाणि कृतानि न त्वा याजयिष्याम इति ।
अथो हास्याग्निरेव सखितम इवास देवेषु ।
स उ हाग्निमुवाच त्वं मा यजयेति ।
तथेति होवाच ।
स वै नु तं देवेष्विच्छामि येन त्वा सह याजयेयमिति ।
स ह तं देवेषु न विवेद येनैनं सहायाजयिष्यत् ।
स होवाच न वै नु तं देवेषु विन्दामि येन त्वा सह याजयेयमिति ।
तं वै मा त्वमेव याजयेति ।
तथेति ।
सोऽग्निरात्मन एवाध्येतमग्निष्टुतमतनुत ।
तेनैनमयाजयत् ।
तस्य सद्यस्सर्वं पाप्मानं निरदहत् ।
स यथाहिरहिच्छव्यै निर्मुच्येत यथा मुञ्जादिषीकां विवृहेदेवमेव सर्वस्मात्पाप्मनो निरमुच्यत ।
स एषोऽपहतपाप्मा तपत्येष ह वा इन्द्र ः! ।
स य उक्तोक्त स्याद्योऽभ्याख्यायेत स एतेन यजेत ।
सद्यो हैवास्य सर्वं पाप्मानं निर्दहति ।
स यथाहिरहिच्छव्यै निर्मुच्येत यथा मुञ्जादिषीकां विवृहेदेवमेव सर्वस्मात्पाप्मनो निर्मुच्यते १३४

स यो मुखेन पापं कृत्वा मन्येत त्रिवृताग्निष्टुता यजेत ।
एष ह वै मुखेन पापं करोति योऽवाद्यं वदति ।
मुखं वै त्रिवृत्स्तोमानाम् ।
मुखादेव तेन पाप्मानमपघ्नते ।
अथ यो बाहुभ्यां पापं कृत्वा मन्येत पञ्चदशेनाग्निष्टुता यजेत ।
एष ह वै बाहुभ्यां पापं करोति योऽनिघात्यस्य निहन्ति ।
बाहू वै पञ्चदश स्तोमानाम् ।
बाहुभ्यामेव तेन पाप्मानमपघ्नते ।
अथ उदरेण पापं कृत्वा मन्येत सप्तदशेनाग्निष्टुतायजेत ।
एष ह वा उदरेण पापं क