शास्त्रयोनित्वात्-Sastra yonitvat-BS-1.3

शास्त्रयोनित्वात्

Sankar

महत ऋग्वेदादेः शास्त्रस्य अनेकविद्यास्थानोपबृंहितस्य प्रदीपवत्सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य योनिः कारणं ब्रह्म । न हीदृशस्य शास्त्रस्य ऋग्वेदादिलक्षणस्य सर्वज्ञगुणान्वितस्य सर्वज्ञादन्यतः सम्भवोऽस्ति । यद्यद्विस्तरार्थं शास्त्रं यस्मात्पुरुषविशेषात्सम्भवति, यथा व्याकरणादि पाणिन्यादेः ज्ञेयैकदेशार्थमपि, स ततोऽप्यधिकतरविज्ञान इति प्रसिद्धं लोके । किमु वक्तव्यम् — अनेकशाखाभेदभिन्नस्य देवतिर्यङ्मनुष्यवर्णाश्रमादिप्रविभागहेतोः ऋग्वेदाद्याख्यस्य सर्वज्ञानाकरस्य अप्रयत्नेनैव लीलान्यायेन पुरुषनिःश्वासवत् यस्मान्महतो भूतात् योनेः सम्भवः — ‘अस्य महतो भूतस्य निःश्वसितमेतत् यदृग्वेदः’ (बृ. उ. २ । ४ । १०) इत्यादिश्रुतेः — तस्य महतो भूतस्य निरतिशयं सर्वज्ञत्वं सर्वशक्तिमत्त्वं चेति ॥

अथवा यथोक्तमृग्वेदादिशास्त्रं योनिः कारणं प्रमाणमस्य ब्रह्मणो यथावत्स्वरूपाधिगमे । शास्त्रादेव प्रमाणात् जगतो जन्मादिकारणं ब्रह्माधिगम्यत इत्यभिप्रायः । शास्त्रमुदाहृतं पूर्वसूत्रे — ‘यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) इत्यादि । किमर्थं तर्हीदं सूत्रम् , यावता पूर्वसूत्रेणैव एवंजातीयकं शास्त्रमुदाहरता शास्त्रयोनित्वं ब्रह्मणो दर्शितम् । उच्यते — तत्र सूत्राक्षरेण स्पष्टं शास्त्रस्यानुपादानाज्जन्मादिसूत्रेण केवलमनुमानमुपन्यस्तमित्याशङ्क्येत ; तामाशङ्कां निवर्तयितुमिदं सूत्रं प्रववृते — ‘शास्त्रयोनित्वात्’ इति ॥ ३ ॥

वैयासिकन्यायमाला

न कर्तृ ब्रह्म वेदस्य किंवा कर्तृ, न कर्तृ तत् ॥
विरूप नित्यया वाचेत्येवं नित्यत्ववर्णनात् ॥ १५ ॥
कर्तृ निःश्वसिताद्युक्तेर्नित्यत्वं पूर्वसाम्यतः ॥
सर्वावभासिवेदस्य कर्तत्वात्सर्वविद्भवेत् ॥ १६ ॥
अस्त्यन्यमेयताऽप्यस्य किंवा वेदैकमेयता ॥
घटवत्सिद्धवस्तुत्वाद्ब्रह्मान्येनापि मीयते ॥ १७ ॥
रूपलिङ्गादिराहित्यान्नास्य मान्तरयोग्यता ॥
तं त्वौपनिषदेत्यादौ प्रोक्ता वेदैकमेयता ॥ १८ ॥

भामती

शास्त्रयोनित्वात् ॥ न केवलं जगद्योनित्वादस्य भगवतः सर्वज्ञता, शास्त्रयोनित्वादपि बोद्धव्या । शास्त्रयोनित्वस्य सर्वज्ञतासाधनत्वं समर्थयते – महत ऋग्वेदादेः शास्त्रस्येति । चातुर्वर्ण्यस्य चातुराश्रम्यस्य च यथायथं निषेकादिश्मशानान्तासु ब्राह्ममुहूर्तोपक्रमप्रदोषपरिसमापनीयासु नित्यनैमित्तिककाम्यकर्मपद्धतिषु च ब्रह्मतत्त्वे च शिष्याणां शासनात् शास्त्रमृग्वेदादिः । अत एव महाविषयत्वात् महत् । न केवलं महाविषयत्वेनास्य महत्त्वम् , अपि त्वनेकाङ्गोपाङ्गोपकरणतयापीत्याह – अनेकविद्यास्थानोपबृंहितस्य । पुराणन्यायमीमांसादयो दश विद्यास्थानानि तैस्तया तया द्वारोपकृतस्य । तदनेन समस्तशिष्टजनपरिग्रहेणाप्रामाण्यशङ्काप्यपाकृता । पुराणादिप्रणेतारो हि महर्षयः शिष्टास्तैस्तया तया द्वारा वेदान्व्याचक्षाणैस्तदर्थञ्चादरेणानुतिष्ठद्भिः परिगृहीतो वेद इति । न चायमनवबोधको नाप्यस्पष्टबोधको येनाप्रमाणं स्यादित्याह – प्रदीपवत्सर्वार्थावद्योतिनः । सर्वमर्थजातं सर्वथावबोधयन्नानवबोधको नाप्यस्पष्टबोधक इत्यर्थः । अत एव सर्वज्ञकल्पस्य – सर्वज्ञसदृशस्य । सर्वज्ञस्य हि ज्ञानं सर्वविषयं, शास्त्रस्याप्यभिधानं सर्वविषयमिति सादृश्यम् । तदेवमन्वयमुक्त्वा व्यतिरेकमप्याह – न हीदृशस्येति । सर्वज्ञस्य गुणः सर्वविषयतातदन्वितं शास्त्रम् , अस्यापि सर्वविषयत्वात् । उक्तमर्थं प्रमाणयति – यद्यद्विस्तरार्थं शास्त्रं यस्मात्पुरुषविशेषात्सम्भवति स – पुरुषविशेषः ततोऽपि – शास्त्रात् अधिकतरविज्ञानः इति योजना । अद्यत्वेऽप्यस्मदादिभिर्यत्समीचीनार्थविषयं शास्त्रं विरच्यते तत्रास्माकं वक्तृणां वाक्याज्ज्ञानमधिकविषयम् । नहि ते तेऽसाधारणधर्मा अनुभूयमाना अपि शक्या वक्तुम् । न खल्विक्षुक्षीरगुडादीनां मधुररसभेदाः शक्याः सरस्वत्याप्याख्यातुम् । विस्तरार्थमपि वाक्यं न वक्तृज्ञानेन तुल्यविषयमिति कथयितुं विस्तरग्रहणम् । सोपनयं निगमनमाह – किमु वक्तव्यमिति । वेदस्य यस्मात् महतो भूतात् योनेः सम्भवः, तस्य महतो भूतस्य ब्रह्मणो निरतिशयं सर्वज्ञत्वं च सर्वशक्तित्वं च किमु वक्तव्यमिति योजना । अनेकशाखेति । अत्र चानेकशाखाभेदभिन्नस्यवेदस्येत्यादिः सम्भव इत्यन्त उपनयः । तस्येत्यादि सर्वशक्तित्वञ्चेत्यन्तं निगमनम् । अप्रयत्नेनैवेति । ईषत्प्रयत्नेन, यथालवणा यवागूरिति । देवर्षयो हि महापरिश्रमेणापि यत्राशक्तस्तदयमीषत्प्रयत्नेन लीलयैव करोतीति निरतिशयमस्य सर्वज्ञत्वं सर्वशक्तित्वं चोक्तं भवति । अप्रयत्नेनास्य वेदकर्तृत्वे श्रुतिरुक्ता – “अस्य महतो भूतस्य”(बृ. उ. २ । ४ । १०) इति । येऽपि तावत् वर्णानां नित्यत्वमास्थिषत तैरपि पदवाक्यादीनामनित्यत्वमभ्युपेयम् । आनुपूर्वीभेदवन्तो हि वर्णाः पदम् । पदानि चानुपूर्वीभेदवन्ति वाक्यम् । व्यक्तिधर्मश्चानुपूर्वी न वर्णधर्मः, वर्णानां नित्यानां विभूनां च कालतो देशतो वा पौर्वापर्यायोगात् । व्यक्तिश्चानित्येति कथं तदुपगृहीतानां वर्णानां नित्यानामपि पदता नित्या । पदानित्यतया च वाक्यादीनामप्यनित्यता व्याख्याता । तस्मान्नृत्तानुकरणवत्पदाद्यनुकरणम् । यथा हि यादृशं गात्रचलनादि नर्तकः करोति तादृशमेव शिक्ष्यमाणानुकरोति नर्तकी, न तु तदेव व्यनक्ति, एवं यादृशीमानुपूर्वीं वैदिकानां वर्णपदादीनां करोत्यध्यापयिता तादृशीमेवानुकरोति माणवकः, न तु तामेवोच्चारयति, आचार्यव्यक्तिभ्यो माणवकव्यक्तीनामन्यत्वात् । तस्मान्नित्यानित्यवर्णवादिनां न लौकिकवैदिकपदवाक्यादिपौरुषेयत्वे विवादः, केवलं वेदवाक्येषु पुरुषस्वातन्त्र्यास्वातन्त्र्ये विप्रतिपत्तिः । यथाहुः – “यत्नतः प्रतिषेध्या नः पुरुषाणां स्वतन्त्रता” । तत्र सृष्टिप्रलयमनिच्छन्तो जैमिनीया वेदाध्ययनं प्रत्यस्मादृशगुरुशिष्यपरम्परामविच्छिन्नामिच्छन्ते वेदमनादिमाचक्षते । वैयासिकं तु मतमनुवर्तमानाः श्रुतिस्मृतीतिहासादिसिद्धसृष्टिप्रलयानुसारेणानाद्यविद्योपधानलब्धसर्वशक्तिज्ञानस्यापि परमात्मनो नित्यस्य वेदानां योनेरपि न तेषु स्वातन्त्र्यम् , पूर्वपूर्वसर्गानुसारेण तादृशतादृशानुपूर्वीविरचनात् । यथा हि – यागादिब्रह्महत्यादयोऽर्थानर्थहेतवो ब्रह्मविवर्ता अपि न सर्गान्तरेऽपि विपरीयन्ते । न हि जातु क्वचित्सर्गे ब्रह्महत्याऽर्थहेतुरनर्थहेतुश्चाश्वमेधो भवति । अग्निर्वा क्लेदयति । आपो वा दहन्ति । तद्वत् । यथात्र सर्गे नियतानुपूर्व्यं वेदाध्ययनमभ्युदयनिःश्रेयसहेतुरन्यथा तदेव वाग्वज्रतयानर्थहेतुः, एवं सर्गान्तरेष्वपीति तदनुरोधात्सर्वज्ञोऽपि सर्वशक्तिरपि पूर्वपूर्वसर्गानुसारेण वेदान्विरचयन्न स्वतन्त्रः । पुरुषास्वातन्त्र्यमात्रं चापौरुषेयत्वं रोचयन्ते जैमिनीया अपि । तच्चास्माकमपि समानमन्यत्राभिनिवेशात् । न चैकस्य प्रतिभानेऽनाश्वास इति युक्तम् । न हि बहूनामप्यज्ञानां विज्ञानां वाशयदोषवतां प्रतिभाने युक्त आश्वासः । तत्त्वज्ञानवतश्चापास्तसमस्तदोषस्यैकस्यापि प्रतिभाने युक्त एवाश्वासः । सर्गादिभुवां प्रजापतिदेवर्षीणां धर्मज्ञानवैराग्यैश्वर्यसम्पन्नानामुपपद्यते तत्स्वरूपावधारणम् , तत्प्रत्ययेन चार्वाचीनानामपि तत्र संप्रत्यय इत्युपपन्नं ब्रह्मणः शास्त्रयोनित्वम् , शास्त्रस्य चापौरुषेयत्वम् , प्रामाण्यं चेति ।।
इति प्रथमवर्णकम् ।।

अथवा यथोक्तमृग्वेदादिशास्त्रं योनिः कारणं प्रमाणमस्य ब्रह्मणो यथावत्स्वरूपाधिगमे । शास्त्रादेव प्रमाणात् जगतो जन्मादिकारणं ब्रह्माधिगम्यत इत्यभिप्रायः । शास्त्रमुदाहृतं पूर्वसूत्रे — ‘यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) इत्यादि । किमर्थं तर्हीदं सूत्रम् , यावता पूर्वसूत्रेणैव एवंजातीयकं शास्त्रमुदाहरता शास्त्रयोनित्वं ब्रह्मणो दर्शितम् । उच्यते — तत्र सूत्राक्षरेण स्पष्टं शास्त्रस्यानुपादानाज्जन्मादिसूत्रेण केवलमनुमानमुपन्यस्तमित्याशङ्क्येत ; तामाशङ्कां निवर्तयितुमिदं सूत्रं प्रववृते — ‘शास्त्रयोनित्वात्’ इति ॥ ३ ॥

श्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां

अथ वा यथोक्तमृग्वेदादीत्यादिना सूत्रस्य प्रमाणप्रतिज्ञामर्थान्तरमाह – अपेक्षितत्वात् ॥ कथं पुनरेकस्य सूत्रस्यार्थद्वयम् ? सूत्रत्वादेव । तथा च पौराणिकाः — ‘अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः’ ॥ इति ॥ विश्वतोमुखमिति नानार्थतामाह – अतोऽलङ्कार एव सूत्राणां यदनेकार्थता नाम ॥ ननु पूर्वसूत्रे शास्त्रमुदाहरता ब्रह्मावगमे शास्त्रं प्रमाणं प्रतिज्ञातमेव । सत्यमेतत्सूत्रबलेन तदुदाहृतम् ; अन्यथा सूत्रे शास्त्रोपादानाभावादनुमानाशङ्कायां ‘यतः सर्वज्ञात्सर्वशक्तेः कारणाज्जगतो जन्मादि भवति, तद् ब्रह्मेति वाक्यशेषः’ इत्यस्योपस्कारस्याप्रमाणत्वप्रसङ्गः । प्रतिप्रपञ्चं पृथक्कारणजन्मताया अपि सम्भवात् सर्वज्ञत्वसर्वशक्तित्वासिद्धेः, लोके च जगत्कारणे ब्रह्मशब्दप्रयोगादर्शनात् । अतो ‘जन्माद्यस्य यतः’ ‘शास्त्रप्रमाणकमि’त्येतावदिदं सूत्रं सदसन्दिग्धमनुमानशङ्कानिवृत्तेः पृथक्करणं प्रपञ्चान्तःपातिनः शास्त्रस्यापि हेतुत्वेन सर्वज्ञत्वं सुसम्पादमिति व्याख्यानान्तरेण कथयितुम् ॥

भाष्यरत्नप्रभाव्याख्या-श्रीरामानन्दयति

वेदे हि सर्वार्थप्रकाशनशक्तिरुपलभ्यते, सा तदुपादानब्रह्मगतशक्तिपूर्विका तद्गता वा, प्रकाशनशक्तित्वात् । कार्यगतशक्तित्वाद्वा, प्रदीपशक्तिवदिति वेदोपादानत्वेन ब्रह्मणः स्वसम्बद्धाशेषार्थप्रकाशनसामर्थ्यरूपं सर्वसाक्षित्वं सिध्यति । यद्वा यथा अध्येतारः पूर्वक्रमं ज्ञात्वा वेदं कुर्वन्ति, तथा विचित्रगुणमायासहायोऽनावृतानन्तस्वप्रकाशचिन्मात्रः परमेश्वरः स्वकृतपूर्वकल्पीयक्रमसजातीयक्रमवन्तं वेदराशिं तदर्थांश्च युगपज्जानन्नेव करोतीति न वेदस्य पौरुषेयता । यत्र ह्यर्थज्ञानपूर्वकं वाक्यज्ञानं वाक्यसृष्टौ कारणं तत्र पौरुषेयता, अत्र च यौगपद्यान्न सा, अतो वेदकर्ता वेदमिव तदर्थमपि स्वसम्बद्धं नान्तरीयकतया जनातीति सर्वज्ञ इति सिद्धान्तयति – शास्त्रेति । शास्त्रं प्रति हेतुत्वात् , ब्रह्म सर्वज्ञं सर्वकारणं च इति सङ्गतिद्वयानुसारेण सूत्रयोजनामभिप्रेत्य पदानि व्याचष्टे – महत इति । हेतोः सर्वज्ञत्वसिद्धये वेदस्य विशेषणानि । तत्र ग्रन्थतोऽर्थतश्च महत्त्वम् , हितशासनात्शास्त्रत्वम् । शास्त्रशब्दः शब्दमात्रोपलक्षणार्थ इति मत्वाह – अनेकेति । पुराणन्यायमीमांसाधर्मशास्त्राणि शिक्षाकल्पव्याकरणनिरुक्तच्छन्दोज्योतिषाणि षडङ्गानि इति दश विद्यास्थानानि वेदार्थज्ञानहेतवः । तैरुपकृतस्येत्यर्थः । अनेन मन्वादिभिः परिगृहीतत्वेन वेदस्य प्रामाण्यं सूचितम् । अबोधकत्वाभावादपि प्रामाण्यमित्याह – प्रदीपवदिति । सर्वार्थप्रकाशनशक्तिमत्वेऽप्यचेतनत्वात्सर्वज्ञकल्पत्वं योनिरुपादानं कर्तृ च । ननु सर्वज्ञस्य यो गुणः सर्वार्थज्ञानशक्तिमत्वं वेदस्य तदन्वितत्वेऽपि तद्योनेः सर्वज्ञत्वं कुत इत्यत आह – न हीति । उपादाने तच्छक्तिं विना कार्ये तदयोगाद्वेदोपादानस्य सर्वज्ञत्वम् , अनुमानं तु पूर्वं दर्शितम् । न चाविद्यायास्तदापत्तिः । शक्तिमत्वेऽप्यचेतनत्वादिति भावः । वेदः स्वविषयादधिकार्थज्ञानवज्जन्यः प्रमाणवाक्यत्वात् , व्याकरणरामायणादिवदित्यनुमानान्तरम् । तत्र व्याप्तिमाह – यद्यदिति । विस्तरः शब्दाधिक्यम् , अनेनार्थतोऽल्पत्वं वदन् कर्तुर्ज्ञानस्यार्थाधिक्यं सूचयति, दृश्यते चार्थवादाधिक्यं वेदे । अत्रैषा योजना – यद्यच्छास्त्रं यस्मादाप्तात्सम्भवति स ततः शास्त्रादधिकार्थज्ञान इति प्रसिद्धम् , यथा शब्दसाधुत्वादिर्ज्ञेयैकदेशोऽर्थो यस्य तदपि व्याकरणादि पाणिन्यादेरधिकार्थज्ञात्सम्भवति । यद्यल्पार्थमपि शास्त्रमधिकार्थज्ञात्सम्भवति तदा ‘अस्य महतः’ इत्यादिश्रुतेर्यस्मान्महतोऽपरिच्छिन्नाद्भूतात्सत्याद्योनेः सकाशात् अनेकशाखेत्यादिविशिष्टस्य वेदस्य पुरुषनिःश्वासवदप्रयत्नेनैव सम्भवः तस्य सर्वज्ञत्वं सर्वशक्तिमत्वं चेति किमु वक्तव्यमिति । तत्र वेदस्य पौरुषेयत्वशङ्कानिरसार्थं श्रुतिस्थनिःश्वसितपदार्थमाह – अप्रयत्नेनेति । प्रमाणान्तरेणार्थज्ञानप्रयासं विना निमेषादिन्यायेनेत्यर्थः । अत्रानुमानेन ‘यः सर्वज्ञः’ इति श्रुत्युक्तसर्वज्ञत्वदार्ढ्याय पाणिन्यादिवद्वेदकर्तरि अधिकार्थज्ञानसत्तामात्रं साध्यते न त्वर्थज्ञानस्य वेदहेतुत्वं निःश्वसितश्रुतिविरोधात् , वेदज्ञानमात्रेणाध्येतृवद्वेदकर्तृत्वोपपत्तेश्च । इयान् विशेषः – अध्येता परापेक्षः, ईश्वरस्तु स्वकृतवेदानुपूर्वीं स्वयमेव स्मृत्वा तथैव कल्पादौ ब्रह्मादिष्वाविर्भावयन् अनावृतज्ञानत्वात्तदर्थमत्यवर्जनीयतया जानातीति सर्वज्ञ इत्यनवद्यम् ॥

Brahma Sutram

तत्तु समन्वयात्

अथातो ब्रह्मजिज्ञासा 

जन्माद्यस्य यतः 

शास्त्रयोनित्वात्

%d bloggers like this: