Gitabhashya of Bhagavad Ramanuja
यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः ।
वस्तुताम् उपयातो ऽहं यामुनेयं नमामि तम् ॥
श्रियः पतिः, निखिलहेयप्रत्यनीककल्याणैकतानः, स्वेतरसमस्तवस्तुविलक्षणानन्तज्ञनानन्दैकस्वरूपः, स्वाभाविकानवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजःप्रभृत्यसंख्येयकल्याणगुणगणमहोदधिः, स्वाभिमतानुरूपैकरूपाचिन्त्य दिव्याद्भुतनित्यनिरवद्यनिरतिशयौज्ज्वल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्य यौवनाद्यनन्तगुणनिधिदिव्यरूपः, स्वोचितविविधविचित्रानन्ताश्चर्यनित्यनिरवद्यापरिमितदिव्यभूषणः, स्वानुरूपासंख्येयाचिन्त्यशक्तिनित्यनिरवद्यनिरतिशयकल्याणदिव्यायुधः, स्वाभिमतानुरूपनित्यनिरवद्यस्वरूपरूपगुणविभवैश्वर्यशीलाद्यनवधिकातिशयासंख्येयकल्याणगुणगणश्रीवल्लभः, स्वसङ्कल्पानुविधायिस्वरूपस्थितिप्रवृत्तिभेदाशेषसेषतैकरतिरूप नित्यनिरवद्यनिरतिशयज्ञानक्रियाइश्वर्याद्यनन्तगुणगणापरिमितसूरिभिरनवरताभिष्टुतचरणयुगलः, वाङ्मनसापरिच्छेद्यस्वरूपस्वभावः स्वोचितविविधविचित्रानन्तभोग्यभोगोपकरणभोगस्थानसमृद्धानन्ताश्चर्यानन्त महाविभवानन्तपरिमाणनित्यनिरवद्याक्षरपरमव्योमनिलयः, विविधविचित्रानन्तभोग्यभोक्तृवर्गपरिपूर्णनिखिलजगदुदयविभवलयलीलः, परं ब्रह्म पुरुषोत्तमो नारायणः, ब्रह्मादिस्थावरान्तम् अखिलं जगत्सृष्ट्वा ,स्वेन रूपेणावस्थितो ब्रह्मादिदेवमनुष्याणां ध्यानाराधनाद्यगोचरः, अपारकारुण्यसौशील्यवात्सल्यौदार्यमहोदधिः, स्वमेव रूपं तत्तत्सजातीयसंस्थानं स्वस्वभावम् अजहदेव कुर्वन् तेषु तेषु लोकेष्ववतीर्यावतीर्य तैस्तैराराधितस्तत्तदिष्टानुरूपं धर्मार्थकाममोक्षाख्यं फलं प्रयच्छन्, भूभारावतारणापदेशेनास्मदादीनाम् अपि समाश्रयणीयत्वायावतीर्य-उर्व्यां सकलमनुजनयनविषयतां गतः, परावरनिखिलजनमनोनयनहारिदिव्यचेष्टितानि कुर्वन्, पूतनाशकटयमलार्जुनारिष्टप्रलम्बधेनुककालियकेशिकुवलयापीडचाणूरमुष्टिकतोसलकंसादीन्निहत्य अनवधिकदयासौहार्दानुरागगर्भावलोकनालापामृतैर्विश्वम् आप्याययन्, निरतिशयसौन्दर्यसौशील्यादिगुणगणाविष्कारेणाक्रूरमालाकारादीन् परमभागवतान् कृत्वा, पाण्डुतनययुद्धप्रोत्साहनव्याजेन परमपुरुषार्थलक्षणमोक्षसाधनतया वेदान्तोदितं स्वविषयं ज्ञानकर्मानुगृहीतं भक्तियोगम् अवतारयाम् आस । तत्र पाण्डवानां कुरूणां च युद्धे प्रारब्धे स भगवान् पुरुषोत्तमः सर्वेश्वरेश्वरो जगदुपकृतिमर्त्यः आश्रितवात्सल्यविवशः पार्थं रथिनम् आत्मानं च सारथिं सर्वलोकसाक्षिकं चकार ।
एवं ज्ञात्वा ऽपि सर्वात्मना ऽन्धो धृतराष्ट्रः सुयोधनविजयबुभुत्सया सञ्जयं पप्रच्छ ।
1.
धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किम् अकुर्वत सञ्जय ॥१,१॥
सञ्जय उवाच
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत् ॥१,२॥
पश्यैतां पाण्डुपुत्राणाम् आचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥१,३॥
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥१,४॥
धृष्टकेतुश्चेकितानः काशीराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥१,५॥
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥१,६॥
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥१,७॥
भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथा-एव च ॥१,८॥
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणास्सर्वे युद्धविशारदाः ॥१,९॥
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१,१०॥
अयनेषु च सर्वेषु यथाभागम् अवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥१,११॥
दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम्, आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य, आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तर्विषण्णो ऽभवत् ॥
तस्य संजनयन् हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्य-उच्चैः शङ्खं दध्मौ प्रतापवान् ॥१,१२॥
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसा-एवाभ्यहन्यन्त स शब्दस्तुमुलो ऽभवत् ॥१,१३॥
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥१,१४॥
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥१,१५॥
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥१,१६॥
काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥१,१७॥
द्रुपदो द्रौपदेयाश्च सर्वतः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक् ॥१,१८॥
तस्य विषादम् आलक्ष्य भीष्मस्तस्य हर्षं जनयितुं सिंहनादं शङ्खध्मानं च कृत्वा, शङ्खभेरीनिनादैश्च विजयाभिशंसिनं घोषं चाकारयत् ॥ ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयस्त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलो ऽप्यनुनादयन् ॥१,१९॥
अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥१,२०॥
हृषीकेशं तदा वाक्यम् इदं आह महीपते ।
अर्जुन उवाच सेनयोरुभयोर्मध्ये रथं स्थापय मे ऽच्युत ॥
त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः ॥
ततो युधिष्ठिरो वृकोदरादयश्च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः । स घोषो दुर्योधनप्रमुखानां सर्वेषामेव भवत्पुत्राणां हृदयानि बिभेद । “अद्यैव नष्टं कुरूणां बलम” इति धार्तराष्ट्रा मेनिरे । एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय सञ्जयो ऽकथयत् ॥
अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो
यावदेतान्निरीक्षे ऽहं योद्धुकामान् अवस्थितान् ।
कैर्मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे ॥
योत्स्यमानान् अवेक्षे ऽहं य एते ऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥१,२३॥
सञ्जय उवाच
एवम् उक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥१,२४॥
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान् समवेतान् कुरून् इति ॥१,२५॥
तत्रापश्यत्स्थितान् पार्थः पित्ह्न् अथ पितामहान् ।
ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसङ्कल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तरबाह्यकरणानां सर्वप्रकारनियमने ऽवस्थितम् आश्रितवात्सल्यविवशतया स्वसारथ्ये ऽवस्थितम्, “युयुत्सून् यथावदवेक्षितुं तदीक्षनक्षमे स्थाने रथं स्थापय” इत्यचोदयत् ॥
आचार्यान् मातुलान् भ्रात्ह्न् पुत्रान् पौत्रान् सखींस्तथा ॥१,२६॥
श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ।
तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान् ॥१,२७॥
कृपया परया $ऽविष्टो विषीदन्निदम् अब्रवीत् ।
अर्जुन उवाच
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥१,२८॥
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥१,२९॥
गाण्डीवं स्रंसते हस्तात्त्वक् चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमति-इव च मे मनः ॥१,३०॥
निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयो ऽनुपश्यामि हत्वा स्वजनं आहवे ॥१,३१॥
न काङ्क्षे विजयं Kऋष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥१,३२॥
येषाम् अर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमे ऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥१,३३॥
आचार्याः पितरः पुत्रास्तथा-एव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः स्यालाः संबन्धिनस्तथा ॥१,३४॥
स च तेन चोदितस्तत्क्षणादेव भीष्मड्रोणादीनां सर्वेषामेव महीक्षितां पश्यतां यथाचोदितम् अकरोत् । ईदृशी भवदीयानां विजयस्थितिरिति चावोचत् ॥
स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको
एतान्न हन्तुम् इच्छामि घ्नतो ऽपि मधुसूधन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥१,३५॥
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज् जनार्दन ।
पापमेवाश्रयेदस्मान् हत्वा-एतान् आततायिनः ॥१,३६॥
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् सबान्धवान् ।
स्वजनं हि कथम् हत्वा सुखिनः स्याम माधव ॥१,३७॥
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥१,३८॥
कथं न ज्ञेयम् अस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्ञनार्दन ॥१,३९॥
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नम् अधर्मो ऽभिभवत्युत ॥१,४०॥
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥१,४१॥
सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥१,४२॥
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥१,४३॥
उत्सन्नकुलधर्माणां मनुष्याणां ञनार्दन ।
नरके नियतं वासो भवति-इत्यनुशुश्रुम ॥१,४४॥
अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
यत्राज्यसुखलाभेन हन्तुं स्वजनम् उद्यताः ॥१,४५॥
यदि माम् अप्रतीकारम् अशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युस्तन् मे क्षेमतरं भवेत् ॥१,४६॥
सञ्जय उवाच
एवम् उक्त्वा ऽर्जुनः संख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥१,४७॥
भवद्भिरतिघोरैर्मारणैः जतुगृहदाहादिभिरसकृद्वञ्चितो ऽपि परमपुरुषसहायेनात्मना हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परया कृपया धर्मभयेन चातिमात्रसन्नसर्वगात्रः सर्वथा ऽहं न योत्स्यामि-इत्युक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थ उपाविशत् ॥
2
सञ्जय उवाच
तं तथा कृपया $ऽविष्टम् अश्रुपूर्णाकुलेक्षणम् ।
विषीदन्तम् इदं वाक्यम् उवाच मधुसूदनः ॥२,१॥
श्रीभगवान् उवाच
कुतस्त्वा कश्मलम् इदं विषमे समुपस्थितम् ।
अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् अर्जुन ॥२,२॥
मा क्लैब्यं गच्छ कौन्तेय नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वा-उत्तिष्ठ परन्तप ॥२,३॥
एवम् उपविष्टे पार्थे कुतो ऽयम् अस्थाने समुपस्थितः शोक इत्याक्षिप्य तम् इमं विषमस्थं शोकम् अविद्वत्सेवितं परलोकविरोधिनम् अकीर्तिकरम् अतिक्षुद्रं हृदयदौर्बल्यकृतं परित्यज्य युद्धाय-उत्तिष्ठ-इति श्रीभगवान् उवाच ॥
अर्जुन उवाच
कथं भीष्मं अहं संख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥२,४॥
गुरून् अहत्वा हि महानुभावान् श्रेयश्चर्तुं भैक्षम् अपि-इह लोके ।
हत्वा ऽर्थकामांस्तु गुरून् इहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥२,५॥
पुनरपि पार्थः स्नेहकारुण्यधर्माधर्मभयाकुलो भगवदुक्तं हिततमम् अजानन्निदम् उवाच भीष्मद्रोणादिकान् गुरून् बहुमन्तव्यान् कथं अहं हनिष्यामि? कथंतरां भोगेष्वतिमात्रसक्तान् तान् हत्वा तैर्भुज्यमानांस्तान् एव भोगान् तद्रुधिरेण-उपसिच्य तेष्वासनेषु-उपविश्य भुञ्जीय? ॥२,४,५॥
न चैतत्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः ।
यान् एव हत्वा न जिजीविषामस्ते ऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥२,६॥
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वा धर्मसंमूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन् मे शिष्यस्ते ऽहं शाधि मां त्वां प्रपन्नम् ॥२,७॥
न हि प्रपश्यामि ममापनुद्यात्यच्छोकम् उच्छोषणम् इन्द्रियाणाम् ।
अवाप्य भूमावसपत्नम् ऋद्धं राज्यं सुराणाम् अपि चाधिपत्यम् ॥२,८॥
एवं युद्धम् आरभ्य निवृत्तव्यापारान् भवतो धार्तराष्ट्राः प्रसह्य हन्युरिति चेत्, अस्तु । तद्वधलब्धविजयादधर्म्यातस्माकं धर्माधर्मावजानद्भिः तैर्हननमेव गरीय इति मे प्रतिभाति-इत्युक्त्वा, यन् मह्यं श्रेय इति निश्चितम्, तत्शरणागताय तव शिष्याय मे ब्रूहि-इत्यतिमात्रकृपणो भगवत्पादावुपससाद ॥२,६८॥
सञ्जय उवाच
एवम् उक्त्वा हृशीकेशं गुडाकेशः परन्तपः ।
न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीं बभूव ह ॥२,९॥
“एवम् अस्थाने समुपस्थितस्नेहकारुण्याभ्याम् अप्रकृतिं गतम्, क्षत्रियाणां युद्धं परमधर्मम् अप्यधर्मं मन्वानं धर्मबुभुत्सया च शरणागतं पार्थम् उद्दिश्य, आत्मयाथात्म्यज्ञानेन युद्धस्य फलाभिसन्धिरहितस्यात्मप्राप्त्युपायताज्ञानेन च विना अस्य मोहो न शाम्यति” इति मत्वा, भगवता परमपुरुषेण अध्यात्मशास्त्रावतरणं कृतम् । तदुक्तम् “अस्थानस्नेहकारुण्यधर्माधर्मधिया-आकुलम् । पार्थं प्रपन्नम् उद्दिश्य शास्त्रावतरणं कृतम” ॥ इति ॥२,९॥
तम् उवाच हृशीकेशः प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये सीदमानम् इदं वचः ॥२,१०॥
एवं देहात्मनोर्याथात्म्याज्ञाननिमित्तशोकाविष्टम्, देहातिरिक्तात्मज्ञाननिमित्तं च धर्मं भाषमाणम्, परस्परविरुद्धगुणान्वितम्, उभयोस्सेनयोर्युद्धाय-उद्युक्तयोर्मध्ये अकस्मान्निरुद्योगं पार्थम् आलोक्य परमपुरुषः प्रहसन्निव-इदम् उवाच परिहासवाक्यं वदन्निव आत्मपरमात्मयाथात्म्यतत्प्राप्त्युपायभूतकर्मयोगज्ञानयोगभक्तियोगगोचरं “न त्वेवाहं जातु नासम” इत्यारभ्य “अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः” इत्येतदन्तं वचनम् उवाच-इत्यर्थः ॥२,१०॥
श्रीभगवान् उवाच
अशोच्यान् अन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासून् अगतासूंश्च नानुशोचन्ति पण्डिताः ॥२,११॥
अशोच्यान् प्रति अनुशोचसि । “पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः” इत्यादिकान् देहात्मस्वभावप्रज्ञानिमित्तवादांश्च भाषसे । देहात्मस्वभावज्ञानवतां नात्र किंचिच्छोकनिमित्तम् अस्ति । गतासून् देहान् अगतासून्; आत्मनश्च प्रति तत्स्वभावयाथात्म्यविदो न शोचन्ति । अतस्त्वयि विप्रतिषिद्धम् इदम् उपलभ्यते, यतेतान् हनिष्यामि-इत्यनुशोचनम्, यच्च देहातिरिक्तात्मज्ञानकृतं धर्माधर्मभाषणम् । अतो देहस्वभावं च न जानासि, तदतिरिक्तम् आत्मानं च नित्यम्, तत्प्राप्त्युपायभूतं युद्धादिकं धर्मं च । इदं च युद्धं फलाभिसन्धिरहितम् आत्मयाथात्म्यावाप्त्युपायभूतम् । आत्मा हि न जन्माधीनसद्भावः; न मरणाधीनविनाशश्च, तस्य जन्ममरणयोरभावात् । अतः स न शोकस्थानम् । देहस्त्वचेतनः परिणामस्वभावः; तस्य-उत्पत्तिविनाशयोगः स्वाभाविक इति सो ऽपि न शोकस्थानम् इत्यभिप्रायः ॥२,११॥
प्रथमं तावदात्मनां स्वभावं शृणु
न त्वेवाहं जातु नासं न त्वं न-इमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयम् अतः परम् ॥२,१२॥
अहं सर्वेश्वरस्तावत्, अतः वर्तमानात्पूर्वस्मिन् अनादौ काले, न नासम् अपि त्वासम् । त्वन्मुखाश्चैते ईशितव्याः क्षेत्रज्ञाः न नासम्; अपि त्वासन् । अहं च यूयं च सर्वे वयम्, अतः परस्मिन् अनन्ते काले, न चैव न भविष्यामः; अपि तु भविष्याम एव । यथा-अहं सर्वेश्वरः परमात्मा नित्य इति नात्र संशयः, तथा-एव भवन्तः क्षेत्रज्ञा आत्मानो ऽपि नित्या एव-इति मन्तव्याः ॥२,१२॥
एवं भगवतः सर्वेश्वरातात्मनाम्, परस्परं च, भेदः पारमार्थिक इति भगवता-एव-उक्तम् इति प्रतीयते; अज्ञानमोहितं प्रति तन्निवृत्तये पार्मार्थिकनित्यत्वोपदेशसमये अहम्, त्वम्, इमे, सर्वे, वयम् इति व्यपदेशात् । औपचारिकात्मभेदवादे हि आत्मभेदस्यातात्त्विकत्वेन तत्त्वोपदेशसमये भेदनिर्देशो न संगच्छते । भगवदुक्तात्मभेदः स्वाभाविक इति श्रुतिरप्याह, “नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान” इति । नित्यानां बहूनां चेतनानां य एको नित्यश्चेतनस्सन् कामान् विदधाति-इत्यर्थः । अज्ञानकृतभेददृष्टिवादे तु परमपुरुषस्य परमार्थदृष्तेर्निर्विशेषकूटस्थनित्यचैतन्यात्मयाथात्म्यसाक्षात्कारान्निवृत्ताज्ञानतत्कार्यतया अज्ञानकृतभेददर्शनं तन्मूलोपदेशादिव्यवहाराश्च न संगच्छन्ते । अथ परमपुरुषस्याधिगताद्वैतज्ञानस्य बाधितानुवृत्तिरूपम् इदं भेदज्ञानं दग्धपटादिवन्न बन्धकम् इत्युच्यते नैतदुपपद्यते; मरीचिकाजलज्ञानादिकं हि बाधितम् अनुवर्तमानं न जलाहरणादिप्रवृत्तिहेतुः । एवम् अत्राप्यद्वैतज्ञानेन बाधितं भेदज्ञानम् अनुवर्तमानम् अपि मिथ्यार्थविषयत्वनिश्चयान्न-उपदेशादिप्रवृत्तिहेतुर्भवति । न च-ईश्वरस्य पूर्वम् अज्ञस्य शास्त्राधिगततत्त्वज्ञानतया बाधितानुवृत्तिः शक्यते वक्तुम्; “यः सर्वज्ञः सर्ववित”, “परा-अस्य शक्तिर्विविधा-एव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च”, “वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन” इति श्रुतिस्मृतिविरोधात् । किं च परमपुरुषश्च इदानींतनगुरुपरम्परा च, अद्वितीयात्मस्वरूपनिश्चये सति अनुवर्तमाने ऽपि भेदज्ञाने, स्वनिश्चयानुरूपम् अद्वितीयात्मज्ञानं कस्मा उपदिशति-इति वक्तव्यम् ॥ प्रतिबिम्बवत्प्रतीयमानेभ्यो ऽर्जुनादिभ्य इति चेत् नैतदुपपद्यते; न ह्यनुन्मत्तः को ऽपि मणिकृपाणदर्पणादिषु प्रतीयमानेषु स्वात्मप्रतिबिम्बेषु, तेषां स्वात्मनो ऽनन्यत्वं जानन्, तेभ्यः किम् अप्युपदिशति । बाधितानुवृत्तिरपि तैर्न शक्यते वक्तुम्; बाधकेनाद्वितीयात्मज्ञानेनात्मव्यतिरिक्तभेदज्ञानकारणस्यानादेर्विनष्टत्वात् । द्विचन्द्रज्ञानादौ तु चन्द्रैकत्वज्ञानेन पारमार्थिकतिमिरादिदोषस्य द्विचन्द्रज्ञानहेतोरविनष्टत्वात्बाधितानुवृत्तिर्युक्ता; अनुवर्तमानम् अपि प्रबलप्रमाणबाधितत्वेनाकिंचित्करम् । इह तु भेदज्ञानस्य सविषयस्य सकारणस्यापारमार्थिकत्वेन वस्तुयाथात्म्यज्ञानविनष्टत्वान्न कथञ्चिदपि बाधितानुवृत्तिः संभवति । अतः सर्वेश्वरस्य-इदानींतनगुरुपरम्परायाश्च तत्त्वज्ञानम् अस्ति चेत्, भेददर्शनतत्कार्योपदेशाद्यसंभवः । नास्ति चेत्, अज्ञानस्य तद्धेतोः स्थितत्वेनाज्ञत्वादेव सुतराम् उपदेशो न संभवति ॥ किं च गुरोरद्वितीयात्मविज्ञानादेव ब्रह्माज्ञानस्य सकार्यस्य विनष्टत्वात्शिष्यं प्रत्युपदेशो निष्प्रयोजनः । गुरुस्तज्ज्ञानं च कल्पितम् इति चेत्, शिष्यतज्ज्ञानयोरपि कल्पितत्वात्तदप्यनिवर्तकम् । कल्पितत्वे ऽपि पूर्वविरोधित्वेन निवर्तकम् इति चेत्, तताचार्यज्ञाने ऽपि समानम् इति तदेव निवर्तकं भवति-इत्युपदेशानर्थक्यमेव इति कृतम् असमीचीनवादैः ॥२,१२॥
देहिनो ऽस्मिन् यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥२,१३॥
एकस्मिन् देहे वर्तमानस्य देहिनः कौमारावस्थां विहाय यौवनाद्यवस्थाप्राप्तौ आत्मनः स्थिरत्वबुद्ध्या यथा आत्मा नष्ट इति न शोचति, देहाद्देहान्तरप्राप्तावपि तथा-एव स्थिर आत्मेति बुद्धिमान्न शोचति । अत आत्मनां नित्यत्वादात्मनो न शोकस्थानम् ॥२,१३॥
एतावदत्र कर्तव्यम् आत्मनां नित्यानामेवानादिकर्मवश्यतया तत्तत्कर्मोचितदेहसंसृष्टानां तैरेव देहैर्बन्धनिवृत्तये शास्त्रीयं स्ववर्णोचितं युद्धादिकम् अनभिसंहितफलं कर्म कुर्वताम् अवर्जनीयतया इन्द्रियैरिन्द्रियार्थस्पर्शाः शीतोष्णादिप्रयुक्तसुखदुःखदा भवन्ति, ते तु यावच्छास्त्रीयकर्मसमाप्ति क्षन्तव्या इति । इमम् अर्थम् अनन्तरमेवाह
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।
आगमापायिनो ऽनित्यास्तांस्तितिक्षस्व भारत ॥२,१४॥
शब्दस्पर्शरूपरसगन्धाः साश्रयाः तन्मात्राकार्यत्वान् मात्रा इत्युच्यन्ते । श्रोत्रादिभिस्तेषां स्पर्शाः शीतोष्णमृदुपरुषादिरूपसुखदुःखदाः भवन्ति । शीतोष्णशब्दः प्रदर्शनार्थः । तान् धैर्येण यावद्युद्धादिशास्त्रीयकर्मसमाप्ति तितिक्षस्व । ते चागमापायित्वात्धैर्यवतां क्षन्तुं योग्याः । अनित्याश्च ते । बन्धहेतुभूतकर्मनाशे सति आगमापायित्वेनापि न वर्तन्ते इत्यर्थः ॥२,१४॥
तत्क्षमा किमर्थेत्यत्राह
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीरं सो ऽमृतत्वाय कल्पते ॥२,१५॥
यं पुरुषं धैर्ययुक्तम् अवर्जनीयदुःखं सुखवन् मन्यमानम्, अमृतत्वसाधनतया स्ववर्णोचितं युद्धादिकर्म अनभिसंहितफलं कुर्वाणं तदन्तर्गताः शस्त्रपातादिमृदुक्रूरस्पर्शाः न व्यथयन्ति; स एवामृतत्वं साधयति । न त्वादृशो दुःखासहिष्णुरित्यर्थः । आत्मनां नित्यत्वादेतावदत्र कर्तव्यम् इत्यर्थः ॥२,१५॥
यत्तु आत्मनां नित्यत्वं देहानां स्वाभाविकं नाशित्वं च शोकानिमित्तम् उक्तम्, “गतासून् अगतासूंश्च नानुशोचन्ति पण्डिताः” इति, तदुपपादयितुम् आरभते
नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टो ऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥२,१६॥
असतः देहस्य सद्भावो न विद्यते । सतश्चात्मनो नासद्भावः । उभयोः देहात्मनोरुपलभ्यमानयोर्यथोपलब्धि तत्त्वदर्शिभिरन्तो दृष्टः निर्णयान्तत्वान्निरूपणस्य निर्णय इह अन्तशब्देन-उच्यते । देहस्याचिद्वस्तुनो ऽसत्त्वमेव स्वरूपम्; आत्मनश्चेतनस्य सत्त्वमेव स्वरूपम् इति निर्णयो दृष्ट इत्यर्थः । विनाशस्वभावो ह्यसत्त्वम् । अविनाशस्वभावश्च सत्त्वम् । यथा उक्तं भगवता पराशरेण, “तस्मान्न विज्ञानम् ऋते ऽस्ति किंचित्क्वचित्कदाचित्द्विज वस्तुजातम”, “सद्भाव एवं भवतो मया-उक्तो ज्ञानं यथा सत्यम् असत्यम् अन्यत”, “अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते । तत्तु नाशि न संदेहो नाशिद्रव्योपपादितम”, “यत्तु कालान्तरेणापि नान्यसंज्ञाम् उपैति वै । परिणामादिसंभूतां तद्वस्तु नृप तच्च किम” इति । अत्रापि “अन्तवन्त इमे देहाः”, “अविनाशि तु तद्विद्धि” इति ह्युच्यते । तदेव सत्त्वासत्त्वव्यपदेशहेतुरिति गम्यते ॥
अत्र तु सत्कार्यवादस्याप्रस्तुतत्वान्न तत्परो ऽयं श्लोकः; देहात्मस्वभावाज्ञानमोहितस्य तन्मोहशान्तये ह्युभयोर्नाशित्वानाशित्वरूपस्वभावविवेक एव वक्तव्यः । स एव “गतासून् अगतासून” इति च प्रस्तुतः । स एव च, “अविनाशि तु तद्विद्धि”, “अन्तवन्त इमे देहाः” इति अनन्तरम् उपपाद्यते । अतो यथा उक्त एवार्थः ॥२,१६॥
आत्मनस्त्वविनाशित्वं कथम् अवगम्यत इत्यत्राह
अविनाशि तु तद्विद्धि येन सर्वम् इदं ततम् ।
विनाशम् अव्ययस्यास्य न कश्चित्कर्तुम् अर्हति ॥२,१७॥
ततात्मतत्त्वम् अविनाशि-इति विद्धि, येन आत्मतत्त्वेन चेतनेन तद्व्यतिरिक्तम् इदम् अचेतनतत्त्वं सर्वं ततं व्याप्तम् । व्यापकत्वेन निरतिशयसूक्ष्मत्वादात्मनो विनाशानर्हस्य तद्व्यतिरिक्तो न कश्चित्पदार्थो विनाशं कर्तुम् अर्हति, तद्व्याप्यतया तस्मात्स्थूलत्वात् । नाशकं हि शस्त्रजलाग्निवाय्वादिकं नाश्यं व्याप्य शिथिलीकरोति । मुद्रादयो ऽपि हि वेगवत्संयोगेन वायुम् उत्पाद्य तद्द्वारेण नाशयन्ति । अत आत्मतत्त्वम् अविनाशि ॥२,१७॥
देहानां तु विनाशित्वमेव स्वभाव इत्याह
अन्तवन्त इमे देहा नित्यस्य-उक्ताः शरीरिणः ।
अनाशिनो ऽप्रमेयस्य तस्मात्युध्यस्व भारत ॥२,१८॥
“दिह उपचये” इत्युपचयरूपा इमे देहा अन्तवन्तः विनाशस्वभावाः । उपचयात्मका हि घटादयो ऽन्तवन्तो दृष्टाः । नित्यस्य शरीरिणः कर्मफलभोगार्थतया भूतसंघातरूपा देहाः, “पुण्यः पुण्येन” इत्यादिशास्त्रैरुक्ताः कर्मावसानविनाशिनः । आत्मा त्वविनाशी; कुतः ? अप्रमेयत्वात् । न ह्यात्मा प्रमेयतया-उपलभ्यते, अपि तु प्रमातृतया । तथा च वक्ष्यते, “एतत्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः” इति । न चानेकोपचयात्मक आत्म-उपलभयते, सर्वत्र देहे “अहम् इदं जानामि” इति देहस्य चान्यस्य च प्रमातृतया-एकरूपेण-उपलब्धेः । न च देहादेरिव प्रदेशभेदे प्रमातुराकारभेद उपलभ्यते । अत एकरूपत्वेन अनुपचयात्मकत्वात्प्रमातृत्वात्व्यापकत्वाच्च आत्मा नित्यः । देहस्तु उपचयात्मकत्वात्, शरीरिणः कर्मफलभोगार्थत्वात्, अनेकरूपत्वात्, व्याप्यत्वाच्च विनाशी । तस्मात्देहस्य विनाशस्वभावत्वातात्मनो नित्यत्वाच्च उभयावपि न शोकस्थानम् इति, शस्त्रपातादिपुरुषस्पर्शान् अवर्जनीयान् स्वगतान् अन्यगतांश्च घैर्येण सोढ्वा अमृतत्वप्राप्तये अनभिसंहितफलं युद्धाख्यं कर्मारभस्व ॥२,१८॥
य एनं वेत्ति हन्तारं यश्चैनन् मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥२,१९॥
एनम् उक्तस्वभावम् आत्मानं प्रति, हन्तारं हननहेतुं कम् अपि यो मन्यते; यश्चैनं केनापि हेतुना हतं मन्यते; तावुभौ न विजानीतः, उक्तैर्हेतुभिरस्य नित्यत्वादेव एनम् अयं न हन्ति अस्यायं हननहेतुर्न भवति । अत एव चायम् आत्मा न हन्यते । हन्तिधातुरप्यात्मकर्मकः शरीरवियोगकरणवाची । “न हिंस्यात्सर्वा भूतानि”, “ब्राह्मणो न हन्तव्यः” इत्यादीन्यपि शास्त्राणि अविहितशरीरवियोगकरणविषयाणि ॥२,१९॥
न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतो ऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥२,२०॥
उक्तैरेव हेतुभिर्नित्यत्वेनापरिणामित्वादात्मनो जननमरणादयः सर्व एवाचेतनदेहधर्मा न सन्ति-इत्युच्यते । तत्र जायते, म्रियते इति वर्तमानतया सर्वेषु देहेषु सर्वैरनुभूयमाने जननमरणे कदाचिदप्यात्मानं न स्पृशतः । नायं भूत्वा भविता वा न भूयः अयं कल्पादौ भूत्वा भूयः कल्पान्ते च न न भविता; केषुचित्प्रजापतिप्रभृतिदेहेष्वागमेन-उपलभ्यमानं कल्पादौ जननं कल्पान्ते च मरणम् आत्मानं न स्पृशति-इत्यर्थः । अतः सर्वदेहगत आत्मा अजः, अत एव नित्यः । शाश्वतः प्रकृतिवदविशदसततपरिणामैरपि नान्वीयते, पुराणः पुरा ऽपि नवः; सर्वदा अपूर्ववदनुभाव्य इत्यर्थः । अतः शरीरे हन्यमाने न हन्यते ऽयम् आत्मा ॥२,२०॥
वेदाविनाशिनं नित्यं य एनम् अजम् अव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥२,२१॥
एवम् अविनाशित्वेनाजत्वेन व्ययानर्हत्वेन च नित्यमेनम् आत्मानं यः पुरुषो वेद, स पुरुषो देवमनुष्यतिर्यक्स्थावरशरीरावस्थितेष्वात्मसु कम् अप्यात्मानं कथं घातयति ? कं वा कथं हन्ति । कथं नाशयति; कथं वा तत्प्रयोजको भवति-इत्यर्थः । एतान् आत्मनो घातयामि हन्मि-इत्यनुशोचनम् आत्मस्वरूपयाथात्म्याज्ञानमूलमेव-इत्यभिप्रायः ॥२,२१॥
यद्यपि नित्यानाम् आत्मनां शरीरविश्लेषमात्रं क्रियते तथा ऽपि रमणीयभोगसाधनेषु शरीरेषु नश्यत्सु तद्वियोगरूपं शोकनिमित्तम् अस्त्येव-इत्यत्राह
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरो ऽपराणि ।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥२,२२॥
धर्मयुद्धे शरीरं त्यजतां त्यक्तशरीरादधिकतरकल्याणशरीरग्रहणं शास्त्रादवगम्यत इति जीर्णानि वासांसि विहाय नवानि कल्याणानि वासांसि गृह्णताम् इव हर्षनिमित्तमेवात्र-उपलभ्यते ॥२,२२॥
पुनरपि “अविनाशि तु तद्विद्धि येन सर्वम् इदं ततम” इति पूर्वोक्तम् अविनाशित्वं सुखग्रहणाय व्यञ्जयन् द्रढयति
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥२,२३॥
अच्छेद्यो ऽयम् अदाह्यो ऽयम् अक्लेद्यो ऽशोष्य एव च ।
नित्यस्सर्वगतः स्थाणुरचलो ऽयं सनातनः ॥२,२४॥
शस्त्राग्न्यम्बुवायवः छेदनदहनक्लेदनशोषणानि आत्मानं प्रति कर्तुं न शक्नुवन्ति, सर्वगतत्वादात्मनः सर्वतत्त्वव्यापनस्वभावतया सर्वेभ्यस्तत्त्वेभ्यस्सूक्ष्मत्वादस्य तैर्व्याप्त्यनर्हत्वात्; व्याप्यकर्तव्यत्वाच्च छेदनदहनक्लेदनशोषणानां । अत आत्मा नित्यः स्थाणुरचलो ऽयं सनातनः स्थिरस्वभावो ऽप्रकम्प्यः पुरातनश्च ॥२,२३,२४॥
अव्यक्तो ऽयम् अचिन्त्यो ऽयम् अविकार्यो ऽयम् उच्यते ।
तस्मादेवं विदित्वा-एनं नानुशोचितुम् अर्हसि ॥२,२५॥
छेदनादियोग्यानि वस्तूनि यैः प्रमाणैर्व्यज्यन्ते; तैरयम् आत्मा न व्यज्यत इत्यव्यक्तः; अतः छेद्यादिविसजातीयः । अचिन्त्यश्च सर्ववस्तुविजातीयत्वेन तत्तत्स्वभावयुक्ततया चिन्तयितुम् अपि नार्हः; अतश्चाविकार्यः विकारानर्हः । तस्मादुक्तलक्षणमेनम् आत्मानं विदित्वा तत्कृते नानुशोचितुम् अर्हसि ॥२,२५॥
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथा ऽपि त्वं महाबाहो! नैवं शोचितुम् अर्हसि ॥२,२६॥
अथ नित्यजातं नित्यमृतं देहमेवैनम् आत्मानं मनुषे, न देहातिरिक्तम् उक्तलक्षणम्; तथा ऽपि एवम् अतिमात्रं न शोचितुम् अर्हसि; परिणामस्वभावस्य देहस्य-उत्पत्तिविनाशयोरवर्जनीयत्वात् ॥२,२६॥
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्ये ऽर्थे न त्वं शोचितुम् अर्हसि ॥२,२७॥
उत्पन्नस्य विनाशो ध्रुवः अवर्जनीय उपलभ्यते; तथा विनष्टस्यापि जन्म अवर्जनीयम् । कथम् इदम् उपपद्यते विनष्टस्य-उत्पत्तिरिति; सत एव-उत्पत्त्युपलब्धेः, असतश्चानुपलब्धेः । उत्पत्तिविनाशादयः सतो द्रव्यस्यावस्थाविशेषाः । तन्तुप्रभृतीनि हि द्रव्याणि सन्त्येव रचनाविशेषयुक्तानि पटादीन्युच्यन्ते । असत्कार्यवादिना ऽप्येतावदेव-उपलभ्यते । न हि तत्र तन्तुसंस्थानविशेषातिरेकेण द्रव्यान्तरं प्रतीयते । कारकव्यापारनामान्तरभजनव्यवहारविशेषाणामेतावता-एव-उपपत्तेः न द्रव्यान्तरकल्पना युक्ता । अतो उत्पत्तिविनाशादयः सतो द्रव्यस्यावस्थाविशेषाः । उत्पत्त्याख्याम् अवस्थाम् उपयातस्य द्रव्यस्य तद्विरोध्यवस्थान्तरप्राप्तिर्विनाश इत्युच्यते । मृद्द्रव्यस्य पिण्डत्वघटत्वकपालत्वचूर्णत्वादिवत्परिणामिद्रव्यस्य परिणामपरम्परा अवर्जनीया । तत्र पूर्वावस्थस्य द्रव्यस्य-उत्तरावस्थाप्राप्तिर्विनाशः । सा-एव तदवस्थस्य च-उत्पत्तिः । एवम् उत्पत्तिविनाशाख्यपरिणामपरम्परा परिणामिनो द्रव्यस्यापरिहार्येति न तत्र शोचितुम् अर्हसि ॥२,२७॥
सतो द्रव्यस्य पूर्वावस्थाविरोध्यवस्थान्तरप्राप्तिदर्शनेन यो ऽल्पीयान् शोकः, सो ऽपि मनुष्यादिभूतेषु न संभवति-इत्याह
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥२,२८॥
मनुष्यादीनि भूतानि सन्त्येव द्रव्याणि अनुपलब्धपूर्वावस्थानि उपलब्धमनुष्यत्वादिमध्यमावस्थानि अनुपलब्धोत्तरावस्थानि स्वेषु स्वभावेषु वर्तन्त इति न तत्र परिदेवनानिमित्तम् अस्ति ॥२,२८॥
एवं शरीरात्मवादे ऽपि नास्ति शोकनिमित्तम् इत्युक्त्वा शरीरातिरिक्ते आश्चर्यस्वरूपे आत्मनि द्रष्टा वक्ता श्रवणायत्तात्मनिश्चयश्च दुर्लभ इत्याह
आश्चर्यवत्पश्यति कश्चिदेनम् आश्चर्यवत्वदति तथा-एव चान्यः ।
आश्चर्यवच्चैनम् अन्यः शृणोति श्रुत्वा ऽप्येनं वेद न चैव कश्चित् ॥२,२९॥
एवम् उक्तस्वभावं स्वेतरसमस्तवस्तुविसजातीयतया आश्चर्यवदस्थितम् अनन्तेषु जन्तुषु महता तपसा क्षीणपापः उपचितपुण्यः कश्चित्पश्यति । तथाविधः कश्चित्परस्मै वदति । एवं कश्चिदेव शृणोति । श्रुत्वा ऽप्येनं यथावदवस्थितं तत्त्वतो न कश्चित्वेद । चकारात्द्रष्टृवक्तृश्रोतृष्वपि तत्त्वतो दर्शनं तत्त्वतो वचनं तत्त्वतश्श्रवणं दुर्लभम् इत्युक्तं भवति ॥२,२९॥
देही नित्यम् अवध्यो ऽयं देहे सर्वस्य भारत ।
तस्मात्सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि ॥२,३०॥
सर्वस्य देवादिदेहिनो देहे वध्यमाने ऽप्ययं देही नित्यम् अवध्यो मन्तव्यः । तस्मात्सर्वाणि देवादिस्थावरान्तानि भूतानि विषमाकाराण्यप्युक्तेन स्वभावेन स्वरूपतस्समानानि नित्यानि च । देहगतं तु वैषम्यम् अनित्यत्वं च । ततो देवादीनि सर्वाणि भूतान्युद्दिश्य न शोचितुम् अर्हसि; न केवलं भीष्मादीन् प्रति ॥२,३०॥
स्वधर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयो ऽन्यत्क्षत्रियस्य न विद्यते ॥२,३१॥
अपि च-इदं प्रारब्धं युद्धं प्राणिमारणम् अपि अग्नीषोमीयादिवत्स्वधर्मम् अवेक्ष्य न विकम्पितुम् अर्हसि । धर्म्यात्न्यायतः प्रवृत्तात्युद्धादन्यन्न हि क्षत्रियस्य श्रेयो विद्यते । “शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानम् ईश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥” इति हि वक्ष्यते । अग्नीषोमीयादिषु च न हिंसा पशोः, निहीनतरच्छागादिदेहपरित्यागपूर्वककल्याणतरदेहस्वर्गादिप्रापकत्वश्रुतेः संज्ञपनस्य । “न वा उ एतन् म्रियसे न रिष्यसि देवां इदेषि पथिभिस्सुरेभिः । यत्र यन्ति सुकृतो नापि दुष्कृतः तत्र त्वा देवस्सविता दधातु” इति हि श्रूयते । इह च युद्धे मृतानां कल्याणतरदेहप्राप्तिरुक्ता, “वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति” इत्यादिना । अतः, चिकित्सकशल्यादिकर्म आतुरस्य-इव, अस्य रक्षणमेवाग्नीषोमीयादिषु संज्ञपनम् ॥२,३१॥
यदृच्छया च-उपपन्नं स्वर्गद्वारम् अपावृतम् ।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् ॥२,३२॥
अयत्नोपनतम् इदं निरतिशयसुखोपायभूतं निर्विघ्नम् ईदृशं युद्धं सुखिनः पुण्यवन्तः क्षत्रिया लभन्ते ॥२,३२॥
अथ चेत्त्वम् इमं धर्म्यं संग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि ॥२,३३॥
अथ क्षत्रियस्य स्वधर्मभूतम् इमम् आरब्धं संग्रामं मोहान्न करिष्यसि चेत् ततः प्रारब्धस्य धर्मस्याकरणात्स्वधर्मफलं निरतिशयसुखम्, विजयेन निरतिशयां च कीर्तिं हित्वा पापं निरतिशयम् अवाप्स्यसि ॥२,३३॥
अकीर्तिं चापि भूतानि कथयिष्यन्ति ते ऽव्ययाम् ।
संभावितस्य चाकीर्तिः मरणादतिरिच्यते ॥२,३४॥
न ते केवलं निरतिशयसुखकीर्तिहानिमात्रम् । “पार्थो युद्धे प्रारब्धे पलायितः” इति अव्ययां सर्वदेशकालव्यापिनीम् अकीर्तिं च समर्थानि असमर्थान्यपि सर्वाणि भूतानि कथयिष्यन्ति । ततः किम् इति चेत् शैर्यवीर्यपराक्रमादिभिस्सर्वसंभावितस्य तद्विपर्ययजा ह्यकीर्तिः मरणादतिरिच्यते । एवंविधाया अकीर्तेर्मरणमेव तव श्रेय इत्यर्थः ॥२,३४॥
बन्धुस्नेहात्कारुण्याच्च युद्धान्निवृत्तस्य शूरस्य ममाकीर्तिः कथम् आगमिष्यति-इत्यत्राह
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।
येषां च त्वं बहुमतो भूत्वा यास्यसि लौघवम् ॥२,३५॥
येषां कर्णदुर्योधनादीनां महारथानाम् इतः पूर्वं त्वं शूरो वैरी-इति बहुमतो भूत्वा, इदानीं युद्धे समुपस्थिते निवृत्तव्यापारतया लाघवं सुग्रहतां यास्यसि, ते महारथास्त्वां भयात्युद्धादुपरतं मंस्यन्ते । शूराणां हि वैरिणां शत्रुभयातृते बन्धुस्नेहादिना युद्धादुपरतिर्न-उपपद्यते ॥२,३५॥
किं च,
अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः ।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥२,३६॥
शूराणां अस्माकं सन्निधौ कथम् अयं पार्थः क्षणम् अपि स्थातुं शक्नुयात्, अस्मत्सन्निधानादन्यत्र ह्यस्य सामर्थ्यम् इति तव सामर्थ्यं निन्दन्तः शूराणाम् अवाच्यवादांश्च बहून् वदिष्यन्ति तव शत्रवो धार्तराष्ट्राः; ततो ऽधिकतरं दुःखं किं तव ? एवंविधावाच्यश्रवणान् मरणमेव श्रेय इति त्वमेव मंस्यसे ॥२,३६॥
अतः शूरस्य आत्मना परेषां हननम्, आत्मनो वा परैर्हननम् उभयम् अपि श्रेयसे भवति-इत्याह
हतो वा प्राप्स्यसे स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥२,३७॥
धर्मयुद्धे परैर्हतश्चेत्, तत एव परमनिःश्रेयसं प्राप्स्यसि; परान् वा हत्वा अकण्टकं राज्यं भोक्ष्यसे; अनभिसंहितफलस्य युद्धाख्यस्य धर्मस्य परमनिःश्रेयसोपायत्वात्तच्च परमनिःश्रेयसं प्राप्स्यसि; तस्मात्युद्धाय-उद्योगः परमपुरुषार्थलक्षणमोक्षसाधनम् इति निश्चित्य तदर्थम् उत्तिष्ठ । कुन्तीपुत्रस्य तवैतदेव युक्तम् इत्यभिप्रायः ॥२,३७॥
मुमुक्षोर्युद्धानुष्ठानप्रकारं आह
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापम् अवाप्स्यसि ॥२,३८॥
एवं देहातिरिक्तम् अस्पृष्टसमस्तदेहस्वभावं नित्यम् आत्मानं ज्ञात्वा युद्धे चावर्जनीयशस्त्रपातादिनिमित्तसुखदुःखार्थलाभालाभजयपराजयेष्वविकृतबुद्धिः स्वर्गादिफलाभिसन्धिरहितः केवलकार्यबुद्ध्या युद्धम् आरभस्व । एवं कुर्वाणो न पापम् अवाप्स्यसि पापं दुःखरूपं संसारं नावाप्स्यसि; संसारबन्धान् मोक्ष्यसे इत्यर्थः ॥२,३८॥
एवम् आत्मयाथात्म्यज्ञानम् उपदिश्य तत्पूर्वकं मोक्षसाधनभूतं कर्मयोगं वक्तुम् आरभते
एषा ते ऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु ।
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥२,३९॥
सङ्ख्या बुद्धिः; बुद्ध्या ऽवधारणीयम् आत्मतत्त्वं साङ्ख्यम् । ज्ञातव्ये आत्मतत्त्वे तज्ज्ञानाय या बुद्धिरभिधेया “न त्वेवाहम” इत्यारभ्य “तस्मात्सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि” इत्यन्तेन सा-एषा ते ऽभिहिता । आत्मज्ञानपूर्वकमोक्षसाधनभूतकर्मानुष्ठाने यो बुद्धियोगो वक्तव्यः, स इह योगशब्देन-उच्यते । “दूरेण ह्यवरं कर्म बुद्धियोगात” इति हि वक्ष्यते । तत्र योगे या बुद्धिर्वक्तव्या, ताम् इमाम् अभिधीयमानां शृणु, यया बुद्ध्या युक्तः कर्मबन्धं प्रहास्यसि । कर्मणा बन्धः कर्मबन्धः; संसारबन्ध इत्यर्थः ॥२,३९॥
वक्ष्यमाणबुद्धियुक्तस्य कर्मणो माहात्म्यं आह
न-इहाभिक्रमनाशो ऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पम् अप्यस्य धर्मस्य त्रायते महतो भयात् ॥२,४०॥
इह कर्मयोगे नाभिक्रमनाशो ऽस्ति । अभिक्रमः आरम्भः । नाशः फलसाधनभावनाशः । आरब्धस्यासमाप्तस्य विच्छिन्नस्यापि न निष्फलत्वम् ।आरब्धस्य विच्छेदे प्रत्यवायो ऽपि न विद्यते । अस्य कर्मयोगाख्यस्य धर्मस्य स्वल्पांशो ऽपि महतो भयात् संसारभयात्त्रायते । अयम् अर्थः; “पार्थ नैव-इह नामुत्र विनाशस्तस्य विद्यते” इति उत्तरत्र प्रपञ्चयिष्यते । अन्यानि हि लौकिकानि वैदिकानि च साधनानि विच्छिन्नानि न फलाय भवन्ति; प्रत्यवायाय च भवन्ति ॥२,४०॥
काम्यकर्मविषयाया बुद्धेर्मोक्षसाधनभूतकर्मविषयां बुद्धिं विशिनष्टि
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।
बहुशाखा ह्यनन्ताश्च बुद्धयो ऽव्यवसायिनाम् ॥२,४१॥
इह शास्त्रीये सर्वस्मिन् कर्मणि व्यवसायात्मिका बुद्धिरेका । मुमुक्षुणा ऽनुष्ठेये कर्मणि बुद्धिर्व्यवसायात्मिका बुद्धिः । व्यवसायः निश्चयः । सा हि बुद्धिरात्मयाथात्म्यनिश्चयपूर्विका । काम्यकर्मविषया तु बुद्धिरव्यवसायात्मिका । तत्र हि कामाधिकारे देहातिरिक्तात्मास्तित्वज्ञानमात्रम् अपेक्षितम्, नात्मस्वरूपयाथात्म्यनिश्चयः । स्वरूपयाथात्म्यानिश्चये ऽपि स्वर्गादिफलार्थित्वतत्साधनानुष्ठानतत्फलानुभवानां संभवात्, अविरोधाच्च । सेयं व्यवसायात्मिका बुद्धिः एकफलसाधनविषयतया-एका; एकस्मै मोक्षाख्यफलाय हि मुमुक्षोः सर्वाणि कर्माणि विधीयन्ते । अतः शास्त्रार्थस्यैकत्वात्सर्वकर्मविषया बुद्धिरेका-एव; यथा-एकफलसाधनतया आग्नेयादीनां षण्णां सेतिकर्तव्यताकानामेकशास्त्रार्थतया तद्विषया बुद्धिरेका, तद्वदित्यर्थः । अव्यवसायिनां तु स्वर्गपुत्रपश्वन्नादिफलसाधनकर्माधिकृतानां बुद्धयः फलानन्त्यादनन्ताः । तत्रापि बहुशाखाः; एकस्मै फलाय चोदिते ऽपि दर्शपूर्णमासादौ कर्मणि, “आयुराशास्ते” इत्याद्यवगतावान्तरफलभेदेन बहुशाखत्वं च विद्यते । अतः अव्यवसायिनां बुद्धयो ऽनन्ता बहुशाखाश्च । एतदुक्तं भवति नित्येषु नैमित्तिकेषु कर्मसु प्रधानफलानि अवान्तरफलानि च यानि श्रूयमाणानि, तानि सर्वाणि परित्यज्य मोक्षैकफलतया सर्वाणि कर्माण्येकशास्त्रार्थतया ऽनुष्ठेयानि; काम्यानि च स्ववर्णाश्रमोचितानि, तत्तत्फलानि परित्यज्य मोक्षसाधनतया नित्यनैमित्तिकैरेकीकृत्य यथाबलम् अनुष्ठेयानि इति ॥२,४१॥
अथ काम्यकर्माधिकृतान्निन्दति
याम् इमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
वेदवादरताः पार्थ नान्यदस्ति-इति वादिनः ॥२,४२॥
कामात्मानः स्वर्गपराः जन्मकर्मफलप्रदाम् ।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥२,४३॥
भोगैश्वर्यप्रसक्तानां तया ऽपहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥२,४४॥
याम् इमां पुष्पितां पुष्पमात्रफलाम्, आपातरमणीयां वाचम् अविपश्चितः अल्पज्ञाः भोगैश्वर्यगतिं प्रति वर्तमानां प्रवदन्ति, वेदवादरताः वेदेषु ये स्वर्गादिफलवादाः तेषु सक्ताः, नान्यदस्ति-इति वादिनः तत्सङ्गातिरेकेण स्वर्गादेरधिकं फलं नान्यदस्ति-इति वदन्तः, काम् आत्मानः काम् अप्रवणमनसः, स्वर्गपराः स्वर्गपरायणाः, स्वर्गादिफलावसाने पुनर्जन्मकर्माख्यफलप्रदां, क्रियाविशेषबहुलां तत्त्वज्ञानरहिततया क्रियाविशेषप्रचुराम् । भोगैश्वर्यगतिं प्रति वर्तमानां याम् इमां पुष्पितां वाचं ये प्रवदन्ति-इति संबन्धः । तेषां भोगैश्वर्यप्रसक्तानां तया वाचा भोगैश्वर्यविषयया अपहृतज्ञानानां यथोदितव्यवसायात्मिका बुद्धिः, समाधौ मनसि न विधीयते, न-उत्पद्यते, समाधीयते ऽस्मिन्नात्मज्ञानम् इति समाधिर्मनः । तेषां मनस्यात्मयाथात्म्यनिश्चयपूर्वकमोक्षसाधनभूतकर्मविषया बुद्धिः कदाचिदपि न-उत्पद्यते इत्यर्थः । अतः काम्येषु कर्मसु मुमुक्षुणा न सङ्गः कर्तव्यः ॥२,४२,४३,४४॥
एवम् अत्यल्पफलानि पुनर्जन्मप्रसवानि कर्माणि मातापितृसहस्रेभ्यो ऽपि वत्सलतरतया आत्मोज्जीवने प्रवृत्ता वेदाः किम् अर्थं वदन्ति, कथं वा वेदोदितं त्याज्यतया-उच्यते इत्यत आह
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥२,४५॥
त्रयो गुणास्त्रैगुण्यं सत्त्वरजस्तमांसि । सत्त्वरजस्तमःप्रचुराः पुरुषास्त्रैगुण्यशब्देन-उच्यन्ते; तद्विषया वेदाः तमःप्रचुराणां रजःप्रचुराणां सत्त्वप्रचुराणां च वत्सलतरतया-एव हितम् अवबोधयन्ति वेदाः । यद्येषां स्वगुणानुगुण्येन स्वर्गादिसाधनमेव हितं नावबोधयन्ति, तदा-एते रजस्तमःप्रचुरतया सात्त्विकफलमोक्षविमुखाः स्वापेक्षितफलसाधनम् अजानन्तः कामप्रावण्यविवशा अनुपादेयेषु उपादेयभ्रान्त्या प्रविष्टाः प्रनष्टा भवेयुः । अतस्त्रैगुण्यविषया वेदाः, त्वं तु निस्त्रैगुण्यो भव इदानीं सत्त्वप्रचुरस्त्वं तदेव वर्धय; नान्योन्यसङ्कीर्णगुणत्रयप्रचुरो भव; न तत्प्राचुर्यं वर्धय-इत्यर्थः । निर्द्वन्द्वः निर्गतसकलसांसारिकस्वभावः; नित्यसत्त्वस्थः गुणद्वयरहितनित्यप्रवृद्धसत्त्वस्थो भव । कथम् इति चेत्, निर्योगक्षेमः आत्मस्वरूपतत्प्राप्त्युपायबहिर्भूतानाम् अर्थानां योगं प्राप्तानां च क्षेमं परित्यज्य आत्मवान् भव आत्मस्वरूपान् वेषणपरो भव । अप्राप्तस्य प्राप्तिर्योगः प्राप्तस्य परिक्षणं क्षेमः । एवं वर्तमानस्य ते रजस्तमःप्रचुरता नश्यति, सत्त्वं च वर्धते ॥२,४५॥
यावान् अर्थ उदपाने सर्वतः संप्लुतोदके ।
तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥२,४६॥
न च वेदोदितं सर्वं सर्वस्य-उपादेयम्; यथा सर्वार्थपरिकल्पिते सर्वतः संप्लुतोदके उदपाने पिपासोर्यावान् अर्थः यावदेव प्रयोजनम्, तावदेव तेन-उपादीयते, न सर्वम्; एवं सर्वेषु च वेदेषु ब्राह्मणस्य विजानतः वैदिकस्य मुमुक्षोः यदेव मोक्षसाधनं तदेव-उ=
पादेयम्; नान्यत् ॥२,४६॥
अतः सत्त्वस्थस्य मुमुक्षोरेतावदेव-उपादेयम् इत्याह
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूः मा ते सङ्गो ऽस्त्वकर्मणि ॥२,४७॥
नित्ये नैमित्तिके काम्ये च केनचित्फलविशेषेण संबन्धितया श्रूयमाणे कर्मणि नित्यसत्त्वस्थस्य मुमुक्षोस्ते कर्ममात्रे ऽधिकारः । तत्संबन्धितया ऽवगतेषु फलेषु न कदाचिदप्यधिकारः । सफलस्य बन्धरूपत्वात्फलरहितस्य केवलस्य मदाराधनरूपस्य मोक्षहेतुत्वाच्च । मा च कर्मफलयोर्हेतुभूः । त्वया ऽनुष्ठीयमाने ऽपि कर्मणि नित्यसत्त्वस्थस्य मुमुक्षोस्तव अकर्तृत्वम् अप्यनुसन्धेयम् । फलस्यापि क्षुन्निवृत्त्यादेर्न त्वं हेतुरित्यनुसन्धेयम् । तदुभयं गुणेषु वा सर्वेश्वरे मयि वा ऽनुसन्धेयम् इत्युत्तरत्र वक्ष्यते । एवम् अनुसन्धाय कर्म कुरु । अकर्मणि अननुष्ठाने, न योत्स्यामि-इति यत्त्वया ऽभिहितम्, न तत्र ते सङ्गो ऽस्तु; उक्तेन प्रकारेण युद्धादिकर्मण्येव सङ्गो ऽस्त्वित्यर्थः ॥२,४७॥
एतदेव स्फुटीकरोति
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥२,४८॥
राज्यबन्धुप्रभृतिषु सङ्गं त्यक्त्वा युद्धादीनि कर्माणि योगस्थः कुरु, तदन्तर्भूतविजयादिसिद्ध्यसिद्ध्योस्समो भूत्वा कुरु । तदिदं सिद्ध्यसिद्ध्योस्समत्वं योगस्थ इत्यत्र योगशब्देन-उच्यते । योगः सिद्ध्यसिद्धियोस्समत्वरूपं चित्तसमाधानम् ॥२,४८॥
किम् अर्थम् इदम् असकृदुच्यत इत्यत आह
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ।
बुद्धौ शरणम् अन्विच्छ कृपणाः फलहेतवः ॥२,४९॥
यो ऽयं प्रधानफलत्यागविषयो ऽवान्तरफलसिद्ध्यसिद्ध्योस्समत्वविषयश्च बुद्धियोगः; तद्युक्तात्कर्मण इतरत्कर्म दूरेणावरम् । महदिदं द्वयोरुत्कर्षापकर्षरूपं वैरूप्यम् । उक्तबुद्धियोगयुक्तं कर्म निखिलसांसारिकदुःखं विनिवर्त्य परमपुरुषार्थलक्षणं च मोक्षं प्रापयति । इतरदपरिमितदुःखरूपं संसारम् इति । अतः कर्मणि क्रियमाणे उक्तायां बुद्धौ शरणम् अन्विच्छ । शरणं वासस्थानम् । तस्यामेव बुद्धौ वर्तस्व-इत्यर्थः । कृपणाः फलहेतवः फलसङ्गादिना कर्म कुर्वाणाः कृपणाः संसारिणो भवेयुः ॥२,४९॥
बुद्धियुक्तो जहाति-इह उभे सुकृतदुष्कृते ।
तस्मात्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥२,५०॥
बुद्धियोगयुक्तस्तु कर्म कुर्वाणः उभे सुकृतदुष्कृते अनादिकालसञ्चिते अनन्ते बन्धहेतुभूते जहाति । तस्मादुक्ताय बुद्धियोगाय युज्यस्व । योगः कर्मसु कौशलं कर्मसु क्रियमाणेष्वयं बुद्धियोगः कौशलम् अतिसामर्थ्यम् । अतिसामर्थ्यसाध्य इत्यर्थः ॥२,५०॥
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥२,५१॥
बुद्धियोगयुक्ताः कर्मजं फलं त्यक्त्वा कर्म कुर्वन्तः, तस्मात्जन्मबन्धविनिर्मुक्ताः अनामयं पदं गच्छन्ति हि प्रसिद्धं ह्येतत्सर्वासु-उपनिषत्स्वित्यर्थः ॥२,५१॥
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥२,५२॥
उक्तप्रकारेण कर्मणि वर्तमानस्य तया वृत्त्या निर्धूतकल्मषस्य ते बुद्धिर्यदा मोहकलिलम् अत्यल्पफलसङ्गहेतुभूतं मोहरूपं कलुषं व्यतितरिष्यति, तदा अस्मत्तः इतः पूर्वं त्याज्यतया श्रुतस्य फलादेः इतः पश्चाच्छ्रोतव्यस्य च कृते स्वयमेव निर्वेदं गन्तासि गमिष्यसि ॥२,५२॥
“योगे त्विमां शृणु” इत्यादिना-उक्तस्यात्मयाथात्म्यज्ञानपूर्वकस्य बुद्धिविशेषसंस्कृतस्य धर्मानुष्ठानस्य लक्षभूतं योगाख्यं फलं आह
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधावचला बुद्धिस्तदा योगम् अवाप्स्यसि ॥२,५३॥
श्रुतिः श्रवणम् । अस्मत्तः श्रवणेन विशेषतः प्रतिपन्ना सकलेतरविसजातीयनित्यनिरतिशयसूक्ष्मतत्त्वात्मविषया, स्वयम् अचला एकरूपा बुद्धिः असङ्गकर्मानुष्ठानेन निर्मलीकृते मनसि यदा निश्चला स्थास्यति, तदा योगम् आत्मावलोकनम् अवाप्स्यसि । एतदुक्तं भवति शास्त्रजन्यात्मज्ञानपूर्वककर्मयोगः स्थितप्रज्ञताख्यज्ञाननिष्ठाम् आपादयति; ज्ञाननिष्ठारूपा स्थितप्रज्ञता तु योगाख्यम् आत्मावलोकनं साधयति इति ॥२,५३॥
एतदुक्तः पार्थो ऽसङ्गकर्मानुष्ठानरूपकर्मयोगसाध्यस्थितप्रज्ञताया योगसाधनभूतायाः स्वरूपम्, स्थितप्रज्ञस्यानुष्ठानप्रकारं च पृच्छति
अर्जुन उवाच
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किं प्रभाषते किम् आसीत व्रजेत किम् ॥२,५४॥
समाधिस्थस्य स्थितप्रज्ञस्य का भाषा को वाचकश्शब्दः ? तस्य स्वरूपं कीदृशम् इत्यर्थः । स्थितप्रज्ञः किं च भाषादिकं करोति ? ॥२,५४॥
वृत्तिविशेषकथनेन स्वरूपम् अप्युक्तं भवति-इति वृत्तिविशेष उच्यते
श्रीभगवान् उवाच
प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदा-उच्यते ॥२,५५॥
आत्मन्येवात्मना मनसा आत्मैकावलम्बनेन तुष्टः तेन तोषेण तद्व्यतिरिक्तान् सर्वान् मनोगतान् कामान् यदा प्रकर्षेण जहाति, तदा-अयं स्थितप्रज्ञ इत्युच्यते । ज्ञाननिष्ठाकाष्ठेयम् ॥२,५५॥
अनन्तरं ज्ञाननिष्ठस्य ततो ऽर्वाचीनादूरविप्रकृष्टावस्था-उच्यते
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥२,५६॥
प्रियविश्लेषादिदुःखनिमित्तेषु उपस्थितेषु अनुद्विग्नमनाः न दुःखी भवति; सुखेषु विगतस्पृहः प्रियेषु सन्निहितेष्वपि विगतस्पृहः, वीतरागभयक्रोधः अनागतेषु स्पृहा रागः, तद्रहितः; प्रियविश्लेषाप्रियागमनहेतुदर्शननिमित्तं दुःखं भयम्, तद्रहितः; प्रियविश्लेषाप्रियागमनहेतुभूतचेतनान्तरगतदुःखहेतुभूतस्वमनोविकारः क्रोधः, तद्रहितः; एवंभूतः मुनिः आत्ममननशीलः स्थितधीरित्युच्यते ॥२,५६॥
ततो ऽर्वाचीनदशा प्रोच्यते
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥२,५७॥
यः सर्वत्र प्रियेषु अनभिस्नेहः उदासीनः; प्रियसंश्लेषविश्लेषरूपं शुभाशुभं प्राप्याभिनन्दनद्वेषरहितः, सो ऽपि स्थितप्रज्ञः ॥२,५७॥
ततो ऽर्वाचीनदशां आह
यदा संहरते चायं कूर्मो ऽङ्गानि-इव सर्वशः ।
इन्द्रियाणि-इन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥२,५८॥
यदेन्द्रियाणि-इन्द्रियार्थान् स्पृष्टुम् उद्युक्तानि, तदा-एव कूर्मो ऽङ्गानि-इव, इन्द्रियार्थेभ्यः सर्वशः प्रतिसंहृत्य मन आत्मन्यवस्थापयति, सो ऽपि स्थितप्रज्ञः । एवं चतुर्विधा ज्ञाननिष्ठा । पूर्वपूर्वा उत्तरोत्त्रनिष्पाद्या ॥२,५८॥
इदानीं ज्ञाननिष्ठाया दुष्प्रापतां तत्प्राप्त्युपायं चाह
विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसो ऽप्यस्य परं दृष्ट्वा निवर्तते ॥२,५९॥
इन्द्रियाणां आहारा विषयाः; निराहारस्य विषयेभ्यः प्रत्याहृतेन्द्रियस्य देहिनो विषया विनिवर्तमाना रसवर्जं विनिवर्तन्ते; रसः रागः । विषयरागो न निवर्तत इत्यर्थः । रागो ऽप्यात्मस्वरूपं विषयेभ्यः परं सुखतरं दृष्ट्वा निवर्तते ॥२,५९॥
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥२,६०॥
आत्मदर्शनेन विना विषयरागो न निवर्तते, अनिवृत्ते विषयरागे विपश्चितो यतमानस्यापि पुरुषस्य-इन्द्रियाणि प्रमाथीनि बलवन्ति, मनः प्रसह्य हरन्ति । एवम् इन्द्रियजयः आत्मदर्शनाधीनः, आत्मदर्शनम् इन्द्रियजयाधीनम् इति ज्ञाननिष्ठा दुष्प्रापा ॥२,६०॥
तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्य-इन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥२,६१॥
अस्य सर्वस्य परिजिहीर्षया विषयानुरागयुक्ततया दुर्जयानि-इन्द्रियाणि संयम्य, चेतसश्शुभाश्रयभूते मयि मनो ऽवस्थाप्य समाहित आसीत । मनसि मद्विषये सति निर्दग्धाशेषकल्मषतया निर्मलीकृतं विषयानुरागरहितं मन इन्द्रियाणि स्ववशानि करोति । ततो वश्येन्द्रियं मन आत्मदर्शनाय प्रभवति । यथा-उक्तम्, “यथा-अग्निरुद्धतशिखः कक्षं दहति सानिलः । तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम् ॥” इति । तदा-आह “वशे हि यस्य-इन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता”-इति ॥२,६१॥
एवं मय्यनिवेश्य मनः स्वयत्नगौरवेण-इन्द्रियजये प्रवृत्तो विनष्टो भवति-इत्याह
ध्यायतो विषयान् पुंसः सङ्गस्तेषु-उपजायते ।
सङ्गात्संजायते कामः कामात्क्रोधो ऽभिजायते ॥२,६२॥
क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः ।
स्मृतिभ्रंशात्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥२,६३॥
अनिरस्तविषयानुरागस्य हि मय्यनिवेशितमनस इन्द्रियाणि संयम्यावस्थितस्यापि अनादिपापवासनया विषयध्यानम् अवर्जनीयं स्यात् । ध्यायतो विषयान् पुंसः पुनरपि सङ्गो ऽतिप्रवृद्धो जायते । सङ्गात्संजाते कामः । कामो नाम सङ्गस्य विपाकदशा । पुरुषो यां दशाम् आपन्नो विषयान् अभुक्त्वा स्थातुं न शक्नोति, स कामः ॥ कामात्क्रोधो ऽभिजायते । कामे वर्तमाने, विषये चासन्निहिते, सन्निहितान् पुरुषान् प्रति, एभिरस्मदिष्टं विहितम् इति क्रोधो भवति । क्रोधाद्भवति संमोहः । संमोहः कृत्याकृत्यविवेकशून्यता । तया सर्वं करोति । ततश्च प्रारब्धे इन्द्रियजयादिके प्रयत्ने स्मृतिभ्रंशो भवति । स्मृतिभ्रंशाद्बुद्धिनाशः आत्मज्ञाने यो व्यवसायः कृतः, तस्य नाशः स्यात् । बुद्धिनाशात्पुनरपि संसारे निमग्नो विनष्टो भवति ॥२,६२॥२,६३॥
रागद्वेषवियुक्तैस्तु विषयान् इन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादम् अधिगच्छति ॥२,६४॥
उक्तेन प्रकारेण मयि सर्वेश्वरे चेतसश्शुभाश्रयभूते न्यस्तमनाः निर्दग्धाशेषकल्मषतया रागद्वेषवियुक्तैरात्मवश्यैरिन्द्रियैः विषयांश्चरन् विषयांस्तिरस्कृत्य वर्तमानः विधेयात्मा विधेयमनाः प्रसादम् अधिगच्छति निर्मलान्तःकरणो भवति-इत्यर्थः ॥२,६४॥
प्रसादे सर्वदुःखानां हानिरस्य-उपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥२,६५॥
अस्य पुरुषस्य मनःप्रसादे सति प्रकृतिसंसर्गप्रयुक्तसर्वदुःखानां हानिरुपजायते । प्रसन्नचेतसः आत्मावलोकनविरोधिदोषरहितमनसः तदानीमेव हि विविक्तात्मविषया बुद्धिः पर्यवतिष्ठते । अतो मनःप्रसादे सर्वदुःखानां हानिर्भवत्येव ॥२,६५॥
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥२,६६॥
मयि सन्न्यस्तमनोरहितस्य स्वयत्नेन-इन्द्रियनियमने प्रवृत्तस्य कदाचिदपि विविक्तात्मविषया बुद्धिर्न सेत्स्यति । अत एव तस्य तद्भावना च न संभवति । विविक्तात्मानम् अभावयतो विषयस्पृहाशान्तिर्न भवति । अशान्तस्य विषयस्पृहायुक्तस्य कुतो नित्यनिरतिशयसुखप्राप्तिः ॥२,६६॥
पुनरप्युक्तेन प्रकारेण-इन्द्रियनियमनम् अकुर्वतो ऽनर्थं आह
इन्द्रियाणां हि चरतां यन् मनो ऽनुविधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावम् इवाम्भसि ॥२,६७॥
इन्द्रियाणां विषयेषु चरतां वर्तमानानां वर्तनम् अनु यन् मनो विधीयते पुरुषेणानुवर्त्यते, तन् मनो ऽस्य विविक्तात्मप्रवणां प्रज्ञां हरति विषयप्रवणां करोति-इत्यर्थः; यथा-अम्भसि नीयमानां नावं प्रतिकूलो वायुः प्रसह्य हरति ॥२,६७॥
तस्मात्यस्य महाबाहो निगृहीतानि सर्वशः ।
इन्द्रियाणि-इन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥२,६८॥
तस्मादुक्तेन प्रकारेण शुभाश्रये मयि निविष्टमनसो यस्य-इन्द्रियाणि इन्द्रियार्थेभ्यः सर्वशो निगृहीतानि, तस्यैवात्मनि प्रज्ञा प्रतिष्ठिता भवति ॥२,६८॥
एवं नियतेन्द्रियस्य प्रसन्नमनसः सिद्धिं आह
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जागर्ति भूतानि सा निशा पश्यतो मुनेः ॥२,६९॥
या आत्मविषया बुद्धिः सर्वभूतानां निशा निशेवाप्रकाशा, तस्याम् आत्मविषयायां बुद्धौ इन्द्रियसंयमी प्रसन्नमनाः जागर्ति आत्मानम् अवलोकयन् आस्त इत्यर्थः । यस्यां शब्दादिविषयायां बुद्धौ सर्वाणि भूतानि जाग्रति प्रबुद्धानि भवन्ति,; सा शब्दादिविषया बुद्धिरात्मानं पश्यतो मुनेर्निशेवाप्रकाशा भवति ॥२,६९॥
आपूर्यमाणम् अचलप्रतिष्ठं समुद्रम् आपः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिम् आप्नोति न कामकामी ॥२,७०॥
यथा स्वेनैवापूर्यमाणमेकरूपं समुद्रं नादेय्य आपः प्रविशन्ति, आसाम् अपां प्रवेशे ऽप्यप्रवेशे च समुद्रो न कञ्चन विशेषम् आपद्यते एवं सर्वे कामाः शब्दादयो विषयाः यं संयमिनं प्रविशन्ति इन्द्रियगोचरतां यान्ति, स शान्तिम् आप्नोति । शब्दादिष्विन्द्रियगोचरताम् आपन्नेष्वनापन्नेषु च स्वात्मावलोकनतृप्त्या-एव यो न विकारम् आप्नोति, स एव शान्तिम् आप्नोति-इत्यर्थः । न कामकामी । यः शब्दादिभिर्विक्रियते, स कदाचिदपि न शान्तिम् आप्नोति ॥२,७०॥
विहाय कामान् यः सर्वान् पुमांश्चरति निस्स्पृहः ।
निर्ममो निरहङ्कारः स शान्तिम् अधिगच्छति ॥२,७१॥
काम्यन्त इति कामाः शब्दादयः । यः पुमान् शब्दादीन् सर्वान् विषयान् विहाय तत्र निस्स्पृहः तत्र ममतारहितश्च, अनात्मनि देहे आत्माभिमानरहितश्चरति; स आत्मानं दृष्ट्वा शान्तिम् अधिगच्छति ॥२,७१॥
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वा-अस्याम् अन्तकाले ऽपि ब्रह्मनिर्वाणम् ऋच्छति ॥२,७२॥
एषा नित्यात्मज्ञानपूर्विका असङ्गकर्मणि स्थितिः स्थितधीलक्षा ब्राह्मी ब्रह्मप्रापिका । ईदृशीं कर्मणि स्थितिं प्राप्य न विमुह्यति पुनः संसारं नाप्नोति, अस्याः स्थित्याम् अन्तिमे ऽपि वयसि स्थित्वा ब्रह्मनिर्वाणम् ऋच्छति निर्वाणमयं ब्रह्म गच्छति; सुखैकतानम् आत्मानम् अवाप्नोति-इत्यर्थः ॥
एवम् आत्मयाथात्म्यं युद्धाख्यस्य च कर्मणस्तत्प्राप्तिसाधनताम् अजानतः शरीरात्मज्ञानेन मोहितस्य, तेन च मोहेन युद्धान्निवृत्तस्य मोहशान्तये नित्यात्मविषया साङ्ख्यबुद्धिः, तत्पूर्विका च असङ्गकर्मानुष्ठानरूपकर्मयोगविषया बुद्धिः स्थितप्रज्ञतायोगसाधनभूता द्वितीये अध्याये प्रोक्ता; तदुक्तम्, “नित्यात्मासङ्गकर्मेहागोचरा साङ्ख्ययोगधीः । द्वितीये स्थितधीलक्षा प्रोक्ता तन्मोहशान्तये” इति ॥२,७२॥
तदेवं मुमुक्षुभिः प्राप्यतया वेदान्तोदितनिरस्तनिखिलाविद्यादि दोषगन्धानवधिकातिशयासंख्येय कल्याणगुणगणपरब्रह्मपुरुषोत्तमप्राप्त्युपायभूतवेदनोपासनध्यानादि शब्दवाच्यतदैकान्तिकात्यन्तिकभक्तिं वक्तुं तदङ्गभूतं “य आत्मा-अपहतपाप्मा” इत्यादिप्रजापतिवाक्योदितं प्राप्तुरात्मनो याथात्म्यदर्शनं तन्नित्यताज्ञानपूर्वकासङ्गकर्मनिष्पाद्यज्ञानयोगसाध्यम् उक्तम् । प्रजापतिवाक्ये हि दहरवाक्योदितपरविद्याशेषतया प्राप्तुरात्मनस्स्वरूपदर्शनम्, “यस्तम् आत्मानम् अनुविद्य विजानाति” इत्युक्त्वा जागरितस्वप्नसुषुप्त्यतीतं प्रत्यगात्मस्वरूपम् अशरीरं प्रतिपाद्य, “एवमेवैष संप्रसादो ऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते” इति दहरविद्याफलेन-उपसंहृतम् । अन्यत्रापि, “अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति” इत्येवम् आदिषु, देवं मत्वेति विधीयमानपरविद्याङ्गतया अध्यात्मयोगाधिगमेन-इति प्रत्यगात्मज्ञानम् अपि विधाय, “न जायते म्रियते वा विपश्चित” इत्यादिना प्रत्यगात्मस्वरूपं विशोध्य, “अणोरणीयान”, इत्यारभ्य, “महान्तं विभुम् आत्मानं मत्वा धीरो न शोचति”, “नायम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥” इत्यादिभिः परस्वरूपं तदुपासनम् उपासनस्य च भक्तिरूपतां प्रतिपाद्य, “विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः ।
सो ऽध्वनः पारम् आप्नोति तद्विष्णोः परमं पदम् ॥” इति
परविद्याफलेन-उपसंहृतम् । अतः परम् अध्यायचतुष्टयेन इदमेव प्राप्तुः प्रत्यगात्मनो दर्शनं ससाधनं प्रपञ्चयति ।