Panchatantram-विष्णुशर्मा-300 BCE
पञ्चतन्त्रम्
कथा-मुखम्
मनवे वाचस्पतये शुक्राय पराशराय ससुताय ।
चाणक्याय च विदुषे नमोऽस्तु नय-शास्त्र-कर्तृभ्यः ॥ ०.१॥
सकलार्थ-शास्त्र-सारं जगति समालोक्य विष्णुशर्मेदम् ।
तन्त्रैः पञ्चभिरेतच्चकार सुमनोहरं शास्त्रम् ॥ ०.२॥
तद्यथानुश्रूयते । अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र सकलार्थि-सार्थ-कल्प-द्रुमः प्रवर-नृप-मुकुट-मणिमजरीचयचर्चितचरण-युगलः सकल-कल्प-पारङ्गतोऽमरशक्तिर्नाम राजा बभूव । तस्य त्रयः पुत्राः परम-दुर्मेधसो वसुशक्तिरुग्रशक्तिरनेकशक्तिश्चेति नामानो बभूवुः ।
अथ राजा तान् शास्त्र-विमुखान् आलोक्य सचिवान् आहूय प्रोवाच-भोः ज्ञातमेतद्भवद्भिर्यन् ममैते त्रयोऽपि पुत्राः शास्त्र-विमुखा विवेक-हीनाश्च । तदेतान् पश्यतो मे महदपि राज्यं न सौख्यमावहति । अथवा साध्विदमुच्यते-
अजात-मृत-मूर्खेभ्यो मृताजातौ सुतौ वरम् ।
यतस्तौ स्वल्प-दुःखाय यावज्-जीवं जडो दहेत् ॥ ०.३॥
वरं गर्भ-स्रवो वरं ऋतुषु नैवाभिगमनं
वरं जातः प्रेतो वरमपि च कन्यैव जनिता ।
वरं बन्ध्या भार्या वरमपि च गर्भेषु वसतिर्
न चाविदग्धान् रूप-द्रविण-गुण-युक्तोऽपि तनयः ॥ ०.४॥
किं तया क्रियते धेन्वा या न सूते न दुग्धदा ।
कोऽर्थः पुत्रेण जातेन यो न विद्वान् न भक्तिमान् ॥ ०.५॥
तदेतेषां यथा बुद्धि-प्रबोधनं भवति तथा कोऽपुपायोऽनुष्ठीयताम् । अत्र च मद्दत्तां वृत्तिं भुञ्जानानां पण्डितानां पञ्चशती तिष्ठति । ततो यथा मम मनोरथाः सिद्धिं यान्ति तथानुष्ठीयतामिति ।
तत्रैकः प्रोवाच-देव द्वादशभिर्वर्षैर्व्याकरणं श्रूयते । ततो धर्म-शास्त्राणि मन्वादीनि अर्थ-शास्त्राणि चाणक्यादीनि काम-शास्त्राणि वात्स्यायनादीनि । एवं च ततो दर्मार्थ-काम-शास्त्राणि ज्ञायन्ते । ततः प्रतिबोधनं भवति ।
अथ तन्-मध्यतः सुमतिर्नाम सचिवः प्राह-अशाश्वतोऽयं जीवितव्य-विषयः । प्रभूत-काल-ज्ञेयानि शब्द-शास्त्राणि । तत् सङ्क्षेप-मात्रं शास्त्रं किञ्चिदेतेषां प्रबोधनार्थं चिन्त्यतामिति । उक्तं च यतः-
अनन्तपारं किल शब्द-शास्त्रं
स्वल्पं तथायुर्बहवश्च विघ्नाः ।
सारं ततो ग्राह्यमपास्य फल्गु
हंसैर्यथा क्षीरमिवाम्बुध्यात् ॥ ०.६॥
तदत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकल-शास्त्र-पारङ्गमश्छात्र-संसदि लब्ध-कीर्तिः । तस्मै समर्पयतु एतान् । स नूनं द्राक् प्रबुद्धान् करिष्यति इति ।
स राजा तदाकर्ण्य विष्णुशर्माणमाहूय प्रोवाच-भो भगवन् मदनुग्रहार्थमेतानर्थ-शास्त्रं प्रति द्राग्यथानन्य-सदृशान् विदधासि तथा कुरु । तदाहं त्वां शासन-शतेन योजयिष्यामि ।
अथ विष्णु-शर्मा तं राजानमाह-देव श्रूयतां मे तथ्य-वचनम् । नाहं विद्या-विक्रयं शासन-शतेनापि करोमि । पुनरेतांस्तव पुत्रान् मास-षट्केन यदि नीति-शास्त्रज्ञान् न करोमि ततः स्व-नाम-त्यागं करोमि ।
अथासौ राजा तां ब्राह्मणस्यासम्भाव्यां प्रतिज्ञां श्रुत्वा ससचिवः प्रहृष्टो विस्मयान्वितस्तस्मै सादरं तान् कुमारान् समर्प्य परां निर्वृतिमाजगाम । विष्णुशर्मणापि तान् आदाय तदर्थं मित्र-भेद-मित्र-प्राप्ति-काकोलूकीय-लब्ध-प्रणाश-अपरीक्षित-कारकाणि चेति पञ्च-तन्त्राणि रचयित्वा पाठितास्ते राजपुत्राः । तेऽपि तानधीत्य मास-षट्केन यथोक्ताः संवृत्ताः । ततः प्रभृतेतत् पञ्चतन्त्रकं नाम नीति-शास्त्रं बालावबोधनार्थं भूतले प्रवृत्तम् । किं बहुना-
अधीते य इदं नित्यं नीति-शास्त्रं शृणोति च ।
न पराभवमाप्नोति शक्रादपि कदाचन ॥ ०.७॥
इति कथा-मुखम् ।
१. मित्र-भेदः
वर्धमान-वृत्तान्तः
अथातः प्रारभ्यते मित्र-भेदो नाम प्रथमं तन्त्रम् । यस्यायमादिमः श्लोकः-
वर्धमानो महान् स्नेहः सिंह-गो-वृषयोर्वने ।
पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥ १.१॥
तद्यथानुश्रूयते । अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र धर्मोपार्जित-भूरि-विभवो वर्धमानको नाम वणिक्-पुत्रो बभूव । तस्य कदाचिद्रात्रौ शय्यारूढस्य चिन्ता समुत्पन्ना । तत् प्रभूतेऽपि वित्तेऽर्थोपायाश्चिन्तनीयाः कर्तव्याश्चेति । यत उक्तं च-
नहि तद्विद्यते किञ्चिद्यदर्थेन न सिद्ध्यति ।
यत्नेन मतिमांस्तस्मादर्थमेकं प्रसाधयेत् ॥ १.२॥
यस्यार्यस्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।
यस्यार्थाः स पुमां लोके यस्यार्थाः स च पण्डितः ॥ १.३॥
न सा विद्या न तद्दानं न तच्छिल्पं न सा कला ।
न तत् स्थैर्यं हि धनिनां याचकैर्यन् न गीयते ॥ १.४॥
इह लोके हि धनिनां परोऽपि स्वजनायते ।
स्वजनोऽपि दरिद्राणां सर्वदा दुर्जनायते ॥ १.५॥
अर्थेभ्योऽपि हि वृद्धेभ्यः संवृत्तेभ्य इतस्ततः ।
प्रवर्तन्ते क्रियाः सर्वाः पर्वतेभ्य इवापगाः ॥ १.६॥
पूज्यते यदपूज्योऽपि यदगम्योऽपि गम्यते ।
वन्द्यते यदवन्द्योऽपि स प्रभावो धनस्य च ॥ १.७॥
अशनादिन्द्रियाणीव स्युः कार्याणखिलानपि ।
एतस्मात् कारणाद्वित्तं सर्व-साधनमुच्यते ॥ १.८॥
अर्थार्थी जीव-लोकोऽयं श्मशानमपि सेवते ।
त्यक्त्वा जनयितारं स्वं निःस्वं यच्छति दूरतः ॥ १.९॥
गत-वयसामपि पुंसां येषामर्था भवन्ति ते तरुणाः ।
अर्थे तु ये हीना वृद्धास्ते यौवनेऽपि स्युः ॥ १.१०॥
स चार्थः पुरुषाणां षड्भ्रुपायैर्भवति भिक्षाया नृप-सेवया कृषि-कर्मणा विद्योपार्जनेन व्यवहारेण वणिक्-कर्मणा वा । सर्वेषामपि तेषां वाणिज्येनातिरस्कृतोऽर्थ-लाभः स्यात् । उक्तं च यतः-
कृता भिक्षानेकैर्वितरति नृपो नोचितमहो
कृषिः क्लिष्टा विद्या गुरु-विनय-वृत्त्यातिविषमा ।
कुसीदाद्दारिद्र्यं परकरगत-ग्रन्थि-शमनान्
न मन्ये वाणिज्यात् किमपि परमं वर्तनमिह ॥ १.११॥
उपायानां च सर्वेषामुपायः पण्य-सङ्ग्रहः ।
धनार्थं शस्यते हे एकस्तदन्यः संशयात्मकः ॥ १.१२॥
तच्च वाणिज्यं सप्त-विधमर्थागमाय स्यात् । तद्यथा गान्धिक-व्यवहारः, निक्षेप-प्रवेशः, गोष्ठिक-कर्म, परिचित-ग्राहकागमः, मिथ्या-क्रय-कथनम्, कूट-तुला-मानम्, देशान्तराद्भाण्डानयनं चेति । उक्तं च-
पण्यानां गान्धिकं पण्यं किमन्यैः काञ्चनादिभिः ।
यत्रैकेन च यत् क्रीतं तच्छतेन प्रदीयते ॥ १.१३॥
निक्षेपे पतिते हर्म्ये श्रेष्ठी स्तौति स्व-देवताम् ।
निक्षेपी म्रियते तुभ्यं प्रदास्यामुपयाचितम् ॥ १.१४॥
गोष्ठिक-कर्म-नियुक्तः श्रेष्ठी चिन्तयति चेतसा हृष्टः ।
वसुधा वसु-सम्पूर्णा मयाद्य लब्धा किमन्येन ॥ १.१५॥
परिचितमागच्छन्तं ग्राहकमुत्कण्ठ्या विलोकयासौ ।
हृष्यति तद्धन-लब्धो यद्वत् पुत्रेण जातेन ॥ १.१६॥
अन्यच्च-
पूर्णापूर्णे माने परिचित-जन-वञ्चनं तथा नित्यम् ।
मिथ्या-क्रयस्य कथनं प्रकृतिरियं स्यात् किरातानाम् ॥ १.१७॥
द्विगुणं त्रिगुणं वित्तं भाण्ड-क्रय-विचक्षणाः ।
प्राप्नुवन्तुद्यमाल्लोका दूर-देशान्तरं गताः ॥ १.१८॥
इतेवं सम्प्रधार्य मथुरा-गामीनि भाण्डानादाय शुभायां तिथौ गुरु-जनानुज्ञातः सुरथाधिरूढः प्रस्थितः । तस्य च मङ्गल-वृषभ सञ्जीवक-नन्दक-नामानौ गृहोत्पन्नौ धूर्वोढारौ स्थितौ । तयोरेकः सञ्जीवकाभिधानो यमुना-कच्छमवतीर्णः सम्पङ्क-पूरमासाद्य कलित-चरणो युग-भङ्गं विधाय विषसाद ।
अथ तं तदवस्थमालोक्य वर्धमानः परं विषादमागमत् । तदर्थं च स्नेहार्द्र-हृदयस्त्रि-रात्रं प्रयाण-भङ्गमकरोत् । अथ तं विषण्णमालोक्य साऋथिकैरभिहितम्- भोः श्रेष्ठिन् ! किमेवं वृषभस्य कृते सिंह-व्याघ्र-समाकुले बह्वपायेऽस्मिन् वने समस्त-सार्थस्त्वया सन्देहे नियोजितः । उक्तं च-
न स्वल्पस्य कृते भूरि नाशयेन् मतिमान् नरः ।
एतदेवात्र पाण्डित्यं यत् स्वल्पाद्भूरि-रक्षणम् ॥ १.१९॥
अथासौ तदवधार्य सञ्जीवकस्य रक्षा-पुरुषान् निरूप्याशेष-सार्थं नीत्वा प्रस्थितः । अथ रक्षा-पुरुषा अपि बह्वपायं तद्वनं विदित्वा सञ्जीवकं परित्यज्य पृष्ठतो गत्वाऽन्येद्युस्तं सार्थवाहं मिथ्याहुः- स्वामिन्, मृतोऽसौ सञ्जीवकः । अस्माभिस्तु सार्थवाहस्याभीष्ट इति मत्वा वह्निना संस्कृतः इति ।
तच्छ्रुत्वा सार्थवाहः कृतज्ञतया स्नेहार्द्र-हृदयस्तस्यौर्ध्व-देहिक-क्रिया वृषोत्सर्गादिकाः सर्वाश्चकार । सञ्जीवकोऽपायुः-शेषतया यमुना-सलिल-मिश्रैः शिशिरतरवातैराप्यायित-शरीरः कथञ्चिदपुत्थाय यमुना-तटमुपपेदे । तत्र मरकत-सदृशानि बाल-तृणाग्राणि भक्षयन् कतिपयैरहोभिर्हर-वृषभ इव पीनः ककुद्मान् बलवांश्च संवृत्तः । प्रत्यहं वल्मीक-शिखराग्राणि शृङ्गाभ्यां विदारयन् गर्जमान आस्ते । साधु चेदमुच्यते-
अरक्षितं तिष्ठति देव-रक्षितं
सुरक्षितं देव-हतं विनश्यति ।
जीवतनाथोऽपि वने विसर्जितः
कृत-प्रयत्नोऽपि गृहे विनश्यति ॥ १.२०॥
अथ कदाचित् पिङ्गलको नाम सिंहः सर्व-मृग-परिवृतः पिपासाकुल उदक-पानार्थं यमुना-तटमवतीर्णः सञ्जीवकस्य गम्भीरतर-रावं दूरादेवाशृणोत् । तच्छ्रुत्वाऽतीव व्याकुल-हृदयः ससाध्वसमाकारं प्रच्छाद्य बट-तले चतुर्मण्डलावस्थानेनावस्थितः । चतुर्मण्डलावस्थानं त्विदं- सिंहः सिंहानुयायिनः काकरवाः किवृत्ता इति ।
अथ तस्य करटक-दमनक-नामानौ द्वौ शृगालौ मन्त्रि-पुत्रौ भ्रष्टाधिकारौ सदानुयायिनावास्ताम् । तौ च परस्परं मन्त्रयतः । तत्र दमनकोऽब्रवीत्- भद्र करटक, अयं तावदस्मत्-स्वामी पिङ्गलक उदक-ग्रहणार्थं यमुना-कच्छमवतीर्य स्थितः । स किं निमित्तं पिपासाकुलोऽपि निवृत्त्य व्यूह-रचनां विधाय दौर्मनस्येनाभिभूतोऽत्र बट-तले स्थितः ।
करटक आह- भद्र किमावयोरनेन व्यापारेण उक्तं च यतः-
अव्यापरेषु व्यापारं यो नरः कर्तुमिच्छति ।
स एव निधनं याति कीलोत्पाटीव वानरः ॥ १.२१॥
कथा १ कीलोत्पाटि-वानर-कथा
कस्मिंश्चिन् नगराभ्याशे केनापि वणिक्-पुत्रेण तरु-खण्ड-मध्ये देवतायतनं कर्तुमारब्धम् । तत्र च ये कर्मकराः स्थापनादयः । ते मध्याह्न-बेलायामाहारार्थं नगर-मध्ये गच्छन्ति । अथ कदाचित् तत्रानुषङ्गिकं वानर-यूथमितश्चेतश्च परिभ्रमदागतम् । तत्रैकस्य कस्यचिच्छिल्पिनोऽर्ध-स्फाटितोऽञ्जन-वृक्ष-दारुमयः स्तम्भः खदिर-कीलकेन मध्य-निहितेन तिष्ठति । एतस्मिन्नन्तरे ते वानरास्तरु-शिखर-प्रसाद-शृङ्ग-दारु-पर्यन्तेषु यथेच्छया क्रीडितुमारब्धाः । एकश्च तेषां प्रत्यासन्न-मृत्युश्चापल्यात् तस्मिन्नर्ध-स्फोटित-स्तम्भे उपविश्य पाणिभ्यां कीलकं सङ्गृह्य यावदुत्पादयितुमारेभे तावत् तस्य स्तम्भ-मध्य-गत-वृषणस्य स्व-स्थानाच्चलित-कीलकेन यद्वृत्तं तत् प्रागेव निवेदितम् । अतोऽहं ब्रवीमि- अव्यापारेषु इति । आवयोर्भक्षित-शेष आहारोऽस्तेव । तत् किमनेन व्यापारेण । दमनक आह तत् किं भवान् आहारार्थी केवलमेव । तन् न युक्तम् । उक्तं च-
सुहृदामुपकारणाद्द्विषतामपपकारणात् ।
नृप-संश्रय इष्यते बुधैर्जठरं को न बिभर्ति केवलम् ॥ १.२२॥
किं च-
यस्मिञ्जीवन्ति जीवन्ति बहवः सोऽत्र जीवतु ।
वयांसि किं न कुर्वन्ति चञ्च्वा स्वोदर-पूरणम् ॥ १.२३॥
तथा च-
यज् जीव्यते क्षणमपि प्रथितं मनुष्यैर्
विज्ञान-शौर्य-विभवार्य-गुणैः समेतम् ।
तन् नाम जीवितमिह प्रवदन्ति तज्-ज्ञाः
काकोऽपि जीवति चिराय बलिं च भुङ्क्ते ॥ १.२४॥
यो नात्मना न च परेण च बन्धु-वर्गे
दीने दयां न कुरुते न च मर्त्य-वर्गे ।
किं तस्य जीवित-फलं हि मनुष्य-लोके
काकोऽपि जीवति चिराय बलिं च भुङ्क्ते ॥ १.२५॥
सुपूरा स्यात् कुनदिका सुपूरो मूषिकाञ्जलिः ।
सुसन्तुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥ १.२६॥
किं च-
किं तेन जातु जातेन माटुर्यौवन-हारिणा ।
आरोहति न यः स्वस्य वंशस्याग्रे ध्वजो यथा ॥ १.२७॥
परिवर्तिनि संसारे मृतः को वा न जायते ।
जातस्तु गण्यते सोऽत्र यः स्फुरेच्च श्रियाधिकः ॥ १.२८॥
किं च-
जातस्य नदी-तीरे तस्यापि तृणस्य जन्म-साफल्यम् ।
यत् सलिल-मज्जनाकुल-जन-हस्तालम्बनं भवति ॥ १.२९॥
तथा च-
स्तिमितोन्नत-सञ्चारा जन-सन्ताप-हारिणः ।
जायन्ते विरला लोके जलदा इव सज्जनाः ॥ १.३०॥
निरतिशयं गरिमाणं तेन
जनन्याः स्मरन्ति विद्वांसः ।
यत् कमपि वहति गर्भं
महतामपि यो गुरुर्भवति ॥ १.३१॥
अप्रकटीकृत-शक्तिः शक्तोऽपि जनस्तिरस्क्रियां लभते ।
निवसन्नन्तर्दारुणि लङ्घ्यो वह्निर्न तु ज्वलितः ॥ १.३२॥
करटक आह- आवां तावदप्रधानौ तत् किमावयोरनेन व्यापरेण ।
उक्तं च-
अपृष्टोऽत्राप्रधानो यो ब्रूते राज्ञः पुरः कुधीः ।
न केवलमसम्मानं लभते च विडम्बनम् ॥ १.३३॥
तथा च-
वचस्तत्र प्रयोक्तव्यं यत्रोक्तं लभते फलम् ।
स्थायी भवति चात्यन्तं रागः शुक्ल-पटे यथा ॥ १.३४॥
दमक आह- मा मैवं वद ।
अप्रधानः प्रधानः स्यात् सेवते यदि पार्थिवम् ।
प्रधानोऽपप्रधानः स्याद्यदि सेवा-विवर्जितः ॥ १.३५॥
यत उक्तं च-
आसन्नमेव नृपतिर्भजते मनुष्यं
विद्या-विहीनमकुलीनमसंस्कृतं वा ।
प्रायेण भूमि-पतयः प्रमदा लताश्च
यत् पार्श्वतो भवति तत् परिवेष्टयन्ति ॥ १.३६॥
तथा च-
कोप-प्रसाद-वस्तूनि ये विचिन्वन्ति सेवकाः ।
आरोहन्ति शनैः पश्चाद्धुन्वन्तमपि पार्थिवम् ॥ १.३७॥
विद्यावतां महेच्छानां शिल्प-विक्रम-शालिनाम् ।
सेवा-वृत्ति-विदां चैव नाश्रयः पार्थिवं विना ॥ १.३८॥
ये जात्यादि-महोत्साहान् नरेन्द्रान् नोपयान्ति च ।
तेषामामरणं भिक्षा प्रायश्चित्तं विनिर्मितम् ॥ १.३९॥
ये च प्राहुर्दुरात्मानो दुराराध्या महीभुजः ।
प्रमादालस्य-जाड्यानि ख्यापितानि निजानि तैः ॥ १.४०॥
सर्पान् व्याघ्रान् गजान् सिंहान् दृष्ट्वोपायैर्वशीकृतान् ।
राजेति कियती मात्रा धीमतामप्रमादिनाम् ॥ १.४१॥
राजानमेव संश्रित्य विद्वान् याति परां गतिम् ।
विना मलयमन्यत्र चन्दनं न प्ररोहति ॥ १.४२॥
धवलानातपत्राणि वाजिनश्च मनोरमाः ।
सदा मत्ताश्च मातङ्गाः प्रसन्ने सति भूपतौ ॥ १.४३॥
करटक आह- अथ भवान् किं कर्तुमनाः ?
सोऽब्रवीत्- अद्यास्मत्-स्वामी पिङ्गलको भीतो भीत-परिवारश्च वर्तते । तदैनं गत्वा भय-कारणं विज्ञाय सन्धि-विग्रह-यान-आसन-संश्रय-द्वैधी-भावानामेकतमेन संविधास्ये ।
करटक आह- कथं वेत्ति भवान् यद्भयाविष्टोऽयं स्वामी ?
सोऽब्रवीत्- ज्ञेयं किमत्र ? यत उक्तं च-
उदीरितोऽर्थः पशुनापि गृहते
हयाश्च नागाश्च वहन्ति चोदिताः ।
अनुक्तमपूहति पण्डितो जनः
परेङ्गित-ज्ञान-फ्जला हि बुद्धयः ॥ १.४४॥
तथा च मनुः (८.२६)-
आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च ।
नेत्र-वक्त्र-विकारैश्च लक्ष्यतेऽन्तर्गतं मनः ॥ १.४५॥
तदद्यैनं भयाकुलं प्राप्य स्व-बुद्धि-प्रभावेन निर्भयं कृत्वा वशीकृत्य च निजां साचिव्य-पदवीं समासादयिष्यामि ।
करटक आह- अनभिज्ञो भवान् सेवा-धर्मस्य । तत् कथमेनं वशीकरिष्यसि ?
सोऽब्रवीत्- कथमहं सेवानभिज्ञः ? मया हि तातोत्सङ्गे क्रीडताभ्यागत-साधूनां नीति-शास्त्रं पठता यच्छ्रुतं सेवा-धर्मस्य सारं तधृदि स्थापितम् । श्रूयतां तच्चेदम्-
सुवर्ण-पुष्पितां पृथ्वीं विचिन्वन्ति नरास्त्रयः ।
शूरश्च कृत-विद्यश्च यश्च जानाति सेवितुम् ॥ १.४६॥
सा सेवा या प्रभु-हिता ग्राह्या वाक्य-विशेषतः ।
आश्रयेत् पार्थिवं विद्वांस्तद्द्वारेणैव नान्यथा ॥ १.४७॥
यो न वेत्ति गुणान् यस्य न तं सेवेत पण्डितः ।
न हि तस्मात् फलं किञ्चित् सुकृष्टादूषरादिव ॥ १.४८॥
द्रव्य-कृति-हीनोऽपि सेव्यः सेव्य-गुणान्वितः ।
भवताजीवनं तस्मात् फलं कालान्तरादपि ॥ १.४९॥
अपि स्थाणुवदासीनः शुष्यन् परिगतः क्षुधा ।
न त्वज्ञानात्म-सम्पन्नाद्वृत्तिमीहते पण्डितः ॥ १.५०॥
सेवकः स्वामिनं द्वेष्टि कृपणं परुषाक्षरम् ।
आत्मानं किं स न द्वेष्टि सेव्यासेव्यं न वेत्ति यः ॥ १.५१॥
यस्याश्रित्य विश्रामं क्षुधार्ता यान्ति सेवकाः ।
सोऽर्कवन् नृपतिस्त्याज्यः सदा पुष्प-फलोऽपि सन् ॥ १.५२॥
राज-मातरि देव्यां च कुमारे मुख्य-मन्त्रिणि ।
पुरोहिते प्रतीहारे सदा वर्तेत राजवत् ॥ १.५३॥
जीवेति प्रब्रुवन् प्रोक्तः कृत्याकृत्य-विचक्षणः ।
करोति निर्विकल्पं यः स भवेद्राज-वल्लभः ॥ १.५४॥
प्रभु-प्रसादजं वित्तं सुप्राप्तं यो निवेदयेत् ।
वस्त्राद्यं च दधातङ्गे स भवेद्राज-वल्लभः ॥ १.५५॥
अन्तः-पुर-चरैः सार्धं यो न मन्त्रं समाचरेत् ।
न कलत्रैर्नरेन्द्रस्य स भवेद्राज-वल्लभः ॥ १.५६॥
द्यूतं यो यम-दूताभं हालां हालाहलोपमम् ।
पश्येद्दारान् वृथाकारान् स भवेद्राज-वल्लभः ॥ १.५७॥
युद्ध-कालेऽग्रणीर्यः स्यात् सदा पृष्ठानुगः पुरे ।
प्रभोर्द्वाराश्रितो हर्म्ये स भवेद्राज-वल्लभः ॥ १.५८॥
सम्मतोऽहं विभोर्नित्यमिति मत्वा व्यतिक्रमेत् ।
कृच्छ्रेष्वपि न मर्यादां स भवेद्राज-वल्लभः ॥ १.५९॥
द्वेषि-द्वेष-परो नित्यमिष्टानामिष्ट-कर्म-कृत् ।
यो नरो नर-नाथस्य स भवेद्राज-वल्लभः ॥ १.६०॥
प्रोक्तः प्रत्युत्तरं नाह विरुद्धं प्रभुना न यः ।
न समीपे हसतुच्चैः स भवेद्राज-वल्लभः ॥ १.६१॥
उप् रणं शरणं तद्वन् मन्यते भय-वर्जितः ।
प्रवासं स्व-पुरावासं स भवेद्राज-वल्लभः ॥ १.६२॥
न कुर्यान् नरनाथस्य योषिद्भिः सह सङ्गतिम् ।
न निन्दां न विवादं च स भवेद्राज-वल्लभः ॥ १.६३॥
करटक आह- अथ भवांस्तत्र गत्वा किं तावत् प्रथमं वक्ष्यति तत् तावदुच्यताम् ।
दमनक आह-
उत्तरादुत्तरं वाक्यं वदतां सम्प्रजायते ।
सुवृष्टि-गुण-सम्पन्नाद्बीजाद्बीजमिवापरम् ॥ १.६४॥
अपाय-सन्दर्शनजां विपत्तिं
उपाय-सन्दर्शनजां च सिद्धिम् ।
मेधाविनो नीति-गुण-प्रयुक्तां
पुरः स्फुरन्तीमिव वर्णयन्ति ॥ १.६५॥
एकेषां वाचि शुकवदन्येषां हृदि मूकवत् ।
हृदि वाचि तथान्येषां वल्गु वल्गन्तिउ सूक्तयः ॥ १.६६॥
न च अहमप्राप्त-कालं वक्ष्ये । आकर्णितं मया नीति-सारं पितुः पूर्वमुत्सङ्गं हि निषेवता ।
अप्राप्त-कालं वचनं बृहस्पतिरपि ब्रुवन् ।
लभते बह्ववज्ञानमपमानं च पुष्कलम् ॥ १.६७॥
करटक आह-
दुराराध्या हि राजानः पर्वता इव सर्वदा ।
व्यालाकीर्णाः सुविषमाः कठिना दुष्ट-सेविताः ॥ १.६८॥
तथा च-
भोगिनः कञ्चुकाविष्टाः कुटिलाः क्रूर-चेष्टिताः ।
सुदुष्टा मन्त्र-साध्याश्च राजानः पन्नगा इव ॥ १.६९॥
द्वि-जिह्वाः क्रूर-कर्माणोऽनिष्ठाश्छिद्रानुसारिणः ।
दूरतोऽपि हि पश्यन्ति राजानो भुजगा इव ॥ १.७०॥
स्वल्पमपपकुर्वन्ति येऽभीष्टा हि महीपतेः ।
ते वह्नाविव दह्यन्ते पतङ्गाः पाप-चेतसः ॥ १.७१॥
दुरारोहं पदं राज्ञां सर्व-लोक-नमस्कृतम् ।
स्वल्पेनापपकारेण ब्राह्मण्यमिव दुष्यति ॥ १.७२॥
दुराराध्याः श्रियो राज्ञां दुरापा दुष्परिग्रहाः ।
तिष्ठन्ताप इवाधारे चिरमात्मनि संस्थिताः ॥ १.७३॥
दमनक आह- सत्यमेतत् परम् । किन्तु-
यस्य यस्य हि यो भावस्तेन तेन समाचरेत् ।
अनुप्रविश्य मेधावी क्षिप्रमात्म-वशं नयेत् ॥ १.७४॥
भर्तुश्चित्तानुवर्तित्वं सुवृत्तं चानुजीविनाम् ।
राक्षसाश्चापि गृह्यन्ते नित्यं छन्दानुवर्तिभिः ॥ १.७५॥
सरुषि नृपे स्तुति-वचनं तदभिमते प्रेम तद्द्विषि द्वेषः ।
तद्दानस्य च शंसा अमन्त्र-तन्त्रं वशीकरणम् ॥ १.७६॥
करटक आह- यदेवमभिमतं तर्हि शिवास्ते पन्थानः सन्तु । यथाभिलषितमनुष्ठीयताम् । सोऽपि प्रणम्य पिङ्गलकाभिमुखं प्रतस्थे ।
अथागच्छन्तं दमनकमालोक्य पिङ्गलको द्वास्थमब्रवीत्- अपसार्यतां वेत्र-लता । अयमस्माकं चिरन्तनो मन्त्रिपुत्रो दमनकोऽव्याहत-प्रवेशः । तत् प्रवेश्यतां द्वितीय-मण्डल-भागी । इति ।
स आह- यथावादीद्भवान् इति ।
अथोपसृत्य दमनको निर्दिष्ट आसने पिङ्गलकं प्रणम्य प्राप्तानुज्ञ उपविष्टः । स तु तस्य नक-कुलिशालङ्कृतं दक्षिण-पाणिमुपरि दत्त्वा मान-पुरः-सरमुवाच- अपि शिवं भवतः । कस्माच्चिराद्दृष्टोऽसि ?
दमनक आह- न किञ्चिद्देव-पादानामस्माभिः प्रयोजनम् । परं भवतां प्राप्त-कालं वक्तव्यं यत उत्तम-मध्यमाधमैः सर्वैरपि राज्ञां प्रयोजनम् । उक्तं च-
दन्तस्य निष्कोषणकेन नित्यं
कर्णस्य कण्डूयनकेन वापि ।
तृणेन कार्यं भवतीश्वराणां
किमाङ्ग वाग्घ-स्तवता नरेण ॥ १.७७॥
तथा वयं देव-पादानामन्वयागता भृत्या आपत्स्वपि पृष्ठ-गामिनो यद्यपि स्वमधिकारं न लभामहे तथापि देव-पादानामेतद्युक्तं न भवति । उक्तं च-
स्थानेष्वेव नियोक्तव्या भृत्या आभरणानि च ।
न हि चूडामणिः पादे प्रभवामीति बध्यते ॥ १.७८॥
यतः-
अनभिज्ञो गुणानां यो न भृत्यैरनुगम्यते ।
धनाढ्योऽपि कुलीनोऽपि क्रमायातोऽपि भूपतिः ॥ १.७९॥
उक्तं च-
असमैः समीयमानः समैश्च
परिहीयमाण-सत्-कारः ।
धुरि यो न युज्यमानस्त्रिभिर्
अर्थ-पतिं त्यजति भृत्यः ॥ १.८०॥
यच्चाविवेकितया राज्ञा भृत्यानुत्तम-पद-योग्यान् हीनाधम-स्थाने नियोजयति, न ते तत्रैव स भूपतेर्दोषो न तेषाम् । उक्तं च-
कनक-भूषण-सङ्ग्रहणोचितो
यदि मणिस्त्रपुणि प्रतिबध्यते ।
न स विरौति न चापि स शोभते
भवति योजयितुर्वचनीयता ॥ १.८१॥
यच्च स्वामेवं वदति चिराद्दृश्यते । तदपि श्रूयताम्-
सव्य-दक्षिणयोर्यत्र विशेषो नास्ति हस्तयोः ।
कस्तत्र क्षणमप्यार्यो विद्यमान-गतिर्भवेत् ॥ १.८२॥
काचे मणिर्मणौ काचो येषां बुद्धिर्विकल्पते ।
न तेषां सन्निधौ भृत्यो नाम-मात्रोऽपि तिष्ठति ॥ १.८३॥
परीक्षका यत्र न सन्ति देशे
नार्घन्ति रत्नानि समुद्रजानि ।
आभीर-देशे किल चन्द्रकान्तं
त्रिभिर्वराटैर्विपणन्ति गोपाः ॥ १.८४॥
लोहिताख्यस्य च मणेः पद्मरागस्य चान्तरम् ।
यत्र नास्ति कथं तत्र क्रियते रत्न-विक्रयः ॥ १.८५॥
निर्विशेषं यदा स्वामी समं भृत्येषु वर्तते ।
तत्रोद्यम-समर्थानामुत्साहः परिहीयते ॥ १.८६॥
न विना पार्थिवो भृत्यैर्न भृत्याः पार्थिवं विना ।
तेषां च व्यवहारोऽयं परस्पर-निबन्धनः ॥ १.८७॥
भृत्यैर्विना स्वयं राजा लोकानुग्रह-कारिभिः ।
मयूखैरिव दीप्तांशुस्तेजस्वपि न शोभते ॥ १.८८॥
अरैः सन्धार्यते नाभिर्नाभौ चाराः प्रतिष्ठिताः ।
स्वामि-सेवकयोरेवं वृत्ति-चक्रं प्रवर्तते ॥ १.८९॥
शिरसा विधृता नित्यं स्नेहेन परिपालिताः ।
केशा अपि विरज्यन्ते निःस्नेहाः किं न सेवकाः ॥ १.९०॥
राजा तुष्टो हि भृत्यानामर्थ-मात्रं प्रयच्छति ।
ते तु सम्मान-मात्रेण प्राणैरपुपकुर्वते ॥ १.९१॥
एवं ज्ञात्वा नरेन्द्रेण भृत्याः कार्या विचक्षणाः ।
कुलीनाः शौर्य-संयुक्ताः शक्ता भक्ताः क्रमागताः ॥ १.९२॥
यः कृत्वा सुकृतं राज्ञो दुष्करं हितमुत्तमम् ।
लज्जया वक्ति नो किञ्चित् तेन राजा सहायवान् ॥ १.९३॥
यस्मिन् कृत्यं समावेश्य निर्विशङ्केन चेतसा ।
आस्यते सेवकः स स्यात् कलत्रमिव चापरम् ॥ १.९४॥
योऽनाहूतः समभ्येति द्वारि तिष्ठति सर्वदा ।
पृष्ठः सत्यं मितं ब्रूते स भृत्योऽर्हो महीभुजाम् ॥ १.९५॥
अनादिष्टोऽपि भूपस्य दृष्ट्वा हानिकरं च यः ।
यतते तस्य नाशाय स भृत्योऽर्हो महीभुजाम् ॥ १.९६॥
ताडितोऽपि दुरुक्तोऽपि दण्डितोऽपि महीभुजा ।
यो न चिन्तयते पापं स भृत्योऽर्हो महीभुजाम् ॥ १.९७॥
न गर्वं कुरुते माने नापमाने च तप्यते ।
स्वाकारं रक्षयेद्यस्तु स भृत्योऽर्हो महीभुजाम् ॥ १.९८॥
न क्षुधा पीड्यते यस्तु निद्रया न कदाचन ।
न च शीतातपाद्यैश्च स भृत्योऽर्हो महीभुजाम् ॥ १.९९॥
श्रुत्वा साङ्ग्रामिकीं वार्तां भविष्यां स्वामिनं प्रति ।
प्रसन्नास्यो भवेद्यस्तु स भृत्योऽर्हो महीभुजाम् ॥ १.१००॥
सीमा वृद्धिं समायाति शुक्ल-पक्ष इवोडुराट् ।
नियोग-संस्थिते यस्मिन् स भृत्योऽर्हो महीभुजाम् ॥ १.१०१॥
सीमा सङ्कोचमायाति वह्नौ चर्म इवाहितम् ।
स्थिते यस्मिन् स तु त्याज्यो भृत्यो राज्यं समीहता ॥ १.१०२॥
तथा शृगालोऽयमिति मन्यमानेन ममोपरि स्वामिना यदवज्ञा क्रियते तदपयुक्तम् । उक्तं च यतः-
कौशेयं कृमिजं सुवर्णमुपलाद्दुर्वापि गोरोमतः
पङ्कात् तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात् ।
काष्ठादग्निरहेः फणादपि मणिर्गो-पित्ततो रोचना
प्राकाश्यं स्व-गुणोदयेन गुणिनो गच्छन्ति किं जन्मना ॥ १.१०३॥
मूषिका गृह-जातापि हन्तव्या स्वाप-कारिणी ।
भक्ष्य-प्रदानैर्जारो हितकृत् प्राप्यते जनैः ॥ १.१०४॥
एरण्ड-भिण्डार्क-नलैः प्रभूतैरपि सञ्चितैः ।
दारु-कृत्यं यथा नास्ति तथैवाज्ञैः प्रयोजनम् ॥ १.१०५॥
किं भक्तेनासमर्थेन किं शक्तेर्नापकारिणा ।
भक्तं शक्तं च मां राजन् नावज्ञातुं त्वमर्हसि ॥ १.१०६॥
पिङ्गलक आह- भवत्वेवं तावत् । असमर्थः समर्थो वा चिरन्तनस्त्वमस्माकं मन्त्रि-पुत्रः । तद्विश्रब्धं ब्रूहि यत् किञ्चिद्वक्तुकामः ।
दमनक आह- देव जिज्ञाप्यं किञ्चिदस्ति ।
पिङ्गलक आह- तन् निवेदयाभिप्रेतम् ।
सोऽब्रवीत्-
अपि स्वल्पतरं कार्यं यद्भवेत् पृथिवी-पतेः ।
तन् न वाच्यं सभा-मध्ये प्रोवाचेदं बृहस्पतिः ॥ १.१०७॥
तदैकान्तिके मद्विज्ञाप्यमाकर्णयन्तु देव-पादाः । यतः-
षट्-कर्णो भिद्यते मन्त्रश्चतुष्कर्णः स्थिरो भवेत् ।
तस्मात् सर्व-प्रयत्नेन षट्कर्णं वर्जयेत् सुधीः ॥ १.१०८॥
अथ पिङ्गलकाभिप्रायज्ञा व्याघ्र-द्वीपि-वृक-पुरःसरा सर्वेऽपि तद्वचः समाकर्ण्य संसदि तत्-क्षणादेव दूरीभूताः । ततश्च दमनक आह- उदक-ग्रहणार्थं प्रवृत्तस्य स्वामिनः किमिह निवृत्त्यावस्थानम् ।
पिङ्गलक आह सविलक्ष-स्मितम्- न किञ्चिदपि ।
सोऽब्रवीत्- देव यदनाख्येयं तत् तिष्ठतु । उक्तं च-
दरिषु किञ्चित् स्वजनेषु किञ्चिद्
गोप्यं वयस्येषु सुतेषु किञ्चित् ।
युक्तं न वा युक्तमिदं विचिन्त्य
वदेद्विपश्चिन् महतोऽनुरोधात् ॥ १.[१००]
तच्छ्रुत्वा पिङ्गलकश्चिन्तयामास- योग्योऽयं दृश्यते । तत् कथयामेतस्याग्रे आत्मनोऽभिप्रायम् । उक्तं च-
स्वामिनि गुणान्तरज्ञे गुणवति भृत्येऽनुवर्तिनि कलये ।
सुहृदि निरन्तर-चित्ते निवेद्य दुःखं सुखी भवति ॥ १.[१०१]
भो दमनक शृणोषि शब्दं दूरान् महान्तम् ।
सोऽब्रवीत्- स्वामिन् शृणोमि । तत् किम् ।
पिङ्गलक आह- भद्र अहमस्माद्वनाद्गन्तुमिच्छामि । दमनक आह- कस्मात् ।
पिङ्गलक आह – यतोऽद्यस्मद्वने किमपपूर्वं सत्त्वं प्रविष्टं यस्यायं महा-शब्दः श्रूयते । तस्य च शब्दानुरूपेण पराक्रमेण भवितव्यमिति ।
दमनक आह- यच्छब्द-मात्रादपि भयमुपगतः स्वामी तदपयुक्तम् । उक्तं च-
अम्भसा भिद्यते सेतुस्तथा मन्त्रोऽपरक्षितः ।
पैशुन्याद्भिद्यते स्नेहो भिद्यते वाग्भिरातुरः ॥ १.१११॥
तन् न युक्तं स्वामिनः पूर्वोपार्जितं वनं त्यक्तुम् । यतो भेरी-वेणु-वीना-मृदङ्ग-ताल-पटह-शङ्ख-काहलादि-भेदेन शब्दा अनेक-विधा भवन्ति । तन् न केवलाच्छब्द-मात्रादपि भेतव्यम् । उक्तं च-
अत्युत्कटे च रौद्रे च शत्रौ प्राप्ते न हीयते ।
धैर्यं यस्य महीनाथो न स याति पराभवम् ॥ १.११२॥
दर्शित-भयेऽपि धातरि धैर्य-ध्वंसो भवेन् न धीराणाम् ।
शोषित-सरसि निदाघे नितरामेवोद्धतः सिन्धुः ॥ १.११३॥
तथा च-
यस्य न विपदि विषादः सम्पदि हर्षो रणे न भीरुत्वम् ।
तं भुवन-त्रय-तिलकं जनयति जननी सुतं विरलम् ॥ १.११४॥
तथा च-
शक्ति-वैकल्य-नम्रस्य निःसारत्वाल्लघीयसः ।
जन्निमो मानहीनस्य तृणस्य च समा गतिः ॥ १.११५॥
अपि च-
अन्य-प्रतापमासाद्य यो दृढत्वं न गच्छति ।
जतुजाभरणस्येव रूपेणापि हि तस्य किम् ॥ १.११६॥
तदेवं ज्ञात्वा स्वामिना धैर्यावष्टम्भः कार्यः । न शब्द-मात्राद्भेतव्यम् । अपि च-
पूर्वमेव मया ज्ञातं पूर्णमेतद्धि मेदसा ।
अनुप्रविश्य विज्ञातं यावच्चर्म च दारु च ॥ १.११७॥
पिङ्गलक आह- कथमेतत् ।
सोऽब्रवीत्-
कथा २ शृगाल-दुन्दुभि-कथा
कश्चिद्गोमायुर्नाम शृगालः क्षुत्क्षाम-कण्ठः इतस्ततः परिभ्रमन् वने सैन्य-द्वय-सङ्ग्राम-भूमिमपश्यत् । तस्यां च दुन्दुभेः पतितस्य वायु-वशाद्वल्ली-शाखाग्रैर्हन्यमानस्य शब्दमशृणोत् । अथ क्षुभित-हृदयश्चिन्तयामास अहो विनष्टोऽस्मि । तद्यावन् नास्य प्रोच्चारित-शब्दस्य दृष्टि-गोचरे गच्छामि तावदन्यतो व्रजामि । अथवा नैतद्युज्यते सहसैव ।
भये वा यदि वा हर्षे सम्प्राप्ते यो विमर्शयेत् ।
कृत्यं न कुरुते वेगान् न स सन्तापमाप्नुयात् ॥ १.११८॥
तत् तावज् जानामि कस्यायं शब्दः । धैर्यमालम्ब्य विमर्शयन् यावन् मन्दं मन्दं गच्छति तावद्दुन्दुभिमपश्यत् । स च तं परिज्ञाय समीपं गत्वा स्वयमेव कौतुकादताडयत् । भूयश्च हर्षादचिन्तयत्- अहो चिरादेतदस्माकं महोद्भोजनमापतितम् । तन् नूनं मांस-मेदोऽसृग्भिः परिपूरितं भविष्यति । ततः परुष-चर्मावगुण्ठितं तत् कथमपि विदार्यैकदेशे छिद्रं कृत्वा संहृष्ट-मना मध्ये प्रविष्टः । परं चर्म-विदारणतो दंष्ट्राभङ्गः समजनि । अथ निराशीभूतस्तद्दारु-शेषमवलोक्य श्लोकमेनमपठत् पूर्वमेव मया ज्ञातमिति । अतो न शब्द-मात्राद्भेतव्यम् ।
पिङ्गलक आह- भोः पश्यायं मम सर्वोऽपि परिग्रहो भय-व्याकुलित-मनाः पलायितुमिच्छति । तत् कथमहं धैर्यादवष्टम्भं करोमि ।
सोऽब्रवीत्- स्वामिन् नैषामेष दोषः । यतः स्वामि-सदृशा एवं भवन्ति भृत्याः । उक्तं च-
अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च ।
पुरुष-विशेषं प्राप्ता भवन्तयोग्याश्च योग्याश्च ॥ १.११९॥
तत्-पौरुषावष्टं कृत्वा त्वं तावदत्रैव प्रतिपालय यावदहमेतच्छब्द-स्वरूपं ज्ञात्वागच्छामि । ततः पश्चाद्यथोचितं कार्यमिति ।
पिङ्गलक आह- किं तत्र भवान् गन्तुमुत्सहते ।
स आह- किं स्वाम्यादेशात् सद्भृत्य कृत्याकृत्यमस्ति । उक्तं च-
स्वाम्यादेशात् सुभृत्यस्य न भोः सञ्जायते क्वचित् ।
प्रविशेन् मुखमाहेयं दुस्तरं वा महार्णवम् ॥ १.१२०॥
तथा च-
स्वाम्यादिष्टस्तु यो भृत्यः समं विषममेव च ।
मन्यते न स सन्धार्यो भूभुजा भूतिमिच्छता ॥ १.१२१॥
पिङ्गलक आह- भद्रं, यदेवं तद्गच्छ । शिवास्ते पन्थानः सन्तु इति ।
दमनकोऽपि तं प्रणम्य सञ्जीवक-शब्दानुषरी प्रतस्थे ।
अथ दमनके गते भय-व्याकुल-मनाः पिङ्गलकश्चिन्तयामास- अहो न शोभनं कृतं मया । यत् तस्य विश्वासं गत्वात्माभिप्रायो निवेदितः । कदाचिद्दमनकोऽयमुभय-वेतनो भूत्वा ममोपरि दुष्ट-बुद्धिः स्याद्भ्रष्टाधिकारत्वात् । उक्तं च-
ये भवन्ति महीपस्य सम्मानित-विमानिताः ।
यतन्ते तस्य नाशाय कुलीना अपि सर्वदा ॥ १.१२२॥
तत् तावदस्य चिकीर्षितं वेत्तुमन्यत् स्थानान्तरं गत्वा प्रतिपालयामि । कदाचिद्दमनकस्तमादाय मां व्यापादयितुमिच्छति । उक्तं च-
न बध्यन्ते हविश्वस्ता बलिभिर्दुर्बला अपि ।
विश्वस्तास्त्वेव बध्यन्ते बलवन्तोऽपि दुर्बलैः ॥ १.१२३॥
बृहस्पतेरपि प्राज्ञो न विश्वासे व्रजेन् नरः ।
य इच्छेदात्मनो वृद्धिमायुष्यं च सुखानि च ॥ १.१२४॥
शपथैः सन्धितस्यापि न विश्वासे व्रजेद्रिपोः ।
राज्य-लाभोद्यतो वृत्रः शक्रेण शपथैर्हतः ॥ १.१२५॥
न विश्वासं विना शत्रुर्देवानामपि सिद्ध्यति ।
विश्वासात् त्रिदशेन्द्रेण दितेर्गर्भो विदारितः ॥ १.१२६॥
एवं सम्प्रधार्य स्थानान्तरं गत्वा दमनक-मार्गमवलोकयन्न् एकाकी तस्थौ । दमनकोऽपि सञ्जीवक-सकाशं गत्वा वृषभोऽयमिति परिज्ञाय हृष्ट-मना व्यचिन्तयत्- अहो शोभनमापतितम् । अनेनैतस्य सन्धि-विग्रह-द्वारेण मम पिङ्गलको वश्यो भविष्यतीति । उक्तं च-
न कौलीन्यान् न सौहार्दान् नृपो वाक्ये प्रवर्तते ।
मन्त्रिणां वावदभ्येति व्यसनं शोकमेव च ॥ १.१२७॥
सदैवापद्गतो राजा भोग्यो भवति मन्त्रिणाम् ।
अतएव हि वाञ्छन्ति मन्त्रिणः सापदं नृपम् ॥ १.१२८॥
यथा नेच्छति नीरोगः कदाचित् सुचिकित्सकम् ।
तथापद्रहितो राजा सचिवं नाभिवाञ्छति ॥ १.१२९॥
एवं विचिन्तयन् पिङ्गलकाभिमुखः प्रतस्थे । पिङ्गलकोऽपि तमायान्तं प्रेक्ष्य स्वाकारं रक्षन् यथा-पूर्व-स्थितः दमनकोऽपि पिङ्गलक-सकाशं गत्वा प्रणम्योपविष्टः । पिङ्गलक आह – किं दृष्टं भवता तत् सत्त्वम् ?
दमनक आह- दृष्टं स्वामि-प्रसादात् ।
पिङ्गलक आह- अपि सत्यम् ।
दमनक आह- किं स्वामि-पादानामग्रेऽसत्यं विज्ञाप्यते । उक्तं च-
अपि स्वल्पमसत्यं यः पुरो वदति भूभुजाम् ।
देवानां च विनश्यते स द्रुतं सुमहानपि ॥ १.१३०॥
तथा च-
सर्व-देव-मयो राजा मनुना सम्प्रकीर्तितः ।
तस्मात् तं देववत् पश्येन् न व्यलीकेन कर्हिचित् ॥ १.१३१॥
सर्व-देवमयस्यापि विशेषो नृपतेरयम् ।
शुभाशुभ-फलं सद्यो नृपाद्देवाद्भवान्तरे ॥ १.१३२॥
पिङ्गलक आह- सत्यं दृष्टं भविष्यति भवता । न दीनिपरि महान्तः कुप्यन्तीति न त्वं तेन निपातितः । यतः-
तृणानि नोन्मूलयति प्रभञ्जनो
म्र्डूनि नीचैः प्रणतानि सर्वतः ।
स्वभाव एवोन्नत-चेतसामयं
महान् महत्स्वेव करोति विक्रमम् ॥ १.१३३॥
अपि च-
गण्डस्थलेषु मद-वारिषु बद्ध-राग-
मत्त-भ्रमद्भ्रमर-पाद-तलाहतोऽपि ।
कोपं न गच्छति नितान्त-बलोऽपि नागस्
तुल्ये बले तु बलवान् परिकोपमेति ॥ १.१३४॥
दमनक आह- अस्त्वेवं स महात्मा । वयं कृपणाः । तथापि स्वामी यदि कथयति ततो भृत्यत्वे नियोजयामि ।
पिङ्गलक आह सोच्छ्वासम्- किं भवान् शक्नोतेवं कर्तुम् ।
दमनक आह- किमसाध्यं बुद्धेरस्ति । उक्तं च-
न तच्छस्त्रैर्न नागेन्द्रैर्न हयैर्न पदातिभिः ।
कार्यं संसिद्धिमभ्येति यथा बुद्ध्या प्रसाधितम् ॥ १.१३५॥
पिङ्गलक आह- यदेवं तर्हमात्य-पदेऽध्यारोपितस्त्वम् । अद्य-प्रभृति प्रसाद-निग्रहादिकं त्वयेव कार्यमिति निश्चयः ।
अथ दमनकः सत्वरं गत्वा साक्षेपं तमिदमाह- एहेहीतो दुष्ट-वृषभ । स्वामी पिङ्गलकस्त्वामाकारयति । किं निःशङ्को भूत्वा मुहुर्मुहुर्नदसि वृथा इति ।
तच्छ्रुत्वा सञ्जीवकोऽब्रवीत्- भद्र कोऽयं पिङ्गलकः ।
दमनक आह- किं स्वामिनं पिङ्गलकमपि न जानासि ? तत्-क्षणं प्रतिपालय । फलेनैव ज्ञास्यसि । नन्वयं सर्व-मृग-परिवृतो बट-तले स्वामी पिङ्गलक-नामा सिंहस्तिष्ठति ।
तच्छ्रुत्वा गतायुषमिवात्मानं मन्यमानः सञ्जीवकः परं विषादमगमत् । आह च- भद्र भवान् साधु-समाचारो वचन-पटुश्च दृश्यते । तद्यदि मामवश्यं तत्र नयसि तदभय-प्रदानेन स्वामिनः सकाशात् प्रसादः कारयितव्यः ।
दमनक आह-भोः सत्यमभिहितं भवता । नीतिरेषा यतः-
पर्यन्तो लभ्यते भूमेः समुद्रस्य गिरेरपि ।
न कथञ्चिन् महीपस्य चित्तान्तः केनचित् क्वचित् ॥ १.१३६॥
तत्त्वमत्रैव तिष्ठ यावदहं तं समये दृष्ट्वा ततः पश्चात् त्वामनयामि इति । तथानुष्ठिते दमनकः पिङ्गलक-सकाशं गत्वेदमाह-स्वामिन् न तत् प्राकृतं सत्त्वम् । स हि भगवतो महेश्वरस्य वाहन-भूतो वृषभ इति । मया पृष्ट इदमूचे । महेश्वरेण परितुष्टेन कालिन्दी-परिसरे शष्पाग्राणि भक्षयितुं समादिष्टः । किं बहुना मम प्रदत्तं भगवता क्रीडार्थं वनमिदम् ।
पिङ्गलक आह सभयम्-सत्यं ज्ञातं मयाधुना । न देवता-प्रसादं विना शष्प-भोजिनो व्यालाकीर्ण एवंविधे वने निःशङ्का नन्दतो भ्रमन्ति । ततस्त्वया किमभिहितम् ।
दमनक आह-स्वामिन् एतदभिहितं मया यदेतद्वनं चण्डिका-वाहन-भूतस्य पिङ्गलकस्य विषयीभूतम् । तद्भवानभ्यागतः प्रियोऽतिथिः । तत् तस्य सकाशं गत्वा भ्रातृ-स्नेहेनैकत्र भक्षण-पान-विहरण-क्रियाभिरेक-स्थानाश्रयेण कालो नेयः इति । ततस्तेनापि सर्वमेतत् प्रतिपन्नम् । उक्तं च सहर्षं स्वामिनः सकाशादभय-दक्षिणा दापयितव्या इति । तदत्र स्वामी प्रमाणम् ।
तच्छ्रुत्वा पिङ्गलक आह-साधु सुमते साधु । मन्त्रि श्रोत्रिय साधु । मम हृदयेन सह सम्मन्त्र्य भवएदमभिहितम् । तद्दत्ता मया तस्याभय-दक्षिणा । परं सोऽपि मदर्थेऽभय-दक्षिणां याचयित्वा द्रुततरमानीयतामिति । अथ साधु चेदमुच्यते-
अन्तः-सारैरकुटिलैरच्छिद्रैः सुपरीक्षितैः ।
मन्त्रिभिर्धार्यते राज्यं सुस्तम्भैरिव मन्दिरम् ॥ १.१३७॥
तथा च-
मन्त्रिणां भिन्न-सन्धाने भिषजां सान्निपातिके ।
कर्मणि व्यज्यते प्रज्ञा स्वस्थे को वा न पण्डितः ॥ १.१३८॥
दमनकोऽपि तं प्रणम्य सञ्जीवक-सकाश प्रस्थितः सहर्षमचिन्तयत्- अहो प्रसाद-सम्मुखी नः स्वामी वचन-वशगश्च संवृत्तः । तन् नास्ति धन्यतरो मम । उक्तं च-
अमृतं शिशिरे वह्निरमृतं प्रिय-दर्शनम् ।
अमृतं राज-सम्मानममृतं क्षीर-भोजनम् ॥ १.१३९॥
अथ सञ्जीवक-सकाशमासाद्य सप्रश्रयमुवाच-भो मित्र प्रार्थितोऽसौ मया भवदर्थे स्वाम्यभय-प्रदानम् । तद्विश्रब्धं गम्यतामिति । परं त्वया राज-प्रसादमासाद्य मया सह समय-धर्मेण वर्तितव्यम् । न गर्वमासाद्य स्व-प्रभुतया विचरणीयम् । अहमपि तव सङ्केतेन सर्वा राज्य-धुरममात्य-पदवीमाश्रित्योद्धरिष्यामि । एवं कृते द्वयोरपावयो राज-लक्ष्मी-भाग्या भविष्यति । यतः-
आखेटकस्य धर्मेण विभवाः स्युर्वशे नॄणाम् ।
नृ-प्रजाः प्रेरयतेको हन्तन्योऽत्र मृगान् इव ॥ १.१४० ॥
तथा च-
यो न पूजयते गर्वादुत्तमाधम-मध्यमान् ।
नृपासन्नान् स मान्योऽपि भ्रश्यते दन्तिलो यथा ॥ १.१४१॥
सञ्जीवक आह-कथमेतत् ? सोऽब्रवीत्-
कथा ३ दन्तिल-गोरम्भ-कथा
अस्तत्र धरातले वर्धमानं नाम नगरम् । तत्र दन्तिलो नाम नाना-भाण्ड-पतिः सकल-पुर-नायकः प्रतिवसति स्म । तेन पुर-कार्यं नृप-कार्यं च कुर्वता तुष्टिं नीतास्तत्-पुर-वासिनो लोका नृपतिश्च । किं बहुना, न कोऽपि तादृक् केनापि चतुरो दृष्टो श्रुतो वा । अथवा सत्यमेतदुक्तम्-
नरपति-हित-कर्ता द्वेष्यतां याति लोके
जनपद-हित-कर्ता त्यज्यते पार्थिवेन्द्रैः ।
इति महति विरोधे वर्तमाने समाने
नृपति-जन-पदानां दुर्लभः कार्य-कर्ता ॥ १.१४२॥
अथैवं गच्छति काले दनित्लस्य कदाचिद्विवाहः सम्प्रवृत्तः । तत्र तेन सर्वे पुर-निवासिनो राज-सन्निधि-लोकाश्च सम्मान-पुरःसरमामन्त्र्य भोजिता वस्त्रादिभिः सत्-कृताश्च । ततो विवाहानन्तरं राजा सान्तःपुरः स्व-गृहमानीयाभ्यर्चितः । अथ तस्य नृपतेर्गृह-सम्मार्जन-कर्ता गोरम्भो नाम राज-सेवको गृहायातोऽपि तेनानुचित-स्थान उपविष्टोऽवज्ञायार्ध-चन्द्रं दत्त्वा निःसारितः । सोऽपि ततः प्रभृति निश्वसन्नपमानान् न रात्रावपधिशेते । कथं मया तस्य भाण्डपते राज-प्रसाद-हानिः कर्तव्या इति चिन्तयन्न् आस्ते । अथवा किमनेन वृथा शरीर-शोषणेन । न किञ्चिन् मया तस्यापकर्तुं शक्यमिति । अथवा साध्विदमुच्यते-
यो हपकर्तुमशक्तः कुप्यति
किमसौ नरोऽत्र निर्लज्जः ।
उत्पतितोऽपि हि चणकः शक्तः
किं भ्राष्ट्रकं भङ्क्तुम् ॥ १.१४३॥
अथ कदाचित् प्रत्यूषे योग-निद्रां गतस्य राज्ञः शय्यान्ते मार्जनं कुर्वन्न् इदमाह-अहो दन्तिलस्य महद्दृप्तत्वं यद्राज-महिषीमालिङ्गति ।
तच्छ्रुत्वा राजा ससम्भ्रममुत्थाय तमुवाच-भो भो गोरम्भ । सत्यमेतत् यत् त्वया जल्पितम् । किं दन्तिलेन समालिङ्गिता इति ।
गोरम्भः प्राह-देव ! रात्रि-जागरणेन द्यूतासक्तस्य मे बलान् निद्रा समायाता । तन् न वेद्मि किं मयाभिहितम् । राजा सेर्ष्यं स्व-गतमेष तावदस्मद्गृहेऽप्रतिहत-गतिस्तथा दन्तिलोऽपि । तत् कदाचिदनेन देवी समालिङ्ग्यमाना दृष्टा भविष्यति । तेनेदमभिहितम् । उक्तं च-
यद्वाञ्छति दिवा मर्त्यो वीक्षते वा करोति वा ।
तत् स्वप्नेऽपि तदभ्यासाद्ब्रूते वाथ करोति वा ॥ १.१४४॥
तथा च-
शुभं वा यदि पापं यन् नॄणां हृदि संस्थितम् ।
सुगूढमपि तज् ज्ञेयं स्वप्न-वाक्यात् तथा मदात् ॥ १.१४५॥
अथवा स्त्रीणां विषये कोऽत्र सन्देहः ।
जल्पन्ति सार्धमन्येन पश्यन्तन्यं सविभ्रमाः ।
हृद्गतं चिन्तयन्तन्यं प्रियः को नाम योषिताम् ॥ १.१४६॥
अन्यच्च-
एकेन स्मित-पाटलाधर-रुचो जल्पन्तनल्पाक्षरं वीक्षन्तेऽन्यमितः स्फुटत्-कुमुदिनी-फुल्लोल्लसल्-लोचनाः ।
दूरोदार-चरित्र-चित्र-विभवं ध्यायन्ति चान्यं धिया केनेत्थं परमार्थतोऽर्थवदिव प्रेमास्ति वाम-भ्रुवाम् ॥ १.१४७॥
तथा च-
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्व-भूतानां न पुंसां वाम-लोचना ॥ १.१४८॥
रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः ।
तेन नारद नारीणां सतीत्वमुपजायते ॥ १.१४९॥
यो मोहान् मन्यते मूढो रक्तेयं मम कामिनी ।
स तस्या वशगो नित्यं भवेत् क्रीडा-शकुन्तवत् ॥ १.१५०॥
तासां वाक्यानि कृत्यानि स्वल्पानि सुगुरूणपि ।
करोति सः कृतैर्लोके लघुत्वं याति सर्वतः ॥ १.१५१॥
स्त्रियं च यः प्रार्थयते सन्निकर्षं च गच्छति ।
ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः ॥ १.१५२॥
अनर्थित्वान् मनुष्याणां भयात् परिजनस्य च ।
मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति सर्वदा ॥ १.१५३॥
नासां कश्चिदगम्योऽस्ति नासां च वयसि स्थितिः ।
विरूपं रूपवन्तं वा पुमान् इतेव भुज्यते ॥ १.१५४॥
रक्तो हि जायते भोग्यो नारीणां शाटिका यथा ।
घृष्यन्ते यो दशालम्बी नितम्बे विनिवेशितः ॥ १.१५५॥
अलक्तिको यथा रक्तो निष्पीड्य पुरुषस्तथा ।
अबलाभिर्बलाद्रक्तः पाद-मूले निपात्यते ॥ १.१५६॥
एवं स राजा बहुविधं विलप्य तत्-प्रभृति दन्तिलस्य प्रसाद-पराङ्मुखः सञ्जातः । किं बहुना राज-द्वार-प्रवेशोऽपि तस्य निवारितः । दन्तिलोऽपकस्मादेव प्रसाद-पराङ्मुखमवनिपतिमवलोक्य चिन्तयामास-अहो साधु चेदमुच्यते-
कोऽर्थान् प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः
स्त्रीभिः कस्य न खण्डितं भुवि मनः को नामा राज्ञां प्रियः ।
कः कालस्य न गोचरान्तर-गतः कोऽर्थी गतो गौरवं
को वा दुर्जन-वागुरासु पतितः क्षेमेण यातः पुमान् ॥ १.१५७॥
तथा च-
काके शौचं द्यूत-कारेषु सत्यं सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः ।
क्लीबे धैर्यं मद्यपे तत्त्व-चिन्ता राजा मित्रं केन दृष्टं श्रुतं वा ॥ १.१५८॥
अपरं मयास्य भूपतेरथवान्यस्यापि कस्यचिद्राज-सम्बन्धिनः स्वप्नेऽपि नानिष्टं कृतम् । तत् किमेतत्-पराङ्मुखो मां प्रति भूपतिः इति ।
एवं तं दन्तिलं कदाचिद्राज-द्वारे विष्कम्भितं विलोक्य सम्मार्जन-कर्ता गोरम्भो विहस्य द्वारपालान् इदमूचे-भो भो द्वारपालाः ! राज-प्रसादाधिष्ठितोऽयं दन्तिलः स्वयं निग्रहानुग्रह-कर्ता च । तदनेन निवारितेन यथाहं तथा यूयमपर्ध-चन्द्र-भाजिनो भविष्यथ । तच्छ्रुत्वा दन्तिलश्चिन्तयामास-नूनमिदमस्य गोरम्भस्य चेष्टितम् । अथवा साध्विदमुच्यते-
अकुलीनोऽपि मूर्खोऽपि भूपालं योऽत्र सेवते ।
अपि सम्मानहीनोऽपि स सर्वत्र प्रपूज्यते ॥ १.१५९॥
अपि कापुरुषो भीरुः स्याच्चेन् नृपति-सेवकः ।
तथापि न पराभूतिं जनादाप्नोति मानवः ॥ १.१६०॥
एवं स बहु-विधं विलप्य विलक्ष-मनाः सोद्वेगो गत-प्रभावः स्व-गृहं निशामुखे गोरम्भमाहूय वस्त्र-युगलेन सम्मान्येदमुवाच-भद्र ! मया न तदा त्वं राग-वशान् निःसारितः । यतस्त्वं ब्राह्मणानामग्रतोऽनुचित-स्थाने समुपविष्टो दृष्ट इतपमानितः । तत् क्षम्यताम् ।
सोऽपि स्वर्ग-राज्योपमं तद्वस्त्र-युगलमासाद्य परं परितोषं गत्वा तमुवाच-भोः श्रेष्ठिन् ! क्षान्तं मया ते तत् । तदस्य सम्मानस्य कृते पश्य मे बुद्धि-प्रभावं राज-प्रसादं च । एवमुक्त्वा सपरितोषं निष्क्रान्तः । साधु चेदमुच्यते-
स्तोकेनोन्नतिमायाति स्तोकेनायातधो-गतिम् ।
अहो ससदृशो चेष्टा तुलायष्टेः खलस्य च ॥ १.१६१॥
ततश्चान्ये-द्युः स गोरम्भो राज-कुले गत्वा योग-निद्रां गतस्य भूपतेः सम्मार्जन-क्रियां कुर्वन्न् इदमाह-अहो अविवेकोऽस्मद्भूपतेः । यत् पुरीषोत्सर्गमाचरंश्चर्भटी-भक्षणं करोति ।
तच्छ्रुत्वा राजा सविस्मयं तमुवाच-रे रे गोरम्भ ! किमप्रस्तुतं लपसि । गृह-कर्मकरं मत्वा त्वां न व्यापादयामि । किं त्वया कदाचिदहमेवंविधं कर्म समाचरन् दृष्टः ?
सोऽब्रवीत्-द्यूतासक्तस्य रात्रि-जागरणेन सम्मार्जनं कुर्वाणस्य मम बलान् निद्रा समायाता । तयाधिष्ठितेन मया किञ्चिज् जल्पितम् । तन् न वेद्मि । तत् प्रसादं करोतु स्वामी निद्रा-परवशस्य इति ।
एवं श्रुत्वा राजा चिन्तितवान्-यन् मया जन्मान्तरे पुरीषोत्सर्गं कुर्वता कदापि चिर्भटिका न भक्षिता । तद्यथायं व्यतिकरोऽसम्भाव्यो ममानेन मूढेन व्याहृतः । तथा दन्तिलस्यापीति निश्चयः । तन् मया न युक्तं कृतं यत् स वराकः सम्मानेन वियोजितः । न तादृक्-पुरुषाणामेवंविधं चेष्टितं सम्भाव्यते । तदभावेन राज-कृत्यानि पौर-कृत्यानि न सर्वाणि शिथिलतां व्रजन्ति ।
एवमनेकधा विमृश्य दन्तिलं समाहूय निजाङ्ग-वस्त्राभरणादिभिः संयोज्य स्वाधिकारे नियोजयामास । अतोऽहं ब्रवीमि यो न पूजयते गर्वात् इति ।
सञ्जीवक आह-भद्र एवमेवैतत् । यद्भवताभिहितं तदेव मया कर्तव्यमिति । एवमभिहिते दमनकस्तमादाय पिङ्गलक-सकाशमगमत् । आह च-देव एष मयानीतः स सञ्जीवकः । अधुना देवः प्रमाणम् । सञ्जीवकोऽपि तं सादरं प्रणम्याग्रतः सविनयं स्थितः । पिङ्गलकोऽपि तस्य पीनायत-ककुद्मतो नख-कुलिशालङ्कृतं दक्षिण-पाणिमुपरि दत्त्वा मान-पुरःसरमुवाच-अपि शिवं भवतः । कुतस्त्वमस्मिन् वने विजने समायातोऽसि ?
तेनापात्मक-वृत्तान्तः कथितः । यथा वर्धमानेन सह वियोगः सञ्जातस्तथा सर्वं निवेदितम् । तच्छ्रुत्वा पिङ्गलकः सादरतरं तमुवाच-वयस्य न भेतव्यम् । मद्भुज-पञ्जर-परिरक्षितेन यथेच्छं त्वयाधुना वर्तितव्यम् । अन्यच्च नित्यं मत्-समीप-वर्तिना भाव्यम् । यतः कारणाद्बह्वपायं रौद्र-सत्त्व-निषेवितं वनं गुरूणामपि सत्त्वानामसेव्यम् । कुतः शष्प-भोजिनाम् ।
एवमुक्त्वा सकल-मृग-परिवृतो यमुना-कच्छमवतीर्योदक-ग्रहणं कृत्वा स्वेच्छया तदेव वनं प्रविष्टः । ततश्च करकट-दमनक-निक्षिप्त-राज्य-भारः सञ्जीविकेन सह सुभाषित-गोष्ठीमनुभवन्न् आस्ते । अथवा साध्विदमुच्यते-
यदृच्छयापुपनतं सकृत् सज्जन-सङ्गतम् ।
भवतजरमत्यन्तं नाभ्यास-क्रममीक्षते ॥ १.१६२॥
सञ्जीवकेनापनेक-शास्त्रावगाहनादुत्पन्न-बुद्धि-प्रागल्भ्येन स्तोकैरेवाहोभिर्मूढ-मतिः पिङ्गलको धीमांस्तथा कृतो यथारण्य-धर्माद्वियोज्य ग्राम्य-धर्मेषु नियोजितः । किं बहुना प्रत्यहं पिङ्गलक-सञ्जीवकावेव केवलं रहसि मन्त्रयतः । शेषः सर्वोऽपि मृग-जनो दूरीभूतस्तिष्ठति । करटक-दमनकावपि प्रवेशं न लभेते । अन्यच्च सिंह-पराक्रमाभावात् सर्वोऽपि मृग-जनस्तौ च शृगालौ क्षुधा-व्याधि-बाधिता एकां दिशमाश्रित्य स्थिताः ।
उक्तं च-
फल-हीनं नृपं भृत्याः कुलीनमपि चोन्नतम् ।
सन्तज्यानत्र गच्छन्ति शुष्कं वृक्षमिवाण्डजाः ॥ १.१६३॥
तथा च-
अपि सम्मान-संयुक्ताः कुलीना भक्ति-तत्-पराः ।
वृत्ति-भङ्गान् महीपालं त्यजन्तेव हि सेवकाः ॥ १.१६४॥
अन्यच्च-
कालातिक्रमणं वृत्तेर्यो न कुर्वीत भूपतिः ।
कदाचित् तं न मुञ्चन्ति भर्त्सिता अपि सेवकाः ॥ १.१६५॥
तथा च केवलं सेवका इत्थम्भूता यावत् समस्तमपेतज् जगत् परस्परं भक्षणार्थं सामादिभिरुपायैस्तिष्ठति । तद्यथा-
देशानामुपरि क्ष्माभृदातुराणां चिकित्सकाः ।
वणिजो ग्राहकाणां च मूर्खाणामपि पण्डिताः ॥ १.१६६॥
प्रमादिनां तथा चौरा भिक्षुका गृह-मेधिनाम् ।
गणिकाः कामिनां चैव सर्व-लोकस्य शिल्पिनः ॥ १.१६७॥
सामादि-सज्जितैः पाशैः प्रतीक्षन्ते दिवा-निशम् ।
उपजीवन्ति शक्त्या हि जलजा जलदान् इव ॥ १.१६८॥
अथवा साध्विदमुच्यते-
सर्पाणां च खलानां च पर-द्रव्यापहारिणाम् ।
अभिप्राया न सिध्यन्ति तेनेदं वर्तते जगत् ॥ १.१६९॥
अत्तुं वाञ्छति शाम्भवो गणपतेराखुं क्षुधार्तः फणी
तं च क्रौञ्च-रिपोः शिखी गिरि-सुता-सिंहोऽपि नागाशनम् ।
इत्थं यत्र परिग्रहस्य घटना शम्भोरपि स्याद्गृहे
तत्रापस्य कथं न भावि जगतो यस्मात् स्वरूपं हि तत् ॥ १.१७०॥
ततः स्वामि-प्रसाद-रहितौ क्षुत्-क्षाम-कण्ठौ परस्परं करटक-दमनकौ मन्त्रयेते । तत्र दमनको ब्रूते-आर्य करटक । आवां तावदप्रधानतां गतौ । एष पिङ्गलकः सञ्जीवकानुरक्तः स्व-व्यापार-पराङ्मुखः सञ्जातः । सर्वोऽपि परिजनो गतः । तत् किं क्रियते ।
करटक आह-यद्यपि त्वदीय-वचनं न करोति तथापि स्वामी स्व-दोष-नाशाय वाच्यः । उक्तं च-
अशृन्वन्नपि बोद्धव्यो मन्त्रिभिः पृथिवी-पतिः ।
यथा स्व-दोष-नाशाय विदुरेणाम्बिकासुतः ॥ १.१७१॥
तथा च-
मदोन्मत्तस्य भूपस्य कुञ्जरस्य च गच्छतः ।
उन्मार्गं वाच्यतां यान्ति महामात्राः समीपगाः ॥ १.१७२॥
तत् त्वयैष शष्प-भोजी स्वामिनः सकाशमानीतः । तत् स्वहस्तेनाङ्गाराः कर्षिताः ।
दमनक आह-सत्यमेतत् । ममायं दोषः । न स्वामिनः । उक्तं च-
जम्बूको हुडु-युद्धेन वयं चाषाढ-भूतिना ।
दूतिका पर-कार्येण त्रयो दोषाः स्वयं कृताः ॥ १.१७३॥
करटक आह-कथमेतत् ?
सोऽब्रवीत्-
कथा ४ देवशर्म-परिव्राजक-कथा
अस्ति कस्मिंश्चिद्विविक्त-प्रदेशे मठायतनम् । तत्र देव-शर्मा नाम परिव्राजकः पर्तिवसति स्म । तस्यानेक-साधु-जन-दत्त-सूक्ष्म-वस्त्र-विक्रय-वशात् कालेन महती वित्त-मात्रा सञ्जाता । ततः स न कस्यचिद्विश्वसिति । नक्तं दिनं कक्षान्तरात् तां मात्रां न मुञ्चति । अथवा साधु चेदमुच्यते-
अर्थानामर्जने दुःखमर्जितानां च रक्षणे ।
नाशे दुःखं व्यये दुःखं धिगर्थाः कष्ट-संश्रयाः ॥ १.१७४॥
अथाषाढ-भूतिर्नाम पर-वित्तापहारी धूर्तस्तामर्थ-मात्रां तस्य कक्षान्तर-गतां लक्षयित्वा व्यचिन्तयत्-कथं मयास्येयमर्थ-मात्रा हर्तव्या इति ।
तदत्र मठे तावद्दृढ-शिला-सञ्चय-वशाद्भित्ति-भेदो न भवति । उच्चैस्तरत्वाच्च द्वारे प्रवेशो न स्यात् । तदेनं माया-वचनैर्विश्वास्याहं छात्रतां व्रजामि येन स विश्वस्तः कदाचिद्विश्वासमेति । उक्तं च-
निस्पृहो नाधिकारी स्यान् नाकामी मण्डन-प्रियः ।
नाविदग्धः प्रियं ब्रूयात् स्फुट-वक्ता न वञ्चकः ॥ १.१७५॥
एवं निश्चित्य तस्यान्तिकमुपगम्य-ओं नमः शिवाय-इति प्रोच्चार्य साष्टाङ्गं प्रणम्य च सप्रश्रयमुवाच-भगवनसारः संसारोऽयम् । गिरि-नदी-वेगोपमं यौवनम् । तृणाग्नि-समं जीवितम् । शरदभ्र-च्छाया-सदृशा भोगाः स्वप्न-सदृशो मित्र-पुत्र-कलत्र-भृत्य-वर्ग-सम्बन्धः । एवं मया सम्यक् परिज्ञातम् । तत् किं कुर्वतो मे संसार-समुद्रोत्तरणं भविष्यति ।
तच्छ्रुत्वा देव-शर्मा सादरमाह-वत्स ! धन्योऽसि यत् प्रथमे वयसेवं विरक्ती-भावः । उक्तं च-
पूर्वं वयसि यः शान्तः स शान्त इति मे मतिः ।
धातुषु क्षीयमाणेषु शमः कस्य न जायते ॥ १.१७६॥
आदौ चित्ते ततः काये सतां सञ्जायते जरा ।
असतां च पुनः काये नैव चित्ते कदाचन ॥ १.१७७॥
यच्च मां संसार-सागरोत्तरणोपायं पृच्छसि । तच्छ्रूयताम्-
शूद्रो वा यदि वान्योऽपि चण्डालोऽपि जटाधरः ।
दीक्षितः शिव-मन्त्रेण स भस्माङ्गी शिवो भवेत् ॥ १.१७८॥
षड्-अक्षरेण मन्त्रेण पुष्पमेकमपि स्वयम् ।
लिङ्गस्य मूर्ध्नि यो दद्यान् न स भूयोऽभिजायते ॥ १.१७९॥
तच्छ्रुत्वाषाढ-भूतिस्तत्-पादौ गृहीत्वा सप्रश्रयमिदमाह-भगवन्, तर्हि दीक्षया मेऽनुग्रहं कुरु ।
देवशर्मा आह-वत्स अनुग्रहं ते करिष्यामि । परन्तु रात्रौ त्वया मठ-मध्ये न प्रवेष्टव्यम् । यत्-कारणं निःसङ्गता यतीनां प्रशस्यते तव च ममापि च । उक्तं च-
दुर्मन्त्रान् नृपतिर्विनश्यति यतिः सङ्गात् सुतो लालसाद्
विप्रोऽनध्ययनात् कुलं कुतनयाच्छीलं खलोपासनात् ।
मैत्री चाप्रणयात् समृद्धिरनयात् स्नेहः प्रवासाश्रयात्
स्त्री गर्वादनवेक्षणादपि कृषिस्त्यागात् प्रमादाद्धनम् ॥ १.१८०॥
तत् त्वया व्रत-ग्रहणानन्तरं मठ-द्वारे तृण-कुटीरके शयितव्यमिति ।
स आह-भगवन् ! भवदादेशः प्रमाणम् । परत्र हि तेन मे प्रयोजनम् ।
अथ कृत-शयन-समयं देवशर्म-निग्रहं कृत्वा शास्त्रोक्त-विधिना शिष्यतामनयत् । सोऽपि हस्त-पादावमर्दनादि-परिचर्यया तं परितोषमनयत् । पुनस्तथापि मुनिः कक्षान्तरान् मात्रां न मुञ्चति । अथैवं गच्छति काले आषाढ-भूतिश्चिन्तयामास-अहो, न कथञ्चिदेष मे विश्वासमागच्छति । तत् किं दिवापि शस्त्रेण मारयामि, किं वा विषं प्रयच्छामि ? किं वा पशु-धर्मेण व्यापादयामि ? इति ।
एवं चिन्तयतस्तस्य देवशर्मणोऽपि शिष्य-पुत्रः कश्चिद्ग्रामादामन्त्रणार्थं समायातः । प्राह च-भगवन्, पवित्रारोपण-कृते मम गृहमागम्यतामिति ।
तच्छ्रुत्वा देवशर्माषाढभूतिना सह प्रहृष्ट-मनाः प्रस्थितः । अथैवं तस्य गच्छतोऽग्रे काचिन् नदी समायाता । तां दृष्ट्वा मात्रां कक्षान्तरादवतार्य कन्था-मध्ये सुगुप्तां निधाय स्नात्वा देवार्चनं विधाय तदनन्तरमाषाढभूतिमिदमाह-भो आषाढभूते ! यावदहं पुरीषोत्सर्गं कृत्वा समागच्छामि, तावदेषा कन्था योगेश्वरस्य स्वावधानतया रक्षणीया । इतुक्त्वा गतः ।
आषाढभूतिरपि तस्मिन्नदर्शनी-भूते मात्रामादाय सत्वरं प्रस्थितः । देवशर्मापि छात्र-गुणानुरञ्जित-मनाः सुविश्वस्तो यावदुपविष्टस्तिष्ठति तावत् सुवर्ण-रोम-देह-यूथ-मध्ये हुडु-युद्धमपश्यत् । अथ रोष-वशाद्धुडु-युगलस्य दूरमपसरणं कृत्वा भूयोऽपि समुपेत्य लालट-पट्टाभ्यां प्रहरतो भूरि रुधिरं पतति । तच्च जम्बूको जिह्वा-लौल्येन रङ्ग-भूमिं प्रावेश्यास्वादयति । देवशर्मापि तदालोक्य व्यचिन्तयत्-अहो मन्द-मतिरयं जम्बूकः । यदि कथमपनयोः सङ्घट्टे पतिष्यति तन् नूनं मृत्युमवाप्स्यतीति वितर्कयामि ।
क्षणान्तरे च तथैव रक्तास्वादन-लौल्यान् मध्ये प्रविशंस्तयोः शिरः-सम्पाते पतिओत् मृतश्च शृगालः । देवशर्मापि तं शोचमानो मात्रामुद्दिश्य शनैः शनैः प्रस्थितो यावदाषाढभूतिं न पश्यति ततश्चौत्सुक्येन शौचं विधाय यावत् कन्थामालोकयति तावन् मात्रां न पश्यति । ततश्च-हा हा मुषितोऽस्मि इति जल्पन् पृथिवी-तले मूर्च्छया निपपात । ततः क्षणाच्चेतनां लब्ध्वा भूयोऽपि समुत्थाय फूत्कर्तुमारब्धः-भो आषाढभूते ! क्व मां वञ्चयित्वा गतोऽसि ? तद्देहि मे प्रतिवचनम् ।
एवं बहु विलप्य तस्य पद-पद्धतिमन्वेषयन् शनैः शनैः प्रस्थितः । अथैव गच्छन् सायन्तन-समये कञ्चिद्ग्राममाससाद । अथ तस्माद्ग्रामात् कश्चित् कौलिकः सभार्ह्यो मद्य-पान-कृते समीप-वर्तिनि नगरे प्रस्थितः । देवशर्मापि तमालोक्य प्रोवाच-भो भद्र वयं सूर्योढा अतिथयस्तवान्तिकं प्राप्ताः । न कमपत्र ग्रामे जानीमः । तद्गृह्यतामतिथि-धर्मः । उक्तं च-
सम्प्राप्तो योऽतिथिः सायं सूर्योढे गृह-मेधिनाम् ।
पूजया तस्य देवत्वं प्रयान्ति गृह-मेधिनः ॥ १.१८१॥
तथा च-
तृणानि भूमिरुदकं वाक्-चतुर्थी च सूनृता ।
सतामेतानि हर्म्येषु नोच्छिद्यन्ते कदाचन ॥ १.१८२॥
स्वागतेनाग्नयस्तृप्ता आसनेन शतक्रतुः ।
पाद-शौचेन पितरः अर्घाच्छम्भुस्तथातिथेः ॥ १.१८३॥
कौलिकोऽपि तच्छ्रुत्वा भार्यामाह-प्रिये, गच्छ त्वतिथिमादाय गृहं प्रति पाद-शौच-भोजन-शयनादिभिः सत्कृत्य त्वं तत्रैव तिष्ठ । अहं तव कृते प्रभूत-मद्यमानेष्यामि । एवमुक्त्वा प्रस्थितः । सापि भार्या पुंश्चली तमादाय प्रहसित-वदना देवदत्तं मनसि ध्यायन्ती गृहं प्रति प्रतस्थे । अथवा साधु चेदमुच्यते-
दुर्दिवसे घन-तिमिरे दुःसञ्चारासु नगर-वीथीषु ।
पत्युर्विदेश-गमने परम-सुखं जघन-चपलायाः ॥ १.१८४॥
तथा च-
पर्यङ्केष्वास्तरणं पतिमनुकूलं मनोहरं शयनम् ।
तृणमिव लघु मन्यन्ते कामिन्यश्चौर्य-रत-लुब्धाः ॥ १.१८५॥
तथा च-
केलिं प्रदहति लज्जा शृङ्गारोऽस्थीनि चाटवः कटवः ।
वन्ध-त्रयाः परितोषो न किञ्चिदिष्टं भवेत् पत्यौ ॥ १.१८६॥
कुल-पतनं जन-गर्हां बन्धनमपि जीवितव्य-सन्देहम् ।
अङ्गीकरोति कुलटा सततं पर-पुरुष-संसक्ता ॥ १.१८७॥
अथ कौलिक-भार्या गृहं गत्वा देव-शर्मणे गतास्तरणं भग्नां च खट्वां समर्प्येदमाह-भो भगवन् ! यावदहं स्व-सखीं ग्रामादभ्यागतां सम्भाव्य द्रुतमागच्छामि तावत् त्वया मद्गृहेऽप्रमत्तेन भाव्यम् ।
एवमभिधाय शृङ्गार-विधिं विधाय यावद्देवदत्तमुद्दिश्य व्रजति तावत् तद्भर्ता सम्मुखो मद-विह्वलाङ्गो मुक्त-केशः पदे पदे प्रस्खलन् गृहीत-मद्य-भाण्डः समभ्येति । तं च दृष्ट्वा सा द्रुततरं व्याघुट्य स्व-गृहं प्रविश्य नुक्त-शृङ्गार-वेशा यथा-पूर्वमभवत् । कौलिकोऽपि तां पलायमानां कृताद्भुत-शृङ्गारां विलोक्य प्रागेव कर्ण-परम्परया तस्याः श्रुतावपवाद-क्षुभित-हृदयः स्वाकारं निगूहमानः सदैवास्ते । ततश्च तथाविधं चेष्टितमवलोक्य दृष्ट-प्रत्ययः क्रोध-वशगो गृहं प्रविश्य तामुवाच-आः पापे पुंश्चलि ! क्व प्रस्थितासि ?
सा प्रोवाच-अहं त्वत्-सकाशादागता न कुत्रचिदपि निर्गता । तत् कथं मद्य-पान-वशादप्रस्तुतं वदसि ? अथवा साध्विदमुच्यते-
वैकल्यं धरणी-पातमयथोचित-जल्पनम् ।
सन्निपातस्य चिह्नानि मद्यं सर्वाणि दर्शयेत् ॥ १.१८८॥
कर-स्पन्दोऽम्बर-त्यागस्तेजो-हानिः सरागता ।
वारुणी-सङ्गजावस्था भानुनापनुभूयते ॥ १.१८९॥
सोऽपि तच्छ्रुत्वा प्रतिकूल-वचनं वेश-विपर्ययं चावलोक्य तमाह-पुंश्चलि ! चिर-कालं श्रुतो मया तवापवादः । तदद्य स्वयं सञ्जात-प्रत्ययस्तव यथोचितं निग्रहं करोमि । इतभिधाय लगुड-प्रहारैस्तां जर्जरित-देहां विधाय स्थूणया सह दृढ-बन्धनेन बद्ध्वा सोऽपि मद-विह्वलो विज्ञाय तां गत्वेदमाह-सखि ! स देवदत्तस्तस्मिन् स्थाने त्वां प्रतीक्षते । तच्छीघ्रमागम्यतामिति ।
सा चाह-पश्य ममावस्थाम् । तत् कथं गच्छामि ? तद्गत्वा ब्रूहि तं कामिनं यदस्यां रात्रौ न त्वया सह समागमः ।
नापिती प्राह-सखि, मा मैवं वद । नायं कुलटा-धर्मः । उक्तं च-
विषम-स्थ-स्वादु-फल-ग्रहण-व्यवसाय-निश्चयो येषाम् ।
उष्ट्राणामिव तेषां मन्येऽहं शंसितं जन्म ॥ १.१९०॥
तथा च-
सन्दिग्धे पर-लोके जनापवादे च जगति बहु-चित्रे ।
स्वाधीने पर-रमणे धन्यास्तारुण्य-फल-भाजः ॥ १.१९१॥
अन्यच्च-
यदि भवति देव-योगात् पुमान् विरूपोऽपि बन्धको रहसि ।
न तु कृच्छ्रादपि भद्रं निज-कान्तं सा भजतेव ॥ १.१९२॥
साब्रवीत्-यदेवं तर्हि कथय कथं दृढ-बन्धन-बद्धा सती तत्र गच्छामि । सन्निहितश्चायं पापात्मा मत्-पतिः ।
नापिताह-सखि, मद-विह्वलोऽयं सूर्य-कर-स्पृष्टः प्रबोधं यास्यति । तदहं त्वमुन्मोचयामि । मामात्म-स्थाने बद्ध्वा द्रुततरं देव-दत्तं सम्भाव्यागच्छ ।
साब्रवीत्-एवमस्तु इति ।
तदनु सा नापिती तां स्व-सखीं बन्धनाद्विमोच्य तस्याः स्थाने यथा-पूर्वमात्मानं बद्ध्वा तां देवदत्त-सकाशे सङ्केत-स्थानं प्रेषितवती । तथानुष्ठिते कौलिकः कस्मिंश्चित् क्षणे समुत्थाय किञ्चिद्गत-कोपो विमदस्तामाह-हे परुष-वादिनि ! यदद्य-प्रभृति गृहान् निष्क्रमणं न करोषि, न च परुषं वदसि, ततस्त्वामुन्मोचयामि ।
नापितपि स्वर-भेद-भयाद्यावन् न किञ्चिदूचे, तावत् सोऽपि भूयो भूयस्तां तदेवाह । अथ सा यावत् प्रत्युत्तरं किमपि न ददौ, तावत् स प्रकुपितस्तीक्ष्ण-शस्त्रमादाय नासिकामच्छिनत् । आह च-रे पुंश्चलि ! तिष्ठेदानीम् । त्वां भूयस्तोषयिष्यामि । इति जल्पन् पुनरपि निद्रा-वशमगात् ।
देवशर्मापि वित्त-नाशात् क्षुत्क्षाम-कण्ठो नष्ट-निद्रस्तत् सर्वं स्त्री-चरित्रमपश्यत् । सापि कौलिक-भार्या यथेच्छया देवदत्तेन सह सुरत-सुखमनुभूय कस्मिंश्चित् क्षणे स्व-गृहमागतय तां नापितीमिदमाह-अयि ! शिवं भवत्याः । नायं पापात्मा मम गताया उत्थितः ।
नापिताह-शिवं नासिकया विना शेषस्य शरीरस्य । तद्द्रुतं तां मोचय बन्धनाद्यावन् नायं मां पश्यति, येन स्व-गृहं गच्छामि ।
तथानुष्ठिते भूयोऽपि कौलिक उत्थाय तामाह-पुंश्चलि ! किमद्यापि न वदसि ? किं भूयोऽपतो दुष्टतरं निग्रहं कर्ण-च्छेदेन करोमि ?
अथ सा सकोपं साधिक्षेपमिदमाह-धिङ्महा-मूढ ! को मां महा-सतीं धर्षयितुं व्यङ्गयितुं वा समर्थः ? तच्छृण्वन्तु सर्वेऽपि लोक-पालाः ।
आदित्य-चन्द्र-हरि-शङ्कर-वासवाद्याः
शक्ता न जेतुमतिदुःख-कराणि यानि ।
तानीन्द्रियाणि बलवन्ति सुदुर्जयानि
ये निर्जयन्ति भुवने बलिनस्त एके ॥ १.१९३॥
तद्यदि मम सतीत्वमस्ति, मनसापि पर-पुरुषो नाभिलषितः, ततो देवा भूयोऽपि मे नासिकां तादृग्-रूपाक्षतां कुर्वन्तु । अथवा यदि मम चित्ते पर-पुरुषस्य भ्रान्तिरपि भवति, मां भस्मसान् नयन्तु । एवमुक्त्वा भूयोऽपि तमाह-भो दुरात्मन् ! पश्य मे सतीत्व-प्रभावेण तादृशेव नासिका संवृत्ता ।
अथासावुल्मुकमादाय यावत् पश्यति, तावत् तद्रूपां नासिकां च भूतले रक्त-प्रवाहं च महान्तमपश्यत् । अथ स विस्मित-मनास्तां बन्धनाद्विमुच्य शय्यायामारोप्य च चाटु-शतैः पर्यतोषयत् । देवशर्मापि तं सर्व-वृत्तान्तमालोक्य विस्मित-मना इदमाह-
शम्बरस्य च या माया या माया नमुचेरपि ।
बलेः कुम्भीनसश्चैव सर्वास्ता योषितो विदुः ॥ १.१९४॥
हसन्तं प्रहसन्तेता रुदन्तं प्ररुदन्तपि ।
अप्रियं प्रिय-वाक्यैश्च गृह्णन्ति काल-योगतः ॥ १.१९५॥
उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः ।
स्त्री-बुद्ध्या न विशिष्येते ताः स्म रक्ष्याः कथं नरैः ॥ १.१९६॥
अनृतं सत्यमिताहुः सत्यं चापि तथानृतम् ।
इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह ॥ १.१९७॥
अन्यत्रापुक्तम्-
नातिप्रसङ्गः प्रमदासु कार्यो
नेच्छेद्बलं स्त्रीषु विवर्धमानम् ।
अतिप्रसक्तैः पुरुषैर्यतस्ताः
क्रीडन्ति काकैरिव लून-पक्षैः ॥ १.१९८॥
सुमुखेन वदन्ति वगुना प्रहरन्तेव शितेन चेतसा ।
मधु तिष्ठति वाचि योषितां हृदये हालाहलं महद्विषम् ॥ १.१९९॥
अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते ।
पुरुषैः सुख-लेश-वञ्चितैर्मधु-लुब्धैः कमलं यथालिभिः ॥ १.२००॥
अपि च-
आवर्तः संशयानामविनय-भवनं पत्तनं साहसानां दोषाणां सन्निधानं कपट-शत-मयं क्षेत्रमप्रत्ययानाम् ।
स्वर्ग-द्वारस्य विघ्नं नरक-पुर-मुखं सर्व-माया-करण्डं स्त्री-यन्त्रं केन सृष्टं विषममृत-मयं प्राणि-लोकस्य पाशः ॥ १.२०१॥
कार्कश्यं स्तनयोर्दृशोस्तरलतालीकं मुखे श्लाघ्यते कौटिल्यं कच-सञ्चये च वचने मान्द्यं त्रिके स्थूलता ।
भीरुत्वं हृदये सदैव कथितं माया-प्रयोगः प्रिये यासां दोष-गणो गुणो मृग-दृशां ताः स्युर्नराणां प्रियाः ॥ १.२०२॥
एता हसन्ति च रुदन्ति च कार्य-हेतोर्
विश्वासयन्ति च परं न च विश्वसन्ति ।
तस्मान् नरेण कुल-शील-समन्वितेन नार्यः श्मशान-घटिका इव वर्जनीयाः ॥ १.२०३॥
तस्मान् नरेण कुलशीलवता सदैव
नार्यः श्मशान-वटिका इव वर्जनीयाः ।
व्यकीर्ण-केसर-कराल-मुखा मृगेन्द्रा
नागाश्च भूरि-मद-राज-विराजमानाः ॥ १.२०४॥
कुर्वन्ति तावत् प्रथमं प्रियाणि
यावन् न जानन्ति नरं प्रसक्तम् ।
ज्ञात्वा च तं मन्मथ-पाश-बद्धं
ग्रस्तामिषं मीनमिवोद्धरन्ति ॥ १.२०५॥
समुद्र-वीचीव चल-स्वभावाः
सन्ध्याभ्र-रेखेव मुहूर्त-रागाः ।
स्त्रियः कृतार्थाः पुरुषं निरर्थं
निष्पीडोतालक्तकवत् त्यजन्ति ॥ १.२०६॥
अनृतं साहसं माया मूर्खत्वमतिलुब्धता ।
अशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः ॥ १.२०७॥
सम्मोहयन्तिमदयन्ति विडम्बयन्ति
निर्भर्स्तयन्ति रमयन्ति विषादयन्ति ।
एताः प्रविश्य सरलं हृदयं नराणां
किं वा न वाम-नयना न समाचरन्ति ॥ १.२०८॥
अन्तर्विष-मया हेता बहिश्चैव मनोरमाः ।
गुञ्जा-फल-समाकारा योषितः केन निर्मिताः ॥ १.२०९॥
एवं चिन्तयतस्तस्य परिव्राजकस्य सा निशा महता कृच्छ्रेणातिचक्राम । सा च दूतिका छिन्न-नासिका स्व-गृहं गत्वा चिन्तयामास-किमिदानीं कर्तव्यम् ? कथमेतन् महच्छिद्रं स्थगयितव्यम् ?
अथ तस्या एवं विचिन्तयन्त्या भर्ता कार्य-वशाद्राज-कुले पर्युषितः प्रत्यूषे च स्व-गृहमभ्युपेत्य द्वार-देश-स्थो विविध-पौर-कृत्योत्सुकतया तामाह-भद्रे शीघ्रमानीयतां क्षुर-भाण्डं येन क्षौर-कर्म-करणाय गच्छामि ।
सापि छिन्ननासिका गृह-मध्य-स्थितैव कार्य-करणापेक्षया क्षुर-भाण्डात् क्षुरमेकं समाकृष्य तस्याभिमुखं प्रेषयामास । नापितोऽपुत्सुकतया तमेकं क्षुरमवलोक्य कोपाविष्टः सन् तदभिमुखमेव तं क्षुरं प्राहिणोत् । एतस्मिन्नन्तरे सा दुष्टोर्ध्व-बाहू विधाय फुतकर्तु-मना गृहान् निश्चक्राम । अहो पश्यत पापेनानेन मम सदाचार-वर्तिन्याः नासिका-च्छेदो विहितः । तत्-परित्रायतां परित्रायताम् ।
अत्रान्तरे राज-पुरुषाः समभ्येत्य तं नापितं लगुड-प्रहारैर्जर्जरीकृत्य दृढ-बन्धनैर्बद्ध्वा तया छिन्ननासिकया सह धर्माधिकरण-स्थानं नीत्वा सभ्यान् ऊचुः-शृण्वन्तु भवन्तः सभासदः । अनेन नापितेनापराधं विना स्त्री-रत्नमेतद्व्यङ्गितम् । तदस्य यद्युज्यते तत् क्रियताम् ।
इतभिहिते सभ्या ऊचुः-रे नापित ! किमर्थं त्वया भार्या व्यङ्गिता । किमनया पर-पुरुषोऽभिलषितः । उन्त स्वित् प्राण-द्रोहः कृतः, किं वा चौर्य-कर्माचरितम् । तत् कथ्यतामस्या अपराधः ?
नापितोऽपि प्रहार-पीडित-तनुर्वक्तुं न शशाक । अथ तं तूष्णीम्भूतं दृष्ट्वा पुनरूचुः-अहो, सत्यमेतद्राज-पुरुषाणां वचः । पापात्मायम् । अनेनेयं निर्दोषा वराकी दूषिता । उक्तं च-
भिन्न-स्वर-मुख-वर्णः शङ्कित-दृष्टिः समुत्पतित-तेजाः ।
भवति हि पापं कृत्वा स्व-कर्म-सन्त्रासितः पुरुषः ॥ १.२१०॥
तथा च-
आयाति स्खलितैः पादैर्मुख-वैवर्ण्य-संयुतः ।
ललाट-स्वेद-भाग्भूरि-गद्गदं भाषते वचः ॥ १.२११॥
अधो-दृष्टिर्वदेत् कृत्वा पापं प्राप्तः सभां नरः ।
तस्माद्यत्नात् परिज्ञेयाश्चिह्नैरेतैर्विचक्षणैः ॥ १.२१२॥
अन्यच्च-
प्रसन्न-वदनो दृष्टः स्पष्ट-वाक्यः सरोष-दृक् ।
सभायां वक्ति सामर्षं सावष्टम्भो नरः शुचिः ॥ १.२१३॥
तदेष दुष्ट-चरित्र-लक्षणो दृश्यते । स्त्री-धर्सणाद्वध्य इति । तच्छूलीयामारोप्यतामिति ।
अथ वध्य-स्थाने नीयमानं तमवलोक्य देव-शर्मा तान् धर्माधिकृतान् गत्वा प्रोवाच-भो भोः, अन्यान्येनैष वराको वध्यते नापितः । साधु-समाचार एषः । तच्छ्रूयतां मे वाक्यम्-जम्बूको हुडु-युद्धेन इति ।
अथ ते सभ्या ऊचुः-भो भगवन् ! कथमेतत् ?
ततो देवशर्मा तेषां त्रयाणामपि वृत्तान्तं विस्तरेणाकथयत् । तदाकर्ण्य सुविस्मित-मनसस्ते नापितं विमोच्य मिथः प्रोचुः-अहो !
अवध्या ब्राह्मणा गावो स्त्रियो बालाश्च ज्ञातयः ।
येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः ॥ १.२१४॥
तदस्या नासिका-च्छेदः स्व-कर्मणा हि संवृत्तः । ततो राज-निग्रहस्तु कर्ण-च्छेदः कार्यः । तथानुष्ठिते देवशर्मापि वित्त-नाश-समुद्भूत-शोक-रहितः पुनरपि स्वकीयं मठायतनं जगाम । अतोऽहं ब्रवीमि-जम्बूको हुडु-युद्धेन (१.१७४) इति ।
करटक आह-एवं-विधे व्यतिकरे किं कर्तव्यमावयोः ?
दमनकोऽब्रवीत्-एवं-विधेऽपि समये मम बुद्धि-स्फुरणं भविष्यति, येन सञ्जीवकं प्रभोर्विश्लेषयिष्यामि । उक्तं च, यतः-
एकं हन्यान् न वा हन्यादिषुः क्षिप्तो धनुष्मता ।
प्राज्ञेन तु मतिः क्षिप्ता हन्याद्गर्भ-गतानपि ॥ १.२१५॥
तदहं माया-प्रपञ्चेन गुप्तमाश्रित्य तं स्फोटयिष्यामि ।
करटक आह-भद्र, यदि कथमपि तव माया-प्रवेशं पिङ्गलको ज्ञास्यति, सञ्जीवको वा तदा नूनं विघात एव ।
सोऽब्रवीत्-तात, मैवं वद । गूढ-बुद्धिभिरापत्-काले विधुरेऽपि दैवे बुद्धिः प्रयोक्तव्या । नोद्यमस्त्याज्यः । कदाचिद्घुणाक्षर-न्यायेन बुद्धेः साम्राज्यं भवति । उक्तं च-
त्याज्यं न धैर्यं विधुरेऽपि दैवे
धैर्यात् कदाचित् स्थित्माप्नुयात् सः ।
याते समुद्रेऽपि हि पोत-भङ्गे
सांयात्रिको वाञ्छति कर्म एव ॥ १.२१६॥
तथा च-
उद्योगिनं सततमत्र समेति लक्ष्मीर्
दैवं हि दैवमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्म-शक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ १.२१७॥
तदेवं ज्ञात्वा सुगूढ-बुद्धि-प्रभावेण यथा तौ द्वावपि न ज्ञास्यतः, तथा मिथो वियोजयिष्यामि । उक्तं च-
सुप्रयुक्तस्य दम्भस्य ब्रह्मापन्तं न गच्छति ।
कौलिको विष्णु-रूपेण राज-कन्यां निषेवते ॥ १.२१८॥
करटक आह-कथमेतत् ?
सोऽब्रवीत्-
कथा ५ कौलिक-रथकार-कथा
कस्मिंश्चिदधिष्ठाने कौलिक-रथकारौ मित्रे प्रतिवसतः स्म । तत्र च बाल्यात्-प्रभृति सहचारिणौ परस्परमतीव स्नेह-परौ सदैक-स्थान-विहारिणौ कालं नयतः । अथ कदाचित् तत्राधिष्ठाने कस्मिंश्चिद्देवायतने यात्रा-महोत्सवः संवृत्तः । तत्र च नट-नर्तक-चारण-सङ्कुले नाना-देशागत-जनावृते तौ सहचरौ भ्रमन्तौ काञ्चिद्राज-कन्यां करेणुकारूढां सर्व-लक्षण-सनाथां कञ्चुकि-वर्ष-धर-परिवारितां देवता-दर्शनार्थं समायातां दृष्टवन्तौ । अथासौ कौलिकस्तां दृष्ट्वा विषार्दित इव दुष्ट-ग्रह-गृहीत ईव काम-शरैर्हन्यमानः सहसा भूतले निपपात । अथ तं तदवस्थमवलोक्य रथकारस्तद्दुःख-दुःखित आप्त-पुरुषैस्तं समुत्क्षिप्य स्व-गृहमानाययत् । तत्र च विविधैः शीतोपचारैश्चिकित्सकोपदिष्टैर्मन्त्र-वादिभिरुपचर्यमाणैश्चिरात् कथञ्चित् सचेतनो बभूव ।
ततो रथकारेण पृष्टः-भो मित्र ! किमेवं त्वमकस्माद्विचेतनः सञ्जातः ? तत् कथ्यतामात्म-स्वरूपम् ?
स आह-वयस्य ! यदेवं तच्छृणु मे रहस्यं येन सर्वामात्म-वेदनां ते वदामि । यदि त्वं मां सुहृदं मन्यसे ततः काष्ठ-प्रदानेन प्रसादः क्रियताम् । क्षम्यतां यद्वा किञ्चित् प्रणय्>अतिरेकादयुक्तं तव मयानुष्ठितम् ।
सोऽपि तदाकर्ण्य बाष्प-पिहित-नयनः सगद्गदमुवाच-वयस्य, यत् किञ्चिद्दुःख-कारणं तद्वद येन प्रतीकारः क्रियते, यदि शक्यते कर्तुम् । उक्तं च-
औषधार्थ-सुमन्त्राणां बुद्धेश्चैव महात्मनाम् ।
असाध्यं नास्ति लोकेऽत्र यद्ब्रह्माण्डस्य मध्यगम् ॥ १.२१९॥
तदेषां चतुर्णां यदि साध्यं भविष्यति तदाहं साधयिष्यामि ।
कौलिक आह-वयस्य, एतेषामन्येषामपि सहस्राणामुपायानामसाध्यं तन् मे दुःखम् । तस्मान् मम मरणे मा काल-क्षेपं कुरु ।
रथकार आह-भो मित्र ! यद्यपसाध्यं तथापि निवेदय येनाहमपि तदसाध्यं मत्वा त्वया समं वह्नौ प्रविशामि । न क्षणमपि त्वद्वियोगं सहिष्ये । एष मे निश्चयः ।
कौलिक आह-वयस्य, यासौ राज-कन्या करेणुमारूढा तत्रोत्सवे दृष्टा, तस्या दर्शनानन्तरं मकर-ध्वजेन ममेयमवस्था विहिता । तन् न शक्नोमि तद्वेदनां सोढुम् । तथा चोक्तम्-
मत्तेभ-कुम्भ-परिणाहिनि कुङ्कुमार्द्रे
तस्याः पयोधर-युगे रति-खेद-खिन्नः ।
वक्षो निधाय भुज-पञ्जर-मध्य-वर्ती
स्वप्स्ये कदा क्षणमवाप्य तदीय-सङ्गम् ॥ १.२२०॥
तथा च-
रागी बिम्बाधरोऽसौ स्तन-कलश-युगं यौवनारूढ-गर्वं
नीचा नाभिः प्रकृत्या कुटिलकमलकं स्वल्पकं चापि मध्यम् ।
कुर्वत्वेतानि नाम प्रसभमिह मनश्चिन्तितानाशु खेदं
यन् मां तस्याः कपोलौ दहत इति मुहुः स्वच्छकौ तन् न युक्तम् ॥ १.२२१॥
रथकारोऽपेवं सकामं तद्वचनमाकर्ण्य सस्मितमिदमाह-वयस्य ! यदेवं तर्हि दिष्ट्या सिद्धं नः प्रयोजनम् । तदद्यैव तया सह समागमः क्रियतामिति ।
कौलिक आह-वयस्य, यत्र कन्यान्तःपुरे वायुं मुक्त्वा नान्यस्य प्रवेशोऽस्ति तत्र रक्षा-पुरुषाधिष्ठिते कथं मम तस्या सह समागमः ? तत् किं मामसत्य-वचनेन विडम्बयसि ?
रथकार आह-मित्र, पश्य मे बुद्धि-बलम् ।
एवमभिधाय तत्-क्षणात् कील-सञ्चारिणं वैनतेयं बाहु-युगलं वायुज-वृक्ष-दारुणा शङ्ख-चक्र-गदा-पद्मान्वितं सकिरीट-कौस्तुभमघटयन् । ततस्तस्मिन् कौलिकं समारोप्य विष्णु-चिह्नितं कृत्वा कील-सञ्चरण-विज्ञानं च दर्शयित्वा प्रोवाच-वयस्य, अनेन विष्णु-रूपेण गत्वा कन्यान्तःपुरे निशीथे तां राजकन्यामेकाकिनीं सप्त-भूमिक-प्रासाद-प्रान्त-गतां मुग्ध-स्वभावां त्वां वासुदेवं मन्यमानां स्वकीय-मिथ्या-वक्रोक्तिभी रञ्जयित्वा वात्स्यायनोक्त-विधिना भज ।
कौलिकोऽपि तदाकर्ण्य तथा-रूपस्तत्र गत्वा तामाह-राज-पुत्रि, सुप्ता किं वा जागर्षि ? अहं तव कृते समुद्रात् सानुरागो लक्ष्मीं विहायैवागतः । तत् क्रियतां मया सह समागमः इति ।
सापि गरुडारूढं चतुर्भुजं सायुधं कौस्तुभोपेतमवलोक्य सविस्मया शयनादुत्थाय प्रोवाच-भगवन् ! अहं मानुषी कीटिकाशुचिः । भगवांस्त्रैलोक्य-पावनो वन्दनीयश्च । तत् कथमेतद्युज्यते ।
कौलिक आह-सुभगे, सत्यमभिहितं भवत्या । परं किं तु राधा नाम मे भार्या गोप-कुल-प्रसूता प्रथम आसीत् । सा त्वमत्रावतीर्णा । तेनाहमत्रायातः ।
इतुक्ता सा प्राह-भगवन्, यदेवं तन् मे तातं प्रार्थय । सोऽपविकल्पं मां तुभ्यं प्रयच्छति ।
कौलिक आह-सुभगे, नाहं दर्शन-पथं मानुषाणां गच्छामि । किं पुनरालाप-करणम् । त्वं गान्धर्वेण विव्हानेआत्मानं प्रयच्छ । नो चेच्छापं दत्त्वा सान्वयं ते पितरं भस्मसात् करिष्यामि इति । एवमभिधाय गरुडादवतीर्य सव्ये पाणौ गृहीत्वा तां सभयां सलज्जां वेपमानां शय्यायामानयत् । ततश्च रात्रि-शेषं यावद्वात्स्यायनोक्त-विधिना निषेव्य प्रत्यूषे स्व-गृहमलक्षितो जगाम ।
एवं तस्य तां नित्यं सेवमानस्य कालो याति । अथ कदाचित् कञ्चुकिनस्तस्या अधरोष्ठ-प्रवाल-खण्डनं दृष्ट्वा मिथः प्रोचुः-अहो ! पश्यतास्या राज-कन्यायाः पुरुषोपभुक्ताया इव शरीरावयवा विभाव्यन्ते । तत् कथमयं सुरक्षितेऽपस्मिन् गृह एवंविधो व्यवहारः । तद्राज्ञे निवेदयामः ।
एवं निश्चित्य सर्वे समेत्य राजानं प्रोचुः-देव ! वयं न विद्मः । परं सुरक्षितेऽपि कन्यान्तः-पुरे कश्चित् प्रविशति । तद्देवः प्रमाणमिति । तच्छ्रुत्वा राजातीव व्याकुलित-चित्तो व्यचिन्तयत्-
पुत्रीति जाता महतीह चिन्ता
कस्मै प्रदेयेति महान् वितर्कः ।
दत्त्वा सुखं प्राप्स्यति वा न वेति
कन्या-पितृत्वं खलु नाम कष्टम् ॥ १.२२२॥
नद्यश्च नार्यश्च सदृक्-प्रभावास्
तुल्यानि कूलानि कुलानि तासाम् ।
तोयैश्च दोषैश्च निपातयन्ति
नद्यो हि कूलानि कुलानि नार्यः ॥ १.२२३॥
जननी-मनो हरति जातवती
परिवर्धते सह शुचा सुहृदाम् ।
पर-सात्कृतापि कुरुते मलिनं
दुरित-क्रमा दुहितरो विपदः ॥ १.२२४॥
एवं बहु-विधं विचिन्त्य देवीं रहः-स्थां प्रोवाच-देवि, ज्ञायतां किमेते कञ्चुकिनो वदन्ति ? तस्य कृतान्तः कुपितो येनैतदेवं क्रियते ।
देवपि तदाकर्ण्य व्याकुली-भूता सत्वरं कन्यान्तःपुरे गत्वा तां खण्डिताधरां नख-विलिखित-शरीरावयवां दुहितरमपश्यत् । आह च-आः पापे ! कुल-कलङ्क-कारिणि ! किमेव शील-खण्डनं कृतम् । कोऽयं कृतान्तावलोकितस्त्वत्-सकाशमभ्येति । तत् कथ्यतां ममाग्रे सत्यम् ।
इति कोपाटोप-विसङ्कटं वदत्यां मातरि राज-पुत्री भय-लज्जानताननं प्रोवाच-अम्ब, साक्षान् नारायणः प्रत्यहं गरुडारूढो निशि समायाति । चेदसत्यं मम वाक्यम्, तत् स्व-चक्षुषा विलोकयतु निगुढतरा निशीथे भगवन्तं रमा-कान्तम् ।
तच्छ्रुत्वा सापि प्रहसित-वदना पुलकाङ्कित-सर्वाङ्गी सत्वरं राजानमूचे-देव, दिष्ट्या वर्धसे । नित्यमेव निशीथे भगवान् नारायणः कन्यका-पार्श्वेऽभ्येति । तेन गान्धर्व-विवाहेन सा विवाहिता । तदद्य त्वया मया च रात्रौ वातायन-गताभ्यां निशीथे द्रष्टव्यः । यतो न स मानुषैः सहालापं करोति ।
तच्छ्रुत्वा हर्षितस्य राज्ञस्तद्दिनं वर्ष-शत-प्रायमिव कथञ्चिज् जगाम । ततस्तु रात्रौ निभृतो भूत्वा राज्ञी-सहितो राजा वातायनस्स्थो गगनासक्त-दृष्टिर्यावत् तिष्ठति, तावत् तस्मिन् समये गरुडारूढं तं शङ्क-चक्र-गदा-पद्म-हस्तं यथोक्त-चिह्नाङ्कितं व्योम्नोऽवतरन्तं नारायणमपश्यत् । ततः सुधा-पूर-प्लावितमिवात्मानं मन्यमानस्तामुवाच-प्रिये ! नास्तन्यो धन्यतरो लोके मत्तस्त्वत्तश्च । तत् प्रसूतिं नारायणो भजते । तत्-सिद्धाः सर्वेऽस्माकं मनोरथाः । अधुना जामातृ-प्रभावेण सकलामपि वसुमतीं वश्यां करिष्यामि ।
एवं निश्चित्य सर्वैः सीमाधिपैः सह मर्यादा-व्यतिक्रममकरोत् । ते च तं मर्यादा-व्यतिक्रमेण वर्तमानमालोक्य सर्वे समेत्य तेन सह विग्रहं चक्रुः ।
अत्रान्तरे स राजा देवी-मुखेन तां दुहितरमुवाच-पुत्रि, त्वयि दुहितरि वर्तमानायां नारायणे भगवति जामातरि स्थिते तत् किमेवं युज्यते यत् सर्वे पार्थिवा मया सह विग्रहं कुर्वन्ति । तत् सम्बोध्योऽद्य त्वया निज-भर्ता, यथा मम शत्रून् व्यापादयति ।
ततस्तया स कौलिको रात्रौ सविनयमभिहितः-भगवन्, त्वयि जामातरि स्थिते मम तातो यच्छत्रुभिः परिभूयते तन् न युक्तम् । तत् प्रसादं कृत्वा सर्वांस्तान् शत्रून् व्यापादय ।
कौलिक आह-सुभगे ! कियन्-मात्रास्त्वेते तव पितुः शत्रवः । तद्विश्वस्ता भव । क्षणेनापि सुदर्शन-चक्रेण सर्वांस्तिलशः खण्डयिष्यामि ।
अथ गच्छता कालेन सर्व-देशं शत्रुभिरुद्वास्य स राजा प्राकार-शेषः कृतः । तथापि वासुदेव-रूप-धरं कौलिकमजानन् राज नित्यमेव विशेषतः कर्पूरागुरु-कस्तूरिकादि-परिमल-विशेषान् नाना-प्रकार-वस्त्र-पुष्प-भक्ष्य-पेयांश्च प्रेषयन् दुहितृ-मुखेन तमूचे-भगवन्, प्रभाते नूनं स्थान-भङ्गो भविष्यति । यतो यवसेन्धन-क्षयः सञ्जातस्तथा सर्वोऽपि जनः प्रहारैर्जर्जरित-देहः संवृत्तो योद्धुमक्षमः प्रचुरो मृतश्च । तदेवं ज्ञात्वात्र काले यदुचितं भवति तद्विधेयमिति ।
तच्छ्रुत्वा कौलिकोऽपचिन्तयत्-स्थान-भङ्गे जाते ममानया सह वियोगो भविष्यति एॅ तस्माद्गरुडमारुह्य सायुधमात्मानमाकाशे दर्शयामि । कदाचिन् मां वासुदेवं मन्यमानास्ते साशङ्का राज्ञो योद्धृभिर्हन्यते । उक्तं च-
निर्विषेणापि सर्पेण कर्तव्या महती फणा ।
विषं भवतु वा माभूत् फणाटोपो भयङ्करः ॥ १.२२५॥
अथ यदि मम स्थानार्थमुद्यतस्य मृत्युर्भविष्यति तदपि सुन्दरतरम् । उक्तं च-
गवामर्थे ब्राह्मणार्थे स्वाम्यर्थे स्वीकृतेऽथवा ।
स्थानार्थे यस्त्यजेत् प्राणांस्तस्य लोकाः सनातनाः ॥ १.२२६॥
चन्द्रे मण्डल-संस्थे विगृह्यते राहुणा दिनाधीशः ।
शरणागतेन सार्धं विपदपि तेजस्विना श्लाघ्या ॥ १.२२७॥
एवं निश्चित्य प्रत्यूषे दन्त-धावनं कृत्वा तां प्रोवाच-सुभगे ! समस्तैः शत्रुभिर्हतैरन्नं पानं चास्वादयिष्यामि । किं बहुना, त्वयापि सह सङ्गमं ततः करिष्यामि । परं वाच्यस्त्वयात्म-पिता यत् प्रभाते प्रभूतेन सैन्येन सह नगरान् निष्क्रम्य योद्धव्यम् । अहं चाकाश-स्थित एव सर्वांस्तान् निस्तेजसः करिष्यामि । पश्चात् सुखेन भवता हन्तव्याः यदि पुनरहं तान् स्वयमेव सूदयामि तत् तेषां पापात्मनां वैकुण्ठीया गतिः स्यात् । तस्मात् ते तथा कर्तव्या यथा पलायन्तो हन्यमानाः स्वर्गं न गच्छन्ति ।
सापि तदाकर्ण्य पितुः समीपं गत्वा सर्वं वृत्तान्तं न्यवेदयत् । राजापि तस्या वाक्यं श्रद्दधानः प्रत्यूषे समुत्थाय समुन्नद्ध-सैन्यो युद्धार्थं निश्चक्राम । कौलिकोऽपि मरणे कृत-निश्चयश्चाप-पाणिर्गगन-गतिर्गरुडारूढो युद्धाय प्रस्थितः ।
अत्रान्तरे भगवता नारायणेनातीतानागत-वर्तमान-वेदिना, स्मृत-मात्रो वैनतेयः सम्प्राप्तो विहस्य प्रोक्तः-भो गरुत्मन् ! जानासि त्वं यन् मम रूपेण कौलिको दारु-मय-गरुडे समारूढो राज-कन्यां कामयते ।
सोऽब्रवीत्-देव, सर्वं ज्ञायते तच्चेष्टितम् । तत् किं कुर्मः साम्प्रतम् ?
श्री-भगवान् आह-अद्य कौलिको मरणे कृत-निश्चयो विहित-नियमो युद्धार्थे विनिर्गतः स नूनं प्रधान-क्षत्रियैर्मिलित्वा वासुदेवो गरुडश्च निपातितः । ततः परं लोकोऽयमावयोः पूजां न करिष्यति । ततस्त्वं द्रुततरं तत्र दारु-मय-गरुडे सङ्क्रमणं कुरु । अहमपि कौलिक-शरीरे प्रवेशं करिष्यामि । येन स शत्रून् व्यापादयति । ततश्च शत्रु-वधादावयोर्माहात्म्य-वृद्धिः स्यात् ।
अथ गरुडे तथेति प्रतिपन्ने श्री-भगवन्-नारायणस्तच्छरीरे सङ्क्रमणमकरोत् । ततो भगवन्-माहात्म्येन गगन-स्थः स कौलिकः शङ्ख-चक्र-गदा-चाप-चिह्नितः क्षणादेव लीलयैव समस्तानपि प्रधान-क्षत्रियान् निस्तेजसश्चकारर्ततस्तेन राज्ञा स्व-सैन्य-परिवृतेन सङ्ग्रामे जिता निहताश्च ते सर्वेऽपि शत्रवः । जातश्च लोक-मध्ये प्रवादो, यथा-अनेन विष्णु-जामातृ-प्रभावेण सर्वे शत्रवो निहता इति ।
कौलिकोऽपि तान् हतान् दृष्ट्वा प्रमुदित-मना गगनादवतीर्णः सन्, यावद्राजामात्य-पौर-लोकास्तं नगर-वास्तव्यं कौलिकं पश्यन्ति ततः पृष्टः किमेतदिति । ततः सोऽपि मूलादारभ्य सर्वं प्राग्-वृत्तान्तं न्यवेदयत् । ततश्च कौलिक-साहसानुरञ्जित-मनसा शत्रु-वधादवाप्त-तेजसा राज्ञा सा राज-कन्या सकल-जन-प्रत्यक्षं विवाह-विधिना तस्मै समर्पिता देशश्च प्रदत्तः । कौलिकोऽपि तया सार्धं पञ्च-प्रकारं जीव-लोक-सारं विषय-सुखमनुभवन् कालं निनाय । अतस्तूच्यते सुप्रयुक्तस्य दम्भस्य (२१८) इति ।
तच्छ्रुत्वा करटक आह-भद्र, अस्तेवम् । परं तथापि महन् मे भयम् । यतो बुद्धिमान् सञ्जीवको रौद्रश्च सिंहः । यद्यपि ते बुद्धि-प्रागल्भ्यं तथापि त्वं पिङ्गलकात् तं वियोजयितुमसमर्थ एव ।
दमनक आह-भ्रातः ! असमर्थोऽपि समर्थ एव । उक्तं च-
उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः ।
काकी कनक-सूत्रेण कृष्ण-सर्पमघातयत् ॥ १.२२८॥
करटक आह-कथमेतत् ?
सोऽब्रवीत्-
कथा ६ वायस-दम्पति-कथा
अस्ति कस्मिंश्चित् प्रदेशे महान् न्यग्रोध-पादपः । तत्र वायस-दम्पती प्रतिवसतः स्म । अथ तयोः प्रसव-काले वृक्ष-विवरान् निष्क्रम्य कृष्ण-सर्पः सदैव तदपत्यानि भक्षयति । ततस्तौ निर्वेदादन्य-वृक्ष-मूल-निवासिनं प्रिय-सुहृदं शृगालं गत्वोचतुः-भद्र ! किमेवंविधे सञ्जात आवयोः कर्तव्यं भवति । एवं तावद्दुष्टात्मा कृष्ण-सर्पो वृक्ष-विवरान् निर्गत्यावयोर्बालकान् भक्षयति । तत् कथ्यतां तद्रक्षार्थं कश्चिदुपायः ।
यस्य क्षेत्रं नदी-तीरे भार्या च पर-सङ्गता ।
स-सर्पे च गृहे वासः कथं स्यात् तस्य निर्वृतिः ॥ १.२२९॥
अन्यच्च-
सर्प-युक्ते गृहे वासो मृत्युरेव न संशयः ।
यद्ग्रामान्ते वसेत् सर्पस्तस्य स्यात् प्राण-संशयः ॥ १.२३०॥
अस्माकमपि तत्र-स्थितानां प्रतिदिनं प्राण-संशयः ।
स आह-नात्र विषये स्वल्पोऽपि विषादः कार्यः । नूनं स लुब्धो नोपायमन्तरेण वध्यः स्यात् ।
उपायेन जयो यादृग्रिपोस्तादृङ्न हेतिभिः ।
उपाय-ज्ञोऽल्प-कायोऽपि न शूरैः परिभूयते ॥ १.२३१॥
तथा च-
भक्षयित्वा बहून् मत्स्यान् उत्तमाधम-मध्यमान् ।
अतिलौल्याद्बकः कश्चिन् मृतः कर्कटक-ग्रहात् ॥ १.२३२॥
तावूचतुः-कथमेतत् ?
सोऽब्रवीत्-
कथा ७ बक-कुलीरक-कथा
अस्ति कस्मिंश्चिद्वन-प्रदेशे नाना-जल-चर-सनाथं महत् सरः । तत्र च कृताश्रयो बक एको वृद्ध-भावमुपागतो मत्स्यान् व्यापादयितुमसमर्थः । ततश्च क्षुत्क्षाम-कण्ठः सरस्तीरे उपविष्टो मुक्ता-फल-प्रकर-सदृशैरश्रु-प्रवाहैर्धरा-तलमभिषिञ्चन् रुरोद । एकः कुलीरको नाना-जल-चर-समेतः समेत्य तस्य दुःखेन दुःखितः सादरमिदमूचे-माम ! किमद्य त्वया नाहार-वृत्तिरनुष्ठीयते ? केवलमश्रु-पूर्ण-नेत्राभ्यां सनिःश्वासेन स्थीयते ।
स आह-वत्स ! सत्यमुपलक्षितं भवता । मया हि मत्स्यादनं प्रति परम-वैराग्यतया साम्प्रतं प्रायोपवेशनं कृतम् । तेनाहं समीपागतानपि मत्स्यान् न भक्षयामि ।
कुलीरकस्तच्छ्रुत्वा प्राह-माम, किं तद्वैराग्य-कारणम् ?
स प्राह-वत्स, अहमस्मिन् सरसि जातो वृद्धिं गतश्च । तन् मयैतच्छ्रुतं यद्द्वादश-वर्षिक्यानावृष्टिः सम्पद्यते लग्ना ।
कुलीरक आह-कस्मात् तच्छ्रुतम् ?
बक आह-दैवज्ञ-मुखादेष शनैश्चरो हि रोहिणी-शकटं भित्त्वा भौमं शक्रं च प्रयास्यति । उक्तं च वराह-मिहिरेण-
यदि भिन्ते सूर्य-सुतो रोहिण्याः शकटमिह लोके ।
द्वादश वर्षाणि तदा नहि वर्षति वासवौ भूमौ ॥ १.२३३॥
तथा च-
प्राजापत्ये शकटे भिन्ने कृत्वैव पातकं वसुधा ।
भस्मास्थि-शकलाकीर्णा कापालिकमिव व्रतं धत्ते ॥ १.२३४॥
तथा च-
रोहिणी-शकटमर्क-नन्दनश्चेद्
भिन्नत्ति रुधिरोऽथवा शशी ।
किं वदामि तदनिष्ट-सागरे
सर्व-लोकमुपयाति सङ्क्षयः ॥ १.२३५॥
रोहिणी-शकट-मध्य-संस्थिते
चन्द्रमस्य शरणी-कृता जनाः ।
क्वापि यान्ति शिशुपाचिताशनाः
सूर्य-तप्त-भिदुराम्बु-पायिनः ॥ १.२३६॥
तदेतत् सरः स्वल्प-तोयं वर्तते । शीघ्रं शोषं यास्यति । अस्मिन् शुष्के यैः सहाहं वृद्धिं गतः, सदैव क्रीडितश्च, ते सर्वे तोयाभावान् नाशं यास्यन्ति । तत् तेषां वियोगं द्रष्टुमहमसमर्थः । तेनैतत् प्रायोपवेशनं कृतम् । साम्प्रतं सर्वेषां स्वल्प-जलाशयानां जलचरा गुरु-जलाशयेषु स्व-स्वजनैर्नीयन्ते । केचिच्च मकर-गोधा-शिशुमार-जलहस्ति-प्रभृतयः स्वयमेव गच्छन्ति । अत्र पुनः सरसि ये जलचरास्ते निश्चिन्ताः सन्ति, तेनाहं विशेषाद्रोदिमि यद्बीज-शेस-मात्रमपत्र नोद्धरिष्यति ।
ततः स तदाकर्ण्यान्येषामपि जलचराणां तत् तस्य वचनं निवेदयामास । अथ ते सर्वे भय-त्रस्त-मनसो मत्स्य-कच्छप-प्रभृतयस्तमभ्युपेत्य पप्रच्छुः-माम ! अस्ति कश्चिदुपायो येनास्माकं रक्षा भवति ?
बक आह-अस्तस्य जलाशयस्य नातिदूरे प्रभूत-जल-सनाथं सरः पद्मिनी-खण्ड-मण्डितं यच्चतुर्विंशतपि वर्षाणामवृष्ट्या न शोषमेष्यति । तद्यदि मम पृष्ठं कश्चिदारोहति, तदहं तं तत्र नयामि ।
अथ ते तत्र विश्वासमापन्नाः, तात मातुल भ्रातः इति ब्रुवाणाः अहं पूर्वमहं पूर्वमिति समन्तात् परितस्थुः । सोऽपि दुष्टाशयः क्रमेण तान् पृष्ठ आरोप्य जलाशयस्य नातिदूरे शिलां समासाद्य तस्यामाक्षिप्य स्वेच्छया भक्षयित्वा भूयोऽपि जलाशयं समासाद्य जलचर्णाणां मिथ्या-वार्ता-सन्देशकैर्मनांसि रञ्जयन् नित्यमेवाहार-वृत्तिमकरोत् ।
अन्यस्मिन् दिने च कुलीरकेणोक्तः-माम ! मया सह ते प्रथमः स्नेह-सम्भाषः सञ्जातः । तत् किं मां परित्यज्यान्यान् नयसि ? तस्मादद्य मे प्राण-त्राणं कुरु ।
तदाकर्ण्य सोऽपि दुष्टाशयश्चिन्तितवान्-निर्विण्णोऽहं मत्स्य-मांसादनेन तदद्यैनं कुलीरकं व्यञ्जन-स्थाने करोमि । इति विचिन्त्य तं पृष्टे समारोप्य तां वध्य-शिलामुद्दिश्य प्रस्थितः । कुलीरकोऽपि दूरादेवास्थि-पर्वतं शिलाश्रयमवलोक्य मस्त्यास्थीनि परिज्ञाय तमपृच्छत्-माम, कियद्दूरे स जलाशयः ? मदीय-भारेणातिश्रान्तस्त्वम् । तत् कथय ।
सोऽपि मन्द-धीर्जलचरोऽयमिति मत्वा स्थले न प्रभवतीति सस्मितमिदमाह-कुलीरक, कुतोऽन्यो जलाशयः ? मम प्राण-यात्रेयम् । तस्मात् स्मर्यतामात्मनोऽभीष्ट-देवता । त्वामपन्यां शिलायां निक्षिप्य भक्षयिष्यामि । इतुक्तवति तस्मिन् स्व-वदन-दंश-द्वयेन मृणाल-नाल-धवलायां मृदु-ग्रीवायां गृहीतो मृतश्च ।
अथ स तां बक-ग्रीवां समादाय शनैः शनैस्तज् जलाशयमाससाद । ततः सर्वैरेव जलचरैः पृष्टः-भोः कुलीरक ! किं निवृत्तस्त्वम् ? स मातुलोऽपि नायातः । तत् किं चिरयति ? वयं सर्वे सोत्क्सुकाः कृत-क्षणास्तिष्ठामः ।
एवं तैरभिहिते कुलीरकोऽपि विहस्योवाच-मूर्खाः ! सर्वे जलचरास्तेन मिथ्या-वादिना वञ्चयित्वा नातिदूरे शिला-तले प्रक्षिप्य भक्षिताः । तन् ममायुः-शेषतया तस्य विश्वास-घातकस्याभिप्रायं ज्ञात्वा ग्रीवेयमानीता । तदलं सम्भ्रमेण । अधुना सर्व-जल-चराणां क्षेमं भविष्यति ।
अतोऽहं ब्रवीमि-भक्षयित्वा बहून् मत्स्यान् इति ।
वायस आह-भद्र ! तत् कथय कथं स दुष्ट-सर्पो वधमुपैष्यति ।
शृगाल आह-गच्छतु भवान् कञ्चिन् नगरं राजाधिष्ठानम् । तत्र कस्यापि धनिनो राजामात्यादेः प्रमादिनः कनक-सूत्रं हारं वा गृहीत्वा तत्-कोटरे प्रक्षिप, येन सर्पस्तद्ग्रहणेन वध्यते ।
तत्-क्षणात् काकः काकी च तदाकर्ण्यात्मेच्छयोत्पतितौ । ततश्च काकी किञ्चित् सरः प्राप्य यावत् पश्यति, तावत् तन्-मध्ये कस्यचिद्राज्ञोऽन्तःपुरं जलासन्नं न्यस्त-कनक-सूत्रं मुक्त-मुक्ताहार-वस्त्राभरणं जल-क्रीडां कुरुते । अथ सा वायसी कनक-सूत्रमेकमादाय स्व-गृहाभिमुखं प्रतस्थे । ततश्च कञ्चुकिनो वर्ष-वराश्च तन्-नीयमानमुपलक्ष्य गृहीत-लगुडाः सत्वरमनुययुः । काकपि सर्प-कोटरे तत्-कनक-सूत्रं प्रक्षिप्य सुदूरमवस्थिता ।
अथ यावद्राज-पुरुषास्तं वृक्षमारुह्य तत्-कोटरमवलोकयन्ति, तावत् कृष्ण-सर्पः प्रसारित-भोगस्तिष्ठति । ततस्तं लगुड-प्रहारेण हत्वा कनक-सूत्रमादाय यथाभिलषितं स्थानं गताः । वायस-दम्पती अपि ततः परं सुखेन वसतः । अतोऽहं ब्रवीमि-उपायेन हि यत् कुर्यात् इति ।
तन् न किञ्चिदिह बुद्धिमतामसाध्यमस्ति । उक्तं च-
यस्य बुद्धिर्बलं तस्य निर्बुद्धेस्तु कुतो बलम् ।
वने सिंहो मदोन्मत्तः शशकेन निपातितः ॥ १.२३७॥
करटक आह-कथमेतत् ?
स आह-
कथा ८ भासुरकाख्य-सिंह-कथा
कस्मिंश्चिद्वने भासुरको नाम सिंहः प्रतिवसति स्म । अथासौ वीर्यातिरेकान् नित्यमेवानेकान् मृग-शशकादीन् व्यापादयन् नोपरराम । अथान्येद्युस्तद्वनजाः सर्वे सारङ्ग-वराह-महिष-शशकादयो मिलित्वा तमभ्युपेत्य प्रोचुः-स्वामिन् ! किमनेन सकल-मृग-वधेन नित्यमेव, यतस्तवैकेनापि मृगेण तृप्तिर्भवति तत् क्रियतामस्माभिः सह समय-धर्मः । अद्य-प्रभृति तवात्रोपविष्टस्य जाति-क्रमेण प्रतिदिनमेको मृगो भक्षणार्थं समेष्यति । एवं कृते तव तावत् प्राण-यात्रा क्लेशं विनापि भविष्यति । अस्माकं च पुनः सर्वोच्छेदनं न स्यात् । तदेष राज-धर्मोऽनुष्ठीयताम् । उक्तं च-
शनैः शनैश्च यो राज्यमुपभुङ्क्ते यथा-बलम् ।
रसायनमिव प्राज्ञः स पुष्टिं परमां व्रजेत् ॥ १.२३८॥
विधिना मन्त्र-युक्तेन रूक्षापि मथितापि च ।
प्रयच्छति फलं भूमिररणीव हुताशनम् ॥ १.२३९॥
प्रजानां पालनं शस्यं स्वर्ग-कोशस्य वर्धनम् ।
पीडनं धर्म-नाशाय पापायायशसे स्थितम् ॥ १.२४०॥
गोपालेन प्रजाधेनोर्वित्त-दुग्धं शनैः शनैः ।
पालनात् पोषणाद्ग्राह्यं न्याय्यां वृत्तिं समाचरेत् ॥ १.२४१॥
अजामिव प्रजां मोहाद्यो हन्यात् पृथिवी-पतिम् ।
तस्यैका जायते तृप्तिर्न द्वितीया कथञ्चन ॥ १.२४२॥
फलार्थी नृपतिर्लोकान् पालयेद्यत्नमास्थितः ।
दान-मानादि-तोयेन मालाकारोऽङ्कुरान् इव ॥ १.२४३॥
नृप-दीपो धन-स्नेहं प्रजाभ्यः संहरन्नपि ।
आन्तर-स्थैर्गुणैः शुभ्रैर्लक्ष्यते नैव केनचित् ॥ १.२४४॥
यथा गौर्दुह्यते काले पाल्यते च तथा प्रजाः ।
सिच्यते चीयते चैव लता पुष्प-फल-प्रदा ॥ १.२४५॥
यथा बीजाङ्कुरः सूक्ष्मः प्रयत्नेनाभिरक्षितः ।
फल-प्रदो भवेत् काले तद्वल्लोकः सुरक्षितः ॥ १.२४६॥
हिरण्य-धान्य-रत्नानि यानानि विविधानि च ।
तथान्यदपि यत् किञ्चित् प्रजाभ्यः स्यान् महीपतेः ॥ १.२४७॥
लोकानुग्रह-कर्तारः प्रवर्धन्ते नरेश्वराः ।
लोकानां सङ्क्षयाच्चैव क्षयं यान्ति न संशयः ॥ १.२४८॥
अथ तेषां तद्वचनमाकर्ण्य भासुरक आह-अहो सत्यमभिहितं भवद्भिः । परं यदि ममोपविष्टस्यात्र नित्यमेव नैकः श्वापदः समागमिष्यति । तन् नूनं सर्वानपि भक्षयिष्यामि । अथ ते तथैव प्रतिज्ञाय निर्वृति-भाजस्तत्रैव वने निर्भयाः पर्यटन्ति । एकश्च प्रतिदिनं क्रमेण याति । वृद्धो वा, वैराग्य-युक्तो वा, शोक-ग्रस्तो वा, पुत्र-कलत्र-नाश-भीतो वा, तेषां मध्यात् तस्य भोजनार्थं मध्याह्न-समय उपतिष्ठते ।
अथ कदाचिज् जाति-क्रमाच्छशकस्यावसरः समायातः । स समस्त-मृगैः प्रेरितोऽनिच्छन्नपि मन्दं मन्दं गत्वा तस्य वधोपायं चिन्तयन् वेलातिक्रमं कृत्वाव्याकुलित-हृदयो यावद्गच्छति तावन्-मार्गे गच्छता कूपः सन्दृष्टः । यावत् कूपोपरि पाति तावत् कूप-मध्य आत्मनः प्रतिबिम्बं ददर्श । दृष्ट्वा च तेन हृदये चिन्तितम्-यद्भाव्य उपायोऽस्ति । अहं भासुरकं प्रकोप्य स्व-बुद्ध्यास्मिन् कूपे पातयिष्यामि ।
अथासौ दिन-शेषे भासुरक-समीपं प्राप्तः । सिंहोऽपि वेलातिक्रमेण क्षुत्क्षाम-कण्ठः कोपाविष्टः सृक्कणी परिलेलिहद्व्यचिन्तयत्-अहो ! प्रताराहाराय निःसत्त्वं वनं मया कर्तव्यम् । एवं चिन्तयतस्तस्य शशको मन्दं मन्दं गत्वा प्रणम्य तस्याग्रे स्थितः । अथ तं प्रज्वलितात्मा भासुरको भर्त्सयन्न् आह-रे शशकाधम एकस्तावत् त्वं लघुः प्राप्तोऽपरतो वेलातिक्रमेण । तदस्मादपराधात् त्वां निपात्य प्रातः सकलानपि मृग-कुलानुच्छेदयिष्यामि ।
अथ शशकः सविनयं प्रोवाच-स्वामिन् ! नापराधो मम । न च सत्त्वानाम् । तच्छ्य्रूतां कारणम् ।
सिंह आह-सत्वरं निवेदय यावन् मम दंष्ट्रान्तर्गतो न भवान् भविष्यति इति ।
शशक आह-स्वामिन्, समस्त-मृगैरद्य जाति-क्रमेण मम लघुतरस्य प्रस्तावं विज्ञाय ततोऽहं पञ्च-शशकैः समं प्रेषितः । ततश्चाहमागच्छेन्नन्तराले महता केनचिदपरेण सिंहेन विवरान् निर्गत्याभिहितः-अभीष्ट-देवतां स्मरत ।
ततो मयाभिहितम्-वयं स्वामिनोन् भासुरक-सिंहस्य सकाशमाहारार्थं समय-धर्मेण गच्छामः ।
ततस्तेनाभिहितम्-यदेवं तर्हि मदीयमेतद्वनम् । मया सह समय-धर्मेण समस्तैरपि श्वापदैर्वर्तितव्यम् । चोर-रूपी स भासुरकः । अथ यदि सोऽत्र राजा । विश्वास-स्थाने चतुरः शशकानत्र धृत्वा तमाहूय द्रुततरमागच्छ । येन यः कश्चिदावयोर्मध्यात् पराक्रमेण राजा भविष्यति स सर्वान् एतान् भक्षयिष्यति इति ।
ततोऽहं तेनादिष्टः स्वामि-सकाशमभ्यागतः । एतद्वेला व्यतिक्रम-कारणम् । तदत्र स्वामी प्रमाणम् ।
तच्छ्रुत्वा भासुरक आह-भद्र, यदेवं तत् सत्वरं दर्शय मे तं चौर-सिंहः येनाहं मृग-कोपं तस्योपरि क्षिप्त्वा स्वस्थो भवामि । उक्तं च-
भूमिर्मित्रं हिरण्यं च विग्रहस्य फल-त्रयम् ।
नास्तेकमपि यदेषां न तं कुर्यात् कथञ्चन ॥ १.२४९॥
यत्र न स्यात् फलं भूरि यत्र चस्यात् पराभवः ।
न तत्र मतिमान् युद्धं समुत्पाद्य समाचरेत् ॥ १.२५०॥
शशाक आह-स्वामिन् ! सत्यमिदम् । स्व-भूमि-हेतोः परिभवाच्च युध्यन्ते क्षत्रियाः । परं स दुर्गाश्रयः दुर्गान् निष्क्रम्य वयं तेन विष्कम्भिताः । ततो दुर्गस्थो दुःसध्यो भवति रिपुः । उक्तं च-
न गजानां सहस्रेण न च लक्षेण वाजिनाम् । यत् कृत्यं सिध्यति राज्ञां दुर्गेणैकेन विग्रहे ॥ १.२५१॥ शतमेकोऽपि सन्धत्ते प्राकारस्थो धनुर्धरः । तस्माद्दुर्गं प्रशंसन्ति नीतिशास्त्रविचक्षणाः ॥ १.२५२॥ पुरा गुरोः समादेशाद्धिरण्यकशिपोर्भयात् । शक्रेण विहितं दुर्गं प्रभावाद्विश्वकर्मणः ॥ १.२५३॥ तेनापि च वरो दत्तो यस्य दुर्गं स भूपतिः । विजयी स्यात् ततो भूमौ दुर्गाणि स्युः सहस्रशः ॥ १.२५४॥ दंष्ट्राविरहितो नागो मदहीनो यथा गजः । सर्वेषां जायते वश्यो दुर्गहीनस्तथा नृपः ॥ १.२५५॥
तच्छ्रुत्वा भासुरक आह । भद्र दुर्गस्थमपि दर्शय तं चौर-सिंहं येन व्यापादयामि । उक्तं च-
जात-मात्रं न यः शत्रुं रोगं च प्रशमं नयेत् । महाबलोऽपि तेनैव वृद्धिं प्राप्य स हन्यते ॥ १.२५६॥
तथा च- उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता । समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥ १.२५७॥
अपि च- उपेक्षितः क्षीण-बलोऽपि शत्रुः प्रमाद-दोषात् पुरुषैर्मदान्धैः । साध्योऽपि भूत्वा प्रथमं ततोऽसावसाध्यतां व्याधिरिव प्रयाति ॥ १.२५८॥
तथा च- आत्मनः शक्तिमुद्वीक्ष्य मनोत्साहं च यो व्रजेत् । बहून् हन्ति स एकोऽपि क्षत्रियान् भार्गवो यथा ॥ १.२५९॥
शशक आह-अस्तेतत् । तथापि बलवान् स मया दृष्टः । तन् न युज्यते स्वामिनस्तस्य तस्य सामर्थ्यमविदित्वा गन्तुम् । उक्तं च- अविदित्वात्मनः शक्तिं परस्य च समुत्सुकः । गच्छन्नभिमुखो वह्नौ नाशं याति पतङ्गवत् ॥ १.२६०॥ यो बलात् प्रोन्नतं याति निहन्तुं सबलोऽपरिम् । विमदः स निवर्तेत शीर्ण-दन्तो गजो यथा ॥ १.२६१॥
भासुरक आह-भोः किं तवानेन व्यापारेण । दर्शय मे तं दुर्गस्थमपि ।
अथ शशक आह-यदेवं तर्हागच्छतु स्वामी । एवमुक्त्वाग्रे व्यवस्थितः ।
ततश्च तेनागच्छता यः कूपो दृष्टोऽभूत् तमेव कूपमासाद्य भासुरकमाह-स्वामिन् कस्ते प्रतापं सोढुं समर्थः ? त्वां दृष्ट्वा दूरतोऽपि चौर-सिंहः प्रविष्टः स्वं दुर्गम् । तदागच्छ यथा दर्शयामीति । भासुरक आह-दर्शय मे दुर्गम् । तदनु दर्शितस्तेन कूपः । ततः सोऽपि मूर्खः सिंहः कूप-मध्य आत्म-प्रतिबिम्बं जल-मध्य-गतं दृष्ट्वा सिंह-नादं मुमोच । ततः प्रतिशब्देन कूप-मध्याद्द्वि-गुणतरो नादः समुत्थितः ।
अथ तेन तं शत्रुं मत्वात्मानं तस्योपरि प्रक्षिप्य प्राणाः परित्यक्ताः । शशकोऽपि हृष्ट-मनाः सर्व-मृगान् आनन्द्य तैः सह प्रशस्यमानो यथा-सुखं तत्र वने निवसति स्म । अतोऽहं ब्रवीमि-यस्य बुद्धिर्बलं तस्य इति ।
तद्यदि भवान् कथयति तत् तत्रैव गत्वा तयोः स्व-बुद्धि-प्रभावेण मैत्री-भेदं करोमि ।
करटक आह-भद्र ! यदेवं तर्हि गच्छ । शिवास्ते पन्थानः सन्तु । यथाभिप्रेतमनुष्ठीयताम् ।
अथ दमनकः सञ्जीवक-वियुक्तं पिङ्गलकमवलोक्य तत्रान्तरे प्रणम्याग्रे समुपविष्टः । पिङ्गलकोऽपि तमाह-भद्र, किं चिराद्दृष्टः ?
दमनक आह-न कञ्चिद्देव-पादानामस्माभिः प्रयोजनम् । तेनाहं नागच्छामि । तथापि राज-प्रयोजन-विनाशमवलोक्य सन्दह्यमान-हृदयो व्याकुलतया स्वयमेवाभ्यागतो वक्तुम् । उक्तं च-
प्रियं वा यदि वा द्वेष्यं शुभं वा यदि वाशुभम् ।
अपृष्टोऽपि हितं वक्ष्येद्यस्य नेच्छेत् पराभवम् ॥ १.२६२॥
अथ तस्य साभिप्रायं वचनमाकर्ण्य पिङ्गलक आह-किं वक्तु-मना भवान् ? तत् कथ्यतां यत् कथनीयमस्ति ।
स प्राह-देव सञ्जीवको युष्मत्-पादानामुपरि द्रोह-बुद्धिरिति । विश्वास-गतस्य मम विजने इदमाह-भो दमनक ! दृष्टा मयास्य पिङ्गलकस्य सारासारता । तदहमेनं हत्वा सकल-मृगाधिपत्यं त्वत्-साचिव्य-पदवी-समन्वितं करिष्यामि । पिङ्गलकोऽपि तद्वज्र-सार-प्रहार-सदृशं दारुणं वचः समाकर्ण्य मोहमुपगतो न किञ्चिदपुक्तवान् । दमनकोऽपि तस्य तमाकारमालोक्य चिन्तितवान्-अयं तावत् सञ्जीवक-निबद्ध-रागः । तन् नूनमनेन मन्त्रिणा राजा विनाशमवाप्स्यति इति । उक्तं च-
एकं भूमि-पतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहाच्छ्रयते मदः स च मदाद्दास्येन निर्विद्यते ।
निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्र-स्पृहा- स्वातन्त्र्य-स्पृहया ततः स नृपतेः प्राणानभिद्रुह्यति ॥ १.२६३॥
तत् किमत्र युक्तमिति । पिङ्गलकोऽपि चेतनां समासाद्य कथमपि तमाह-सञ्जीवकस्तावत् प्राण-समो भृत्यः । स कथं ममोपरि द्रोह-बुद्धिं करोति ।
दमनक आह-देव, भृत्योऽभृत्य इतनेकान्तिकमेतत् । उक्तं च-
न सोऽस्ति पुरुषो राज्ञां यो न कामयते श्रियम् ।
अशक्ता एव सर्वत्र नरेन्द्रं पर्युपासते ॥ १.२६४॥
पिङ्गलक आह-भद्र, तथापि मम तस्योपरि चित्त-वृत्तिर्न विकृतिं याति । अथवा साध्विदमुच्यते-
अनेक-दोष-दुष्टस्य कायः कस्य न वल्लभः ।
कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः ॥ १.२६५॥
दमनक आह-अत एवायं दोषः । उक्तं च-
यस्मिन्न् एवाधिकं चक्षुरारोपयति पार्थिवः ।
अकुलीनः कुलीनो वा स श्रिया भाजनं नरः ॥ १.२६६॥
अपरं केन गण-विशेषेण स्वामी सञ्जीवकं निर्गुणकमपि निकटे धारयति । अथ देव, यदेवं चिन्तयसि महा-कायोऽयम् । अनेन रिपून् व्यापादयिष्यामि । तदस्मान् न सिध्यति, यतोऽयं शष्प-भोजी । देव-पादानां पुनः शत्रवो मांसाशिनः । तद्रिपु-साधनमस्य साहाय्येन न भवति । तस्मादेनं दूषयित्वा हन्यतामिति ।
पिङ्गलक आह-
उक्तो भवति यः पूर्वं गुणवान् इति संसदि ।
तस्य दोषो न वक्तव्यः प्रतिज्ञा-भङ्ग-भीरुणा ॥ १.२६७॥
अन्यच्च । मयास्य तव वचनेनाभय-प्रदानं दत्तम् । तत् कथं स्वयमेव व्यापादयामि । सर्वथा सञ्जीवकोऽयं सुहृदस्माकम् । न तं प्रति कश्चिन् मन्युरिति । उक्तं च-
इतः स दैत्यः प्राप्त-श्रीर्नेत एवार्हति क्षयम् ।
विष-वृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ॥ १.२६८॥
आदौ न वा प्रणयिनां प्रणयो विधेयो
दत्तोऽथवा प्रतिदिनं परिपोषणीयः ।
उत्क्षिप्य यत् क्षिपति तत् प्रकरोति लज्जां
भूमौ स्थितस्य पतनाद्भयमेव नास्ति ॥ १.२६९॥
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः ।
अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥ १.२७०॥
तद्द्रोह-बुद्धेरपि मयास्य न विरुद्धमाचरणीयम् ।
दमनक आह-स्वामिन् ! नैष राज-धर्मो यद्द्रोह-बुद्धिरपि क्षम्यते । उक्तं च-
तुल्यार्थं तुल्य-सामर्थ्यं मर्मज्ञं व्यवसायिनम् ।
अर्ध-राज्य-हरं भृत्यं यो न हन्यात् स हन्यते ॥ १.२७१॥
अपरं त्वयास्य सखित्वात् सर्वोऽपि राज-धर्मः परित्यक्तः राज-धर्माभावात् सर्वोऽपि परिजनो विरक्तिं गतः । यः सञ्जीवकः शष्प-भोजी । भवान् मांसादः । तव प्रकृतयश्च यत् तवावध्यव्यसाय-बाह्यं कुतस्तासां मांसाशनम् । यद्रहितास्त्वां त्यक्त्वा यास्यन्ति । ततोऽपि त्वं विनष्ट एव । अस्य सङ्गत्या पुनस्ते न कदाचिदाखेटके मतिर्भविष्यति । उक्तं च-
यादृशैः सेव्यते भृत्यैर्यादृशांश्चोपसेवते ।
कदाचिन् नात्र सन्देहस्तादृग्भवति पूरुषः ॥ १.२७२॥
तथा च-
सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते
मुक्त-कारतया तदेव नलिनी-पत्र-स्थितं राजते ।
स्वातौ सागर-शुक्ति-कुक्षि-पतितं तज् जायते मौक्तिकं
प्रायेणाधम-मध्यमोत्तम-गुणः संवासतो जायते ॥ १.२७३॥
तथा च-
असतां सङ्ग-दोषेण सती याति मतिर्भ्रमम् ।
एक-रात्रि-प्रवासेन काष्ठं मुञ्जे प्रलम्बितम् ॥ १.२७४॥
अत एव सन्तो नीच-सङ्गं वर्जयन्ति । उक्तं च-
न हविज्ञात-शीलस्य प्रदातव्यः प्रतिश्रयः ।
मत्-कुणस्य च दोषेण हता मन्द-विसर्पिणी ॥ १.२७५॥
पिङ्गलक आह–कथमेतत् ?
सोऽब्रवीत्-
कथा ९ मन्द-विसर्पिणी-नाम-यूका-कथा
अस्ति कस्यचिन् महीपतेर्मनोरमं शयन-स्थानम् । तत्र श्वेततर-पट-युगल-मध्य-संस्थिता मन्द-विसर्पिणी यूका प्रतिवसति स्म । सा च तस्य महीपते रक्तमास्वादयन्ती सुखेन कालं नयमाना तिष्ठति । अन्ये-द्युश्च तत्र शयने क्वचिद्भ्राम्यन्नग्निमुखो नाम मत्कुणः समायातः । अथ तं दृष्ट्वा सा विषण्ण-वदना प्रोवाच । भोऽग्निमुख कुतस्त्वमत्रानुचित-स्थाने समायातः । तद्यावन् न कश्चिद्वेत्ति तावच्छीघ्रं गम्यतामिति । स आह-भगवति गृहागतस्यासाधोरपि नैतद्युज्यते वक्तुम् ।
उक्तं च-
एहागच्छ समाविशासनमिदं कस्माच्चिराद्दृश्यसे का वार्तेति सुदुर्बलोऽसि कुशलं प्रीतोऽस्मि ते दर्शनात् ।
एवं ये समुपागतान् प्रणयिनः प्रत्यालपन्तादरात् तेषां युक्तमशङ्कितेन मनसा हर्म्याणि गन्तुं सदा ॥ १.२७६॥
अपरं मयानेक-मानुषाणामनेक-विधानि रुधिराणास्वादितानाहार-दोषात् कटु-तिक्त-कषायाम्ल-रसास्वादानि न च कदाचिन् मधुर-रक्तं समास्वादितम् । तद्यदि त्वं प्रसादं करोषि तदस्य नृपतेर्विविध-व्यञ्जनान्न-पान-चोष्य-लेह्य-स्वाद्वाहार-वशादस्य शरीरे यन् मिष्टं रक्तं सञ्जातं तदास्वादनेन सौख्यं सम्पादयामि जिह्वाया इति । उक्तं च- रङ्कस्य नृपतेर्वापि जिह्वा-सौख्यं समं स्मृतम् । तन्-मात्रं च स्मृतं सारं तदर्थं यतते जनः ॥ १.२७७॥
यदेव न भवेल्लोके कर्म जिह्वा-प्रतुष्टिदम् । तन् न भृत्यो भवेत् कश्चित् कस्यचिद्वशगोऽथ वा ॥ १.२७८॥ यदसत्यं वदेन् मर्त्यो यद्वासेव्यं च सेवते । यद्गच्छति विदेशं च तत् सर्वमुदरार्थतः ॥ १.२७९॥
तन् मया गृहागतेन बुभुक्षया पीड्यमानेनापि त्वत्-सकाशाद्भोजनमर्थनीयम् । तन् न त्वयैकाकिन्यास्य भूपते रक्त-भोजनं कर्तुं युज्यते ।
तच्छ्रुत्वा मन्दविसर्पिणाह-भो मत्कुण ! अस्य नृपतेर्निद्रा-वशं गतस्य रक्तमास्वादयामि ।
पुनस्त्वमग्निमुखश्चपलश्च-तद्यदि मया सह रक्त-पानं करोषि तत् तिष्ठ । अभीष्टतर-रक्तमास्वादय । सोऽब्रवीत्-भगवतेवं करिष्यामि । यावत् त्वं नास्वादयसि प्रथमं नृप-रक्तं तावन् मम देव-गुरु-कृतः शपथः स्याद्यदि तदास्वादयामि । एवं तयोः परस्परं वदतोः स राजा तच्छयनमासाद्य प्रसुप्तः । अथासौ मत्कुणो जिह्वा-लौल्योत्कृष्टौत्सुक्याज् जाग्रतमपि तं मही-पतिमदशत् । अथ वा साध्विदमुच्यते । स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा । सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥ १.२८०॥ यदि स्याच्छीतलो वह्निः शीतांशुर्दहनात्मकः । न स्वभावोऽत्र मर्त्यानां शक्यते कर्तुमन्यथा ॥ १.२८१॥
अथासौ महीपतिः सूच्यग्र-विद्ध इव तच्छयनं त्यक्त्वा तत्-क्षणादेवोत्थितः । अहो ज्ञायतामत्र प्रच्छादन-पटे मत्कुणो यूका वा नूनं तिष्ठति येनाहं दष्ट इति । अथ ये कञ्चुकिनस्तत्र स्थितास्ते सत्वरं प्रच्छादन-पटं गृहीत्वा सूक्ष्म-दृष्ट्या वीक्षां चक्रुः । अत्रान्तरे स मत्कुणश्चापल्यात् खट्वान्तं प्रविष्टः सा मन्दविसर्पिणपि वस्त्र-सन्ध्यन्तर्गता तैर्दृष्टा व्यापादिता च । अतोऽहं ब्रवीमि-न हविज्ञात-शीलस्य इति ।
एवं ज्ञात्वा त्वयिष वध्यः । नो चेत् त्वां व्यापादयिष्यतीति । उक्तं च-
त्यक्ताश्चाभ्यन्तरा येन बाह्याश्चाभ्यन्तरीकृताः ।
स एव मृत्युमाप्नोति यथा राजा ककुद्द्रुमः ॥ १.२८२॥
पिङ्गलक आह–कथमेतत् ?
सोऽब्रवीत्-
कथा १० चण्डरव-नाम-शृगाल-कथा
अस्ति कस्मिंश्चिद्वनोद्देशे चण्डरवो नाम शृगालः प्रतिवसति स्म । स कदाचित् क्षुधाविष्टो जिह्वा-लौल्यान् नगर-मध्ये प्रविष्टः । अथ तं नगर-वासिनः सारमेया अवलोक्य सर्वतः शब्दायमानाः परिधाव्य तीक्ष्ण-दंष्टृआग्रैर्भक्षितुमारब्धाः । सोऽपि तैर्भक्ष्यमाणः प्राण-भयात् प्रत्यासन्न-रजक-गृहं प्रविष्टः । तत्र नीली-रस-परिपूर्णं महा-भाण्डं सज्जीकृतमासीत् । तत्र सारमेयैराक्रान्तो भाण्ड-मध्ये पतितः । अथ यावन् निष्क्रान्तस्तावन् नीली-वर्णः सञ्जातः । तत्रापरे सारमेयास्तं शृगालमजानन्तो यथाभीष्ट-दिशं जग्मुः । चण्डरवोऽपि दूरतरं प्रदेशमासाद्य काननाभिमुखं प्रतस्थे । न च नील-वर्णेन कदाचिन् निज-रङ्गस्त्यज्यते । उक्तं च-
वज्र-लेपस्य मूर्खस्य नारीणां कर्कटस्य च । एको ग्रहस्तु मीनानां नीलीमद्यपयोर्यथा ॥ १.२८३॥
अथ तं हर-गल-गरल-तमाल-सम-प्रभमपूर्वं सत्त्वमवलोक्य सर्वे सिंह-व्याघ्र-द्वीपि-वृक-प्रभृतयोऽरण्य-निवासिनो भय-व्याकुलित-चित्ताः समन्तात् पलायन-क्रियां कुर्वन्ति । कथयन्ति च-न ज्ञायतेऽस्य कीदृग्विचेष्टितं पौरुषं च । तद्दूरतरं गच्छामः । उक्तं च-
न यस्य चेष्टितं विद्यान् न कुलं न पराक्रमम् ।
न तस्य विश्वसेत् प्राज्ञो यदीच्छेच्छ्रियमात्मनः ॥ १.२८४॥
चण्डरवोऽपि भय-व्याकुलितान् विज्ञायेदमाह-भो भोः श्वापदाः ! किं यूयं मां दृष्ट्वैव सन्त्रस्ता व्रजथ । तन् न भेतव्यम् । अहं ब्रह्मणाद्य स्वयमेव सृष्ट्वाभिहितः-यच्छ्वापदानां कश्चिद्राजा नास्ति, तत् त्वं मयाद्य सर्व-श्वापद-प्रभुत्वेऽभिषिक्तः ककुद्द्रुमाभिधः । ततो गत्वा क्षिति-तले तान् सर्वान् परिपालयेति । ततोऽहमत्रागतः । तन् मम च्छत्र-च्छायायां सर्वैरपि श्वापदैर्वर्तितव्यम् । अहं ककुद्द्रुमो नाम राजा त्रैलोक्येऽपि सञ्जातः ।
तच्छ्रुत्वा सिंह-व्याघ्र-पुरः-सराः श्वापदाः स्वामिन् प्रभो समादिशेति वदन्तस्तं परिवव्रुः । अथ तेन सिंहस्यामात्य-पदवी प्रदत्ता । व्याघ्रस्य शय्या-पालकत्वम् । द्वीपिनस्ताम्बूलाधिकारः । वृकस्य द्वार-पालकत्वम् । ये चात्मीयाः शृगालास्तैः सहालाप-मात्रमपि न करोति । शृगालाः सर्वेऽपधर्म-चन्द्रं दत्त्वा निःसारिताः । एवं तस्य राज्य-क्रिययां वर्तमानस्य ते सिंहादयो मृगान् व्यापाद्य तत्-पुरतः प्रक्षिपन्ति । सोऽपि प्रभु-धर्मेण सर्वेषां तान् प्रविभज्य प्रयच्छति ।
एवं गच्छति काले कदाचित् तेन समागतेन दूर-देशे शब्दायमानस्य शृगाल-वृन्दस्य कोलाहलोऽश्रावि । तं शब्दं श्रुत्वा पुलकित-तनुरानन्दाश्रु-पूर्ण-नयन उत्थाय तार-स्वरेण विरोतुमारब्धवान् । अथ ते सिंहादयस्तं तार-स्वरमाकर्ण्य शृगालोऽयमिति मत्वा लज्जायाधो-मुखाः क्षणं स्थित्वा प्रोचुः-भोः ! वाहिता वयमनेन क्षुद्र-शृगालेन । तद्वध्यतामिति ।
सोऽपि तदाकर्ण्य पलायितुमिच्छंस्तत्र स्थान एव सिंहादिभिः खण्डशः कृतो मृतश्च ।
अतोऽहं ब्रवीमि-त्यक्ताश्चाभ्यन्तरा येन इति ।
तदाकर्ण्य पिङ्गलक आह-भो दमनक ! कः प्रत्ययोऽत्र विषये यत् स ममोपरि दुष्ट-बुद्धिः ।
स आह-यदद्य ममाग्रे तेन निश्चयः कृतो यत् प्रभाते पिङ्गलकं वधिष्यामि । तदत्रैव प्रत्ययः । प्रभातेऽवसर-वेलायामारक्त-मुख-नयनः स्फुरिताधरो दिशोऽवलोकयन्ननुचित-स्थानोपविष्टस्त्वां क्रूर-दृष्ट्या विलोकयिष्यति । एवं ज्ञात्वा यदुचितं तत् कर्तव्यम् । इति कथयित्वा सञ्जीवक-सकाशं गतस्तं प्रणम्योपविष्टः । सञ्जीवकोऽपि सोद्वेगाकारं मन्द-गत्या समायान्तं तमुद्वीक्ष्य सादरतरमुवाच-भो मित्र ! स्वागतम् । चिराद्दृष्टोऽसि । अपि शिवं भवतः । तत् कथय येनादेयमपि तुभ्यं गृहागताय प्रयच्छामि । उक्तं च-
ते धन्यास्ते विवेक-ज्ञास्ते सभ्या इह भूतले ।
आगच्छन्ति गृहे येषां कार्यार्थं सुहृदो जनाः ॥ १.२८५॥
दमनक आह-भोः ! कथं शिवं सेवक-जनस्य ।
सम्पत्तयः परायत्ताः सदा चित्तमनिर्वृतम् ।
स्व-जीवितेऽपविश्वासस्तेषां ये राज-सेवकाः ॥ १.२८६॥
तथा च-
सेवया धनमिच्छद्भिः सेवकैः पश्य यत् कृतम् ।
स्वातन्त्र्यं यच्छरीरस्य मूढैस्तदपि हारितम् ॥ १.२८७॥
तावज् जन्माति-दुःखाय ततो दुर्गतता सदा ।
तत्रापि सेवया वृत्तिरहो दुःख-परम्परा ॥ १.२८८॥
जीवन्तोऽपि मृताः पञ्च श्रूयन्ते किल भारते ।
दरिद्रो व्याधितो मूर्खः प्रवासी नित्य-सेवकः ॥ १.२८९॥
नाश्नाति स्वच्छयोत्सुक्याद्विनिद्रो न प्रबुध्यते ।
न निःशङ्कं वचो ब्रूते सेवकोऽपत्र जीवति ॥ १.२९०॥
सेवा श्व-वृत्तिराख्याता यैस्तैर्मिथ्या प्रजल्पितम् ।
स्वच्छन्दं चरति स्वात्र सेवकः पर-शासनात् ॥ १.२९१॥
भू-शय्या ब्रह्मचर्यं च कृशत्वं लघु-भोजनम् ।
सेवकस्य यतेर्यद्वद्विशेषः पाप-धर्मजः ॥ १.२९२॥
शीतातपादि-कष्टानि सहते यानि सेवकः ।
धनाय तानि चाल्पानि यदि धर्मान् न मुच्यते ॥ १.२९३॥
मृदुनापि सुवृत्तेन सुश्लिष्टेनापि हारिणा ।
मोदकेनापि किं तेन निष्पत्तिर्यस्य सेवया ॥ १.२९४॥
सञ्जीवक आह-अथ भवान् किं वक्तु-मनाः ?
सोऽब्रवीत्-मित्र, सचिवानां मन्त्र-भेदं न युज्यते । उक्तं च-
यो मन्त्रं स्वामिनो भिद्यात् साचिव्ये सन्-नियोजितः ।
स हत्वा नृप-कार्यं तत् स्वयं च नरकं व्रजेत् ॥ १.२९५॥
येन यस्य कृतो भेदः सचिवेन महीपतेः ।
तेनाशस्त्र-वधस्तस्य कृत इताह नारदः ॥ १.२९६॥
तथापि मया तव स्नेह-पाश-बद्धेन मन्त्र-भेदः कृतः । यतस्त्वं मम वचनेनात्र राज-कुले विश्वस्तः प्रविष्टश्च । उक्तं च-
विश्रम्भाद्यस्य यो मृत्युमवाप्नोति कथञ्चन ।
तस्य हत्या तदुत्था सा प्राहेदं वचनं मनुः ॥ १.२९७॥
तत् तवोपरि पिङ्गलकोऽयं दुष्ट-बुद्धिः कथितं चाद्यानेन मत्-पुरतश्चतुष्कर्णतया-यत् प्रभाते सञ्जीवकं हत्वा समस्त-मृग-परिवारं चिरात् तृप्तिं नेष्यामि ।
ततः स मयोक्तः-स्वामिन् ! न युक्तमिदं यन् मित्र-द्रोहेण जीवनं क्रियते । उक्तं च-
अपि ब्रह्म-वधं कृत्वा प्रायश्चित्तेन शुध्यति ।
तदर्थेन विचीर्णेन न कथञ्चित् सुहृद्द्रुहः ॥ १.२९८॥
ततस्तेनाहं समर्षेणोक्तः-भो दुष्ट-बुद्धे, सञ्जीवकस्तावच्छष्प-भोजी, वयं मांसाशिनः । तदस्माकं स्वाभाविकं वैरमिति कथं रिपुरुपेक्ष्यते ? तस्मात् सामादिभिरुपायैर्हन्यते । न च हते तस्मिन् दोषः स्यात् । उक्तं च-
दत्त्वापि कन्यकां वैरी निहन्तव्यो विपश्चिता ।
अन्योपायैरशक्यो यो हते दोषो न विद्यते ॥ १.२९९॥
कृत्याकृत्यं न मन्येत क्षत्रियो युधि सङ्गतः ।
प्रसुप्तो द्रोण-पुत्रेण धृष्टद्युम्नः पुरा हतः ॥ १.३००॥
तदहं तस्य निश्चयं ज्ञात्वा त्वत्-सकाशमिहागतः । साम्प्रतं मे नास्ति विश्वास-घातक-दोषः । मया सुगुप्त-मन्त्रस्तव निवेदितः । अथ यत् ते प्रतिभाति तत् कुरुष्व इति । अथ सञ्जीवकस्तस्य तद्वज्र-पात-दारुणं वचनं श्रुत्वा मोहमुपगतः । अथ चेतनां लब्ध्वा सवैराग्यमिदमाह-भो साध्विदमुच्यते-
दुर्जन-गम्या नार्यः प्रायेणास्नेहवान् भवति राजा ।
कृपणानुसारि च धनं मेघो गिरि-दुर्ग-वर्षी च ॥ १.३०१॥
अहं हि सम्मतो राज्ञो य एवं मन्यते कुधीः ।
बलीवर्दः स विज्ञेयो विषाण-परिवर्जितः ॥ १.३०२॥
वरं वनं वरं भैक्षं वरं भारोपजीवनम् ।
वरं व्याधिर्मनुष्याणां नाधिकारेण सम्पदः ॥ १.३०३॥
तद्युक्तं मया कृतं तदनेन सह मैत्री विहिता । उक्तं च-
ययोरेव समं वित्तं ययोरेव समं कुलम् ।
तयोर्मैत्री विवाहश्च न तु पुष्ट-विपुष्टयोः ॥ १.३०४॥
तथा च-
मृगा मृगैः सङ्गमनुव्रजन्ति
गावश्च गोभिस्तुरगास्तुरगैः ।
मूर्खाश्च मूर्खैः सुधियः
सुधीभिः समान-शील-व्यसनेन सख्यम् ॥ १.३०५॥
तद्यदि गत्वा तं प्रसादयामि, तथापि न प्रसादं यास्यति । उक्तं च-
निमित्तमुद्दिश्य हि यः प्रकुप्यति
ध्रुवं स तस्यापगमे प्रशाम्यति ।
अकारण-द्वेष-परो हि यो भवेत्
कथं नरस्तं परितोषयति ॥ १.३०६॥
अहो साधु चेदमुच्यते-
भक्तानामुपकारिणां पर-हित-व्यापार-युक्तात्मनां
सेवा-संव्यवहार-तत्त्व-विदुषां द्रोह-च्युतानामपि ।
व्यापत्तिः स्खलितान्तरेषु नियता सिद्धिर्भवेद्वा न वा
तस्मादम्बुपतेरिवावनि-पतेः सेवा सदा शङ्किनी ॥ १.३०७॥
तथा च-
भाव-स्निग्धैरुपकृतमपि द्वेष्यतां याति लोके
साक्षादन्यैरपकृतमपि प्रीतये चोपयाति ।
दुर्ग्राह्यत्वान् नृपति-मनसां नैक-भावाश्रयाणां
सेवा-धर्मः परम-गहनो योगिनामपगम्यः ॥ १.३०८॥
तत् परिज्ञातं मया मत्-प्रसादमसहमानैः समीपवर्तिभिरेष पिङ्गलकः प्रकोपितः । तेनायं ममादोषस्यापेवं वदति । उक्तं च-
प्रभोः प्रसादमन्यस्य न सहन्तीह सेवकाः ।
सपत्न्य इव सङ्क्रुद्धाः सपत्न्याः सुकृतैरपि ॥ १.३०९॥
भवति चैवं यद्गुणवत्सु समीप-वर्तिषु गुण-हीनानां न प्रसादो भवति । उक्तं च-
गुणवत्तर-पात्रेण छाद्यन्ते गुणिनां गुणाः ।
रात्रौ दीप-शिखा-कान्तिर्न भानावुदिते सति ॥ १.३१०॥
दमनक आह-भो मित्र ! यदेवं तन् नास्ति ते भयम् । प्रकोपितोऽपि स दुर्जनैस्तव वचन-रचनया प्रसादं यास्यति ।
स आह-भोः ! न युक्तमुक्तं भवता । लघूनामपि दुर्जनानां मध्ये वस्तुं न शक्यते । उपायान्तरं विधाय ते नूनं घ्नन्ति । उक्तं च-
बहवः पण्डिताः क्षुद्राः सर्वे मायोपजीविनः ।
कुर्युः कृत्यमकृत्यं वा उष्ट्रे काकादयो यथा ॥ १.३११॥
दमक आह–कथमेतत् ?
सोऽब्रवीत्-
कथा ११ मदोत्कट-सिंह-कथा
अस्ति कस्मिंश्चिद्वनोद्देशे मदोत्कटो नाम सिंहः प्रतिवस ति स्म । तस्य चानुचरा अन्ये द्वीपि-वायस-गोमायवः सन्ति । अथ कदाचित् तैरितस्ततो भ्रमद्भिः सार्थाद्भ्रष्टः क्रथनको नामोष्त्रो दृष्टः । अथ सिंह आह-अहो अपूर्वमिदं सत्त्वम् । तज् ज्ञायतां किमेतदारण्यकं ग्राम्यं वेति ।
तच्छ्रुत्वा वायस आह-भोः स्वामिन् ! ग्राम्योऽयमुष्ट्र-नामा जीव-विशेषस्तव भोज्यः । तद्व्यापाद्यताम् । सिंह आह-नाहं गृहमागतं हन्मि । उक्तं च- गृहं शत्रुमपि प्राप्तं विश्वस्तमकुतोभयम् । यो हन्यात् तस्य पापं स्याच्छतब्राह्मणघातजम् ॥ १.३१२॥
तदभय-प्रदानं दत्त्वा मत्-सकाशमानीयतां येनास्यागम-कारणं पृच्छामि ।
अथासौ सर्वैरपि विश्वास्याभय-प्रदानं दत्त्वा मदोत्कट-सकाशमानीतः प्रणम्योपविष्टश्च । ततस्तस्य पृच्छतस्तेनात्म-वृत्तान्तः सार्थ-भ्रंश-समुद्भवो निवेदितः । ततः सिंहेनोक्तम्-भोः क्रथनक ! मा त्वं ग्रामं गत्वा भूयोऽपि भारोद्वहन-कष्ट-भागी भूयाः । तदत्रैवारण्ये निर्विशङ्को मरकत-सदृशानि शष्पाग्राणि भक्षयन् मया सह सदैव वस । सोऽपि तथेतुक्त्वा तेषां मध्ये विचरन् न कुतोऽपि भयमिति सुखेनास्ते ।
तथान्येद्युर्मदोत्कटस्य महा-गजेनारण्य-चारिणा सह युद्धमभवत् । ततस्तस्य दन्त-मुसल-प्रहारैर्व्यथा सञ्जाता । व्यथितः कथमपि प्राणैर्न वियुक्तः । अथ शरीरासामर्थ्यान् न कुत्रचित् पदमपि चलितुं शक्नोति । ते सर्वे काकादयोऽपप्रभुत्वेन क्षुधाविष्टाः परं दुःखं भेजुः । अथ तान् सिंहः प्राह-भोः ! अन्विष्यतां कुत्रचित् किञ्चित् सत्त्वं येनाहमेतामपि दशां प्राप्तस्तद्धत्वा युष्मद्भोजनं सम्पादयामि ।
अथ ते चत्वारोऽपि भ्रमितुमारब्धा यावन् न किञ्चित् सत्त्वं पश्यन्ति तावद्वायस-शृगालौ परस्परं मन्त्रयतः । शृगाल आह-भो वायस ! किं प्रभूत-भ्रान्तेन । अयमस्माकं प्रभोः क्रथनको विश्वस्तस्तिष्ठति । तदेनं हत्वा प्राण-यात्रां कुर्मः । वायस आह-युक्तमुक्तं भवता । परं स्वामिना तस्याभय-प्रदानं दत्तमास्ते न वध्योऽयमिति ।
शृगाल आह-भो वायस ! अहं स्वामिनं विज्ञाप्य तथा करिष्ये यथा स्वामी वधं करिष्यति । तत् तिष्ठन्तु भवन्तोऽत्रैव, यावदहं गृहं गत्वा प्रभोराज्ञां गृहीत्वा चागच्छामि ।
एवमभिधाय सत्वरं सिंहमुद्दिश्य प्रस्थितः । अथ सिंहमासाद्येदमाह-स्वामिन् ! समस्तं वनं भ्रान्त्वा वयमागताः । न किञ्चित् सत्त्वमासादितम् । तत् किं कुर्मो वयम् । सम्प्रति वयं बुभुक्षया पदमेकमपि प्रचलितुं न शक्नुमः । देवोऽपि पथ्याशी वर्तते । तद्यदि देवादेशो भवति तत् क्रथनक-पिशितेनाद्य पथ्य-क्रिया क्रियते ।
अथ सिंहस्तस्य तद्दारुणं वचनमाकर्ण्य सकोपमिदमाह-धिक् पापाधम ! यदेवं भूयोऽपि वदसि । ततस्त्वां तत्-क्षणमेव वधिष्यामि । ततो मया तस्याभयं प्रदत्तम् । तत् कथं व्यापादयामि । उक्तं च-
न गो-प्रदानं न मही-प्रदानं न चान्न-दानं हि तथा प्रधानम् । यथा वदन्तीह बुधाः प्रधानं सर्व-प्रदानेष्वभय-प्रदानम् ॥ १.३१३॥
तच्छ्रुत्वा शृगाल आह-स्वामिन् यदभयप्रदानं दत्त्वा वधः क्रियते तदेष दोषो भवति । पुनर्यदि देवपादानां भक्त्या सात्मनो जीवितव्यं प्रयच्छति तन् न दोषः । ततो यदि स स्वयमेवात्मानं वधाय नियोजयति तद्वध्योऽन्यथास्माकं मध्यादेकतमो वध्य इति यतो देवपादाः पथ्याशिनः क्षुन्निरोधादन्त्यां दशां यास्यन्ति । तत् किमेतैः प्राणैरस्माकं ये स्वाम्यर्थे न यास्यन्ति । अपरं पश्चादपस्माभिर्वह्नि-प्रवेशः कार्यो यदि स्वामि-पादानां किञ्चिदनिष्टं भविष्यति । उक्तं च- यस्मिन् कुले यः पुरुषः प्रधानः स सर्व-यत्नैः परिरक्षणीयः । तस्मिन् विनष्टे स्व-कुलं विनष्टं न नाभि-भङ्गे हरका वहन्ति ॥ १.३१४॥
तदाकर्ण्य मदोत्कट आह-यदेवं तत् कुरुष्व यद्रोचते ।
तच्छ्रुत्वा स सत्वरं गत्वा तान् आह-भोः ! स्वामिनो महतवस्था वर्तते । तत् किं पर्यटितेन ? तेन विना कोऽत्रास्मान् रक्षयिष्यति ? तद्गत्वा तस्य क्षुद्रोगात् पर-लोकं प्रस्थितस्यात्म-शरीर-दानं कुर्मो येन स्वामि-प्रसादस्य अनृणतां गच्छामः । उक्तं च-
आपदं प्राप्नुयात् स्वामी यस्य भृत्यस्य पश्यतः ।
प्राणेषु विद्यमानेषु स भृत्यो नरकं व्रजेत् ॥ १.३१५॥
तदनन्तरं ते सर्वे बाष्प-पूरित-दृशो मदोत्कटं प्रणम्योपविष्टाः । तान् दृष्ट्वा मदोत्कट आह-भोः ! प्राप्तं दृष्टं वा किञ्चित् सत्त्वम् । अथ तेषां मध्यात् काकः प्रोवाच-स्वामिन् ! वयं तावत् सर्वत्र पर्यटिताः परं न किञ्चित् सत्त्वमासादितं दृष्टं वा । तदद्य मां भक्षयित्वा प्राणान् धारयतु स्वामी, येन देवस्याश्वासनं भवति मम पुनः स्वर्ग-प्राप्तिरिति । उक्तं च-
स्वाम्यर्थे यस्त्यजेत् प्राणान् भृत्यो भक्ति-समन्वितः । स परं पदमाप्नोति जरा-मरण-वर्जितम् ॥ १.३१६॥
तच्छ्रुत्वा शृगाल आह-भोः ! स्वल्प-कायो भवान् । तव भक्षणात् स्वामिनस्तावत् प्राण-यात्रा न भवति । अपरो दोषश्च तावत् समुत्पद्यते । उक्तं च-
काक-मांसं तथोच्छिष्टं स्तोकं तदपि दुर्बलम् ।
भक्षितेनापि किं तेन येन तृप्तिर्न जायते ॥ १.३१७॥
तद्दर्षिता स्वामि-भक्तिर्भवता गतं च आनृण्यं भर्तृ-पिण्डस्य प्राप्तश्चोभय-लोके साधु-वादः । तदपसराग्रतः । अहं स्वामिनं विज्ञापयामि । तथानुष्ठिते शृगालः सादरं प्रणम्योपविष्टः प्राह-स्वामिन् ! मां भक्षयित्वाद्य प्राण-यात्रां विधाय ममोभय-लोक-प्राप्तिं कुरु । उक्तं च-
स्वाम्यायत्ताः सदा प्राणा भृत्यानामर्जिता धनैः । यतस्ततो न दोषोऽस्ति तेषां ग्रहण-सम्भवः ॥ १.३१८॥
अथ तच्छ्रुत्वा द्वीपाह-भोः साधूक्तं भवता पुनर्भवानपि स्वल्प-कायः स्व-जातिश्च नखायुधत्वादभक्ष्य एव । उक्तं च- नाभक्ष्यं भक्षयेत् प्राज्ञः प्राणैः कण्ठ-गतैरपि । विशेषात् तदपि स्तोकं लोक-द्वय-विनाशकम् ॥ १.३१९॥
तद्दर्शितं त्वयात्मनः कौलीन्यम् । अथ वा साधु चेदमुच्यते- एतदर्थं कुलीनानां नृपाः कुर्वन्ति सङ्ग्रहम् । आदि-मध्यावसानेषु न ते गच्छन्ति विक्रियाम् ॥ १.३२०॥
तदपसराग्रतः, येनाहं स्वामिनं विज्ञापयामि । तथानुष्ठिते द्वीपी प्रणम्य मदोत्कटमाह-स्वामिन् ! क्रियतामद्य मम प्राणैः प्राण-यात्रा । दीयतामक्षयो वासः स्वर्गे । मम विस्तार्यतां क्षिति-तले प्रभूतं यशः । तन् नात्र विस्मयः कार्यः । उक्तं च- मृतानां स्वामिनः कार्ये भृत्यानामनुवर्तिनाम् । भवेत् स्वर्गे अक्षयो वासः कीर्तिश्च धरणी-तले ॥ १.३२१॥
तच्छ्रुत्वा क्रथनकश्चिन्तयामास-एतैस्तावत् सर्वैरपि शोभा-वाक्यानुक्तानि न चैकोऽपि स्वामिना विनाशितः । तदहमपि प्राप्त-कालं वक्ष्यामि चित्रकं येन मद्वचनमेते त्रयोऽपि समर्थयन्ति । इति निश्चित्य प्रोवाच-भोः सत्यमुक्तं भवता परं भवानपि नखायुधः । तत् कथं भवन्तं स्वामी भक्षयति । उक्तं च- मनसापि स्वजात्यानां योऽनिष्टानि प्रचिन्तयेत् । भवन्ति तस्य तानेव इह लोके परत्र च ॥ १.३२२॥
तदपसराग्रतः, येनाहं स्वामिनं विज्ञापयामि । तथानुष्ठिते क्रथनकोऽग्रे स्थित्वा प्रणम्योवाच-स्वामिन् ! एतेऽभक्ष्यास्तव तन् मम प्राणैः प्राण-यात्रा विधीयतां येन ममोभय-लोक-प्राप्तिर्भवति । उक्तं च-
न यज्वानोऽपि गच्छन्ति तां गतिं नैव योगिनः । यां यान्ति प्रोज्झित-प्राणाः स्वाम्यर्थे सेवकोत्तमाः ॥ १.३२३॥
एवमभिहिते ताभ्यां शृगाल-चित्रकाभ्यां विदारितोभय-कुक्षिः क्रथनकः प्राणानत्याक्षीत् । ततश्च तैः क्षुद्र-पण्डितैः सर्वैर्भक्षितः ।
अतोऽहं ब्रवीमि-बहवः पण्डिताः क्षुद्राः इति ।
तद्भद्र, क्षुद्र-परिवारोऽयं ते राजा मया सम्यग्जातः । सतामसेव्यं च । उक्तं च-
अशुद्ध-प्रकृतौ राज्ञि जनता नानुरज्यते ।
यथा गृध्र-समासन्नः कलहंसः समाचरेत् ॥ १.३२४॥
तथा च-
गृध्राकारोऽपि सेव्यः स्याद्धंसाकारैः सभासदैः ।
हंसाकारोऽपि सन्त्याज्यो गृध्राकारैः स तैर्नृपः ॥ १.३२५॥
तन् नूनं ममोपरि केनचिद्दुर्जनेनायं प्रकोपितः, तेनैवं वदति । अथवा भवतेतत् । उक्तं च-
मृदुना सलिलेन खन्यमा
नान्यवद्धृष्यन्ति गिरेरपि स्थलानि ।
उपजापविदां च कर्ण-जापैः
किमु चेतांसि मृदूनि मानवानाम् ॥ १.३२६॥
कर्ण-विषेण च भग्नः किं किं न करोति बालिशो लोकः ।
क्षपणकतामपि धत्ते पिबति सुरां नरक-पालेन ॥ १.३२७॥
अथवा साध्विदमुच्यते-
पादाहतोऽपि दृढ-दण्ड-समाहतोऽपि
यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः ।
कोऽपेष एव पिशुनोग्र-मनुष्य-धर्मः
कर्णे परं स्पृशति हन्ति परं समूलम् ॥ १.३२८॥
तथा च-
अहो खल-भुजङ्गस्य विपरीतो वध-क्रमः ।
कर्णे लगति चान्यस्य प्राणैरन्यो वियुज्यते ॥ १.३२९॥
तदेवं गतेऽपि किं कर्तव्यमितहं त्वां सुहृद्भावात् पृच्छामि ।
दमनक आह-तद्देशान्तर-गमनं युज्यते । नैवं-विधस्य कुस्वामिनः सेवां विधातुम् । उक्तं च-
गुरोरपवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथ-प्रतिपन्नस्य परित्यागो विधीयते ॥ १.३३०॥
सञ्जीवक आह-अस्माकमुपरि स्वामिनि कुपिते गन्तुं न शक्यते, न चान्यत्र गतानामपि निर्वृतिर्भवति । उक्तं च-
महतां योऽपराध्येन दूरस्थोऽस्मीति नाश्वसेत् ।
दीर्घौ बुद्धिमतो बाहू ताभ्यां हिंसति हिंसकम् ॥ १.३३१॥
तद्युद्धं मुक्त्वा मे नान्यदसित् श्रेयस्करम् । उक्तं च-
न तान् हि तीर्थैस्तपसा च लोकान्
स्वर्गैषिणो दान-शतैः सुवृत्तैः ।
क्षणेन यान् यान्ति रणेषु धीराः
प्राणान् समुज्झन्ति हि ये सुशीलाः ॥ १.३३२॥
मृतैः सम्प्राप्यते स्वर्गो जीवद्भिः कीर्तिरुत्तमा ।
तदुभावपि शूराणां गुणावेतौ सुदुर्लभौ ॥ १.३३३॥
ललाट-देशे रुधिरं स्रवत् तु
शूरस्य यस्य प्रविशेच्च वक्त्रे ।
तत् सोमपानेन समं भवेच्च
सङ्ग्राम-यज्ञे विधिवत् प्रदिष्टम् ॥ १.३३४॥
तथा च-
होमार्थैर्विधिवत् प्रदान-विधिना सद्विप्र-वृन्दार्चनैर्
यज्ञैर्भूरि-सुदक्षिणैः सुविहितैः सम्प्राप्यते यत् फलम् ।
सत्-तीर्थाश्रम-वास-होम-नियमैश्चान्द्रायणाद्यैः कृतैः
पुम्भिस्तत्-फलमाहवे विनिहितैः सम्प्राप्यते तत्-क्षणात् ॥ १.३३५॥
तदाकर्ण्य दमनकश्चिन्तयामास-युद्धाय कृत-निश्चयोऽयं दृश्यते दुरात्मा । तद्यदि कदाचित् तीक्ष्ण-शृगालाभ्यां स्वामिनं प्रहरिष्यति तन् महाननर्थः सम्पत्स्यते । तदेनं भूयोऽपि स्व-बुद्ध्या प्रबोध्य तथा करोमि, यथा देशान्तर-गमनं करोति । आह च-भो मित्र ! सम्यगभिहितं भवता । परं कः स्वामि-भृत्ययोः सङ्ग्रामः । उक्तं च-
बलवन्तं रिपुं दृष्ट्वा किलात्मानं प्रगोपयेत् ।
बलवद्भिश्च कर्तव्या शरच्चन्द्र-प्रकाशता ॥ १.३३६॥
अन्यच्च-
शत्रोर्विक्रममज्ञात्वा वैरमारभते हि यः ।
स पराभवमाप्नोति समुद्रष् टिट्टिभाद्यथा ॥ १.३३७॥
सञ्जीवक आह–कथमेतत् ?
सोऽब्रवीत्-
कथा १२ टिट्टिभ-दम्पती-कथा
कस्मिंश्चित् समुद्रैक-देशे टिट्टिभ-दम्पती वसतः । ततो गच्छति काल ऋतु-समयमासाद्य टिट्टिभी गर्भमाधत्त । आसन्न-प्रसवा सती सा टिट्टिभमूचे-भोः कान्त ! मम प्रसव-समयो वर्तते । तद्विचिन्त्यतां किमपि निरुपद्रवं स्थानं येन तत्राहमण्डक-मोक्षणं करोमि ।
टिट्टिभः प्राह-भद्रे रम्योऽयं समुद्र-प्रदेशः । तदत्रैव प्रसवः कार्यः ।
सा प्राह-अत्र पूर्णिमा-दिने समुद्र-वेला चरति । सा मत्त-गजेन्द्रानपि समाकर्षति । तद्दूरमन्यत्र किञ्चित् स्थानमन्विष्यताम् ।
तच्छ्रुत्वा विहस्य टिट्टिभ आह-भद्रे न युक्तमुक्तं भवत्या । का मात्रा समुद्रस्य या मम दूषयिष्यति प्रसूतिम् । किं न श्रुतं भवत्या-
बद्ध्वाम्बर-चर-मार्गं व्यपगत-धूमं सदा महद्भयदम् ।
मन्द-मतिः कः प्रविशति हुताशनं स्वेच्छया मनुजः ॥ १.३३८॥
मत्तेभ-कुम्भ-विदलन-कृत-श्रमं सुप्तमन्तक-प्रतिमम् ।
यम-लोक-दर्शनेच्छुः सिंहः बोधयति को नाम ॥ १.३३९॥
को गत्वा यम-सदनं स्वयमन्तकमादिशतजात-भयः ।
प्राणानपहर मत्तो यदि शक्तिः काचिदस्ति तव ॥ १.३४०॥
प्रालेय-लेश-मिश्रे मरुति प्राभातिके च वाति जडे ।
गुण-दोष-ज्ञः पुरुषो जलेन कः शीतमपनयति ॥ १.३४१॥
तस्माद्विश्रब्धात्रैव गर्भं मुञ्च । उक्तं च-
यः पराभव-सन्त्रस्तः स्व-स्थानं सन्त्यजेन् नरः ।
तेन चेत् पुत्रिणी माता तद्वन्ध्या केन कथ्यते ॥ १.३४२॥
तच्छ्रुत्वा समुद्रश्चिन्तयामास-अहो गर्वः पक्षि-कीटस्यास्य । अथ वा साध्विदमुच्यते-
उत्क्षिप्य टिट्टिभः पादावास्ते भ गभयाद्दिवः ।
स्व-चित्त-कल्पितो गर्वः कस्य नात्रापि विद्यते ॥ १.३४३॥
तन् मयास्य प्रमाणं कुतूहलादपि द्रष्टव्यम् । किं ममैषोऽण्डापहारे कृते करिष्यति । इति चिन्तयित्वा स्थितः । अथ प्रसवानन्तरं प्राणयात्रार्थं गतायाष् टिट्टिभ्याः समुद्रो वेलाव्याजेनाण्डानपजहार । अथायाता सा टिट्टिभी प्रसवस्थानं शून्यमवलोक्य प्रलपन्ती टिट्टिभमूचे-भो मूर्ख ! कथितमासीन् मया ते यत् समुद्रवेलया अण्डानां विनाशो भविष्यति तद्दूरतरं व्रजावः परं मूढतयाहङ्कारमाश्रित्य मम वचनं न करोषि । अथवा साध्विदमुच्यते ।
सुहृदां हितकामानां न करोतीह यो वचः । स कूर्म इव दुर्बुद्धिः काष्ठाद्भ्रष्टो विनश्यति ॥ १.३४४॥
टिट्टिभ आह-कथमेतत् ? साब्रवीत्-
कथा १३ कम्बुग्रीवाख्य-कूर्म-कथा
अस्ति कस्मिंश्चिज् जलाशये कम्बु-ग्रीवो नाम कच्छपः । तस्य च सङ्कट-विकट-नाम्नी मित्रे हंस-जातीये परम-स्नेह-कोटिमाश्रिते नित्यमेव सरस्तीरमासाद्य तेन सहानेक-देवर्षि-महर्षीणां कथाः कृत्वास्त-मय-वेलायां स्व-नीडा-संश्रयं कुरुतः । अथ गच्छता कालेनावृष्टि-वशात् सरः शनैः शनैः शोषमगमत् । ततस्तद्दुःख-दुःखितौ तावूचतुः-भो मित्र ! जम्बाल-शेषमेतत्-सरः सञ्जातम् । तत् कथं भवान् भविष्यतीति व्याकुलत्वं नो हृदि वर्तते ।
तच्छ्रुत्वा कम्बुग्रीव आह-भोः, साम्प्रतं नास्तस्माकं जीवितव्यं जलाभावात् । तथापुपायश्चिन्त्यतामिति । उक्तं च-
त्याज्यं न धैर्यं विधुरेऽपि काले
धैर्यात् कदाचिद्गतिमाप्नुयात् सः ।
यथा समुद्रेऽपि च पोत-भङ्गे
सांयात्रिको वाञ्छति तर्तुमेव ॥ १.३४५॥
अपरं च-
मित्रार्थे बान्धवार्थे च बुद्धिमान् यतते सदा ।
जातास्वापत्सु यत्नेन जगादेदं वचो मनुः ॥ १.३४६॥
तदानीयतां काचिद्दृढ-रज्जुर्लघु-काष्ठं वा । अन्विष्यतां च प्रभूत-जल-सनाथं सरः, येन मया मध्य-प्रदेशे दन्तैर्गृहीते सति युवां कोटि-भागयोस्तत्-काष्ठं मया सहितं सङ्गृह्य तत्-सरो नयथः ।
तावूचतुः-भो मित्र ! एवं करिष्यावः । परं भवता मौन-व्रतेन स्थातव्यम् । नो चेत् तव काष्ठात् पातो भविष्यति ।
तथानुष्ठिते गच्छता कम्बुग्रीवेणाधोभाग-व्यवस्थितं किञ्चित् पुरमालोकितम् । तत्र ये पौरास्ते तथा नीयमानं विलोक्य सविस्मयमिदमूचुः-अहो चक्राकारं किमपि पक्षिभ्यां नीयते । पश्यत पश्यत ।
अथ तेषां कोलाहलमाकर्ण्य कम्बुग्रीव आह-भोः ! किमेष कोलाहलः ? इति वक्तु-मना अर्धोक्ते पतितः पौरैः खण्डशः कृतश्च । अतोऽहं ब्रवीमि-सुहृदां हित-कामानामिति । तथा च-
अनागत-विधाता च प्रत्युत्पन्न-मतिस्तथा ।
द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति ॥ १.३४७॥
टिट्टिभ आह-कथमेतत् ?
साब्रवीत्-
कथा १४ अनागत-विधातादि-मत्स्य-त्रय-कथा
कस्मिंश्चिज् जलाशयेऽनागत-विधाता प्रत्युत्पन्न-मतिर्यद्भविष्यश्चेति त्रयो मत्स्याः सन्ति । अथ कदाचित् तं जलाशयं दृष्ट्वा गच्छद्भिर्मत्स्य-जीविभिरुक्तम्-यदहो बहु-मत्स्योऽयं ह्रदः । कदाचिदपि नास्माभिरन्वेषितः । तदद्य तावदाहार-वृत्तिः सञ्जाता । सन्ध्या-समयश्च संवृत्तः । ततः प्रभातेऽत्रागन्तव्यमिति निश्चयः ।
अतस्तेषां तत्-कुलिश-पातोपमं वचः समाकर्ण्यानागत-विधाता सर्वान् मत्स्यान् आहूयेदमूचे-अहो, श्रुतं भवद्भिर्यन् मत्स्य-जीविभिरभिहितम् । तद्रात्रावपि गम्यतां किञ्चिन् निकटं सरः । उक्तं च-
अशक्तैर्बलिनः शत्रोः कर्तव्यं प्रपलायनम् ।
संश्रितव्योऽथवा दुर्गो नान्या तेषां गतिर्भवेत् ॥ १.३४८॥
तन् नूनं प्रभात-समये मत्स्य-जीविनोऽत्र समागम्य मत्स्य-सङ्क्षयं करिष्यन्ति । एतन् मम मनसि वर्तते । तन् न युक्तं साम्प्रतं क्षणमपत्रावस्थातुम् । उक्तं च-
विद्यमाना गतिर्येषामन्यत्रापि सुखावहा ।
ते न पश्यन्ति विद्वांसो देह-भङ्गं कुल-क्षयम् ॥ १.३४९॥
तदाकर्ण्य प्रत्युत्पन्न-मतिः प्राह-अहो सत्यमभिहितं भवता । ममापभीष्टमेतत् । तदन्यत्र गम्यतामिति । उक्तं च-
पर-देश-भयात् भीता बहु-माया नपुंसकाः ।
स्व-देशे निधनं यान्ति काकाः कापुरुषा मृगाः ॥ १.३५०॥
यस्यास्ति सर्वत्र गतिः स कस्मात्
स्व-देश-रागेण हि याति नाशम् ।
तातस्य कूपोऽयमिति ब्रुवाणाः
क्षार-जलं कापुरुषाः पिबन्ति ॥ १.३५१॥
अथ तत् समाकर्ण्य प्रोच्चैर्विहस्य यद्भविष्यः प्रोवाच-अहो, न भवद्भ्यां मन्त्रितं सम्यगेतदिति, यतः किं वाङ्-मात्रेणापि तेषां पितृ-पैतामहिकमेतत् सरस्त्यक्तुं युज्यते । यदायुः-क्षयोऽस्ति तदन्यत्र गतानामपि मृत्युर्भविष्यतेव । उक्तं च-
अरक्षितं तिष्ठति दैव-रक्षितं
सुरक्षितं दैव-हतं विनश्यति ।
जीवतनाथोऽपि वने विसर्जितः
कृत-प्रयत्नोऽपि गृहे न जीवति ॥ १.३५२॥
तदहं न यास्यामि भवद्भ्यां च यत् प्रतिभाति तत् कर्तव्यम् ।
अथ तस्य तं निश्चयं ज्ञात्वानागत-विधाता प्रत्युत्पन्न-मतिश्च निष्क्रानौ सह परिजनेन । अथ प्रभाते तैर्मत्स्य-जीविभिर्जालैस्तज् जलाशयमालोड्य यद्भविष्येण सह तत्-सरो निर्मत्स्यतां नीतम् । अतोऽहं ब्रवीमि-अनागत-विधाता चेति ।
तच्छ्रुत्वा टिट्टिभ आह-भद्रे, किं मां यद्भविष्य-सदृशं सम्भावयसि । तत् पश्य मे बुद्धि-प्रभावं यावदेनं दुष्ट-समुद्रं स्व-चञ्च्वा शोषयामि ।
टिट्टिभाह-अहो कस्ते समुद्रेण सह विग्रहः । तन् न युक्तमस्योपरि कोपं कर्तुम् । उक्तं च-
पुंसामसमर्थानामुपद्रवायात्मनो भवेत् कोपः ।
पिठरं ज्वलदतिमात्रं निज-पार्श्वान् एव दहतितराम् ॥ १.३५३॥
तथा च-
अविदित्वात्मनः शक्तिं परस्य न समुत्सुकः ।
गच्छन्नभिमुखो वह्नौ नाशं याति पतङ्गवत् ॥ १.३५४॥
टिट्टिभ आह-प्रिये, मा मैवं वद । येषामुत्साह-शक्तिर्भवति ते स्वल्पा अपि गुरून् विक्रमन्ते । उक्तं च-
विशेषात् परिपूर्णस्य याति शत्रोरमर्षणः ।
आभिमुख्यं शशाङ्कस्य यथाद्यापि विधुन्तुदः ॥ १.३५५॥
तथा च- प्रमाणादधिकस्यापि गण्ड-श्याम-मद-च्युतेः । पदं मूर्ध्नि समाधत्ते केसरी मत्त-दन्तिनः ॥ १.३५६॥
तथा च-
बालस्यापि रवेः पादाः पतन्तुपरि भूभृताम् ।
तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥ १.३५७॥
हस्तौ स्थूलतरः स चाङ्कुश-वशः किं हस्ति-मात्रोऽङ्कुशो
दीपे प्रज्वलिते प्रणश्यति तमः किं दीप-मात्रं तमः ।
वज्रेणापि हताः पतन्ति गिरयः किं वज्र-मात्रो गिरिस्
तेजो यस्य विराजते स बलवान् स्थूलेषु कः प्रत्ययः ॥ १.३५८॥
तदनया चञ्च्वास्य सकलं तोयं शुष्क-स्थलतां नयामि ।
टिट्टिभाह-भोः कान्त ! यत्र जाह्नवी नव-नदी-शतानि गृहीत्वा नित्यमेव प्रविशति, तथा सिन्धुश्च । तत् कथं त्वमष्टादश-नदी-शतैः पूर्यमाणं तं विप्रुष-वाहिन्या चञ्च्वा शोषयिष्यसि ? तत् किमश्रद्धो येनोक्तेन ।
टिट्टिभ आह-प्रिये !
अनिर्वेदः श्रियो मूलं चञ्चुर्मे लोह-सन्निभा ।
अहो-रात्राणि दीर्घाणि समुद्रः किं न शुष्यति ॥ १.३५९॥
दुरधिगमः पर-भागो यावत् पुरुषेण पौरुषं न कृतम् ।
जयति तुलामधिरूढो भास्वानपि जलद-पटलानि ॥ १.३६०॥
टिट्टिभाह-यदि त्वयावश्यं समुद्रेण सह विग्रहानुष्ठानं कार्यम् । तदन्यानपि विहङ्गमान् आहूय सुहृज्-जन-सहित एवं समाचर । उक्तं च-
बहूनामपसाराणां सम्वायो हि दुर्जयः ।
तृणैरावेष्ट्यते रज्जुर्यथा नागोऽपि बद्ध्यते ॥ १.३६१॥
तथा च-
चटकाकाष्ठ-कूटेन मक्षिका-दर्दुरैस्तथा ।
महाजन-विरोधेन कुञ्जरः प्रलयं गतः ॥ १.३६२॥
टिट्टिभ आह-कथमेतत् ?
सा प्राह-
कथा १५ कुञ्जर-चटक-दम्पती-कथा
कस्मिंश्चिद्वनोद्देशे चटक-दम्पती तमाल-तरु-कृत-निलयौ प्रतिवसतः स्म । अथ तयोर्गच्छता कालेन सन्ततिरभवत् । अन्यस्मिन्नहनि प्रमत्तो वन-गजः कश्चित् तं तमाल-वृक्षं घर्मार्तश्छायार्थी समाश्रितः । ततो मदोत्कऋषात् तां तस्य शाखां चटकाश्रितां पुष्कराग्रेणाकृष्य बभञ्ज । तस्या भङ्गेन चटकाण्डानि सर्वाणि विशीर्णानि । आयुः-शेषतया च चटकौ कथमपि प्राणैर्न वियुक्तौ ।
अथ चटका साण्ड-भङ्गाभिभूता प्रलापान् कुर्वाणा न किञ्चित् सुखमाससाद । अत्रान्तरे तस्यास्तान् प्रलापान् श्रुत्वा काष्ठ-कूटो नाम पक्षी तस्याः परम-सुहृत्-तद्दुःख-दुःखितोऽभ्येत्य तामुवाच-भगवति ! किं वृथा प्रलापेन । उक्तं च-
नष्टं मृतमतिक्रान्तं नानुशोचन्ति पण्डिताः ।
पण्डितानां च मूर्खाणां विशेषोऽयं यतः स्मृतः ॥ १.३६३॥
तथा च-
अशोच्यानीह भूतानि यो मूढस्तानि शोचति ।
तद्दुःखाल्लभते दुःखं द्वावनर्थौ निषेवते ॥ १.३६४॥
अन्यच्च-
श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः ।
तस्मान् न रोदितव्यं हि क्रियाः कार्याश्च शक्तितः ॥ १.३६५॥
चटका प्राह-अस्त्वेतत् । परं दुष्ट-गजेन मदान् मम सन्तान-क्षयः कृतः । तद्यदि मम त्वं सुहृत्-सत्यस्तदस्य गजापसदस्य कोऽपि वधोपायश्चिन्त्यताम् । यस्यानुष्ठानेन मे सन्तति-नाश-दुःखमपसरति । उक्तं च-
आपदि येनोपकृतं येन च हसितं दशासु विषमासु ।
उपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥ १.३६६॥
काष्ठ-कूट आह-भगवति, सत्यमभिहितं भवत्या । उक्तं च-
स सुहृद्व्यसने यः स्यादन्य-जात्युद्भवोऽपि सन् ।
वृद्धौ सर्वोऽपि मित्रं स्यात् सर्वेषामेव देहिनाम् ॥ १.३६७॥
स सुहृद्व्यसने यः स्यात् स पुत्रो यस्तु भक्तिमान् ।
स भृत्यो यो विधेयज्ञः सा भार्या यत्र निर्वृतिः ॥ १.३६८॥
तत् पश्य मे बुद्धि-प्रभावम् । परं ममापि सुहृद्भूता वीणारवा नाम मक्षिकास्ति । तत् तामाहूयागच्छामि, येन स दुरात्मा दुष्ट-गजो बध्यते ।
अथासौ चटकया सह मक्षिकामासाद्य प्रोवाच-भद्रे, ममेष्टेयं चटका केनचिद्दुष्ट-गजेन पराभूताण्ड-स्फोटनेन । तत् तस्य वधोपायमनुतिष्ठतो मे साहाय्यं कर्तुमर्हसि ।
मक्षिकापाह-भद्र ! किमुच्यतेऽत्र विषये । उक्तं च-
पुनः प्रत्युपकाराय मित्राणां क्रियते प्रियम् ।
यत् पुनर्मित्र-मित्रस्य कार्यं मित्रैर्न किं कृतम् ॥ १.३६९॥
सत्यमेतत् । परं ममापि भेको मेघनादो नाम मित्रं तिष्ठति । तमपाहूय यथोचितं कुर्मः । उक्तं च-
हितैः साधु-समाचारैः शास्त्रज्ञैर्मति-शालिभिः ।
कथञ्चिन् न विकल्पन्ते विद्वद्भिश्चिन्तिता नयाः ॥ १.३७०॥
अथ ते त्रयोऽपि गत्वा मेघनादस्याग्रे समस्तं वृत्तान्तं निवेद्य तस्थुः । अथ स प्रोवाच-कियन् मात्रोऽसौ वराको गजो महाजनस्य कुपितस्याग्रे । तन् मदीयो मन्त्रः कर्तव्यः । मक्षिके, त्वं गत्वा मध्याह्न-समये तस्य मदोद्धतस्य गजस्य कर्णे वीणा-रव-सदृशं शब्दं कुरु । येन श्रवण-सुख-लालसो निमीलित-नयनो भवति । ततश्च काष्ठ-कूट-चञ्च्वा स्फोटित-नयनोऽन्धीभूतस्तृषार्तो मम गर्त-तटाश्रितस्य सपरिकरस्य शब्दं श्रुत्वा जलाशयं मत्वा समभ्येति । ततो गर्तमासाद्य पतिष्यति पञ्चत्वं यास्यति चेति । एवं समवायः कर्तव्यो यथा वैर-साधनं भवति ।
अथ तथानुष्ठिते स मत्त-गजो मक्षिका-गेय-सुखान् निमीलित-नेत्रः काष्ठ-कूट-हृत-चक्षुर्मध्याह्न-समये भ्राम्यन् मण्डूक-शब्दानुसारी गच्छन् महतीं गर्तमासाद्य पतितो मृतश्च । अतोऽहं ब्रवीमि-चटका काष्ठ-कूटेन इति ।
टिट्टिभ आह-भद्रे, एवं भवतु । सुहृद्वर्ग-समुदायेन सह समुद्रं शोषयिष्यामि । इति निश्चित्य बक-सारस-मयूरादीन् समाहूय प्रोवाच-भोः पराभूतोऽहं समुद्रेणाण्डकापहरेण । तच्चिन्त्यतामस्य शोषणोपायः ।
ते सम्मन्त्र्य प्रोचुः-अशक्ता वयं समुद्र-शोषणे । तत् किं वृथा प्रयासेन । उक्तं च-
अबलः प्रोन्नतं शत्रुं यो याति मद-मोहितः ।
युद्धार्थं स निवर्तेत शीर्ण-दन्तो यथा गजः ॥ १.३७१॥
तदस्माकं स्वामी वैनतेयोऽस्ति । तस्मै सर्वमेतत्-परिभव-स्थानं निवेद्यताम्, येन स्वजाति-परिभव-कुपितो वैरानृण्यं गच्छति । अथवात्रावलेपं करिष्यति तथापि नास्ति वो दुःखम् । उक्तं च-
सुहृदि निरन्तर-रचिते गुणवति भृत्येऽनुवर्तिनि कलत्रे ।
स्वामिनि शक्ति-समेते निवेद्य दुःखं सुखी भवति ॥ १.३७२॥
तद्यामो विनतेय-सकाशं यतोऽसावस्माकं स्वामी ।
तथानुष्ठिते सर्वे ते पक्षिणो विषण्ण-वदना बाष्प-पूरित-दृशो वैनतेय-सकाशमासाद्य करुण-स्वरेण फूत्कर्तुमारब्धाः-अहो ! अब्रह्मण्यमब्रह्मण्यम् ! अधुना सदाचारस्य टिट्टिभस्य भवति नाथे सति समुद्रेणाण्डानपहृतानि तत्-प्रनष्टमधुना पक्षि-कुलम् । अन्येऽपि स्वेच्छया समुद्रेण व्यापादिष्यन्ते । उक्तं च-
क्व कस्य कर्म संवीक्ष्य करोतन्योऽपि गर्हितम् ।
गतानुगतिको लोको न लोकः पारमार्थिकः ॥ १.३७३॥
चाटु-तस्कर-दुर्वृत्तैस्तथा साहसिकादिभिः ।
पीड्यमानाः प्रजा रक्ष्याः कटूच्छद्मादिभिस्तथा ॥ १.३७४॥
प्रजानां धर्म-षड्-भागो राज्ञो भवति रक्षितुः ।
अधर्मादपि षड्-भागो जायते यो न रक्षति ॥ १.३७५॥
प्रजा-पीडन-सन्तापात् समुद्भूतो हुताशनः ।
राज्ञः श्रियं कुलं प्राणान् नादग्ध्वा विनिवर्तते ॥ १.३७६॥
राजा बन्धुरबन्धूनां राजा चक्षुरचक्षुषाम् ।
राजा पिता च माता च सर्वेषां न्याय-वर्तिनाम् ॥ १.३७७॥
फलार्थी पार्थिवो लोकान् पालयेद्यत्नमास्थितः ।
दान-मानादि-तोयेन मालाकारोऽङ्कुरान् इव ॥ १.३७८॥
यथा बीजाङ्कुरः सूक्ष्मः प्रत्नेनाभिरक्षितः ।
फल-प्रदो भवेत् काले तद्वल्लोकः सुरक्षितः ॥ १.३७९॥
हिरण्य-धान्य-रत्नानि यानानि विविधानि च ।
तथान्यदपि यत् किञ्चित् प्रजाभ्यः स्यान् नृपस्य तत् ॥ १.३८०॥
अथैवं गरुडः समाकर्ण्य तद्दुःख-दुःखितः कोपाविष्टश्च व्यचिन्तयत्-अहो ! सत्यमुक्तमेतैः पक्षिभिः । तदद्य गत्वा तं समुद्रं शोषयामः ।
एवं चिन्तयतस्तस्य विष्णु-दूतः समागत्याह-भो गरुत्मन् ! भगवता नारायणेनाहं तव पार्श्वे प्रेषितः । देव-कार्याय भगवानमरावत्यां यास्यतीति । तत् सत्वरमागम्यताम् ।
तच्छ्रुत्वा गरुडः साभिमानं प्राह-भो दूत ! किं मया कुभृत्येन भगवान् करिष्यति । तद्गत्वा तं वद यदन्यो भृत्यो वाहनाय्समत्-स्थाने क्रियताम् । मदीयो नमस्कारो वाच्यो भगवतः । उक्तं च-
यो न वेत्ति गुणान् यस्य न तं सेवेत पण्डितः ।
न हि तस्मात् फलं किञ्चित् सुकृष्टादूषरादिव ॥ १.३८१॥
दूत आह-भो वैनतेय ! कदाचिदपि भगवन्तं प्रति त्वया नैतदभिहितमीदृक् । तत् कथय, किं ते भगवतापमान-स्थानं कृतम् ?
गरुड आह-भगवदाश्रय-भूतेन समुद्रेणास्मट् टिट्टिभाण्डानपहृतानि । तद्यदि निग्रहं न करोति तदहं भगवतो न भृत्य इतेष निश्चयस्त्वया वाच्यः । तद्द्रुततरं गत्वा भवता भगवतः समीपे वक्तव्यम् ।
अथ दूत-मुखेन प्रणय-कुपितं वैनतेयं विज्ञाय सम्मान-पुरःसरं तमानयामि । उक्तं च-
भक्तं शक्तं कुलीनं च न भृत्यमवमानयेत् ।
पुत्रवल्लालयेन् नित्यं य इच्छेच्छ्रियमात्मनः ॥ १.३८२॥
अन्यच्च-
राजा तुष्टोऽपि भृत्यानामर्थ-मात्रं प्रयच्छति ।
ते तु सम्मानितास्तस्य प्राणैरपुपकुर्वते ॥ १.३८३॥
इतेवं सम्प्रधार्य रुक्म-पुरे वैनतेय-सकाशं सत्वरमगमत् । वैनतेयोऽपि गृहागतं भगवन्तमवलोक्य त्रपाधोमुखः प्रणम्योवाच-भगवन् ! त्वदाश्रयोन्मत्तेन समुद्रेण मम भृत्यास्याण्डानपहृत्य ममापमानो विहितः । परं भगवल्-लज्जया मया विलम्बितम् । नो चेदेनमहं स्थलान्तरमद्यैव नयामि । यतः स्वामि-भयाच्छ्रवणोऽपि प्रहारो न दीयते । उक्तं च-
येन स्याल्लघुता वाथ पीडा चित्ते प्रभोः क्वचित् ।
प्राण-त्यागेऽपि तत् कर्म न कुर्यात् कुल-सेवकः ॥ १.३८४॥
तच्छ्रुत्वा भगवान् आह-भो वैनतेय ! सत्यमभिहितं भवता । उक्तं च-
भृत्यापराधजो दण्डः स्वामिनो जायते यतः ।
तेन लज्जापि तस्योत्था न भृत्यस्य तथा पुनः ॥ १.३८५॥
तदागच्छ येनाण्डानि समुद्रादादाय टिट्टिभं सम्भावयावः । अमरावतीं च गच्छावः ।
तथानुष्ठिते समुद्रो भगवता निर्भर्स्याग्नेयं शरं सन्ध्यायाभिहितः-भो दुरात्मन् ! दीयन्तां टिट्टिभाण्डानि । नो चेत् स्थलतां त्वां नयामि ।
ततः समुद्रेण सभयेन टिट्टिभाण्डानि तानि प्रदत्तानि । टिट्टिभेनापि भार्यायै समर्पितानि । अतोऽहं ब्रवीमि-शत्रोर्बलमविज्ञाय इति । तस्मात् पुरुषेणोद्यमो न त्याज्यः ।
तदाकर्ण्य सञ्जीवकस्तमेव भूयोऽपि पप्रच्छ-भो मित्र ! कथं ज्ञेयो मयासौ दुष्ट-बुद्धिरिति । इयन्तं कालं यावदुत्तरोत्तर-स्नेहेन प्रसादेन चाहं दृष्टः । न कदाचित् तद्विकृतिर्दृष्टा । तत् कथ्यतां येनाहमात्म-रक्षार्थं तद्वधायोद्यमं करोमि ।
दमनक आह-भद्र, किमत्र ज्ञेयम् ? एष ते प्रत्ययः । यदि रक्त-नेत्रस्त्रिशिखां भ्रूकुटिं दधानः सृक्कणी परिलेलिहन् त्वां दृष्ट्वा भवति, तद्दुष्ट-बुद्धिः । अन्यथा सुप्रसादश्चेति । तदाज्ञापय माम् । स्वाश्रयं प्रति गच्छामि । त्वया च यथायं मन्त्र-भेदो न भवति तथा कार्यम् । यदि निशामुखं प्राप्य गन्तुं शक्नोषि तद्देश-त्यागः कार्यः । यतः-
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे स्वात्मार्थे पृथिवीं त्यजेत् ॥ १.३८६॥
आपदर्थे धनं रक्षेद्दारान् रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ १.३८७॥
बलवताभिभूतस्य विदेश-गमनं तदनुप्रवेशो वा नीतिः । तद्देश-त्यागः कार्यः । अथवात्मा सामादिभिरुपायैराभरक्षणीयः । उक्तं च-
अपि पुत्र-कलत्रैर्वा प्राणान् रक्षेत पण्डितः ।
विद्यमानैर्यतस्तैः स्यात् सर्वं भूयोऽपि देहिनाम् ॥ १.३८८॥
तथा च-
येन केनापुपायेन शुभेनापशुभेन वा ।
उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ॥ १.३८९॥
यो मायां कुरुते मूढः प्राण-त्यागे धनादिषु ।
तस्य प्राणाः प्रणश्यन्ति तैर्नष्टैर्नष्टमेव तत् ॥ १.३९०॥
एवमभिधाय दमनकः करटक-सकाशमगमत् । करटकोऽपि तमायान्तं दृष्ट्वा प्रोवाच-भद्र ! किं कृतं तत्रभवता ?
दमनक आह-मया तावन् नीति-बीज-निर्वापणं कृतम् । परतो दैव-विहितायत्तम् । उक्तं च-
पराङ्मुखेऽपि दैवेऽत्र कृत्यं कार्यं विपश्चिता ।
आत्म-दोष-विनाशाय स्व-चित्त-स्तम्भनाय च ॥ १.३९१॥
तथा च-
उद्योगिनं पुरुष-सिंहमुपैति लक्ष्मीर्
दैवेन देयमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्म-शक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ १.३९२॥
करटक आह-तत् कथय कीदृक् त्वया नीति-बीजं निर्वापितम् ।
सोऽब्रवीत्-मयान्योन्यं ताभ्यां मिथ्या-प्रजल्पेन भेदस्तथा विहितो यथा भूयोऽपि मन्त्रयन्तावेक-स्थान-स्थितौ न द्रक्ष्यसि ।
करटक आह-अहो, न युक्तं भवता विहितं यत् परस्परं तौ स्नेहार्द्र-हृदयौ सुखाश्रयौ कोप-सागरे प्रक्षिप्तौ । उक्तं च-
अविरुद्धं सुख-स्थं यो दुःख-मार्गे नियोजयेत् ।
जन्म-जन्मान्तरे दुःखी स नरः स्यादसंशयम् ॥ १.३९३॥
अपरं त्वं यद्भेद-मात्रेणापि हृष्टस्तदपयुक्तम्, यतः सर्वतोऽपि जनो विरूप-करणे समर्थो भवति नोपकर्तुम् । उक्तं च-
घातयितुमेव नीचः पर-कार्यं वेत्ति न प्रसादयितुम् ।
पातयितुमस्ति शक्तिर्वायोर्वृक्षं न चोन्नमितुम् ॥ १.३९४॥
दमनक आह-अनभिज्ञो भवान् नीति-शास्त्रस्य, तेनैतद्ब्रवीषि । उक्तं च यतः-
जात-मात्रं न यः शत्रुं व्याधिं च प्रशमं नयेत् ।
महा-बलोऽपि तेनैव वृद्धिं प्राप्य स हन्यते ॥ १.३९५॥
तच्छत्रु-भूतोऽयमस्माकं मन्त्रि-पदाहरणात् । उक्तं च-
पितृ-पैतामहं स्थानं यो यस्यात्र जिगीषते ।
स तस्य सहजः शत्रुरुच्छेद्योऽपि प्रिये स्थितः ॥ १.३९६॥
तन् मया स उदासीनतया समानीतोऽभय-प्रदानेन यावत् तावदहमपि तेन साचिव्यात् प्रच्यावितः । अथवा साध्विदमुच्यते-
दद्यात् साधुर्यदि निज-पदे दुर्जनाय प्रवेशं
तन्-नाशाय प्रभवति ततो वाञ्छमानः स्वयं सः ।
तस्माद्देयो विपुल-मतिभिर्नावकाशोऽधमानां
जारापि स्याद्गृह-पतिरिति श्रूयते वाक्यतोऽत्र ॥ १.३९७॥
तेन मया तस्योपरि वधोपाय एव विरच्यते । देश-त्यागाय वा भविष्यति । तच्च त्वां मुक्त्वान्यो न ज्ञास्यति । तदुक्तमेतत् ते स्वार्थायानुष्ठितम् । उक्तं च-
निस्त्रिंशं हृदयं कृत्वा वाणीमिक्षु-रसोपामाम् ।
विकल्पोऽत्र न कर्तव्यो हन्यात् तत्रापकारिणम् ॥ १.३९८॥
अपरं मृतोऽपस्माकं भोज्यो भविष्यति । तदेकं तावद्वर-साधनम् । अपरं साचिव्यं च भविष्यति तृप्तिश्चेति । तद्गुण-त्रयेऽस्मिन्न् उपस्थिते कस्मान् मां दूषयसि त्वं जाड्य-भावात् । उक्तं च-
परस्य पीडनं कुर्वन् स्वार्थ-सिद्धिं च पण्डितः ।
मूढ-बुद्धिर्न भक्षेत वने चतुरको यथा ॥ १.३९९॥
करटक आह-कथमेतत् ?
स आह-
कथा १६ वज्र-दंष्ट्र-नाम-सिंह-कथा
अस्ति कस्मिंश्चिद्वनोद्देशे वज्र-दंष्ट्रो नाम सिंहः । तस्य चतुरक-क्रव्यमुख-नामानौ शृगाल-वृकौ भृत्य-भूतौ सदैवानुगतौ तत्रैव वने प्रतिवसतः । अथान्य-दिने सिंहेन कदाचिदासन्न-प्रसवा प्रसव-वेदनया स्व-यूथाद्भ्रष्टोष्ट्रुपविष्टा कस्मिंश्चिद्वन-गहने समासादिता । अथ तां व्यापाद्य यावदुदरं स्फोटयति, तावज् जीवन् लघु-दासेरक-शिशुर्निष्क्रान्तः । सिंहोऽपि दासेरक्याः पिशितेन सपरिवारः परां तृप्तिमुपागतः । परं स्नेहाद्बाल-दासेकं त्यक्तं गृहमानीयेदमुवाच-भद्र, न तेऽस्ति मृत्योर्भयं मत्तो नान्यस्मादपि । ततः स्वेच्छयात्र वने भ्राम्यतामिति । यतस्ते शङ्कु-सदृशौ कर्णौ । ततः शङ्कुकर्णो नाम भविष्यति ।
एवमनुष्ठिते चत्वारोऽपि न एक-स्थाने विहारिणः परस्परमनेक-प्रकार-गोष्ठी-सुखमनुभवन्तस्तिष्ठन्ति । शङ्कुकर्णोऽपि यौवन-पदवीमारूढः क्षणमपि न तं सिंहं मुञ्चति ।
अथ कदाचिद्वज्र-दंष्ट्रस्य केनचिद्वन्येन मत्त-गजेन सह युद्धमभवत् । तेन मद-वीर्यात् स दन्त-प्रहारैस्तथा क्षत-शरीरो विहितो यथा प्रचलितुं न शक्नोति । तदा क्षुत्-क्षाम-कण्ठस्तान् प्रोवाच-भोः ! अन्विष्यतां किञ्चित् सत्त्वं येनाहमेवं स्थितोऽपि तं व्यापाद्यात्मनो युष्माकं च क्षुत्-प्रणाशं करोमि ।
तच्छ्रुत्वा ते त्रयोऽपि वने सन्ध्या-कालं यावद्भ्रान्ताः, परं न किञ्चित् सत्त्वमासादितम् । अथ चतुरकश्चिन्तयामास-यदि शङ्कुकर्णोऽयं व्यापाद्येत ततः सर्वेषां कतिचिद्दिनानि तृप्तिर्भवति । परं नैनं स्वामी मित्रत्वादाश्रय-समाश्रितत्वाच्च विनाशयिष्यति । अथवा बुद्धि-प्रभावेण स्वामिनं प्रतिबोध्य तथा करिष्ये यथा व्यापादयिष्यति । उक्तं च-
अवध्यं वाथवागम्यमकृत्यं नास्ति किञ्चन ।
लोके बुद्धिमतामत्र तस्मात् तां योजयामहम् ॥ १.४००॥
एवं विचिन्त्य शङ्कुकर्णमिदमाह-भोः शङ्कुकर्ण ! स्वामी तावत् पथ्यं विना क्षुधया परिपीड्यते । स्वाम्य-भावादस्माकमपि ध्रुवं विनाश एव । ततो वाक्यं किञ्चित् स्वाम्यर्थे वदिष्यामि । तच्छ्रूयताम् ।
शङ्कुकर्ण आह-भोः शीघ्रं निवेद्यतां, येन ते वचनं शीघ्रं निर्विकल्पं करोमि । अपरं स्वामिनोहिते कृते मया सुकृत-शतं कृतं भविष्यति ।
अथ चतुरक आह-भो भद्र ! आत्म-शरीरं द्विगुण-लाभेन स्वामिने प्रयच्छ, येन ते द्विगुणं शरीरं भवति । स्वामिनः पुनः प्राण-यात्रा भवति ।
तदाकर्ण्य शङ्कुकर्णः प्राह-भद्र ! यदेवं तन् मदीय-प्रयोजनमेतदुच्यताम् । स्वाम्यर्थः क्रियतामिति । परमत्र धर्मः प्रतिभूः इति ।
ते विचिन्त्य सर्वे सिंह-सकाशमाजग्मुः । ततश्चतुरक आह-देव ! न किञ्चित् सत्त्वं प्राप्तम् । भगवान् आदित्योऽपस्तं गतः । तद्यदि स्वामी द्विगुणं शरीरं प्रयच्छति । ततः शङ्कुकर्णोऽयं द्विगुण-वृद्ध्या स्व-शरीरं प्रयच्छति धर्म-प्रतिभुवा ।
सिंह आह-भोः, यदेवं तत् सुन्दरतरम् । व्यवहारस्यास्य धर्मः प्रतिभूः क्रियतामिति ।
अथ सिंह-वचनानन्तरं वृक-शृगालाभ्यां विदारितोभय-कुक्षिः शङ्कुकर्णः पञ्चत्वमुपागतः ।
अथ वज्र-दंष्ट्रश्चतुरकमाह-भोश्चतुरक ! यावदहं नदीं गत्वा स्नानं देवतार्चन-विधिं कृत्वागच्छामि, तावत् त्वयात्रापमत्तेन भाव्यमितुक्त्वा नद्यां गतः ।
अथ तस्मिन् गते चतुरकश्चिन्तयामास-कथं ममैकाकिनो भोज्योऽयमुष्ट्रो भविष्यति इति विचिन्त्य क्रव्यमुखमाह-भोः क्रव्यमुख ! क्षुधालुर्भवान् । तद्यावदसौ स्वामी नागच्छति, तावत् त्वमस्योष्ट्रस्य मांसं भक्षय । अहं त्वां स्वामिनो निर्दोषं प्रतिपादयिष्यामि ।
सोऽपि तच्छ्रुत्वा यावत् किञ्चिन् मांसमास्वादयति तावच्चतुरकेणोक्तम्-भोः क्रव्यमुख ! समागच्छति स्वामी । तत् त्यक्त्वैनं दूरे तिष्ठ, येनास्य भक्षणं न विकल्पयति ।
तथानुष्ठिते सिंहः समायातो यावदुष्ट्रं पश्यति तावद्रिक्तीकृत-हृदयो दासेरकः । ततो भृकुटिं कृत्वा परुषतरमाह-अहो केनैष उष्ट्र उच्छिष्टतां नीतो, येन तमपि व्यापादयामि ।
एवमभिहिते क्रव्यमुखश्चतुरक-मुखमवलोकयति । अथ चतुरको विहस्योवाच-भोः ! मामनादृत्य पिशितं भक्षयित्वाधुना मन्-मुखमवलोकयसि । तदास्वादयास्य दुर्णय-तरोः फलमिति ।
तदाकर्ण्य क्रव्यमुखो जीव-नाश-भयाद्दूर-देशं गतः । एतस्मिन्नन्तरे तेन मार्गेण दासेरक-सार्थो भाराक्रान्तः समायातः । तस्याग्रेसरोष्ट्रस्य कण्ठे महती घण्टा बद्धा । तस्याः शब्दं दुरतोऽपाकर्ण्य सिंहो जम्बुकमाह-भद्र, ज्ञायतां किमेष रौद्रः शब्दः श्रूयतेऽश्रुत-पूर्वः ?
तच्छ्रुत्वा, चतुरकः किञ्चिद्वनान्तरं गत्वा सत्वरमभ्युपेत्य प्रोवाच-स्वामिन् ! गम्यतां गम्यतां यदि शक्नोषि गन्तुम् ।
सोऽब्रवीत्-भद्र, किमेवं मां व्याकुलयसि । तत् कथय किमेतत् ? इति चतुरक आह-स्वामिन्, एष धर्मराजस्तवोपरि कुपितः । यदनेनाकाले दासेरकोऽयं मदीयो व्यापादितः । तत् सहस्र-गुणमुष्ट्रमस्य सकाशाद्ग्रहीष्यामि । इति निश्चित्य बृहन्-मानमादायाग्रेसरस्योष्ट्रस्य ग्रीवायां घण्टां बद्ध्वा बध्य-दासेरक-सक्तानपि पितृ-पितामहान् आदाय वैर-निर्यातनार्थमायात एव ।
सिंहोऽपि तच्छ्रुत्वा सर्वतो दूरादेवावलोक्य मृतमुष्ट्रं परित्यज्य प्राण-भयात् प्रणष्टः । चतुरकोऽपि शनैः शनैस्तस्योष्ट्रस्य मांसं भक्षयामास । अतोऽहं ब्रवीमि-परसय पीडनं कुर्वन् (३९९) इति ।
अथ दमनके गते सञ्जीवकश्चिन्तयामास-अहो किमेतन् मया कृतम् ? यच्छष्पादोऽपि मांसाशितस्तस्यानुगः संवृत्तः । अथवा साध्विदमुच्यते-
अगम्यानि पुमान् याति योऽसेव्यांश्च निषेवते ।
स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥ १.४०१॥
तत् किं करोमि ? क्व गच्छामि ? कथं मे शान्तिर्भविष्यति ? अथवा तमेव पिङ्गलकं गच्छामि । कदाचिन् मां शरणागतं रक्षति । प्राणैर्न वियोजयति । यत उक्तं च-
धर्मार्थं यततामपीह विपदो देवाद्यदि स्युः क्वचित्
तत् तासामुपशान्तये सुमतिभिः कार्यो विशेषान् नयः ।
लोके ख्यातिमुपागतात्र सकले लोकोक्तिरेषा यतो
दग्धानां किल वह्निना हित-करः सेकोऽपि तस्योद्भवः ॥ १.४०२॥
तथा च-
लोकेऽथवा तनु-भृतां निज-कर्म-पाकं
नित्यं समाश्रितवतां सुहित-क्रियाणाम् ।
भावार्जितं शुभमथापशुभं निकामं
यद्भावि तद्भवति नात्र विचार-हेतुः ॥ १.४०३॥
अपरं चान्यत्र गतस्यापि मे कस्यचिद्दुष्ट-सत्त्वस्य मांसाशिनः सकाशान् मृत्युर्भविष्यति । तद्वरं सिंहात् । उक्तं च-
महद्भिः स्पर्धमानस्य विपदेव गरीयसी ।
दन्त-भङ्गेऽपि नागानां श्लाघ्यो गिरि-विदारणे ॥ १.४०४॥
तथा च-
महतोऽपि क्षयं लब्ध्वा श्लाघ्यं नीचोऽपि गच्छति ।
दानार्थी मधुपो यद्वद्गज-कर्ण-समाहतः ॥ १.४०५॥
एवं निश्चित्य स स्थलित-गतिं मन्दं गत्वा सिंहाश्रयं पश्यन्नपठत्-अहो, साध्विदमुच्यते-
अन्तर्लीन-भुजङ्गमं गृहमिवान्तःस्थोग्र-सिंहं वनं
ग्राहाकीर्णमिवाभिराम-कमल-च्छाया-सनाथं सरः ।
कालेनार्य-जनापवाद-पिशुनैः क्षुद्रैरनार्यैः श्रितं
दुःखेन प्रविगाह्यते सचकितं राज्ञां मनः सामयम् ॥ १.४०६॥
एवं पठन् दमनकोक्ताकारं पिङ्गलकं दृष्ट्वा प्रचकितः संवृत-शरीरो दूरतरं प्रणाम-कृतिं विनापुपविष्टः । पिङ्गलकोऽपि तथाविधं तं विलोक्य दमनक-वाक्यं श्रद्दधानः कोपात् तस्योपरि पपात ।
अथ सञ्जीवकः खर-नख-विकर्तित-पृष्ठः शृङ्गाभ्यां तदुदरमुल्लिख्य कथमपि तस्मादपेतः शृङ्गाभ्यां हन्तुमिच्छन् युद्धायावस्थितः । अथ द्वावपि तौ पुष्पित-पलाश-प्रतिमौ परस्पर-वध-काङ्क्षिणौ दृष्ट्वा करटको दमनकमाह-भो मूढ-मते ! अनयोर्विरोधं वितन्वता त्वया साधु न कृतम् । न च त्वं नीति-तत्त्वं वेत्सि । नीतिविद्भिरुक्तं च-
कार्याणुत्तम-दण्ड-साहस-फलानायास-साध्यानि ये प्रीत्या संशमयन्ति नीति-कुशलाः साम्नैव ते मन्त्रिणः ।
निःसाराल्प-फलानि ये त्वविधिना वाञ्छन्ति दण्डोद्यमैस्
तेषां दुर्नय-चेष्टितैर्नरपतेरारोप्यते श्रीस्तुलाम् ॥ १.४०७॥
तद्यदि स्वाम्यभिघातो भविष्यति तत् किं तव्दीय-मन्त्र-बुद्ध्या क्रियते । अथ सञ्जीवको न बध्यते तथापभव्यम् । यतः प्राण-सन्देहात् तस्य च वधः । तन् मूढ ! कथं त्वं मन्त्रि-पदमभिलषसि । साम-सिद्धिं न वेत्सि । तद्वृथा मनोरथोऽयं ते दण्डरुचेः । उक्तं च-
सामादि-दण्ड-पर्यन्तो नयः प्रोक्तः स्वयम्भुवा ।
तेषां दण्डस्तु पापीयांस्तं पश्चाद्विनियोजयेत् ॥ १.४०८॥
तथा च-
साम्नैव यत्र सिद्धिर्न तत्र दण्डो बुधेन विनियोज्यः ।
पित्तं यदि शर्करया शाम्यति कोऽर्थः पटोलेन ॥ १.४०९॥
तथा च-
आदौ साम प्रयोक्तव्यं पुरुषेण विजानता ।
साम-साध्यानि कार्याणि विक्रियां यान्ति न क्वचित् ॥ १.४१०॥
न चन्द्रेण न चाउषध्या न सूर्येण न वह्निना ।
साम्नैव विलयं याति विद्वेष-प्रभवं तमः ॥ १.४११॥
तथा यत् त्वं मन्त्रित्वमभिलषसि, तदपयुक्तम् । यतस्त्वं मन्त्रि-गतिं न वेत्सि । यतः पञ्च-विधो मन्त्रः । स च कर्मणामारम्भोपायः, पुरुष-द्रव्य-सम्पत्, देश-काल-विभागः, विनिपात-प्रतीकारः, कार्य-सिद्धिश्चेति । सोऽयं स्वाम्यमात्ययोरेकतमस्य किं वा द्वयोरपि विनिपातः समुत्पद्यते लग्नः । तद्यदि काचिच्छक्तिरस्ति तद्विचिन्त्यतां विनिपात-प्रतीकारः । भिन्न-सन्धाने हि मन्त्रिणां बुद्धि-परीक्षा । तन् मूर्ख ! तत् कर्तुमसमर्थत्वं यतो विपरीत-बुद्धिरसि । उक्तं च-
मन्त्रिणां भिन्न-सन्धाने भिषजां सान्निपातिके ।
कर्मणि व्यज्यते प्रज्ञा सुस्थे को वा न पण्डितः ॥ १.४१२॥
अन्यच्च-
घातयितुमेव नीचः पर-कार्यं वेत्ति न प्रसाधयितुम् ।
पातयितुमेव शक्तिर्नाखोरुद्धर्तुमन्न-पिटकम् ॥ १.४१३॥
अथवा न ते दोषोऽयम् । स्वामिनो दोषः । यस्ते वाक्यं श्रद्दधाति । उक्तं च-
नराधिपा नीच-जनानुवर्तिनो
बुधोपदिष्टेन पथा न यान्ति ये ।
विशन्ततो दुर्गम-मार्ग-निर्गमं
समस्त-सम्बाधमनर्थ-पञ्जरम् ॥ १.४१४॥
तद्यदि त्वमस्य मन्त्री भविष्यसि तदान्योऽपि कश्चिन् नास्य समीपे साधु-जनः समेष्यति । उक्तं च-
गुणालयोऽपसन् मन्त्री नृपतिर्नाधिगम्यते ।
प्रसन्न-स्वादु-सलिलो दुष्ट-ग्राह्यो यथा ह्रदः ॥ १.४१५॥
तथा च शिष्ट-जन-रहितस्य स्वामिनोऽपि नाशो भविष्यति । उक्तं च-
चित्रास्वाद-कथैर्भृत्यैरनायासित-कार्मुकैः ।
ये रमन्ते नृपास्तेषां रमन्ते रिपवः श्रिया ॥ १.४१६॥
तत् किं मूर्खोपदेशेन । केवलं दोषो न गुणः । उक्तं च-
नानाम्यं नमते दारु नाश्मनि स्यात् क्षुर-क्रिया ।
सूची-मुखं विजानीहि नाशिष्यायोपश्यते ॥ १.४१७॥
दमनक आह–कथमेतत् ?
सोऽब्रवीत्-
कथा १७ वानर-यूथ-कथा
अस्ति कस्मिंश्चित् पर्वतैक-देशे वानर-यूथम् । तच्च कदाचिद्धेमन्त-समयेऽतिकठोर-वात-संस्पर्श-वेपमान-कलेवरं तुषार-वर्षोद्धत-प्रवर्ष-घन-धारा-निपात-समाहतं न कथञ्चिच्छान्तिमगमत् । अथ केचिद्वानरा वह्नि-कण-सदृशानि गुञ्जा-फलानवचित्य वह्नि-वाञ्छया फूत्कुर्वन्तः समन्तात् तस्थुः ।
अथ सुचीमुखो नाम पक्षी तेषां तं वृथायासमवलोक्य प्रोवाच-भोः, सर्वे मूर्खा यूयम् । नैते वह्नि-कणाः गुञ्जा-फलानि एतानि । तत् किं वृथा श्रमेण । नैतस्माच्छीत-रक्षा भविष्यति । तदन्विष्यतां कश्चिन् निर्वातो वन-प्रदेशो गुहा गिरि-कन्दरं वा । अद्यापि सटोपा मेधा दृश्यन्ते ।
अथ तेषामेकतमो वृद्ध-वानरस्तमुवाच-भो मूर्ख ! किं तावदनेन व्यापारेण । तद्गम्यताम् । उक्तं च-
मुहुर्विघ्नित-कर्माणं द्यूत-कारं पराजितम् ।
नालापयेद्विवेक-ज्ञो यदीच्छेत् सिद्धिमात्मनः ॥ १.४१८॥
तथा च-
आखेटकं वृथाक्लेशं मूर्खं व्यसनसंस्थितम् ।
समालापेन यो युङ्क्ते स गच्छति पराभवम् ॥ १.४१९॥
सोऽपि तमनादृत्य भूयोऽपि वानराननवरतमाह-भोः ! किं वृथा क्लेशेन ? अथ यावदसौ न कथञ्चित् प्रलपन् विरमति तावदेकेन वानरेण व्यर्थ-श्रमत्वात् कुपितेन पक्षाभ्यां गृहीत्वा शिलायामास्फालित उपरतश्च ।
अतोऽहं ब्रवीमि-नानम्यं नमते दारु इतादि । तथा च-
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।
पयः-पानं भुजङ्गानां केवलं विष-वर्धनम् ॥ १.४२०॥
अन्यच्च-
उपदेशो न दातव्यो यादृशे तादृशे नरे ।
पश्य वानरमूर्खेण सुगृही निर्गृहीकृता ॥ १.४२१॥
दमनक आह-कथमेतत् ?
सोऽब्रवीत्-
कथा १८ शमी-वृक्षस्थ-चटक-दम्पती-कथा
कस्मिंश्चिद्वने शमी-वृक्ष-शाखालम्बित-वसथं कृत्वारण्य-चटक-दम्पती प्रतिवसतः स्म । अथ कदाचित् तयोः सुख-संस्थयोर्हेमन्त-मेघो मन्दं मन्दं वर्षितुमारब्धः । अत्रान्तरे कश्चिच्छाखा-मृगो वातासार-समाहतः प्रोद्धूषित-शरीरो दन्तवीणां वादयन् वेपमानस्तस्याः शम्या मूलमासाद्योपविष्टः । अथ तं तादृषमवलोक्य चटका प्राह-भो भद्र ! हस्त-पाद-समोपेतो दृश्यसे पुरुषाकृतिः । शीतेन भिद्यसे मूढ कथं न कुरुषे गृहम् ॥ १.४२२॥
एतच्छ्रुत्वा तां वानरः सकोपमाह-अधमे कस्मान् न त्वं मौन-व्रता भवसि ? अहो धार्ष्ट्यमस्याः । अद्य मामुपहसति-
सूची-मुखि दुराचारा रण्डा पण्डित-वादिनी ।
नाशङ्कते प्रजल्पन्ती तत् किमेनां न हन्महम् ॥ १.४२३॥
एवं प्रलप्य तामाह-मुग्धे ! किं मम चिन्तया तव प्रयोजनम् ? उक्तं च-
वाच्यं श्रद्धा-समेतस्य पृच्छतेश्च विशेषतः ।
प्रोक्तं श्रद्धा-विहीनस्य अरण्य-रुदितोपमम् ॥ १.४२४॥
तत् किं बहुना तावत् । कुलाय-स्थितया तया पुनरपभिहितः । स तावत् तां शमीमारुह्य तस्याः कुलायं शतधा खण्डशोऽकरोत् । अतोऽहं ब्रवीमि-उपदेशो न दातव्यः इति ।
तन् मूर्ख ! शिक्षापितोऽपि न शिक्षितस्त्वम् । अथवा न ते दोषोऽस्ति, यतः साधोः शिक्षा गुणाय सम्पद्यते, नासाधोः । उक्तं च-
किं करोतेव पाण्डित्यमस्थाने विनियोजितम् ।
अन्धकार-प्रतिच्छन्ने घटे दीप इवाहितः ॥ १.४२५॥
तद्व्यर्थ-पाण्डित्यमाश्रित्य मम वचनमशृण्वन्न् आत्मनः शान्तिमपि वेत्सि । तन् नूनमपजातस्त्वम् । उक्तं च-
जातः पुत्रोऽनुजातश्च अतिजातस्तथैव च ।
अपजातश्च लोकेऽस्मिन् मन्तव्याः शास्त्र-वेदिभिः ॥ १.४२६॥
मातृ-तुल्य-गुणो जातस्त्वनुजातः पितुः समः ।
अतिजातोऽधिकस्तस्मादपजातोऽधमाधमः ॥ १.४२७॥
अपात्मनो विनाशं गणयति न खलः पर-व्यसन-हृष्टः ।
प्रायो मस्तक-नाशे समर-मुखे नृत्यति कबन्धः ॥ १.४२८॥
अहो, साध्विदमुच्यते-
धर्म-बुद्धिः कुबुद्धिश्च द्वावेतौ विदितौ मम ।
पुत्रेण व्यर्थ-पाण्डित्यात् पिता धूमेन घातितः ॥ १.४२९॥
दमनक आह–कथमेतत् ?
सोऽब्रवीत्-
कथा १९ धर्म-बुद्धि-पाप-बुद्धि-कथा
कस्मिंश्चिद्देशे धर्मबुद्धिः पापबुद्धिश्च द्वे मित्रे प्रतिवसतः । अथ कदाचित् पापबुद्धिना चिन्तितं यदहं तावन् मूर्खो दारिद्र्योपेतश्च । तदेनं धर्मबुद्धिमादाय देशान्तरं गत्वा अस्याश्रयेणार्थोपार्जनां कृत्वैनमपि वञ्चयित्वा सुखीभवामि ।
अथान्यस्मिन्नहनि पापबुद्धिर्धर्मबुद्धिं प्राह-भो मित्र ! वार्धक-भावे किं त्वात्म-विचेष्टितं स्मरसि । देशान्तरमदृष्ट्वा कां शिष्ट-जनस्य वार्त्तां कथयिष्यसि ? उक्तं च-
देशान्तरेषु बहु-विध-भाषा-वेषादि येन न ज्ञातम् ।
भ्रमता धरणी-पीठे तस्य फलं जन्मनो व्यर्थम् ॥ १.४३०॥
तथा च-
विद्यां वित्तं शिल्पं तावन् नाप्नोति मानवः सम्यक् ।
यावद्व्रजति न भूमौ देशाद्देशान्तरं हृष्टः ॥ १.४३१॥
अथ तस्य तद्वचनमाकर्ण्य प्रहृष्ट-मनास्तेनैव सह गुरु-जनानुज्ञातः शुभेऽहनि देशान्तरं प्रस्थितः । तत्र च धर्मबुद्धि-प्रभावेण भ्रमता पापबुद्धिना प्रभूततरं वित्तमासादितम् । ततश्च तौ द्वावपि प्रभूतोपार्जित-द्रव्यौ प्रहृष्टौ स्व-गृहं प्रतौत्सुक्येन प्रस्थितौ । उक्तं च-
प्राप्त-विद्यार्थ-शिल्पानां देशान्तर-निवासिनाम् ।
क्रोश-मात्रोऽपि भू-भागः शत-योजनवद्भवेत् ॥ १.४३२॥
अथ स्व-स्थान-समीप-वर्तिना पापबुद्धिना धर्मबुद्धिरभिहितः-भद्र ! न सर्वमेतद्धनं गृहं प्रति नेतुं युज्यते । यतः कुटुम्बिनो बान्धवाश्च प्रार्थयिष्यन्ते । तदत्रैव वन-गहने क्वापि भूमौ निक्षिप्य किञ्चिन् मात्रमादाय गृहं प्रविशावः । भूयोऽपि प्रयोजने सञ्जाते तन्-मात्रं समेत्यास्मात् स्थानान् नेष्यावः । उक्तं च-
न वित्तं दर्शयेत् प्राज्ञः कस्यचित् स्वल्पमपहो ।
मुनेरपि यतस्तस्य दर्शनाच्चलते मनः ॥ १.४३३॥
तथा च-
यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि ।
आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान् ॥ १.४३४॥
तदाकर्ण्य धर्मबुद्धिराह-भद्र एवं क्रियताम् । तथानुष्ठिते द्वावपि तौ स्व-गृहं गत्वा सुखेन संस्थितवन्तौ । अथान्यस्मिन्नहनि पापबुद्धिर्निशीथेऽटव्यां गत्वा तत् सर्वं वित्तं समादाय गर्तं पूरयित्वा स्व-भवनं जगाम ।
अथान्येद्युर्धर्मबुद्धिं समेत्य प्रोवाच-सखे बहु-कुटुम्बा वयं वित्ताभावात् सीदामः । तद्गत्वा तत्र स्थाने किञ्चिन् मात्रं धनमानयावः ।
सोऽब्रवीत्-भद्र, एवं क्रियताम् ।
अथ द्वावपि गत्वा तत् स्थानं यावत् खनतस्तावद्रिक्तं भाण्डं दृष्टवन्तौ । अत्रान्तरे पापबुद्धिः शिरस्ताडयन् प्रोवाच-भो धर्मबुद्धे ! त्वया हृतमेतद्धनं, नान्येन । यतो भूयोऽपि गर्तापूरणं कृतम् । तत् प्रयच्छ मे तस्यार्धम् । अन्यथाहं राज-कुले निवेदयिष्यामि ।
स आह-भो दुरात्मन् ! मा मैवं वद । धर्मबुद्धिः खल्वहम् । नैतच्चौर-कर्म करोमि । उक्तं च-
मातृवत् पर-दाराणि पर-द्रव्याणि लोष्टवत् ।
आत्मवत् सर्व-भूतानि वीक्षन्ते धर्म-बुद्धयः ॥ १.४३५॥
एवं द्वावपि विवदमानौ धर्माधिकारिणं गतौ ? प्रोचतुश्च परस्परं दूषयन्तौ । अथ धर्माधिकरणाधिष्ठित-पुरुषैर्दिव्यार्थं यावन् नियोजितौ तावत् पापबुद्धिराह- अहो न सम्यग्-दृष्टो न्यायः । उक्तं च-
विवादे अन्विष्यते पत्रं तदभावेऽपि साक्षिणः ।
साक्षभावात् ततो दिव्यं प्रवदन्ति मनीषिणः ॥ १.४३६॥
तदत्र विषये मम वृक्ष-देवताः साक्षि-भूतास्तिष्ठन्ति । ता अपावयोरेकतरं चौरं साधुं वा करिष्यन्ति । अथ तैः सर्वैरभिहितम्-भो युक्तमुक्तं भवता । उक्तं च-
अन्त्यजोऽपि यदा साक्षी विवादे सम्प्रजायते ।
न तत्र युज्यते (विद्यते) दिव्यं किं पुनर्वन-देवताः ॥ १.४३७॥
तदस्माकमपत्र विषये महत् कौतूहलं वर्तते । प्रत्यूष-समये युवाभ्यामपस्माभिः सह तत्र वनोद्देशे गन्तव्यमिति । एतस्मिन्नन्तरे पापबुद्धिः स्व-गृहं गत्वा स्व-जनकमुवाच-तात, प्रभूतोऽयं मयार्थो धर्मबुद्धेश्चोरितः । स च तव वचनेन परिणतिं गच्छति । अन्यथास्माकं प्राणैः सह यास्यति ।
स आह-वत्स, द्रुतं वद येन प्रोच्य तद्द्रव्यं स्थिरतां नयामि ।
पापबुद्धिराह-तात, अस्ति तत्-प्रदेशे महा-शमी । तस्यां महत् कोटरमस्ति । तत्र त्वं साम्प्रतमेव प्रविश । ततः प्रभाते यदाहं सत्य-श्रावणं करोमि, तदा त्वया वाच्यं यद्धर्मबुद्धिश्चौर इति ।
तथानुष्ठिते प्रत्यूषे स्नात्वा पापबुद्धिः धर्मबुद्धि-पुरः-सरो धर्माधिकरणकैः सह तां शमीमभ्येत्य तार-स्वरेण प्रोवाच ।
आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्मो हि जानाति नरस्य वृत्तम् ॥ १.४३८॥
भगवति वन-देवते ! आवयोर्मध्ये यश्चौर तत् कथयत ।
अथ पापबुद्धि-पिता शमी-कोटर-स्थः प्रोवाच-भो, धर्मबुद्धिना हृतमेतद्धनम् ।
तदाकर्ण्य सर्वे ते राज-पुरुषा विस्मयोत्फुल्ल-लोचना यावद्धर्मबुद्धेर्वित्त-हरणोचितं निग्रहं शास्त्र-दृष्ट्यावलोकयन्ति तावद्धर्मबुद्धिना तच्छमी-कोटरं वह्नि-भोज्य-द्रव्यैः परिवेष्ट्य वह्निना सन्दीपितम् । अथ ज्वलति तस्मिन् शमी-कोटरेऽर्ध-दग्ध-शरीरः स्फुटितेक्षणः करुणं परिदेवयन् पापबुद्धि-पिता निश्चक्राम । ततश्च तैः सर्वैः पृष्टः-भो किमिदम् ?
इतुक्ते इदं सर्वं कुकृत्यं पापबुद्धेः कारणाज् जातमितुक्त्वा मृतः । ततस्ते राज-पुरुषाः पापबुद्धिं शमी-शाखायां प्रतिलम्ब्य धर्मबुद्धिं प्रशंस्येदमूचुः- अहो साध्विदमुच्यते-
उपायं चिन्तयेत् प्राज्ञस्तथापायमपि चिन्तयेत् ।
पश्यतो बक-मूर्खस्य नकुलैर्भक्षिताः सुताः ॥ १.४३९॥
धर्म-बुद्धिः प्राह-कथमेतत् ?
ते प्रोचुः-
कथा २० कृष्ण-सर्प-कथा
अस्ति कस्मिंश्चिद्वनोद्देशे बहु-बक-सनाथो वट-पादपः । तस्य कोटरे कृष्ण-सर्पः प्रतिवसति स्म । स च बक-बालकानजात-पक्षानपि सदैव भक्षयन् कालं नयति । अथैको बकस्तेन भक्षितानपत्यानि दृष्ट्वा शिशु-वैराग्यात् सरस्तीरमासाद्य बाष्प-पूरैत-नयनोऽधो-मुखस्तिष्ठति । तं च तादृक्-चेष्टितमवलोक्य कुलीरकः प्रोवाच-माम किमेवं रुद्यते भवताद्य ?
स आह-भद्र किं करोमि ? मम मन्द-भाग्यस्य बालकाः कोटर-निवासिना सर्पेण भक्षिताः । तद्दुःख-दुःखितोऽहं रोदिमि । तत् कथय मे यदस्ति कश्चिदुपायस्तद्विनाशाय । तदाकर्ण्य कुलीरकश्चिन्तयामास-अयं तावदस्मत्-सहज-वैरी । तथोपदेशं प्रयच्छामि सत्यानृतं यथान्येऽपि बकाः सर्वे सङ्क्षयमायान्ति । उक्तं च-
नवनीत-समां वाणीं कृत्वा चित्तं तु निर्दयम् ।
तथा प्रबोध्यते शत्रुः सान्वयो म्रियते यथा ॥ १.४४०॥
आह च-माम, यदेवं तन् मत्स्य-मांस-खण्डानि नकुलस्य बिल-द्वारात् सर्प-कोटरं यावत् प्रक्षिप यथा नकुलस्तन्-मार्गेण गत्वा तं दुष्ट-सर्पं विनाशयति ।
अथ तथानुष्ठिते मत्स्य-मांसानुसारिणा नकुलेन तं कृष्ण-सर्पं निहत्य तेऽपि तद्वृक्षाश्रयाः सर्वे बकाश्च शनैः शनैर्भक्षिताः । अतो वयं ब्रूमः-उपायं चिन्तयेदिति ।
एवं मूढ ! त्वयापपायश्चिन्तितो नोपायः पाप-बुद्धिवत् । तन् न भवसि त्वं सज्जनः । केवलं पाप-बुद्धिरसि । ज्ञातो मया स्वामिनः प्राण-सन्देहानयनात् । प्रकटीकृतं त्वया स्वयमेवात्मनो दुष्टत्वं कौटिल्यं च । अथवा साध्विदमुच्यते-
यत्नादपि कः पश्येच्छिखिनामाहार-निःसरण-मार्गम् ।
यदि जलद-ध्वनि-मुदितास्त एव मूढा न नृत्येयुः ॥ १.४४१॥
यदि त्वं स्वामिनमेनां दशां नयसि तदस्मद्विधस्य का गणना ? तस्मान् ममासन्नेन भवता न भाव्यम् । उक्तं च-
तुलां लोह-सहस्रस्य यत्र खादन्ति मूषकाः ।
राजंस्तत्र हरेच्छ्येनो बालकं नात्र संशयः ॥ १.४४२॥
दमनक आह–कथमेतत् ? सोऽब्रवीत्-
कथा २१ जीर्णधन-नाम-वणिक्-पुत्र-कथा
अस्ति कस्मिंश्चिदधिष्ठाने जीर्णधनो नाम वणिक्-पुत्रः । स च द्रव्य-क्षयाद्देशान्तर-गमन-मना व्यचिन्तयत्-
यत्र देशे अथ वा स्थाने भोगान् भुक्त्वा स्ववीर्यतः ।
तस्मिन् विभवहीनो यो वसेत् स पुरुषाधमः ॥ १.४४३॥
तथा च-
येनाहङ्कारयुक्तेन चिरं विलसितं पुरा ।
दीनं वदति तत्रैव यः परेषां स निन्दितः ॥ १.४४४॥
तस्य च गृहे सहस्र-लोह-भार-घटिता पूर्व-पुरुषोपार्जिता तुलासीत् । तां च कस्यचिद्छ्रेष्टिनो गृहे निक्षेप-भूतां कृत्वा देशान्तरं प्रस्थितः । ततः सुचिरं कालं देशान्तरं यथेच्छया भ्रान्त्वा पुनः स्व-पुरमागत्य तं श्रेष्ठिनमुवाच-भोः श्रेष्ठिन् ! दीयतां मे सा निक्षेप-तुला ।
स आह-भो ! नास्ति सा त्वदीया तुला । मूषिकैर्भक्षिता ।
जीर्णधन आह-भोः श्रेष्ठिन् ! नास्ति दोषस्ते यदि मूषिकैर्भक्षितेति । ईदृगेवायं संसारः । न किञ्चिदत्र शाश्वतमस्ति । परमहं नद्यां स्नानार्थं गमिष्यामि । तत् त्वमात्मीयं शिशुमेनं धनदेव-नामानं मया सह स्नानोपकरण-हस्तं प्रेषयेति ।
सोऽपि चौर्य-भयात् तस्य शङ्कितः स्व-पुत्रमुवाच-वत्स, पितृव्योऽयं तव स्नानार्थं नद्यां यास्यति । तद्गम्यतामनेन सार्धं स्नानोपकरणमादायेति । अहो साध्विदमुच्यते-
न भक्त्या कस्यचित् कोऽपि प्रियं प्रकुरुते नरः ।
मुक्त्वा भयं प्रलोभं वा कार्य-कारणमेव वा ॥ १.४४५॥
तथा च-
अत्यादरो भवेद्यत्र कार्य-कारण-वर्जितः ।
तत्र शङ्का प्रकर्तव्या परिणामेऽसुखावहा ॥ १.४४६॥
अथासौ वणिक्-शिशुः स्नानोपकरणमादाय प्रहृष्ट-मनास्तेनाभ्यागतेन सह प्रस्थितः । तथानुष्ठिते वणिक् स्नात्वा तं शिशुं नदी-गुहायां प्रक्षिप्य तद्द्वारं बृहच्छिलयाच्छाद्य सत्वरं गृहमागतः । पृष्टश्च तेन वणिजा-भोऽभ्यागत तत् कथ्यतां कुत्र मे शिशुर्यस्त्वया सह नदीं गतः इति ।
स आह-नदी-तटात् स श्येनेन हृत इति ।
श्रेष्ठाह-मिथ्या-वादिन् ! किं क्वचिच्छ्येनो बालं हर्तुं शक्नोति ? तत् समर्पय मे सुतम्, अन्यथा राज-कुले निवेदयिष्यामीति ।
स आह-भोः सत्यवादिन् ! यथा श्येनो बालं न नयति तथा मूषिका अपि लोह-भार-घटितां तुलां न भक्षयन्ति । तदर्पय मे तुलां यदि दारकेण प्रयोजनम् । एवं विवदमानौ द्वावपि राज-कुलं गतौ ।
तत्र श्रेष्ठी तार-स्वरेण प्रोवाच-भोऽब्रह्मण्यमब्रह्मण्यम् । मम शिशुरनेन चौरेणापहृतः ।
अथ धर्माधिकारिणस्तमूचुः-भोः समर्प्यतां श्रेष्ठि-सुतः ।
स आह-किं करोमि ? पश्यतो मे नदी-तटाच्छ्येनेनापहृतः शिशुः ।
तच्छ्रुत्वा ते प्रोचुः-भो न सत्यमभिहितं भवता । किं श्येनः शिशुं हर्तुं समर्थो भवति ?
स आह-भो भोः श्रूयतां मद्वचः ।
तुलां लोह-सहस्रस्य यत्र खादन्ति मूषिकाः ।
राजंस्तत्र हरेच्छ्येनो बालकं नात्र संशयः ॥ १.४४७॥
ते प्रोचुः-कथमेतत् ?
ततः श्रेष्ठी सभ्यानामग्रे सर्वं वृत्तान्तं निवेदयामास । ततस्तैर्विहस्य द्वावपि तौ परस्परं सम्बोध्य तुला-शिशु-प्रदानेन सन्तोषितौ ।
अतोऽहं ब्रवीमि-तुलां लोह-सहस्रस्य इति । तन् मूर्ख ! सञ्जीवक-प्रसादमसहमानेन त्वयैतत् कृतम् । अहो साध्विदमुच्यते-
प्रायेणात्र कुलान्वितं कुकुलजाः श्री-वल्लभं दुर्भगा
दातारं कृपणा ऋजूननृजवो वित्ते स्थितं निर्धनाः ।
वैरूप्योपहृताश्च कान्त-वपुषं धर्माश्रयं पापिनो
नाना-शास्त्र-विचक्षणं च पुरुषं निन्दन्ति मूर्खाः सदा ॥ १.४४८॥
तथा च-
मूर्खाणां पण्डिता द्वेष्या निर्धनानां महाधनाः ।
व्रतिनः पाप-शीलानामसतीनां कुल-स्त्रियः ॥ १.४४९॥
तन् मूर्ख त्वया हितमपहितं कृतम् । उक्तं च-
पण्डितोऽपि वरं शत्रुर्न मूर्खो हित-कारकः ।
वानरेण हतो राजा विप्राश्चीरेण रक्षिताः ॥ १.४५०॥
दमनक आह–कथमेतत् ?
सोऽब्रवीत्-
कथा २२ नृप-सेवक-वानर-कथा
कस्यचिद्राज्ञो नित्यं वानरोऽतिभक्ति-परोऽङ्ग-सेवकोऽन्तः-पुरे अपप्रतिषिद्ध-प्रसरोऽतिविश्वास-स्थानमभूत् । एकदा राज्ञो निद्रां गतस्य वानरे व्यजनं नीत्वा वायुं विदधति राज्ञो वक्षः-स्थलोपरि मक्षिकोपविष्टा । व्यजनेन मुहुर्मुहुर्निषिध्यमानापि पुनः पुनस्तत्र एवोपविशति । ततस्तेन स्वभाव-चपलेन मूर्खेण वानरेण क्रुद्धेन सता तीक्ष्णं खड्गमादाय तस्या उपरि प्रहारो विहितः । ततो मक्षिकोड्डीय गता, परं तेन शित-धारेणासिना राज्ञो वक्षो द्विधा जातं राजा मृतश्च । तस्माच्चिरायुरिच्छता नृपेण मूर्खोऽनुचरो न रक्षणीयः ।
अपरमेकस्मिन् नगरे कोऽपि विप्रो महा-विद्वान् परं पूर्व-जन्म-योगेन चौरो वर्तते । तस्मिन् पुरेऽन्य-देशादागतांश्चतुरो विप्रान् बहूनि वस्तूनि विक्रीणतो दृष्ट्वा चिन्तितवान्-अहो केनोपायेनैषां धनं लभे । इति विचिन्त्य तेषां पुरोऽनेकानि शास्त्रोक्तानि सुभाषितानि चातिप्रियाणि मधुराणि वचनानि जल्पता तेषां मनसि विश्वासमुत्पाद्य सेवा कर्तुमारब्धा । अथवा साध्विदमुच्यते-
असती भवति सलज्जा क्षारं नीरं च शीतलं भवति ।
दम्भी भवति विवेकी प्रियवक्ता भवति धूर्तजनः ॥ १.४५१॥
अथ तस्मिन् सेवां कुर्वति तैर्विप्रैः सर्व-वस्तूनि विक्रीय बहु-मूल्यानि रत्नानि क्रीतानि । ततस्तानि जङ्घा-मध्ये तत्-समक्षं प्रक्षिप्य स्व-देशं प्रति गन्तुमुद्यमो विहितः । ततः स धूर्त-विप्रस्तान् विप्रान् गन्तुमुद्यतान् प्रेक्ष्य चिन्ता-व्याकुलित-मनाः सञ्जातः- अहो धनमेतन् न किञ्चिन् मम चटितम् । अथैभिः सह यामि । पथि क्वापि विषं दत्त्वैतान् निहत्य सर्व-रत्नानि गृह्णामि । इति विचिन्त्य तेषामग्रे सकरुणं विलप्येदमाह-भो मित्राणि ! यूयं मामेकाकिनं मुक्त्वा गन्तुमुद्यताः । तन् मे मनो भवद्भिः सह स्नेह-पाशेन बद्धं भवद्विरह-नाम्नैवाकुलं सञ्जातं यथा धृतिं क्वापि न धत्ते । यूयमनुग्रहं विधाय सहाय-भूतं मामपि सहैव नयत ।
तद्वचः श्रुत्वा ते करुणार्द्र-चित्तास्तेन सममेव स्व-देशं प्रति प्रस्थिताः । अथाध्वनि तेषां पञ्चानामपि पल्ली-पुर-मध्ये व्रजतां ध्वाङ्क्षाः कथयितुमारब्धाः-रे रे किराताः ! धावत धावत । सपाद-लक्ष-धनिनो यान्ति । एतान् निहत्य धनं नयत ।
ततः किरातैर्ध्वाङ्क्ष-वचनमाकर्ण्य सत्वरं गत्वा ते विप्रा लगुड-प्रहारैर्जर्जरी-कृत्य वस्त्राणि मोचयित्वा विलोकिताः, परं धनं किञ्चिन् न लब्धम् । तदा तैः किरातैरभिहितम्-भोः पान्थाः ! पुरा कदापि ध्वाङ्क्ष-वचनमनृतं नासीत् । ततो भवतां सन्निधौ क्वापि धनं विद्यते तदर्पयत । अन्यथा सर्वेषामपि वधं विधाय चर्म विदार्य प्रत्यङ्गं प्रेक्ष्य धनं नेष्यामः ।
तदा तेषामीदृशं वचनमाकर्ण्य चौर-विप्रेण मनसि चिन्तितम्-यदैषां विप्राणां वधं विधायाङ्गं विलोक्य रत्नानि नेष्यन्ति, तदापि मां वधिष्यन्ति ततोऽहं पूर्वमेवात्मानमरत्नं समर्प्यैतान् मुञ्चामि । उक्तं च-
मृत्योर्बिभेषि किं बाल न स भीतं विमुञ्चति ।
अद्य वाब्द-शतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥ १.४५२॥
तथा च-
गवार्थे ब्राह्मणार्थे च प्राण-त्यागं करोति यः ।
सूर्यस्य मण्डलं भित्त्वा स याति परमां गतिम् ॥ १.४५३॥
इति निश्चित्याभिहितं-भोः किराताः ! यदेवं ततो मां पूर्वं निहत्य विलोकयत । ततस्तैस्तथानुष्ठिते तं धन-रहितमवलोक्यापरे चत्वारोऽपि मुक्ताः ।
अतोऽहं ब्रवीमि-पण्डितोऽपि वरं शत्रुः इति । अथैवं संवदतोः सञ्जीवकः क्षणमेकं पीङ्गलकेन सह युद्धं कृत्वा तस्य खर-नखर-प्रहाराभिहितो गतासुर्वसुन्धरा-पीठे निपपात । अथ तं गतासुमवलोक्य पिङ्गलकस्तद्गुण-स्मरणार्द्र-हृदयः प्रोवाच-भोः, अयुक्तं मया पापेन कृतं सञ्जीवकं व्यापादयता । यतो विश्वास-घातादन्यन् नास्ति पापतरं कर्म । उक्तं च-
मित्र-द्रोही कृतघ्नश्च यश्च विश्वास-घातकः ।
ते नरा नरकं यान्ति यावच्चन्द्र-दिवाकरौ ॥ १.४५४॥
भूमि-क्षये राज-विनाश एव
भृत्यस्य वा बुद्धिमतो विनाशे ।
नो युक्तमुक्तं हनयोः समत्वं
नष्टापि भूमिः सुलभा न भृत्याः ॥ १.४५५॥
तथा मया सभा-मध्ये स सदैव प्रशंसितः । तत् किं कथयिष्यामि तेषामग्रतः । उक्तं च-
उक्तो भवति यः पूर्वं गुणवान् इति संसदि ।
न तस्य दोषो वक्तव्यः प्रतिज्ञा-भङ्ग-भीरुणा ॥ १.४५६॥
एवं-विधं प्रलपन्तं दमनकः समेत्य सहर्षमिदमाह-देव, कातरतमस्तवैष न्यायो यद्द्रोह-कारिणं शष्प-भुजं हत्वेत्थं शोचसि । तन् नैतदुपपन्नं भूभुजाम् । उक्तं च-
पिता वा यदि वा भ्राता पुत्रो भार्याथवा सुहृत् ।
प्राण-द्रोहं यदा गच्छेद्धन्तव्यो नास्ति पातकम् ॥ १.४५७॥
तथा च-
राजा घृणी ब्राह्मणः सर्व-भक्षी
स्त्री चात्रपा दुष्टमतिः सहायः ।
प्रेष्यः प्रतीपोऽधिकृतः प्रसादी
त्याज्या अमी यश्च कृतं न वेत्ति ॥ १.४५८॥
अपि च-
सत्यानृता च परुषा प्रिय-वादिनी च
हिंस्रा दयालुरपि चार्थ-परा वदान्या ।
भूरि-व्यथा प्रचुर-वित्त-समागमा च
वेश्याङ्गनेव नृप-नीतिरनेक-रूपा ॥ १.४५९॥
अपि च-
अकृतोपद्रवः कश्चिन् महानपि न पूज्यते ।
पूजयन्ति नरा नागान् न तार्क्ष्यं नाग-घातिनम् ॥ १.४६०॥
तथा च-
अशोच्यानन्वशोचस्त्वं प्रज्ञा-वादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ १.४६१॥
एवं तेन सम्बोधितः पिङ्गलकः सञ्जीवक-शोकं त्यक्त्वा दमनक-साचिव्येन राज्यमकरोत् ।
इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे मित्र-भेदो नाम प्रथमं तन्त्रम् ॥१॥
२. मित्र-सम्प्राप्तिः
अथ मित्र-सम्प्राप्तिः
अथेदमारभ्यते मित्र-सम्प्राप्तिर्नाम द्वितीयं तन्त्रम् । यस्यायमाद्यः श्लोकः-
असाधना अपि प्राज्ञा बुद्धिमनोत् बहु-श्रुताः ।
साधयन्ताशु कार्याणि काकाखु-मृग-कूर्मवत् ॥ २.१॥
तद्यथानुश्रूयते-
प्रस्तावना-कथा लघुपतनक-चित्रग्रीव-वृत्तान्तः
अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरस्थो महोच्छ्रायवान् नाना-विहङ्गोपभुक्त-फलः कीटैरावृत-कोटरश्छायाश्वासित-पथिक-जन-समूहो न्यग्रोध-पादपो महान् । अथवा युक्तम्-
छाया-सुप्त-मृगः शकुन्त-निवहैर्विष्वग्-विलुप्त-च्छदः
कीटैरावृत-कोटरः कपि-कुलैः स्कन्धे कृत-प्रश्रयः ।
विश्रब्धं मधुपैर्निपीत-कुसुमः श्लाघ्यः स एव द्रुमः
सर्वाङ्गैर्बहु-सत्त्व-सङ्ग-सुखदो भू-भार-भूतोऽपरः ॥ २.२॥
तत्र च लघुपतनको नाम वायसः प्रतिवसति स्म । स कदाचित् प्राण-यात्रार्थं पुरमुद्दिश्य प्रचलितो यावत् पश्यति, तावज् जाल-हस्तोऽतिकृष्ण-तनुः स्फुटित-चरण ऊर्ध्व-केशो यम-किङ्कराकारो नरः सम्मुखो बभूव । अथ तं दृष्ट्वा शङ्कित-मना व्यचिन्तयत्-यदयं दुरात्माद्य ममाश्रय-वट-पादप-सम्मुखोऽभ्येति । तन् न ज्ञायते किमद्य वट-वासिनां विहङ्गमानां सङ्क्षयो भविष्यति न वा ।
एवं बहुविधं विचिन्त्य तत्-क्षणान् निवृत्य तमेव बट-पादपं गत्वा सर्वान् विहङ्गमान् प्रोवाच-भोः ! अयं दुरात्मा लुब्धको जाल-तण्डुल-हस्तः समभ्येति । तत् सर्वथा तस्य न विश्वसनीयम् । एष जालं प्रसार्य तण्डुलान् प्रक्षेप्स्यति । ते तण्डुला भवद्भिः सर्वैरपि कालकूट-सदृशा द्रष्टव्याः ।
एवं वदतस्तस्य स लुब्धकस्तत्र बट-तल आगत्य जालं प्रसार्य सिन्दु-वार-सदृशांस्तण्डुलान् प्रक्षिप्य नातिदूरं गत्वा निभृतः स्थितः । अथ ये पक्षिणस्तत्र स्थितास्ते लघु-पतनक-वाक्यार्गलया निवारितास्तांस्तण्डुलान् हालाहालाङ्कुरान् इव वीक्षमाणा निभृतास्तस्थुः ।
अत्रान्तरे चित्रग्रीवो नाम कपोतराजः सहस्र-परिवारः प्राण-यात्रार्थ-परिभ्रमंस्तांस्तण्डुलान् दूरतोऽपि पश्यन् लघुपतनकेन निवार्यमाणोऽपि जिह्वा-लौल्याद्भक्षणार्थमपतत् । सपरिवारो निबद्धश्च । अथवा साध्विदमुच्यते-
जिह्वा-लौल्य-प्रसक्तानां जल-मध्य-निवासिनाम् ।
अचिन्तितो वधोऽज्ञानां मीनानामिव जायते ॥ २.३॥
अथवा दैव-प्रतिपतिकूलतया भवतेवम् । न तस्य दोषोऽस्ति । उक्तं च-
पौलस्त्यः कथमन्य-दार-हरणे दोषं न विज्ञातवान्
रामेणापि कथं न हेम-हरिणस्यासम्भवो लक्षितः ।
अक्षैश्चापि युधिष्ठिरेण सहसा प्राप्तो हनर्थः कथं
प्रत्यासन्न-विपत्ति-मूढ-मनसां प्रायो मतिः क्षीयते ॥ २.४॥
तथा च-
कृतान्त-पाश-बद्धानां दैवोपहत-चेतसाम् ।
बुद्धयः कुब्ज-गामिन्यो भवन्ति महतामपि ॥ २.५॥
अत्रान्तरे लुब्धकस्तान् बद्धान् विज्ञाय प्रहृष्ट-मनाः प्रोद्यत-यष्टिस्तद्वधार्थं प्रधावितः । चित्रग्रीवोऽपात्मानं सपरिवारं बद्धं मत्वा लुब्धकमायान्तं दृष्ट्वा तान् कपोतान् ऊचे-अहो, न भेतव्यम् । उक्तं च-
व्यसनेष्वेव सर्वेषु यस्य बुद्धिर्न हीयते ।
स तेषां पारमभ्येति तत्-प्रभावादसंशयम् ॥ २.६॥
सम्पत्तौ च विपत्तौ च महतामेक-रूपता ।
उदये सविता रक्तो रक्तश्चास्त-मये तथा ॥ २.७॥
तत् सर्वे वयं हेलयोड्डीय सपाश-जाला अस्यादर्शनं गत्वा मुक्तिं प्राप्नुमः । नो चेद्भय-विक्लवाः सन्तो हेलया समुत्पातं न करिष्यथ । ततो मृत्युमवाप्स्यथ । उक्तं च-
तन्तवोऽपायता नित्यं तन्तवो बहुलाः समाः ।
बहून् बहुत्वादायासान् सहन्तीतुपमा सताम् ॥ २.८॥
तथानुष्ठिते लुब्धको जालमादायाकाशे गच्छतां तेषां पृष्ठतो भूमिस्थोऽपि पर्यधावत् । तत ऊर्ध्वानन्ः श्लोकमेनमपठत् ।
जालमादाय गच्छन्ति संहताः पक्षिणोऽपमी ।
यावच्च विवदिष्यन्ते पतिष्यन्ति न संशयः ॥ २.९॥
लघुपतनकोऽपि प्राण-यात्रा-क्रियां त्यक्त्वा किमत्र भविष्यन्तीति कुतूहलात् तत्-पृष्ठतोऽनुसरति । अथ दृष्टेरगोचरतां गतान् विज्ञाय लुब्धको निराशः श्लोकमपठन् निवृत्तश्च-
नहि भवति यन् न भाव्यं भवति च भाव्यं विनापि यत्नेन ।
करतल-गतमपि नश्यति यस्य हि भवितव्यता नास्ति ॥ २.१०॥
तथा च-
पराङ्मुखे विधौ चेत् स्यात् कथञ्चिद्द्रविणोदयः ।
तत् सोऽन्यदपि सङ्गृह्य याति शङ्ख-निधिर्यथा ॥ २.११॥
तदास्तां तावद्विहङ्गामिष-लोभो यावत् कुटुम्ब-वर्तनोपाय-भूतं जालमपि मे नष्टम् । चित्रग्रीवोऽपि लुब्धकमदर्शनीभूतं ज्ञात्वा तान् उवाच-भोः ! निवृत्तः स दुरात्मा लुब्धकः । तत् सर्वैरपि स्वस्थैर्गम्यतां महिलारोप्यस्य प्राग्-उत्तर-दिग्-भागे । तत्र मम सुहृद्धिरण्यको नाम मूषकः सर्वेषां पाश-च्छेदं करिष्यति । उक्तं च-
सर्वेषामेव मर्त्यानां व्यसने समुपस्थिते ।
वाङ्-मात्रेणापि साहाय्यं मित्रादन्यो न सन्दधे ॥ २.१२॥
एवं ते कपोताश्चित्रग्रीवेण सम्बोधिता महिलारोप्ये नगरे हिरण्यक-बिल-दुर्गं प्रापुः । हिरण्यकोऽपि सहस्र-मुख-बिल-दुर्गं प्रविष्टः सन्नकुतोभयः सुखेनास्त । अथवा साध्विदमुच्यते-
दंष्ट्रा-विरहितः सर्पो मद-हीनो यथा गजः ।
सर्वेषां जायते वश्यो दुर्ग-हीनस्तथा नृपः ॥ २.१३॥
तथा च-
न गजानां सहस्रेण न च लक्षेण वाजिनाम् ।
तत् कर्म सिध्यते राज्ञां दुरेणैकेन यद्रणे ॥ २.१४॥
शतमेकोऽपि सन्धत्ते प्राकारस्थो धनुर्धरः ।
तस्माद्दुर्गं प्रशंसन्ति नीति-शास्त्र-विदो जनाः ॥ २.१५॥
अथ चित्रग्रीवो बिलमासाद्य तार-स्वरेण प्रोवाच-भो भो मित्र हिरण्यक ! सत्वरमागच्छ । महती मे व्यसनावस्था वर्तते ।
तच्छ्रुत्वा हिरण्यकोऽपि बिल-दुर्गान्तर्गतः सन् प्रोवाच-भोः ! को भवान् ? किमर्थमायातः ? किं कारणम् ? कीदृक् ते व्यसनावस्थानाम् ? तत् कथ्यतामिति ।
तच्छ्रुत्वा चित्रग्रीव आह-भोः ! चित्रग्रीवो नाम कपोत-राजोऽहं ते सुहृत् । तत् सत्वरमागच्छ । गुरुतरं प्रयोजनमस्ति । तदाकर्ण्य पुलकित-तनुः प्रहृष्टात्मा स्थिर-मनास्त्वरमाणो निष्क्रान्तः । अथवा साध्विदमुच्यते-
सुहृदः स्नेह-सम्पन्ना लोचनानन्द-दायिनः ।
गृहे गृहवतां नित्यं नागच्छन्ति महात्मनाम् ॥ २.१६॥
आदित्यस्योदयं तात ताम्बूलं भारती कथा ।
इष्टा भार्या सुमित्रं च अपूर्वाणि दिने दिने ॥ २.१७॥
सुहृदो भवने यस्य समागच्छन्ति नित्यशः ।
चित्ते च तस्य सौख्यस्य न किञ्चित् प्रतिमं सुखम् ॥ २.१८॥
अथ चित्रं ग्रीवं सपरिवारं पाश-बद्धमालोक्य हिरण्यकः सविषादमिदमाह-भोः, किमेतत् ?
स आह-भोः, जानन्नपि किं पृच्छसि ? उक्तं च यतः-
यस्माच्च येन च यदा च यथा च यच्च
यावच्च यत्र च शुभाशुभमात्म-कर्म ।
तस्माच्च तेन च तदा च तथा च तच्च
तावच्च तत्र च कृतान्त-वशादुपैति ॥ २.१९॥
तत् प्राप्तं मयैतद्बन्धनं जिह्वा-लौल्यात् । साम्प्राप्तं त्वं सत्वरं पाश-विमोक्षं कुरु । तदाकर्ण्य हिरण्यकः प्राह-
अर्धार्धाद्योजन-शतादामिषं वीक्षते खगः ।
सोऽपि पार्श्व-स्थितं दैवाद्बन्धनं न च पश्यति ॥ २.२०॥
तथा च-
रवि-निशाकरयोर्ग्रह-पीडनं
गज-भुजङ्ग-विहङ्गम-बन्धनम् ।
मतिमतां च निरीक्ष्य दरिद्रता
विधिरहो बलवान् इति मे मतिः ॥ २.२१॥
तथा च-
व्योमैकान्त-विचारिणोऽपि विहगाः सम्प्राप्नुवन्तापदं
बध्यन्ते निपुणैरगाध-सलिलान् मीनाः समुद्रादपि ।
दुर्नीतं किमिहास्ति किं च सुकृतं कः स्थान-लाभे गुणः
कालः सर्व-जनान् प्रसारित-करो गृह्णाति दूरादपि ॥ २.२२॥
एवमुक्त्वा चित्रग्रीवस्य पाशं छेत्तुमुद्यतं स तमाह-भद्र, मा मैवं कुरु । प्रथमं मम भृत्यानां पाश-च्छेदं कुरु । तदनु ममापि च ।
तच्छ्रुत्वा कुपितो हिरण्यकः प्राह-भोः ! न युक्तमुक्तं भवता । यतः स्वामिनोऽनन्तरं भृत्याः ।
स आह-भद्र, मा मैवं वद । मदाश्रयाः सर्व एते वराकाः । अपरं स्व-कुटुम्बं परित्यज्य समागताः । तत् कथमेतावन्-मात्रमपि सम्मानं न करोमि । उक्तं च-
यः सम्मानं सदा धत्ते भृत्यानां क्षितिपोऽधिकम् ।
वित्ताभावेऽपि तं दृष्ट्वा ते त्यजन्ति न कर्हिचित् ॥ २.२३॥
तथा च-
विश्वासः सम्पदां मूलं तेन यूथपतिर्गजः ।
सिंहो मृगाधिपत्येऽपि न मृगैः परिवार्यते ॥ २.२४॥
अपरं मम कदाचित् पाश-च्छेदे कुर्वतस्ते दन्त-भङ्गो भवति । अथवा दुरात्मा लुब्धकः सम्भ्येति । तन् नूनं नरक-पात एव । उक्तं च-
सदाचारेषु भृत्येषु संसीदत्सु च यः प्रभुः ।
सुखी स्यान् नरकं याति परत्रेह च सीदति ॥ २.२५॥
तच्छ्रुत्वा प्रहृष्टो हिरण्यकः प्राह-भोः, वेद्महं राज-धर्मम् । परं मया तव परीक्षा कृता । तत् सर्वेषां पूर्वं पाश-च्छेदं करिष्यामि । भवानपनेन बहु-कपोत-परिवारेण भविष्यति । उक्तं च-
कारुण्यं संविभागश्च यथा भृत्येषु लक्ष्यते ।
चित्तेनानेन ते शङ्क्या त्रैलोक्यस्यापि नाथता ॥ २.२६॥
एवमुक्त्वा सर्वेषां पाश-च्छेदं कृत्वा हिरण्यकश्चित्रग्रीवमाह-मित्र, गम्यतामधुना स्वाश्रयं प्रति । भूयोऽपि व्यसने प्राप्ते समागन्तव्यमिति ।
तान् सम्प्रेष्य पुनरपि दुर्गं प्रविष्टः । चित्रग्रीवोऽपि सपरिवारः स्वाश्रयमगमत् । अथवा साध्विदमुच्यते-
मित्रवान् साधयतर्थान् दुःसाध्यानपि वै यतः ।
तस्मान् मित्राणि कुर्वीत समानानेव चात्मनः ॥ २.२७॥
लघुपतनकोऽपि वायसः सर्वं तं चित्रग्रीव-बन्धु-मोक्षमवलोक्य विस्मितमना व्यचिन्तयत्-अहो बुद्धिरस्य हिरण्यकस्य शक्तिश्च दुर्ग-सामग्री च । तदीदृगेव विधि-विहङ्गानां बन्धन-मोक्षात्मकः । अहं च न कस्यचिद्विश्वसिमि चल-प्रकृतिश्च । तदापेनं मित्रं करोमि । उक्तं च-
अपि सम्पूर्णता-युक्तैः कर्तव्याः सुहृदो बुधैः ।
नदीशः परिपूर्णोऽपि चन्द्रोदयमपेक्षते ॥ २.२८॥
एवं सम्प्रधार्य पादपादवतीर्य बिल-द्वारमाश्रित्य चित्रग्रीववच्छब्देन हिरण्यकं समाहूतवान्-एहेहि भो हिरण्यक, एहि ।
तच्छब्दं श्रुत्वा हिरण्यको व्यचिन्तयत्-किमन्योऽपि कश्चित् कपोतो बन्धन-शेषस्तिष्ठति येन मां व्याहरति । आह च-भोः ! को भवान् ?
स आह-अहं लघुपतनको नाम वायसः ।
तच्छ्रुत्वा विशेषादन्तर्लीनो हिरण्यक आह-भोः ! द्रुतं गम्यतामस्मात् स्थानात् ।
वायस आह-अहं तव पार्श्वे गुरु-कार्येण समागतः । तत् किं न क्रियते मया सह दर्शनम् ?
हिरण्यक आह-न मेऽस्ति त्वया सह सङ्गमेन प्रयोजनमिति ।
स आह-भोः ! चित्रग्रीवस्य मया तव सकाशात् पाश-मोक्षणं दृष्टम् । तेन मम महती प्रीतिः सञ्जाता । तत् कदाचिन् ममापि बन्धने जाते तव पार्श्वान् मुक्तैर्भविष्यति । तत् क्रियतां मया सह मैत्री ।
हिरण्यक आह-अहो त्वं भोक्ता । अहं ते भोज्य-भूतः । तत् का त्वया सह मम मैत्री ? तद्गम्यताम् । मैत्री विरोध-भावात् कथम् ? उक्तं च-
ययोरेव समं वित्तं ययोरेव समं कुलम् ।
तयोर्मैत्री विवाहश्च न तु पुष्ट-विपुष्टयोः ॥ २.२९॥
तथा च-
यो मित्रं कुरुते मूढ आत्मनोऽसदृशं कुधीः ।
हीनं वापधिकं वापि हास्यतां यातसौ जनः ॥ २.३०॥
तद्गम्यतामिति ।
वायस आह-भो हिरण्यक ! एषोऽहं तव दुर्ग-द्वार उपविष्टः । यदि त्वं मैत्री न करोषि ततोऽहं प्राण-मोक्षणं तवाग्रे करिष्यामि । अथवा प्रायोपवेशनं मे स्यात् इति ।
हिरण्यक आह-भोः ! त्वया वैरिणा सह कथं मैत्रीं करोमि ? उक्तं च-
वैरिणा न हि सन्दध्यात् सुश्लिष्टेनापि सन्धिना ।
सुतप्तमपि पानीयं शमयतेव पावकम् ॥ २.३१॥
वायस आह-भोः ! त्वया सह दर्शनमपि नास्ति । कुतो वैरम् ? तत् किमनुचितं वदसि ?
हिरण्यक आह-द्विविधं वैरं भवति । सहजं कृत्रिमं च । तत् सहज-वैरी त्वमस्माकम् । उक्तं च-
कृत्रिमं नाशमभ्येति वैरं द्राक् कृत्रिमैर्गुणैः ।
प्राण-दानं विना वैरं सहजं याति न क्षयम् ॥ २.३२॥
वायस आह-भोः ! द्विविधस्य वैरस्य लक्षणं श्रोतुमिच्छामि । तत् कथ्यताम् ।
हिरण्यक आह-भोः ! कारणेन निर्वृतं कृत्रिमम् । तत्-तदर्होपकार-करणाद्गच्छति । स्वाभाविकं पुनः कथमपि न गच्छति । तद्यथा नकुल-सर्पाणां, शष्पभुङ्-नखायुधानां, जल-वह्न्योः, देव-दैत्यानां, सारमेय-मार्जराणां, ईश्वर-दरिद्राणां, सपत्नीनां, सिंह-गजानां, लुब्धक-हरिणानां, श्रोत्रिय-भ्रष्ट-क्रियाणां, मूर्क-पण्डितानां, पतिव्रता-कुलटानां, सज्जन-दुर्जनानाम् । न कश्चित् केनापि व्यापादितः, तथापि प्राणान् सन्तापयन्ति ।
वायस आह-भोः ! अकारणमेतत् । श्रूयतां मे वचनम्-
कारणान् मित्रतामेति कारणाद्याति शत्रुताम् ।
तस्मान् मित्रत्वमेवात्र योज्यं वैरं न धीमता ॥ २.३३॥
तस्मात् कुरु मया सह समागमं मित्र-धर्मार्थम् ।
हिरण्यक आह-भोः, श्रूयतां नीति-सर्वस्वम्-
सकृद्दुष्टमपीष्टं यः पुनः सन्धातुमिच्छति ।
स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥ २.३४॥
अथवा गुणवानहं, न मे कश्चिद्वैर-यातनां करिष्यति । एतदपि न सम्भाव्यम् । उक्तं च-
सिंहो व्याकरणस्य कर्तुरहरत् प्राणान् पिर्यान् पाणिनेर्
मीमांसा-कृतमुन्ममाथ सहसा हस्ती मुनिं जैमिनिम् ।
छन्दो-ज्ञान-निधिं जघान मकरो वेला-तटे पिङ्गलं
अज्ञानावृत-चेतसामतिरुषा कोऽर्थस्तिरश्चां गुणैः ॥ २.३५॥
वायस आह-अस्तेतत् । यथापि श्रूयताम्-
उपकाराच्च लोकानां निमित्तान् मृग-पक्षिणाम् ।
भयाल्लोभाच्च मूर्खाणां मैत्री स्याद्दर्शनात् सताम् ॥ २.३६॥
मृद्घट इव सुख-भेद्यो दुःसन्धानश्च दुर्जनो भवति ।
सुजनस्तु कनक-घट इव दुर्भेदः सुकर-सन्धिश्च ॥ २.३७॥
इक्षोरग्रात् क्रमशः पर्वणि पर्वणि यथा रस-विशेषः ।
तद्वत् सज्जन-मैत्री-विपरीतानां तु विपरीता ॥ २.३८॥
तथा च-
आरम्भ-गुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् ।
दिनस्य पूर्वार्ध-परार्ध-भिन्ना छायेव मैत्री खल-सज्जनानाम् ॥ २.३९॥
तत् साधुरहम् । अपरं त्वां शपथादिभिर्निर्भयं करिष्यामि ।
स आह-न मेऽस्ति ते शपथैः प्रत्ययः । उक्तं च-
शपथैः सन्धितस्यापि न विश्वासं व्रजेद्रिपोः ।
श्रूयते शपथं कृत्वा वृत्रः शक्रेण सूदितः ॥ २.४०॥
न विश्वासं विना शत्रुर्देवानामपि सिध्यति ।
विश्वासात् त्रिदशेन्द्रेण दितेर्गर्भो विदारितः ॥ २.४१॥
अन्यच्च-
बृहस्पतेरपि प्राज्ञस्तस्मान् नैवात्र विश्वसेत् ।
य इच्छेदात्मनो बुद्धिमायुष्यं च सुखानि च ॥ २.४२॥
तथा च-
सुसूक्ष्मेणापि रन्ध्रेण प्रविश्याभ्यन्तरं रिपुः ।
नाशयेच्च शनैः पश्चात् प्लवं सलिल-पूरवत् ॥ २.४३॥
न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् ।
विश्वासाद्भयमुत्पन्नं मूलानपि निकृन्तति ॥ २.४४॥
न बध्यते हविश्वस्तो दुर्बलोऽपि बलोत्कटैः ।
विश्वस्ताश्चाशु बध्यन्ते बलवन्तोऽपि दुर्बलैः ॥ २.४५॥
सुकृत्यं विष्णु-गुप्तस्य मित्राप्तिर्भार्गवस्य च ।
बृहस्पतेरविश्वासो नीतिर्सन्धिस्त्रिधा स्थितः ॥ २.४६॥
तथा च-
महतापर्थ-सारेण यो विश्वसिति शत्रुषु ।
भार्यासु सुविरक्तासु तदन्तं तस्य जीवितम् ॥ २.४७॥
तच्छ्रुत्वा लघुपतनकोऽपि निरुत्तरश्चिन्तयामास-अहो, बुद्धि-प्रागल्भ्यमस्य नीति-विषये । अथवा स एवास्योपरि मैत्री-पक्षपातः । स आह-भो हिरण्यक !
सतां साप्तपदं मैत्रमिताहुर्विबुधा जनाः ।
तस्मात् त्वं मित्रतां प्राप्तो वचनं मम तच्छृणु ॥ २.४८॥
दुर्गस्थेनापि त्वया मया सह नित्यमेवालापो गुण-दोष-सुभाषित-गोष्ठी-कथाः सर्वदा कर्तव्याः, यदेवं न विश्वसिषि ।
तच्छ्रुत्वा हिरण्यकोऽपि व्यचिन्तयत्-विदग्ध-वचनोऽयं दृश्यते लघुपतनकः सत्य-वाक्यश्च तद्युक्तमनेन मैत्री-करणम् । परं कदाचिन् मम दुर्गे चरण-पातोऽपि न कार्यः । उक्तं च-
भीत-भीतैः पुरा शत्रुर्मन्दं मन्दं विसर्पति ।
भूमौ प्रहेलया पश्चाज् जार-हस्तोऽङ्गनास्विव ॥ २.४९॥
तच्छ्रुत्वा वायस आह-भद्र, एवं भवतु । ततः-प्रभृति तौ द्वावपि सुभाषित-गोष्ठी-सुखमनुभवन्तौ तिष्ठतः । परस्परं कृतोपकारौ कालं नयतः । लघुपतनकोऽपि मांस-शकलानि मेध्यानि बलिशेषाणन्यानि वात्सल्याहृतानि पक्वान्न-विशेषाणि हिरण्यकार्थमानयति । हिरण्यकोऽपि तण्डुलानन्यांश्च भक्ष्य-विशेषाल्लघुपतनकार्थं रात्रावाहृत्य तत्-कालायातस्यार्पयति । अथवा युज्यते द्वयोरपेतत् । उक्तं च-
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति ।
भुङ्क्ते भोजायते चैव षड्-विधं प्रीति-लक्षणम् ॥ २.५०॥
नोपकारं विना प्रीतिः कथञ्चित् कस्यचिद्भवेत् ।
उपयाचित-दानेन यतो देवा अभीष्टदाः ॥ २.५१॥
तावत् प्रीतिर्भवेल्लोके यावद्दानं प्रदीयते ।
वत्सः क्षीर-क्षयं दृष्ट्वा परित्यजति मातरम् ॥ २.५२॥
पश्य दानस्य माहात्म्यं सद्यः प्रत्यय-कारकम् ।
यत्-प्रभावादपि द्वेषो मित्रतां याति तत्-क्षणात् ॥ २.५३॥
पुत्रादपि प्रियतरं खलु तेन दानं
मन्ये पशोरपि विवेक-विवर्जितस्य ।
दत्ते खले तु निखिलं खलु येन दुग्धं
नित्यं ददाति महिषी ससुतापि पश्य ॥ २.५४॥
किं बहुना-
प्रीतिं निरन्तरां कृत्वा दुर्भेद्यां नख-मांसवत् ।
मूषको वायसश्चैव गतौ कृत्रिम-मित्रताम् ॥ २.५५॥
एवं स मूषकस्तदुपकार-रञ्जितस्तथा विश्वस्तो यथा तस्य पक्ष-मध्ये प्रविष्टस्तेन सह सर्वदैव गोष्ठीं करोति । अथान्यस्मिन्नहनि वायसोऽश्रु-पूर्ण-नयनः समभ्येत्य सगद्गदं तमुवाच-भद्र हिरण्यक, विरक्तिः सञ्जाता मे साम्प्रतं देशस्यास्योपरि तदन्यत्र यास्यामि ।
हिरण्यक आह-भद्र किं विरक्तेः कारणम् ।
स आह-भद्र, श्रूयतां । अत्र देशे महत्यानावृष्ट्या दुर्भिक्षं सञ्जातम् । दुर्भिक्षत्वाज् जनो बुभुक्षा-पीडितः कोऽपि बलि-मात्रमपि न प्रयच्छति । अपरं गृहे गृहे बुभुक्षित-जनैर्विहङ्गानां बन्धनाय पाशाः प्रगुणीकृताः सन्ति । अहमपायुः-शेषतया पाशेन बद्ध उद्धरितोऽस्मि । एतद्विरक्तेः कारणमे तेनाहं विदेशं चलित इति बाष्प-मोक्षं करोमि ।
हिरण्यक आह-अथ भवान् क्व प्रस्थितः ?
स आह-अस्ति दक्षिणा-पथे वन-गहन-मध्ये महासरः । तत्र त्वत्तोऽधिकः परम-सुहृत् कूर्मो मन्थरको नाम । स च मे मत्स्य-मांस-खण्डानि दास्यति । तद्भक्षणात् तेन सह सुभाषित-गोष्ठी-सुखमनुभवन् सुखेन कालं नेष्यामि । नाहमत्र विहङ्गानां पाश-बन्धनेन क्षयं द्रष्टुमिच्छामि । उक्तं च-
अनावृष्टि-हते देशे सस्ये च प्रलयं गते ।
धन्यास्तात न पश्यन्ति देश-भङ्गं कुल-क्षयम् ॥ २.५६॥
कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सविद्यानां कः परः प्रिय-वादिनाम् ॥ २.५७॥
विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन ।
स्व-देशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥ २.५८॥
हिरण्यक आह-यदेवं तदहमपि त्वया सह गमिष्यामि । ममापि महद्दुःखं वर्तते ।
वायस आह-भोः ! तव किं दुःखम् ? तत् कथय ।
हिरण्यक आह-भोः ! बहु वक्तव्यमस्तत्र विषये । तत्रैव गत्वा सर्वं सविस्तरं कथयिष्यामि ।
वायस आह-अहं तावदाकाश-गतिः । तत् कथं भवतो मया सह गमनम् ?
स आह-यदि मे प्राणान् रक्षसि तदा स्व-पृष्ठमारोप्य मां तत्र प्रापयिष्यसि । नान्यथा मम गतिरस्ति ।
तच्छ्रुत्वा सानन्दं वायस आह-यदेवं तद्धन्योऽहं यद्भवतापि सह तत्र कालं नयामि । अहं सम्पातादिकानषावुड्डीन-गति-विशेषान् वेद्मि । तत् समारोह मम पृष्ठं, येन सुखेन त्वां तत्-सरः प्रापयामि ।
हिरण्यक आह-उड्डीनानां नामानि श्रोतुमिच्छामि ।
स आह-
सम्पातं विप्र-पातं च महा-पातं निपातनम् ।
वक्रं तिर्यक् तथा चोर्ध्वमष्टमं लघु-संज्ञकम् ॥ २.५९॥
तच्छ्रुत्वा हिरण्यकस्तत्-क्षणादेव तदुपरि समारूढः । सोऽपि शनैः शनैस्तमादाय सम्पातोड्डीन-प्रस्थितः क्रमेण तत्-सरः प्राप्तः । ततो लघुपतनकं मूषकाधिष्ठितं विलोक्य दूरतोऽपि देश-काल-विद-सामान्य-काकोऽयमिति ज्ञात्वा सत्वरं मन्थरको जले प्रविष्टः । लघुपतनकोऽपि तीरस्थ-तरु-कोटरे हिरण्यकं मुक्त्वा शाखाग्रमारुह्य तार-स्वरेण प्रोवाच-भो मन्थरक ! आगच्छागच्छ । तव मित्रमहं लघुपतनको नाम वायसश्चिरात् सोत्कण्ठः समायातः । तदागत्यालिङ्गय माम् । उक्तं च-
किं चन्दनैः सकर्पूरैस्तुहिनैः किं च शीतलैः ।
सर्वे ते मित्र-गात्रस्य कलां नार्हन्ति षोडशीम् ॥ २.६०॥
तथा च-
केनामृतमिदं सृष्टं मित्रमितक्षर-द्वयम् ।
आपदां च परित्राणं शोक-सन्ताप-भेषजम् ॥ २.६१॥
तच्छ्रुत्वा निपुणतरं परिज्ञाय सत्वरं सलिलान् निष्क्रम्य पुलकित-तनुरानन्दाश्रु-पूरित-नयनो मन्थरकः प्रोवाच-एहेहि मित्र, आलिङ्गय माम् । चिर-कालान् मया त्वं न सम्यक् परिज्ञातः । तेनाहं सलिलान्तः-प्रविष्टः । उक्तं च-
यस्य न ज्ञायते वीर्यं न कुलं न विचेष्टितम् ।
न तेन सङ्गतिं कुर्यादितुवाच बृहस्पतिः ॥ २.६२॥
एवमुक्ते लघुपतनको वृक्षादवतीर्य तमालिङ्गितवान् । अथवा साध्विदमुक्तम्-
अमृतस्य प्रवाहैः किं काय-क्षालन-सम्भवैः ।
चिरान् मित्र-परिष्वङ्गो योऽसौ मूल्य-विवर्जितः ॥ २.६३॥
एवं द्वावपि तौ विहितालिङ्गितौ परस्परं पुलकित-शरीरी वृक्षादधः समुपविष्टौ प्रोचतुरात्म-चरित्र-वृत्तान्तम् । हिरण्यकोऽपि मन्थरकस्य प्रणामं कृत्वा वायसाभ्याशे समुपविष्टः । अथ तं समालोक्य मन्थरको लघुपतनकमाह-भोः हिरण्यको नाम मूषकोऽयम् । मम सुहृद्द्वितीयमिव जीवितम् । तत् किं बहुना-
पर्जन्यस्य यथा धारा यथा च दिवि तारकाः ।
सिकता-रेणवो यद्वत् सङ्ख्यया परिवर्जिता ॥ २.६४॥
गुणाः सङ्ख्या-परित्यक्तास्तद्वदस्य महात्मनः ।
परं निर्वेदमापन्नः सम्प्राप्तोऽयं तवान्तिकम् ॥ २.६५॥
मन्थरक आह-किमस्य वैराग्य-कारणम् ?
वायस आह-पृष्टो मया, परमनेनाभिहितं, यद्बहु वक्तव्यमिति । तत् तत्रैव गतः कथयिष्यामि । ममापि न निवेदितम् । तद्भद्र हिरण्यक ! इदानीं निवेद्यतामुभयोरपावयोस्तदात्मनो वैराग्य-कारणम् ।
सोऽब्रवीत्-
कथा १ हिरण्यक-ताम्रचूड-कथा
अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरे मठायतनं भगवतः श्री-महादेवस्य । तत्र च ताम्रचूडो नाम परिव्राजकः प्रतिवसति स्म । स च नगरे भिक्षाटनं कृत्वा प्राण-यात्रां समाचरति । भिक्षा-शेषं च तत्रैव भिक्षा-पात्रे निधाय तद्भिक्षा-पात्रं नागदन्तेऽवलम्ब्य पश्चाद्रात्रौ स्वपिति । प्रत्यूषे च तदन्नं कर्मकराणां दत्त्वा सम्यक् तत्रैव देवतायतने सम्मार्जनोपलेपन-मण्डनादिकं समाज्ञापयति । अन्यस्मिन्नहनि मम बान्धवैर्निवेदितम्-स्वामिन्, मठायतने सिद्धमन्नं मूषक-भयात् तत्रैव भिक्षा-पात्रे निहितं नागदन्तेऽवलम्बितं तिष्ठति सदैव । तद्वयं भक्षयितुं न शक्नुमः । स्वामिनः पुनरागम्य किमपि नास्ति । तत् किं वृथाटनेनान्यत्र । अद्य तत्र गत्वा यथेच्छं भुञ्जामहे तव प्रसादात् ।
तदाकर्ण्याहं सकल-यूथ-परिवृतस्तत्-क्षणादेव तत्र गतः । उत्पत्य च तस्मिन् भिक्षा-पात्रे समारूढः । तत्र भक्ष्य-विशेषाणि सेवकेभ्यो दत्त्वा पश्चात् स्वयमेव भक्षयामि । सर्वेषां तृप्तौ जातायां भूयः स्व-गृहं गच्छामि । एवं नित्यमेव तदन्नं भक्षयामि । परिव्राजकोऽपि यथा-शक्ति रक्षति । परं यदैव निद्रान्तरितो भवति, तदाहं तत्रारुह्यात्म-कृत्यं करोमि । अथ कदाचित् तेन मम रक्षणार्थं महान् यत्नः कृतः । जर्जर-वंशः समानीतः । तेन सुप्तोऽपि मम भयाद्भिक्षा-पात्रं ताडयति । अहमपभिक्षितेऽपन्ने प्रहार-भयादपसर्पामि । एवं तेन सह सकलां रात्रिं विग्रह-परस्य कालो व्रजति ।
अथान्यस्मिन्नहनि तस्य मठे बृहत्स्फिङ्-नामा परिव्राजकस्तस्य सुहृत् तीर्थ-यात्रा-प्रसङ्गेन पान्थः प्राघुणिकः समायातः । तं दृष्ट्वा प्रत्युत्थान-विधिना सम्भाव्य प्रतिपत्ति-पूर्वकमभ्यागत-क्रियया नियोजितः । ततश्च रात्रावेकत्र कुश-संस्तरे द्वावपि प्रसुप्तौ धर्म-कथां कथयितुमारब्धौ ।
अथ बृहस्फिक्-कथा-गोष्ठीषु स ताम्रचूडो मूषक-त्रासार्थं व्याक्षिप्त-मना जर्जर-वंशेन भिक्षा-पात्रं ताडयंस्तस्य शून्यं प्रतिवचनं प्रयच्छति । तन्-मयो न किञ्चिदुदाहरति । अथासावभ्यागतः परं कोपमुपागतस्तमुवाच-भोस्ताम्रचूड ! परिज्ञातः न त्वं सम्यक् सुहृत् । तेन मया सह साह्लादं न जल्पसि । तद्रात्रावपि त्वदीयं मठं त्यक्त्वान्यत्र मञ्हे यास्यामि । उक्तं च-
एहागच्छ समाविशासनमिदं कस्माच्चिराद्दृश्यसे का वार्तेति सुदुर्बलोऽसि कुशलं प्रीतोऽस्मि ते दर्शनात् ।
एवं ये समुपागतान् प्रणयिनः प्रत्यालपन्तादरात् तेषां युक्तमशङ्कितेन मनसा हर्म्याणि गन्तुं सदा ॥ २.६६॥
गृही यत्रागतं दृष्ट्वा दिशो वीक्षेत वापधः ।
तत्र ये सदने यान्ति ते शृङ्ग-रहिता वृषाः ॥ २.६७॥
साभ्युत्थान-क्रिया यत्र नालापा मधुराक्षराः ।
गुण-दोष-कथा नैव तत्र हर्म्यं न गम्यते ॥ २.६८॥
तदेक-मठ-प्राप्त्यापि त्वं गर्वितः । त्यक्तः सुहृत्-स्नेहः । नैतद्वेत्सि यत् त्वया मठाश्रय-व्याजेन नरकोपार्जनं कृतम् । उक्तं च-
नरकाय मतिस्ते चेत् पौरोहित्यं समाचार ।
वर्षं यावत् किमन्येन मठ-चिन्तां दिन-त्रयम् ॥ २.६९॥
तन्-मुखं, शोचितव्यस्त्वं गर्वं गतः । तदहं त्वदीयं मठं परित्यज्य यास्यामि ।
अथ तच्छ्रुत्वा भय-त्रस्त-मनास्ताम्रचूडस्तमुवाच-भो भगवन् ! मैवं वद । न त्वत्-समोऽन्यो मम सुहृत् कश्चिदस्ति । परं तच्छ्रूयतां गोष्ठी-शैथिल्य-कारणम् । एष दुरात्मा मूषकः प्रोन्नत-स्थाने धृतमपि भिक्षा-पात्रमुत्प्लुत्यारोहति, भिक्षा-शेषञ्च तत्रस्थं भक्षयति । तदभावादेव मठे मार्जन-क्रियापि न भवति । तन् मूषक
मुहुर्मुहुस्ताडयामि । नान्यत् कारणमिति । अपरमेतत् कुतूहलं पश्यास्य दुर्तात्मनो यन् मार्जार-मर्कटादयोऽपि तिरस्कृता अस्योत्पतनेन ।
बृहत्स्फिगाह-अथ ज्ञायते तस्य बिलं कस्मिंश्चित् प्रदेशे ।
ताम्रचूड आह-भगवन् न वेद्मि सम्यक् ।
स आह-नूनं निधानस्योपरि तस्य बिलम् । निधानोष्मणा प्रकूर्दते । उक्तं च-
ऊष्मापि वित्तजो वृद्धिं तेजो नयति देहिनाम् ।
किं पुनस्तस्य सम्भोगस्त्याग-धर्म-समन्वितः ॥ २.७०॥
तथा च-
नाकस्माच्छाण्डिली मातर्विक्रीणाति तिलैस्तिलान् ।
लुञ्चितान् इतरैर्येन हेतुरत्र भविष्यति ॥ २.७१॥
ताम्रचूड आह-कथमेतत् ?
स आह-
कथा २ तिलचूर्ण-विक्रय-कथा
यदाहं कस्मिंश्चित् स्थाने प्रावृट्-काले व्रत-ग्रहण-निमित्तं कञ्चिद्ब्राह्मणं वासार्थं प्रार्थितवान् । ततश्च तद्वचनात् तेनापि शुश्रूषितः सुखेन देवार्चन-परस्तिष्ठामि । अथान्यस्मिन्नहनि प्रत्यूषे प्रबुद्धोऽहं ब्राह्मण-ब्राह्मणी-संवादे दत्तावधानः शृणोमि । तत्र ब्राह्मण आह-ब्राह्मणि, प्रभाते दक्षिणायन-सङ्क्रान्तिरनन्त-दान-फलदा भविष्यति । तदहं प्रतिग्रहार्थं ग्रामान्तरं यास्यामि । त्वया ब्राह्मणस्यैकस्य भगवतः सूर्यस्योद्देशेन किञ्चिद्भोजनं दातव्यमिति ।
अथ तच्छ्रुत्वा ब्राह्मणी परुषतर-वचनैस्तं भर्त्सयमाना प्राह-कुतस्ते दारिद्र्योपहतस्य भोजन-प्राप्तिः । तत् किं लज्जस एवं ब्रुवाणः । अपि च न मया तव हस्त-लग्नया क्वचिदपि लब्धं सुखम् । न मिष्ठान्नस्यास्वादनम् । न च हस्त-पाद-कण्ठादि-भूषणम् ।
तच्छ्रुत्वा भय-त्रस्तोऽपि विप्रो मन्दं मन्दं प्राह-ब्राह्मणि ! नैतद्युज्यते वक्तुम् । उक्तं च-
ग्रासादपि तदर्धं च कस्मान् नो दीयतेऽर्थिषु ।
इच्छानुरूपो विभवः कदा कस्य भविष्यति ॥ २.७२॥
ईश्वरा भूरि-दानेन यल्लभन्ते फलं किल ।
दरिद्रस्तच्च काकिण्या प्राप्नुयादिति न श्रुतिः ॥ २.७३॥
दाता लघुरपि सेव्यो भवति न कृपणो महानपि समृद्ध्या ।
कूपोऽन्तः-स्वादु-जलः प्रीत्यै लोकस्य न समुद्रः ॥ २.७४॥
तथा च-
अकृत-त्याग-महिम्नां मिथ्या किं राज-राज-शब्देन ।
गोप्तारं न निधीनां महयन्ति महेश्वरं विबुधाः ॥ २.७५॥
अपि च-
सदा दान-परिक्षीणः शस्त एव करीश्वरः ।
अदानः पीन-गात्रोऽपि निन्द्य एव हि गर्दभः ॥ २.७६॥
सुशीलोऽपि सुवृत्तोऽपि यातदानादधो घटः ।
पुनः कुब्जापि काणापि दानादुपरि कर्कटी ॥ २.७७॥
यच्छन् जलमपि जलदो वल्लभतामेति सकल-लोकस्य ।
नित्यं प्रसारित-करो मित्रोऽपि न वीक्षितुं शक्यः ॥ २.७८॥
एवं ज्ञात्वा दरिद्र्याभिभूतैरपि स्वल्पात् स्वल्पतरं काले पात्रे च देयम् । उक्तं च-
सत्-पात्रं महती श्रद्धा देशे काले यथोचिते ।
यद्दीयते विवेक-ज्ञैस्तदनन्ताय कल्पते ॥ २.७९॥
तथा च-
अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत् ।
अतितृष्णाभिभूतस्य शिखा भवति मस्तके ॥ २.८०॥
ब्राह्मणाह-कथमेतत् ?
स आह-
कथा ३ शवर-शूकर-कथा
अस्ति कस्मिंश्चिद्वनोद्देशे कश्चित् पुलिन्दः । स च पापर्द्धिं कर्तुं वनं प्रति प्रस्थितः । अथ तेन प्रसर्पता महानञ्जन-पर्वत-शिखराकारः क्रोडः समासादितः । तं दृष्ट्वा कर्णान्ताकृष्ट-निशित-सायकेन समाहतः । तेनापि कोपाविष्टेन चेतसा बालेन्दु-द्युतिना दंष्ट्राग्रेण पाटितोदरः पुलिन्दो गतासुर्भूतलेऽपतत् ।
अथ लुब्धकं व्यापाद्य शूकरोऽपि शर-प्रहार-वेदनया पञ्चत्वं गतः । एतस्मिन्नन्तरे कश्चिदासन्न-मृत्युः शृगाल इतस्ततो निराहारतया पीडितः परिभ्रमंस्तं प्रदेशमाजगाम । यावद्वराह-पुलिन्दौ द्वावपि पश्यति तावत् प्रहृष्टो व्यचिन्तयत्-भोः ! सानुकूलो मे विधिः । तेनैतदपचिन्तितं भोजनमुपस्थितम् । अथवा साध्विदमुक्तम्-
अकृतेऽपुद्यमे पुंसामन्य-जन्म-कृतं फलम् ।
शुभाशुभं समभ्येति विधिना सन्नियोजितम् ॥ २.८१॥
तथा च-
यस्मिन् देशे च काले च वयसा यादृशेन च ।
कृतं शुभाशुभं कर्म तत् तथा तेन भुज्यते ॥ २.८२॥
तदहं तथा भक्षयामि यथा बहूनहानि मे प्राण-यात्रा भवति । तत् तावदेनं स्नायु-पाशं धनुष्कोटि-गतं भक्षयामि । उक्तं च-
शनैः शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम् ।
रसायनमिव प्राज्ञैर्हेलया न कदाचन ॥ २.८३॥
इतेवं मनसा निश्चित्य चाप-घटित-कोटिं मुख-मध्ये प्रक्षिप्य स्नायुं भक्षितुं प्रवृत्तः । ततश्च त्रुटिते पाशे तालु-देशं विदार्य चाप-कोटिर्मस्तक-मध्येन निष्क्रान्ता । सोऽपि तद्वदेनया तत्-क्षणान्तन् मृतः । अतोऽहं ब्रवीमि-अतितृष्णा न कर्तव्या इति ।
स पुनरपाह-ब्राह्मणि, न श्रुतं भवत्या ।
आयुः कर्म च वित्तं च विद्या निधनमेव च ।
पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥ २.८४॥
अथैवं सा तेन प्रबोधिता ब्राह्मणाह-यदेवं तदस्ति मे गृहे स्तोकस्तिल-राशिः । ततस्तिलान् लुञ्चित्वा तिल-चूर्णेन ब्राह्मणं भोजयिष्यामि इति ।
ततस्तद्वचनं श्रुत्वा ब्राह्मणो ग्रामं गतः । सापि तिलानुष्णोदकेन सम्मर्द्य कुटित्वा सूर्यातपे दत्तवती । अत्रान्तरे तस्या ग्र्ह-कर्म-व्यग्रायास्तिलानां मध्ये कश्चित् सारमेयो मूत्रोत्सर्गं चकार । तं दृष्ट्वा सा चिन्तितवती-अहो नैपुण्यं पश्य पराङ्मुखीभूतस्य विधेः । यदेते तिला अभोज्याः कृताः । तदहमेतान् समादाय कस्यचित् गृहं गत्वा लुञ्चितैरलुञ्चितान् आनयामि । सर्वोऽपि जनोऽनेन विधिना प्रदास्यति इति ।
अथ यस्मिन् गृहेऽहं भिक्षार्थं प्रविष्टस्तत्र गृहे सापि तिलान् आदाय प्रविष्टा विक्रयं कर्तुम् । आह च-गृह्णातु कश्चिदलुञ्चितैर्लुञ्चितांस्तिलान् ।
अथ तद्गृह-गृहिणी-गृहं प्रविष्टा यावदलुञ्चितैर्लुञ्चितान् गृह्णाति तावदस्याः पुत्रेण कामन्दकी-शास्त्रं दृष्ट्वा व्याहृतम्-मातः ! अग्राह्याः खल्विमे तिलाः । नास्या अलुञ्चितैर्लुञ्चिता ग्राह्याः । कारणं किञ्चिद्भविष्यति । तेनैषालुञ्चितैर्लुञ्चितान् प्रयच्छति ।
तच्छ्रुत्वा अया परित्यक्तास्ते तिलाः । अतोऽहं ब्रवीमि-नाकस्माच्छाण्डिली-मातः इति ।
एतदुक्त्वा स भूयोऽपि प्राह-अथ ज्ञायते तस्य क्रमण-मार्गः ।
ताम्रचूड आह-भगवन्, ज्ञायते । यत एकाकी न समागच्छति, किन्त्वसङ्ख्य-यूथ-परिवृतः पश्यतो मे परिभ्रमन्न् इतस्ततः सर्व-जनेन सहागच्छति याति च ।
अभ्यागत आह-अस्ति किञ्चित् खनित्रकम् ।
स आह-बाढमस्ति । एषा सर्व-लोह-मयी स्व-हस्तिका ।
अभ्यागत आह-तर्हि प्रत्यूषे त्वया मया सह स्थातव्यम् । येन द्वावपि जन-चरण-मलिनायां भूमौ तत्-पदानुसारेण गच्छावः । मयापि तद्वचनमाकर्ण्य चिन्तितमहो विनष्टोऽस्मि, यतोऽस्य साभिप्राय-वचांसि श्रूयन्ते । नूनं, यथा निधानं ज्ञातं तथा दुर्गमपस्माकं ज्ञास्यति । एतदभिप्रायादेव ज्ञायते । उक्तं च-
सकृदपि दृष्ट्वा पुरुषं विबुधा जानन्ति सारतां तस्य ।
हस्त-तुलयापि निपुणाः पल-प्रमाणा विजानन्ति ॥ २.८५॥
वाञ्छैव सूचयति पूर्वतरं भविष्यं
पुंसां यदन्य-तनुजं त्वशुभं शुभं वा ।
विज्ञायते शिशुरजात-कलाप-चिह्नः
प्रत्युद्गतैरपसरन् सरलः कलापी ॥ २.८६॥
ततोऽहं भय-त्रस्त-मनाः सपरिवारो दुर्ग-मार्गं परित्यज्यान्य-मार्गेण गन्तुं प्रवृत्तः । सपरिजनो यावदग्रतो गच्छामि तावत् सम्मुखो बृहत्कायो मार्जारः समायाति । स च मूषक-वृन्दमवलोक्य तन्-मध्ये सहसोत्पपात । अथ ते मूषका मां कुमार्ग-गामिनमवलोक्य गर्हयन्तो हत-शेषा रुधिर-प्लावित-वसुन्धरास्तमेव दुर्गं प्रविष्टाः । अथवा साध्विदमुच्यते-
छित्त्वा पाशमपास्य कूट-रचनां भङ्क्त्वा बलाद्वागुरां
पर्यन्ताग्नि-शिखा-कलाप-जटिलान् निर्गत्य दूरं वनात् ।
व्याधानां शर-गोचरादपि जवेनोत्पत्य धावन् मृगः
कूपान्तः-पतितः करोतु विधुरे किं वा विधौ पौरुषम् ॥ २.८७॥
अथाहमेकोऽन्यत्र गतः । शेषा मूढतया तत्रैव दुर्गे प्रविष्टाः । अत्रान्तरे स दुष्ट-परिव्राजको रुधिर-बिन्दु-चर्चितां भूमिमवलोक्य तेनैव दुर्ग-मार्गेणागत्योपस्थितः ।
यदुत्साही सदा मर्त्यः पराभवति यज् जनान् ।
यदुद्धतं वदेद्वाक्यं तत् सर्वं वित्तजं बलम् ॥ २.८८॥
अथाहं तच्छ्रुत्वा कोपाविष्टो भिक्षा-पात्रमुद्दिश्य विशेषादुत्कूर्दितोऽप्राप्त एव भूमौ निपतितः । तच्छ्रूत्वासौ मे शत्रुर्विहस्य ताम्रचूडमुवाच-भोः ! पश्य पश्य कौतूहलम् । आह च-
अर्थेन बलवान् सर्वोऽपर्थ-युक्तः स पण्डितः ।
पश्यैनं मूषकं व्यर्थं सजातेः समतां मतम् ॥ २.८९॥
तत् स्वपिहि त्वं गत-शङ्कः । यदस्योत्पतन-कारणं तदावयोर्हस्त-गतं जातम् । अथवा साध्विदमुच्यते-
दंष्ट्रा-विरहितः सर्पो मद-हीनो यथा गजः ।
तथार्थेन विहीनोऽत्र पुरुषो नाम-धारकः ॥ २.९०॥
तच्छ्रुत्वाहं मनसा विचिन्तितवान्-यतोऽङ्गुलि-मात्रमपि कूर्दन-शक्तिर्नास्ति, तद्धिगर्थ-हीनस्य पुरुषस्य जीवितम् । उक्तं च-
अर्थेन च विहीनस्य पुरुषस्याल्प-मेधसः ।
व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ २.९१॥
यथा काक-यवाः प्रोक्ता यथारण्य-भवास्तिलाः ।
नाम-मात्रा न सिद्धौ हि धन-हीनास्तथा नराः ॥ २.९२॥
सन्तोऽपि न हि राजन्ते दरिद्रस्येतरे गुणाः ।
आदित्य इव भूतानां श्रीर्गुणानां प्रकाशिनी ॥ २.९३॥
न तथा बाध्यते लोके प्रकृत्या निर्धनो जनः ।
यथा द्रव्याणि सम्प्राप्य तैर्विहीनोऽसुखे स्थितः ॥ २.९४॥
शुष्कस्य कीट-खातस्य वह्नि-दग्धस्य सर्वतः ।
तरोरपूषरस्थस्य वरं जन्म न चार्थिनः ॥ २.९५॥
शङ्कनीया हि सर्वत्र निष्प्रतापा दरिद्रता ।
उपकर्तुमपि हि प्राप्तं निःस्वं सन्त्यज्य गच्छति ॥ २.९६॥
उन्नम्योन्नम्य तत्रैव दरिद्राणां मनोरथाः ।
पतन्ति हृदये व्यर्था विधवास्त्रीस्तना इव ॥ २.९७॥
व्यक्तेऽपि वासरे नित्यं दौर्गत्य-तमसावृतः ।
अग्रतोऽपि स्थितो यत्नान् न केनापीह दृश्यते ॥ २.९८॥
एवं विलप्याहं भग्नोत्साहस्तन्-निधानं गण्डोपधानीकृतं दृष्ट्वा स्वं दुर्गं प्रभाते गतः । ततश्च मद्भृत्याः प्रभाते गच्छन्तो मिथो जल्पन्ति-अहो, असमर्थोऽयमुदर-पूरणेऽस्माकम् । केवलमस्य पृष्ठ-लग्नानां विडालादि-विपत्तयः तत् किमनेनाराधितेन ? उक्तं च-
यत्-सकाशान् न लाभाः स्यात् केवलाः स्युर्विपत्तयः ।
स स्वामी दूरतस्त्याज्यो विशेषादनुजीविभिः ॥ २.९९॥
एवं तेषां वचांसि श्रुत्वा स्व-दुर्गं प्रविष्टोऽहम् । यावन् न कश्चिन् मम सम्मुखेऽभ्येति तावन् मया चिन्तितम्-धिगियं दरिद्रता । अथवा साध्विदमुच्यते-
मृतो दरिद्रः पुरुषो मृतं मैथुनमप्रजम् ।
मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणम् ॥ २.१००॥
व्यथयन्ति परं चेतो मनोरथ-शतैर्जनाः ।
नानुष्ठानैर्धनैर्हीनाः कुलजाः विधवा इव ॥ २.१०१॥
दौर्गत्यं देहिनां दुःखमपमान-करं परम् ।
येन स्वैरपि मन्यन्ते जीवन्तोऽपि मृता इव ॥ २.१०२॥
दैन्यस्य पात्रतामेति पराभृतेः परं पदम् ।
विपदामाश्रयः शश्वद्दौर्गत्य-कलुषी-कृतः ॥ २.१०३॥
लज्जन्ते बान्धवास्तेन सम्बन्धं गोपयन्ति च ।
मित्राणमित्रतां यान्ति यस्य न स्युः कपर्दकाः ॥ २.१०४॥
मूर्तं लाघवमेवैतदपायानामिदं गृहम् ।
पर्यायो मरणस्यायं निर्धनत्वं शरीरिणाम् ॥ २.१०५॥
अजा-धूलिरिव त्रस्तैर्मार्जनी-रेणुवज् जनैः ।
दीप-खट्वोत्थ-च्छायेव त्यज्यते निर्धनो जनः ॥ २.१०६॥
शौचावशिष्टयापस्ति किञ्चित् कार्यं क्वचिन् मृदा ।
निर्धनेन जनेनैव न तु किञ्चित् प्रयोजनम् ॥ २.१०७॥
अधनो दातु-कामोऽपि सम्प्राप्तो धनिनां गृहम् ।
मन्यते याचकोऽयं धिग्दारिद्र्यं खलु देहिनाम् ॥ २.१०८॥
स्व-वित्त-हरणं दृष्ट्वा यो हि रक्षतसून् नरः ।
पितरोऽपि न गृह्णन्ति तद्दत्तं सलिआञ्जलिम् ॥ २.१०९॥
तथा च-
गवार्थे ब्राह्मणार्थे च स्त्री-वित्त-हरणे तथा ।
प्राणांस्त्यजति यो युद्धे तस्य लोकाः सनातनाः ॥ २.११०॥
एवं निश्चित्य रात्रौ तत्र गत्वा निद्रावशमुपागतस्य पेटायां मया छिद्रं कृतं यावत्, तावत् प्रबुद्धो दुष्ट-तापसः । ततश्च जर्जर-वंश-प्रहारेण शिरसि ताडितः कथञ्चिदायुः-शेषतया निर्गतोऽहम्, न मृतश्च । उक्तं च-
प्राप्तव्यमर्थं लभते मनुष्यो
देवोऽपि तं लङ्घयितुं न शक्तः ।
तस्मान् न शोचामि न विस्मयो मे
यदस्मदीयं न हि तत् परेषाम् ॥ २.१११॥
काक-कूर्मौ पृच्छतः-कथमेतत् ?
हिरण्यक आह-
कथा ४ सागरदत्त-कथा
अस्ति कस्मिंश्चिन् नगरे सागरदत्तो नाम वणिक् । तत्-सूनुना रूपक-शतेन विक्रीयमाणं पुस्तकं गृहीतम् । तस्मिंश्च लिखितमस्ति-
प्राप्तव्यमर्थं लभते मनुष्यो
देवोऽपि तं लङ्घयितुं न शक्तः ।
तस्मान् न शोचामि न विस्मयो मे
यदस्मदीयं न हि तत् परेषाम् ॥ २.१११॥
तद्दृष्ट्वा सागरदत्तेन तनुजः पृष्टः-पुत्र, कियता मूल्येनैतत् पुस्तकं गृहीतम् ?
सोऽब्रवीत्-रूपक-शतेन ।
तच्छ्रुत्वा सागरदत्तोऽब्रवीत्-धिङ्मूर्ख ! त्वं लिखितैक-श्लोकं रूपक-शतेन यद्गृह्णासि, एतया बुद्ध्या कथं द्रव्योपार्जनं करिष्यसि । तदद्य-प्रभृति त्वया मे गृहे न प्रवेष्टव्यम् ।
एवं निर्भर्त्स्य गृहान् निःसारितः । स च तेन निर्वेदेन विप्रकृष्टं देशान्तरं गत्वा किमपि नगरमासाद्यावस्थितः । अथ कतिपय-दिवसैस्तन्-नगर-निवासिना केनचिदसौ पृष्टः-कुतो भवान् आगतः ? किं नाम-धेयो वा ? इति ।
असावब्रवीत्-प्राप्तव्यमर्थं लभते मनुष्य इति । अथान्येनापि पृष्टेनानेन तथैवोत्तरं दत्तम् । एवं च तस्य नगरस्य मध्ये प्राप्तव्यमर्थ इति तस्य प्रसिद्ध-नाम जातम् ।
अथ राज-कन्या चन्द्रवती नामाभिनव-रूप-यौवन-सम्पन्ना सखी-द्वितीयैकस्मिन् महोत्सव-दिवसे नगरं निरीक्षमाणास्ति । तत्रैव च कश्चिद्राज-पुत्रोऽतीव-रूप-सम्पन्नो मनोरमश्च कथमपि तस्या दृष्टि-गोचरे गतः । तद्दर्शन-सम-कालमेव कुसुम-बाणाहतया तया निज-सख्यभिहिता-सखि ! यथा किलानेन सह समागमो भवति तथाद्य त्वया यतितव्यम् ।
एवं च श्रुत्वा सा सखी तत्-सकाशं गत्वा शीघ्रमब्रवीत्-यदहं चन्द्रवत्या तवान्तिकं प्रेषिता । भणितं च त्वां प्रति तया यन् मम त्वद्दर्शनान् मनोभवेन पश्चिमावस्था कृता । तद्यदि शीघ्रमेव मदन्तिके न समेष्मसि तदा मे मरणं शरणम् ।
इति श्रुत्वा तेनाभिहितं-यदवश्यं मया तत्रागन्तव्यं, तत् कथय केनोपायेन प्रवेष्टव्यम् ?
अथ सख्याभिहितम्-रात्रौ सौधावलम्बितया दृढ-वरत्रया त्वया तत्रारोढव्यम् ।
सोऽब्रवीत्-यदेवं निश्चयो भवत्यास्तदहमेवं करिष्यामि ।
इति निश्चित्य सखी चन्द्रवती-सकाशं गता । अथागतायां रजन्यां स राज-पुत्रः स्व-चेतसा व्यचिन्तयत्-अहो महदकृत्यमेतत् । उक्तं च-
गुरोः सुतां मित्र-भार्यां स्वामि-सेवक-गेहिनीम् ।
यो गच्छति पुमांल्लोके तमाहुर्ब्रह्म-घातिनम् ॥ २.११२॥
अपरं च-
अयशः प्राप्यते येन येन चाधो-गतिर्भवेत् ।
स्वार्थाच्च भ्रश्यते येन तत् कर्म न समाचरेत् ॥ २.११३॥
इति सम्यग्विचार्य तत्-सकाशं न जगाम । अथ प्राप्तव्यमर्थः पर्यटन् धवल-गृह-पार्श्वे रात्राववलम्बित-वरत्रां दृष्ट्वा कौतुकाविष्ट-हृदयस्तामालम्ब्याधिरूढः । तया च राज-पुत्र्या स एवायमिताश्वस्त-चित्तया स्नान-खादन-पानाच्छादनादिना सम्मान्य तेन सह शयन-तलमाश्रितया तदङ्ग-संस्पर्श-सञ्जात-हर्ष-रोमाञ्चित-गात्रयोक्तं-युष्मद्दर्शन-मात्रानुरक्तया मयात्मा प्रदत्तोऽयम् । त्वद्वर्जमन्यो भर्ता मनसपि मे न भविष्यति इति । तत् कस्मानम्या सह न ब्रवीषि ?
सोऽब्रवीत्- प्राप्तव्यमर्थं लभते मनुष्यः ।
इतुक्ते तयान्योऽयमिति मत्वा धवल-गृहादुत्तार्य मुक्तः । स तु खण्ड-पाशकः प्राप्तः । तावदसौ खण्ड-देव-कुले गत्वा सुप्तः । अथ तत्र कयाचित् स्वैरिण्या दत्त-सङ्केतको यावद्दण्ड-पाशकः प्राप्तः, तावदसौ पूर्व-सुप्तस्तेन दृष्टो रहस्य-संरक्षणार्थमभिहितश्च-को भवान् ?
सोऽब्रवीत्-प्राप्तव्यमर्थं लभते मनुष्यः ।
इति श्रुत्वा दण्ड-पाशकेनाभिहितम्-यच्छून्यं देव-गृहमिदम् । तदत्र मदीय-स्थाने गत्वा स्वपिहि ।
तथा प्रतिपद्य स मतिर्विपर्यासादन्य-शयने सुप्तः । अथ तस्य रक्षकस्य कन्या विनयवती नाम रूप-यौवन-सम्पन्ना कस्यापि पुरुषस्यानुरक्ता सङ्केतं दत्त्वा तत्र शयने सुप्तासीत् । अथ सा तमायातं दृष्ट्वा स एवायमस्मद्वल्लभ इति रात्रौ घनतरान्धकार-व्यामोहितोत्थाय भोजनाच्छादनादि-क्रियां कारयित्वा गान्धर्व-विवाहेनात्मानं विवाहयित्वा तेन समं शयने स्थिता विकसित-वदन-कमला तमाह-किमद्यापि मया सह विश्रब्धं भवान् न ब्रवीति ।
सोऽब्रवीत्-प्राप्तव्यमर्थं लभते मनुष्यः ।
इति श्रुत्वा तया चिन्तितम्-यत् कार्यमसमीक्षितं क्रियते तस्येदृक्-फल-विपाको भवति इति । एवं विमृश्य सविषादया तया निःसारितोऽसौ । स च यावद्वीथी-मार्गेण गच्छति तावदन्य-विषय-वासी वर-कीर्तिर्नाम वरो महता वाद्य-शब्देनागच्छति । प्राप्तव्यमर्थोऽपि तैः समं गन्तुमारब्धः ।
अथ यावत् प्रत्यासन्ने लग्न-समये राज-मार्गासन्न-श्रेष्ठि-गृह-द्वारे रचित-मण्डप-वेदिकायां कृत-कौतुक-मङ्गल-वेशा वणिक्-सुतास्ति, तावन् मद-मत्तो हस्त्यारोहकं हत्वा प्रणश्यज्-जन-कोलाहलेन लोकमाकुलयंस्तमेवोद्देशं प्राप्तः । तं च दृष्ट्वा सर्वे वरानुयायिनो वरेण सह प्रणश्य दिशो जग्मुः ।
अथास्मिन्नवसरे भय-तरल-लोचनामेकाकिनीं कन्यामवलोक्य-मा भैषीः । अहं परित्रातेति सुधीरं स्थिरीकृत्य दक्षिण-पाणौ सङ्गृह्य महा-साहसिकतया प्राप्तव्यमर्थः पुरुष-वाक्यैर्हस्तिनं निर्भर्त्सितवान् । ततः कथमपि दैव-योगादपाये हस्तिनि ससुहृद्बान्धवेनातिक्रान्त-लग्न-समये वर-कीर्तिर्नागत्य तावत् तां कन्यामन्य-हस्त-गतां दृष्ट्वाभिहितम्-भोः श्वशुर, विरुद्धमिदं त्वयानुष्ठितं यन् मह्यं प्रदाय कन्यान्यस्मै प्रदत्ता इति ।
सोऽब्रवीत्-भोः ! अहमपि हस्ति-भय-पलायितोभवद्भिः सहायातो न जाने किमिदं वृतमितभिधाय दुहितरं प्रष्टुमारब्धः-वत्से, न त्वया सुन्दरं कृतम् । तत् कथ्यतां कोऽयं वृत्तान्तः ।
सोऽब्रवीत्-यदहमनेन प्राण-संशयाद्रक्षिता, तदेनं मुक्त्वा मम जीवन्त्या नान्यः पाणिं ग्रहीष्यति इति ।
अनेन वार्ता-व्यतिकरेण रजनी व्युष्टा । अथ प्रातस्तत्र सञ्जाते महा-जन-समवाये वार्ता-व्यतिकरं श्रुत्वा राज-दुहिता तमुद्देशमागता । कर्ण-परम्परया श्रुत्वा दण्डपाशक-सुतापि तत्रैवागता । अथ तं महाजन-अमवायं श्रुत्वा राजापि तत्र एवाजगाम ।
प्राप्तव्यमर्थं प्राह-भोः विश्रब्धं कथय । कीदृशोऽसौ वृत्तान्तः ? अथ सोऽब्रवीत्-प्राप्तव्यमर्थं लभते मनुष्यः इति ।
राज-कन्या स्मृत्वा प्राह-देवोऽपि तं लङ्घयितुं न शक्त इति ।
ततो दण्डपाशक-सुताब्रवीत्-तस्मान् न शोचामि न विस्मयो मे इति ।
तमखिललोक-वृत्तान्तमाकर्ण्य वणिक्-सुताब्रवीत्-यदस्मदीयं न हि तत् परेषामिति ।
ततोऽभय-दानं दत्त्वा राजा पृथक् पृथग्वृत्तान्तान् ज्ञात्वावगत-तत्त्वस्तस्मै प्राप्तव्यमर्थाय स्व-दुहितरं सबहु-मानं ग्राम-सहस्रेण समं सर्वालङ्कार-परिवार-युतां दत्त्वा त्वं मे पुत्रोऽसीति नगर-विदितं तं यौवराज्येऽभिषिक्तवान् । दण्ड-पासकेनापि स्व-दुहिता स्व-शक्त्या वस्त्र-दानादिना सम्भाव्य प्राप्तव्यमर्थाय प्रदत्ता ।
अथ प्राप्तव्यमर्थेनापि स्वीय-पितृ-मातरौ समस्त-कुटुम्बावृतौ तस्मिन् नगरे सम्मान-पुरःसरं समानीतौ । अथ सोऽपि स्व-गोत्रेण सह विविध-भोगानुपभुञ्जानः सुखेनावस्थितः । अतोऽहं ब्रवीमि-प्राप्तव्यमर्थं लभते मनुष्यः इति ।
तदेतत् सकलं सुख-दुःखमनुभूय परं विषादमुपागतोऽनेन मित्रेण त्वत्-सकाशमानीतः । तदेतन् मे वैराग्य-कारणम् । मन्थरक आह-भद्र, भवति सुहृदयमसन्दिग्धं यः क्षुत्-क्षामोऽपि शत्रु-भूतं त्वां भक्ष्य-स्थाने स्थितमेवं पृष्ठमारोप्यानयति न मार्गेऽपि भक्षयति । उक्तं च यतः-
विकारं याति नो चित्तं वित्ते यस्य कदाचन ।
मित्रं स्यात् सर्व-काले च कारयेन् मित्रमुत्तमम् ॥ २.११४॥
विद्वद्भिः सुहृदामत्र चिह्नैरेतैरसंशयम् ।
परीक्षा-करणं प्रोक्तं होमाग्नेरिव पण्डितैः ॥ २.११५॥
तथा च-
आपत्-काले तु सम्प्राप्ते यन् मित्रं मित्रमेव तत् ।
वृद्धि-काले तु सम्प्राप्ते दुर्जनोऽपि सुहृद्भवेत् ॥ २.११६॥
तन् ममापद्यास्य विषये विश्वासः समुत्पन्नो यतो नीति-विरुद्धेयं मैत्री मांसाशिभिर्वायसैः सह जलचराणाम् । अथवा साध्विदमुच्यते-
मित्रं कोऽपि न कस्यापि नितान्तं न च वैर-कृत् ।
दृश्यते मित्र-विध्वस्तात् कार्याद्वैरी परीक्षितः ॥ २.११७॥
तत् स्वागतं भवतः । स्व-गृह-वदास्यतामत्र सरस्तीरे । यच्च वित्त्-नाशो विदेश-वासश्च ते सञ्जातस्तत्र विषये सन्तापो न कर्तव्यः । उक्तं च-
अभ्रच्छाया खल-प्रीतिः समुद्रान्ते च मेदिनी ।
अल्पेनैव विनश्यन्ति यौवनानि धनानि च ॥ २.११८॥
अत एव विवेकिनो जितात्मानो धन-स्पृहां न कुर्वन्ति । उक्तं च-
सुसञ्चितैर्जीवनवत् सुरक्षितैर्
निजेऽपि देहे न वियोजितैः क्वचित् ।
पुंसो यमान्तं व्रजतोऽपि निष्ठुरैर्
एतैर्धनैः पञ्चपदी न दीयते ॥ २.११९॥
अन्यच्च-
यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि ।
आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान् ॥ २.१२०॥
निर्दोषमपि वित्ताढ्य दोषैर्योजयते नृपः ।
निधनः प्राप्त-दोषोऽपि सर्वत्र निरुपद्रवः ॥ २.१२१॥
अर्थानामर्जनं कार्यं वर्धनं रक्षणं तथा ।
भक्ष्यमाणो निरादायः सुमेरुरपि हीयते ॥ २.१२२॥
अर्थार्थी यानि कष्टानि मूढोऽयं सहते जनः ।
शतांशेनापि मोक्षार्थी तानि चेन् मोक्षमाप्नुयात् ॥ २.१२३॥
को धीरस्य मनस्विनः स्व-विषयः को वा विदेशः स्मृतो
यं देशं श्रयते तमेव कुरुते बाहु-प्रतापार्जितम् ।
यद्दंष्ट्रानखलाङ्गुल-प्रहरणैः सिंहो वनं गाहते
तस्मिन् एव हत-द्विपेन्द्र-रुधिरैस्तृष्णां छिनत्तात्मनः ॥ २.१२४॥
अर्थ-हीनः परे देशे गतोऽपि यः प्रज्ञावान् भवति स कथञ्चिदपि न सीदति । उक्तं च-
कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सुव्द्यानां कः परः प्रिय-वादिनाम् ॥ २.१२५॥
तत् प्रज्ञा-निधिर्भवान् न प्राकृत-पुरुष-तुल्यः । अथवा-
उत्साह-सम्पन्नमदीर्घ-सूत्रं क्रिया-विधिज्ञं व्यसनेष्वसक्तम् ।
शूरं कृतज्ञं दृढ-सौहृदं च- लक्ष्मीः स्वयं वाञ्छति वास-हेतोः ॥ २.१२६॥
अपरं प्राप्तोऽपर्थः कर्म-प्राप्त्या नश्यति । तदेतावन्ति दिनानि त्वदीयमासीत् । मुहूर्तमपनात्मीयं भोक्तुं न लभ्यते । स्वयमागतमपि विधिनापह्रियते ।
अर्थस्योपार्जनं कृत्वा नैवाभाग्यः समश्नुते ।
अरण्यं महदासाद्य मूढः सोमिलको यथा ॥ २.१२७॥
हिरण्यक आह–कथमेतत् ?
स आह-
कथा ५ सोमिलक-कथा
अस्ति कस्मिंश्चिदधिष्ठाने सोमिलको नाम कौलिको वसति स्म । सोऽनेक-विध-पट्ट-रचनारञ्जितानि पार्थिवोचितानि सदैव वस्त्राणुत्पादयति । परं तस्य चानेक-विध-पट्ट-रचन-निपुणस्यापि न भोजनाच्छादनाभ्यधिकं कथमपर्थ-मात्रं सम्पद्यते । अथान्ये तत्र सामान्य-कौलिकाः स्थूल-वस्त्र-सम्पादन-विज्ञानिनो महर्धि-सम्पन्नाः । तानवलोक्य स स्व-भार्यामाह-प्रिये ! पश्यैतान् स्थूल-पट्ट-कारकान् धन-कनक-समृद्धान् । तदधारणकं ममैतत् स्थानम् । तदन्यत्रोपार्जनाय गच्छामि । सा प्राह-भोः प्रियतम ! मिथ्या प्रलपितमेतद्यदन्यत्र-गतानां धनं भवति, स्व-स्थाने न भवति । उक्तं च-
उत्पतन्ति यदाकाशे निपतन्ति महीतले ।
पक्षिणां तदपि प्राप्त्या नादत्तमुपतिष्ठति ॥ २.१२८॥
तथा च-
न हि भवति यन् न भाव्यं
भवति च भाव्यं विनापि यत्नेन ।
कर-तल-गतमपि नश्यति
यस्य तु भवितव्यता नास्ति ॥ २.१२९॥
यथा धेनु-सहस्रेषु वत्सो विन्दति मातरं ।
तथा पूर्व-कृतं कर्म कर्तारमनुगच्छति ॥ २.१३०॥
शेते सह शयानेन गच्छन्तमनुगच्छति ।
नराणां प्राक्तनं कर्म तिष्ठति तु सहात्मना ॥ २.१३१॥
यथा छाया-तपौ नित्यं सुसम्बद्धौ परस्परं ।
एवं कर्म च कर्ता च संश्लिष्टावितरेतरम् ॥ २.१३२॥
कौलिक आह-प्रिये ! न सम्यगभिहितं भवत्या । व्यवसायं विना न कर्म फलति । उक्तं च-
यथैकेन न हस्तेन तालिका सम्प्रपद्यते ।
तथोद्यम-परित्यक्तं न फलं कर्मणः स्मृतम् ॥ २.१३३॥
पश्य कर्म-वशात् प्राप्तं भोज्यकालेऽपि भोजनम् ।
हस्तोद्यमं विना वक्त्रे प्रविशेन् न कथञ्चन ॥ २.१३४॥
तथा च-
उद्योगिनं पुरुष-सिंहमुपैति लक्ष्मीर्
दैवेन देयमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्म-शक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ २.१३५॥
तथा च- उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य विशन्ति वदने मृगाः ॥ २.१३६॥ उद्यमेन विना राजन् न सिध्यन्ति मनोरथाः । कातरा इति जल्पन्ति यद्भाव्यं तद्भविष्यति ॥ २.१३७॥
स्व-शक्त्या कुर्वतः कर्म न चेत् सिद्धिं प्रयच्छति ।
नोपालभ्यः पुमांस्तत्र दैवान्तरित-पौरुषः ॥ २.१३८॥
तन् मयावश्यं देशान्तरं गन्तव्यम् ।
इति निश्चित्य वर्धमान-पुरं गत्वा तत्र वर्ष-त्रयं स्थित्वा सुवर्ण-शत-त्रयोपार्जनं कृत्वा भूयः स्व-गृहं प्रस्थितः । अथार्ध-पथे गच्छतस्तस्य कदाचिदटव्यां पर्यटतो भगवान् रविरस्तमुपागतः । तत्र च व्याल-भयात् स्थूलतर-वट-स्कन्ध आरूह्य प्रसुप्तो यावत् तिष्ठति तावन् निशीथे द्वौ पुरुषौ रौद्राकारौ परस्परं जल्पन्तावशृणोत् ।
तत्रैक आह-भोः कर्तः त्वं किं सम्यङ्न वेत्सि यदस्य सोमिलकस्य भोजनाच्छादनादृतेऽधिका समृद्धिर्नास्ति । तत् किं त्वयास्य सुवर्ण-शत-त्रयं दत्तम् ।
स आह-भोः कर्मन् मयावश्यं दातव्यं व्यवसायिनां तत्र च तस्य परिणतिस्त्वदायत्तेति । अथ यावदसौ कौलिकः प्रबुद्धः सुवर्ण-ग्रन्थिमवलोकयति तावद्रिक्तं पश्यति ।
ततः साक्षेपं चिन्तयामास । अहो किमेतत् ? महता कष्टेनोपार्जितं वित्तं हेलया क्वापि गतम् । यद्व्यर्थ-श्रमोऽकिञ्चनः कथं स्व-पत्न्या मित्राणां च मुखं दर्शयिष्यामि । इति निश्चित्य तदेव पत्तनं गतः । तत्र च वर्ष-मात्रेणापि सुवर्ण-शत-पञ्चकमुपार्ज्य भूयोऽपि स्व-स्थानं प्रति प्रस्थितः । यावदर्ध-पथे भूयोऽटवी-गतस्य भगवान् भानुरस्तञ्जगामाथ सुवर्ण-नाश-भयात् सुश्रान्तोऽपि न विश्राम्यति केवलं कृत-गृहोत्कण्ठः सत्वरं व्रजति । अत्रान्तरे द्वौ पुरुषौ तादृषौ दृष्टि-देशे समागच्छन्तौ जल्पन्तौ च शृणोति । तत्रैकः प्राह-भोः कर्तः ! किं त्वयैतस्य सुवर्ण-शत-पञ्चकं दत्तम् ? तत् किं न वेत्सि यद्भोजनाच्छादनाभ्यधिकमस्य किञ्चिन् नास्ति ।
स आह-भोः कर्मन् ! मयावश्यं देयं व्यवसायिनाम् । तस्य परिणामस्त्वदायत्तः । तत् किं मामुपालम्भयसि ?
तच्छ्रुत्वा सोमिलको यावद्ग्रन्थिमवलोकयति तावत् सुवर्णं नास्ति । ततः परं दुःखमापन्नो व्यचिन्तयत्-अहो किं मम धन-रहितस्य जीवितेन ? तदत्र वट-वृक्ष आत्मानमुद्बध्य प्राणांस्त्यजामि ।
एवं निश्चित्य दर्भ-मयीं रज्जुं विधाय स्व-कण्ठे पाशं नियोज्य शाखायामात्मानं निबध्य यावत् प्रक्षिपति तावदेकः पुमान् आकाश-स्थ एवेदमाह-भो भोः सोमिलक ! मैवं साहसं कुरु । अहं ते वित्तापहारको न ते भोजनाच्छादनाभ्यधिकं वराटिकामपि सहामि । तद्गच्छ स्व-गृहं प्रति । अन्यच्च भवदीय-साहसेनाहं तुष्टः । तथा मे न स्याद्व्यर्थं दर्शनम् । तत् प्रार्थ्यतामभीष्टो वरः कश्चित् ।
सोमिलक आह-यदेवं तद्देहि मे प्रभूतं धनम् ।
स आह-भोः ! किं करिष्यसि भोग-रहितेन धनेन यतस्तव भोजनाच्छादनाभ्यधिका प्राप्तिरपि नास्ति ? उक्तं च-
किं तया क्रियते लक्ष्म्या या वधूरिव केवला ।
या न वेश्येव सामान्या पथिकैरुपभुज्यते ॥ २.१३९॥
सोमिलक आह-यदपि भोगो नास्ति तथापि भवतु मे धनम् । उक्तं च-
कृपणोऽपकुलीनोऽपि सदा संश्रित-मानुषैः ।
सेव्यते स नरो लोके यस्य स्याद्वित्त-सञ्चयः ॥ २.१४०॥
तथा च-
शिथिलौ च सुबद्धौ च पततः पततो न वा ।
निरीक्षितौ मया भद्रे दश वर्षाणि पञ्च च ॥ २.१४१॥
पुरुष आह-किमेतत् ?
सोऽब्रवीत्-
कथा ६ तीक्ष्ण-विषाण-शृगाल-कथा
कस्मिंश्चिदधिष्ठाने तीक्ष्णविषाणो नाम महा-वृषभो वसति । स च मदातिरेकात् परित्यक्त-निज-यूठः शृङ्गाभ्यां नदी-तटानि विदारयन् स्वेच्छया मरकत-सदृशानि शष्पाणि भक्षयन्नरण्य-चरो बभूव । अथ तत्रैव वने प्रलोभको नाम शृगालः प्रतिवसति स्म । स कदाचित् स्व-भार्यया सह नदी-तीरे सुखोपविष्टस्तिष्ठति । अत्रान्तरे स तीक्ष्णविषाणो जलार्थं तदेव पुलिनमवतीर्णः । ततश्च तस्य लम्बमानौ वृषणावालोक्य शृगाल्या शृगालोऽभिहितः-स्वामिन् ! पश्यास्य वृषभस्य मांस-पिण्डौ लम्बमानौ यथा स्थितौ । ततः क्षणेन प्रहरेण वा पतिष्यतः । एवं ज्ञात्वा भवता पृष्ठ-यायिना भाव्यं ।
शृगाल आह-प्रिये ! न ज्ञायते कदाचिदेतयोः पतनं भविष्यति वा न वा । तत् किं वृथा श्रमाय मां नियोजयसि ? अत्र-स्थस्तावज् जलार्थमागतान् मूषकान् भक्षयिष्यामि समं त्वया । मार्गोऽयं यतस्तेषाम् । अथ यदा त्वां मुक्त्वास्य तीक्ष्णविषाणस्य वृषभस्य पृष्ठे गमिष्यामि तदागत्यान्यः कश्चिदेतत् स्थानं समाश्रयिष्यति । नैतद्युज्यते कर्तुम् । उक्तं च-
यो ध्रुवाणि परित्यज्याध्रुवाणि निषेवते ।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च ॥ २.१४२॥
शृगालाह-भोः कापुरुषस्त्वं यत् किञ्चित् प्राप्तं तेनापि सन्तोषं करोषि । उक्तं च-
सुपूरा स्यात् कुनदिका सुपूरो मूषिकाञ्जलिः ।
सुसन्तुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥ २.१४३॥
तस्मात् पुरुषेण सदैवोत्साहवता भाव्यम् । उक्तं च-
यत्रोत्साह-समारम्भो यत्रालस्य-विनिग्रहः ।
नय-विक्रम-संयोगस्तत्र श्रीरचला ध्रुवं ॥ २.१४४॥
तद्दैवमिति सञ्चिन्त्य त्यजेन् नोद्योगमात्मनः ।
अनुयोगं विना तैलं तिलानां नोपजायते ॥ २.१४५॥
अन्यच्च-
यः स्तोकेनापि सन्तोषं कुरुते मन्दधीर्जनः ।
तस्य भाग्य-विहीनस्य दत्ता श्रीरपि मार्ज्यते ॥ २.१४६॥
यच्च त्वं वदसि । एतौ पतिष्यतो न वेति । तदपयुक्तम् । उक्तं च-
कृत-निश्चयिनो वन्द्यास्तुङ्गिमा नोपभुज्यते ।
चातकः को वराकोऽयं यस्येन्द्रो वारिवाहकः ॥ २.१४७॥
अपरं मूषक-मांसस्य निर्विण्णाहम् । एतौ च मांस-पिण्डौ पतन-प्रायौ दृश्येते । तत् सर्वथा नान्यथा कर्तव्यमिति । अथासौ तदाकर्ण्य मूषक-प्राप्ति-स्थानं परित्यज्य तीक्ष्णविषाणस्य पृष्ठमन्वगच्छत् । अथ वा साध्विदमुच्यते-
तावत् स्यात् सर्व-कृत्येषु पुरुषोऽत्र स्वयं प्रभुः ।
स्त्री-वाक्याङ्कुश-विक्षुण्णो यावन् नो ध्रियते बलात् ॥ २.१४८॥
अकृत्यं मन्यते कृत्यं अगम्यं मन्यते सुगम् ।
अभक्ष्यं मन्यते भक्ष्यं स्त्री-वाक्य-प्रेरितो नरः ॥ २.१४९॥
एवं स तस्य पृष्ठतः सभार्यः परिभ्रमंश्चिर-कालमनयत् । न च तयोः पतनमभूत् । ततश्च निर्वेदात् पञ्चदशे वर्षे शृगालः स्वभार्यामाह-शिथिलौ च सुबद्धौ च (१४१) इत्यादि ।
तयोस्तत्-पश्चादपि पातो न भविष्यति । तत् तदेव स्व-स्थानं गच्छावः । अतोऽहं ब्रवीमि-शिथिलौ च सुबद्धौ च (१४१) इति ।
पुरुष आह-यदेवं तद्गच्छ भूयोऽपि वर्धमान-पुरम् । तत्र द्वौ वणिक्-पुत्रौ वसतः । एको गुप्त-धनः । द्वितीय उपभुक्त-धनः । ततस्तयोः स्वरूपं बुद्ध्वैकस्य वरः प्रार्थनीयः । यदि ते धनेन प्रयोजनमभक्षितेन ततस्त्वामपि गुप्त-धनं करोमि । अथवा दत्त-भोग्येन धनेन ते प्रयोजनं तदुपभुक्त-धनं करोमीति । एवमुक्त्वादर्शनं गतः ।
सोमिलकोऽपि विस्मित-मना भूयोऽपि वर्धमान-पुरं गतः । अथ सन्ध्या-समये श्रान्तः कथमपि तत्-पुरं प्राप्तो गुप्तधन-गृहं पृच्छन् कृच्छ्राल्लब्ध्वास्तमित-सूर्ये प्रविष्टः । अथासौ भार्या-पुत्र-समेतेन गुप्तधनेन निर्भर्त्स्यमानो हठाद्गृहं प्रविश्योपविष्टः । ततश्च भोजन-वेलायां तस्यापि भक्ति-वर्जितं किञ्चिदशनं दत्तम् । ततश्च भुक्त्वा तत्रैव यावत् सुप्तो निशीथे पश्यति तावत् तावपि द्वौ पुरुषौ परस्परं मन्त्रयतः । तत्रैक आह-भोः कर्तः ! किं त्वयास्य गुप्तधनस्यान्योऽधिको व्ययो निर्मितो यत् सोमिलकस्यानेन भोजनं दत्तम् । तदयुक्तं त्वया कृतम् ।
स आह-भोः कर्मन् ! न ममात्र दोषः । मया पुरुषस्य लाभ-प्राप्तिर्दातव्या । तत्-परिणतिः पुनस्त्वदायत्तेति । अथासौ यावदुत्तिष्ठति तावद्गुप्तधनो विसूचिकया खिद्यमानो रुजाभिभूतः क्षणं तिष्ठति । ततो द्वितीयेऽह्नि तद्दोषेण कृतोपवासः सञ्जातः ।
सोमिलकोऽपि प्रभाते तद्गृहान् निष्क्रम्य उपभुक्तधन-गृहं गतः । तेनापि चाभ्युत्थादिना सत्-कृतो विहित-भोजनाच्छादन-सम्मानस्तस्यैव गृहे भव्य-शय्यामारुह्य सुष्वाप । ततश्च निशीथे यावत् पश्यति तावत् तावेव द्वौ पुरुषौ मिथो मन्त्रयतः । अत्र तयोरेक आह-भोः कर्तः ! अनेन सोमिलकस्योपकारं कुर्वता प्रभूतो व्ययः कृतः । तत् कथय कथमस्योद्धारक-विधिर्भविष्यति । अनेन सर्वमेतद्व्यवहारक-गृहात् समानीतम् ।
स आह-भोः कर्मन् ! मम कृत्यमेतत् । परिणतिस्त्वदायत्तेति । अथ प्रभात-समये राज-पुरुषो राज-प्रसादजं वित्तमादाय समायात उपभुक्त-धनाय समर्पयामास ।
तद्दृष्ट्वा सोमिलकश्चिन्तयामास । सञ्चय-रहितोऽपि वरमेष उपभुक्तधनो नासौ कदर्यो गुप्तधनः । उक्तं च-
अग्निहोत्र-फला वेदाः शील-वृत्त-फलं श्रुतम् ।
रति-पुत्र-फला दारा दत्त-भुक्त-फलं धनम् ॥ २.१५०॥
तद्विधाता मां दत्त-भुक्त-धनं करोतु । न कार्यं मे गुप्तधनेन । ततः सोमिलको दत्तभुक्तधनः सञ्जातः । अतोऽहं ब्रवीमि-अर्थस्योपार्जनं कृत्वा इति ।
गृह-मध्य-निखातेन धनेन धनिनो यदि ।
भवामः किं न तेनैव धनेन धनिनो वयं ॥ २.१५१॥
तद्भद्र ! हिरण्यकैवं ज्ञात्वा धन-विषये सन्तापो न कार्यः । अथ विद्यमानमपि धनं भोज्य-बन्ध्यतया तदविद्यमानं मन्तव्यम् । उक्तं च-
उपार्जितानामर्थानां त्याग एव हि रक्षणम् ।
तडागोदर-संस्थानां परीवाह इवाम्भसाम् ॥ २.१५२॥
तथा च-
उपार्जितानामर्थानां त्याग एव हि रक्षणम् ।
तडागोदर-संस्थानां परिवाह इवाम्भसाम् ॥ २.१५३॥
अन्यच्च- दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥ २.१५४॥
एवं ज्ञात्वा विवेकिना न स्थित्यर्थं वित्तोपार्जनं कर्तव्यं यतो दुःखाय तत् । उक्तं च-
धनादिकेषु विद्यन्ते येऽत्र मूर्खाः सुखाशयाः ।
तप्त-ग्रीष्मेण सेवन्ते शैत्यार्थं ते हुताशनम् ॥ २.१५५॥
सर्पाः पिबन्ति पवनं न च दुर्बलास्ते
शुष्कैस्तृणैर्वन-गजा बलिनो भवन्ति ।
कन्दैः फलैर्मुनि-वरा गमयन्ति कालं
सन्तोष एव पुरुषस्य परं निधानम् ॥ २.१५६॥
सन्तोषामृत-तृप्तानां यत् सुखं शान्त-चेतसाम् ।
कुतस्तद्धन-लुब्धानामितश्चेतश्च धावताम् ॥ २.१५७॥
पीयूषमिव सन्तोषं पिबतां निर्वृतिः परा ।
दुःखं निरन्तरं पुंसामसन्तोषवतां पुनः ॥ २.१५८॥
निरोधाच्चेतसोऽक्षाणि निरुद्धानखिलानपि ।
आच्छादिते रवौ मेघैः सञ्छन्नाः स्युर्गभस्तयः ॥ २.१५९॥
वाञ्छा-विच्छेदनं प्राहुः स्वास्थ्यं शान्ता मह-र्षयः । वाञ्छा निवर्तते नार्थैः पिपासेवाग्नि-सेवनैः ॥ २.१६०॥ अनिन्द्यमपि निन्दन्ति स्तुवन्तस्तुत्यमुच्चकैः । स्वापतेय-कृते मर्त्याः किं किं नाम न कुर्वते ॥ २.१६१॥
धर्मार्थं यस्य वित्तेहा तस्यापि न शुभावहा ।
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ २.१६२॥
दानेन तुल्यो निधिरस्ति नान्यो
लोभाच्च नान्योऽस्ति परः पृथिव्याम् ।
विभूषणं शील-समं न चान्यत्
सन्तोष-तुल्यं धनमस्ति नान्यत् ॥ २.१६३॥
दारिद्र्यस्य परा मूर्तिर्यन् मान-द्रविणाल्पता ।
जरद्गव-धनः शर्वस्तथापि परमेश्वरः ॥ २.१६४॥
एवं ज्ञात्वा भद्र त्वया सन्तोषः कार्य इति । मन्थरकवचनमाकर्ण्य वायस आह-भद्र मन्थरको यदेवं वदति तत् त्वया चित्ते कर्तव्यम् । अथवा साध्विदमुच्यते-
सुलभाः पुरुषा राजन् सततं प्रिय-वादिनः ।
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ २.१६६॥
अप्रियाणपि पथ्यानि ये वदन्ति नृणामिह ।
त एव सुहृदः प्रोक्ता अन्ये स्युर्नाम-धारकाः ॥ २.१६७॥
अथैवं जल्पतां तेषां चित्राङ्गो नाम हरिणो लुब्धक-त्रासितस्तस्मिन्न् एव सरसि प्रविष्टः । अथायान्तं ससम्भ्रममवलोक्य लघुपतनको वृक्षमारूढः । हिरण्यकः शरस्तम्बं प्रविष्टः । मन्थरकः सलिलाशयमास्थितः । अथ लघुपतनको मृगं सम्यक् परिज्ञाय मन्थरकमुवाच-एहेहि सखे मन्थरक ! मृगोऽयं तृषार्तोऽत्र समायातः सरसि प्रविष्टः । तस्य शब्दोऽयं न मानुष-सम्भव इति ।
तच्छ्रुत्वा मन्थरको देश-कालोचितमाह-भो लघुपतनक ! यथायं मृगो दृश्यते प्रभूतमुच्छ्वासमुद्वहन्न् उद्भ्रान्त-दृष्ट्या पृष्ठतोऽवलोकयति तन् न तृषार्त एष नूनं लुब्धक-त्रासितः । तज् ज्ञायतामस्य पृष्ठे लुब्धका आगच्छन्ति न वेति । उक्तं च-
भय-त्रस्तो नरः श्वासं प्रभूतं कुरुते मुहुः ।
दिशोऽवलोकयतेव न स्वास्थ्यं व्रजति क्वचित् ॥ २.१६८॥
तच्छ्रुत्वा चित्राङ्ग आह-भो मन्थरक ! ज्ञातं त्वया सम्यङ्मे त्रास-कारणम् । अहं लुब्धक-शर-प्रहारादुद्धारितः कृच्छ्रेणात्र समायातः । मम यूथं तैर्लुब्धकैर्व्यापादितं भविष्यति । तच्छरणागतस्य मे दर्शय किञ्चिदगम्यं स्थानं लुब्धकानाम् ।
तदाकर्ण्य मन्थरक आह-भोश्चित्राङ्ग ! श्रूयतां नीति-शास्त्रम् ।
द्वावुपायाविह प्रोक्तौ विमुक्तौ शत्रु-दर्शने ।
हस्तयोश्चालनादेको द्वितीयः पाद-वेग-जः ॥ २.१६९॥
तद्गम्यतां शीघ्रं घनं वनं यावदद्यापि नागच्छन्ति ते दुरात्मानो लुब्धकाः ।
अत्रान्तरे लघुपतनकः सत्वरमभ्युपेत्योवाच-भो मन्थरक ! गतास्ते लुब्धकाः स्व-गृहोन्मुखाः प्रचुर-मांस-पिण्ड-धारिणः । तच्चित्राङ्ग ! त्वं विश्रब्धो जलाद्बहिर्भव । ततस्ते चत्वारोऽपि मित्र-भावमाश्रितास्तस्मिन् सरसि मध्याह्न-समये वृक्ष-च्छायाधस्तात् सुभाषित-गोष्ठी-सुखमनुभवन्तः सुखेन कालं नयन्ति । अथवा युक्तमेतदुच्यते-
सुभाषित-रसास्वाद-बद्ध-रोमाञ्च-कञ्चुकं ।
विनापि सङ्गमं स्त्रीणां कवीनां सुखमेधते ॥ २.१७०॥
सुभाषित-मय-द्रव्य-सङ्ग्रहं न करोति यः ।
स तु प्रस्ताव-यज्ञेषु कां प्रदास्यति दक्षिणाम् ॥ २.१७१॥
तथा च-
सकृदुक्तं न गृह्णाति स्वयं वा न करोति यः ।
यस्य सम्पुटिका नास्ति कुतस्तस्य सुभाषितम् ॥ २.१७२॥
अथैकस्मिन्नहनि गोष्ठी-समये मृगो नायातः । अथ ते व्याकुलीभूताः परस्परं जल्पितुमारब्धाः । अहो किमद्य सुहृन् न समायातः । किं सिंहादिभिः क्वचिद्व्यापादित उत लुब्धकैरथ वानले प्रपतितो गर्ता-विषमे वा नव-तृण-लौल्यादिति । अथवा साध्विदमुच्यते-
स्व-गृहोद्यान-गतेऽपि स्निग्धैः पापं विशङ्क्यते मोहात् ।
किमु दृष्ट-बह्वपाय-प्रतिभय-कान्तार-मध्य-स्थे ॥ २.१७३॥
अथ मन्थरको वायसमाह-भो लघुपतनकाहं हिरण्यकश्च तावद्द्वावपशक्तौ तस्यान्वेषणं कर्तुं मन्दगतित्वात् । तद्गत्वा त्वमरण्यं शोधय यदि कुत्रचित् तं जीवन्तं पश्यसीति ।
तदाकर्ण्य लघुपतनको नातिदूरे यावद्गच्छति तावत् पल्वल-तीरे चित्राङ्गः कूट-पाश-नियन्त्रितस्तिष्ठति । तं दृष्ट्वा शोक-व्याकुलित-मनास्तमवोचत् । भद्र किमिदम् ? चित्राङ्गोऽपि वायसमवलोक्य विशेषेण दुःखित-मना बभूव । अथवा युक्तमेतत्-
अपि मन्दत्वमापन्नो नष्टो वापीष्ट-दर्शनात् ।
प्रायेण प्राणिनां भूयो दुःखावेगोऽधिको भवेत् ॥ २.१७४॥
ततश्च वाष्पावसाने चित्राङ्गो लघुपतनकमाह-भो मित्र सञ्जातोऽयं तावन् मम मृत्युः । तद्युक्तं सम्पन्नं यद्भवता सह मे दर्शनं सञ्जातम् । उक्तं च-
प्राणात्यये समुत्पन्ने यदि स्यान् मित्र-दर्शनं ।
तद्द्वाभ्यां सुख-दं पश्चाज् जीवतोऽपि मृतस्य च ॥ २.१७५॥
तत् क्षन्तव्यं यन् मया प्रणयात् सुभाषित-गोष्ठीष्वभिहितं । तथा हिरण्यक-मन्थरकौ मम वाक्याद्वाच्यौ ।
अज्ञानाज् ज्ञानतो वापि दुरुक्तं यदुदाहृतम् ।
मया तत् क्षम्यतामद्य द्वाभ्यामपि प्रसादतः ॥ २.१७६॥
तच्छ्रुत्वा लघुपतनक आह-भद्र न भेतव्यमस्मद्विधैर्मित्रैर्विद्यमानैः । यावदहं द्रुततरं हिरण्यकं गृहीत्वागच्छामि । अपरं ये सत्-पुरुषा भवन्ति ते व्यसने न व्याकुलत्वमुपयान्ति । उक्तं च-
सम्पदि यस्य न हर्षो विपदि विषादो रणे न भीरुत्वं । तं भुवन-त्रय-तिलकं जनयति जननी सुतं विरलं ॥ २.१७७॥
एवमुक्त्वा लघुपतनकश्चित्राङ्गमाश्वास्य यत्र हिरण्यक-मन्थरकौ तिष्ठतस्तत्र गत्वा सर्वं चित्राङ्ग-पाश-पतनं कथितवान् । हिरण्यकं च चित्राङ्ग-पाश-मोक्षणं प्रति कृत-निश्चयं पृष्ठमारोप्य भूयोऽपि सत्वरं चित्राङ्ग-समीपे गतः । सोऽपि मूषकमवलोक्य किञ्चिज् जीविताशया संश्लिष्ट आह-
आपन्-नाशाय विबुधैः कर्तव्याः सुहृदोऽमलाः ।
न तरतापदं कश्चिद्योऽत्र मित्र-विवर्जितः ॥ २.१७८॥
हिरण्यक आह-भद्र त्वं तावन् नीति-शास्त्र-ज्ञो दक्ष इति । तत् कथमत्र कूट-पाशे पतितः ?
स आह-भो न कालोऽयं विवादस्य । तन् न यावत् स पापात्मा लुब्धकः समभ्येति तावद्द्रुततरं कर्तयेमं मत्-पाद-पाशं ।
तदाकर्ण्य विहस्याह हिरण्यकः-किं मयपि समायाते लुब्धकाद्बिभेषि ततः शास्त्रं प्रति महती मे विरक्तिः सम्पन्ना यद्भवद्विधा अपि नीति-शास्त्र-विद एतामवस्थां प्राप्नुवन्ति । तेन त्वां पृच्छामि ।
स आह-भद्र कर्मणा बुद्धिरपि हन्यते । उक्तं च-
कृतान्त-पाश-बद्धानां दैवोपहत-चेतसां ।
बुद्धयः कुब्ज-गामिन्यो भवन्ति महतामपि ॥ २.१७९॥
विधात्रा रचिता या सा ललाटेऽक्षर-मालिका ।
न तां मार्जयितुं शक्ताः स्व-शक्त्यापतिपण्डिताः ॥ २.१८०॥
एवं तयोः प्रवदतोः सुहृद्व्यसन-सन्तप्त-हृदयो मन्थरकः शनैः शनैस्तं प्रदेशमाजगाम । तं दृष्ट्वा लघुपतनको हिरण्यकमाह-अहो न शोभनमापतितम् । हिरण्यक आह-किं स लुब्धकः समायाति ?
स आह-आस्तां तावल्लुब्धक-वार्ता । एष मन्थरकः समागच्छति । तदनीतिरनुष्ठितानेन यतो वयमपस्य कारणान् नूनं व्यापादनं यास्यामो यदि स पापात्मा लुब्धकः समागमिष्यति । तदहं तावत् खमुत्पतिष्यामि । त्वं पुनर्बिलं प्रविष्यात्मानं रक्षयिष्यसि । चित्राङ्गोऽपि वेगेन दिग्-अन्तरं यास्यति । एष पुनर्जलचरः स्थले कथं भविष्यतीति व्याकुलोऽस्मि । अत्रान्तरे प्राप्तोऽयं मन्थरकः ।
हिरण्यक आह-भद्र, न युक्तमनुष्ठितं भवता यदत्र समायातः । तद्भूयोऽपि द्रुततरं गम्यतां यावदसौ लुब्धको न समायाति ।
मन्थरक आह-भद्र, किं करोमि ? न शक्नोमि तत्र-स्थो मित्र-व्यसनाग्नि-दाघं सोढुम् । तेनाहमत्रागतः । अथवा साध्विदमुच्यते-
दयित-जन-विप्रयोगो वित्त-वियोगश्च सह्याः स्युः ।
यदि सुमहौषध-कल्पो वयस्य-जन-सङ्गमो न स्यात् ॥ २.१८१॥
वरं प्राण-परित्यागो न वियोगो भवादृशैः ।
प्राणा जन्मान्तरे भूयो न भवन्ति भवद्विधाः ॥ २.१८२॥
एवं तस्य प्रवदत आकर्ण-पूरित-शरासनो लुब्धकोऽपुपागतः । तं दृष्ट्वा मूषकेण तस्य स्नायु-पाशस्तत्-क्षणात् खण्डितः । अत्रान्तरे चित्राङ्गः सत्वरं पृष्ठमवलोकयन् प्रधावितः । लघुपतनको वृक्षमारूढः । हिरण्यकश्च समीप-वर्ति बिलं प्रविष्टः । अथासौ लुब्धको मृग-गमनाद्विषण्ण-वदनो व्यर्थ-श्रमस्तं मन्थरकं मन्दं मन्दं स्थल-मध्ये गच्छन्तं दृष्टवान् । अचिन्तयच्च-यदपि कुरङ्गो धात्रापहृतस्तथापयं कूर्म आहारार्थं सम्पादितः । तदद्यास्यामिषेण मे कुटुम्बस्याहार-निर्वृत्तिर्भविष्यति ।
एवं विचिन्त्य तं दर्भैः सञ्छाद्य धनुषु समारोप्य स्कन्धे कृत्वा गृहं प्रति प्रस्थितः । अत्रान्तरे तं नीयमानमवलोक्य हिरण्यको दुःखाकुलः पर्यदेवयत्-कष्टं भोः कष्टमापतितम् ।
एकस्य दुःखस्य न यावदन्तं
गच्छामहं पारमिवार्णवस्य ।
तावद्द्वितीयं समुपस्थितं मे छिद्रेष्वनर्था बहुली-भवन्ति ॥ २.१८३॥
तावदस्खलितं यावत् सुखं याति समे पथि ।
स्खलिते च समुत्पन्ने विषमे च पदे पदे ॥ २.१८४॥
यन् नम्रं सरलं चापि यच्चापत्सु न सीदति ।
धनुर्मित्रं कलत्रं च दुर्लभं शुद्ध-वंशजम् ॥ २.१८५॥
न मातरि न दारेषु न सोदर्ये न चात्मजे ।
विश्रम्भस्तादृशः पुंसां यादृङ्मित्रे निरन्तरे ॥ २.१८६॥
यदि तावत् कृतान्तेन मे धन-नाशो विहितस्तन्-मार्ग-श्रान्तस्य मे विश्राम-भूतं मित्रं कस्मादपहृतं । अपरमपि मित्रं परं मन्थरक-समं न स्यात् । उक्तं च-
असम्पत्तौ परो लाभो गुह्यस्य कथनं तथा ।
आपद्विमोक्षणं चैव मित्रस्यैतत् फल-त्रयम् ॥ २.१८७॥
तदस्य पश्चान् नान्यः सुहृन् मे । तत् किं ममोपरनवरतं व्यसन-शरैर्वर्षति हन्त विधिः । यत आदौ तावद्वित्त-नाशस्ततः परिवार-भ्रंशस्ततो देश-त्यागस्ततो मित्र-वियोग इति । अथवा स्वरूपमेतत् सर्वेषामेव जन्तूनां जीवित-धर्मस्य । उक्तं च-
कायः सन्निहितापायः सम्पदः पदमापदाम् ।
समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम् ॥ २.१८८॥
तथा च-
क्षते प्रहारा निपतन्तभीक्ष्णं
धन-क्षये वर्धति जाठराग्निः ।
आपत्सु वैराणि समुद्भवन्ति
च्छिद्रेष्वनर्था बहुली-भवन्ति ॥ २.१८९॥
अहो साधूक्तं केनापि ।
प्राप्ते भये परित्राणं प्रीति-विश्रम्भ-भाजनं ।
केन रत्नमिदं सृष्टं मित्रमितक्षर-द्वयं ॥ २.१९०॥
अत्रान्तरे आक्रन्द-परौ चित्राङ्ग-लघुपतनकौ तत्रैव समायातौ । अथ हिरण्यक आह-अहो किं वृथा-प्रलपितेन । तद्यावदेष मन्थरको दृष्टि-गोचरान् न नीयते तावदस्य मोक्षोपायश्चिन्त्यतामिति । उक्तं च-
व्यसनं प्राप्य यो मोहात् केवलं परिदेवयेत् ।
क्रन्दनं वर्धयतेव तस्यान्तं नाधिगच्छति ॥ २.१९१॥
केवलं व्यसनस्योक्तं भेषजं नय-पण्डितैः ।
तस्योच्छेद-समारम्भो विषाद-परिवर्जनं ॥ २.१९२॥
अन्यच्च-
अतीत-लाभस्य सुरक्षणार्थं
भविष्य-लाभस्य च सङ्गमार्थम् ।
आपत्-प्रपन्नस्य च मोक्षणार्थं
यन् मन्त्र्यतेऽसौ परमो हि मन्त्रः ॥ २.१९३॥
तच्छ्रुत्वा वायस आह-भो यदेवं तत् क्रियतां मद्वचः । एष चित्राङ्गोऽस्य मार्गे गत्वा किञ्चित् पल्वलमासाद्य तस्य तीरे निश्चेतनो भूत्वा पततु । अहमपस्य शिरसि समारुह्य मन्दैश्चञ्चु-प्रहारैः शिर उल्लेखिष्यामि येनासौ लुब्धकोऽमुं मृतं मत्वा मम चञ्चु-प्रहार-प्रत्ययेन मन्थरकं भूमौ क्षिप्त्वा मृगार्थे धावति । अत्रान्तरे त्वया दर्भ-मय-बन्धन-वेष्टनानि खण्डनीयानि येनासौ मन्थरको द्रुततरं पल्वलं प्रविशति ।
चित्राङ्गः प्राह-भो भद्रोऽयं दृष्टो मन्त्रस्त्वया । नूनं मन्थरको मुक्तो मन्तव्यः । उक्तं च-
सिद्धिं वा यदि वासिद्धिं चित्तोत्साहो निवेदयेत् ।
प्रथमं सर्व-जन्तूनां प्राज्ञो वेत्ति न चेतरः ॥ २.१९४॥
तत् तदेवं क्रियताम् । तथानुष्ठिते स लुब्धकस्तथैव मार्गासन्न-पल्वल-तीरस्थं चित्राङ्गं वायस-सनाथमद्राक्षीत् । तं दृष्ट्वा हर्षित-मना व्यचिन्तयत् । नूनं पाश-वेदनया वराकोऽयं मृगो गत्वायुः-शेष-जीवितः पाशं त्रोटयित्वा कथमपेतद्वनान्तरं प्रविष्टो यावन् मृतः । तद्वश्योऽयं मे कच्छपः सुयन्त्रितत्वात् । तदेनमपि तावद्गृह्णामीतवर्धाय कच्छपं भू-तले प्रक्षिप्य मृगमुपाद्रवत् ।
अत्रान्तरे हिरण्यकेन वज्रोपम-दंष्ट्रा-प्रहारेण तद्दर्भ-वेष्टनं तत्-क्षणात् खण्डशः कृतं । मन्थरकोऽपि तृण-मध्यान् निष्क्रम्य पल्वलं प्रविष्टः । चित्राङ्गोऽपप्राप्तस्यापि तस्योत्थाय वायसेन सह द्रुतं प्रनष्टः । अत्रान्तरे विलक्षो विषाद-परो निवृत्तो लुब्धको यावत् पश्यति तावत् कच्छपोऽपि गतः । ततश्च तत्रोपविश्येमं श्लोकमपठत्-
प्राप्तो बन्धनमपयं गुरु-मृगस्तावत् त्वया मे हृतः
सम्प्राप्तः कमठः स चापि नियतं नष्टस्तवादेशतः ।
क्षुत्-क्षामोऽत्र वने भ्रमामि शिशुकैस्त्यक्तः समं भार्यया
यच्चान्यन् न कृतं कृतान्त कुरुते तच्चापि सह्यं मया ॥ २.१९५॥
एवं बहु-विधं विलप्य स्व-गृहं गतः । अथ तस्मिन् दूरी-भूते सर्वेऽपि ते काक-कूर्म-मृगाखवः परमानन्द-भाजो मिलित्वा परस्परमालिङ्ग्य पुनर्जातान् इवात्मनो मन्यमानस्तदेव सरः प्राप्य महा-सुखेन सुभाषित-गोष्ठी-विनोदं कुर्वन्तः कालं नयन्ति स्म । एवं ज्ञात्वा विवेकिना मित्र-सङ्ग्रहः कार्यः । तथा मित्रेण सहाव्याजेन वर्तितव्यम् । उक्तं च-
यो मित्राणि करोतत्र न कौटिल्येन वर्तते ।
तैः समं न पराभूतिं सम्प्राप्नोति कथञ्चन ॥ २.१९६॥
इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे मित्र-सम्प्राप्तिर्नाम द्वितीयं तन्त्रं समाप्तम् ॥२॥
३. काकोलूकीयम्
अथ तृतीयं तन्त्रमथ काकोलूकीयम् ।
प्रस्तावना कथा मेघवर्णारिमर्दन-वृत्तान्तः
अथेदमारभ्यते काकोलूकीयं नाम तृतीयं तन्त्रम् । यस्यायमाद्यः श्लोकः-
न विश्वसेत् पूर्व-विरोधितस्य
शत्रोश्च मित्रत्वमुपागतस्य ।
दग्धां गुहां पश्य उलूक-पूर्णां
काक-प्रणीतेन हुताशनेन ॥ ३.१॥
तद्यथानुश्रुयते-अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य समीपस्थोऽनेक-शाखासनाथोऽतिघनतर-पत्र-च्छन्नो न्यग्रोध-पादपोऽस्ति । तत्र च मेघ-वर्णो नाम वायस-राजोऽनेक-काक-परिवारः प्रतिवसति स्म । स तत्र विहित-दुर्ग-रचनः सपरिजनः कालं नयति । तथान्योऽरि-मर्दनो नामोलूक-राजोऽसङ्ख्योलूक-परिवारो गिरि-गुहा-दुर्गाश्रयः प्रतिवसति स्म । स च रात्रावभ्येत्य सदैव तस्य न्यग्रोधस्य समन्तात् परिभ्रमति । अथोलूकराजः पूर्व-विरोध-वशाद्यं कञ्चिद्वायस-समासादयति । तं व्यापाद्य गच्छति । एवं नित्याभिगमनाच्छनैः शनैस्तन् न्यग्रोध-पादपद्दुर्गं तेन समन्तान् निर्वायसं कृतम् । अथवा भवतेवम् । उक्तं च-
य उपेक्षेत शत्रुं स्वं प्रसरन्तं यदृच्छया ।
रोगं चालस्य-संयुक्तः स शनैस्तेन हन्यते ॥ ३.२॥
तथा च-
जात-मात्रं न यः शत्रुं व्याधिं च प्रशमं नयेत् ।
महाबलोऽपि तेनैव वृद्धिं प्राप्य स हन्यते ॥ ३.३॥
अथान्येद्युः स वायस-राजः सर्वान् सचिवान् आहूय प्रोवाच-भोः ! उत्कटस्तावदस्माकं शत्रुरुद्यम-सम्पन्नश्च कालविच्च नित्यमेव निशागमे समेत्यास्मत्-पक्ष-कदनं करोति । तत् कथमस्य प्रतिविघातव्यम् ? वयं तावद्रात्रौ न पश्यामः । न च दिवा दुर्गं विजानीमो येन गत्वा प्रहरामः । तदत्र किं युज्यते सन्धि-विग्रह-यानासन-संश्रय-द्वैधी-भावानां मध्यात् । अथ ते प्रोचुः-युक्तमभिहितं देवेन यदेष प्रश्नः कृतः । उक्तं च-
अपृष्टेनापि वक्तव्यं सचिवेनात्र किञ्चन ।
पृष्टेन तु विशेषेण वाच्यं पथ्यं महीपतेः ॥ ३.४॥
यो न पृष्टो हितं ब्रूते परिणामे सुखावहम् ।
मन्त्रो न प्रिय-वक्ता च केवलं स रिपुः स्मृतम् ॥ ३.५॥
तस्मादेकान्तमासाद्य कार्यो मन्त्रो महीपते ।
येन तस्य वयं कुर्मो नियमं कारणं तथा ॥ ३.६॥
उक्तं च-
बलीयसि प्रणमतां काले प्रहरतामपि ।
सम्पदो नावगच्छन्ति प्रतीपमिव निम्नगाः ॥ ३.७॥
सत्याढ्यो धार्मिकश्चार्यो भ्रातृ-सङ्घातवान् बली ।
अनेक-विजयी चैव सन्धेयः स रिपुर्भवेत् ॥ ३.८॥
सन्धिः कार्योऽपनार्येण विज्ञाय प्राण-संशयम् ।
प्राणैः संरक्षितैः सर्वं यतो भवति रक्षितम् ॥ ३.९॥
अनेक-युद्ध-विजयी सन्धानं यस्य गच्छति ।
तत्-प्रभावेण तस्याशु वशं गच्छन्तरातयः ॥ ३.१०॥
सन्धिमिच्छेत् समेनापि सन्दिग्धो विजयी युधि ।
न हि सांशयिकं कुर्यादितुवाच बृहस्पतिः ॥ ३.११॥
सन्दिग्धो विजयो युद्धे जनानामिह युद्ध्यताम् ।
उपाय-त्रितयादूर्ध्वं तस्माद्युद्धं समाचरेत् ॥ ३.१२॥
असन्दधानो मानान्धः समेनापि हतो भृशम् ।
आमकुम्भमिवाभित्त्वा नावतिष्ठेत शक्तिमान् ॥ ३.१३॥
समं शक्तिमता युद्धमशक्तस्य हि मृत्यवे ।
वृषत्कुम्भं यथा भित्त्वा तावत् तिष्ठति शक्तिमान् ॥ ३.१४॥
अन्यच्च-
भूमिर्मित्रं हिरण्यं वा विग्रहस्य फल-त्रयम् ।
नास्तेकमपि यदेषां विग्रहं न समाचरेत् ॥ ३.१५॥
खनन्न् आखु-बिलं सिंहः पाषाण-शकलाकुलम् ।
प्राप्नोति नख-भङ्गं हि फलं वा मूषको भवेत् ॥ ३.१६॥
तस्मान् न स्यात् फलं यत्र पुष्टं युद्धं तु केवलम् ।
न हि तत् स्वयमुत्पाद्यं कर्तव्यं न कथञ्चन ॥ ३.१७॥
बलीयसा समाक्रान्तो वैतसीं वृत्तिमाश्रयेत् ।
वाञ्छन्नभ्रंशिनीं लक्ष्मीं न भौजङ्गी कदाचन ॥ ३.१८॥
कुर्वन् हि वैतसीं वृत्तिं प्राप्नोति महतीं श्रियम् ।
भुजङ्ग-वृत्तिमापन्नो वधमर्हति केवलम् ॥ ३.१९॥
कौर्मं सङ्कोचमास्थाय प्रहारानपि मर्षयेत् ।
काले काले च मतिमान् उत्तिष्ठेत् कृष्ण-सर्पवत् ॥ ३.२०॥
आगतं विग्रहं विद्वान् उपायैः प्रशमं नयेत् ।
विजयस्य हनित्यत्वाद्रभसेन न सम्पतेत् ॥ ३.२१॥
बलिना सह योद्धव्यमिति नास्ति निदर्शनम् ।
प्रतिवातं न हि घनः कदाचिदुपसर्पति ॥ ३.२२॥
शत्रुणा न हि सन्दध्यात् सुश्लिष्टेनापि सन्धिना ।
सुतप्तमपि पानीयं शमयतेव पावकम् ॥ ३.२३॥
उक्तं च-
सत्य-धर्म-विहीनेन न सन्दध्यात् कथञ्चन ।
सुगन्धितोऽपसाधुत्वादचिराद्याति विक्रियाम् ॥ ३.२४॥
तस्मात् तेन योद्धव्यमिति मे मतिः । उक्तं च यतः-
क्रूरो लुब्धोऽलसोऽसत्यः प्रमादी भीरुरस्थिरः ।
मूढो योधावमन्ता च सुखोच्छेद्यो भवेद्रिपुः ॥ ३.२५॥
अपरं तेन पराभूता वयम् । तद्यदि सन्धान-कीर्तनं करिष्यामस्तद्भूयोऽत्यन्तं कोपं करिष्यति । उक्तं च-
चतुर्थोपाय-साध्ये तु रिपौ सान्त्वमपक्रिया ।
स्वेद्यमाम-ज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति ॥ ३.२६॥
सामवादाः सकोपस्य शत्रोः प्रत्युत दीपिकाः ।
प्रतप्तस्येव सहसा सर्पिषस्तोय-बिन्दवः ॥ ३.२७॥
प्रमाणाभ्यधिकस्यापि महत्-सत्त्वमधिष्ठितः ।
पदं मूर्ध्नि समाधत्ते केसरी मत्त-दन्तिनः ॥ ३.२८॥
उत्साह-शक्ति-सम्पन्नो हन्याच्छत्रुं लघुर्गुरुम् ।
यथा कण्ठीरवो नागं भारद्वाजः प्रचक्षते ॥ ३.२९॥
मायया शत्रवो वध्या अवध्याः स्युर्बलेन ये ।
यथा स्त्री-रूपमास्थाय हतो भीमेन कीचकः ॥ ३.३०॥
तथा च-
मृत्योरिवोग्र-दण्डस्य राज्ञो यान्ति वशं द्विषः ।
सर्वंसहं तु मन्यन्ते तृणाय रिपवश्च तम् ॥ ३.३१॥
न जातु शमनं यस्य तेजस्तेजस्वि-तेजसाम् ।
वृथा जातेन किं तेन मातुर्यौवन-हारिणा ॥ ३.३२॥
या लक्ष्मीर्नानुलिप्ताङ्गी वैर्शोणित-कुङ्कुमैः ।
कान्तापि मनसः प्रीतिं न सा धत्ते मनस्विनाम् ॥ ३.३३॥
रिपु-रक्तेन संसिक्ता तत्-स्त्री-नेत्राम्बुभिस्तथा ।
न भूमिर्यस्य भूपस्य का श्लाघा तस्य जीविते ॥ ३.३४॥
बलोत्कटेन दुष्टेन मर्यादा-रहितेन च ।
न सन्धि-विग्रहौ नैव विना यानं प्रशस्यते ॥ ३.३५॥
द्विधाकारं भवेद्यानं भवेत् प्राणार्थ-रक्षणम् ।
एकमन्यज् जिगीषोश्च यात्रालक्षणमुच्यते ॥ ३.३६॥
कार्त्तिके वाथ चैत्रे वा विजिगीषोः प्रशस्यते ।
यानमुत्कृष्ट-वीर्यस्य शत्रु-देशे न चान्यदा ॥ ३.३७॥
अवस्कन्द-प्रदानस्य सर्वे कालाः प्रकीर्तिताः ।
व्यसने वर्तमानस्य शत्रोच्छिद्रान्वितस्य च ॥ ३.३८॥
स्वस्थानं सुदृढं कृत्वा शूरैश्चातैर्महाबलैः ।
पर-देशं ततो गच्छेत् प्रणिधि-व्याप्तमग्रतः ॥ ३.३९॥
अज्ञातवी-वधासार-तोय-शस्यो व्रजेत् तु यः ।
पर-राष्ट्रं न भूयः स स्व-राष्ट्रमधिगच्छति ॥ ३.४०॥
तत् ते युक्तं कर्तुमपसरणम् । अन्यच्च-
तन् न युक्तं प्रभो कर्तुं द्वितीयं यानमेव च ।
न विग्रहो न सन्धानं बलिना तेन पापिना ॥ ३.४१॥
अपरं कारणापेक्षयापसरणं क्रियते बुधैः । उक्तं च-
यदपसरति मेषः कारणं तत् प्रहर्तुं
मृग-पतिरपि कोपात् सङ्कुचतुत्पतिष्णुः ।
हृदय-निहित-भावा गूढ-मन्त्र-प्रचाराः
किमपि विगणयन्तो बुद्धिमन्तः सहन्ते ॥ ३.४२॥
अन्यच्च-
बलवन्तं रिपुं दृष्ट्वा देश-त्यागं करोति यः ।
युधिष्ठिर इवाप्नोति पुनर्जीवन् स मेदिनीम् ॥ ३.४३॥
युध्यतेऽहङ्कृतिं कृत्वा दुर्बलो यो बलीयसा ।
स तस्य वाञ्छितं कुर्यादात्मनश्च कुल-क्षयम् ॥ ३.४४॥
तद्बलवताभियुक्त्स्यापसरण-समयोऽयं न सन्धेर्विग्रहस्य च । एवमनुजीवि-मन्त्रोऽपसरणस्य ।
अथ तस्य वचनमाकर्ण्य प्रजीवनमाह-भद्र ! त्वमपात्मनोऽभिप्रायं वद ।
सोऽब्रवीत्-देव ! मम सन्धि-विग्रह-यानानि त्रीणपि न प्रतिभान्ति । विशेषतश्चासनं प्रतिभाति । उक्तं च-
नक्रः स्व-स्थानमासाद्य गजेन्द्रमपि कर्षति ।
स एव प्रच्युतः स्थानाच्छुनापि परिभूयते ॥ ३.४५॥
तथा-
अभियुक्तो बलवता तिष्ठन् दुर्गे प्रयत्नवान् ।
तत्रस्थः सुहृदाह्वानं कुर्वीतात्म-विमुक्तये ॥ ३.४६॥
यो रिपोरागमं श्रुत्वा भय-सन्त्रस्त-मानसः ।
स्व-स्थानं हि त्यजेत् तत्र न तु भूयो विशेच्च सः ॥ ३.४७॥
दंष्ट्रा-विरहितः सर्पो मद-हीनो यथा गजः ।
स्थान-हीनस्तथा राजा गम्यः स्यात् सर्व-जन्तुषु ॥ ३.४८॥
निज-स्थान-स्थितोऽपेकः शतं योद्धुं सहेन् नरः ।
शक्तानामपि शत्रूणां तस्मात् स्थानं न सन्त्यजेत् ॥ ३.४९॥
तस्माद्दुर्गं दृढं कृत्वा सुभटासार-संयुतम् ।
प्राकार-परिखा-युक्तं शस्त्रादिभिरलङ्कृतम् ॥ ३.५०॥
तिष्ठेन् मध्य-गतो नित्यं युद्धाय कृत-निश्चयः । जीवन् सम्प्राप्त्स्यति राज्यं मृतो वा स्वर्गमेष्यति ॥ ३.५१॥ (युग्मकम्)
अन्यच्च-
बलिनापि न बाध्यन्ते लघवोऽपेक-संश्रयाः ।
विपक्षेणापि मरुता यथैक-स्थान-वीरुधाः ॥ ३.५२॥
महानपेकजो वृक्षः बलवान् सुप्रतिष्ठितः ।
प्रसह्य इव वातेन शक्यो धर्षयितुं यतः ॥ ३.५३॥
अथ ये संहता वृक्षा सर्वतः सुप्रतिष्ठिताः ।
ते न रौद्रानिलेनापि हन्यन्ते हेक-संश्रयात् ॥ ३.५४॥
एवं मनुष्यमपेकं शौर्येणापि समन्वितम् ।
शक्यं द्विषन्तो मन्यन्ते हिंसन्ति च ततः परम् ॥ ३.५५॥
एवं प्रजीव-मन्त्रः । इदमासन-संज्ञकम् ।
एतत् समाकर्ण्य चिरञ्जीविनं प्राह-भद्र ! त्वमपि स्वाभिप्रायं वद ।
सोऽब्रवीत्-देव ! षाड्गुण्य-मध्ये मम संश्रयः सम्यक् प्रतिभाति । तत् तस्यानुष्ठानं कार्यम् । उक्तं च-
असहायः समर्थोऽपि तेजस्वी किं करिष्यति ।
निर्वाते ज्वलितो वह्निः स्वयमेव प्रशाम्यति ॥ ३.५६॥
सङ्गतिः श्रेयसी पुंसां स्व-पक्षे च विशेषतः ।
तुषैरपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः ॥ ३.५७॥
तदत्रैव स्थितेन त्वया कश्चित् समर्थः समाश्रयणीयः, यो विपत्-प्रतिकारं करोति । यदि पुनस्त्वं स्व-स्थानं त्यक्त्वान्यत्र यास्यसि । तत् कोऽपि ते वाङ्-मात्रेणापि सहायत्वं न करिष्यति । उक्तं च, यतः-
वनानि दहतो वह्नेः सखी भवति मारुतः ।
स एव दीप-नाशाय कृशे कस्यास्ति सौहृदम् ॥ ३.५८॥
अथवा नैतदेकान्तं यद्बलिनमेकं समाश्रयेत् । लघूनामपि संश्रयो रक्षायै एव भवति । उक्तं च, यतः-
सङ्घातवान् यथा वेणुर्निविडैर्वेणुभिर्वृतः ।
न शक्येत समुच्छेत्तुं दुर्बलोऽपि यथा नृपः ॥ ३.५९॥
यदि पुनरुत्तम-संश्रयो भवति तत् किमुच्यते ? उक्तं च-
महाजनस्य सम्पर्कः कस्य नोन्नति-कारकः ।
पद्म-पत्र-स्थितं तोयं धत्ते मुक्ता-फल-श्रियम् ॥ ३.६०॥
तदेवं संश्रयं विना न कश्चित् प्रतीकारो भवति इति मेऽभिप्रायः । एवं चिरञ्जीवि-मन्त्रः ।
अथैवमभिहिते स मेघवर्णो राजा चिरन्तनं पितृ-सचिवं दीर्घायुषं सकल-नीति-शास्त्र-पारङ्गतं स्थिरजीवि-नामानं प्रणम्य प्रोवाच-तात ! यदेते मया पृष्टाः सचिवास्तावदत्र-स्थितस्यापि तव तत्-परीक्षार्थम्, येन त्वं सकलं श्रुत्वा यदुचितं तन् मे समादिशसि । तद्यदुक्तं भवति तस्समादेश्यम् ।
स आह-वत्स ! सर्वैरपेतैर्नीति-शास्त्राश्रयमुक्तं सचिवैः । तदुपयुज्यते स्व-कालोचितं सर्वमेव । परमेष द्वैधीभावस्य कालः । उक्तं च-
अविश्वासं सदा तिष्ठेत् सन्धिना विग्रहेण च ।
द्वैधी-भावं समाश्रित्य पापे शत्रौ बलीयसि ॥ ३.६१॥
तच्छत्रुं विश्वास्याविश्वस्तैर्लोभं दर्शयद्भिः सुखेनोच्छिद्यते रिपुः । उक्तं च-
उच्छेद्यमपि विद्वांसो वर्धयन्तरिमेकदा ।
गुडेन वर्धितः श्लेष्मा यतो निःशेषतां व्रजेत् ॥ ३.६२॥
तथा च-
स्त्रीणां शत्रोः कुमित्रस्य पण्य-स्त्रीणां विशेषतः ।
यो भवेदेक-भावोऽत्र न स जीवति मानवः ॥ ३.६३॥
कृत्यं देव-द्विजातीनामात्मनश्च गुरोस्तथा ।
एक-भावेन कर्तव्यं शेषं द्वैध-समाश्रितम् ॥ ३.६४॥
एको भावः सदा शस्तो यतीनां भावितात्मनाम् ।
श्री-लुब्धानां न लोकानां विशेषेण मही-भुजाम् ॥ ३.६५॥
तद्द्वैधीभावं संश्रितस्य तव स्व-स्थाने वासो भविष्यति, लोभाश्रयाच्च शत्रुमुच्चाटयिष्यसि अपरं-यदि किञ्चिच्छिद्रं तस्य पश्यसि, तद्गत्वा व्यापादयिष्यसि ।
मेघवर्ण आह-तात मया सोऽविदित संश्रयः । तत् कथं तस्य छिद्रं ज्ञास्यामि ?
स्थिरजीवाह-वत्स ! न केवलं स्थानं, छिद्राणपि तस्य प्रकटीकरिष्यामि प्रणधिभिः । उक्तं च-
गावो गन्धेन पश्यन्ति वेदैः पश्यन्ति वै द्विजाः ।
चारै पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥ ३.६६॥
उक्तं चात्र विषये-
यस्तीर्थानि निजे पक्षे पर-पक्षे विशेषतः ।
गुप्तैश्चारैर्नृपो वेत्ति न स दुर्गतिमाप्नुयात् ॥ ३.६७॥
मेघवर्ण आह-तात, कानि तीर्थानुच्यन्ते ? कति सङ्ख्यानि च ? कीदृशा गुप्तचराः ? तत् सर्वं निवेद्यतामिति ।
स आह-अत्र विषये भगवता नारदेन युधिष्ठिरः प्रोक्तः । यच्छत्रु-पक्षेऽष्टादश-तीर्थानि, स्व-पक्षे पञ्चदश । त्रिभिस्त्रिभिर्गुप्तचरैस्तानि ज्ञेयानि । तैर्ज्ञातैः स्व-पक्षः पर-पक्षश्च वश्यो भवति । उक्तं च नारदेन युधिष्ठिरं प्रति-
कच्चिदष्टदशानेषु स्व-पक्षे दश पञ्च च ।
त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥ ३.६८॥
तीर्थ-शब्देनायुक्त-कर्माभिधीयते । तद्यदि तेषां कुत्सितं भवति तत् स्वामिनोऽभिघाताय, यदि प्रधानं भवति तद्वृद्धये स्यादिति । तद्यथा-मन्त्री, पुरोहितः, सेनापतिः, युवराजः, दौवारिकः, अन्तर्वासिकः, प्रशासकः, समाहर्तृ-सन्निधातृ-प्रदेष्टृ-ज्ञापकाः, साधनाध्यक्षः, गजाध्यक्षः, कोशाध्यक्षः, दुर्गपाल-करपाल-सीमापाल-प्रोत्कट-भृत्याः । एषां भेदेन द्राग्रिपुः साध्यते । स्व-पक्षे च देवी, जननी, कञ्चुकी, मालिकः, शय्या-पालकः, स्पशाध्यक्षः, सांवत्सरिकः, भिषग्, ताम्बूल-वाहकः, आचार्यः, अङ्ग-रक्षकः, स्थान-चिन्तकः, छत्रधरः, विलासिनी । एषां वैर-द्वारेण स्व-पक्षे विघातः । तथा च-
वैद्य-सांवत्सराचार्याः स्व-पक्षेऽधिकृताश्चराः ।
तथाहि-तुण्डिकोन्मत्ताः सर्वं जानन्ति शत्रुषु ॥ ३.६९॥
तथा च-
कृत्वा कृत्य-विदस्तीर्थेष्वन्तः प्रणिधयः पदम् ।
विदाङ्कुर्वन्तु महतस्तलं विद्विषदम्भसः ॥ ३.७०॥
एवं मन्त्रि-वाक्यमाकर्ण्यात्रान्तरे मेघवर्ण आह-तात ! अथ किं निमित्तमेवंविधं प्राणान्तिकं सदैव वायसोलूकानां वैरम् ?
स आह-वत्स ! कदाचिद्धंस-शुक-कोकिल-चातक-उलूक-मयूर-कपात-पारावत-विष्किर-प्रभृतयः सर्वेऽपि पक्षिणः समेत्य सोद्वेगं मन्त्रयितुमारब्धाः । अहो अस्माकं तावद्वैनतेयो राजा, स च वासुदेव-भक्तो न कामपि चिन्तामस्माकं करोति । तत् किं तेन वृथास्वामिना ? यो लुब्धक-पाशैर्नित्यं निबध्यमानानां न रक्षां विधत्ते । उक्तं च-
यो न रक्षति वित्रस्तान् पीड्यमानान् परैः सदा ।
जन्तून् पार्थिव-रूपेण स कृतान्तो न संशयः ॥ ३.७१॥
यदि न स्यान् नरपतिः सम्यङ् नेताः ततः प्रजाः ।
अकर्णधारा जलधौ विप्लवेतेह नौरिव ॥ ३.७२॥
षड् इमान् पुरुषो जह्याद्भिन्नां नावमिवार्णवे ।
अप्रवक्तारमाचार्यमनधीयानं ऋत्विजम् ॥ ३.७३॥
अरक्षितारं राजानं भार्यां चापिर्य-वादिनीम् । ग्राम-कामं च गोपालं वन-कामं च नापितम् ॥ ३.७४॥ (युग्मम्)
तत्, सञ्चित्यान्यः कश्चिद्राजा विहङ्गमानां क्रियतामिति । अथ तैर्भद्राकारमुलूकमवलोक्य सर्वैरभिहितम्-यदेष उलूको राजास्माकं भविष्यति, तदानीयन्तां नृपाभिषेक-सम्बन्धिनः सम्भाराः इति ।
अथ साधिते विविध-तीर्थोदके, प्रगुणीकृतेऽष्टोत्तर-शत-मूलिका-सङ्घाते प्रदत्ते सिंहासने, वर्तिते सप्तद्वीप-समुद्र-भूधर-विचित्रे धरित्री-मण्डले, प्रस्तारिते व्याघ्र-चर्मणि आपूरितेषु हेम-कुम्भेषु दीपेषु वाद्येषु च सज्जीकृतेषु दर्पणादिषु माङ्गल्य-वस्तुषु, पठत्सु वन्दि-मुख्येषु, वेदोच्चारण-परेषु समुदित-मुखेषु ब्राह्मणेषु, गीत-परे युवति-जने, आनीतायामग्र-महिष्यां कृकालिकायाम्, उलूकोऽभिषेकार्थं यावत् सिंहासने उपविशति तावत् कुतोऽपि वायसः समायातः सोऽचिन्तयत्-अहो ! किमेष सकल-पक्षि-समागमो महोत्सवश्च ? अथ ते पक्षिणस्तं दृष्ट्वा मिथः प्रोचुः । पक्षिणां मध्ये वायसश्चतुरः श्रूयते । उक्तं च-
नराणां नापितो धूर्तः पक्षिणां चैव वायसः ।
दंष्ट्रिणां च शृगालस्तु श्वेभिक्षुस्तपस्विनाम् ॥ ३.७५॥
तदस्यापि वचनं ग्राह्यम् । उक्तं च-
बहुधा बहुभिः सार्धं चिन्तिताः सुनिरूपिताः ।
कथञ्चिन् न विलीयन्ते विद्वद्भिश्चिन्तिता नयाः ॥ ३.७६॥
अथ वायसः समेत्य तान् आह-अहो ! किं महाजन-समागमोऽयं परम-महोत्सवश्च ।
ते प्रोचुः-भोः ! नास्ति कश्चिद्विहङ्गमानां राजा, तदस्योलूकस्य विहङ्ग-राज्याभिषेको निरूपितस्तिष्ठति समस्त-पक्षिभिः । तत्त्वमपि स्व-मतं देहि । प्रस्तावे समागतोऽसि ।
अथासौ काको विहस्याह-अहो ! न युक्तमेतत् । यन् मयूर-हंस-कोकिल-चक्रवाक-शुक-कारण्डव-हारीत-सारसादिषु पक्षि-प्रधानेषु विद्यमानेषु दिवान्धस्यास्य कराल-वक्त्रस्याभिषेकः क्रियते । तत्रैतन् मम मतम् । यतः-
वक्र-नासं सुजिह्माक्षं क्रूरमप्रिय-दर्शनम् ।
अक्रुद्धस्येदृशं वक्त्रं भवेत् क्रुद्धस्य कीदृशम् ॥ ३.७७॥
स्वभाव-रौद्रमत्युग्रं क्रूरमप्रिय-वादिनम् ।
उलूकं नृपतिं कृत्वा का नः सिद्धिर्भविष्यति ॥ ३.७८॥
अपरं वैनतेये स्वामिनि स्थिते किमेष दिवान्धः क्रियते राजा ? तद्यद्यपि गुणवान् भवति, तथापेकस्मिन् स्वामिनि स्थिते नान्यो भूपः प्रशस्यते ।
एक एव हितार्थाय तेजस्वी पार्थिवो भुवः ।
युगान्त इव भास्वन्तो बहवोऽत्र विपत्तये ॥ ३.७९॥
तत् तस्य नाम्नापि यूयं परेषामगम्या भविष्यथ । उक्तं च-
गुरूणां नाम-मात्रेऽपि गृहीते स्वामि-सम्भवे ।
दुष्टानां पुरतः क्षेमं तत्-क्षणादेव जायते ॥ ३.८०॥
तथा च-
व्यपदेशेन महतां सिद्दिः सञ्जायते परा ।
शशिनो व्यपदेशेन वसन्ति शशकाः सुखम् ॥ ३.८१॥
पक्षिण ऊचुः-कथमेतत् ?
स आह-
कथा १ चतुर्दन्त-नाम-महा-गज-कथा
कस्मिंश्चिद्वने चतुर्दन्तो नाम महा-गजो यूथाधिपः प्रतिवसति स्म । तत्र कदाचिन् महतनावृष्टिः सञ्जाता प्रभूत-वर्षाणि यावत् । तया तडाग-ह्रद-पल्वल-सरांसि शोषमुपगतानि । अथ तैः समस्त-गजैः स गजराजः प्रोक्तः-देव ! पिपासाकुला गज-कलभा मृत-प्राया अपरे मृताश्च । तदन्विष्यतां कश्चिज् जलाशयो यत्र जल-पानेन स्वस्थतां व्रजन्ति ।
ततश्चिरं ध्यात्वा तेनाभिहितमस्ति महा-ह्रदो विविक्ते प्रदेशे स्थल-मध्य-गतः पाताल-गङ्गा-जलेन सदैव पूर्णः । तत् तत्र गम्यतां इति ।
तथानुष्ट्ःइते पञ्चरात्रमुपसर्पद्भिः समासादितस्तैः स ह्रदः । तत्र स्वेच्छया जलमवगाह्यास्तमनवेलायां निष्क्रान्ताः । तस्य च ह्रदस्य समन्ताच्छशक-बिलानि असङ्ख्यानि सुकोमल-भूमौ तिष्ठन्ति । तानपि समस्तैरपि तैर्गजैरितस्ततो भ्रमद्भिः परिभग्नानि । बहवः शशकाः भग्न-पाद-शिरो-ग्रीवा विहिताः । केचिन् मृताः केचिज् जीव-शेषा जाताः ।
अथ गते तस्मिन् गज-यूथे शशकाः सोद्वेगा गजपाद-क्षुण्ण-समावासाः केचिद्भग्न-पादाः । अन्ये जर्जरित-कलेवरा रुधिर-प्लुताः । अन्ये हत-शिशवो बाष्प-पिहित-लोचनाः समेत्य मिथो मन्त्रं चक्रुः-अहो विनष्टा वयम् । नित्यमेवैतद्गज-यूथमागमिष्यति यतो नान्यत्र जलमस्ति । तत् सर्वेषां नाशो भविष्यति । उक्तं च-
स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः ।
हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः ॥ ३.८२॥
तच्चिन्त्यतां कश्चिदुपायः । तत्रैकः प्रोवाच-गम्यतां देश-त्यागेन । किमन्यत् ? उक्तं च मनुना व्यासेन च-
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ ३.८३॥
क्षेम्यां शस्य-प्रदां नित्यं पशु-वृद्धि-करीमपि ।
परित्यजेन् नृपो भूमिमात्मार्थमविचारयन् ॥ ३.८४॥
आपदर्थे धनं रक्षेद्दारान् रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ ३.८५॥
ततश्चान्ये प्रोचुः-भोः ! पितृ-पैतामहं स्थानं न शक्यते सहसा त्यक्तुम् । तत् क्रियतां तेषां कृते काचिद्विभीषिका । यत् कथमपि दैवान् न समायान्ति । उक्तं च-
निर्विषेणापि सर्पेण कर्तव्या महती फटा ।
विषं भवतु मा वास्तु फटाटोपो भयङ्करः ॥ ३.८६॥
अथान्ये प्रोचुः-यदेवं ततस्तेषां महद्विभीषिका-स्थानमस्ति येन नागमिष्यन्ति । सा च चतुर-दूतायत्ता विभीषिका । यतो विजयदत्तो नामास्मत्-स्वामी शशकश्चन्द्र-मण्डले निवसति । तत् प्रेष्यतां कश्चिन् मिथ्या-दूतो यूथाधिप-सकाशं यच्चन्द्रस्त्वामत्र ह्रद आगच्छन्तं निषेधयति, यतोऽस्मत्-परिग्रहोऽस्य समन्ताद्वसति । एवमभिहिते श्रद्धेय-वचनात् कदापि निवर्तते । अथान्ये प्रोचुः-यदेवं तदस्ति लम्बकर्णो नाम शशकः । स च वचन-रचना-चतुरो दूत-कर्मज्ञः । स तत्र प्रेष्यतामिति । उक्तं च-
साकारो निःस्पृहो वाग्मी नाना-शास्त्र-विचक्षणः ।
पर-चित्तावगन्ता च राज्ञो दूतः स इष्यते ॥ ३.८७॥
अन्यच्च-
यो मूर्खं लौल्य-सम्पन्नं राज-द्वारिकमाचरेत् ।
मिथ्या-वादं विशेषेण तस्य कार्यं न सिध्यति ॥ ३.८८॥
तदन्विष्यतां यदस्माद्व्यसनादात्मनां सुनिर्मुक्तिः ।
अथान्ये प्रोचुः-अहो युक्तमेतत् । नान्यः कश्चिदुपायोऽस्माकं जीवितस्य । तथैव क्रियताम् ।
अथ लम्बकर्णो गज-यूथाधिप-समीपे निरूपितो गतश्च । तथानुष्ठिते लम्बकर्णोऽपि गज-मार्गमासाद्यागम्यं स्थलमारुह्य तं गजमुवाच-भोः भोः दुष्ट-गज ! किमेवं लीलया निःशङ्कयात्र चन्द्र-ह्रद आगच्छसि ? तन् नागन्तव्यं निवर्त्यतामिति ।
तदाकर्ण्य विस्मित-मना गज आह-भोः ! कस्त्वम् ?
स आह-अहं लम्बकर्णो नाम शशकश्चन्द्र-मण्डले वसामि । साम्प्रतं भगवता चन्द्रमसा तव पार्श्वे प्रहितो दूतः । जानातेव भवान् । यथार्थ-वादिनो दूतस्य न दोषः करणीयः । दूत-मुखा हि राजानः सर्व एव । उक्तं च-
उद्यतेष्वपि शस्त्रेषु बन्धु-वर्ग-वधेष्वपि ।
पुरुषाणपि जल्पन्तो वध्या दूता न भूभुजा ॥ ३.८९॥
तच्छ्रुत्वा स आह-भोः शशक ! तत् कथय भगवतश्चन्द्रमसः सन्देशम् । येन सत्वरं क्रियते ।
स आह-भवतातीत-दिवसे यूथेन सहागच्छता प्रभूताः शशका निपातिताः । तत् किं न वेत्ति भवान् । यन् मम परिग्रहोऽयम् । तद्यदि जीवितेन ते प्रयोजनं तदा केनापि प्रयोजनेनापत्र ह्रदे नागन्तव्यमिति सन्देशः ।
गज आह-अथ क्व वर्तते भगवान् स्वामी चन्द्रः ।
स आह-अत्र ह्रदे साम्प्रतं शशकानां भवद्यूथ-मथितानां हत-शेषाणां समाश्वासनाय समायातस्तिष्ठति । अहं पुनस्तवान्तिकं प्रेषितः ।
गज आह-यदेवं तद्दर्शय मे तं स्वामिनं येन प्रणम्यान्यत्र गच्छामि ।
शशक आह-आगच्छ मया सहैककी येन दर्शयामि ।
तथानुष्ठिते शशको निशा-समये तं ह्रद-तीरे नीत्वा जल-मध्ये स्थितं चन्द्र-बिम्बमदर्शयत् । आह च-भोः एष नः स्वामी जल-मध्ये समाधिस्थस्तिष्ठति तन्-निभृतं प्रणम्य व्रजेति । नो चेत्, समाधि-भङ्ग-भयाद्भूयोऽपि प्रभूतं कोपं करिष्यति ।
अथ गजोऽपि त्रस्त-मनास्तं प्रणम्य पुनर्गमनाय प्रस्थितः । शशकश्च तद्दिनादारभ्य सपरिवाराः सुखेन स्वेषु स्थानेषु तिष्ठन्ति स्म ।
अतोऽहं ब्रवीमि व्यपदेशेन महतामिति । अपि च-
क्षुद्रमलसं कापुरुषं व्यसनिनमकृतज्ञं जीवित-कामः ।
पृष्ठ-प्रलपन-शीलं स्वामित्वे नाभियोजयेत् ॥ ३.९०॥
तथा च-
क्षुद्रमर्थपतिं प्राप्य न्यायान्वेषण-तत्-परौ ।
उभावपि क्षयं प्राप्तौ पुरा शशक-पिञ्जलौ ॥ ३.९१॥
ते प्रोचुः-कथमेतत् ?
स आह-
कथा २ शश-कपिञ्जल-कथा
कस्मिंश्चिद्वृक्षे पुराहमवसम् । तत्राधस्तात् कोटरे कपिञ्जलो नाम चटकः प्रतिवसति स्म । अथ सदैवास्तमनवेलायामागतयोर्द्वयोरनेक-सुभाषित-गोष्ठ्या देवर्षि-ब्रह्मर्षि-राजर्षि-पुराण-चरित-कीर्तनेन च पर्यटन-दृष्टानेक-कौतूहल-प्रकथनेन च परम-सुखमनुभवतोः कालो व्रजति । अथ कदाचित् कपिञ्जलः प्राण-यात्रार्थमन्यैश्चटकैः सहान्यं पक्व-शालि-प्राञं देशं गतः । ततो यावन् निशा-समयेऽपि नायातस्तावदहं सोद्वेग-मनास्तद्विप्रयोग-दुःखितश्चिन्तितवान्-अहो किमद्य कपिञ्जलो नायातः । किं केनापि पाशेन बद्धः ? आहो स्वित् केनापि व्यापादितः ? सर्वथा यदि कुशलो भवति, यन् मां विना न तिष्ठति ।
एवं मे चिन्तयतो बहूनन्यानि व्यतिक्रान्तानि । ततश्च तत्र कोटरे कदाचिच्छीघ्रगो नाम शशकोऽस्तमनवेलायामागत्य प्रविष्टः । मयापि कपिञ्जल-निराशत्वेन न निवारितः । अथान्यस्मिन्नहनि कपिञ्जलः शालि-भक्षणादतीव पीवर-तनुः स्वाश्रयं स्मृत्वा भूयोऽपत्रैव समायातः । अथवा साध्विदमुच्यते-
न तादृग्जायते सौख्यमपि स्वर्गे शरीरिणाम् ।
दारिद्र्येऽपि हि यादृक् स्यात् स्व-देशे स्व-पुरे गृहे ॥ ३.९२॥
अथासौ कोटरान्तर्गतं शशकं दृष्ट्वा साक्षेपमाह-भोः शशक ! न त्वया सुन्दरं कृतं, यन् ममावसथ-स्थाने प्रविष्टोऽसि । तच्छीघ्रं निष्क्रम्यताम् ।
शशक आह-न तवेदं गृहम्, किन्तु ममैव । तत् किं मिथ्या परुषाणि जल्पसि ? उक्तं च-
वापी-कूप-तडागानां देवालय-कुजन्मनाम् ।
उत्सर्गात् परतः स्वाम्यमपि कर्तुं न शक्यते ॥ ३.९३॥
तथा च-
प्रत्यक्षं यस्य यद्भुक्तं क्षेत्राद्यं दश वत्सरान् ।
तत्र भुक्तिः प्रमाणं स्याद्न साक्षी नाक्षराणि वा ॥ ३.९४॥
मानुषाणामयं न्यायो मुनिभिः परिकीर्तितः ।
तिरश्चां च विहङ्गानां यावदेव समाश्रयः ॥ ३.९५॥
तन् ममैतद्गृहम्, न तवेति ।
कपिञ्जल आह-भोः ! यदि स्मृतिं प्रमाणीकरोषि, तदागच्छ मया सह येन स्मृति-पाठकं पृष्ट्वा स यस्य ददाति स गृह्णातु ।
तथानुष्ठिते मयापि चिन्तितं-किमत्र भविष्यति ? मया द्रष्टव्योऽयं न्यायः । ततः कौतुकादहमपि तावनुप्रस्थितः । अत्रान्तरे तीक्ष्णदंष्ट्रो नामारण्य-मार्जारस्तयोर्विवादं श्रुत्वा मार्गासन्नं नदी-तटमासाद्य कृत-कुशोपग्रहो निमीलित-नयन ऊर्ध्व-बाहुरर्ध-पाद-स्पृष्ट-भूमिः श्री-सूर्याभिमुख इमां धर्मोपदेशनामकरोत्-अहो ! असारोऽयं संसारः । क्षण-भङ्गुराः प्राणाः । स्वप्न-सदृशः प्रिय-समागमः । इन्द्र-जालवत् कुटुम्ब-परिग्रहोऽयम् । तद्धर्मं मुक्त्वा नान्या गतिरस्ति । उक्तं च-
अनित्यानि शरीराणि विभवो नैव शाश्वतः ।
नित्यं सन्निहितो मृत्युः कर्तव्यो धर्म-सङ्ग्रहः ॥ ३.९६॥
यस्य धर्म-विहीनानि दिनानायान्ति यान्ति च ।
स लोहकार-भस्त्रेव श्वसन्नपि न जीवति ॥ ३.९७॥
नाच्छादयति कौपीनं न दंश-मशकापहम् ।
शुनः-पुच्छमिव व्यर्थं पाण्डित्यं धर्म-वर्जितम् ॥ ३.९८॥
अन्यच्च-
पुलाका इव धान्येषु पूतिका इव्पक्षिषु ।
मशका इव मर्त्येषु येषां धर्मो न कारणम् ॥ ३.९९॥
श्रेयः पुष्प-फलं वृक्षाद्दध्नः श्रेयो घृतं स्मृतम् ।
श्रेयस्तैलं च पुण्याकाच्छ्रेयान् धर्मस्तु मानुषात् ॥ ३.१००॥
सृष्टा मूत्र-पुरीषार्थमाहाराय च केवलम् ।
धर्म-हीनाः परार्थाय पुरुषाः पशवो यथा ॥ ३.१०१॥
स्थैर्यं सर्वेषु कृत्येषु शंसन्ति नय-पण्डिताः ।
बह्वन्तराय-युक्तस्य धर्मस्य त्वरिता गतिः ॥ ३.१०२॥
सङ्क्षेपात् कथ्यते धर्मो जनाः किं विस्तरेण वः ।
परोपकारः पुण्याय पापाय पर-पीडनम् ॥ ३.१०३॥
श्रूयतां धर्म-सर्वस्वं श्रुत्वा चैवावधार्यताम् ।
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ ३.१०४॥
अथ तस्य तां धर्मोपदेशनां श्रुत्वा शशक आह-भोः भोः कपिञ्जल ! एष नदी-तीरे तपस्वी धर्म-वादी तिष्ठति । तदेनं पृच्छावः ।
कपिञ्जल आह-ननु स्वभावतोऽयमस्माकं शत्रु-भूतः । तद्दूरे स्थित्वा पृच्छावः । कदाचिदस्य व्रत-वैकल्यं सम्पद्येत । ततो दूरस्थो तावूचतुः-भोस्तपस्विन् ! धर्मोपदेशक ! आवयोर्विवादो वर्तते । तद्धर्म-शास्त्र-द्वारेणास्माकं निर्णयं कुरु । यो हीनवादी स ते भक्ष्य इति ।
स आह-भद्रौ ! मा मैवं वदतम् । निवृत्तोऽहं नरक-मार्गाद्धिंसा-कर्मणः । अहिंसैव धर्म-मार्गः । उक्तं च-
अहिंसा-पूर्वको धर्मो यस्मात् सर्व-हिते रतः ।
यूका-मत्-कुण-दंशादींस्तस्मात् तानपि रक्षयेत् ॥ ३.१०५॥
हिंसकानपि भूतानि यो हिंसति स निर्घृणः ।
स याति नरकं घोरं किं पुनर्यः शुभानि च ॥ ३.१०६॥
एतेऽपि ये याज्ञिका यज्ञ-कर्मणि पशून् व्यापादयन्ति, ते मूर्खाः । परमार्थं श्रुतेर्न जानन्ति । तत्र किलैतदुक्तमजयैष्टव्यम् । अजा व्रीहयस्तावत् सप्त-वार्षिकाः कथ्यन्ते न पुनः पशु-विशेषः । उक्तं च-
वृक्षांश्छित्त्वा पशून् हत्वा कृत्वा रुधिर-कर्दमम् ।
यदेवं गम्यते स्वर्गं नरकं केन गम्यते ॥ ३.१०७॥
तन् नाहं भक्षयामि । परं जय-पराजय-निर्णयं करिष्यामि । किन्त्वहं वृद्धो दूरान् न यथावच्छृणोमि । एवं ज्ञात्वा मम समीप-वर्तिनो भूत्वा ममाग्रे न्यायं वदतं, येन विज्ञाय, विवाद-परमार्थं वचो वदतो मे पर-लोक-बाधा न भवति । उक्तं च-
मानाद्वा यदि वा लोभात् क्रोधाद्वा यदि वा भयात् ।
यो न्यायमन्यथा ब्रूते स याति नरकं नरः ॥ ३.१०८॥
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
शतं कन्यानृते हन्ति सहस्रं पुरुषानृते ॥ ३.१०९॥
उपविष्टः सभा-मध्ये यो न वक्ति स्फुटं वचः ।
तस्माद्दूरेण स त्याज्यो न यो वा कीर्तयेदृतम् ॥ ३.११०॥
तस्माद्विश्रब्धौ मम कर्णोपान्तिके स्फुटं निवेदयतम् । किं बहुना, तेन क्षुद्रेण तथा तौ पूर्णं विश्वासितौ यथा तस्योत्सङ्ग-वर्तिनौ जातौ । ततश्च तेनापि सम-कालमेवैकः पादान्तेनाक्रान्तोऽन्यो दंष्ट्राक्रकचेन च ततो गत-प्राणौ भक्षिताविति । अतोऽहं ब्रवीमि-क्षुद्रमर्थ-पतिं प्राप्य (९१) इति ।
भवन्तोऽपेनं दिवान्धं क्षुद्रमर्थ-पतिमासाद्य रात्र्यन्धाः सन्तः शशक-पिञ्जल-मार्गेण यास्यन्ति । एवं ज्ञात्वा यदुचितं तद्विधेयम् । अथ तस्य तद्वचनमाकर्ण्य साध्वनेनाभिहितमितुक्ता, भूयोऽपि पार्थिवाथं समेत्य मन्त्रयिष्यामहे इति ब्रुवाणाः सर्वे पक्षिणो यथाभिमतं जग्मुः । केवलमवशिष्टो भद्रासनोपविष्टोऽभिषेकाभिमुखो दिवान्धः कृकालिकया सहास्ते । आह च-कः कोऽत्र भोः ! किमद्यापि न क्रियते ममाभिषेकः ?
इति श्रुत्वा कृकालिकयाभिहितम्-भद्र ! कुतोऽयं विघ्नस्ते काकेन ? गताश्च सर्वेऽपि विहगा यथेप्सितासु दिक्षु केवलमेकोऽयं वायसोऽवशिष्टस्तिष्ठति केनापि कारणेन । तत् त्वरितमुत्तिष्ठ, येन त्वां स्वाश्रयं प्रापयामि ।
तच्छ्रुत्वा सविषादमुलूको वायसमाह-भो भो दुष्टात्मन् ! किं मया तेऽपकृतं यद्राज्याभिषेको मे विघ्नितः ? तदद्य-प्रभृति सान्वयमावयोर्वैरं सञ्जातम् । उक्तं च-
रोहते सायकैर्विद्धं छिन्नं रोहति चासिना ।
वचो दुरुक्तं बीभत्सं न प्ररोहति वाक्-क्षतम् ॥ ३.१११॥
इतेवमभिधाय कृकालिकया सह स्वाश्रमं गतः । अथ भय-व्याकुलो वायसो व्यचिन्तयत्-अहो ! अकारणं वैरमासादितं मया । किमिदं व्याहृतम् ? उक्तं च-
अदेश-कालज्ञमनायति-क्षमं
यदप्रियं लाघव-कारि चात्मनः ।
योऽत्राब्रवीत् कारण-वर्जितं वचो
न तद्वचः स्याद्विषमेव तद्भवेत् ॥ ३.११२॥
बलोपपन्नोऽपि हि बुद्धिमान् नरः
परे नयेन् न स्वयमेव वैरिताम् ।
भिषङ्ममास्तीति विचिन्त्य भक्षयेद्
अकारणात् को हि विचक्षणो विषम् ॥ ३.११३॥
परिवादः परिषदि न कथञ्चित् पण्डितेन वक्तव्यः ।
सत्यमपि तन् न वाच्यं यदुक्तमसुखावहं भवति ॥ ३.११४॥
सुहृद्भिराप्तैरसकृद्विचारितं
स्वयं हि बुद्ध्या प्रविचारिताश्रयम् ।
करोति कार्यं खलु यः स बुद्धिमान्
स एव लक्ष्म्या यशसां च भाजनम् ॥ ३.११५॥
एवं विचिन्त्य काकोऽपि प्रयातः । तदा-प्रभृतस्माभिः सह कौशिकानामन्वया-गतं वैरमस्ति ।
मेघवर्ण आह-तात ! एवं गतेऽस्माभिः किं क्रियते ?
स आह-वत्स ! एवं गतेऽपि षाड्गुण्यादपरः स्थूलोऽभिप्रायोऽस्ति । तमङ्गीकृत्य स्वयमेवाहं तद्विजयाय यास्यामि । रिपून् वञ्चयित्वा वधिष्यामि । उक्तं च-
बहु-बुद्धि-समायुक्ताः सुविज्ञाना बलोत्कटान् ।
शक्ता वञ्चयितुं धूर्ता ब्राह्मणं छागलदिव ॥ ३.११६॥
मेघवर्ण आह-कथमेतत् ?
सोऽब्रवीत्-
कथा ३ मित्र-शर्म-ब्राह्मण-कथा
कस्मिंश्चिदधिष्ठाने मित्रशर्मा नाम ब्राह्मणः कृताग्निहोत्र-परिग्रहः प्रतिवसति स्म । तेन कदाचिन् माघ-मासे सौम्यानिले प्रवाति, मेघाच्छादिते गगने मन्दं मन्दं प्रवर्षति पर्जन्ये, पशु-प्रार्थनार्थं किञ्चिद्ग्रामान्तरं गत्वा, कश्चिद्यजमानो याचितः-भो यजमान ! आगामिन्याममावास्यायामहं यक्ष्यामि यज्ञम् । तद्देहि मे पशुमेकम् ।
अथ तेन यस्य शास्त्रोक्तः पीवर-तनुः पशुः प्रदत्तः । सोऽपि तं समर्थमितश्चेतश्च गच्छन्तं विज्ञाय स्कन्धे कृत्वा सत्वरं स्व-पुराभिमुखः प्रतस्थे ।
अथ तस्य गच्छतो मार्गे त्रयो धूर्ताः क्षुत्-क्षाम-कण्ठाः सम्मुखा बभूवुः । तैश्च तादृशं पीवर-तनुं स्कन्ध आरूढमालोक्य, मिथोऽभिहितं-अहो ! अस्य पशोर्भक्षणादद्यतनीयो हिम-पातो व्यर्थतां नीयते । तदेनं वञ्चयित्वा पशुमादाय शीत-त्राणं कुर्मः ।
अथ तेषामेकतमो वेश-परिवर्तनं विधाय सम्मुखो भूत्वापमार्गेण तमाहिताग्निमूचे-भो भोः ! बालाग्निहोत्रिन् ! किमेवं जन-विरुद्धं हास्य-कार्यमनुष्ठीयते ? यदेष सारमेयोऽपवित्रः स्कन्धाधिरूढो नीयते । उक्तं च यतः ।
श्वान-कुक्कुट-चाण्डालाः सम-स्पर्शाः प्रकीर्तिताः ।
रासभोष्ट्रौ विशेषेण तस्मात् तान् नैव संस्पृशेत् ॥ ३.११७॥
ततश्च तेन कोपाभिभूतेनाभिहितमहो ! किमन्धो भवान् ? यत् पशुं सारमेयत्वेन प्रतिपादयसि ?
सोऽब्रवीत्-ब्रह्मन् ! कोपस्त्वया न कार्यः । यथेच्छं गम्यताम् ।
अथ यावत् किञ्चिदध्वनोऽन्तरं गच्छति, तावद्द्वितीयो धूर्तः सम्मुखमभ्युपेत्य तमुवाच-भोः ब्रह्मन् ! कष्टं कष्टम् ! यद्यपि वल्लभोऽयं ते मृत-वत्सस्तथापि स्कन्धमारोपयितुमयुक्तम् । उक्तं च यतः-
तिर्यञ्चं मानुषं वापि यो मृतं संस्पृशेत् कुधीः ।
पञ्च-गव्येन शुद्धिः स्यात् तस्य चान्द्रायणेन वा ॥ ३.११८॥
अथासौ सकोपमिदमाह-भोः ! किमन्धो भवान् ? यत् पशुं मृत-वत्सं वदति ।
सोऽब्रवीत्-भगवन् ! मा कोपं कुरु । अज्ञानान् मयाभिहितम् । तत् त्वमात्म-रुचिं समाचर इति ।
अथ यावत् स्तोकं वनान्तरं गच्छति तावत् तृतीयोऽन्य-वेश-धारी धूर्तः सम्मुखः समुपेत्य तमुवाच-भोः ! अयुक्तमेतत्, यद्रासभं स्कन्धाधिरूढं नयसि । तत् त्यज्यतामेषः । उक्तं च-
यः स्पृशेद्रासभं मर्त्यो ज्ञानादज्ञानतोऽपि वा ।
स-चैलं स्नानमुद्दिष्टं तस्य पाप-प्रशान्तये ॥ ३.११९॥
तत् त्यजैनं यावदन्यः कश्चिन् न पश्यति ।
अथासौ तं पशुं रासभं मन्यमानो भयाद्भूमौ प्रक्षिप्य स्व-गृहमुद्दिश्य पलायितुं प्रारब्धः । ततस्तेऽपि त्रयो मिलित्वा पशुमादाय यथेच्छं भक्षितुमारब्धाः ।
अतोऽहं ब्रवीमि-बहु-बुद्धि-समायुक्ताः (११६) इति । अथवा साध्विदमुच्यते-
अभिनव-सेवक-विनयैः प्राघुणकोक्तैर्विलासिनीरुदितैः ।
धूर्त-जन-वचन-निकरैरिह कश्चिदवञ्चितो नास्ति ॥ ३.१२०॥
किं च-दुर्बलैरपि बहुभिः सह विरोधो न युक्तः । उक्तं च-
बहवो न विरोद्धव्या दुर्जया हि महाजनाः ।
स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः ॥ ३.१२१॥
मेघवर्ण आह-कथमेतत् ?
स्थिरजीवी कथयति-
कथा ४ अतिदर्प-नाम-सर्प-कथा
(पिपीलिकाभुजङ्गमकथा)
अस्ति कस्मिंश्चिद्वल्मीके महा-कायः कृष्ण-सर्पोऽतिदर्पो नाम । स कदाचिद्विलानुसारि-मार्गमुत्सृज्यान्येन लघु-द्वारेण निष्क्रमितुमारब्धः । निष्क्रामतश्च तस्य महा-कायत्वाद्दैव-वशतया लघु-विवरत्वाच्च शरीरे व्रणः समुत्पन्नः । अथ व्रण-शोणित-गन्धानुसारिणीभिः पिपीलिकाभिः सर्वतो व्याप्तो व्याकुलीकृतश्च । कति व्यापादयति कति वा ताडयति ? अथ प्रभूतत्वाद्विस्तारित-बहु-व्रणः क्षत-सर्वाङ्गोऽतिदर्पः पञ्चत्वमुपागतः ।
अतोऽहं ब्रवीमि-बहवो न विरोद्धव्या (१२१) इति । तदत्रास्ति मे किञ्चिद्वक्तव्यमेव । तदवधार्य यथोक्तमनुष्ठीयताम् ।
मेघवर्ण आह-तत् समादेशय । तवादेशो नान्यथा कर्तव्यः ।
स्थिरजीवी प्राह-वत्स ! समाकर्णय तर्हि । सामादीनतिक्रम्य यो मया पञ्चम उपायो निरूपितः । तन् मां विपक्ष-भूतं कृत्वानि निष्ठुर-वचनैर्निर्भर्त्स्य । यथा विपक्ष-प्रणिधीनां प्रत्ययो भवति, तथा समाहृत-रुधिरैरालिप्यास्यैव न्यग्रोधस्याधस्तात् प्रक्षिप्य मां गम्यतां पर्वतं ऋष्यमूकं प्रति । तत्र सपरिवारस्तिष्ठ, यावदहं समस्तान् सपत्नान् सुप्रणीतेन विधिना विश्वास्याभिमुखान् कृत्वा कृतार्थो ज्ञात-दुर्ग-मध्यो दिवसे तानन्धतां प्राप्तांस्त्वां नीत्वा व्यापादयामि । ज्ञातं मया सम्यक् नान्यथास्माकं सिद्धिरस्ति । यतो दुर्गमेतदपसार-रहितं केवलं वधाय भविष्यति । उक्तं च-
अपसार-समायुक्तं न यज्ञैर्दुर्गमुच्यते ।
अपसार-परित्यक्तं दुर्ग-व्याजेन बन्धनम् ॥ ३.१२२॥
न च त्वया मदर्थं कृपा कार्या । उक्तं च-
अपि प्राण-समान् इष्टान् पालितान् लालितानपि ।
भृत्यान् युद्धे समुत्पन्ने पश्येच्छुष्कमिवेन्धनम् ॥ ३.१२३॥
तथा च-
प्राणवद्रक्षयेद्भृत्यान् स्वकायमिव पोषयेत् ।
सदैक-दिवसस्यार्थे यत्र स्याद्रिपु-सङ्गमः ॥ ३.१२४॥
तत् त्वयाहं नात्र विषये प्रतिषेधनीयः । इतुक्त्वा तेन सह शुष्क-कलहं कर्तुमारब्धः । अथान्ये तस्य भृत्याः स्थिरजीविनमुच्छृङ्खल-वचनैर्जल्पन्तमवलोक्य तस्य वधायोद्यता मेघवर्णेनाभिहिताः-अहो ! निवर्तध्वं यूयम् । अहमेवास्य शत्रु-पक्षपातिनो दुरात्मनः स्वयं निग्रहं करिष्यांइ । इतभिधाय तस्योपरि समारुह्य, लघुभिश्चञ्चु-प्रहारैस्तं निहत्याहृत-रुधिरेण प्लावयित्वा तदुपदिष्टं ऋष्यमूक-पर्वतं सपरिवारो गतः ।
एतस्मिन्नन्तरे कृकालिकया द्विषत्-प्रणिधी-भूतया तत् सर्वं तदमात्य-व्यसनं क्वचित् प्रचलितः सपरिवार इति ।
अथोलूकाधिपस्तदाकर्ण्यास्तमनवेलायां सामात्यः सपरिजनो वायस-वधार्थं प्रचलितः । प्राह च-त्वर्यतां त्वर्यतां भीतः शत्रुः पलायन-परः पुण्यैर्लभ्यते । उक्तं च-
शत्रोः प्रचलने छिद्रमेकमन्यं च संश्रयम् ।
कुर्वाणो जायते वश्यो व्यग्रत्वे राज-सेविनाम् ॥ ३.१२५॥
एवं ब्रुवाणः समन्तान् न्यग्रोध-पादपमधः परिवेष्ट्य व्यवस्थितः । यावन् न कश्चिद्वायसो दृश्यते, तावच्छाखाग्रमधिरूढो हृष्ट-मना वन्दिभिरभिष्टूयमानोऽरिमर्दनस्तान् परिजनान् प्रोवाच-अहो ! ज्ञायतां तेषां मार्गः । कतमेन मार्गेण प्रनष्टाः काकाः ? तद्यावन् न दुर्गं समाश्रयन्ति, तावदेव पृष्ठतो गत्वा व्यापाद्या भवन्ति । उक्तं च-
वृत्तिमपाश्रितः शत्रुरवध्यः स्याज् जिगीषुणा ।
किं पुनः संश्रितो दुर्गं सामग्र्या परया युतम् ॥ ३.१२६॥
अथैतस्मिन् प्रस्तावे स्थिरजीवी चिन्तयामास-यदेतेऽस्मच्छत्रवोऽनुलब्धास्मद्वृत्तान्ता यथागतमेव यान्ति ततो मया न किञ्चित् कृतं भवति । उक्तं च-
अनारम्भो हि कार्याणां प्रथमं बुद्धि-लक्षणम् ।
आरब्धस्यान्त-गमनं द्वितीयं बुद्धि-लक्षणम् ॥ ३.१२७॥
तद्वरमनारम्भो न चारम्भ-विघातः । तदहमेतान् शब्दं संश्राव्य आत्मानं दर्शयामि इति विचार्य मन्दं मन्दं शब्दमकरोत् । तच्छ्रुत्वा ते सकला अपुलूकास्तद्वधाय प्रजग्मुः । अथ तेनोक्तं-अहो ! अहं स्थिरजीवी नाम मेघवर्णस्य मन्त्री । मेघवर्णेनैवेदृशीमवस्थां नीतः । तन् निवेदयतात्म-स्वामिने । तेन सह बहु वक्तव्यमस्ति ।
अथ तैर्निवेदितः स उलूक-राजो विस्मयाविष्टस्तत्-क्षणात् तस्य सकाशं गत्वा प्रोवाच-भोः भोः ! किमेतां दशां गतस्त्वम्, तत् कथ्यताम् ।
स्थिरजीवी प्राह-देव ! श्रूयतां तदवस्था-कारणम् । अतीत-दिने स दुरात्मा मेघवर्णो युष्मद्व्यापादित-प्रभूत-वायसानां पीडया युष्माकमुपरि कोप-शोक-ग्रस्तो युद्धार्थं प्रचलित आसीत् । ततो मयाभिहितं-स्वामिन् ! न युक्तं भवतस्तदुपरि गन्तुम् । बलवन्त एते, बल-हीनाश्च वयम् । उक्तं च-
बलीयसा हीन-बलो विरोधं
न भूति-कामो मनसापि वाञ्छेत् ।
न वध्यते वेतस-वृत्तिरत्र
व्यक्तं प्रणाशोऽस्ति पतङ्ग-वृत्तेः ॥ ३.१२८॥
तत् तस्योआयन-प्रदानेन सन्धिरेव युक्तः । उक्तं च-
बलवन्तं रिपुं दृष्ट्वा सर्वस्वमपि बुद्धिमान् ।
दत्त्वा हि रक्षयेत् प्राणान् रक्षितैस्तैर्धनं पुनः ॥ ३.१२९॥
तच्छ्रुत्वा दुर्जन-कोपितेन त्वत्-पक्ष-पातिनं मामाशङ्कमानेनेमां दशां नीतः । तत् तव पादौ साम्प्रतं मे शरणं । किं बहुना विज्ञप्तेन ? यावदहं प्रचलितुं शक्नोमि तावत् त्वां तस्यावासं नीत्वा सर्व-वायस-क्षयं विधास्यामि इति ।
अथारिमर्दनस्तदाकर्ण्य पितृ-पितामह-क्रमागत-मन्त्रिभिः सार्धं मन्त्रयाञ्चक्रे । तस्य च पञ्च मन्त्रिणः । तद्यथा-रक्ताक्षः, क्रूराक्षः, दीप्ताक्षः, वक्रनासः, प्राकारकर्णश्चेति । तत्रादौ रक्ताक्षमपृच्छत्-भद्र ! एष तावत् तस्य रिपोर्मन्त्री मम हस्त-गतः । तत् किं क्रियताम् ? इति ।
रक्ताक्ष आह-देव ! किमत्र चिन्त्यते ? अविचारितमयं हन्तव्यः, यतः-
हीनः शत्रुर्निहन्तव्यो यावन् न बलवान् भवेत् ।
प्राप्त-स्व-पौरुष-बलः पश्चाद्भवति दुर्जयः ॥ ३.१३०॥
किं च स्वयमुपागता श्रीस्त्यज्यमाना शपतीति लोके प्रवादः । उक्तं च-
कालो हि सकृदभ्येति यन् नरं काल-काङ्क्षिणम् ।
दुर्लभः स पुनस्तेन काल-कर्माचिकीर्षता ॥ ३.१३१॥
श्रूयते च यथा-
कश्चित् क्षुद्र-समाचारः प्राणिनां काल-सन्निभः ।
विचचार महारण्ये घोरः शुनि-लुब्धकः ॥ ३.१३२॥
अरिमर्दनः प्राह-कथमेतत् ?
रक्ताक्षः कथयति-
कथा ५ ब्राह्मण-सर्प-कथा
अस्ति कस्मिंश्चिदधिष्ठाने हरिदत्तो नाम ब्राह्मणः । तस्य च कृषिं कुर्वतः सदैव निष्फलः कालोऽतिवर्तते । अथैकस्मिन् दिवसे स ब्राह्मण उष्ण-कालावसाने घर्मार्तः स्व-क्षेत्र-मध्ये वृक्ष-च्छायायां प्रसुप्तोऽनतिदूरे वल्मीकोपरि प्रसारितं बृहत्-फटा-युक्तं भीषणं भुजङ्गं दृष्ट्वा चिन्तयामास-नूनमेषा क्षेत्र-देवता मया कदाचिदपि न पूजिता । तेनेदं मे कृषि-कर्म विफलीभवति । तदस्या अहं पूजामद्य करिष्यामि । इतवधार्य कुतोऽपि क्षीरं याचित्वा शरावे निक्षिप्य वल्मीकान्तिकमुपगत्योवाच-भोः क्षेत्र-पाल ! मयैत्वावन्तं कालं न ज्ञातं यत् त्वमत्र वससि । तेन पूजा न कृता । तत् साम्प्रतं क्षमस्वेति ।
एवमुक्त्वा दुग्धं च निवेद्य गृहाभिमुखं प्रायात् । अथ प्रातर्यावदागत्य पश्यति, तावद्दीनारमेकं शरावे दृष्टवान् । एवं च प्रतिदिनमेकाकी समागत्य तस्मै क्षीरं ददाति, एकैकं च दीनारं गृह्णाति । अथैकस्मिन् दिवसे क्षीर-नयनाय पुत्रं निरूप्य ब्राह्मणो ग्रामान्तरं जगाम । पुत्रोऽपि क्षीरं तत्र नीत्वा संस्थाप्य च पुनर्गृहं समायातः । दिनान्तरे तत्र गत्वा दीनारकं दृष्ट्वा गृहीत्वा च चिन्तितवान्-नूनं सौवर्ण-दीनार-पूर्णो वल्मीकः । तदेनं हत्वा सर्वमेक-वारं ग्रहीष्यामि इतेवं सम्प्रधार्यान्येद्युः क्षीरं ददता ब्राह्मण-पुत्रेण सर्पो लगुडेन ताडितः । ततः कथमपि दैव-वशादमुक्त-जीवित् एव रोषात् तमेव तीव्र-विषद-शनैस्तथादशत्, यथा सद्यः पञ्चत्वमुपागतः । स्वजनैश्च नातिदूरे क्षेत्रस्य काष्ठ-सञ्चयैः संस्कृतः ।
अथ द्वितीय-दिने तस्य पिता समायातः । स्वजनेभ्यः सुत-विनाश-कारणं श्रुत्वा तथैव समर्थितवान् । अब्रवीच्च-
भूतान् यो नानुगृह्णाति हात्मनः शरणागतान् ।
भूतार्थास्तस्य नश्यन्ति हंसाः पद्म-वने यथा ॥ ३.१३३॥
पुरुषैरुक्तं-कथमेतत् ?
ब्राह्मणः कथयति-
कथा ६ हैम-हंस-कथा
अस्ति कस्मिंश्चिदधिष्ठाने चित्ररथो नाम राजा । तस्य योधैः सुरक्ष्यमाणं पद्मसरो नाम सरस्तिष्ठति तत्र च प्रभूता जाम्बूनद-मया हंसास्तिष्ठन्ति । षण्मासे षण्मासे पिच्छमेकैकं परित्यजन्ति । अथ तत्र सरसि सौवर्णो बृहत्-पक्षी समायातः । तैश्चोक्तः-अस्माकं मध्ये त्वया न वस्तव्यम् । येन कारणेनास्माभिः षण्मासान्ते पिच्छैकैक-दानं कृत्वा गृहीतमेतत् सरः । एवं च किं बहुना, परस्परं द्वैधमुत्पन्नम् । स च राज्ञः शरणं गतोऽब्रवीत्-देव ! एते पक्षिण एवं वदन्ति, यदस्माकं राजा किं करिष्यति ? न कस्यापावासं दद्मः ।
मया चोक्तं-न शोभनं युष्माभिरभिहितम् । अहं गत्वा राज्ञे निवेदयिष्यामि । एवं स्थिते देवः प्रमाणम् ।
ततो राजा भृत्यानब्रवीत्-भो भोः गच्छत । सर्वान् पक्षिणो गतासून् कृत्वा शीघ्रमानयत । राजादेशानन्तरमेव प्रचेलुस्ते ।
अथ लगुड-हस्तान् राज-पुरुषान् दृष्ट्वा तत्रैकेन पक्षिणा वृद्धेनोक्तम्-भोः स्वजनाः ! न शोभनमापतितम् । ततः सर्वैरेक-मती-भूयोत्पतितव्यम् । तैश्च तथानुष्ठितम् ।
अतोऽहं ब्रवीमि-भूतान् यो नानुगृह्णाति (१३३) इति ।
इतुक्त्वा पुनरपि ब्राह्मणः प्रत्यूषे क्षीरं गृहीत्वा तत्र गत्वा तार-स्वरेण सर्पमस्तौत् । तदा सर्पश्चिरं वल्मीक-द्वारान्तर्लीन एव ब्राह्मणं प्रत्युवाच-त्वं लोभादत्रागतः पुत्र-शोकमपि विहाय । अतः परं तव मम च प्रीतिर्नोचिता । तव पुत्रेण यौवनोन्मादेनाहं ताडितो मया स दृष्टः । कथं मया लगुड-प्रहारो विस्मर्तव्यः । त्वया च पुत्र-शोक-दुःखं कथं विस्मर्तव्यमिति पुनरुक्त्वा विवरान्तर्गतः । ब्राह्मणश्च मणिं गृहीत्वा पुत्र-बुद्धिं निन्दन् स्व-गृहमागतः । अतोऽहं ब्रवीमि-चितिकां दीपितां पश्य इति । तदस्मिन् हतेऽयत्नादेव राज्यमकण्टकं भवतो भवति ।
तस्यैतद्वचनं श्रुत्वा क्रूराक्षं पप्रच्छ-भद्र ! त्वं तु किं मन्यसे ?
सोऽब्रवीत्-देव ! निर्दयमेतद्यदनेनाभिहितम् । यत् कारणं शरणागतो न वध्यते सुष्ठु । खल्विदमाख्यानम्-
श्रूयते हि कपोतेन शत्रुः शरणमागतः ।
पूजितश्च यथा-न्यायं स्वैश्च मांसैर्निमन्त्रितः ॥ ३.१३४॥
अरिमर्दनोऽब्रवीत्-कथमेतत् ?
क्रूराक्षः कथयति-
कथा ७ कपोत-लुब्धक-कथा
कश्चिद्क्षुद्र-समाचारः प्राणिनां काल-सन्निभः ।
विचचार महारण्ये घोरः शकुनि-लुब्धकः ॥ ३.१३५॥
नैव कश्चित् सुहृत् तस्य न सम्बन्धी न बान्धवः ।
स तैः सर्वैः परित्यक्तस्तेन रौद्रेण कर्मणा ॥ ३.१३६॥
अथवा-
ये नृशंसा दुरात्मनः प्राणिनां प्राण-नाशकाः ।
उद्वेजनीया भूतानां व्याला इव भवन्ति ते ॥ ३.१३७॥
स पञ्जरकमादाय पाशं च लगुडं तथा ।
नित्यमेव वनं याति सर्व-प्राणि-विहिंसकः ॥ ३.१३८॥
अन्येद्युर्भ्रमतस्तस्य वने कापि कपोतिका ।
जाता हस्त-गता तां स प्राक्षिपत् पञ्ज्चरान्तरे ॥ ३.१३९॥
अथ कृष्णा दिशः सर्वा वनस्थस्याभवन् घनैः वात-वृष्टिश्च महतो क्षय-काल इवाभवत् ॥ ३.१४०॥
ततः स त्रस्त-हृदयः कम्पमानो मुहुर्मुहुः ।
अन्वेषयन् परित्राणमाससाद वनस्पतिम् ॥ ३.१४१॥
मुहूर्तं पश्यते यावद्वियद्विमल-तारकम् ।
प्राप्य वृक्षं वदतेवं योऽत्र तिष्ठति कश्चन ॥ ३.१४२॥
तस्याहं शरणं प्राप्तः स परित्रातु मामिति ।
शीतेन भिद्यमानं च क्षुधया गत-चेतनम् ॥ ३.१४३॥
अथ तस्य तरोः स्कन्धे कपोतः सुचिरोषितः ।
भार्या-विरहितस्तिष्ठन् विललाप सुदुःखितः ॥ ३.१४४॥
वात-वर्षो महान् आसीन् न चागच्छति मे प्रिया ।
तया विरहितं हेतच्छून्यमद्य गृहं मम ॥ ३.१४५॥
पतिव्रता पति-प्राणा पत्युः प्रिय-हिते रता ।
यस्य स्यादीदृशी भार्या धन्यः स पुरुषो भुवि ॥ ३.१४६॥
न गृहं गृहमिताहुर्गृहिणी गृहमुच्यते ।
गृहं तु गृहिणी-हीनमरण्य-सदृशं मतम् ॥ ३.१४७॥
पञ्जर-स्था ततः श्रुत्वा भर्तुर्दुःखान्वितं वचः ।
कपोतिका सुसन्तुष्टा वाक्यं चेदमथाह सा ॥ ३.१४८॥
न सा स्त्रीतभिमन्तव्या यस्यां भर्ता न तुष्यति ।
तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्व-देवताः ॥ ३.१४९॥
दावाग्निना विदग्धेव सपुष्प-स्तवका लता ।
भस्मीभवतु सा नारी यस्यां भर्ता न तुष्यति ॥ ३.१५०॥
मितं ददाति हि पिता मितं भ्राता मितं सुतः ।
अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥ ३.१५१॥
पुनश्चाब्रवीत्-
शृणुष्वावहितः कान्त यत् ते वक्ष्यामहं हितम् ।
प्राणैरपि त्वया नित्यं संरक्ष्यः शरणागतः ॥ ३.१५२॥
एष शाकुनिकः शेते तवावासं समाश्रितः ।
शीतार्तश्च क्षुधार्तश्च पूजामस्मै समाचर ॥ ३.१५३॥
श्रूयते च-
यः सायमतिथिं प्राप्तं यथा-शक्ति न पूजयेत् ।
तस्यासौ दुष्कृतं दत्त्वा सुकृतं चापकर्षति ॥ ३.१५४॥
मा चास्मै त्वं कृथा द्वैषं बद्धानेनेति मत्-प्रिया ।
स्व-कृतैरेव बद्धाहं प्राक्तनैः कर्म-बन्धनैः ॥ ३.१५५॥
दारिद्र्य-रोग-दुःखानि बन्धन-व्यसनानि च ।
आत्मापराध-वृक्षस्य फलानेतानि देहिनाम् ॥ ३.१५६॥
तस्मात् त्वं द्वेषमुत्सृज्य मद्बन्धन-समुद्भवम् ।
धर्मे मनः समाधाय पूजयैनं यथा-विधि ॥ ३.१५७॥
तस्यास्तद्वचनं श्रुत्वा धर्म-युक्ति-समन्वितम् ।
उपगम्य ततोऽधृष्टः कपोतः प्राह लुब्धकम् ॥ ३.१५८॥
भद्र सुस्वागतं तेऽस्तु ब्रूहि किं करवाणि ते ।
सन्तापश्च न कर्तव्यः स्व-गृहे वर्तते भवान् ॥ ३.१५९॥
तस्य तद्वचनं श्रुत्वा प्रत्युवाच विहङ्गमम् ।
कपोत खलु शीतं मे हिम-त्राणं विधीयताम् ॥ ३.१६०॥
स गत्वाङ्गारकं नीत्वा पातयामास पावकम् ।
ततः शुष्केषु पर्णेषु तमाशु समदीपयत् ॥ ३.१६१॥
सुसन्दीप्तं ततः कृत्वा तमाह शरणागतम् ।
प्रतापयस्व विश्रब्धं स्व-गात्राणत्र निर्भयः ॥ ३.१६२॥
उद्गतेन च जीवामो वयं सर्वे वनौकसः ।
न चास्ति विभवः कश्चिन् नाशये येन ते क्षुधम् ॥ ३.१६३॥
सहस्रं भरते कश्चिच्छतमन्यो दशापरः ।
मम त्वकृत-पुण्यस्य क्षुद्रस्यात्मापि दुर्भरः ॥ ३.१६४॥
एकस्यापतिथेरन्नं यः प्रदातुं न शक्तिमान् ।
तस्यानेक-परिक्लेशे गृहे किं वसतः फलम् ॥ ३.१६५॥
तत् तथा साधयामेतच्छरीरं दुःख-जीवितम् ।
यथा भूयो न वक्ष्यामि नास्तीतर्थि-समागमे ॥ ३.१६६॥
स निनिन्दि किलात्मानं न तु तं लुब्धकं पुनः ।
उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय ॥ ३.१६७॥
एवमुक्त्वा स धर्मात्मा प्रहृष्टेनान्तरात्मना ।
तमग्निं सम्परिक्रम्य प्रविवेश स्व-वेश्मवत् ॥ ३.१६८॥
ततस्तं लुब्धको दृष्ट्वा कृपया पीडितो भृशम् ।
कपोतमग्नौ पतितं वाक्यमेतदभाषत ॥ ३.१६९॥
यः करोति नरः पापं न तस्यात्मा ध्रुवं प्रियः ।
आत्मना हि कृतं पापमात्मनैव हि भुज्यते ॥ ३.१७०॥
सोऽहं पाप-मतिश्चैव पाप-कर्म-रतः सदा ।
पतिष्यामि महा-घोरे नरके नात्र संशयः ॥ ३.१७१॥
नूनं मम नृशंसस्य प्रत्यादर्शः सुदर्शितः ।
प्रयच्छता स्व-मांसानि कपोतेन महात्मना ॥ ३.१७२॥
अद्य-प्रभृति देहं स्वं सर्व-भोग-विवर्जितम् ।
तोयं स्वल्पं यथा ग्रीष्मः शोषयिष्यामहं पुनः ॥ ३.१७३॥
शीत-वातातप-सहः कृशाङ्गो मलिनस्तथा । उपवासैर्बहुविधैश्चरिष्ये धर्ममुत्तमम् ॥ ३.१७४॥ ततो यष्टिं शलाकां च जालकं पञ्जरं तथा । बभञ्ज लुब्धको दीनां कापोतीं च मुमोच ताम् ॥ ३.१७५॥
लुब्धकेन ततो मुक्ता दृष्ट्वाग्नौ पतितं पतिम् ।
कपोती विललापार्ता शोक-सन्तप्त-मानसा ॥ ३.१७६॥
न कार्यमद्य मे नाथ जीवितेन त्वया विना ।
दीनायाः पति-हीनायाः किं नार्या जीविते फलम् ॥ ३.१७७॥
मानो दर्पस्त्वहङ्कारः कुलं पूजा च बन्धुषु ।
दास-भृत्य-जनेष्वाज्ञा वैधव्येन प्रणश्यति ॥ ३.१७८॥
एवं विलप्य बहुशः कृपणं भृश-दुःखिता ।
पतिव्रता सुसन्दीप्तं तमेवाग्निं विवेश सा ॥ ३.१७९॥
ततो दिव्याम्बर-धरा दिव्याभरण-भूषिता ।
भर्तारं सा विमानस्थं ददर्श स्वं कपोतिका ॥ ३.१८०॥
सोऽपि दिव्य-तनुर्भूत्वा यथार्थमिदमब्रवीत् ।
अहो मामनुगच्छन्त्या कृतं साधु शुभे त्वया ॥ ३.१८१॥
तिस्रः कोट्योऽर्ध-कोटी च यानि रोमाणि मानुषे ।
तावत् कालं वसेत् स्वर्गे भर्तारं यानुगच्छति ॥ ३.१८२॥
कपोत-देहः सूर्यास्ते प्रत्यहं सुखमन्वभूत् ।
कपोत-देहवत्सासीत् प्राक् पुण्य-प्रभवं हितम् ॥ ३.१८३॥
हर्षाविष्टस्ततो व्याधो विवेश च वनं धनम् ।
प्राणि-हिंसां परित्यज्य बहु-निर्वेदवान् भृशम् ॥ ३.१८४॥
तत्र दावानलं दृष्ट्वा विवेश विरताशयः ।
निर्दग्ध-कल्मषो भूत्वा स्वर्ग-सौख्यमवाप्तवान् ॥ ३.१८५॥
अतोऽहं ब्रवीमि-श्रूयते हि कपोतेन (१३४) इतादि ।
तच्छ्रुत्वारिमर्दनो दीप्ताक्षं पृष्टवान्-एवमवस्थिते किं भवान् मन्यते ?
सोऽब्रवीत्-देव ! न हन्तव्य एवायम् । यतः-
या ममोद्विजते नित्यं सा ममाद्यावगूहते ।
प्रिय-कारक भद्रं ते यन् ममास्ति हरस्व तत् ॥ ३.१८६॥
चोरेण चापुक्तम्-
हर्तव्यं ते न पश्यामि हर्तव्यं चेद्भविष्यति ।
पुनरपागमिष्यामि यदीयं नावगूहते ॥ ३.१८७॥
अरिमर्दनः पृष्टवान्-का च नावगूहते ? कश्चायं चौरः ? इति विस्तरतः श्रोतुमिच्छामि ।
दीप्ताक्षः कथयति-
कथा ८ कामातुर-वणिक्-कथा
अस्ति कस्मिंश्चिदधिष्ठाने कामातुरो नाम वृद्ध-वणिक् । तेन च कामोपहृत-चेतसा, मृत-भार्येण काचिन् निर्धन-वणिक्-सुता, प्रभूतं धनं दत्त्वोद्वाहिता । अथ सा दुःखाभिभूता तं वृद्ध-वणिजं द्रष्टुमपि न शशाक । युक्तं चैतत्-
श्वेतं पदं शिरसि यत् तु शिरोरुहाणां
स्थानं परं परिभवस्य तदेव पुंसाम् ।
आरोपितास्थि-शकलं परिहृत्य यान्ति
चाण्डाल-कूपमिव दूरतरं तरुण्यः ॥ ३.१८८॥
तथा च-
गात्रं सङ्कुचितं गतिर्विगलिता दन्ताश्च नाशङ्गता
दृष्टिर्भ्राम्यति रूपमपुपहतं वक्त्रं च लालायते ।
वाक्यं नैव करोति बान्धव-जनः पत्नी न शुश्रूषते
धिक् कष्टं जरयाभिभूत-पूरुषं पुत्रोऽपवज्ञायते ॥ ३.१८९॥
अथ कदाचित् सा तेन सहैकशयने पराङ्मुखी यावत् तिष्ठति तावद्गृहे चौरः प्रविष्टः । सापि तं चौरं दृष्ट्वा भय-व्याकुलिता वृद्धमपि तं पतिं गाढं समालिलिङ्ग । सोऽपि विस्मयात् पुलकाञ्चित-सर्व-गात्रश्चिन्तयामास-अहो किमेषा मामद्यावगूहते ? यावन् निपुणतया पश्यति तावत् गृह-कोणैक-देशे चौरं दृष्ट्वा व्यचिन्तयत्-नूनमेषास्य भयान् मामालिङ्गति इति ज्ञात्वा तं चौरमाह-या ममोद्विजते (१८६) इतादि ।
तच्छ्रुत्वा चौरोऽपाह-हर्तव्यं ते न पश्यामि (१८७) इतादि । तस्माच्चौरस्यापुपकारः श्रेयश्चिन्त्यते किं पुनः शरणागतस्य । अपि चायं तैर्विप्रकृतोऽस्माकमेव पुष्टये भविष्यति तदीय-रन्ध्र-दर्शनाय चेति अनेन कारणेनायमवध्य इति ।
एतदाकर्ण्यारिमर्दनोऽन्यं सचिवं वक्रनासं पप्रच्छ-भद्र ! साम्प्रतमेवं स्थिते किं करणीयमिति ?
सोऽब्रवीत्-देव ! अवध्योऽयम् । यतः-
शत्रवोऽपि हितार्थैव विवदन्तः परस्परम् ।
चौरेण जीवितं दत्तं राक्षसेन तु गो-युगम् ॥ ३.१९०॥
अरिमर्दनः प्राह-कथमेतत् ?
वक्रनासः कथयति-
कथा ९ द्रोणाख्य-ब्राह्मण-कथा
अस्ति कस्मिंश्चिदधिष्ठाने दरिद्रो द्रोण-नामा ब्राह्मणः, प्रतिग्रह-धनः सततं विशिष्ट-वस्त्रानुलेपन-गन्ध-माल्यालङ्कार-ताम्बूलादि-भोग-परिवर्जितः, प्ररूढ-केश-श्मश्रु-नख-रोमोपचितः, शीतोष्ण-वात-वर्षादिभिः परिशोषित-शरीरः, तस्य च केनापि यजमानेनानुकम्पया शिशु-गो-युगं दत्तम् । ब्राह्मणेन च बाल-भावादारभ्य याचित-घृत-तैल-यवसादिभिः संवर्ध्य सुपुष्टं कृतम् । तच्च दृष्ट्वा सहसैव कश्चिच्चौरश्चिन्तितवान्-अहमस्य ब्राह्मणस्य गो-युगमिदमपहरिष्यामि । इति निश्चित्य निशायां बन्धन-पाशं गृहीत्वा, यावत् प्रस्थितस्तावदर्ध-मार्गे प्रविरल-तीक्ष्ण-दन्त-पङ्क्तिरुन्नत-नासा-वंशः, प्रकट-रक्तान्त-नयनः उपचित-स्नायु-सन्ततनत-गात्रः शुष्क-कपोलः सुहुत-हुतवह-पिङ्गल-श्मश्रु-केश-शरीरः कश्चिद्दृष्टः । दृष्ट्वा च तं तीव्र-भय-त्रस्तो चौरोऽब्रवीत्-को भवान् ? इति ।
सोऽब्रवीत्-अहं क्रूर-कर्मा चौरो दरिद्र-ब्राह्मणस्य गो-युगं हर्तुं प्रस्थितोऽस्मि ।
अथ जात-प्रत्ययो राक्षसोऽब्रवीत्-भद्र ! षष्ठाह्न-कालिकोऽहम् । अतस्तमेव ब्राह्मणमद्य भक्षयिष्यामि ।
अथ तौ तत्र गत्वैकान्ते कान्लमन्वेषयन्तौ स्थितौ । प्रसुप्ते च ब्राह्मणे तद्भक्षणार्थं प्रस्थितं राक्षसं दृष्ट्वा चौरोऽब्रवीत्-भद्र ! नैषन्यायो यतो गो-युगे मयापहृते पश्चात् त्वमेनं ब्राह्मणं भक्षय ।
सोऽब्रवीत्-कदाचिदयं ब्राह्मणो गो-शब्देन बुध्येत तदानर्थकोऽयं ममारम्भः स्यात् ।
चौरोऽपब्रवीत्-तवापि यदि भक्षणायोपस्थितस्य एकोऽपन्तरायः स्यात् । तदाहमपि न शक्नोमि गो-युगमपहर्तुम् । अतः प्रथमं मयापहृते गो-युगे पश्चात् त्वया ब्राह्मणो भक्षितव्यः । इत्थं चाहमहमिकया तयोर्विवदतोः समुत्पन्ने द्वैधे प्रतिरव-वशाद्ब्राह्मणो जजागार ।
अथ तं चौरोऽब्रवीत्-ब्राह्मण ! त्वामेवायं राक्षसो भक्षयितुमिच्छति इति ।
राक्षसोऽपाह-ब्राह्मण ! चौरोऽयं गो-युगं तेऽपहर्तुमिच्छति ।
एवं श्रुत्वोत्थाय ब्राह्मणः सावधानो भूत्वेष्ट-देवता-मन्त्र-ध्यानेनात्मानं राक्षसादुद्गूर्ण-लगुडेन चौराद्गो-युगं ररक्ष ।
अतोऽहं ब्रवीमि-शत्रवोऽपि हितार्थैव (१९०) इति ।
अथ तस्य वचनमवधार्यारिमर्दनः पुनरपि प्राकारकर्णमपृच्छत्-कथय, किमत्र मन्यते भवान् ?
सोऽब्रवीत्-देव ! अवध्य एवायम्, यतो रक्षितेनानेन कदाचित् परस्पर-प्रीत्या कालः सुखेन गच्छति । उक्तं च-
परस्परस्य मर्माणि ये न रक्षन्ति जन्तवः ।
त एव निधनं यान्ति वल्मीकोदर-सर्पवत् ॥ ३.१९१॥
अरिमर्दनोऽब्रवीत्-कथमेतत् ?
प्राकारकर्णः कथयति-
कथा १० वल्मीकोदर-गत-सर्प-कथा
अस्ति कस्मिंश्चिन् नगरे देवशक्तिर्नाम राजा । तस्य च पुत्रो जठर-वल्मीकाश्रयेणोरगेण प्रतिदिनं प्रत्यङ्गं क्षीयते । अनेकोपचारैः सद्वैद्यैः सच्छास्त्रोपदिष्टौषध-युक्त्यापि चिकित्स्यमानो न स्वास्थ्यमेति । अथासौ राजपुत्रो निर्वेदाद्देशान्तरं गतः ।
कस्मिंश्चिन् नगरे भिक्षाटनं कृत्वा महति देवालये कालं यापयति । अथ तत्र नगरे बलिर्नाम राजास्ते । तस्य च द्वे दुहितरौ यौवन-स्थे तिष्ठतः । ते च प्रतिदिवसमादित्योदये पितुः पादान्तिकमागत्य नमस्कारं चक्रतुः । तत्र चैकाब्रवीत्-विजयस्व महाराज ! यस्य प्रसादात् सर्वं सुखं लभ्यते ।
द्वितीया तु-विहितं भुङ्क्ष्व महाराज ! इति ब्रवीति ।
तच्छ्रुत्वा प्रकुपितो राजाब्रवीत्-भो मन्त्रिणः ! एनां दुष्ट-भाषिणीं कुमारिकां कस्यचिद्वैदेशिकस्य प्रयच्छत तेन निज-विहितमियमेव भुङ्क्ते ।
अथ तथेति प्रतिपद्याल्प-परिवारा सा कुमारिका मन्त्रिभिस्तस्य देव-कुलाश्रित-राज-पुत्रस्य प्रतिपादिता । सापि प्रहृष्ट-मनसा तं पतिं देववत् प्रतिपद्यादाय चान्य-विषयं गता ।
ततः कस्मिंश्चिद्दूरतर-नगर-प्रदेशे तडाग-तटे राज-पुत्रमावास-रक्षायै निरूप्य स्वयं च घृत-तैल-लवण-तण्डुलादि-क्रय-निमित्तं सपरिवारा गता । कृत्वा च क्रय-विक्रयं यावदागच्छति तावत् स राज-पुत्रो वल्मीकोपरि कृत-मूर्धा प्रसुप्तः । तस्य च मुखाद्भुजगः फणां निष्कास्य वायुमश्नाति । तत्रैव च वल्मीकेऽपरः सर्पो निष्क्रम्य तथैवासीत् ।
अथ तयोः परस्पर-दर्शनेन क्रोध-संरक्त-लोचनयोर्मध्याद्वल्मीकस्थेन सर्पेणोक्तम्-भो भो दुरात्मन् ! कथं सुन्दर-सर्वाङ्गं राज-पुत्रमित्थं कदर्थयसि ?
मुखस्थोऽरिरब्रवीत्-भो भोः ! त्वयापि दुरात्मनास्य वल्मीकस्य मध्ये कथमिदं दूषितं हाटक-पूर्णं कलश-युगलमितेवं परस्परस्य मर्माणुद्घाटितवन्तौ ।
पुनर्वल्मीकस्थोऽहिरब्रवीत्-भो दुरात्मन् ! भेषजमिदं ते किं कोऽपि न जानाति यज् जीर्णोत्कालित-काञ्जिका-राजिका-पानेन भवान् विनाशमुपयाति ।
अथोदरस्थोऽहिरब्रवीत्-तवापेतद्भेषजं किं कश्चिदपि न वेत्ति यदुष्ण-तैलेन महोष्णोदकेन वा तव विनाशः स्यादिति । एवं च सा राज-कन्या विटपान्तरिता तयोः परस्परालापान् मर्म-मयान् आकर्ण्य तथैवानुष्ठितवती ।
विधाय व्यङ्गं नीरोगं भर्तारं निधिं च परममासाद्य स्वदेशाभिमुखं प्रायात् । पितृ-मातृ-स्वजनैः प्रतिपूजिता विहितोपभोगं प्राप्य सुखेनावस्थिता । अतोऽहं ब्रवीमि-परस्परस्य मर्माणि इति ।
तच्च श्रुत्वा स्वयमरिर्दनोऽपेवं समर्थितवान् । तथा चानुष्ठितम् । दृष्ट्वान्तर्लीनं विहस्य रक्ताक्षः पुनरब्रवीत्-कष्टम् । विनाशितोऽयं भवद्भिरन्यायेन स्वामी । उक्तं च-
अपूज्या यत्र पूज्यन्ते पूज्यानां तु विमानना ।
त्रीणि तत्र प्रवर्तन्ते दुर्भिक्षं मरणं भयम् ॥ ३.१९२॥
तथा च-
प्रत्यक्षेऽपि कृते पापे मूर्खः साम्ना प्रशाम्यति ।
रथ-कारः स्वकां भार्यां सजारां शिरसावहत् ॥ ३.१९३॥
मन्त्रिणः प्राहुः-कथमेतत् ?
रक्ताक्षः कथयति-
कथा ११ वीरवर-रथकार-तत्-पत्नी-कथा
अस्ति कस्मिंश्चिदधिष्ठाने वीरवरो नाम रथकारः । तस्य भार्या कामदमनी । सा पुंश्चली जनापवाद-संयुक्ता । सोऽपि तस्याः परीक्षणार्थं व्यचिन्तयत्-अथ मयास्याः परीक्षणं कर्तव्यम् । उक्तं च-
यदि स्यात् पावकः शीतः प्रोष्णी वा शश-लाञ्छनः ।
स्त्रीणां तदा सतीत्वं स्याद्यदि स्याद्दुर्जनो हितः ॥ ३.१९४॥
जानामि चैनां लोक-वचनादसतीम् । उक्तं च-
यच्च वेदेषु शास्त्रेषु न दृष्टं न च संश्रुतम् ।
तत् सर्वं वेत्ति लोकोऽयं यत् स्याद्ब्रह्माण्ड-मध्यगम् ॥ ३.१९५॥
एवं सम्प्रधार्य भार्यामवोचत्-प्रिये ! प्रभातेऽहं ग्रामान्तरं यास्यामि । तत्र कतिचिद्दिनानि लगिष्यन्ति । तत् त्वया किमपि पाथेयं मम योग्यं विधेयम् ।
सापि तद्वचनं श्रुत्वा हर्षित-चित्ता । औत्सुक्यात् सर्व-कार्याणि सन्त्यज्य सिद्धमन्नं घृत-शर्करा-प्रायमकरोत् । अथवा साध्विदमुच्यते-
दुर्दिवसे घन-तिमिरे वर्षति जलदे महाटवी-प्रभृतौ ।
पत्युर्विदेश-गमने परम-सुखं जघन-चपलायाः ॥ ३.१९६॥
अथासौ प्रत्यूषे उत्थाय स्व-गृहान् निर्गतः सापि तं प्रस्थितं विज्ञाय प्रहसित-वदनाङ्ग-संस्कारं कुर्वाणा कथञ्चित् तं दिवसमत्यवाहयत् । अथ पूर्व-परिचित-विट-गृहे गत्वा तं प्रत्युक्तवती-स दुरात्मा मे पतिर्ग्रामान्तरं गतः । तत् त्वयास्मद्गृहे प्रसुप्ते जने समागन्तव्यम् ।
तथानुष्ठिते स रथकारोऽरण्ये दिनमतिवाह्य प्रदोषे स्व-गृहेऽपद्वारेण प्रविश्य शय्याधस्तले निभृतो भूत्वा स्थितः । एतस्मिन्नन्तरे स देवदत्तः समागत्य तत्र शयने उपविष्टः । दृष्ट्वा रोषाविष्ट-चित्तो रथकारो व्यचिन्तयत्-किमेनमुत्थाय हन्मि ? अथवा हेलयैव प्रसुप्तौ द्वावपेतौ व्यापादयामि ? परं पश्यामि तावदस्याश्चेष्टितम् । शृणोमि चानेन सहालापम् ।
अत्रान्तरे सा गृह-द्वारं निभृतं पिधाय शयन-तलमारूढा । तस्यास्तत्रारोहयन्त्या रथकार-शरीरे पादो विलग्नः । ततः सा व्यचिन्तयत्-नूनमेतेन दुरात्मना रथकारेण मत्-परीक्षणार्थं भाव्यम् । ततः स्त्री-चरित्र-विज्ञानं किमपि करोमि ।
एवं तस्याश्चिन्तयन्या स देवदत्तः स्पर्शोत्सुको बभूव । अथ तया कृताञ्जलि-पुटयाभिहितं-भोः महानुभाव ! न मे शरीरं त्वया स्पर्शनीयं यतोऽहं पतिव्रता महासती च । नो चेच्छापं दत्त्वा त्वां बह्स्मसात्करिष्यामि ।
स आह-यदेवं तर्हि त्वया किमहमाहूतः ?
साब्रवीत्-भोः शृणुष्वैकाग्र-मनाः । अहमद्य प्रत्यूषे देवता-दर्शनार्थं चण्ड्कायतनं गता तत्राकस्मात् खे वाणी सञ्जाता-पुत्रि किं करोमि ? भक्तासि मे त्वं, परं षण्मासाभ्यन्तरे विधि-नियोगाद्विधवा भविष्यसि ।
ततो मयाभिहितं-भगवति ! यथा त्वमापदं वेत्सि, तथा तत्-प्रतीकारमपि जानासि । तदस्ति कश्चिदुपायो येन मे पतिः शत-संवत्सर-जीवी भवति ?
ततस्तयाभिहितम्-वत्से, सन्नपि नास्ति, यतस्तवायत्तः स प्रतीकारः ।
तच्छ्रुत्वा मयाभिहितम्-देवि ! यदि तन् मम प्राणैर्भवति तदादेशय येन करोमि ।
अथ देव्याभिहितम्-यदद्य पर-पुरुषेण सहैकस्मिन् शयने समारुह्यालिङ्गनं करोषि तत् तव भर्तृ-सक्तोऽपमृत्युस्तस्य सञ्चरति । भर्तापि तेन पुनर्वर्ष-शतं जीवति । तेन त्वं मयाभ्यर्थितः । तद्यत् किञ्चित् कर्तु-मनास्तत् कुरुष्व । न हि देवता-वचनमन्यथा भविष्यतीति निश्चयः । ततोऽन्तर्हास-विकास-मुखः स तदुचितमाचचार ।
सोऽपि रथकारो मूर्खस्तस्यास्तद्वचनमाकर्ण्य पुलकाञ्चित-तनुः शय्याधस्तलान् निष्क्रम्य तामुवाच-साधु पतिव्रते ! साधु कुल-नन्दिनि ! अहं दुर्जन-वचन-शङ्कित-हृदयस्त्वत्-परीक्षा-निमित्तं ग्रामान्तर-व्याजं कृत्वा खट्वाधस्तले निभृतं लीनः । तदेहि, आलिङ्ग माम् । त्वं स्व-भर्तृ-भक्तानां मुख्या नारीणां, यदेवं ब्रह्म-व्रतं पर-सङ्गेऽपि पालितवती । यदायुर्बुद्धि-कृतेऽपमृत्यु-विनाशार्थं चत्वमेवं कृतवती । तामेवमुक्त्वा सस्नेहमालिङ्गितवान् ।
स्व-स्कन्धे तामारोप्य तामपि देवदत्तमुवाच-भो महानुभाव ! मत्-पुण्यैस्त्वमिहागतः । त्वत्-प्रसादान् मया प्राप्तं वर्ष-शत-प्रमाणमायुः । तत् त्वमपि मामालिङ्ग्य मत्-स्कन्धे समारोह इति जल्पन्ननिच्छन्तमपि देवदत्तमालिङ्ग्य बलात् स्वकीय-स्कन्धे आरोपितवान् ।
ततश्च नृत्यं कृत्वा-हे ब्रह्म-व्रत-धराणां धुरीण ! त्वयापि मयुपकृतमितादुक्त्वा स्कन्धादुत्तार्य यत्र यत्र स्वजन-गृह-द्वारादिषु बभ्राम तत्र तत्र तयोरुभयोरपि तद्गुण-वर्णनमकरोत् ।
अतोऽहं ब्रवीमि-प्रत्यक्षेऽपि कृते पापे (१९३) इति ।
तत् सर्वथा मूलोत्खाता वयं विनष्टाः स्मः । सुष्ठु खल्विदमुच्यते-
मित्र-रूपा हि रिपवः सम्भाव्यन्ते विचक्षणैः ।
ये हितं वाक्यमुत्सृज्य विपरीतोपसेविनः ॥ ३.१९७॥
तथा च-
सन्तोऽपर्था विनश्यन्ति देश-काल-विरोधिनः ।
अप्राज्ञान् मन्त्रिणः प्राप्य तमः सूर्योदये यथा ॥ ३.१९८॥
ततस्तद्वचोऽनादृत्य सर्वे ते स्थिरजीविनमुत्क्षिप्य स्व-दुर्गमानेतुमारब्धाः । अथानीयमानः स्थिरजीवाह-देव ! अद्याकिञ्चित्करेणैतदवस्थेन किं मयोपसङ्गृहीतेन ? यत् कारणमिच्छामि दीप्तं वह्निमनुप्रवेष्टुम् । तदर्हसि मामग्नि-प्रदानेन समुद्धर्तुम् ।
अथ रक्ताक्षस्यान्तर्गत-भावं ज्ञात्वाह-किमर्थमग्नि-पतनमिच्छसि ?
सोऽब्रवीत्-अहं तावद्युष्मदर्थमिमामापदं मेघवर्णेन प्रापितः । तदिच्छामि तेषां वैर-यातनार्थमुलूकत्वमिति ।
तच्च श्रुत्वा राजनीति-कुशलो रक्ताक्षः प्राह-भद्र ! कुटिलस्त्वं कृतक-वचन-चतुरश्च । तावदुलूक-योनि-गतोऽपि स्वकीयामेव वायस-योनिं बहु मन्यसे । श्रूयते चैतदाख्यानकम् ।
सूर्यं भर्तारमुत्सृज्य पर्जन्यं मारुतं गिरिम् ।
स्व-जातिं मूषिका प्राप्ता स्वजातिर्दुरतिक्रमा ॥ ३.१९९॥
मन्त्रिणः प्रोचुः–कथमेतत् ?
रक्ताक्षः कथयति-
कथा १२ शालङ्कायन-रक्षित-मूषिका-कथा
(मूषककन्याविवाहकथा)
अस्ति कस्मिंश्चिदधिष्ठाने शालङ्कायनो नाम तपोधनो जाह्नव्यां स्नानार्थं गतः । तस्य च सूर्योपस्थानं कुर्वतस्तत्र प्रदेशे मूषिका काचित् खरतर-नखाग्र-पुटेन श्येनेन गृहीता । दृष्ट्वा स मुनिः करुणार्द्र-हृदयो मुञ्च मुञ्चेति कुर्वाणस्तस्योपरि पाषाण-खण्डं प्राक्षिपत् । सोऽपि पाषाण-खण्ड-प्रहार-व्याकुलेन्द्रियो भ्रष्ट-मूषिको भूमौ निपपात मूषिकापि भय-त्रस्ता कर्तव्यमजानन्ती रक्ष रक्षेति जल्पन्ती मुनि-चरणान्तिकमुपाविशत् । श्येनेनापि चेतनं लब्ध्वा मुनिरुक्तो, यद्भो मुने ! न युक्तमनुष्ठितं भवता यदहं पाषाणेन ताडितः । किं त्वमधर्मान् न बिभेषि ? तत् समर्पय मामेनां मूषिकाम् । नो चेत् प्रभूतं पातकमवाप्स्यसि ।
इति ब्रुवाणं श्येनं प्रोवाच सः-भो विहङ्गाधम ! रक्षणीयाः प्राणिनां प्राणाः । दण्डनीया दुष्टाः । सम्माननीयाः साधवः । पूजनीया गुरवः । स्तुत्या देवाः । तत् किमसम्बद्धं प्रजल्पसि ?
श्येन आह-मुने ! न त्वं सूक्ष्म-धर्मं वेत्सि । इह हि सर्वेषां प्राणिनां विधिना सृष्टिं कुर्वताहारोऽपि विनिर्मितः । ततो यथा भवतामन्नं तथास्माकं मूषिकादयो विहिताः । तत् स्वाहार-काङ्क्षिणं मां किं दूषयसि ? उक्तं च-
यदस्य विहितं भोज्यं न तत् तस्य प्रदुष्यति ।
अभक्ष्ये बहु-दोषः स्यात् तस्मात् कार्यो न व्यत्ययः ॥ ३.२००॥
भक्ष्यं यथा द्विजातीनां मद्यपानां यथा हविः ।
अभक्ष्यं भक्ष्यतामेति तथान्येषामपि द्विज ॥ ३.२०१॥
भक्ष्यं भक्ष्यतां श्रेय अभक्ष्यं तु महदघम् ।
तत् कथं मां वृथाचार त्वं दण्डयितुमर्हसि ॥ ३.२०२॥
अपरं मुनीनां न चैष धर्मो यतस्तैर्दृष्टं श्रुतमश्रुतमलौल्यत्वमशत्रुत्वं प्रशस्यते । उक्तं च-
समः शत्रौ च मित्रे च सम-लोष्टाश्म-काञ्चनः ।
सुहृन्-मित्रे हुदासीनो मध्यस्थो द्वेष्य-बन्धुषु ।
साधुष्वपि च पापेषु सम-बुद्धिर्विशिष्यते ॥ ३.२०३॥
साधूनां निरवद्यानां सदाचार-विचारिणाम् । योगी युञ्जीत सततं सततमात्मानं रहसि स्थितः ॥ ३.२०४.
तत् त्वमनेन कर्मणा भ्रष्ट-तपाः सञ्जातः । उक्तं च-
मुञ्च मुञ्च पततेको मा मुञ्चेति द्वितीयकः ।
उभयोः पतनं दृष्ट्वा मौनं सर्वार्थ-साधनम् ॥ ३.२०५॥
शालङ्कायन आह–कथमेतत् ?
श्येन आह-
कथा १३ ?
कस्मिंश्चिद्नदी-तट एकत-द्वित-त्रिताभिधानास्त्रयोऽपि भ्रातरो मुनयस्तपः कुर्वन्ति । तेषां च तपः-प्रभावादाकाशस्था धौत-पोतिका निरालम्बा जलार्द्रा भू-स्पर्शन-भयेन स्नान-समये तिष्ठन्ति । अथान्ये-द्युर्ममैव काचिन् मण्डूकिका केनापि गृध्रेण बलेन नीता । अथ तां गृहीता विलोक्य तेषां ज्येष्ठेन करुणार्द्र-हृदयेन भवतेव व्याहृतं-मुञ्च मुञ्चेति । अत्रान्तरे तस्य धौत-पोतिकाकाशाद्भूमौ पतिता । तां पतितां दृष्ट्वा द्वितीयेन तद्भयार्तेन मा मुञ्चेतभिहितं यावत् तस्यापि पपात । ततस्तृतीयो द्वयोरपि धौत-पोतिकां भूमौ पतितां दृष्ट्वा तूष्णीं बभूव ।
अतोऽहं ब्रवीमि-मुञ्च मुञ्च पततेक इतादि ।
तच्छ्रुत्वा मुनिर्विहस्याह-भो मूर्ख विहङ्गम ! कृत-युगे धर्मः स आसीत्, यतः कृत-युगे पापालापतोऽपि पापं जायते तेन धौत-पोतिके पतिते अशिष्टालापेन न सदपवचन-दोषतः । एष पुनः कलि-युगः । अत्र सर्वोऽपि पापात्मा । तत् कर्म कृतं विना पापं न लगति । उक्तं च-
सञ्चरन्तीह पापानि युगेष्वन्येषु देहिनाम् ।
कलौ तु पाप-संयुक्ते यः करोति स लिप्यते ॥ ३.२०६॥
उक्तं च-
आसनाच्छयनाद्यानात् सङ्गतेश्चापि भोजनात् ।
कृते सञ्चरते पापं तैल-बिन्दुरिवाम्भसि ॥ ३.२०७॥
तत् किं वृथा प्रलपितेन ? गच्छ त्वम् । नो चेच्छापयिष्यामि । अथ गते श्येने मूषिकया स मुनिरभिहितः-भगवन् ! नय मां स्वाश्रयम् । नो चेदन्यो दुष्ट-पक्षी मां व्यापादयिष्यति । तदहं तत्रैवाश्रमे त्वद्दत्तान्नाहार-मुष्ट्या कालं नेष्यामि ।
सोऽपि दाक्षिण्यवान् सकरुणो व्यचिन्तयत्-कथं मया मूषिका हस्ते धृत्वा नेया जन-हास्य-कारिणी । तदेनां कुमारिकां कृत्वा नयामि । एवं सा कन्यका कृता । तथानुष्ठिते कन्या-सहितं मुनिमवलोक्य पत्नी पप्रच्छ-भगवन् ! कुत इयं कन्या ?
स आह-एषा मूषिका श्येन-भयाच्छरणार्थिनी कन्या-रूपेण तव गृहमानीता । तत् त्वया यत्नेन रक्षणीया । भूयोऽपेनां मूषिकां करिष्यामि ।
सा प्राह-भगवन् ! मैवं कार्षीः । अस्यास्त्वं धर्म-पिता । उक्तं च-
जनिता चोपनेता च यस्तु विद्यां प्रयच्छति ।
अन्न-दाता भय-त्राता पञ्चैते पितरः स्मृताः ॥ ३.२०८॥
तत् त्वयास्याः प्राण-प्रदत्ता । अपरं ममापपत्यं नास्ति । तस्मादेषा मम सुता भविष्यति ।
तथानुष्ठिते सा कन्या शुक्ल-पक्ष-चन्द्र-कलिकेव नित्यं वृद्धिं प्राप्नोति । सापि तस्य मुनेः शुश्रूषां कुर्वती सपत्नीकस्य यौवनमाश्वयात् । अथ तां यौवनोन्मुखीमवलोक्य शालङ्कायनः स्व-पत्नीमुवाच-प्रिये ! यौवनोन्मुखी वर्तत इयं कन्या । अनर्हा स साम्प्रतं मद्गृह-वासस्य । उक्तं च-
अनूढा मन्दिरे यस्य रजः प्राप्नोति कन्यका ।
पतन्ति पितरस्तस्य स्वर्ग-स्था अपि तैर्गुणैः ॥ ३.२०९॥
वरं वरयते कन्या माता वित्तं पिता श्रुतम् ।
बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥ ३.२१०॥
तथा च-
यावन् न लज्जते कन्या यावत् क्रीडति पांसुना ।
यावत् तिष्ठति गो-मार्गे तावत् कन्यां विवाहयेत् ॥ ३.२११॥
माता चैव पिता चैव ज्येष्ठ-भ्राता तथैव च ।
त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ॥ ३.२१२॥
कुलं च शीलं च सनाथतां च
विद्यां च वित्तं च वपुर्वयश्च ।
एतान् गुणान् सप्तान् सप्त परीक्ष्य देया
कन्या बुधैः शेषमचिन्तनीयम् ॥ ३.२१३॥
तद्यद्यस्या रोचते तद्भगवन्तं आदित्यमाकार्य तस्मै प्रयच्छामि । उक्तं च-
अनिष्टः कन्यकाया यो वरो रूपान्वितोऽपि यः ।
यदि स्यात् तस्य नो देया कन्या श्रेयोऽभिवाञ्छता ॥ ३.२१४॥
सा प्राह-को दोषोऽत्र विषये ? एवं क्रियताम् ।
अथ मुनिना रविराहूतः । वेद-मन्त्रामन्त्रण-प्रभावात् तत्-क्षणादेवाभ्युपगम्यादित्यः प्रोवाच-भगवन् ! वद द्रुतं किमर्थमाहूतः ?
स आह-एषा मदीया कन्यका तिष्ठति । यदेषा त्वां वृणोति तर्हुद्वहस्व तामिति । एवमुक्त्वा भगवांस्तस्या दर्शितः । प्रोवाच-पुत्रि ! किं तव रोचत एष भगवांस्त्रैलोक्य-दीपः ?
सा प्राह-तात ! अतिदहनात्मकोऽयम् । नाहमेनमभिलषामि । अस्मादपि य उत्कृष्टतरः स आहूयताम् ।
अथ तस्यास्तद्वचनमाकर्ण्य भास्वरोऽपि तां मूषिकां विदित्वा निःस्पृहस्तमुवाच-भगवन् ! अस्ति ममापधिको मेघो येनाच्छादितस्य मे नामाइ न ज्ञायते ?
अथ मुनिना मेघमपाहूय कन्याभिहिता-एष ते रोचते ?
सा प्राह-कृष्ण-वर्णोऽयं जडात्मा च । तदस्मादन्यस्य कस्यचित् प्रधानस्य मां प्रयच्छ ।
अथ मुनिना मेघोऽपि पृष्टः-भोः ! त्वत्तोऽपधिकः कोऽपस्ति ?
स आह-मत्तोऽपधिकोऽस्ति वायुः । वायुना हतोऽहं सहस्रधा यामि ।
तच्छ्रुत्वा मुनिना वायुराहूतः, आह च-पुत्रिके किमेष वायुस्ते विवाहाय उत्तमः प्रतिभाति ?
सा आह-प्रबलोऽपयं चञ्चलः । तदभ्यधिकः कश्चिदाहूयताम् ।
मुनिराह-भो वायो ! त्वत्तोऽपधिकोऽस्ति कश्चित् ?
स आह-मत्तोऽपधिकोऽस्ति पर्वतो येन संस्तभ्य बलवानपहं ध्रिये ।
अथ मुनिः पर्वतमाहूय कन्याया अदर्शयत्-पुत्रिके ! त्वामस्मै प्रयच्छामि ?
सा आह-तात ! कठिनात्मकोऽयं स्तब्धश्च । तदन्यस्मै देहि माम् ।
अथ स मुनिना पृष्टः, यद्भोः पर्वत-राज ! त्वत्तोऽपधिकोऽस्ति कश्चित् ?
स आह-सन्ति मत्तोऽपधिका मूषिकाः, ये मद्देहं बलात् सर्वतो भेदयन्ति ।
तदाकर्ण्य मुनिर्मूषकमाहूय तस्या अदर्शयत्-पुत्रिके ! एष ते प्रतिभाति मूषक-राजो येन यथोचितमनुष्ठीयते । सापि तं दृष्ट्वा स्व-जातीय एष इति मन्यमाना पुलकोद्भूषित-शरीरा प्रोवाच-तात ! मां मूषिकां कृत्वास्मै प्रयच्छ येन स्वजाति-विहितं गृह-धर्ममनुतिष्ठामि ।
तच्छ्रुत्वा तेन स्त्री-धर्म-विचक्षणेन तां मूषिकां कृत्वा मूषकाय प्रदत्ता ।
अतोऽहं ब्रवीमि-सूर्यं भर्तारमुत्सृज्य इत्यादि ।
अथ रक्ताक्ष-वचनमनादृत्य तैः स्व-वंश-विनाशाय स स्व-दुर्गमुपनीतः । नीयमानश्चान्तर्लीनमवहस्य स्थिरजीवचिन्तयत्-
हन्यतामिति येनोक्तं स्वामिनो हित-वादिना ।
स एवैकोऽत्र सर्वेषां नीति-शास्त्रार्थ-तत्त्व-वित् ॥ ३.२१५॥
तद्यदि तस्य वचनमचरिष्यन्न् एते, ततो न स्वल्पोऽपनर्थोऽभविष्यदेतेषाम् ।
अथ दुर्ग-द्वारं प्राप्यारिमर्दनोऽब्रवीत्-भो भो हितैषिणोऽस्य स्थिरजीविनो यथा-समीहितं स्थानं प्रयच्छत ।
तच्च श्रुत्वा स्थिरजीवी व्यचिन्तयत्-मया तावदेतेषां वधोपायश्चिन्तनीयः । स मया मध्यस्थेन न साध्यते । यतो मदीयमिङ्गितादिकं विचारयन्तस्तेऽपि सावधाना भविष्यन्ति । तद्दुर्ग-द्वारमधिश्रितोऽभिप्रेतं साधयामि । इति निश्चित्योलूक-पतिमाह-देव ! युक्तमिदं यत् स्वामिना प्रोक्तम् । परमहमपि नीतिज्ञस्तेऽहितश्च । यद्यपनुरक्तः शुचिस्तथापि दुर्ग-मध्ये आवासो नार्हः । तदहं अत्रैव दुर्ग-द्वार-स्थः प्रत्यहं भवत्-पाद-पद्म-रजः पवित्री-कृत-तनुः सेवां करिष्यामि ।
तथेति प्रतिपन्ने प्रतिदिनमुलूक-पति-सेवकास्ते प्रकाममाहारं कृत्वोलूक-राजादेशात् प्रकृष्ट-मांसाहारं स्थिरजीविने प्रयच्छन्ति । अथ कतिपयैरेवाहोभिर्मयूर इव स बलवान् संवृत्तः । अथ रक्ताक्षः स्थिरजीविनं पोष्यमाणं दृष्ट्वा सविस्मयो मन्त्रि-जनं राजानं च प्रताह-अहो मूर्खोऽयं मन्त्रि-जनो भवांश्चेतेवमहमवगच्छामि । उक्तं च-
पूर्वं तावदहं मूर्खो द्वितीयः पशु-बन्धकः ।
ततो राजा च मन्त्री च सर्वं वै मूर्ख-मण्डलम् ॥ ३.२१६॥
ते प्राहुः-कथमेतत् ?
रक्ताक्षः कथयति-
कथा १४ स्वर्ण-ष्ठीवी-सिन्धुक-पक्षी-कथा
अस्ति कस्मिंश्चित् पर्वतैक-देशे महान् वृक्षः । तत्र च सिन्धुक-नामा कोऽपि पक्षी प्रतिवसति स्म । तस्य पुरीषे सुवर्णमुत्पद्यते । अथ कदाचित् तमुद्दिश्य व्याधः कोऽपि समाययौ । स च पक्षी तदग्रत एव पुरीषमुत्ससर्ज । अथ पात-सम-कालमेव तत्-सुवर्णीभूतं दृष्ट्वा व्याधो विस्मयमगमत्-अहो मम शिशु-कालादारभ्य शकुनि-बन्ध-व्यसनिनोऽशीति-वर्षाणि समभूवन्,न च कदाचित् पक्षि-पुरीषे सुवर्णं दृष्टमिति विचिन्त्य तत्र वृक्षे पाशं बबन्ध । अथासावपि पक्षी मूर्खस्तत्रैव विश्वस्त-चित्तो यथा-पूर्वमुपविष्टस्तत्-कालमेव पाशेन बद्धः । व्याधस्तु तं पाशादुन्मुच्य पञ्जरके संस्थाप्य निजावासं नीतवान् । अथ चिन्तयामास-किमनेन सापायेन पक्षिणाहं करिष्यामि ? यदि कदाचित् कोऽपमुमीदृशं ज्ञात्वा राज्ञे निवेदयिष्यति तन् नूनं प्राण-संशयो मे भवेत् । अतः स्वयमेव पक्षिणं राज्ञे निवेदयामि । इति विचार्य तथैवानुष्ठितवान् ।
अथ राजापि तं पक्षिणं दृष्ट्वा विकसित-नयन-वदन-कमलः परां तुष्टिमुपगतः । प्राह चैवं-हंहो रक्षा-पुरुषाः ! एनं पक्षिणं यत्नेन रक्षत । अशन-पानादिकं चास्य यथेच्छं प्रयच्छत ।
अथ मन्त्रिणाभिहितम्-किमनेनाश्रद्धेय-व्याध-वचन-मात्र-परिगृहीतेनाण्डजेन ? किं कदाचित् पक्षी-पुरीषे सुवर्णं सम्भवति ? तन् मुच्यतां पञ्जर-बन्धनादयं पक्षी । इति मन्त्रि-वचनाद्राज्ञा मोचितोऽसौ पक्षुन्नत-द्वार-तोरणे समुपविश्य सुवर्ण-मयीं विष्ठां विधाय-पूर्वं तावदहं मूर्खः इति श्लोकं पठित्वा यथा-सुखमाकाश-मार्गेण प्रायात् ।
अतोऽहं ब्रवीमि-पूर्वं तावदहं मूर्खः इति ।
अथ ते पुनरपि प्रतिकूल-दैवतया हितमपि रक्ताक्ष-वचनमनादृत्य भूयस्तं प्रभूत-मांसादि-विविधाहारेण पोषयामासुः । अथ रक्ताक्षः स्व-वर्गमाहूय रहः प्रोवाच-अहो ! एतावदेवास्मद्भूपतेः कुशलं दुर्गं च । तदुपदिष्टं मया यत् कुल-क्रमागतः सचिवोऽभिधत्ते । तद्वयमन्यत् पर्वत-दुर्गं सम्प्रति समाश्रयामः । उक्तं च यतः-
अनागतं यः कुरुते स शोभते
स शोचते यो न करोतनागतम् ।
वने वसन्न् एव जरामुपागतो
बिलस्य वाचा न कदापि हि श्रुता ॥ ३.२१७॥
ते प्रोचुः-कथमेतत् ?
रक्ताक्षः कथयति-
कथा १५ खरनखर-सिंह-कथा
(सिंहजम्भुकगुहाकथा)
कस्मिंश्चिद्वनोद्देशे खरनखरो नाम सिंहः प्रतिवसति स्म । स कदाचिदितश्चेतश्च परिभ्रमन् क्षुत्क्षाम-कण्ठो न किञ्चिदपि सत्त्वमाससाद । ततश्चास्तमनसमये महतीं गिरि-गुहामासाद्य प्रविष्टश्चिन्तयामास-नूनमेतस्यां गुहायां रात्रौ केनापि सत्त्वेनागन्तव्यम् । तन् निभृतो भूत्वा तिष्ठामि ।
एतस्मिनन्तरे तत्-स्वामी दधिपुच्छो नाम शृगालः समायातः । स च यावत् पश्यति तावत् सिंह-पद-पद्धतिर्गुहायां प्रविष्टः, न च निष्क्रान्ता इति दृष्टवान् । ततश्चाचिन्तयत्-अहो विनष्टोऽस्मि, नूनमस्यान्तर्गतेन सिंहेन भाव्यम् । तत् किं करोमि ? कथं ज्ञास्यामि ? एवं विचिन्त्य द्वारस्थः फूत्कर्तुमारब्धः-अहो बिल ! अहो बिल ! इतुक्त्वा तूष्णीम्भूय भूयोऽपि तथैव प्रत्यभाषत-भोः ! किं न स्मरसि यन् मया त्वया सह समयः कृतोऽस्ति ? यन् मया बाह्यात् समागतेन त्वं वक्तव्यः, त्वया चाहमाकरणीयः इति । तद्यदि मां नाह्वयसि ततोऽहं द्वितीयं बिलं यास्यामि ।
अथ तच्छ्रुत्वा सिंहश्चिन्तितवान्-नूनमेषा गुहास्य समागतस्य सदा समाह्वानं करोति । परमद्य मद्भयान् न किञ्चिद्ब्रूते । अथवा साध्विदमुच्यते-
भय-सन्त्रस्त-मनसां हस्त-पादादिकाः क्रियाः ।
प्रवर्तन्ते न वाणी च वेपथुश्चाधिको भवेत् ॥ ३.२१८॥
तदहमस्याह्वानं करोमि येन तदनुसारेण प्रविष्टोऽयं मे भोज्यतां यास्यति । एवं सम्प्रधार्य सिंहस्तस्याह्वानमकरोत् । अथ सिंह-शब्देन सा गुहा प्रतिरव-सम्पूर्णा अन्यानपि दूर-स्थानरण्य-जीवांस्त्रासयामास । शृगालोऽपि पलायमान इमं श्लोकमपठत्-अनागतं यः कुरुते स शोभते इतादि ।
तदेवं मत्वा युष्माभिर्मया सह गन्तव्यमिति । एवमभिधायात्मानुयायि-परिवारानुगतो दूर-देशान्तरं रक्ताक्षो जगाम ।
अथ रक्ताक्षे गते स्थिरजीवतिहृष्ट-मना व्यचिन्तयत्-अहो ! कल्याणमस्माकमुपस्थितम्, यद्रक्तांशो गतः स दीर्घदर्शी एते च मूढ-मनसः । ततो मम सुख-घात्याः सञ्जाताः । उक्तं च यतः-
न दीर्घ-दर्शिनो यस्य मन्त्रिणः स्युर्महीपतेः ।
क्रमायाता ध्रुवं तस्य न चिरात् स्यात् परिक्षयः ॥ ३.२१९॥
अथवा साध्विदमुच्यते-
मन्त्रि-रूपा हि रिपवः सम्भाव्यास्ते विचक्षणैः ।
ये सन्तं नयमुत्सृज्य सेवन्ते प्रतिलोमतः ॥ ३.२२०॥
एवं विचिन्त्य स्व-कुलाय एकैकां वन-काष्ठिकां गुहा-प्रदीपनार्थं दिने दिने प्रक्षिपति । न च ते मूर्खा उलूका विजानन्ति, यदेष कुलायमस्मद्दाहाय वृद्धिं नयति । अथवा साध्विदमुच्यते-
अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च ।
शुभं वेत्तशुभं पापं भद्रं दैव-हतो नरः ॥ ३.२२१॥
अथ कुलाय-व्याजेन दुर्ग-द्वारे कृते काष्ठ-निचये, सञ्जाते सूर्योदये, अन्धतां प्राप्तेषूलूकेषु सत्सु स्थिरजीवी शीघ्रं ऋष्यमूकं गत्वा मेघवर्णमाह-स्वामिन् ! दाह-साध्या कृता रिपु-गुहाः । तत् सपरिवारः समेत्यैकैका वन-काष्ठिकां ज्वलन्ती गृहीत्वा गुहा-द्वारेऽस्मत्-कुलाये प्रक्षिप येन सर्वे शत्रवः कुम्भीपाक-नरक-प्रायेण दुःखेन म्रियन्ते ।
तच्छ्रुत्वा प्रहृष्टो मेघवर्ण आह-तात ! कथयात्म-वृत्तान्तम् । चिरादद्य दृष्टोऽसि ।
स आह-वत्स ! नायं कथनस्य कालः । यतः कदाचित् तस्य रिपो कश्चित् प्रणिधिर्ममेहागमनं निवेदयिष्यति । यज् ज्ञानादन्धोऽन्यत्रापसरणं करिष्यति । तत् त्वर्यताम् । उक्तं च-
शीघ्र-कृत्येषु कार्येषु विलम्बयति यो नरः ।
तत् कृत्यं देवतास्तस्य कोपाद्विघ्नन्तसंशयम् ॥ ३.२२२॥
तथा च-
यस्य यस्य हि कार्यस्य फलितस्य विशेषतः ।
क्षिप्रमक्रियमाणस्य कालः पिबति तत्-फलम् ॥ ३.२२३॥
तद्गुहायामायातस्य ते हत-शत्रोः सर्वं सविस्तरं निर्व्याकुलतया कथयिष्यामि अथासौ तद्वचनमाकर्ण्य सपरिजन एकैकां ज्वलन्तीं वन-काष्ठिकां चञ्च्वग्रेण गृहीत्वा तद्गुहा-द्वारं प्राप्य स्थिरजीवि-कुलाये प्राक्षिपत् । ततः सर्वे ते दिवान्धा रक्ताक्ष-वाक्यानि स्मरन्तो द्वारस्यावृतत्वादनिःसरन्तो गुहा-मध्ये कुम्भीपाक-न्यायमापन्ना मृताश्च । एवं शत्रून् निःशेषतां नीत्वा भूयोऽपि मेघवर्णस्तदेव न्यग्रोध-पादप-दुर्गं जगाम । ततः सिंहासन-स्थो भूत्वा सभा-मध्ये प्रमुदित-मनाः स्थिरजीविनमपृच्छत्-तात ! कथं त्वया शत्रु-मध्ये गतेन एतावत्-पर्यन्तं कालो नीतः ? तदत्र कौतुकमस्माकं वर्तते, तत् कथ्यताम् । यतः-
वर-मग्नौ प्रदीप्ते तु प्रपातः पुण्य-कर्मणाम् ।
न चारिजन-संसर्गो मुहूर्तमपि सेवितः ॥ ३.२२४॥
तदाकर्ण्य स्थिरजीवाह-भद्र ! आगामि-फल-वाञ्छया कष्टमपि सेवको न जानाति । उक्तं च यतः-
कार्यस्यापेक्षया भुक्तं विषमपमृतायते ।
सर्वेषां प्राणिनां यत्र नात्र कार्या विचारणा ॥ ३.२२५॥
उपनत-भये यो यो मार्गो हितार्थ-करो भवेत्- स स निपुणया बुद्ध्या सेव्यो महान् कृपणोऽपि वा ।
करिकर-निभौ ज्याघाता कौ महास्त्र-विशारदौ वलय-रचितौ स्त्रीवद्बाहू कृतौ न किरीटिना ॥ ३.२२६॥
शक्तेनापि सता जनेन विदुषा कालान्तरापेक्षिणा
वस्तव्यं खलु वाक्य-वज्र-विषमे क्षुद्रेऽपि पापे जने ।
दर्वी-व्यग्र-करेण धूम-मलिनेनायास-युक्ते च
भीमेनातिबलेन मत्स्य-भवने किं नोषितं सूदवत् ॥ ३.२२७॥
यद्वा तद्वा विषम-पतितः साधु वा गर्हितं वा
कालापेक्षी हृदय-निहितं बुद्धिमान् कर्म कुर्यात् ।
किं गाण्डीव-स्फुरदुरु-गुणास्फालन-क्रूर-पाणिर्
नासील्लीला-नटन-विलसन् मेखली सव्यसाची ॥ ३.२२८॥
सिद्धिं प्रार्थयता जनेन विदुषा तेजो निगृह्य स्वकं
सत्त्वोत्साहवतापि दैव-विधिषु स्थैर्यं प्रकार्य क्रमात् ।
देवेन्द्र-द्रविणेश्वरान्तक-समैरपन्वितो भ्रातृभिः
किं क्लिष्टः सुचिरं विराट-भवने श्रीमान् न धर्मात्मजः ॥ ३.२२९॥
रूपाभिजन-सम्पन्नो माद्री-पुत्रौ बलान्वितौ ।
गोकर्म-रक्षा-व्यापारे विराट-प्रेष्यतां गतौ ॥ ३.२३०॥
रूपेणाप्रतिमेन यौवन-गुणैः श्रेष्ठे कुले जन्मना
कान्त्या श्रीरिव यात्र सापि विदशां काल-क्रमादागता ।
सैरन्ध्रीति सगर्वितं युवतिभिः साक्षेपमाख्यातया
द्रौपद्या ननु मत्स्य-राज-भवने धृष्टं न किं चन्दनम् ॥ ३.२३१॥
मेघवर्ण आह-तात ! असि-धारा-व्रतमिदं मन्ये यदरिणा सह संवासः ।
सोऽब्रवीत्-देव ! एवमेतत् । परं न तादृङ्-मूर्ख-समागमः क्वापि मया दृष्टः । न च महाप्रज्ञमनेक-शास्त्रेष्वप्रतिम-बुद्धिं रक्ताक्षं विना धीमान् । यत्-कारणं तेन मदीयं यथावस्थितं चित्तं ज्ञातम् । ये पुनरन्ये मन्त्रिणस्ते महा-मूर्खा मन्त्रि-मात्र-व्यपदेशोपजीविनोऽतत्त्व-कुशला, यैरिदमपि न ज्ञातम् । यतः-
अरितोऽभ्यागतो भृत्यो दुष्टस्तत्-सङ्ग-तत्-परः ।
अपसर्प-सधर्मत्वान् नित्योद्वेगी च दूषितः ॥ ३.२३२॥
आसने शयने याने पान-भोजन-वस्तुषु ।
दृष्ट्वान्तरं प्रमत्तेषु प्रहरन्तरयोऽरिषु ॥ ३.२३३॥
तस्मात् सर्व-प्रयत्नेन त्रिवर्ग-निलयं बुधः ।
आत्मानमादृतो रक्षेत् प्रमादाद्धि विनश्यति ॥ ३.२३४॥
साधु चेदमुच्यते-
सन्तापयन्ति कमपथ्य-भुजं न रोगा
दुर्मन्त्रिणं कमुपयान्ति न नीति-दोषाः ।
कं श्रीर्न दर्पयति कं न निहन्ति मृत्युः
कं स्वीकृता न विषया परिपीडयन्ति ॥ ३.२३५॥
लुब्धस्य नश्यति यशः पिशुनस्य मैत्री
नष्ट-क्रियस्य कुल अर्थ-परस्य धर्मः ।
विद्या-फलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्त-सचिवस्य नराधिपस्य ॥ ३.२३६॥
तद्राजन् ! असि-धारा-व्रतं मयाचरितमरितमरि-संसर्गादिति यद्भवतोक्तं, तन् मया साक्षादेवानुभूतम् । उक्तं च-
अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः ।
स्वार्थमभ्युद्धरेत् प्राज्ञः कार्य-ध्वंसो हि मूर्खता ॥ ३.२३७॥
स्कन्धेनापि वहेच्छत्रुं कालमासाद्य बुद्धिमान् ।
महता कृष्ण-सर्पेण मण्डूका बहवो हताः ॥ ३.२३८॥
मेघवर्ण आह-कथमेतत् ?
स्थिरजीवी कथयति-
कथा १६ मन्दविष-सर्प-कथा
(मण्डूकमन्दविषसर्पकथा)
अस्ति वरुणाद्रि-समीप एकस्मिन् प्रदेशे परिणत-वया मन्द-विषो नाम कृष्ण-सर्पः । स एवं चित्ते सञ्चिन्तितवान्-कथं नाम मया सुखोपाय-वृत्त्या वर्तितव्यमिति । ततो बहु-मण्डूकं ह्रदमुपगम्य धृति-परीतमिवात्मानं दर्शितवान् ।
अथ तथा स्थिते सौदक-प्रान्त-गतेनैकेन मण्डूकेन पृष्टः-माम ! किमद्य यथा-पूर्वमाहारार्थं न विहरसि ।
सोऽब्रवीत्-भद्र ! कुतो मे मन्द-भाग्यस्याहाराभिलाषः ? यत् कारणमद्य रात्रौ प्रदोष एव मयाहारार्थं विहरमाणेन दृष्ट एको मण्डूकः । तद्ग्रहणार्थं मया क्रमः सज्जितः । सोऽपि मां दृष्ट्वा मृत्यु-भयेन स्वाध्याय-प्रसक्तानां ब्राह्मणानामन्तरमपक्रान्तो न विभावितो मया क्वापि गतः । तत्-सादृश्य-मोहित-चित्तेन मया कस्यचिद्ब्राह्मणस्य सूनोर्ह्रद-तट-जलान्तः-स्थोऽङ्गुष्ठो दष्टः । ततोऽसौ सपदि पञ्चत्वमुपागतः ।
अथ तस्य पित्रा दुःखितेनाहं शप्तो यथा-दुरात्मन् ! त्वया निरपराधो मत्-सुतो दष्टः । तदनेन दोषेण त्वं मण्डूकानां वाहनं भविष्यसि, तत्-प्रसाद-लब्ध-जीविकया वर्तिष्ये इति । ततोऽहं युष्माकं वाहनार्थमागतोऽस्मि ।
तेन च सर्व-मण्डूकानामिदमावेदितम् । ततस्तैः प्रहृष्ट-मनोभिः सर्वैरेव गत्वा जल-पाद-नाम्नो दर्दुर-राजस्य विज्ञप्तम् । अथासावपि मन्त्रि-परिवृतोऽत्यद्भुतमिदमिति मन्यमानो ससम्भ्रमं ह्रदादुत्तीर्य मन्द-विषस्य फणिनः फणा-प्रदेशमधिरूढः । शेषा अपि यथा-ज्येष्ठं तत्-पृष्ठोपरि समारुरुहुः । किं बहुना, उपरित-स्थानमप्राप्तवन्तस्तस्यानुपदं धावन्ति । मन्दविषोऽपि तेषां तुष्ट्यर्थमनेक-प्रकारान् गति-विशेषानदर्शयत् । अथ जलपादो लब्ध-सुखस्तमाह-
न तथा करिणा यानं तुरगेण रथेन वा ।
नर-यानेन वा यानं यथा मन्दविषेण मे ॥ ३.२३९॥
अथान्येद्युर्मन्द-विषश्छद्मना मन्दं मन्दं विसर्पति । तच्च दृष्ट्वा जलपादोऽब्रवीत्-भद्र ! मन्दविष ! यथा-पूर्वं किमद्य साधु नोह्यते ?
मन्दविषोऽब्रवीत्-देव अद्याहार-वैकल्यान् न मे वोढुं शक्तिरस्ति ।
अथासावब्रवीत्-भद्र ! भक्षय क्षुद्र-मण्डूकान् ।
तच्छ्रुत्वा प्रहर्षित-सर्व-गात्रो मन्दविषः ससम्भ्रममब्रवीत्-ममायमेव विप्र-शापोऽस्ति । तत् तवानेनानुज्ञा-वचनेन प्रीतोऽस्मि ।
ततोऽसौ नैरन्तर्येण मण्डूकान् भक्षयन् कतिपयैरेवाहोभिर्बलवान् संवृत्तः । प्रहृष्टश्चान्तर्लीनमवहस्येदमब्रवीत्-
मण्डूका विविधा हेते छल-पूर्वोपसाधिताः ।
कियन्तं कालमक्षीणा भवेयुः खादिता मम ॥ ३.२४०॥
जल-पादोऽपि मन्दविषेण कृत-कवच-नव्यामोहित-चित्तः किमपि नावबुध्यते । अत्रान्तरेऽन्यो महाकायः कृष्ण-सर्पस्तमुद्देशं समायातः । तं च मण्डूकैर्वाह्यमानं दृष्ट्वा विस्मय-गतम् । आह च-वयस्य ! यदस्माकमशनं तैः कथं वाह्यसे । विरुद्धमेतत् ।
मन्दविषोऽब्रवीत्-
सर्वमेतद्विजानामि यथा वाह्योऽस्मि दर्दुरैः ।
किञ्चित् कालं प्रतीक्षेऽहं घृतान्धो ब्राह्मणो यथा ॥ ३.२४१॥
सोऽब्रवीत्-कथमेतत् ?
मन्दविषः कथयति-
कथा १७ घृतान्ध-ब्राह्मण-कथा
अस्ति कस्मिंश्चिदधिष्ठाने यज्ञदत्तो नाम ब्राह्मणः । तस्य भार्या पुंश्चलन्यासक्त-मना अजस्रं विटायस-खण्ड-घृतान् घृत-पूरान् कृत्वा भर्तुश्चौरिकया प्रयच्छति । अथ कदाचिद्भर्ता दृष्ट्वाब्रवीत्-भद्रे ! किमेतत् परिपच्यते ? कुत्र वाजस्रं नयसीदम् ? तत् कथय सत्यम् ।
सा चोत्पन्न-प्रतिभा कृतक-वचनैर्भर्तारमब्रवीत्-अस्तत्र नातिदूरे भगवत्या देव्या आयतनम् । तत्राहमुपोषिता सती बलिं भक्ष्य-विशेषांश्चापूर्वान् नयामि ।
अथ तत् पश्यता गृहीत्वा तत् सकलं देव्यायतनाभिमुखी प्रतस्थे । यत् कारणं देव्या निवेदितेनानेन मदीयो भर्तैवं मंस्यते यत् मम ब्राह्मणी भगवत्याः कृते नद्यामवतीर्य यावत् स्नानं करोति तावत् तद्भर्तापि मार्गान्तरेणागत्य देव्याः पृष्ठतोऽदृश्योऽवतस्थे ।
अथ सा ब्राह्मणी स्नात्वा देव्यायतनमागत्य स्नानानुलेपन-माल्य-धूप-बलि-क्रियादिकं कृत्वा देवीं प्रणम्य व्यजिज्ञपत्-भगवति ! केन प्रकारेण मम भर्तान्धो भविष्यति ?
तच्छ्रुत्वा स्वर-भेदेन देवी-पृष्ठ-स्थितो ब्राह्मणो जगाद-यदि त्वमजस्रं घृत-पूरादि-भक्ष्यं तस्मै भर्त्रे प्रयच्छसि, ततः शीघ्रमन्धो भविष्यति ।
सा तु बन्धकी कृतक-वचन-वञ्चित-मानसा तस्मै ब्राह्मणाय तदेव नित्यं प्रददौ । अथान्येद्युर्ब्राह्मणेनाभिहितम्-भद्रे, नाहं सुतरां पश्यामि ।
तच्छ्रुत्वा चिन्तितमनया-देव्याः प्रसादोऽयं प्राप्त इति । अथ तस्या हृदय-वल्लभो विटस्तत्-सकाशमन्धीभूतोऽयं ब्राह्मणः किं मम करिष्यतीति निःशङ्कं प्रतिदिनमभ्येति । अथान्येद्युस्तं प्रविशन्तमभ्याश-गतं दृष्ट्वा केशैर्गृहीत्वा लगुड-पार्ष्णि-प्रभृति-प्रहारैस्तावदताडयत् यावदसौ पञ्चत्वमाप । तामपि पुष्ट-पत्नीं विच्छन्न-नासिकां कृत्वा विससर्ज ।
अतोऽहं ब्रवीमि-स्कन्धेनापि वहेच्छत्रुम् (२३८) इतादि ।
अथ राजन् ! यथा मन्दविषेण बुद्धि-बलेन मण्डूका निहतास्तथा मयापि सर्वे वैरिणः । साधु चेदमुच्यते-
वने प्रज्वलितो वह्निर्दहन् मूलानि रक्षति ।
समूलोन्मूलनं कुर्याद्वायुर्यो मृदु-शीतलः ॥ ३.२४२॥
मेघवर्ण आह-तात ! सत्यमेवैतत् । ये महात्मानो भवन्ति ते महा-सत्त्वा आपद्गता अपि प्रारब्धं न त्यजन्ति । उक्तं च यतः-
महत्त्वमेतन् महतां नयालङ्कार-धारिणाम् ।
न मुञ्चन्ति यदारब्धं कृच्छ्रेऽपि व्यसनोदये ॥ ३.२४३॥
तथा च-
प्रारभ्यते न खलु विघ्न-भयेन नीचैः
प्रारभ्य विघ्न-विहता विरमन्ति मध्याः ।
विघ्नैः सहस्र-गुणितैरपि हन्यमानाः
प्रारब्धमुत्तम-गुणा न परित्यजन्ति ॥ ३.२४४॥
तत् कृतं निष्कण्टकं मम राज्यं शत्रून् निःशेषतां नयता त्वया । अथवा युक्तमेतन् नय-वेदिनाम् । उक्तं च यतः-
ऋण-शेषं चाग्नि-शेषं च शत्रु-शेषं तथैव च ।
व्याधि-शेषं च निःशेषं कृत्वा प्राज्ञो न सीदति ॥ ३.२४५॥
सोऽब्रवीत्-देव ! भाग्यवान् त्वमेवासि, यस्यारब्धं सर्वमेव संसिद्ध्यति । तन् न केवलं शौर्यं कृत्यं साधयति, किन्तु प्रज्ञया यत् क्रियते तदेव विजयाय भवति । उक्तं च-
शस्त्रैर्हता न हि हता रिपवो भवन्ति
प्रज्ञा-हतास्तु रिपवः सुहता भवन्ति ।
शस्तं निहन्ति पुरुषस्य शरीरमेकं
प्रज्ञा कुलं च विभवश्च यशश्च हन्ति ॥ ३.२४६॥
तदेवं प्रज्ञा-पुरुषकाराभ्यां युक्तस्यायत्नेन कार्य-सिद्धयः सम्भवन्ति । उक्तं च-
प्रसरति मतिः कार्यारम्भे दृढीभवति स्मृतिः
स्वयमुपनयन्नर्थान् मन्त्रो न गच्छति विप्लवम् ।
स्फुरति सफलस्तर्कश्चित्तं समुन्नतिमश्नुते
भवति च रतिः श्लाघ्ये कृत्ये नरस्य भविष्यतः ॥ ३.२४७॥
तथा च नय-त्याग-शौर्य-सम्पन्ने पुरुषे राज्यमिति । उक्तं च-
त्यागिनि शूरे विदुषि च संसर्ग-रुचिर्जनो गुणी भवति ।
गुणवति धनं धनाच्छ्रीः श्रीमताज्ञा ततो राज्यम् ॥ ३.२४८॥
मेघवर्ण आह-नूनं सद्यः-फलानि नीति-शास्त्राणि यत् त्वयानुकृत्येनानुप्रविश्यारि-मर्दनः सपरिजनो निःशेषितः ।
स्थिरजीवाह-
तीक्ष्णोपाय-प्राप्ति-गम्योऽपि योऽर्थस्
तस्यापादौ संश्रयः साधु युक्तः ।
उत्तुङ्गाग्रः सार-भूतो वनानां
मान्याभ्यर्च्य च्छिद्यते पादपेन्द्रः ॥ ३.२४९॥
अथवा स्वामिन् ! किं तेनाभिहितेन ? यदनन्तर-जाले क्रिया-रहितमसुख-साध्यं वा भवति । साधु चेदमुच्यते-
अनिश्चितैरध्यवसाय-भीरुभिर्
यथेष्ट-संलाप-रति-प्रयोजनैः ।
फले विसंवादमुपागता गिरः
प्रयान्ति लोके परिहास-वस्तुताम् ॥ ३.२५०॥
न च लघुष्वपि कर्तव्येषु धीमद्भिरनादरः कर्तव्यः । यतः-
शक्ष्यामि कर्तुमिदमल्पमयत्न-साध्यं
अनादरः क इति कृत्यमुपेक्षमाणाः ।
केचित् प्रमत्त-मनसः परिताप-दुःखं
आपत्-प्रसङ्ग-सुलभं पुरुषा प्रयान्ति ॥ ३.२५१॥
तदद्य जितारेर्मद्विभोर्यथा-पूर्वं निद्रा-लाभो भविष्यति । उच्यते चैतत्-
निःसर्पे बद्ध-सर्पे वा भवने सुष्यते सुखम् ।
सदा दृष्ट-भुजङ्गे तु निद्रा दुःखेन लभ्यते ॥ ३.२५२॥
तथा च-
विस्तीर्ण-व्यवसाय-साध्य-महतां स्निघ्दोपयुक्ताशिषां
कार्याणां नय-साहसोन्नति-मतामिच्छापदारोहिणाम् ।
मानोत्सेक-पराक्रम-व्यसनिनः पारं न यावद्गताः
सामर्षे हृदयेऽवकाश-विषया तावत् कथं निर्वृतिः ॥ ३.२५३॥
तदवसित-कार्यारम्भस्य विश्राम्यतीव मे हृदयम् । तदिदमधुना निहत-कण्टकं राज्यं प्रजा-पालन-तत्परो भूत्वा पुत्र-पौत्रादि-क्रमेणाचल-च्छत्रासन-श्रीः चिरं भुङ्क्ष्व । अपि च-
प्रजा न रञ्जयेद्यस्तु राजा रक्षादिभिर्गुणैः ।
अजागल-स्तनस्येव तस्य राज्यं निरर्थकम् ॥ ३.२५४॥
गुणेषु रागो व्यसनेष्वनादरो
रतिः सुभृत्येषु च यस्य भूपतेः ।
चिरं स भुङ्क्ते चल-चामरांशुकां
सितातपत्राभरणां नृप-श्रियम् ॥ ३.२५५॥
न च त्वया प्राप्त-राज्योऽहमिति मत्वा श्री-मदेनात्मा व्यसयितव्यः । यत् कारणम्-चला हि राज्ञो विभूतयः वंशारोहणवद्राज्य-लक्ष्मी-दुरारोहा, क्षण-विनिपात-रता, प्रयत्न-शतैरपि धार्यमाणा दुर्धरा, प्रशस्ताराधितापन्ते विप्रलम्भिनी, वानर-जातिरिव विद्रुतानेक-चित्ता, पद्म-पत्रमिवाघटित-संश्लेषा, पवन-गतिरिवातिचपला, अनार्य-सङ्गतिरिवास्थिरा, आशीविष इव दुरुपचारा, सन्ध्याभ्र-लेखेव मुहूर्त-रागा, जल-बुद्बुदावलीव स्वभाव-भङ्गुरा, शरीर-प्रकृतिरिव कृतघ्ना, स्वप्न-लब्ध-द्रव्य-राशिरिव क्षण-दृष्ट-नष्टा । अपि च-
यदैव राज्ये क्रियतेऽभिषेकस्
तदैव बुद्धिर्व्यसनेषु योज्या ।
घटा हि राज्ञामभिषेक-काले
सहाम्भसैवापदमुद्गिरन्ति ॥ ३.२५६॥
न च कश्चिदनधिगमनीयो नामास्तापदाम् । उक्तं च-
रामस्य व्रजनं वने निवसनं पाण्डोः सुतानां वने
वृष्णीनां निधनं नलस्य नृपते राज्यात् परिभ्रंशनम् ।
नाट्याचार्यकमर्जुनस्य पतनं सञ्चिन्त्य लङ्केश्वरे
सर्वे काल-वशाज् जनोऽत्र सहते कः कं परित्रायते ॥ ३.२५७॥
क्व स दशरथः स्वर्गे भूत्वा महेन्द्र-सुहृद्गतः
क्व स जलनिधेर्वेलां बद्ध्वा नृपः सगरस्तथा ।
क्व स करतलाज् जातो वैन्यः क्व सूर्य-तनुर्मनुः
ननु बलवता कालेनैते प्रबोध्य निमीलिताः ॥ ३.२५८॥
मान्धाता क्व गतस्त्रिलोक-विजयी राजा क्व सत्यव्रतः
देवानां नृपतिर्गतः क्व नहुषः सच्छास्त्रवान् केशवः ।
मन्यन्ते सरथाः सकुञ्जर-वराः शक्रासनाध्यासिनः
कालेनैव महात्मना त्वनुकृताः कालेन निर्वासिताः ॥ ३.२५९॥
अपि च-
स च नृपतिस्ते सचिवास्ताः प्रमदास्तानि कानन-वनानि ।
स च ते च ताश्च तानि च कृतान्त-दृष्टानि नष्टानि ॥ ३.२६०॥
एवं मत्त-करि-कर्ण-चञ्चलां राज्य-लक्ष्मीमवाप्य न्यायैक-निष्ठो भूत्वोपभुङ्क्ष्व ।
इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे काकोलूकीयं नाम तृतीयं तन्त्रं समाप्तम् ॥३॥
४. लब्ध-प्रणाशम्
चतुर्थ-तन्त्रम्
अथ लब्ध-प्रणाशम्
अथेदमारभते लब्ध-प्रणाशं नाम चतुर्थं तन्त्रम् । यस्यायमादिमः श्लोकः-
समुत्पन्नेषु कार्येषु बुद्धिर्यस्य न हीयते ।
स एव दुर्गं तरति जलस्थो वानरो यथा ॥ ४.१॥
तद्यथानुश्रूयते- प्रस्तावना-कथा वानर-मकर-वृत्तान्तः
अस्ति कस्मिंश्चित् समुद्रोपकण्ठे महान् जम्बू-पादपः सदा-फलः । तत्र च रक्तमुखो नाम वानरः प्रतिवसति स्म । तत्र च तस्य तरोरधः कदाचित् करालमुखो नाम मकरः समुद्र-सलिलान् निष्क्रम्य सुकोमल-बालुका-सनाथे तीरोपान्ते न्यविशत । ततश्च रक्तमुखेन स प्रोक्तः-भोः ! भवान् समभ्यागतोऽतिथिः । तद्भक्षयतु मया दत्तानमृत-तुल्यानि जम्बू-फलानि । उक्तं च-
प्रियो वा यदि वा द्वेष्यो मूर्खो वा यदि पण्डितः ।
वैश्वदेवान्तमापन्नः सोऽतिथिः स्वर्ग-सङ्क्रमः ॥ ४.२॥
न पृच्छेच्चरणं गोत्रं न च विद्यां कुलं न च ।
अतिथिं वैश्वदेवान्ते श्राद्धे च मनुरब्रवीत् ॥ ४.३॥
दूर-मार्ग-श्रम-श्रान्तं वैश्वदेवान्तमागतम् ।
अतिथिं पूजयेद्यस्तु स याति परमां गतिम् ॥ ४.४॥
अपूजितोऽतिथिर्यस्य गृहाद्याति विनिःश्वसन् ।
गच्छन्ति पितरस्तस्य विमुखाः सह दैवतैः ॥ ४.५॥
एवमुक्त्वा तस्मै जम्बू-फलानि ददौ । सोऽपि तानि भक्षयित्वा तेन सह चिरं गोष्ठी-सुखमनुभूय भूयोऽपि स्व-भवनमगात् । एवं नित्यमेव तौ वानर-मकरौ जम्बू-च्छाया-स्थितौ विविध-शास्त्र-गोष्ठ्या कालं नयन्तौ सुखेन तिष्ठतः । सोऽपि मकरो भक्षित-शेषाणि जम्बू-फलानि गृहं गत्वा स्व-पत्न्यै प्रयच्छति । अथान्यतमे दिवसे तया स पृष्टः-नाथ ! क्वैवंविधानमृत-फलानि प्राप्नोषि ?
स आह-भद्रे ! ममास्ति परम-सुहृद्रक्तमुखो नाम वानरः । स प्रीति-पूर्वकमिमानि फलानि प्रयच्छति ।
अथ तयाभिहितम्-यः सर्वदैवामृत-प्रायाणीदृशानि फलानि भक्षयति, तस्य हृदयममृत-मयं भविष्यति । तद्यदि भार्यया ते प्रयोजनं, ततस्तस्य हृदयं मह्यं प्रयच्छ । येन तद्भक्षयित्वा जरा-मरण-रहिता त्वया सह भोगान् भुनज्मि ।
स आह-भद्रे ! मा मैवं वद । यतः स प्रतिपन्नोऽस्माकं भ्राता । अपरं फल-दाता । ततो व्यापादयितुं न शक्यते । तत् त्यजैनं मिथाग्रहणम् । उक्तं च-
एकं प्रसूयते माता द्वितीयं वाक् प्रसूयते ।
वाग्-जातमधिकं प्रोचुः सोदर्यादपि बान्धवात् ॥ ४.६॥
अथ मकराह-त्वया कदाचिदपि मम वचनं नान्यथा कृतम् । तन् नूनं सा वानरी भविष्यति, यतस्तस्या अनुरागतः सकलमपि दिनं तत्र गमयसि । तत् त्वं ज्ञातो मया सम्यक् । यतः-
साह्लादं वचनं प्रयच्छति न मे नो वाञ्छितं किञ्चन
प्रायः प्रोच्छ्वसिषि द्रुतं हुतवह-ज्वाला समं रात्रिषु ।
कण्ठाश्लेष-परिग्रहे शिथिलता यन् नादराच्चुम्बसे
तत् ते धूर्त हृदि स्थिता प्रियतमा काचिन् ममेवापरा ॥ ४.७॥
सोऽपि पत्न्याः पादोपसङ्ग्रहं कृत्वाङ्कोपरि निधाय तस्याः कोप-कोटिमापन्नायाः सुदीनमुवाच-
मयि ते पाद-पतिते किङ्करत्वमुपागते ।
त्वं प्राण-वल्लभे कस्मात् कोपने कोपमेष्यसि ॥ ४.८॥
सापि तद्वचनमाकर्ण्याश्रु-प्लुत-मुखी तमुवाच-
सार्धं मनोरथ-शतैस्तव धूर्त कान्ता
सैव स्थिता मनसि कृत्रिम-भाव-रम्या ।
अस्माकमस्ति न कथञ्चिदिहावकाशं
तस्मात् कृतं चरण-पात-विडम्बनाभिः ॥ ४.९॥
अपरं सा यदि तव वल्लभा न भवति, तत् किं मया भणितोऽपि तां न व्यापादयसि । अथ यदि स वानरस्तत् कस्तेन सह तव स्नेहः ? तत् किं बहुना ? यदि तस्य हृदयं न भक्षयामि, तन् मया प्रायोपवेशनं कृतं विद्धि ।
एवं तस्यास्तन् निश्चयं ज्ञात्वा चिन्ता-व्याकुलित-हृदयः स प्रोवाच-अथवा साध्विदमुच्यते-
वज्र-लेपस्य मूर्खस्य नारीणां कर्कटस्य च ।
एको ग्रहस्तु मीनानां नीली-मद्य-पयोस्तथा ॥ ४.१०॥
तत् किं करोमि ? कथं स मे वध्यो भवति । इति विचिन्त्य वानर-पार्श्वमगमत् । वानरोऽपि चिरादायान्तं तं सोद्वेगमवलोक्य प्रोवाच-भो मित्र ! किमद्य चिर-वेलायां समायातोऽसि ? कस्मात् साह्लादं नालपसि ? न सुभाषितानि पठसि ।
स आह-मित्र ! अहं तव भ्रातृ-जायया निष्ठुरतरैर्वाक्यैरभिहितः-भोः कृतघ्न ! मा मे त्वं स्वमुखं दर्शय, यतस्त्वं प्रतिदिनं मित्रमुपजीवसि । न च तस्य पुनः प्रत्युपकारं गृह-दर्शन-मात्रेणापि करोषि । तत् ते प्रायश्चित्तमपि नास्ति । उक्तं च-
ब्रह्मघ्ने च सुरापे च चौरे भग्न-व्रते शठे ।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ ४.११॥
तत् त्वं मम देवरं गृहीत्वाद्य प्रत्युपकारार्थं गृहमानय । नो चेत् त्वया सह मे पर-लोके दर्शनमिति । तदहं तयैवं प्रोक्तस्तव सकाशमागतः । तदद्य तया सह त्वदर्थे कलहायतो ममेयती वेला विलग्ना । तदागच्छ मे गृहम् । तव भ्रातृ-पत्नी रचित-चतुष्का प्रगुणित-वस्त्र-मणि-माणिक्याद्युचिताभरणा द्वार-देश-बद्ध-वन्दन-माला सोत्कण्ठा तिष्ठति । मर्कट आह-भो मित्र ! युक्तमभिहितं मद्भ्रातृ-पत्न्या । उक्तं च-
वर्जयेत् कौलिकाकारं मित्रं प्राज्ञतरो नरः ।
आत्मनः सम्मुखं नित्यं य आकर्षति लोलुपः ॥ ४.१२॥
तथा च-
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति ।
भुङ्क्ते भोजयते चैव षड्-विधं प्रीति-लक्षणम् ॥ ४.१३॥
परं वयं वनचराः युष्मदीयं च जलान्ते गृहम् । तत् कथं शक्यते तत्र गन्तुम् । तस्मात् तामपि मे भ्रातृ-पत्नीमत्रानय येन प्रणम्य तस्या आशीर्वादं गृह्णामि ।
स आह-भो मित्र ! अस्ति समुद्रान्तरे सुरम्ये पुलिन-प्रदेशेऽस्मद्गृहमेॅ तन् मम पृष्ठमारूधः सुखेनाकृत-भयो गच्छ ।
सोऽपि तच्छ्रुत्वा सानन्दमाह-भद्र ! यदेवं तत् किं विलम्ब्यते । त्वर्यताम् । एषोऽहं तव पृष्ठामारूढः ।
तथानुष्ठितेऽगाधे जलधौ गच्छन्तं मरकमालोक्य भय-त्रस्त-मना वानरः प्रोवाच-भ्रातः ! शनैः शनैर्गम्यताम् । जल-कल्लोलैः प्लाव्यते मे शरीरम् ।
तदाकर्ण्य मकरश्चिन्तयामास-असावगाधं जलं प्राप्तो मे वशः सञ्जातः । मत्-पृष्ठ-गतस्तिल-मात्रमपि चलितुं न शक्नोति । तस्मात् कथयामस्य निजाभिप्रायम्, येनाभीष्ट-देवता-स्मरणं करोति । आह च-मित्र, त्वं मया वधाय समानीतो भार्या-वाक्येन विश्वास्य । तत् स्मर्यतामभीष्ट-देवता ।
स आह-भ्रातः ! किं मया तस्यास्तवापि चापकृतं येन मे वधोपायश्चिन्तितः ?
मकर आह-भोः ! तस्यास्तावत् तव हृदयस्यामृतमय-फल-रसास्वादन-मृष्टस्य भक्षणे दोहदः सञ्जातः । तेनैतदनुष्ठितम् ।
प्रत्युत्पन्न-मतिर्वानर आह-भद्र ! यदेवं तत् किं त्वया मम तत्रैव न व्याहृतम् ? येन स्व-हृदयं जम्बू-कोटरे सदैव मया सुगुप्तं कृतम् । तद्भ्रातृ-पत्न्या अर्पयामि । त्वयाहं शून्य-हृदयोऽत्र कस्मादानीतः ?
तदाकर्ण्य मकरः सानन्दमाह-भद्र ! यदेवं तदर्पय मे हृदयम् । येन सा दुष्ट-पत्नी तद्भक्षयित्वानशनादुत्थिष्ठति । अहं त्वां तमेव जम्बू-पादपं प्रापयामि । एवमुक्त्वा निवर्त्य जम्बू-तलमगात् । वानरोऽपि कथमपि जल्पित-विविध-देवतोपचार-पूजस्तीरमासादितवान् । ततश्च दीर्घतर-चङ्क्रमणेन तमेव जम्बू-पादपमारूढश्चिन्तयामास-अहो ! लब्धास्तावत् प्राणाः । अथवा साध्विदमुच्यते-
न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् ।
विश्वासाद्भयमुत्पन्नं मूलानपि निकृन्तति ॥ ४.१४॥
तन् ममैतदद्य पुनर्जन्म-दिनमिव सञ्जातम् ।
इति चिन्तयमानं मकर आह-भो मित्र ! अर्पय तद्धृदयं यथा ते भ्रातृ-पत्नी भक्षयित्वानशनादुत्तिष्ठति ।
अथ विहस्य निर्भर्त्सयन् वानरस्तमाह-धिग्धिङ्मूर्ख विश्वास-घातक ! किं कस्यचिद्धृदय-द्वयं भवति ? तदाशु गम्यतां जम्बू-वृक्षस्याधस्तान् न भूयोऽपि त्वयात्रागन्तव्यम् । उक्तं च यतः-
सकृद्दुष्टं च यो मित्रं पुनः सन्धातुमिच्छति ।
स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥ ४.१५॥
तच्छ्रुत्वा मकरः संविलक्षं चिन्तितवान्-अहो ! मयातिमूढेन किमस्य स्व-चित्ताभिप्रायो निवेदितः । तद्यदसौ पुनरपि कथञ्चिद्विश्वासं गच्छति, तद्भूयोऽपि विश्वासयामि । आह च-मित्र ! हास्येन मया तेऽभिप्रायो लब्धः । तस्या न किञ्चित् तव हृदयेन प्रयोजनम् । तदागच्छ प्राघुणिक-न्यायेनास्मद्गृहम् ।
वानर आह-भो दुष्ट ! गम्यताम् । अधुना नाहमागमिष्यामि । उक्तं च-
बुभुक्षितः किं न करोति पापं
क्षीणा जना निष्करुणा भवन्ति ।
आख्याहि भद्रे प्रिय-दर्शनस्य
न गङ्गदत्तः पुनरेति कूपम् ॥ ४.१६॥
मकर आह-कथमेतत् ?
स आह-
कथा १ गङ्गदत्त-प्रियदर्शन-कथा
कस्मिंश्चित् कूपे गङ्गदत्तो नाम मण्डूक-राजः प्रतिवसति स्म । स कदाचिद्दायादैरुद्वेजितोऽरघट्ट-घटीमारुह्य निष्क्रान्तः । अथ तेन चिन्तितम्-यत् कथं तेसां दायादानां मया प्रत्यपकारः कर्तव्यः । उक्तं च-
आपदि येनापकृतं येन च हसितं दशासु विषमासु ।
अपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥ ४.१७॥
एवं चिन्तयन् बिले प्रविशन्तं कृष्णसर्पमपश्यत् । तं दृष्ट्वा भूयोऽपचिन्तयत्-यदेनं तत्र कूपे नीत्वा सकल-दायादानामुच्छेदं करोमि । उक्तं च-
शत्रुभिर्योजयेच्छत्रुं बलिना बलवत्तरम् ।
स्व-कार्याय यतो न स्यात् काचित् पीडात्र तत्-क्षये ॥ ४.१८॥
तथा च-
शत्रुमुन्मूलयेत् प्राज्ञस्तीक्ष्णं तीक्ष्णेन शत्रुणा ।
व्यथा-करं सुखार्थाय कण्टकेनैव कण्टकम् ॥ ४.१९॥
एवं स विभाव्य बिल-द्वारं गत्वा तमाहूतवान्-एहेहि प्रिय-दर्शन ! एहि !
तच्छ्रुत्वा सर्पश्चिन्तयामास-य एवं मामाह्वयति । स्वजातीयो न भवति । यतो नैषा सर्प-वाणी । अन्येन केनापि सह मम मर्त्य-लोके सन्धानं नास्ति । तदत्रैव दुर्गे स्थितस्तावद्वेद्मि कोऽयं भविष्यति । उक्तं च-
यस्य न जायते शीलं न कुलं न च संश्रयः ।
न तेन सङ्गतिं कुर्यादितुवाच बृहस्पतिः ॥ ४.२०॥
कदाचित्कोऽपि मन्त्रवादौषध-चतुरो वा मामाहूय बन्धने क्षिपति । अथवा कश्चित् पुरुषो वैरमाश्रित्य कस्यचिद्भक्षणार्थे मामाह्वयति । आह च-भोः ! को भवान् ?
स आह-अहं गङ्गदत्तो नाम मण्डूकाधिपतिस्त्वत्-सकाशे मैत्र्यर्थमभ्यागतः ।
तच्छ्रुत्वा सर्प आह-भो ! अश्रद्धेयमेतत् यत्-तृणानां वह्निना सह सङ्गमः । उक्तं च-
यो यस्य जायते वध्यः स स्वप्नेऽपि कथञ्चन ।
न तत्-समीपमभ्येति तत् किमेवं प्रजल्पसि ॥ ४.२१॥
गङ्गदत्त आह-भोः ! सत्यमेतत् । स्वभाव-वैरी त्वमस्माकम् । परं पर-परिभवात् प्राप्तोऽहं ते सकाशम् । उक्तं च-
सर्व-नाशे च सञ्जाते प्राणानामपि संशये ।
अपि शत्रुं प्रणम्यापि रक्षेत् प्राणान्धनानि च ॥ ४.२२॥
सर्प आह-कथय कस्मात् ते परिभवः ।
स आह-दायादेभ्यः ।
सोऽपाह-क्व ते आश्रयो वाप्यां कूपे तडागे ह्रदे वा । तत् कथय स्वाश्रयम् ।
तेनोक्तम्-पाषाण-चय-निबद्धे कूपे ।
सर्प आह-अहो अपदा वयम् । तत्रास्ति तत्र मे प्रवेशः । प्रविष्टस्य च स्थानं नास्ति । यत्र स्थितस्तव दायादान् व्यापादयामि । तद्गम्यताम् । उक्तं च-
यच्छक्यं ग्रसितुं यस्य ग्रस्तं परिणमेच्च यत् ।
हितं च परिणामे यत् तदाद्यं भूतिमिच्छता ॥ ४.२३॥
गङ्गदत्त आह-भोः ! समागच्छ त्वम् । अहं सुखोपायेन तत्र तव प्रवेशं कारयिष्यामि । तथा तस्य मध्ये जलोपान्ते रम्यतरं कोटरमस्ति । तत्र स्थितस्त्वं लीलया दायादान् व्यापादयिष्यसि ।
तच्छ्रुत्वा सर्पो व्यचिन्तयत्-अहं तावत् परिणत-वयाः । कदाचित् कथञ्चिन् मूषकमेकं प्राप्नोमि । तत् सुखावहो जीवनोपायोऽयमनेन कुलाङ्गारेण दर्शितः । तद्गत्वा तान् मण्डूकान् भक्षयामि इति । अथवा साध्विदमुच्यते-
यो हि प्राण-परिक्षीणः सहाय-परिवर्जितः ।
स हि सर्व-सुखोपायां वृत्तिमारचयेद्बुधः ॥ ४.२४॥
एवं विचिन्त्य तमाह-भो गङ्गदत्त ! यदेवं तदग्रे भव । येन तत्र गच्छावः । गङ्गदत्त आह-भोः प्रियदर्शन ! अहं त्वां सुखोपायेन तत्र नेष्यामि, स्थानं च दर्शयिष्यामि त एव भक्षणीयाः इति ।
सर्प आह-साम्प्रतं त्वं मे मित्रं जातम् । तन् न भेतव्यम् । तव वचनेन भक्षण्यास्ते दायादाः ।
एवमुक्त्वा बिलान् निष्क्रम्य तमालिङ्ग्य च तेनैव सह प्रस्थितः । अथ कूपमासाद्यार-घट्ट-घटिका-मार्गेण सर्पस्तेनात्मना स्वालयं नीतः ।
गङ्गदत्त आह-भद्र ! कुतः त्वया मित्र-कृत्यम् । तत् साम्प्रतमनेनैव घटिका-यन्त्र-मार्गेण गम्यतामिति ।
सर्प आह-भो गङ्गदत्त ! न सम्यगभिहितं त्वया । कथमहं तत्र गच्छामि ? मदीय-बिल-दुर्गमन्येन रुद्धं भविष्यति । तस्मादत्र-स्थस्य मे मण्डूकमेकैकं स्व-वर्गीयं प्रयच्छ । नो चेत् सर्वानपि भक्षयिष्यामि इति ।
तच्छ्रुत्वा गङ्गदत्तो व्याकुल-मना व्याचिन्तयत्-अहो किमेतन् मया कृतं सर्पमानयता । तद्यदि निषेधयिष्यामि तत् सर्वानपि भक्षयिष्यति । अथवा युक्तमुच्यते-
योऽमित्रं कुरुते मित्रं वीर्याभ्यधिकमात्मनः ।
स करोति न सन्देहः स्वयं हि विष-भक्षणम् ॥ ४.२५॥
तत् प्रयच्छामस्यैकैकं प्रतिदिनं सुहृदम् । उक्तं च-
सर्वस्व-हरणे युक्तं शत्रुं बुद्धि-युता नराः ।
तोषयन्तल्प-दानेन बाडवं सागरो यथा ॥ ४.२६॥
तथा च-
यो दुर्बलोऽणूनपि याच्यमानो
बलीयसा यच्छति नैव साम्ना ।
प्रयच्छते नैव च दर्श्यमानं
खारीं स चूर्णस्य पुनर्ददाति ॥ ४.२७॥
तथा च-
सर्व-नाशे समुत्पन्ने अर्धं त्यजति पण्डितः ।
अर्धेन कुरुते कार्यं सर्व-नाशो हि दुस्तरः ॥ ४.२८॥
न स्वल्पस्य कृते भूरि नाशयेन् मतिमान् नरः ।
एतदेव हि पाण्डित्यं यत् स्वल्पाद्भूरि-रक्षणम् ॥ ४.२९॥
एवं निश्चिन्त्य नित्यमेकैकमादिशति । सोऽपि तं भक्षयित्वा तस्य परोक्षेऽन्यानपि भक्षयति । अथवा साध्विदमुच्यते-
यथा हि मलिनैर्वस्त्रैर्यत्र तत्रोपविश्यते ।
एवं चलित-वित्तस्तु वित्त-शेषं न रक्षति ॥ ४.३०॥
अथान्य-दिने तेनापरान् मण्डूकान् भक्षयित्वा गङ्गदत्त-सुतो यमुनादत्तो भक्षितः । तं भक्षितं मत्वा गङ्गदत्तस्तार-स्वरेण धिग्धिक् प्रलाप-परः कथञ्चिदपि न विरराम । ततः स्व-पत्न्याभिहितः-
किं क्रन्दसि दुराक्रन्द स्व-पक्ष-क्षय-कारक ।
स्व-पक्षस्य क्षये जाते को नस्त्राता भविष्यति ॥ ४.३१॥
तदद्यापि विचिन्त्यतामात्मनो निष्क्रमणमस्य वधोपायश्च । अथ गच्छता कालेन सकलमपि कवलितं मण्डूक-कुलम् । केवलमेको गङ्गदत्तस्तिष्ठति । ततः प्रियदर्शनेन भणितम्-भोः गङ्गदत्त ! बुभुक्षितोऽहम् । निःशेषिताः सर्वे मण्डूकाः । तद्दीयतां मे किञ्चिद्भोजनं यतोऽहं त्वयात्रानीतः ।
स आह-भो मित्र ! न त्वयात्र विषये मयावस्थितेन कापि चिन्ता कार्या । तद्यदि मां प्रेषयति ततोऽन्य-कूप-स्थानपि मण्डूकान् विश्वास्यात्रानयामि ।
स आह-मम तावत् त्वमभक्ष्यो भ्रातृ-स्थाने । तद्यदेवं करोषि तत् साम्प्रतं पितृ-स्थाने भवसि । तदेवं क्रियतामिति ।
सोऽपि तदाकर्ण्यार-घट्ट-घटिकामाश्रित्य विविध-देवतोपकल्पित-पूजोपयाचितस्तत्-कूपाद्विनिष्क्रान्तः । प्रियदर्शनोऽपि तदाकाङ्क्षया तत्रस्थः प्रतीक्षमाणस्तिष्ठति । अथ चिरादनागते गङ्गदत्ते प्रियदर्शनोऽन्य-कोटर-निवासिनीं गोधामुवाच-भद्रे ! क्रियतां स्तोकं साहाय्यम् । यतश्चिर-परिचितस्ते गङ्गदत्तः । तद्गत्वा तत्-सकाशं कुत्रचिज् जलाशयेऽन्विष्य मम सन्देशं कथय । येनागम्यतामेकाकिनापि भवता द्रुततरं यदन्ये मण्डूका नागच्छन्ति । अहं त्वया विना नात्र वस्तुं शक्नोमि । तथा यदहं तव विरुद्धमाचरामि तत् सुकृतमन्तरे मया विधृतम् ।
गोधापि तद्वचनाद्गङ्गदत्तं द्रुततरमन्विष्याह-भद्र गङ्गदत्त ! स तव सुहृत्-प्रियदर्शनस्तव मार्गं समीक्षमाणस्तिष्ठति । तच्छीघ्रमागम्यतामिति ।
अपरं च तेन तव विरूप-करणे सुकृतमन्तरे धृतम् । तन्-निःशङेन मनसा समागम्यताम् । तदाकर्ण्य गङ्गदत्त आह-
बुभुक्षितः किं न करोति पापं
क्षीणा नरा निष्करुणा भवन्ति ।
आख्याहि भद्रे प्रिय-दर्शनस्य
न गङ्गदत्तः पुनरेति कूपम् ॥ ४.३२॥
एवमुक्त्वा स तां विसर्जयामास ।
तद्भो दुष्ट-जलचर ! अहमपि गङ्गदत्त इव त्वद्गृहे न कथञ्चिदपि यास्यामि ।
तच्छ्रुत्वा मकर आह-भो मित्र ! अथवात्राहमनशनात् प्राण-त्यागं तवोपरि करिष्यामि ।
वानर आह-मूढ ! किमहं लम्बकर्णो मूर्खः ? दृष्ट्वापायोऽपि स्वयमेव तत्र गत्वात्मानं व्यापादयामि ।
आगतश्च गतश्चैव गत्वा यः पुनरागतः ।
अकर्ण-हृदयो मूर्खस्तत्रैव निधनं गतः ॥ ४.३३॥
मकर आह-भद्र ! स को लम्भ-कर्णः । कथं दृष्टापायोऽपि मृतः ? तन् मे निवेद्यताम् । वानर आह-
कथा २ कराल-केसर-कथा
कस्मिंश्चिद्वनोद्देशे कराल-केसरो नाम सिंहः प्रतिवसति स्म । तस्य च धूसरको नाम शृगालः सदैवानुयायी परिचारकोऽस्ति । अथ कदाचित् तस्य हस्तिना सह युध्यमानस्य शरीरे गुरुतराः प्रहाराः सञ्जाताः । यैः पदमेकमपि चलितुं न शक्नोति । तस्याचलनाच्च धूसरकः क्षुत्क्षाम-कण्ठो दौर्बल्यं गतः । अन्यस्मिन्नहनि तमवोचत्-स्वामिन् ! बुभुक्षय पीडितोऽहम् । पदात् पदमपि चलितुं न शक्नोमि । तत् कथं ते शुश्रूषां करोमि ?
सिंह आह-भोः ! गच्छ अन्वेषय किञ्चित् सत्त्वम् । येनेमामवस्थां गतोऽपि व्यापादयामि ।
तदाकर्ण्य शृगालोऽन्वेषयन् कञ्चित् समीप-वर्तिनं ग्राममासादितवान् । तत्र लम्बकर्णो नाम गर्दभस्तडागोपान्ते प्रविरल-दूर्वाङ्कुरान् कृच्छ्रादास्वादयन् दृष्टः । ततश्च समीप-वर्तिना भूत्वा तेनाभिहितः-माम ! नमस्कारोऽयं मदीयः सम्भाव्यताम् । चिराद्दृष्टोऽसि । तत् कथय किमेवं दुर्बलतां गतः ।
स आह-भो भगिनी-पुत्र ! किं कथयामि । रजकोऽतिनिर्दयातिभारेण मां पीडयति । घास-मुष्टिमपि न प्रयच्छति । केवलं दूर्वाङ्कुरान् धूइ-मिश्रितान् भक्षयामि । तत् कुतो मे शरीरे पुष्टिः ?
शृगाल आह-माम ! यदेवं तदस्ति मरकत-सदृश-शष्प-प्रायो नदी-सनाथो रमणीयतरः प्रदेशः । तत्रागत्य मया सह सुभाषित-गोष्ठी-सुखमनुभवंस्तिष्ठ ।
लम्बकर्ण आह-भो भगिनी-सुत ! युक्तमुक्तं भवता । परं वयं ग्राम्याः पशवोऽरण्य-चारिणां वध्याः । तत् किं तेन भव्य-प्रदेशेन ।
शृगाल आह- माम ! मैवं वद । मद्भुज-पञ्जर-परिरक्षितः स देशः । तत्रास्ति न कश्चिदपरस्य तत्र प्रवेशः । परममनेनैव दोषेण रजक-कदर्थितास्तत्र तिस्रो रासभ्योऽनाथाः सन्ति । ताश्च पुष्टिमापन्ना यौवनोत्कटा इदं मामूचुः-यदि त्वमस्माकं सत्यो मातुलस्तदा कञ्चिद्ग्रामान्तरं गत्वास्मद्योग्यं कश्चित् पतिमानय । तदर्थे त्वामहं तत्र नयामि ।
अथ शृगाल-वचनानि श्रुत्वा काम-पीडिताङ्गस्तमवोचत्-भद्र ! यदेवं तदग्रे भव येनागच्छामि । अथवा साध्विदमुच्यते-
नामृतं न विषं किञ्चिदेकां मुक्त्वा नितम्बिनीम् ।
यस्याः सङ्गेन जीव्येत म्रियते च वियोगतः ॥ ४.३४॥
तथा च-
यासां नाम्नापि कामः स्यात् सङ्गमं दर्शनं विना ।
तासां दृक्-सङ्गमं प्राप्य यन् न द्रवति कौतुकम् ॥ ४.३५॥
तत्रानुष्ठिते शृगालेन सह सिंहान्तिकमागतः । सिंहोऽपि व्यथाकुलितस्तं दृष्ट्वा यावत् समुत्तिष्ठति तावद्रासभः पलायितुमारब्धवान् । अथ तस्य पलायमानस्य सिंहेन तल-प्रहारो दत्तः । स च मन्द-भाग्यस्य व्यवसाय इव व्यर्थतां गतः । अत्रान्तरे शृगालः कोपाविष्टस्तमुवाच-भोः ! किमेवंविधः प्रहारस्ते । यद्गर्दभोऽपि तव पुरतो बलाद्गच्छति । तत् कथं गजेन सह युद्धं करिष्यसि ? तद्दृष्टं ते बलम् ।
अथ सविलक्ष-स्मितं सिंह आह-भोः ! किमहं करोमि । मया न क्रमः सज्जीकृत आसीत् । अन्यथा गजोऽपि मत्-क्रमाक्रान्ता न गच्छति ।
शृगाल आह-अद्यापेक-वारं तवान्तिके तमानेष्यामि । परं त्वया सज्जीकृत-क्रमेण स्थातव्यम् ।
सिंह आह-भद्र ! यो मां प्रत्यक्षं दृष्ट्वा गतः स पुनः कथमत्रागमिष्यति ? तदन्यत् किमपि सत्त्वमन्विष्यताम् ।
शृगाल आह-किं तवानेन व्यापारेण ? त्वं केवलं सज्जित-क्रमस्तिष्ठ ।
तथानुष्ठिते शृगालोऽपि यावद्रासभ-मार्गेण गच्छति, तावत् तत्रैव स्थाने चरन् दृष्टः । अथ शृगालं दृष्ट्वा रासभः प्राह-भो भगिनी-सुत ! शोभन-स्थाने त्वयाहं नीतः । द्राङ्मृत्यु-वशं गतः । तत् कथय किं तत् सत्त्वं यस्यातिरौद्र-वज्र-सदृश-कर-प्रहारादहं मुक्तः ।
तच्छ्रुत्वा प्रहसन् शृगाल आह-भद्र ! रासभी त्वामायान्तं दृष्ट्वा सानुरागमालिङ्गितुं समुत्थिता । त्वं च कातरत्वान् नष्टः । सा पुनर्न शक्ता त्वां विना स्थातुम् । तया तु नशतस्तेऽवलम्बनार्थं हस्तः क्षिप्तः । नान्य-कारणेन । तदागच्छ । सा त्वत्-कृते प्रायोपवेशनोपविष्टा तिष्ठति । एतद्वदति-यल्लम्बकर्णो यदि मे भर्ता न भवति तदहमग्नौ जलं वा प्रविशामि । पुनस्तस्य वियोगं सोढुं न शक्नोमि इति । तत् प्रसादं कृत्वा तत्रागम्यताम् । नो चेत् तव स्त्री-हत्या भविष्यति । अपरं भगवान् काम-कोपं तवोपरि करिष्यति । उक्तं च-
स्त्री-मुद्रां मकरध्वजस्य जयिनीं सर्वार्ध-सम्पत्-करीं
ते मूढाः प्रविहाय यान्ति कुधियो मिथ्या-फलान्वेषिणः ।
ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः
केचिद्रक्त-पटीकृताश्च जटिलाः कापालिकाश्चापरे ॥ ४.३६॥
अथासौ तद्वचनं श्रद्धेयतया श्रुत्वा भूयोऽपि तेन सह प्रस्थितः । अथवा साध्विदमुच्यते-
जानन्नपि नरो दैवात् प्रकरोति विगर्हितम् ।
कर्म किं कस्यचिल्लोके गर्हितं रोचते कथम् ॥ ४.३७॥
अत्रान्तरे सज्जित-क्रमेण सिंहेन स लम्बकर्णो व्यापादितः । ततस्तं हत्वा शृगालं रक्षकं निरूप्य स्वयं स्नानार्थं नद्यां गतः । शृगालेनापि लौल्योत्सुक्यात् तस्य कर्ण-हृदयं भक्षितम् । अत्रान्तरे सिंहो यावत् स्नात्वा कृते देवार्चनः प्रतर्पित-पितृ-गणः समायाति तावत् कर्ण-हृदय-रहितो रासभस्तिष्ठति । तं दृष्ट्वा कोप-परीतात्मा सिंहः शृगालमाह-पाप ! किमिदमनुचितं कर्म समाचरितम् ? यत् कर्ण-हृदय-भक्षणेनायमुच्छिष्टतां नीतः ।
शृगालः सविनयमाह-स्वामिन् ! मा मैवं वद । यत् कर्ण-हृदय-रहितोऽयं रासभ आसीत्, तेनेहागत्य त्वामवलोक्य भूयोऽपागतः ।
अथ त्वद्वचनं श्रद्धेयं मत्वा सिंहस्तेनैव संविभज्य निःशङ्कित-मनास्तं भक्षितवान् ।
अतोऽहं ब्रवीमि-आगतश्च गतश्चैव इति । तन् मूर्ख ! कपटं कृतं त्वया । परं युधिष्ठिरेणेव सत्य-वचनेन विनाशितम् । अथवा साध्विदमुच्यते-
स्वार्थमुत्सृज्य यो दम्भी सत्यं ब्रूते सुमन्द-धीः ।
स स्वार्थाद्भ्रश्यते नूनं युधिष्ठिर इवापरः ॥ ४.३८॥
मकर आह-कथमेतत् ?
स आह-
कथा ३ युधिष्ठिराख्य-कुम्भकार-कथा
कस्मिंश्चित् अधिष्ठाने कुम्भकारः प्रतिवसति स्म । स कदाचित् प्रमादादर्ध-मग्न-खर्पर-तीक्ष्णाग्रस्योपरि महता वेगेन धावन् पतितः । ततः खपर-कोट्या पाटित-ललाटो रुधिर-प्लावित-तनुः कृच्छ्रादुत्थाय स्वाश्रयं गतः । ततश्चापथ्य-सेवनात् स प्रहारस्तस्य करालतां गतः कृच्छ्रेण नीरोगतां नीतः ।
अथ कदाचिद्दुर्भिक्ष-पीडिते देशे च कुम्भकारः क्षुत्क्षाम-कण्ठः कैश्चिद्राज-सेवकैः सह देशान्तरं गत्वा कस्यापि राज्ञः सेवको बभूव । सोऽपि राजा तस्य ललाटे विकरालं प्रहार-क्षतं दृष्ट्वा चिन्तयामास, यद्वीरः पुरुषः कश्चिदयम् । नूनं तेन ललाट-पट्टे सम्मुख-प्रहारः ।
अतस्तं समानादिभिः सर्वेषां राज-पुत्राणां मध्ये विशेष-प्रसादेन पश्यति स्म । तेऽपि राज-पुत्रास्तस्य तं प्रसादातिरेकं पश्यन्तं परमेर्ष्या-धर्मं वहन्तो राज-भयान् न किञ्चिदूचुः ।
अथान्यस्मिन्नहनि तस्य भूपतेर्वीर-सम्भावनायां क्रियमाणायां विग्रहे समुपस्थिते प्रकल्प्यमानेषु गजेषु सन्नह्यमानेषु वाजिषु योधेषु । प्रगुणीक्रियमाणेषु तेन भूभुजा स कुम्भकारः प्रस्तावानुगतं पृष्टो निर्जने-भो राज-पुत्र ! किं ते नाम ? का च जातिः ? कस्मिन् सङ्ग्रामे प्रहारोऽयं ते ललाटे लग्नः ?
स आह-देव ! नायं शस्त्र-प्रहारः । युधिष्ठिराभिधः कुलालोऽहं प्रकृत्या । मद्गेहेऽनेक-खर्पराणासन् । अथ कदाचिन् मद्य-पानं कृत्वा निर्गतः प्रधावन् खर्परोपरि पतितः । तस्य प्रहार-विकारोऽयं मे ललाटे एवं विकरालतां गतः ।
तदाकर्ण्य राजा सव्रीडमाह-अहो वञ्चितोऽहं राजापुत्रानुकारिणानेन कुलालेन । तद्दीयतां द्रागेतस्य चन्द्रार्धः ।
तथानुष्ठिते कुम्भकार आह-मा मैवं कुरु । पश्य मे रणे हस्त-लाघवम् ।
राजा प्राह-सर्व-गुण-सम्पन्नो भवान् । तथापि गम्यताम् । उक्तं च-
शूद्रश्च कृत-विघ्नश्च दर्शनीयोऽसि पुत्रक ।
यस्मिन् कुले त्वमुत्पन्नो गजस्तत्र न हन्यते ॥ ४.३९॥
कुलाल आह-कथमेतत् ?
राजा कथयति-
कथा ४ सिंह-दम्पती-कथा
कस्मिंश्चिदुद्देशे सिंह-दम्पती प्रतिवसतः स्म । अथ सिंही पुत्र-द्वयमजीजनत् । सिंहोऽपि नित्यमेव मृगान् व्यापाद्य सिंह्यै ददाति । अथान्यस्मिनहनि तेन किमपि नासादितम् । येन भ्रमतोऽपि तस्य रविरस्तं गतः । अथ तेन स्व-गृहमागच्छता शृगाल-शिशुः प्राप्तः । स च बालकोऽयमितवधार्य यत्नेन दंष्ट्रामध्य-गतं कृत्वा सिंह्या जीवन्तमेव समर्पितवान् । ततः सिंह्याभिहितम्-भोः कान्त ! त्वयानीतं किञ्चिदस्माकं भोजनम् ?
सिंह आह-प्रिये ! मयाद्यैनं शृगाल-शिशुं परित्यज्य न किञ्चित् सत्त्वमासादितम् । स च मया बालोऽयमिति मत्वा न व्यापादितो विशेषात् स्वजातीयश्च । उक्तं च-
स्त्री-विप्रलिङ्गि-बालेषु प्रहर्तव्यं न कर्हिचित् ।
प्राण-त्यागेऽपि सञ्जाते विश्वस्तेषु विशेषतः ॥ ४.४०॥
इदानीं त्वमेनं भक्षयित्वा पथ्यं कुरु । प्रभातेऽन्यत् किञ्चिदुपार्जयिष्यामि । सा प्राह-भोः कान्त ! त्वया बालकोऽयमिति विचिन्त्य न हतः । तत् कथमेनमहं स्वोदरार्थे विनाशयामि । उक्तं च-
अकृत्यं नैव कर्तव्यं प्राण-त्यागेऽपुपस्थिते ।
न च कृत्यं परित्याज्यमेष धर्मः सनातनः ॥ ४.४१॥
तस्मान् ममायं तृतीयः पुत्रो भविष्यति । इतेवमुक्त्वा तमपि स्वस्तन-क्षीरेण परां पुष्टिमनयत् । एवं ते त्रयोऽपि शिशवः परस्परमज्ञात-जाति-विशेषा एकाचार-विहारा बाल्य-समयं निर्वाहयन्ति । अथ कदाचित् तत्र वने भ्रमन्नरण्य-गजः समायातः । तं दृष्ट्वा तौ सिंह-सुतौ द्वावपि कुपिताननौ तं प्रति प्रचलितौ यावत् तावत् तेन शृगाल-सुतेनाभिहितमहो ! गजोऽयं युष्मत्-कुल-शत्रुः । तन् न गन्तव्यमेतस्याभिमुखम् ।
एवमुक्त्वा गृहं प्रधावितः । तावपि ज्येष्ठ-बान्धव-भङ्गान् निरुत्साहतां गतौ । अथवा साध्विदमुच्यते-
एकेनापि सुधीरेण सोत्साहेन रणं प्रति ।
सोत्साहं जायते सैन्यं भग्ने भङ्गमवाप्नुयात् ॥ ४.४२॥
तथा च-
अत एव वाञ्छन्ति भूपा योधान् महाबलान् ।
शूरान् वीरान् कृतोत्साहान् वर्जयन्ति च कातरान् ॥ ४.४३॥
अथ तौ द्वावपि गृहं प्राप्य पित्रोरग्रतो ज्येष्ठ-भ्रातृ-चेष्टितमूचतुः-यथा गजं दृष्ट्वा दूरतोऽपि नष्टः ।
सोऽपि तदाकर्ण्य कोपाविष्ट-मनाः प्रस्फुरिताधर-पल्लवस्ताम्रलोचनस्त्रिशिखां भ्रुकुटिं कृत्वा तौ निर्भर्त्सयन् परुषतर-वचनानुवाच-ततः सिंह्यै कान्ते नीत्वा प्रबोधितोऽसौ-वत्स ! मैवं कदाचिज् जल्प । भवदीय-लघु-भ्रातरावेतौ ।
अथासौ प्रभूत-कोपाविष्टस्तामुवाच-किमहमेताभ्यां शौर्येण रूपेण विद्याभ्यासेन कौशलेन वा हीनः ? येन मामुपहसतः । तन् मयावश्यमेतौ व्यापादनीयौ ।
तदाकर्ण्य सिंही तस्य जीवितमिच्छन्तन्तर्विहस्य प्राह-तत् सम्यक् शृणु । त्वं शृगाली-सुतः । कृपया मया स्वस्तन-क्षीरेण पुष्टिं नीतः । तद्यावदेतौ मत्-पुत्रौ शिशुत्वात् त्वां शृगालं न जानीतः, तावद्द्रुततरं गत्वा स्वजातीयानां मध्ये भव । नो चेदाभ्यां हतो मृत्यु-पथं समेष्यसि । सोऽपि तद्वचनं श्रुत्वा भय-व्याकुल-मनाः शनैः शनैरपसृत्य स्व-जात्या मिलितः । तस्मात् त्वं अपि यावदेते राज-पुत्रास्त्वां कुलालं नजानन्ति, तावद्द्रुततरमपसर । नो चेदेतेषां सकाशाद्विडम्बनां प्राप्य मरिष्यामि । कुलालोऽपि तदाकर्ण्य सत्वरं प्रणष्टः ।
अतोऽहं ब्रवीमि-स्वार्थमुत्सृज्य यो दम्भी (३८) इति ।
धिङ्मूर्ख ! यत् त्वया स्त्रियोऽर्थ एतत्-कार्यमनुष्ठातुमारब्धम् । न हि स्त्रीणां कथञ्चिद्विश्वासमुपगच्छेत् । उक्तं च-
यदर्थे स्व-कुलं त्यक्तं जीवितार्धं च हारितम् ।
सा मां त्यजति निःस्नेहा कः स्त्रीणां विश्वसेन् नरः ॥ ४.४४॥
मकर आह-कथमेतत् ?
वानर आह-
कथा ५ ब्राह्मण-कथा
(ब्राह्मणब्राह्मणीपङ्गुकथा)
अस्ति कस्मिंश्चिदधिष्ठाने कोऽपि ब्राह्मणः । तस्य च भार्या प्राणेभ्योऽपतिप्रियासीत् । सोऽपि प्रतिदिनं कुटुम्बेन सह कलहं कुर्वाणा न विश्राम्यति । सोऽपि ब्राह्मणः कलहमसहमानो भार्या-वात्सल्यात् स्व-कुटुम्बं परित्यज्य ब्राह्मण्या सह विप्रकृष्टं देशान्तरं गतः । अथ महाटवी-मध्ये ब्राह्मण्याभिहितः-आर्य-पुत्र ! तृष्णा मां बाधते । तदुदकं क्वापन्वेषय ।
अथासौ तद्वचनानन्तरं यावदुदकं गृहीत्वा समागच्छति तावत् तां मृतामपश्यत् । अतिवल्लभतया विषादं कुर्वन् यावद्विलपति तावदाकाशे वाचं शृणोति । यथा हि-यदि ब्राह्मण त्वं स्वकीय-जीवितस्यार्धं ददासि ततस्ते जीवति ब्राह्मणी ।
तच्छ्रुत्वा ब्राह्मणेन शुचीभूय तिसृभिर्वाचोभिः स्वजीवितार्धं दत्तम् । वाक्-सममेव च ब्राह्मणी जीविता सा । अथ तौ जलं पीत्वा वन-फलानि भक्षयित्वा गन्तुमारब्धौ । ततः क्रमेण कस्यचिन् नगरस्य प्रदेशे पुष्प-वाटिकां प्रविश्य ब्राह्मणो भार्यामभिहितवान्-भद्रे, यावदहं भोजनं गृहीत्वा समागच्छामि तावदत्र त्वया स्थातव्यम् ।
इतभिधाय ब्राह्मणो नगर-मध्ये जगाम । अथ तस्यां पुष्प-वाटिकायां पङ्गुर अर-घट्टं खेलयन् दिव्य-गिरा गीतमुद्गिरति । तच्च श्रुत्वा कुसुमेषुणार्दिता ब्राह्मण्या तत्-सकाशं गत्वाभिहितम्-भद्र ! यर्हि मां न कामयसे, तन् मत्-सक्ता स्त्री-हत्या तव भविष्यति ।
पङ्गुरब्रवीत्-किं व्याधि-ग्रस्तेन मया करिष्यसि ?
साब्रवीत्-किमनेनोक्तेन ? अवश्यं त्वया सह मया सङ्गमः कर्तव्यः ।
तच्छ्रुत्वा तथा कृतवान् । सुरतानन्तरं साब्रवीत्-इतः-प्रभृति यावज्-जीवं मयात्मा भवते दत्तः । इति ज्ञात्वा भवानपस्माभिः सहागच्छतु ।
सोऽब्रवीत्-एवमस्तु ।
अथ ब्राह्मणो भोजनं गृहीत्वा समागत्य तया सहभोक्तुमारब्धः साब्रवीत्-एष पङ्गुर्बुभुक्षितः । तदेतस्यापि कियन्तमपि ग्रासं देहि इति ।
तथानुष्ठिते ब्राह्मण्याभिहितं-ब्राह्मण, सहाय-हीनस्त्वं यदा ग्रामान्तरं गच्छसि, तदा मम वचन-सहायोऽपि नास्ति । तदेनं पङ्गुं गृहीत्वा गच्छावः ।
सोऽब्रवीत्-न शक्नोमात्मानमपात्मनां वोढुम् । किं पुनरेनं पङ्गुम् ?
साब्रवीत्-पेटाभ्यन्तर-स्थमेनमहं नेष्यामि ।
अथ तत्-कृतक-वचन-व्यामोहित-चित्तेन तेन प्रतिपन्नम् । तथानुष्ठितेऽन्यस्मिन् दिने कूपोपकण्ठे विश्रान्तो ब्राह्मणस्तया च पङ्गु-पुरुषासक्तया सम्प्रेर्य कूपान्तः पातितः । सापि पङ्गुं गृहीत्वा कस्मिंश्चिन् नगरे प्रविष्टा । तत्र शुल्क-चौर्य-रक्षा-निमित्तं राज-पुरुषैरितस्ततो भ्रमद्भिस्तन्-मस्तक-स्था पेटी दृष्टा बलादाच्छिद्य राजाग्रे नीता । राजा च यावत् तामुद्घाटयति तावत् तं पङ्गुं ददर्श । ततः सा ब्राह्मणी विलापं कुर्वती राज-पुरुषानुपदमेव तत्रागता । राज्ञा पृष्टा-को वृत्तान्तः ? इति ।
साब्रवीत्-ममैष भर्ता व्याधि-बाधितो दायाद-समूहैरुद्वेजितो मया स्नेह-व्याकुलित-मानसया शिरसि कृत्वा भवदीय-नगर आनीतः ।
तच्छ्रुत्वा राजाब्रवीत्-ब्राह्मणि ! त्वं मे भगिनी । ग्राम-द्वयं गृहीत्वा भर्ता सह भोगान् भुञ्जाना सुखेन तिष्ठ ।
अथ स ब्राह्मणो दैव-वशात् केनापि साधुना कूपादुत्तारितः परिभ्रमंस्तदेव नगरमायातः । तया दुष्ट-भार्यया दृष्टा राज्ञे निवेदितः-राजन् ! अयं मम भर्तुर्वैरी समायातः ।
राज्ञापि वध आदिष्टः । साब्रवीत्-देव, अनया मम सक्तं किञ्चित् गृहीतमस्ति । यदि त्वं धर्म-वत्सलः, तद्दापय ।
राजाब्रवीत्-भद्रे ! यत् त्वयास्य सक्तं किञ्चित् गृहीतमस्ति तत् समर्पय ।
सा प्राह-देव, मया न किञ्चिद्गृहीतम् ।
ब्राह्मण आह-यन् मया त्रिवाचिकं स्व-जीवितार्धं दत्तम्, तद्देहि ।
अथ सा राज-भयात् तत्रैव त्रिवाचिकमेव जीवितार्धमनेन दत्तमिति जल्पन्ती प्राणैर्विमुक्ता । ततः सविस्मयं राजाब्रवीत्-किमेतत् इति । ब्राह्मणेनापि पूर्व-वृत्तान्तः सकलोऽपि तस्मै निवेदितः ।
अतोऽहं ब्रवीमि-यदर्थे स्व-कुलं त्यक्तम् (४४) इति ।
वानरः पुनराह-साधु चेदमुपाख्यानकं श्रूयते-
न किं दद्यान् न किं कुर्यात् स्त्रीभिरभ्यर्थितो नरः ।
अनश्वा यत्र ह्रेषन्ते शिरः पर्वणि मुण्डितम् ॥ ४.४५॥
मकर आह-कथमेतत् ?
वानरः कथयति-
कथा ६ नन्दवररुचिकथा
अतिप्रख्यात-बल-पौरुषोऽनेक-नरेन्द्र-मुकुट-मरीचि-जाल-जटिली-कृत-पाद-पीठः शरच्छशाङ्क-किरण-निर्मल-यशाः समुद्र-पर्यन्तायाः पृथिव्या भर्ता नन्दो नाम राजा । यस्य सर्व-शास्त्राधिगत-समस्त-तत्त्वः सचिवो वररुचिर्नाम । तस्य च प्रणय-कलहेन जाया कुपिता । सा चातीव वल्लभानेक-प्रकारं परितोष्यमाणापि न प्रसीदति । ब्रवीति च भर्ता-भद्रे ! येन प्रकारेण तुष्यति तं वद । निश्चितं करोमि ।
ततः कथञ्चित् तयोक्तं-यदि शिरो मुण्डयित्वा मम पादयोर्निपतसि, तदा प्रसादाभिमुखी भवामि ।
तथानुष्ठिते प्रसन्नासीत् । अथ नन्दस्य भार्यापि तथैव रुष्टा प्रसाद्यमानापि न तुष्यति । तेनोक्तम्-भद्रे ! त्वया विना मुहूर्तमपि न जीवामि । पादयोः पतित्वा त्वां प्रसादयामि ।
साब्रवीत्-यदि खलीनं मुखे प्रक्षित्याहं तव पृष्ठे समारुह्य त्वां धावयामि । धावितस्तु यदश्ववद्ध्रेषसे, तदा प्रसन्ना भवामि ।
राज्ञापि तथैवानुष्ठितम् । अथ प्रभात-समये सभायामुपविष्टस्य राज्ञः समीपे वररुचिरायातः । तं च दृष्ट्वा राजा पप्रच्छ-भो वररुचे ! किं पर्वणि मुण्डितं शिरस्त्वया ?
सोऽब्रवीत्-न किं दद्यात् (४५) इतादि । तद्भो दुस्ट मकर ! त्वमपि नन्द-वररुचि-वत् स्त्री-वश्यः । ततो भद्र आगतेन त्वया मां प्रति वधोपाय-प्रयासः प्रारब्धः । परं स्व-वाग्-दोषेणैव प्रकटीभूतः । अथवा साध्विदमुच्यते-
आत्मनो मुख-दोषेण बध्यन्ते शुक-सारिकाः ।
बकास्तत्र न बध्यन्ते मौनं सर्वार्थ-साधनम् ॥ ४.४६॥
तथा च-
सुगुप्तं रक्ष्यमाणोऽपि दर्शयन् दारुणं वपुः ।
व्याघ्र-चर्म-प्रतिच्छन्नो वाक्-कृते रासभो हतः ॥ ४.४७॥
मकर आह-कथमेतत् ?
वानरः कथयति-
कथा ७ शुद्धपट-नाम-रजक-कथा
(वाचालरासभकथा)
कस्मिंश्चिदधिष्ठाने शुद्धपटो नाम रजकः प्रतिवसति स्म । तस्य च गर्दभ एकोऽस्ति । सोऽपि घासाभावादतिदुर्बलतां गतः । अथ तेन रजकेनाटव्यां परिभ्रमता मृत-व्याघ्रो दृष्टः । चिन्तितं च-अहो ! शोभनमापतितम् । अनेन व्याघ्र-चर्मणा प्रतिच्छाद्य रासभं रात्रौ यव-क्षेत्रेषूत्स्रक्ष्यामि । येन व्याघ्रं मत्वा समीप-वर्तिनः क्षेत्र-पाला एनं न निष्कासयिष्यन्ति ।
तथानुष्ठिते रासभो यथेच्छया यव-भक्षणं करोति । प्रत्यूषे भूयोऽपि रजकः स्वाश्रयं नयति । एवं गच्छता कालेन स रासभः पीवर-तनुर्जातः । कृच्छ्राद्बन्धन-स्थानमपि नीयते । अथान्यस्मिन्नहनि स मधोद्धतो दूराद्रासभी-शब्दमशृणोत् । तच्छ्रवण-मात्रेणैव स्वयं शब्दयितुमारब्धः ।
अथ ते क्षेत्र-पाला रासभोऽयं व्याघ्र-चर्म-प्रतिच्छन्न इति ज्ञात्वा लगुड-शर-पाषाण-प्रहारैस्तं व्यापादितवन्तः ।
अतोऽहं ब्रवीमि-सुगुप्तं रक्ष्यमाणोऽपि (४७) इति । तत् किं श्यामलकवदत्यपमान-सहनादर्ध-चन्द्र-दानेन यास्यसि ।
मकर आह-कथमेतत् ?
वानर आह-
कथा ८ महाधन-ईश्वर-नाम-भाण्डपति-कथा
अस्तत्र धरा-पीठे विकण्टकं नाम पुरम् । तत्र महा-धन ईश्वरो नाम भाण्ड-पतिः । तस्य चत्वारो जामातृका अवन्ती-पीठात् प्राघूर्णिका विकण्टक-पुरे समायाताः । ते च येन महता गौरवेणाभ्यर्चिता भोजानाच्छादनादिभिः । एवं तेषां तत्र वसतां मास-षट्कं सञ्जातम् । तत ईश्वरेण स्वभार्योक्ता यदेते जामातरः परम-गौरवेणावर्जिताः स्वामि गृहाणि न गच्छन्ति, तत् किं कथ्यते ? विनापमानं न यास्यन्ति । तदद्य भोजन-वेलायां पाद-प्रक्षालनार्थं जलं न देयं येनापमानं ज्ञात्वा परित्यज्य गच्छन्तीति । तथानुष्ठिते गर्गः पाद-प्रक्षालनापमानात्, सोमो लघ्वासन-दानात्, दत्तः कदशनतो यातः । एवं ते त्रयोऽपि परित्यज्य गताः । चतुर्थः श्यामलको यावन् न याति तावदर्ध-चन्द्र-प्रदानेन निष्कासितः ।
अतोऽहं ब्रवीमि-
गर्गो हि पाद-शौचाल्लघ्वासन-दानतो गतः सोमः ।
दत्तः कदशन-भोज्याच्छ्यामलकश्चार्ध-चन्द्रेण ॥ ४.४८॥
तत् किमहं रथकारवन् मूर्खो यतः स्वयमपि दृष्ट्वा ते विकार-पश्चाद्विश्वसिमि । उक्तं च-
प्रत्यक्षेऽपि कृते पापे मूर्खः साम्ना प्रशाम्यति ।
रथकारः स्वकां भार्यां सजारां शिरसावहत् ॥ ४.४९॥
मकर आह-कथमेतत् ?
वानरः कथयति-
कथा १० रथकार-कथा
कस्मिंश्चिदधिष्ठाने कश्चिद्रथकारः प्रतिवसति स्म । तस्य भार्या पुंशलीति जनापवाद-संयुक्ता । सोऽपि तस्याः परीक्षार्थं व्यचिन्तयत्-कथं मयास्याः परीक्षणं कर्तव्यम् । न चैतद्युज्यते कर्तुं, यतः-
नदीनां च कुलानां च मुनीनां च महात्मनाम् ।
परीक्षा न प्रकर्तव्या स्त्रीणां दुश्चरितस्य च ॥ ४.४९॥
वसोर्वीर्योत्पन्नामभजत मुनिर्मत्स्य-तनयां
तथा जातो व्यासो शत-गुण-निवासः किमपरम् ।
स्वयं वेदान् व्यस्यन् शमित-कुरु-वंश-प्रसविता
स एवाभाच्छ्रीमानहह विषमा कर्म-गतयः ॥ ४.५०॥
कुलानामिति पाण्डवानामपि महात्मनां नोत्पत्तिरधिगन्तव्या यतः ते क्षेत्रजा इति । स्त्री-दुश्चरितं सन्धुक्ष्यमाणमनेक-दोषान् प्रकटयति स्त्रीणामिति । तथा च-
यदि स्यात् पावकः शीतः प्रोष्णो वा शश-लाञ्छनः ।
स्त्रीणां तदा सतीत्वं स्याद्यदि स्याद्दुर्जनो हितः ॥ ४.५१॥
यथापि शुद्धामशुद्धां वापि जानामि लोक-वचनात् । उक्तं च-
यन् न वेदेषु शास्त्रेषु न दृष्टं न च संश्रुतम् ।
तत् सर्वं वेत्ति लोकोऽयं यत् स्याद्ब्रह्माण्ड-मध्यगम् ॥ ४.५२॥
एवं सम्प्रधार्य तामवोचत-प्रिये, अहं प्रातर्ग्रामान्तरं यास्यामि तत्र दिनानि कतिचिल्लगिष्यन्ति । तत् त्वया किञ्चित् पाथेयं मम योग्यं कार्यम् ।
सापि तदाकर्ण्य हर्षित-चित्तौत्सुक्येन सर्व-कार्याणि सन्त्यज्य सिद्धमन्नं घृत-शर्करा-प्रायमकरोत् । अथवा साध्विदमुच्यते-
दुर्दिवसे घन-तिमिरे दुःख-चारासु नगर-वीथीषु ।
पत्यौ विदेश-याते परम-सुखं जघन-चपलायाः ॥ ४.५३॥
अथासौ प्रत्यूषे उत्थाय स्व-गृहान् निर्गतः । सापि तं प्रस्थितं विज्ञाय प्रहसित-वदनाङ्ग-सत्कारं कुर्वाणा कथञ्चित् तं दिवसमत्यवाहयत् । ततश्च पूर्व-परिचितं विट-गृहं गत्वा तमभ्यर्थोक्तवती यद्ग्रामान्तरं गतः स दुरात्मा मे पतिः । तदद्य त्वयास्मद्गृहे प्रसुप्ते जने समागन्तव्यम् ।
तथानुष्ठिते स रथकारोऽपरण्ये दिनमतिवाह्य प्रदोषे स्व-गृहमपर-द्वारेण प्रविष्टः शय्या-तले निभृतो भूत्वा स्थितः । अत्रान्तरे स देवदत्तः शयन आगत्योपविष्टः । तं दृष्ट्वा रथकारो रोषाविष्ट-चित्तो व्यचिन्तयत्-किमेनमुत्थाय विनाशयामथवा द्वावपेतौ सुप्तौ हेलया हन्मि । परं पश्यामि तावच्चेष्टितमस्याः शृणोमि चानेन सहालापान् । अत्रान्तरे सा गृह-द्वारं निभृतं पिधाय शयन-तलमारूढा । तस्यास्तच्छयनमारोहन्त्या रथकार-शरीरे पादो लग्नः । ततो व्यचिन्तयत्-नूनमेतेन दुरात्मना रथकारेण मत्-परीक्षार्थं भाव्यम् । तत्-स्त्री-चरित-विज्ञानं किमपि करोमि । एवं तस्याश्चिन्तयन्त्याः स देवदत्तः स्पर्शोत्सुक्यो बभूव । ततश्च तयाकृताऊजलि-पुटयाभिहितं-भो महानुभव ! न मे गात्रं त्वया स्प्रष्टव्यम्, यतोऽहं पतिव्रता महा-सती च । नो चेच्छापं दत्त्वा त्वां भस्मसात् करिष्यामि ।
स आह-यदेवं तर्हि किमर्थं त्वयाहूतः ?
सा प्राह-भोः ! शृणुष्वैकाग्र-मनाः । अहमद्य प्रत्यूषे देवता-दर्शनार्थं चण्डिकायतनं गता । तत्राकस्मात् खे वाणी सञ्जाता-पुत्रि, किं करोमि । भक्तासि मे त्वम् । परं षण्मासाभ्यन्तरे विधि-नियोगाद्विधवा भविष्यसि । ततो मयाभिहितं-भगवति ! यया त्वमापदं वेत्सि तथा तत्-पर्तीकारमपि जानासि । तदस्ति कश्चिदुपायो येन मे पतिः शत-संवत्सर-जीवी भवति । ततस्तयाभिहितं-वत्से, सन्नपि नास्ति यतस्तवायत्तः स प्रतीकारः । तच्छ्रुत्वा मयाभिहितं-देवि ! यन् मत्-प्राणैर्भवति तदादेशय येन करोमि । ततो देव्याभिहितं-यदद्य दिने पर-पुरुषेण सहैकस्मिञ्छयने समारुह्यालिङ्गनं करोषि, तदा तव भर्तृ-सक्तोऽपमृत्युस्तस्य सञ्चरित, त्वद्भर्ता पुनर्वर्ष-शतं जीवति । तेन मया त्वमभ्यर्थितः । तयो यत् किञ्चित् कर्तुमनास्तत् कुरुष्व, नहि देवता-वचनमन्यथा भविष्यतीति निश्चयः । ततोऽन्तर्हास-विकास-मुखः स तदुचितमाचचार ।
सोऽपि रथकारो मूर्खस्तस्यास्तद्वचनमाकर्ण्य पुलकाङ्कित-तनुः शय्या-तलान् निष्क्रम्य तामुवाच-साधु पतिव्रते ! साधु कुल-नन्दिनि ! साधु ! अहं दुर्जन-वचन-शङ्कित-हृदयस्त्वत्-परीक्षार्थं ग्रामान्तर-व्याजं कृत्वात्र निभृतं खट्वा-तले लीनः स्थितः । तदेहि, आलिङ्गय माम् । त्वं स्व-भर्तृ-भक्तानां मुख्या नारीणां, यदेवं ब्रह्म-व्रतं पर-सङ्गेऽपि पालितवती । मदायुर्वृद्धि-कृतेऽपमृत्यु-विनाशार्थं च त्वमेवं कृतवती । तामेवमुक्त्वा सस्नेहमालिङ्गितवान् । स्व-स्कन्धे तामारोप्य तमपि देवदत्तमुवाच-भोः महानुभाव ! मत्-पुण्यैस्त्वमिहागतः । त्वत्-प्रसादात् प्राप्तामद्य मया वर्ष-शत-प्रमाणमायुः । ततस्त्वमपि मां समालिङ्गय स्कन्धं मे समारोह । इति जल्पन्ननिच्छन्तमपि देवदत्तं बलादालिङ्ग्य स्कन्धे समारोपितवान् । ततश्च तूर्य-ध्वनि-च्छन्देन नृत्यन् सकल-गृह-द्वारेषु बभ्राम ।
अतोऽहं ब्रवीमि-प्रत्यक्षेऽपि कृते पापे (४९) । तन् मूढ ! दृष्ट-विकारस्त्वम्, तत् कथं तत्र गृहं गच्छामि । अथवा यन् मां त्वं विश्वासयसि तत् ते दोषो नास्ति, यत् ईदृशी स्वभाव-दुष्टा युष्मज्-जातिर्या शिष्ट-सङ्गादपि सौम्यत्वं न याति । अथवा स्वभावोऽयं दुष्टानाम् । उक्तं च-
सद्भिः सम्बोध्यमानोऽपि दुरात्मा पाप-पौरुषः ।
घृष्यमाण इवाङ्गारो निर्मलत्वं न गच्छति ॥ ४.५४॥
तन् मूर्ख ! स्त्री-लुब्ध ! स्त्री-जित ! अन्येऽपि ये त्वद्विधा भवन्ति ते स्व-कार्यं विभवं मित्रं च परित्यजन्ति तत्-कृते । उक्तं च-
या ममोद्विजते नित्यं साद्य मामवगूहते ।
प्रिय-कारक भद्रं ते यन् ममास्ति हरस्व तत् ॥ ४.५५॥
मकर आह-कथमेतत् ?
वानरोऽब्रवीत्-
कथा ११ कामातुर-कथा
अस्ति कस्मिंश्चिदधिष्ठाने कामातुरो नाम महाधनो वृद्ध-वणिक् । तेन मृत-भार्येण कामोपहत-चेतसा काचिन् निर्धन-वणिक्-सुता प्रभूतं वित्तं दत्त्वोद्वाहिता । अथ सा दुःखाभिभूता तं वृद्ध-वणिजं द्रष्टुमपि न शशाक । अथवा साध्विदमुच्यते-
श्वेतं पदं शिरसि यत् तु शिरोरुहाणां
स्थानं परं परिभवस्य तदेव पुंसाम् ।
आरोपितास्थि-शकलं परिहृत्य यान्ति
चाण्डाल-कूपमिव दूरतरं तरुण्यः ॥ ४.५६॥
तथा च-
गात्रं सङ्कुचितं गति-विगलिता दन्ताश्च नाशं गताह्
दृष्टिर्भ्राम्यति रूपमेव ह्रसते वक्त्रं च लालायते ।
वाक्यं नैव करोति बान्धव-जनः पत्नी न शुश्रूषते
हा कष्टं जरयाभिभूत-पुरुषः पुत्रैरवज्ञायते ॥ ४.५७॥
अथ कदाचित् सा तेन सहैक-शयने पराङ्-मुखी यावत् तिष्ठति तावत् तस्य गृहे चौरः प्रविष्टः । सापि तं चौरमवलोक्य भय-व्याकुला वृद्धमपि पतिं गाढं समालिलिङ्ग । सोऽपि विस्मयात् पुलकाङ्कित-सर्व-गात्रश्चिन्तयामास-अहो ! किमेषा मामद्यावगूहते । अहो चित्रमेतत् ! ततश्च यावन् निपुणतयावलोकयति तावत् चौरः प्रविष्टः कोणैक-देशे तिष्ठति । पुनरपचिन्तयत्-नूनमेषा चौरस्य भयान् मामालिङ्गति । तज् ज्ञात्वा चौरमाह-या ममोद्विजते नित्यं साद्य (५५) इति । भूयोऽपि निर्गच्छन्तमवादीत्-भो चोर ! नित्यमेव त्वया रात्रावागन्तव्यं मदीयोऽयं विभवस्त्वदीय इति ।
अतोऽहं ब्रवीमि-या ममोद्विजते इतादि । किं बहुना, तेन च स्त्री-लुब्धेन स्वं सर्वं चौरस्य समर्पितम् । त्वयापि तथानुष्ठितम् ।
अथैव तेन सह वदतो मकरस्य जलचरेणैकेनागत्याभिहितम्-भो मकर ! त्वदीया भार्यानशनोपविष्टा त्वयि चिरयति प्रणयाभिभवाद्विपन्ना । एवं तद्वज्र-पात-सदृश-वचनमाकर्ण्यातीव्र-व्याकुलित-हृदयः प्रलपितमेवं चकार-अहो किमिदं सञ्जातं मे मन्द-भागस्य । उक्तं च-
न गृहं गृहमिताहुर्गृहिणी गृहमुच्यते ।
गृहं तु गृहिणी-हीनं कान्तारान् नातिरिच्यते ॥ ४.५८॥
अन्यच्च-
वृक्ष-मूलेऽपि दयिता यत्र तिष्ठति तद्गृहम् ।
प्रासादोऽपि तया हीनोऽरण्य-सदृशः स्मृतः ॥ ४.५९॥
माता यस्य गृहे नास्ति भार्या च प्रिय-वादिनी ।
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥ ४.६०॥
तन् मित्र ! क्षम्यताम् । मया तेऽपराधः कृतः । सम्प्रतहं तु स्त्री-वियोगाद्वैश्वानर-प्रवेशं करिष्यामि । तन् मूढ ! आनन्देऽपि जाते त्वं विषादं गतः । तादृग्-भार्यायां मृतायामुत्सवः कर्तुं युज्यते । उक्तं च यतः-
या भार्या दुष्ट-चरित्रा सततं कलह-प्रिया ।
भार्या-रूपेण सा ज्ञेया विदग्धैर्दारुणा जरा ॥ ४.६१॥
तस्मात् सर्व-प्रयत्नेन नामापि परिवर्जयेत् ।
स्त्रीणामिह हि सर्वासां य इच्छेत् सुखमात्मनः ॥ ४.६२॥
यदन्तस्तन् न जिह्वायां यज् जिह्वायां न तद्बहिः ।
यद्बहिस्तन् न कुर्वन्ति विचित्र-चरिताः स्त्रियः ॥ ४.६३॥
के नाम न विनश्यन्ति मिथ्या-ज्ञानान् नितम्बिनीम् ।
रम्यां ते उपसर्पन्ति दीपाभां शलभा यथा ॥ ४.६४॥
अन्तर्विष-मया हेता बहिश्चैव मनोरमाः ।
गुञ्जा-फल-समाकारा योषितः केन निर्मिताः ॥ ४.६५॥
ताडिता अपि दण्डेन शस्त्रैरपि विखण्डिताः ।
न वशं योषितो यान्ति न दानैर्न च संस्तवैः ॥ ४.६६॥
आस्तां तावत् किमन्येन दौरात्म्येनेह योषिताम् ।
विधृतं स्वोदरेणापि घ्नन्ति पुत्रमपि स्वकम् ॥ ४.६७॥
रूक्षायां स्नेह-सद्भावं कठोरायां सुमार्दवम् ।
नीरसायां रसं बालो बालिकायां विकल्पयेत् ॥ ४.६८॥
मकर आह-भो मित्र ! अस्त्वेतत् । परं किं करोमि ? ममानर्थ-द्वयमेतत् सञ्जातम् । एकस्तावद्गृह-भङ्गः । अपरस्त्वद्विधेन मित्रेण सह चित्त-विश्लेषः । अथवा भवतेवं दैव-योगात् । उक्तं च यतः-
यादृशं मम पाण्डित्यं तादृशं द्विगुणं तव ।
नाभूज् जारो न भर्ता च किं निरीक्षसि नग्निके ॥ ४.६९॥
वानर आह-कथमेतत् ?
मकरोऽब्रवीत्-
कथा १२ हालिक-दम्पती-कथा
कस्मिंश्चिदधिष्ठाने हालिक-दम्पती प्रतिवसतः स्म । सा च हालिक-भार्या पत्युर्वृद्ध-भावात् सदैवान्य-चित्ता न कथञ्चिद्गृहे स्थैर्यमालम्बते । केवलं पर-पुरुषानन्वेषमाणा परिभ्रमति । अथ केनचित् पर-वित्तापहारकेण धूर्तेन सा लक्षिता विजने प्रोक्ता च-सुभगे ! मृत-भार्योऽहम् । त्वद्दर्शनेन स्मर-पीडितश्च । तद्दीयतां मे रति-दक्षिणा ।
ततस्तयाभिहितम्-भोः सुभग ! यदेवं तदस्ति मे पत्युः प्रभूतं धनम् । स च वृद्धत्वात् प्रचलितुमपसमर्थः । ततस्तद्धनमादायाहमागच्छामि । येन त्वया सहान्यत्र गत्वा यथेच्छया रति-सुखमनुभविष्यामि ।
सोऽब्रवीत्-रोचते मह्यमपेतत् । तत् प्रत्यूषेऽत्र स्थाने शीघ्रमेव समागन्तव्यम्, येन शुभतरं किञ्चिन् नगरं गत्वा त्वया सह जीव-लोकः सफलीक्रियते ।
सापि तथेति प्रतिज्ञाय प्रहसित-वदना स्व-गृहं गत्वा रात्रौ प्रसुप्ते भर्तरि सर्वं वित्तमादाय प्रत्यूष-समये तत्-कथित-स्थानमुपाद्रवत् । धूर्तोऽपि तामग्रे विधाय दक्षिणां दिशमाश्रित्य सत्वर-गतिः प्रस्थितः ।
एवं तयोर्व्रजतोर्योजन-द्वय-मात्रेणाग्रतः काचिन् नदी समुपस्थिता । तां दृष्ट्वा धूर्तश्चिन्तयामास-किमहमनया यौवन-प्रान्ते वर्तमानया करिष्यामि । किं च कदापस्याः पृष्ठतः कोऽपि समेष्यति । तन् मे महाननर्थः स्यात् । तत् केवलमस्या वित्तमादाय गच्छामि ।
इति निश्चित्य तामुवाच-प्रिये ! सुदुस्तरेयं महानदा । तदहं द्रव्य-मात्रां पारे धृत्वा समागच्छामि । ततस्त्वामेकाकिनीं स्व-पृष्ठमारोप्य सुखेनोत्तारयिष्यामि ।
सा प्राह-सुभग ! एवं क्रियताम् । इतुक्त्वाशिषं वित्तं तस्मै समर्पयामास । अथ तेनाभिहितं-भद्रे ! परिधानाच्छादन-वस्त्रमपि समर्पय । येन जल-मध्ये निःशङ्कं व्रजसि । तथानुष्ठिते धूर्तो वित्तं वस्त्र-युगलं चादाय यथाचिन्तित-विषयं गतः ।
सापि कण्ठ-निवेशित-हस्त-युगला सोद्वेगा नदी-पुलिन-देश उपविष्टा यावत् तिष्ठति तावदेतस्मिन्नन्तरे काचिच्छृगालिका मांस-पिण्ड-गृहीत-वदना तत्राजगाम । आगत्य च यावत् पश्यति, तावन् नदी महान् मत्स्यः सलिलान् निष्क्रम्य बहिः स्थित आस्ते । एवं च दृष्ट्वा सा मांस-पिण्डं समुत्सृज्य तं मत्स्यं प्रत्युपाद्रवत् । अत्रान्तरं आकाशादावतीर्थं कोऽपि प्रत्युपाद्रवत् । अत्रान्तरमाकाशादवतीर्य कोऽपि गृध्रस्तं मांस-पिण्डमादाय पुनः खमुत्पतात । मत्स्योऽपि शृगालिकां दृष्ट्वा नद्यां प्रविवेश । सा शृगालिकां दृष्ट्वा नद्यां प्रविवेश । सा शृगालिका व्यर्थ-श्रमा गृध्रमवलोकयन्ती तया नग्निकया सस्मितमभिहिता-
गृध्रेणापहृतं मांसं मत्स्योऽपि सलिलं गतः ।
मत्स्य-मांस-परिभ्रष्टे किं निरीक्ष्यसि जम्बुके ॥ ४.७०॥
मित्रं हमित्रतां यातमपरं मे प्रिया मित्रा ।
गृहमन्येन च व्याप्तं किमद्यापि भविष्यति ॥ ४.७१॥
अथवा युक्तमिदमुच्यते-
क्षते प्रहारा निपतन्तभीक्ष्णमन्न-क्षये वर्धति जाठराग्निः ।
आपत्सु वैराणि समुद्भवन्ति वामे विधौ सर्वमिदं नराणाम् ॥ ४.७२॥
तत् किं करोमि ? किमनेन सह युद्धं करोमि ? किं वा साम्नैव सम्बोध्य गृहान् निःसारयामि ? किं वा भेदं दानं वा करोमि ? अथवामुमेव वानर-मित्रं पृच्छामि ? उक्तं च-
यः पृष्ट्वा कुरुते कार्यं प्रष्टव्यान् स्व-हितान् गुरून् ।
न तस्य जायते विघ्नः कस्मिंश्चिदपि कर्मणि ॥ ४.७३॥
एवं सम्प्रधार्य भूयोऽपि तमेव जम्बू-वृक्षमारूढं कपिमपृच्छत्-भो मित्र ! पश्य मे मन्द-भाग्यताम् । तत् सम्प्रति गृहमपि मे बलवत्तरेण मकरेण रुद्धम् । तदहं त्वां प्रष्टुमभ्यागतः । कथय किं करोमि ? सामादीनामुपायानां मध्ये कस्यात्र विषयः ?
स आह-भोः कृतघ्न पाप-चारिन् ! मया निषिद्धोऽपि किं भूयो मामनुसरसि । नाहं तव मूर्खस्योपदेशमपि दास्यामि ।
तच्छ्रुत्वा मकरः प्राह-भो मित्र ! सापराधस्य मे पूर्व-स्नेहमनुस्मृत्य हितोपदेशं देहि ।
वानर आह-नाहं ते कथयिष्यामि । यद्भार्या-वाक्येन भवताहं समुद्रे प्रक्षिप्तुं नीतः । तदेवं न युक्तम् । यद्यपि भार्या सर्व-लोकादपि वल्लभा भवति, तथापि न मित्राणि बान्धवाश्च भार्या-वाक्येन समुद्रे प्रक्षिप्यन्ते । तन् मूर्ख ! मूढत्वेन नाशस्तव मया प्रागेव निवेदित आसीत्, यतः-
सतां वचनमादिष्टं मदेन न करोति यः ।
स विनाशमवाप्नोति घण्टोष्ट्र इव सत्वरम् ॥ ४.७४॥
मकर आह-कथमेतत् ?
सोऽब्रवीत्-
कथा १३ उज्ज्वलक-रथकार-कथा
कस्मिंश्चिदधिष्ठाने उज्ज्वलको नाम रथकारः प्रतिवसति स्म । स चातीव दारिद्र्योपहतश्चिन्तितवान्-अहो ! धिगियं दरिद्रतास्मद्गृहे । यतः सर्वोऽपि जनः स्व-कर्मणैव रतस्तिष्ठति । अस्मदीयः पुनर्व्यापारो नात्राधिष्ठानेऽर्हति । यतः सर्व-लोकानां चिरन्तनाश्चतुर्भूमिका गृहाः सन्ति । मम च नात्र । तत् किं मदीयेन रथकारत्वेन प्रयोजनम् ? इति चिन्तयित्वा देशान् निष्क्रान्तः ।
यावत् किञ्चिद्वनं गच्छति तावद्गह्वराकार-वन-गहन-मध्ये सूर्यास्तमनवेलायां स्व-यूथाद्भ्रष्टां प्रसव-वेदनया पीड्यमानामुष्ट्रीमपश्यत् । स च दासेरक-युक्तामुष्ट्रीं गृहीत्वा स्व-स्थानाभिमुखः प्रस्थितः । गृहमासाद्य रज्जुं गृहीत्वा तामुष्ट्रिकां बबन्ध । ततश्च तीक्ष्णं परशुमादाय तस्याः पल्लवानयनार्थं पर्वतैक-देशे गतः । तत्र च नूतनानि कोमलानि बहूनि पल्लवानि च्छित्त्वा शिरसि समारोप्य तस्याग्रे निचिक्षेप । तया च तानि शनैः शनैर्भक्षितानि । पश्चात् पल्लव-भक्षण-प्रभावादहर्निशं पीवर-तनुरुष्ट्री सञ्जाता । सोऽपि दासेरको महान् उष्ट्रः सञ्जातः । ततः स नित्यमेव दुग्धं गृहीत्वा स्व-कुटुम्बं परिपालयति ।
अथ रथकारेण वल्लभत्वाद्दासेरक-ग्रीवायां महती घण्टा प्रतिबद्धा । पश्चाद्रथकारो व्यचिन्तयत्-अहो ! किमन्यैर्दुष्कृत-कर्मभिः । यावन् ममैतस्मादेवोष्ट्रापरिपालनादस्य कुटुम्बस्य भव्यं सञ्जातम् । तत् किमन्येन व्यापारेण ?
एवं विचिन्त्य गृहमागत्य प्रियामाह-भद्रे ! समीचीनोऽयं व्यापारः । तव सम्मतिश्चेत् कुतोऽपि धनिकात् किञ्चिद्द्रव्यमादाय मया गुर्जर-देशे गन्तव्यं कलभ-ग्रहणाय । तावत् त्वयैतौ यत्नेन रक्षणीयौ । यावदहमपरामुष्ट्रीं नीत्वा समागच्छामि ।
ततश्च गुर्जर-देशं गत्वोष्ट्रीं गृहीत्वा स्व-गृहमागतः । किं बहुना ? तेन तथा कृतं यथा तस्य प्रचुरा उष्ट्राः करभाश्च सम्मिलिताः । ततस्तेन महदुष्ट्र-यूथं कृत्वा रक्षा-पुरुषो धृतः । तस्य प्रतिवर्षं वृत्त्या करभमेकं प्रयच्छति । प्रतिवर्षमन्यच्चाहर्निशं दुग्ध-पानं तस्य निरूपितम् । एवं रथकारोऽपि नित्यमेवोष्ट्री-करभ-व्यापारं कुर्वन् सुखेन तिष्ठति ।
अथ ते दासेरका अधिष्ठानोपवनाहार्थं गच्छन्ति । कोमल-वल्लीर्यथेच्छया भक्षयित्वा महति सरसि पानीयं पीत्वा सायन्तन-समये मन्दं मन्दं लीलया गृहमागच्छन्ति । स च पूर्व-दासेरको मदातिरेकात् पृष्ठ आगत्य मिलति । ततस्तैः कलभैरभिहितमहो ! मन्द-मतिरयं दासेरको यथा यूथाद्भ्रष्टः पृष्ठे स्थित्वा घण्टां वादयन्न् आगच्छति । यदि कस्यापि दुष्ट-सत्त्वस्य मुखे पतिष्यति, तन् नूनं मृत्युमवाप्स्यति ।
अथ तस्य तद्वनं गाहमानस्य कश्चित् सिंहो घण्टा-रवमाकर्ण्य समायातः । यावदवलोकयति, तावदुष्ट्री-दासेरकाणां यूथं गच्छति । एकस्तु पुनः पृष्ठे क्रीडां कुर्वन् वल्लरीश्चरन् यावत् तिष्ठति, तावदन्ये दासेरकाः पानीयं पीत्वा स्व-गृहे गताः । सोऽपि वनान् निष्क्रम्य यावद्दिशोऽवलोकयति, तावन् न कञ्चिन् मार्गं पश्यति वेत्ति च । यूथाद्भ्रष्टो मन्दं मन्दं बृहच्छब्दं कुर्वन् यावत् कियद्दूरं गच्छति, तावत् तच्छब्दानुसारी सिंहोऽपि क्रमं कृत्वा निभृतोऽयं व्यवस्थितः । ततो यावदुष्ट्रः समीपमागतः, तावत् सिंहेन लम्भयित्वा ग्रीवायां गृहीतो मारितश्च ।
अतोऽहं ब्रवीमि-सतां वचनमादिष्टम् (७४) इति ।
अथ तच्छ्रुत्वा मकरः प्राह-
उपदेश-प्रदातॄणां नराणां हितमिच्छताम् ।
परस्मिन्न् इह लोके च व्यसनं नोपपद्यते ॥ ४.७५॥
तत सर्वथा कृतघ्नस्यापि मे कुरु प्रसादमुपदेश-प्रदानेन । उक्तं च-
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः ।
अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥ ४.७६॥
तदाकर्ण्य वानरः प्राह-भद्र ! यदेवं तर्हि तत्र गत्वा तेन सह युद्धं कुरु । उक्तं च-
हतस्त्वं प्राप्स्यसि स्वर्गं जीवन् गृहमथो यशः ।
युध्यमानस्य ते भावि गुण-द्वयमनुत्तमम् ॥ ४.७७॥
उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् ।
नीचमल्प-प्रदानेन सम-शक्तिं पराक्रमैः ॥ ४.७८॥
मकर आह-कथमेतत् ?
सोऽब्रवीत्-
कथा १४ महाचतुरकाख्य-शृगाल-कथा
आसीत् कस्मिंश्चिद्देशे महा-चतुरको नाम शृगालः । तेन कदाचिदरण्ये स्वयं मृतो गजः समासादितः । तस्य समन्तात् परिभ्रमति, परं कठिनां त्वचं भेत्तुं न शक्नोति । अथात्रावसर इतश्चेतश्च विचरन् कश्चित् सिंहस्तत्रैव प्रदेशे समाययौ ।
अथ सिंहं समागतं दृष्ट्वा स क्षिति-तल-विन्यस्त-मौलि-मण्डलः संयोजित-कर-युगलः सविनयमुवाच-स्वामिन् ! त्वदीयोऽहं लागुडिकः स्थितस्त्वदर्थे गजमिमं रक्षामि । तदेनं भक्षयतु स्वामी ।
तं प्रणतं दृष्ट्वा सिंहः प्राह-भोः ! नाहमन्येन हतं सत्त्वं कदाचिदपि भक्षयामि । तत् तवैव गजोऽयं मया प्रसादीकृतः ।
तच्छ्रुत्वा शृगालः सानन्दमाह-युक्तमिदं स्वामिनो निज-भृत्येषु । उक्तं च यतः-
अन्त्यावस्थोऽपि महान् स्वामि-गुणान् न जहाति शुद्धतया ।
न श्वेत-भावमुज्झति शङ्खः शिखि-भुक्त-मुक्तोऽपि ॥ ४.७९॥
अथ सिंहे गते कश्चिद्व्याघ्रः समाययौ । तमपि दृष्ट्वासौ व्यचिन्तयत्-अहो ! एकस्तावद्दुरात्मा प्रणिपातेनापवाहितः । तत् कथमिदानीमेनमपवाहयिष्यामि ? नूनं शूरोऽयम् । न खलु भेदं विना साध्यो भविष्यति । उक्तं च यतः-
न यत्र शक्यते कर्तुं साम दानमथापि वा ।
भेदस्तत्र प्रयोक्तव्यो यतः स वश-कारकः ॥ ४.८०॥
किं च सर्व-गुण-सम्पन्नोऽपि भेदेन बध्यते । उक्तं च यतः-
अन्तः-स्थेनाविरुद्धेन सुवृत्तेनातिचारुणा ।
अन्तर्भिन्नेन सम्प्राप्तं मौक्तिकेनापि बन्धनम् ॥ ४.८१॥
एवं सम्प्रधार्य तस्याभिमुखो भूत्वा गर्वादुन्नत-कन्धरः ससम्भ्रममुवाच-माम ! कथमत्र भवान् मृत्यु-मुखे प्रविष्टः । येनैष गजः सिंहेन व्यापादितः । स च मामेतद्रक्षणं नियुज्य नद्यां स्नानार्थं गतः । तेन च गच्छता मम समादिष्टम्-यदि कश्चिदिह व्याघ्रः समायाति, त्वया सुगुप्तं मामावेदनीयम् । येन वनमिदं मया निर्व्याघ्रं कर्तव्यम् । यतः पूर्वं व्याघ्रेणैकेन मया व्यापादितो गजः शून्ये भक्षयित्वोच्छिष्टतां नीतः । तद्दिनादारभ्य व्याघ्रान् प्रति प्रकुपितोऽस्मि ।
तच्छ्रुत्वा व्याघ्रः सन्त्रस्तमाह-भो भागिनेय ! देहि मे प्राण-दक्षिणाम् । त्वया तस्यात्र चिरायायातस्यापि मदीया कापि वार्ता नाख्येया । एवमभिधाय सत्वरं पलायाञ्चक्रे ।
अथ गते व्याघ्रे तत्र कश्चिद्द्वीपी समायातः । तमपि दृष्ट्वासौ व्यचिन्तयत्-दृढ-दंष्ट्रोऽयं चित्रकः । तदस्य पार्श्वादस्य गजस्य यथा चर्म-च्छेदो भवति तथा करोमि । एवं निश्चित्य तमपुवाच-भो भगिनी-सुत ! किमिति चिराद्दृष्टोऽसि । कथं च बुभुक्षित इव लक्ष्यसे ? तदतिथिरसि मे । एष गजः सिंहेन हतस्तिष्ठति । अहं चास्य तदादिष्टो रक्षा-पालः । परं तथापि यावत् सिंहो न समायाति, तावदस्य गजस्य मांसं भक्षयित्वा तृप्तिं कृत्वा द्रुततरं व्रज ।
स आह-माम, तदेवं तन् न कार्यं मे मांसाशनेन, यतो जीवन् नरो भद्र-शतानि पश्यति । उक्तं च-यच्छक्यं ग्रसितं यस्य ग्रस्तं परिणमेच्च यत् (२३) इतादि । तत् सर्वथा तदेव भुज्यते यदेव परिणमति । तदहमितोऽपयास्यामि ।
शृगाल आह-भो अधीर ! विश्रब्धो भूत्वा भक्षय त्वम् । तस्यागमनं दूरतोऽपि तवाहं निवेदयिष्यामि । तथानुष्ठिते दीव्पिना भिन्नां त्वचं विज्ञाय जम्बूकेनाभिहितम्-भो भगिनी-सुत ! गम्यताम् । एष सिंहः समायाति ।
तच्छ्रुत्वा चित्रको दूरं प्रणष्टः । अथ यावदसौ तद्भेद-कृत-द्वारेण किञ्चिन् मांसं भक्षयति, तावदतिसङ्क्रुद्धोऽपरः शृगालः समाययौ । अथ तमात्म-तुल्य-पराक्रमं दृष्ट्वा-उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् (७८) इति श्लोकं पठन् तदभिमुख-कृत-प्रयाणः स्व-दंष्ट्राभिस्तं विदार्य दिशो भागं कृत्वा स्वयं सुखेन चिर-कालं हस्ति-मांसं बुभुजे ।
एवं त्वमपि तं रिपुं स्व-जातीयं युद्धेन परिभूय दिशो-भागं कुरु । नो चेत् पश्चाद्बद्ध-मूलादस्मात् त्वमपि विनाशमवाप्स्यसि । उक्तं च यतः-
सम्भाव्यं गोषु सम्पन्नं सम्भाव्यं ब्राह्मणे तपः ।
सम्भाव्यं स्त्रीषु चापल्यं सम्भाव्यं जातितो भयम् ॥ ४.८२॥
अन्यच्च-
सुभिक्षाणि विचित्राणि शिथिलाः पौर-योषितः ।
एको दोषो विदेशस्य स्वजातिर्यद्विरुध्यते ॥ ४.८३॥
मकर आह-कथमेतत् ?
वानरोऽब्रवीत्-
कथा १५ चित्राङ्ग-नाम-सारमेय-कथा
अस्ति कस्मिंश्चिदधिष्ठाने चित्राङ्गो नाम सारमेयः । तत्र च चिर-कालं दुर्भिक्षं पतितम् । अन्नाभावात् सारमेयादयो निष्कुलतां गन्तुमारब्धाः । अथ चित्राङ्गः क्षुत्क्षाम-कण्ठस्तद्भयाद्देशान्तरं गतः । तत्र च कस्मिंश्चित् पुरे कस्यचिद्गृह-मेधिनो गृहिण्याः प्रसादेन प्रतिदिनं गृहं प्रविश्य विविधान्नानि भक्षयन् परां तृप्तिं गच्छति । परं तद्गृहाद्बहिर्निष्क्रान्तोऽन्यैर्मदोद्धत-सारमेयैः सर्व-दिक्षु परिवृत्य सर्वाङ्गं दंष्ट्राभिर्विदार्यते । ततस्तेन विचिन्तितवान्-अहो ! वरं स्व-देशो यत्र दुर्भिक्षेऽपि सुखेन स्थीयते । न च कोऽपि युद्धं करोति । तदेवं स्व-नगरं व्रजामि इतवधार्य स्व-स्थानं प्रति जगाम ।
अथासौ देशान्तरात् समायातः सर्वैरपि स्वजनैः पृष्टः-भोश्चित्राङ्ग ! कथयास्माकं देशान्तर-वार्ताम् । कीदृग्देशः ? किं चेष्टितं लोकस्य ? क आहारः ? कश्च व्यवहारस्तत्र इति ।
स आह-किं कथ्यते विदेशस्य स्वरूप-विषयः ? सुभिक्षाणि विचित्राणि शिथिलाः पौर-योषितः (८३) इति पठति ।
सोऽपि मकरस्तदुपदेशं श्रुत्वा कृत-मरण-निश्चयो वानरमनुज्ञाप्य स्वाश्रयं गतः । तत्र च तेन स्व-गृह-प्रविष्टेनाततायिना सह विग्रहं कृत्वा दृढ-सत्त्वावष्टम्भनाच्च तं व्यापाद्य स्वाश्रयं च लब्ध्वा सुखेन चिर-कालमतिष्ठत् । साध्विदमुच्यते-
अकृत्वा पौरुषं या श्रीः किं तयालस-भाग्यया ।
कुरङ्गोऽपि समश्नाति दैवादुपनतं तृणम् ॥ ४.८४॥
इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे लब्ध-प्रणाशं नाम चतुर्थं तन्त्रं समाप्तम् ॥४॥
५. अपरीक्षित-कारकम्
पञ्चमं तन्त्रम्
अपरीक्षित-कारकम्
क्षपणक-कथा
अथेदमारभ्यतेऽपरीक्षित-कारकं नाम पञ्चमं तन्त्रम् । तस्यायमादिमः श्लोकः-
कुदृष्टं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम् ।
तन् नरेण न कर्तव्यं नापितेनात्र यत् कृतम् ॥ ५.१॥
तद्यथानुश्रूयते-अस्ति दाक्षिणात्ये जनपदे पाटलिपुत्रं नाम नगरम् । तत्र मणिभद्रो नाम श्रेष्ठी प्रतिवसति स्म । तस्य च धर्मार्थ-काम-मोक्ष-कर्माणि कुर्वतो विधि-वशाद्धन-क्षयः सञ्जातः । ततो विभव-क्षयादपमान-परम्परया परं विषादं गतः । अथान्यदा रात्रौ सुप्तिश्चिन्तितवान्-अहो धिगियं दरिद्रता । उक्तं च-
शीलं शौचं क्षान्तिर्दाक्षिण्यं मधुरता कुले जन्म ।
न विराजन्ति हि सर्वे वित्त-विहीनस्य पुसुषस्य ॥ ५.२॥
मानो वा दर्पो वा विज्ञानं विभ्रमः सुबुद्धिर्वा ।
सर्वं प्रणश्यति समं वित्त-विहीनो यदा पुरुषः ॥ ५.३॥
प्रतिदिवसं याति लयं वसन्त-वाताहतेव शिशिर-श्रीः ।
बुद्धिर्बुद्धिमतामपि कुटुम्ब-भर-चिन्तया सततम् ॥ ५.४॥
नश्यति विपुलमतेरपि बुद्धिः पुरुषस्य मन्द-विभवस्य ।
घृत-लवण-तैल-तण्डुल-वस्त्रेन्धन-चिन्तया सततम् ॥ ५.५॥
गणनमिव नष्ट-तारकं
सुष्कमिव सरः श्मशानमिव रौद्रम् ।
प्रिय-दर्शनमपि रूक्षं
भवति गृहं धन-विहीनस्य ॥ ५.६॥
न विभाव्यन्ते लघवो वित्त-विहीनाः पुरोऽपि निवसन्तः ।
सततं जात-विनष्टाः पयसामिव बुद्बुदाः पयसि ॥ ५.७॥
सुकुलं कुशलं सुजनं विहाय कुल-कुशल-शील-विकलेऽपि ।
आढ्ये कल्प-तराविव नित्यं रज्यन्ति जन-निवहाः ॥ ५.८॥
विफलमिह पूर्व-सुकृतं विद्यावन्तोऽपि कुल-समुद्भूताः ।
यस्य यदा विभवः स्यात् तस्य तदा दासतां यान्ति ॥ ५.९॥
लघुरयमाह न लोकः कामं गर्जन्तमपि पतिं पयसाम् ।
सर्वमलज्जाकरमिह यद्यत् कुर्वन्ति परिपूर्णाः ॥ ५.१०॥
एवं सम्प्रधार्य भूयोऽपचिन्तयत्-तदहमनशनं कृत्वा प्राणान् उत्सृजामि । किमनेन व्यर्थ-जीवित-व्यसनेन ? एवं निश्चयं कृत्वा सुप्तः । अथ तस्य स्वप्ने पद्मनिधिः क्षपणक-रूपो दर्शनं दत्त्वा प्रोवाच-भोः श्रेष्ठिन् ! मा त्वं वैराग्यं गच्छ । अहं पद्मनिधिस्तव पूर्व-पुरुषोपार्जितः । तदनेनैव रूपेण प्रातस्त्वद्गृहमागमिष्यामि । तत् त्वयाहं लगुड-प्रहारेण शिरसि ताडनीयः, येन कनक-मयो भूत्वाक्षयो भवामि ।
अथ प्रातः प्रबुद्धः सन् स्वप्नं स्मरंश्चिन्ता-चक्रमारूढस्तिष्ठति-अहो सत्योऽयं स्वप्नः किं वा असत्यो भविष्यति, न ज्ञायते । अथवा नूनं मिथ्यानेन भाव्यम् । यतोऽहमहर्निशं केवलं वित्तमेव चिन्तयामि । उक्तं च-
व्याधितेन सशोकेन चिन्ता-ग्रस्तेन जन्तुना ।
कामार्तेनाथ मत्तेन दृष्टः स्वप्नो निरर्थकः ॥ ५.११॥
एतस्मिन्नन्तरे तस्य भार्यया कश्चिन् नापितः पाद-प्रक्षालनायाहूतः अत्रान्तरे च यथा-निर्दिष्टः क्षपणकः सहसा प्रादुर्बभूव । अथ स तमालोक्य प्रहृष्ट-मना यथासन्न-काष्ठ-दण्डेन तं शिरसताडयत् । सोऽपि सुवर्ण-मयो भूत्वा तत्-क्षणात् भूमौ निपतितः । अथ तं स श्रेष्ठी निभृतं स्व-गृह-मध्ये कृत्वा नापितं सन्तोष्य प्रोवाच-तदेतद्धनं वस्त्राणि च मया दत्तानि गृहाण । भद्र ! पुनः कस्यचिन् नाख्येयोऽयं वृत्तान्तः ।
नापितोऽपि स्व-गृहं गत्वा व्यचिन्तयत्-नूनमेते सर्वेऽपि नग्नकाः शिरसि ताडिताः काञ्चन-मया भवन्ति । तदहमपि प्रातः प्रभूतान् आहूय लगुडैः शिरसि हन्मि, येन प्रभूतं हाटकं मे भवति । एवं चिन्तयतो महता कष्टेन निशातिचक्राम ।
अथ प्रभातेऽभ्युत्थाय बृहल्लगुडमेकं प्रगुणीकृत्य, क्षपणक-विहारं गत्वा जिनेन्द्रस्य प्रदक्षिण-त्रयं विधाय, जानुभ्यामवनिं गत्वा वक्त्र-द्वार-न्यस्तोत्तरीयाञ्चलस्तार-स्वरेणेमं श्लोकमपठत्-
जयन्ति ते जिना येषां केवल-ज्ञान-शालिनाम् ।
आ जन्मनः स्मरोत्पत्तौ मानसेनोषरायितम् ॥ ५.१२॥
अन्यच्च-
सा जिह्वा या जिनं स्तौति तच्चित्तं यज् जिने रतम् ।
तौ एव तु करौ श्लाघ्यौ यौ तत्-पूजा-करौ करौ ॥ ५.१३॥
तथा च-
ध्यान-व्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षुः क्षणं
पश्यानङ्ग-शरातुरं जनमिमं त्रातापि नो रक्षसि ।
मिथ्या-कारुणिकोऽसि निर्घृणतरस्त्वत्तः कुतोऽन्यः पुमान्
सेर्ष्यं मार-वधूभिरितभिहितो बौद्धो जिनः पातु वः ॥ ५.१४॥
एवं संस्तूय, ततः प्रधान-क्षपणकणमासाद्य क्षिति-निहित-जानु-चरणः-नमोऽस्तु वन्दे इतुच्चार्य, लब्ध-धर्म-वृद्ध्याशीर्वादः सुख-मालिकानुग्रह-लब्ध-व्रतादेश उत्तरीय-निबद्ध-ग्रन्थिः सप्रश्रयमिदमाह-भगवनद्य विहरण-क्रिया समस्त-मुनि-समेतेनास्मद्गृहे कर्तव्या ।
तच्छ्रुत्वा नापित आह-भगवन् ! वेद्महं युष्मद्धर्मम् । परं भवतो बहु-श्रावका आह्वयन्ति । साम्प्रतं पुनः पुस्तकाच्छादन-योग्यानि कर्पटानि बहु-मूल्यानि प्रगुणीकृतानि । तथा पुस्तकानां लेखनार्थं लेखकानां च वित्तं सञ्चितमास्ते तत् सर्वथा कालोचितं कार्यम् ।
ततो नापितोऽपि स्व-गृहं गतः । तत्र च गत्वा खदिर-मयं लगुडं सज्जीकृत्य कपाट-युगलं द्वारि समाधाय सार्ध-प्रहरैक-समये भूयोऽपि विहार-द्वारमाश्रित्य सर्वान् भक्ति-युक्तानपि परिचित-श्रावकान् परित्यज्य प्रहृष्ट-मनसस्तस्य पृष्ठतो ययुः । अथवा साध्विदमुच्यते-
एकाकी गृह-सन्त्यक्तः पाणि-पात्रो दिगम्बरः ।
सोऽपि सम्बाध्यते लोके तृष्णया पश्य कौतुकम् ॥ ५.१५॥
जीर्यन्ते जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।
चक्षुः श्रोत्रे च जीर्येते तृष्णैका तरुणायते ॥ ५.१६॥
ततः परं गृह-मध्ये तान् प्रवेश्य द्वारं निभृतं पिधाय, लगुड-प्रहारैः शिरसताडयत् । तेऽपि ताड्यमाना एके मृताः, अन्ये भिन्न-मस्तका फूत्कर्तुमुपचक्रमिरे । अत्रान्तरे तमाक्रन्दमाकर्ण्य कोटर-क्षपालेनाभिहितम्-भो भोः किमयं कोलाहलो नगर-मध्ये ? तद्गम्यताम् ।
ते स सर्वे तदादेशकारिणस्तत्-सहिता वेगात् तद्गृहं गता यावत् पश्यन्ति तावद्रुधिर-प्लावित-देहाः पलायमाना नग्नका दृष्टाः पृष्टाश्च-भोः किमेतत् ? ते प्रोचुर्यथावस्थितं नापित-वृत्तम् ।
तैरपि स नापितो बद्धो हत-शेषैः सह धर्माधिष्ठानं नीतः । तैर्नापितः पृष्टः-भोः ! किमेतत् भवता कुकृत्यमनुष्ठितम् ?
स आह-किं करोमि ? मया श्रेष्ठि-मणिभद्र-गृहे दृष्ट एवंविधो व्यतिकरः । सोऽपि सर्वं मणिप्रभ-वृत्तान्तं यथा-दृष्टमकथयत् ।
ततः श्रेष्ठिनमाहूय ते भणितवन्तः-भोः श्रेष्ठिन् ! किं त्वया कश्चित् क्षपणको व्यापादितः ?
ततः तेनापि सर्वः क्षपणक-वृत्तान्तस्तेषां निवेदितः । अथ तैरभिहितमहो शूलमारोप्यतामसौ दुष्टात्मा कुपरिक्षितकारी नापितः । तथानुष्ठिते तैरभिहितम्-
कुक्कुटं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम् ।
तन् नरेण न कर्तव्यं नापितेनात्र यत् कृतम् ॥ ५.१६अ॥
अथवा साध्विदमुच्यते-
अपरीक्ष्य न कर्तव्यं कर्तव्यं सुपरीक्षितम् ।
पश्चाद्भवति सन्तापो ब्राह्मणी नकुलं यथा ॥ ५.१७॥
मणिभद्र आह-कथमेतत् ?
ते धर्माधिकारिणः प्रोचुः-
कथा १ ब्राह्मणी-नकुल-कथा
कस्मिंश्चिदधिष्ठाने देवशर्मा नाम ब्राह्मणः प्रतिवसति स्म । तस्य भार्या प्रसूता सुतमजनयत् । तस्मिन्न् एव दिने नकुली नकुलं प्रसूय सृता । अथ सा सुत-वत्सला दारकवत्तमपि नकुलं स्तन्य-दानाभ्यङ्ग-मर्दनादिभिः पुपोष, परं तस्य न विश्वसिति । अपत्य-स्नेहस्य सर्व-स्नेहातिरिक्ततया सततमेवमाशङ्कते यत् कदाचिदेष स्व-जाति-दोष-वशादस्य दारकस्य विरुद्धमाचरिष्यति इति । उक्तं च-
कुपुत्रोऽपि भवेत् पुंसां हृदयानन्द-कारकः ।
दुर्विनीतः कुरूपोऽपि मूर्खोऽपि व्यसनी खलः ॥ ५.१८॥
एवं च भाषते लोकश्चन्दनं किल शीतलम् ।
पुत्र-गात्रस्य संस्पर्शश्चन्दनादतिरिच्यते ॥ ५.१९॥
सौहृदस्य न वाञ्छन्ति जनकस्य हितस्य च ।
लोकाः प्रपालकस्यापि यथा पुत्रस्य बन्धनम् ॥ ५.२०॥
अथ सा कदाचिच्छय्यायां पुत्रं शाययित्वा जल-कुम्भमादाय पतिमुवाच-ब्राह्मण, जलार्थमहं तडागे यास्यामि । त्वया पुत्रोऽयं नकुलाद्रक्षणीयः ।
अथ तस्यां गतायां, पृष्ठे ब्राह्मणोऽपि शून्यं गृहं मुक्त्वा भिक्षार्थं क्वचिन् निर्गतः । मातापि तं रुधिर-क्लिन्न-मुखमालोक्य शङ्कित-चित्ता नूनमनेन दुरात्मना दारको भक्षितः इति निश्चिन्त्य कोपात् तस्योपरि तं जल-कुम्भं चिक्षेप ।
एवं सा नकुलं व्यापाद्य यावत् प्रलपन्ती गृहे आगच्छति, तावत् सुतस्तथैव सुप्तस्तिष्ठति । समीपे कृष्ण-सर्पं खण्डशः कृतमवलोक्य पुत्र-वध-शोकेनात्म-शिरो वक्षः-स्थलं च ताडितुमारब्धा ।
अत्रान्तरे ब्राह्मणो गृहीत-निर्वापः समायातो यावत् पश्यति तावत् पुत्र-शोकोऽभितप्ता ब्राह्मणी प्रलपति-भो भो लोभात्मन् ! लोभाभिभूतेन त्वया न कृतं मद्वचः । तदनुभव साम्प्रतं पुत्र-मृत्यु-दुःख-वृक्ष-फलम् । अथवा साध्विदमुच्यते-
अतिलोभो न कर्तव्यः कर्तव्यस्तु प्रमाणतः ।
अतिलोभज-दोषेण जम्बुको निधनं गतः ॥ ५.२१॥
ब्राह्मण आह-किमेतत् ?
सा प्राह-
कथा २ लोभाविष्ट-चक्र-धर-कथा
कस्मिंश्चिदधिष्ठाने चत्वारो ब्राह्मण-पुत्राः परस्परं मित्रतां गता वसन्ति स्म । ते चापि दारिद्र्योपहताः परस्परं मन्त्रं चक्रुः-अहो धिगियं दरिद्रता ! उक्तं च-
वरं वनं व्याघ्र-गजादि-सेवितं
जनेन हीनं बहु-कण्टकावृतम् ।
तृणानि शय्या परिधान-वल्कलः
न बन्धु-मध्ये धन-हीन-जीवितम् ॥ ५.२२॥
तथा च-
स्वामी द्वेष्टि सुसेवितोऽपि सहसा प्रोज्झन्ति सद्बान्धवाः
राजन्ते न गुणास्त्यजन्ति तनुजाः स्फारीभवन्तापदः ।
भार्या साधु सुवंशजापि भजते नो यान्ति मित्राणि च
न्यायारोपित-विक्रमाणपि नृणां येषां न हि स्याद्धनम् ॥ ५.२३॥
शूरः सुरूपः सुभगश्च वाग्मी
शस्त्राणि शास्त्राणि विदाङ्करोतु ।
अर्थं विना नैव यशश्च मानं
प्राप्नोति मर्त्योऽत्र मनुष्य-लोके ॥ ५.२४॥
तानीन्द्रियाणविकलानि तदेव नाम
सा बुद्धिरप्रतिहता वचनं तदेव ।
अर्थोष्मणा विरहितः पुरुषः स एव
बाह्यः क्षणेन भवतीति विचित्रमेतत् ॥ ५.२५॥
तद्गच्छामः कुत्रचिदर्थाय इति सम्मन्त्र्य स्व-देशं पुरं च स्व-सुहृत्-सहितं गृहं च परित्यज्य प्रस्थिताः । अथवा साध्विदमुच्यते-
सत्यं परित्यजति मुञ्चति बन्धु-वर्गं
शीघ्रं विहाय जननीमपि जन्म-भूमिम् ।
सन्त्यज्य गच्छति विदेशमभीष्ट-लोकं
चिन्ताकुलीकृत-मतिः पुरुषोऽत्र लोके ॥ ५.२६॥
एवं क्रमेण गच्छन्तोऽवन्तीं प्राप्ताः । तत्र सिप्राजले कृत-स्नानाः महा-कालं प्रणम्य यावन् निर्गच्छन्ति तावत् भैरवानन्दो नाम योगी सम्मुखो बभूव । ततस्तं ब्राह्मणोचित-विधिना सम्भाव्य तेनैव सह तस्य मठं जग्मुः । अथ तेन पृष्टाः-कुतो भवन्तः समायाताः ? क्व यास्यथ ? किं प्रयोजनम् ?
ततस्तैरभिहितम्-वयं सिद्धि-यात्रिकाः । तत्र यास्यामो यत्र धनाप्तिर्मृत्युर्वा भविष्यतीतेष निश्चयः । उक्तं च-
दुष्प्राप्याणि बहूनि च लभ्यन्ते वाञ्छितानि द्रविणानि ।
अवसर-तुलिताभिरलं तनुभिः साहसिक-पुरुषाणाम् ॥ ५.२७॥
तथा च-
पतति कदाचिन् नभसः खाते पातालतोऽपि जलमेति ।
दैवमचिन्त्यं बलवद्बलवान् ननु पुरुषकारोऽपि ॥ ५.२८॥
अभिमत-सिद्धिरशेषा भवति हि पुरुषस्य पुरुषकारेण ।
दैवमिति यदपि कथयसि पुरुष-गुणः सोऽपदृष्टाख्यः ॥ ५.२९॥
भयमतुलं गुरु-लोकात् तृणमिव तुलयन्ति साधु साहसिकाः ।
प्राणानद्भुतमेतच्चार्तिं चरितं हुदाराणाम् ॥ ५.३०॥
क्लेशस्याङ्गमदत्त्वा सुखमेव सुखानि नेह लभ्यन्ते ।
मधुभिन् मथनायस्तैराश्लिष्यति बाहुभिर्लक्ष्मीम् ॥ ५.३१॥
तस्य कथं न चला स्यात् पत्नी विष्णोर्नृसिंहकस्यापि मासांश्चतुरो निद्रां यः सेवति जल-गतः सततम् ॥ ५.३२॥
दुरधिगमः पर-भागो यावत् पुरुषेण साहसं न कृतम् ।
जयति तुलामधिरूढो भास्वान् इह जलद-पटलानि ॥ ५.३३॥
तत् कथ्यतामस्माकं कश्चित् धनोपायो विवर-प्रवेश-शाकिनी-साधन-श्मशान-सेवन-महा-मांस-विक्रय-साधक-वर्जित-प्रभृतीनामेकतम इति । अद्भुत-शक्तिर्भवान् श्रूयते । वयमपतिसाहसिकाः । उक्तं च-
महान्त एव महतामर्थं साधयितुं क्षमाः ।
ऋते समुद्रादन्यः को बिभर्ति बडवानलम् ॥ ५.३४॥
भैरवानन्दोऽपि तेषां सिद्ध्यर्थं बहूपायं सिद्ध-वर्ति-चतुष्टयं कृत्वार्पयत् । आह च-गम्यतां हिमालय-दिशि । तत्र सम्प्राप्तानां यत्र वर्तिः पतिष्यति, तत्र निधानमसन्दिग्धं प्राप्यस्व । तत्र स्थानं खनित्वा निधिं गृहीत्वा व्याघुट्यताम् ।
तथानुष्ठिते तेषां गच्छतामेकतमस्य हस्ताद्वरित्र्निपपात । अथासौ यावत् तं प्रवेशं खनति तावत् ताम्रमयी भूमिः । ततस्तेनाभिहितमहो, गृह्यतां स्वेच्छया ताम्रम् ।
अन्ये प्रोचुः-भो मूढ ! किमनेन क्रियते यत् प्रभूतमपि दारिद्र्यं न नाशयति । तदुत्तिष्ठ अग्रतो गच्छामः ।
सोऽब्रवीत्-यान्तु भवन्तः । नाहमग्र यास्यामि । एवमभिधाय ताम्रं यथेच्छया गृहीत्वा प्रथमो निवृत्तः ।
ते त्रयोऽपि अग्रे प्रस्थिताः । अथ किञ्चिन्-मात्रं गतस्याग्रेसरस्य वर्तिर्निपपात । सोऽपि यावत् खनितुमारब्धस्तावद्रूप्य-मयी क्षितिः । ततः प्रहर्षितः प्राह, यत्-भो भो, गृह्यतां यथेच्छया रूप्यम् । नाग्रे गन्तव्यम् ।
तावूचतुः-भोः पृष्ठतस्ताम्रमयी भूमिः । अग्रतो रूप्य-मयी । तन् नूनमग्रे सुवर्ण-मयी भविष्यति । किं चानेन प्रभूतेनापि दारिद्र्य-नाशो न भवति । तदावामग्रे यास्यावः ।
एवमुक्त्वा द्वावपग्रे प्रस्थितौ । सोऽपि स्व-शक्त्या रूप्यमादाय निवृत्तः । अथ तयोरपि गच्छतोरेकस्याग्रे वर्तिः पपात । सोऽपि प्रहृष्टो यावत् खनति, तावत् सुवर्ण-भूमिं दृष्ट्वा द्वितीयं प्राह-भो, गृह्यतां स्वेच्छया सुवर्णम् । सुवर्णादन्यन् न किञ्चिदुत्तमं भविष्यति । स प्राह-मूढ ! न किञ्चिद्वेत्सि । प्राक् ताम्रं, ततो रूप्यं, ततः सुवर्णम् । तन् नूनमतः परं रत्नानि भविष्यन्ति । येषामेकतमेनापि दारिद्र्य-नाशो भवति । तदुत्तिष्ठ, अग्रे गच्छावः । किमनेन भार-भूतेनापि प्रभूतेन ?
स आह-गच्छतु भवान् । अहमत्र स्थितस्त्वां प्रतिपालयिष्यामि । तथानुष्ठिते सोऽपि गच्छन्न् एकाकी, ग्रीष्मार्क-प्रताप-सन्तप्त-तनुः पिपासाकुलितः सिद्धि-मार्ग-च्युत इतश्चेतश्च बभ्राम ।
अथ भ्राम्यन्, स्थलोपरि पुरुषमेकं रुधिर-प्लावित-गात्रं भ्रमच्चक्र-मस्तकमपश्यत् । ततो द्रुततरं गत्वा तमवोचत्-भोः ! को भवान् ? किमेवं चक्रेण शिरसि तिष्ठसि ? तत् कथय मे यदि कुत्रचिज् जलमस्ति ।
एवं तस्य प्रवदतस्तच्चक्रं तत्-क्षणात् तस्य शिरसो ब्राह्मण-मस्तके चटितम् ।
स आह-भद्र, किमेतत् ?
स आह-ममापेवमेतच्छिरसि चटितम् ?
स आह-तत् कथय, कदैतदुत्तरिष्यति ? महती मे वेदना वर्तते ।
स आह-यदा त्वमिव कश्चिदधृत-सिद्ध-वर्तिरेवमागत्य, त्वामालापयिष्यति तदा तस्य मस्तकं चटिष्यति ।
स आह-कियान् कालस्तवैवं स्थितस्य ?
स आह-साम्प्रतं को राजा धरणी-तले ?
स आह-वीणा-वादन-पटुः वत्स-राजः ।
स आह-अहं तावत्-काल-सङ्ख्यां न जानामि । परं यदा रामो राजासीत् तवाहं दारिद्र्योपहतः सिद्ध-वर्तिमादायानेन पथा समायातः । ततो मयान्यो नरो मस्तक-श्रुत-चक्रो दृष्टः, पृष्टश्च । ततश्चैतज् जातम् ।
स आह-भद्र ! कथं तदैवं स्थितस्य भोजन-जल-प्राप्तिरासीत् ?
स आह-भद्र ! धनदेन निधान-हरण-भयात् सिद्धानामेतच्चक्र-पतन-रूपं भयं दर्शितम् । तेन कश्चिदपि नागच्छति । यदि कश्चिदायाति, स क्षुत्-पिपासा-निद्रा-रहितो जरा-मरण-वर्जितः केवलमेवं वेदनामनुभवति इति । तदाज्ञापय मां स्व-गृहाय । इतुक्त्वा गतः ।
तस्मिंश्चिरयति स सुवर्ण-सिद्धिस्तस्यान्वेषण-परस्तत्-पद-पङ्क्त्या यावत् किञ्चिद्वनान्तरमागच्छति तावद्रुधिर-प्लावित-शरीरस्तीक्ष्ण-चक्रेण मस्तके भ्रमता सवेदनः क्वणन्न् उपविष्ठस्तिष्ठतीति ददर्श । ततः समीपवर्तिना भूवा सर्वार्थं पृष्टः-भद्र ! किमेतत् ?
स आह-विधि-नियोगः ।
स आह-कथं तत् ? कथय कारणमेतस्य ।
सोऽपि तेन पृष्टः । सर्वं चक्र-वृत्तान्तमकथयत् ।
तच्छ्रुत्वासौ तं विगर्हयन्न् इदमाह-भोः ! निषिद्धस्त्वं मयानेकशो न शृणोषि मे वाक्यम् । तत् किं क्रियते ? विद्यावानपि कुलीनोऽपि वस्तुतो बुद्धि-रहितोऽसि । अथवा साध्विदमुच्यते-
वरं बुद्धिर्न सा विद्या विद्याया बुद्धिरुत्तमा ।
बुद्धि-हीनो विनश्यन्ति यथा ते सिंह-कारकाः ॥ ५.३५॥
चक्रधर आह-कथमेतत् ?
सुवर्णसिद्धिराह-
कथा ३ सिंह-कारक-मूर्ख-ब्राह्मण-कथा
कस्मिंश्चिदधिष्ठाने चत्वारो ब्राह्मण-पुत्राह् परं मित्र-भावमुपगता वसन्ति स्म । तेषां त्रयः शास्त्र-पारङ्गताः परन्तु बुद्धि-रहिताः । एकस्तु बुद्धिमान् केवलं शास्त्र-पराङ्मुखः । अथ तैः कदाचिन् मित्रैर्मन्त्रितम्-को गुणो विद्यायाः, येन देशान्तरं गत्वा, भूपतीन् परितोष्यार्थोपार्जनं न क्रियते । तत् पूर्व-देशं गच्छावः ।
तथानुष्ठिते किञ्चिन् मार्गं गत्वा तेषां ज्येष्ठतरः प्राह-अहो ! अस्माकमेकश्चतुर्थो मूढः । केवलं बुद्धिमान् । न च राज-प्रतिग्रहो बुद्ध्या लभ्यते, विद्यां विना । तन् नास्मै स्वोपार्जितं दास्यामः । तद्गच्छतु गृहम् ।
ततो द्वितीयेनाभिहितम्-भोः सुबुद्धे ! गच्छ त्वं स्व-गृहं, यतस्ते विद्या नास्ति ।
ततस्तृतीयेनाभिहितमहो, न युज्यते एवं कर्तुम् । यतो वयं बाल्यात् प्रभृतेकत्र क्रीडिताः । तदागच्छतु महानुभावोऽस्मदुपार्जित-वित्तस्य सम-भागी भविष्यतीति । उक्तं च-
किं तया क्रियते लक्ष्म्या या वधूरिव केवला ।
या न वेश्येव सामान्या पथिकैरुपभुज्यते ॥ ५.३६॥
तथा च-
अयं निजः परो वेति गणना लघु-चेतसाम् ।
उदार-चरितानां तु वसुधैव कुटुम्बकम् ॥ ५.३७॥
तदागच्छत्वेषोऽपीति ।
तथानुष्ठिते तैर्मार्गाश्रितैरटव्यां मृत-सिंहस्यास्थीनि दृष्टानि । ततश्चैकेनाभिहितं-अहो ! अद्य विद्या-प्रत्ययः क्रियते । किञ्चिदेतत् सत्त्वं मृतं तिष्ठति । तद्विद्या-प्रभावेण जीवन-सहितं कुर्मः । अहमस्थि-सञ्चयं करोमि ।
ततश्च तेनौत्सुक्यादस्थि-सञ्चयः कृतः । द्वितीयेन चर्म-मांस-रुधिरं संयोजितम् । तृतीयोऽपि यावज् जीवनं सञ्चारयति, तावत् सुबुद्धिना निषिद्धः-भोः तिष्ठतु भवान् । एष सिंहो निष्पाद्यते । यदेनं सजीवं करिष्यसि ततः सर्वानपि व्यापादयिष्यति ।
इति तेनाभिहितः स आह-धिङ्मूर्ख ! नाहं विद्याया विफलतां करोमि ।
ततस्तेनाभिहितं-तर्हि प्रतीक्षस्व क्षणं यावदहं वृक्षमारोहामि ।
तथानुष्ठिते, यावत् सजीवः कृतस्तावत् ते त्रयोऽपि सिंहेनोत्थाय व्यापादिताः । स च पुनर्वृक्षादवतीर्य गृहं गतः । अतोऽहं ब्रवीमि-वरं बुद्धिर्न सा विद्या इति ।
अतः परमुक्तं स सुवर्णसिद्धिना-
अपि शास्त्रेषु कुशला लोकाचार-विवर्जिताः ।
सर्वे ते हास्यतां यान्ति यथा ते मूर्ख-पण्डिताः ॥ ५.३८॥
चक्रधर आह-कथमेतत् ?
सोऽब्रवीत्-
कथा ४ मूर्ख-पण्डित-कथा
कस्मिंश्चिदधिष्ठाने चत्वारो ब्राह्मणाः परस्परं मित्रत्वमापन्ना वसन्ति स्म । बाल-भावे तेषां मतिरजायत-भोः वेशान्तरं गत्वा विद्याया उपार्जनं क्रियते ।
अथ्:अन्यस्मिन् दिवसे ते ब्राह्मणाः परस्परं निश्चयं कृत्वा विद्योपार्जनार्थं कान्यकुब्जे गताः । तत्र च विद्या-मठे गत्वा पठन्ति । एवं द्वादशाब्दानि यावदेकचित्ततया पठित्वा, विद्या-कुशलास्ते सर्वे सञ्जाताः ।
ततस्तैश्चतुर्भिर्मिलित्वोक्तम्-वयं सर्व-विद्या-पारङ्गताः । तदुपाध्यायमुत्कलापयित्वा स्व-देशं गच्छामः । तथैवानुष्ठीयतामितुक्त्वा ब्राह्मणाः उपाध्यायमुकलापयित्वा अनुज्ञां लब्ध्वा पुस्तकानि नीत्वा प्रचलिताः । यावत् किञ्चिन्-मार्गं यान्ति, तावद्द्वौ पन्थानौ समायातौ उपविष्टाः सर्वे ।
तत्रैकः प्रोवाच-केन मार्गेण गच्छामः ?
एतस्मिन् समये तस्मिन् पत्तने कश्चित् वणिक्-पुत्रो मृतः । तस्य दाहाय महाजनो गतोऽभूत् । ततश्चतूर्णां मध्यादेकेन पुस्तकमवलोकितम्-महाजनो येन गतः स पन्थः इति । तन् महा-जन-मार्गेण गच्छामः ।
अथ ते पण्डिता यावन् महाजनमेलापकेन सह यान्ति, तावद्रासभः कश्चित् तत्र श्मशाने दृष्टः । अथ द्वितीयेन पुस्तकमुद्घाट्यावलोकितम् ।
उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रु-सङ्कटे ।
राज-द्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ ५.३९॥
तदहो ! अयमस्मदीयो बान्धवः । ततः कश्चित् तस्य ग्रीवायां लगति । कश्चित् पादौ प्रक्षालयति । अथ यावत् ते पण्डिताह् दिशामवलोकनं कुर्वन्ति तावत् कश्चिद्दुष्टो दृष्टः । तैश्चोक्तमेतत् किम् ?
तावत् तृतीयेन पुस्तकमुद्घाट्योक्तम्-धर्मस्य त्वरिता गतिः । तन् नूनमेष धर्मस्तावत् ।
चतुर्थेनोक्तमिष्टं धर्मेण योजयेत् ।
अथ तैश्च रासभ उष्ट्र-ग्रीवायां बद्धः । तत् तु केनचित् तत्-स्वामिनो रजकस्याग्रे कथितम् । यावद्रजकस्तेषां मूर्ख-पण्डितानां प्रहार-करणाय समायातस्तावत् ते प्रणष्टाः ।
ततो तावदग्रे किञ्चित् स्तोकं मार्गं यान्ति तावत् काचिन् नदी समासादिता । तस्य जल-मध्ये पलाश-पत्रमायातं दृष्ट्वा पण्डितेनैकेनोक्तमागमिष्यति यत् पत्रं तसस्मांस्तारयिष्यति । एतत् कथयित्वा तत्-पत्रस्योपरि पतितो यावन् नद्या नीयते तावत् तं नीयमानमलोक्यान्येन पण्डितेन केशान्तं गृहीत्वोक्तम्-
सर्व-नाशे समुत्पन्ने अर्धं त्यजति पण्डितः ।
अर्धेन कुरुते कार्यं सर्व-नाशो हि दुःसहः ॥ ५.४०॥
अथ तैश्च पश्चात् गत्वा कश्चित् ग्राम आसादितः । तेऽपि ग्रामीणैर्निमन्त्रितः पृथग्गृहेषु नीताः । तत एकस्य सूत्रिका घृतमण्ड-संयुता भोजने दत्ता । ततो विचिन्त्य पण्डितेनोक्तं यत्-दीर्घ-सूत्री विनश्यति इति । एवमुक्त्वा भोजनं परित्यज्य गतः । तथा द्वितीयस्य भण्डका दत्ताह् । तेनायुक्तं-अतिविस्तार-विस्तीर्णं तद्भवेन् न चिरायुषम् । स भोजनं त्यक्त्वा गतः ।
अथ तृतीयस्य वाटिका भोजने दत्ता । तत्रापि तेन पण्डितेनोक्तम्-छिद्रेष्वनर्था बहुलीभवन्ति । एवं ते त्रयोऽपि पण्डिताः क्षुत्क्षाम-कण्ठालोके हास्यमानास्ततः स्थानात् स्व-देशं गताः ।
अथ सुवर्ण-सिद्धिराह-यत् त्वं लोक-व्यवहारमजानन् मया वार्यमाणोऽपि न स्थितः तत ईदृशीमवस्थातुमुपगतः । अतोऽहं ब्रवीमि-अपि शास्त्रेषु कुशलाः इति ।
तच्छ्रुत्वा चक्रधर आह-अहो अकारणमेतत् । यतो हि-
सुबुद्धयो विनश्यन्ति दुष्ट-दैवेन नाशिताः ।
स्वल्प-धीरपि तस्मिंस्तु कुले नन्दति सन्ततम् ॥ ५.४१॥
उक्तं च-
अरक्षितं तिष्ठति दैव-रक्षितं सुरक्षितं दैव-हतं विनश्यति ।
जीवतनाथोऽपि वने विसर्जितः कृत-प्रयत्नोऽपि गृहे न जीवति ॥ ५.४२॥
तथा च-
शतबुद्धिः शिरस्थोऽयं लम्बते च सहस्र-धीः ।
एक-बुद्धिरहं भद्रे क्रीडामि विमले जले ॥ ५.४३॥
सुवर्णसिद्धिराह-कथमेतत् ?
स आह-
कथा ५ मत्स्य-मण्डूक-कथा
कस्मिंश्चिज् जलाशये शतबुद्धिः सहस्रबुद्धिश्च द्वौ मत्स्यौ निवसतः स्म । अथ तयोरेकबुद्धिर्नाम मण्डूको मित्रतां गतः । एवं ते त्रयोऽपि जल-तीरे वेलायां सुभाषित-गोष्ठी-सुखमनुभूय, भूयोऽपि सलिलं प्रविशन्ति ।
अथ कदाचित् तेषां गोष्ठी-गतानां तस्मिन् जलाशये समायाताः । ततः सलिलाशयं दृष्ट्वा मिथः प्रोचुः-अहो बहु-मत्स्योऽयं ह्रदो दृश्यते, स्वल्प-सलिलश्च तत् प्रभातेऽत्रागमिष्यामः । एवमुक्त्वा स्व-गृहं गताः ।
मत्स्याश्च विषण्ण-वदना मिथो मन्त्रं चक्रुः । ततो मण्डूक आह-भोः शतबुद्धे ! श्रुतं धीवरोक्तं भवता ? तत् किमत्र युज्यते कर्तुम् ? पलायनमवष्टम्भो वा ? यत् कर्तुं युक्तं भवति तदादिश्यतामद्य ।
तच्छ्रुत्वा सहस्र-बुद्धिः प्रहस्य आह-भोः मित्र ! मा भैषीः । तयोः वचन-श्रवण-मात्रादेव भयं न कार्यम् । न भेतव्यम् । उक्तं च-
सर्पाणां च खलानां च सर्वेषां दुष्ट-चेतसाम् ।
अभिप्राया न सिध्यन्ति तेनेदं वर्तते जगत् ॥ ५.४४॥
तावत् तेषामागमनमपि न सम्पत्स्यते । भविष्यति तर्हि त्वां बुद्धि-प्रभावेणात्म-सहितं रक्षयिष्यामि । यतोऽनेकांसलिल-चर्यामहं जानामि ।
तदाकर्ण्य शतबुद्धिराह-भोः युक्तमुक्तं भवता । सहस्रबुद्धिरेव भवान् । अथवा साध्विदमुच्यते ।
बुद्धेर्बुद्धिमतां लोके नास्तगम्यं हि किञ्चन ।
बुद्ध्या यतो हता नन्दाश्चाणक्येनासि-पाणयः ॥ ५.४५॥
तथा-
न यत्रास्ति गतिर्वायो रश्मीनां च विवस्वतः ।
तत्रापि प्रविशताशु बुद्धिर्बुद्धिमतां सदा ॥ ५.४६॥
ततो वचन-श्रवण-मात्रादपि पितृ-पर्यायागतं जन्म-स्थानं त्यक्तुं न शक्यते । उक्तं च-
न यत् स्वर्गेऽपि सौख्यं स्याद्दिव्य-स्पर्शेन शोभने ।
कुस्थानेऽपि भवेत् पुंसां जन्मनो यत्र सम्भवः ॥ ५.४७॥
तन् न कदाचिदपि गन्तव्यम् । अहं त्वां बुद्धि-प्रभावेण रक्षयिष्यामि । मण्डूक आह-भद्रौ ! मम तावदेकैव बुद्धिः पलायन-परा । तदहमन्य-जलाशयमद्यैव सभार्यो यास्यामि ।
एवमुक्त्वा स मण्डूको रात्रावेवान्य-जलाशयं गतः । धीवरैरपि प्रभाते आगत्य, जघन्य-मध्यमोत्तम-जलचराः मत्स्य-कूर्म-मण्डूक-कर्कटादयो गृहीताः । तावपि शतबुद्धि-सहस्रबुद्धी सभार्यौ पलायमानौ चिरमात्मानं गति-विशेष-विज्ञानैः कुटिल-चारेण रक्षन्तौ जाले निपतितौ, व्यापादितौ च ।
अथापराह्न-समये प्रहृष्टास्ते धीवराः स्व-गृहं प्रति प्रस्थिताः । गुरुत्वाच्चैकेन शतबुद्धिः स्कन्धे कृतः सहस्रबुद्धिः प्रलम्बमानो नीयते । ततश्च वापीकण्ठोपगतेन मण्डूकेन तौ तथा नीयमानौ दृष्ट्वा अभिहिता स्वपत्नी-प्रिये ! पश्य पश्य-
शतबुद्धिः शिरःस्थोऽयं लम्बते च सहस्रधीः ।
एकबुद्धिरहं भद्रे क्रीडामि विमले जले ॥ ५.४८॥
अतश्च वरं बुद्धिर्न सा विद्या यद्भवतोक्तं तत्रेयं मे मतिर्यत् न एकान्तेन बुद्धिरपि प्रमाणम् ।
सुवर्णसिद्धिः प्राह-यद्यपेतदस्ति, तथापि मित्र-वचनं न लङ्घनीयम् । परं किं क्रियते ? निवारितोऽपि मया न स्थितोऽसि, अतिलौल्यात् विद्याहङ्काराच्च । अथवा साध्विदमुच्यते-
साधु मातुल गीतेन मया प्रोक्तोऽपि न स्थितः ।
अपूर्वोऽयं मणिर्बद्धः सम्प्राप्तं गीत-लक्षणम् ॥ ५.४९॥
चक्रधर आह-कथमेतत् ?
सोऽब्रवीत्-
कथा ६ रासभ-शृगाल-कथा
कस्मिंश्च्दधिष्ठाने उद्धतो नाम गर्दभः प्रतिवसति स्म । स सदैव रजक-गृहे भारोद्वहनं कृत्वा रात्रौ स्वेच्छया पर्यटति । ततः प्रत्यूषे बन्धन-भयात् स्वयमेव रजक-गृहमायाति । रजकोऽपि ततस्तं बन्धनेन नियुनक्ति ।
अथ तस्य रात्रौ क्षेत्राणि पर्यटतः कदाचिच्छृगालेन सह मैत्री सञ्जाता स च पीवरत्वाद्वृत्ति-भङ्गं कृत्वा कर्कटिका-क्षेत्रे शृगाल-सहितः प्रविशति । एवं तौ यदृच्छया चिर्भटिका-भक्षणं कृत्वा, प्रत्यहं प्रत्यूषे स्व-स्थानं व्रजतः ।
अथ कदाचित् तेन मदोद्धतेन रासभेन क्षेत्र-मध्य-स्थितेन शृगाओऽभिहितः-भोः भगिनी-सूत ! पश्य पश्य । अतीव निर्मला रजनी । तदहं गीतं करिष्यामि । तत् कथय कतमेन रागेण करोमि ।
स आह-माम ! किमनेन वृथानर्थ-प्रचालनेन ? यतश्चौरकर्म-प्रवृत्तावावाम् । निभृतैश्च चौर-जारैरत्र स्थातव्यम् । उक्तं च-
कांसी विवर्जयेच्चौर्यं निद्रालुश्चेत् स पुंश्चलीम् ।
जिह्वा-लौल्यं च रुजाक्रान्तो जीवितं योऽत्र वाञ्छति ॥ ५.५०॥
अपरं त्वदीयं गीतं न मधुर-स्वरं, शङ्ख-शब्दानुकारं दूरादपि श्रूयते । तदत्र क्षेत्रे रक्षा-पुरुषाः सुसुप्ताः सन्ति । ते उत्थाय वधं बन्धनं वा करिष्यन्ति । तद्भक्षय तावदमृतमयीश्चर्भटीः । मा त्वमत्र गीत-व्यापार-परो भव ।
तच्छ्रुत्वा राभस आह-भोः वनाश्रयत्वात् त्वं गीत-रसं न वेत्सि, तेनैतद्ब्रवीषि । उक्तं च-
शरज्-ज्योत्स्नाहते दूरं तमसि प्रिय-सन्निधौ ।
धन्यानां विशति श्रोत्रे गीत-झङ्कार-जा सुधा ॥ ५.५१॥
शृगाल आह-माम, अस्तेतत् । परं न वेत्सि त्वं गीतम् । केवलमुन्नदसि । तत् किं तेन स्वार्थ-भ्रंशकेन ?
रासभ आह-धिग्धिङ्मूर्ख ! किमहं न जानासि गीतम् ? तद्यथा तस्य भेदान् शृणु-
सप्त स्वरास्त्रयो ग्रामा मूर्च्छताश्चैकत्रिंशतिः ।
तानास्त्वेकोनपऊचाशत् तिस्रो मात्रा लयास्त्रयः ॥ ५.५२॥
स्थान-त्रयं यतीनां च षड्-अस्यानि रसा नव ।
रागा षट्-त्रिंशतिर्भावाश्चत्वारिंशत् ततः स्मृताः ॥ ५.५३॥
पञ्चाशीत्यधिकं हेतद्गीताङ्गानां शतं स्मृतम् ।
स्वयमेव पुरा प्रोक्तं भरतेन श्रुतेः परम् ॥ ५.५४॥
नान्यद्गीतात् प्रियं लोके देवानामपि दृश्यते ।
शुष्क-स्नायु-स्वराह्लादात् त्र्यक्षं जग्राह रावणः ॥ ५.५५॥
तत् कथं भगिनी-सुत मामनभिज्ञं वदन् निवारयति ?
शृगाल आह-माम ! यदेवं यावद्वृत्तेर्द्वार-स्थितः क्षेत्रपालमवलोकयामि, त्वं पुनः स्वेच्छया गीतं कुरु ।
तथानुष्ठिते रासभ-रटनमाकर्ण्य क्षेत्रपः क्रोधात् दन्तान् धर्षयन् प्रधावितः । यावद्रासभो दृष्टस्तावल्लगुड-प्रहारैस्तथा हतो, यथा प्रताडितो भू-पृष्ठे पतितः । ततश्च सच्छिद्रमुलूखलं तस्य गले बद्ध्वा क्षेत्रपालः प्रसुप्तः । रासभोऽपि स्वजाति-स्वभावाद्गत-वेदनः क्षणेनाभ्युत्थितः । उक्तं च-
सारमेयस्य चाश्वस्य रासभस्य विशेषतः ।
मुहूर्तात् परतौ न स्यात् प्रहार-जनिता व्यथा ॥ ५.५६॥
तत तमेवोलूखलमादाय वृत्तिं चूर्णयित्वा पलायितुमारब्धः । अत्रान्तरे शृगालोऽपि दूरादेव दृष्ट्वा सस्मितमाह-
साधु मातुल गीतेन मया प्रोक्तोऽपि न स्थितः ।
अपूर्वोऽपि मणिर्बद्धः साम्प्रतं गीत-लक्षणम् ॥ ५.५७॥
तद्भवानपि मया वार्यमाणोऽपि न स्थितः ।
तच्छ्रुत्वा चक्रधर आह-भो मित्र ! सत्यमेतत् । अथवा साध्विदमुच्यते-
यस्य नास्ति स्वयं प्रज्ञा मित्रोक्तं न करोति यः ।
स एव निधनं याति यथा मन्थर-कोलिकः ॥ ५.५८॥
सुवर्णसिद्धिराह-कथमेतत् ?
सोऽब्रवीत्-
कथा ७ मन्थर-कौलिक-कथा
कस्मिंश्चिदधिष्ठाने मन्थरको नाम कौलिकः प्रतिवसति स्म । तस्य कदाचित् पट-कर्माणि कुर्वतः सर्व-पट-कर्म-काष्ठानि भग्नानि । ततः स कुठारमादाय वने काष्ठार्थं गतः । स च समुद्र-तटे यावद्भ्रमन् प्रयातः तावत् तत्र शिंशपा-पादपस्तेन दृष्टः । ततश्चिन्तितवान्-महानयं वृक्षो दृश्यते । तदनेनैव कर्तितेन प्रभूतानि पट-कर्मोपकरणानि भविष्यन्ति । इतवधार्य तस्योपरि कुठारमुत्क्षिप्तवान् ।
अथ तत्र वृक्षे कश्चित् व्यन्तरः समाश्रित्य आसीत् । अथ तेनाभिहितम्-भोः ! मदाश्रयोऽयं पादपः सर्वथा रक्षणीयः । यतोऽहमत्र महा-सौख्येन तिष्ठामि । समुद्र-कल्लोल-स्पर्शनाच्छीत-वायुनाप्यायितः ।
कौलिक आह-भोः ! किमहं करोमि ? दारु-सामग्रीं विना मे कुटुम्बं बुभुक्षया पीड्यते । तस्मादन्यत्र शीघ्रं गम्यताम् । अहमेनं कर्तयिष्यामि ।
व्यन्तर आह-भोः ! तुष्टस्तवाहम् । तत् प्रार्थ्यतामभीष्टं किञ्चित् । रक्षैमं पादपमिति ।
कौलिक आह-यदेव तदहं स्व-गृहं गत्वा स्व-मित्रं स्व-भार्यां च पृष्ट्वा आगमिष्यामि । ततस्त्वया देयम् ।
अथ तथेति व्यन्तरेण प्रतिज्ञाते स कौलिकः प्रहृष्टः स्व-गृहं प्रति निवृत्तो यावदग्रे गच्छति, तावद्ग्राम-प्रवेशे निज-सुहृदं नापितमपश्यत् । ततः तस्य व्यन्तर-वाक्यं निवेदयामास, यत्-अहो मित्र ! मम कश्चित् व्यन्तरः सिद्धः । तत् कथय, किं प्रार्थये ? अहं त्वां प्रष्टुमागतः ।
नापित आह-भद्र ! यदेवं तद्राज्यं प्रार्थयस्व, येन त्वं राजा भवसि अहं त्वन्-मन्त्री । द्वावपीह सुखमनुभूय पर-लोक-सुखमनुभवावः । उक्तं च-
राजा दान-परो नित्यमिह कीर्तिमवाप्य च ।
तत् प्रभावात् पुनः स्वर्गं स्पर्धते त्रिदशैः सह ॥ ५.५९॥
कौलिक आह-अस्तेतत् तथापि गृहिणीं पृच्छामि ।
स आह-भद्र ! शास्त्र-विरुद्धमेतत् यत् स्त्रिया सह मन्त्रः । यतस्ताः स्वल्प-मतयो भवन्ति । उक्तं च-
भोजनाच्छादने दद्यादृतु-काले च सङ्गमम् ।
भूषणाद्यं च नारीणां न ताभिर्मन्त्रयेत् सुधीः ॥ ५.६०॥
यत्र स्त्री यत्र कितवो बालो यत्र प्रशासिता ।
तद्गृहं क्षयमायाति भार्गवो हीदमब्रवीत् ॥ ५.६१॥
तावत् स्यात् सुप्रसन्नास्यस्तावद्गुरु-जने रतः ।
पुरुषो योषितां यावन् न शृणोति वचो रहः ॥ ५.६२॥
एताः स्वार्थ-परा नार्यः केवलं स्व-सुखे रताः ।
न तासां वल्लभः कोऽपि सुतोऽपि स्व-सुखं विना ॥ ५.६३॥
कौलिक आह-तथापि प्रष्टव्या सा मया । यतः पतिव्रता सा । अपरं तामपृष्ट्वाहं न किञ्चित् करोमि ।
एवं तमभिधाय सत्वरं गत्वा तामुवाच-प्रिये ! अद्यास्माकं कश्चिद्व्यन्तरः सिद्धः । स वाञ्छितं प्रयच्छति । तदहं त्वां प्रष्टुमागतः । तत् कथय किं प्रार्थये ? एष तावन् मम मित्रं नापितो वतदेवं यत्-राज्यं प्रार्थयस्व ।
साह-आर्यपुत्र ! का मतिर्नापितानाम् ? तन् न कार्यं तद्वचः । उक्तं च-
चारणैर्वन्दिभिर्नीचैर्नापितैर्बालकैरपि ।
न मन्त्रं मैत्मान् कुर्यात् सार्धं भिक्षुभिरेव च ॥ ५.६४॥
अपरं महती क्लेश-परम्परैषा राज्य-स्थितिः सन्धि-विग्रह-यानासन-संश्रय-द्वैधीभावादिभिः कदाचित् पुरुषस्य सुखं न प्रयच्छतीति । यतः-
यदैव राज्ये क्रियतेऽभिषेकस्तदैव याति व्यसनेषु बुद्धिः ।
घटा नृपाणामभिषेक-काले सहाम्भसैवापदमुद्गिरन्ति ॥ ५.६५॥
तथा च-
रामस्य व्रजनं वने निवसनं पाण्डोः सुतानां वने
वृष्णीनां निधनं नलस्य नृपते राज्यात् परिभ्रंशनम् ।
सौदासं तदवस्थमर्जुन-वधं सञ्चिन्त्य लङ्केश्वरं
दृष्ट्वा राज्य-कृते विडम्बन-गतं तस्मान् न तद्वाञ्छयेत् ॥ ५.६६॥
यदर्थं भ्रातरः पुत्रा अपि वाञ्छन्ति ये निजाः ।
वधः राज्य-कृतां राज्ञां तद्राज्यं दूरतस्त्यजेत् ॥ ५.६७॥
कौलिक आह-सत्यमुक्तं भवत्या । तत् कथय किं प्रार्थये ?
साह-त्वं तावदेकं पटं नित्यमेव निष्पादयसि । तेन सर्वा व्यय-शुद्धिः सम्पद्यते । इदानीं त्वमात्मनोऽन्यद्बाहु-युगलं द्वितीयं शिरश्च याचस्व, येन पट-द्वयं सम्पादयसि पुरतः पृष्ठतश्च । एकस्य मूल्येन गृःए यथा-पूर्वं व्ययं सम्पादयिष्यसि, द्वितीयस्य मूल्येन विशेष-कृत्यानि करिष्यसि । एवं सौख्येन स्वजाति-मध्ये श्लाघ्यमानस्य कालो यास्यति, लोक-द्वयस्योपार्जना च भविष्यति ।
सोऽपि तदाकर्ण्य प्रहृष्टः प्राह-साधु पतिव्रते ! साधु ! युक्तमुक्तं भवत्या । तदेवं करिष्यामि । एष मे निश्चयः ।
ततोऽसौ गत्वा व्यन्तरं प्रार्थयाञ्चक्रे-भो, यदि ममेप्सितं प्रयच्छसि तत् देहि मे द्वितीयं बाहु-युगलं शिरश्च ।
एवमभिहिते तत्-क्षणादेव स द्विशिराश्चतुर्बाहुश्च सञ्जातः । ततो हृष्ट-मना यावद्गृहमागच्छति तावल्-लोकैः राक्षसोऽयमिति मान्यमानैर्लगुड-पाषाण-प्रहारैस्ताडितो मृतश्च ।
अतोऽहं ब्रवीमि-यस्य नास्ति स्वयं प्रज्ञा इति ।
चक्रधर आह-भोः ! सत्यमेतत् । सर्वोऽपि जनोऽश्रद्देयामाशापिशाचिकां प्राप्य हास्य-पदवीं याति । अथवा साध्विदमुच्यते केनापि-
अनागतवतीं चिन्तामसम्भाव्यां करोति यः ।
स एव पाण्डुरः शेते सोम-शर्म-पिता यथा ॥ ५.६८॥
सुवर्णसिद्धिराह-कथमेतत् ?
सोऽब्रवीत्-
कथा ८ सोम-शर्म-पितृ-कथा
कस्मिंश्चिन् नगरे कश्चित् स्वभाव-कृपणो नाम ब्राह्मणः प्रतिवसति स्म । तस्य भिक्षार्जितैः सक्तुभिर्भुक्त-शेषैः कलशः सम्पूरितः । तं च घटं नागदन्तेऽवलम्ब्य तस्याधस्तात् खट्वां निधाय सततमेक-दृष्ट्या तमवलोकयति ।
अथ कदाचिद्रात्रौ सुप्तश्चिन्तयामास-यत् परिपूर्णोऽयं घटस्तावत् सक्तुभिर्वर्तते । तद्यदि दुर्भिक्षं भवति, तदनेन रूप्यकाणां शतमुत्पत्स्यते । ततस्तेन मयाजाद्वयं ग्रहीतव्यम् । ततः षाण्-मासिकमाप्रसव-वशात् ताभ्यां यूथं भविष्यति । ततोऽजाभिः प्रभूता गा ग्रहीष्यामि । गोभिर्महिषीः । महिषीर्बडवाः । बडवा-प्रसवतः प्रभूता अश्वा भविष्यन्ति । तेषां विक्रयात् प्रभूतं सुवर्णं भविष्यति । सुवर्णेन चतुःशालं गृहं सम्पत्स्यते ।
ततः कश्चिद्ब्राह्मणो मम गृहमागत्य प्राप्त-वयस्कां रूपाढ्यां कन्यां मह्यं दास्यति । तत्-सकाशाट् पुत्रो मे भविष्यति । तस्याःअं सोमशर्मा इति नाम करिष्यामि । ततस्तस्मिन् जानु-चलन-योग्ये सञ्जातेऽहं पुस्तकं गृहीत्वाश्व-शालायाः पृष्ठ-देशे उपविष्टस्तदवधारयिष्यामि । अत्रान्तरे सोमशर्मा मां दृष्ट्वा जनन्युत्सङ्गाज् जानु-चलन-परोऽश्व-खुरासन्न-वर्ती मत्-समीपमागमिष्यति । ततोऽहं ब्राह्मणीं कोपाविष्टोऽभिधास्यामि-गृहाण तावद्बालकम् । सापि गृह-कर्म-व्यग्रतयास्मद्वचनं न श्रोष्यति । ततोऽहं समुत्थाय तां पाद-प्रहारेण ताडयिष्यामि ।
एवं तेन ध्यान-स्थितेन तथैव पाद-प्रहारो दत्तो यथा स घटो भग्नः, स्वयं च सक्तुभिः पाण्डुरतां गतः । अतोऽहं ब्रवीमि-अनागतवतीं चिन्तामिति ।
सुवर्णसिद्धिराह-एवमेतत् । कस्ते दोषः, यतः सर्वोऽपि लोभेन विडम्बितो बाध्यते ? उक्तं च-
यो लौल्यात् कुरुते नैवोदर्कमवेक्षते ।
विडम्बनामवाप्नोति स यथा चन्द्र-भूपतिः ॥ ५.६९॥
चक्रधर आह-कथमेतत् ?
स आह-
कथा ९ चन्द्र-भूपति-कथा
कस्मिंश्चिन् नगरे चन्द्रो नाम भूपतिः प्रतिवसति स्म । तस्य पुत्रा वानर-क्रीडा-रता वानर-यूथं नित्यमेवानेक-भोजन-भक्ष्यादिभिः पुष्टिं नयन्ति स्म । अथ वानराधिपो यः स औशनस-बार्हस्पत्य-चाणक्य-मत-वित् तदनुष्ठाता च तत्-सर्वानपध्यापयति स्म ।
अथ तस्मिन् राज-गृहे लघु-कुमार-वाहन-योग्यं मेष-यूथमस्ति । तन्-मध्यादेको जिह्वा-लौल्यादहर्निशं निःशङ्कं महानसे प्रविश्य यत् पश्यति तत् सर्वं भक्षयति । ते च सूपकर्यत् किञ्चित् काष्ठं मृण्-मयं भाजनं कांस्य-पात्रं ताम्र-पात्रं वा पश्यन्ति तेनाशु ताडयन्ति ।
सोऽपि वानर-यूथपस्तद्दृष्ट्वा व्यचिन्तयत्-अहो मेष-सूपकार-कलहोऽयं वानराणां क्षयाय भविष्यति । यतोऽन्न-रसास्वाद-लम्पटोऽयं मेषो, महा-कोपाश्च सूपकारा यथासन्न-वस्तुना प्रहरन्ति । तद्यदि वस्तुनोऽभावात् कदाचिदुल्मुकेन ताडयिष्यन्ति, तदोर्णा-प्रचुरोऽयं मेषः स्वल्पेनापि वह्निना प्रज्वलयिष्यति । तद्दह्यमानः पुनरश्व-कुट्यां समीप-वर्तिन्यां प्रवेक्ष्यति । सापि तृण-प्राचुर्याज् ज्वलिष्यति । ततोऽश्वा वह्नि-दाहमवाप्स्यन्ति ।
शालिहोत्रेण पुनरेतदुक्तं यत्-वानर-वसयाश्वानां वह्नि-दाह-दोषः प्रशाम्यति । तन् नूनमेतेन भाव्यमत्र निश्चयः । एवं निश्चित्य सर्वान् वानरान् आहूय रहसि प्रोवाच, यत्-
मेषेण सूपकाराणां कलहो यत्र जायते ।
स भविष्यतसन्दिग्धं वानराणां क्षयावहः ॥ ५.७०॥
तस्मात् स्यात् कलहो यत्र गृहे नित्यमकारणः ।
तद्गृहं जीवितं वाञ्छन् दूरतः परिवर्जयेत् ॥ ५.७१॥
कलहान्तानि हर्म्याणि कुवाक्यान्तं च सौहृदम् ।
कुराजान्तानि राष्ट्राणि कुकर्मान्तं यशो नृणाम् ॥ ५.७२॥
तन् न यावत् सर्वेषां सङ्क्षयो भवति, तावदेवैतद्राज-गृहं सन्त्यज्य वनं गच्छामः । अथ तत् तस्य वचनमश्रद्धेयं श्रुत्वा मदोद्धता वानराः प्रहस्य प्रोचुः-भो भवतो वृद्ध-भावाद्बुद्धि-वैकल्यं सञ्जातं, येनैतद्ब्रवीषि । उक्तं च-
वदनं दशनैर्हीनं लाला स्रवति नित्यशः ।
न मतिः स्फुरति क्वापि बाले वृद्धे विशेषतः ॥ ५.७३॥
न वयं स्वर्ग-समानोपभोगान् नाना-विधान् भक्ष्य-विशेषान् राज-पुत्रैः स्व-दत्तानमृत-कल्पान् परित्यज्य तत्राटव्यां कषाय-कटु-तिक्त-क्षार-रूक्ष-फलानि भक्षयिष्यामः ।
तच्छ्रुत्वाश्रु-कलुषां दृष्टिं कृत्वा स प्रोवाच-रे रे मूर्खाः ! यूयमेतस्य सुखस्य परिणामं न जानीथ । किं पाक-रसास्वादन-प्रायमेतत् सुखं परिणामे विषवद्भविष्यति । तदहं कुल-क्षयं स्वयं नावलोकयिष्यामि । साम्प्रतं वनं यास्यामि । उक्तं च-
मित्रं व्यसन-सम्प्राप्तं स्व-स्थानं पर-पीडनम् ।
धन्यास्ते ये न पश्यन्ति देश-भङ्गं कुल-क्षयम् ॥ ५.७४॥
एवमभिधाय सर्वांस्तान् परित्यज्य स यूथाधिपोऽटव्यां गतः । अथ तस्मिन् गतेऽन्यस्मिनहनि स मेषो महानसे प्रविष्टो, यावत् सूपकारेण नान्यत् किञ्चित् समासादितं तावदर्ध-ज्वलित-काष्ठेन ताड्यमानो जाज्वल्यमन-शरीरः शब्दायमानोऽश्व-कुट्यां प्रत्यासन्न-वर्तिन्यां प्रविष्टः ।
तत्र तृण-प्राचुर्य-युक्तायां क्षितौ तस्य प्रलुठतः सर्वत्रापि वह्नि-ज्वालास्तथा समुत्थिता यथा केचिदश्वाः स्फुटित-लोचनाः पञ्चत्वं गताः । केचिद्बन्धनानि त्रोटयित्वा अर्ध-दग्ध-शरीरा इतश्चेतश्च ह्रेषायमाणा धावमाना सर्वमपि जन-समूहमाकुलीचक्रुः ।
अत्रान्तरे राजा सविषादः शालिहोत्रज्ञान् वैद्यान् आहूय प्रोवाच-भोः ! प्रोच्यतामेषामश्वानां कश्चिद्दाहोपशमनोपायः ।
तेऽपि शास्त्राणि विलोक्य प्रोचुः-देव ! प्रोक्तमत्र विषये भगवता शालिहोत्रेण, यत्-
कपीनां मेदसा दोषो वह्नि-दाह-समुद्भवा ।
अश्वानां नाशमभ्येति तमः सूर्योदये यथा ॥ ५.७५॥
तत् क्रियतामेतच्चिकित्सितां द्राक्, यावदेते न दाह-दोषेण विनश्यन्ति ।
सोऽपि तदाकर्ण्य समस्त-वानर-वधमादिष्टवान् । किं बहुना, सर्वेऽपि ते वानरा विविधायुध-लगुड-पाषाणादिभिर्व्यापादिताः इति ।
अथ सोऽपि वानर-यूथपस्तं पुत्र-पौत्र-भ्रातृ-सुत-भागिनेयादि-सङ्क्षयं ज्ञात्वा विषादमुपगतः । सन्त्यक्ताहार-क्रियो वनाद्वनं पर्यटति । अचिन्तयच्च-कथमहं तस्य नृपापसदयानृणता-कृत्येनापकृत्यं करिष्यामि । उक्तं च-
मर्षयेद्धर्षणां योऽत्र वंशजां पर-निर्मिताम् ।
भयाद्वा यदि वा कामात् स ज्ञेयः पुरुषाधमः ॥ ५.७६॥
अथ तेन वृद्ध-वानरेण कुत्रचित् पिपासाकुलेन भ्रमता पद्मिनी-खण्ड-मण्डितं सरः समासादितम् । तद्यावत् सूक्ष्मेक्षिकयावलोकयति तावद्वनचर-मनुष्याणां पद-पङ्क्ति-प्रदेशोऽस्ति न निष्क्रमणम् । ततश्चिन्तितम्-नूनमत्र आक्रान्ते दुष्ट-ग्राहेण भाव्यम् । तत्-पद्मिनी-नालमादाय दूरस्थोऽपि जलं पिबामि ।
तथानुष्ठिते तन्-मध्याद्राक्षसो निष्क्रम्य रत्न-माला-विभूषित-कण्ठस्तमुवाच-भोः ! अत्र यः सलिले प्रवेशं करोति स मे भक्ष्यः इति । तन् नास्ति धूर्ततरस्त्वत्-समोऽन्यो यः पानीयमनेन विधिना पिबति । ततस्तुष्टोऽहं, प्रार्थयस्व हृदय-वाञ्छितम् ।
कपिराह-भोः ! कियती मे भक्षण-शक्तिः ?
स आह-शत-सहस्रायुत-लक्षाणपि जल-प्रविष्टानि भक्षयामि । बाह्यतः शृगालोऽपि मां धर्षयति ।
वानर आह-अस्ति मे केनचिद्भूपतिना सहात्यन्तं वैरम् । यदेनां रत्न-मालां मे प्रयच्छसि, तत् परिवारमपि तं भूपतिं वाक्य-प्रपञ्चेन लोभयित्वात्र सरसि प्रवेशयामि ।
सोऽपि श्रद्धेयं वचस्तस्य श्रुत्वा रत्न-मालां दत्त्वा प्राह-भो मित्र ! यत् समुचितं भवति तत् कर्तव्यमिति ।
वानरोऽपि रत्न-माला-विभूषित-कण्ठो वृक्ष-प्रासादेषु परिभ्रमन् जनैर्दृष्टः । पृष्टश्च-भो यूथप ! भवान् इयन्तं कालं कुत्र स्थितः ? भवता ईदृग्रत्न-माला कुत्र लब्धा ? दीप्त्या सूर्यमपि तिरस्करोति ।
वानरः प्राह-अस्ति कुत्रचिदरण्ये गुप्ततरं महत् सरो धनद-निर्मितम् । तत्र सूर्येऽर्धोदिते रवि-वारे यः कश्चिन् निमज्जति, स धनद-प्रसादादीदृग्-रत्न-माला-विभूषित-कण्ठो निःसरति ।
अथ भूभुजा तदाकर्ण्य, स वानरः समाहूतः । पृष्टश्च-भो यूथाधिप ! किं सत्यमेतत् ? रत्न-माला-सनाथं सरोऽस्ति क्वापि ?
कपिराह-स्वामिन् ! एष प्रत्यक्षतया मत्-कण्ठ-स्थितया रत्न-मालया प्रत्ययस्ते । तद्यदि रत्न-मालया प्रयोजनं तन् मया सह कमपि प्रेषय, येन दर्शयामि ।
तच्छ्रुत्वा नृपतिराह-यदेवं तदहं सपरिजनः स्वयमेष्यामि, येन प्रभूता रत्न-माला उत्पद्यते ।
वानर आह-एवं क्रियताम् ।
तथानुष्ठिते भूपतिना सह रत्न-माला-लोभेन सर्वे कलत्र-भृत्याः प्रस्थिताः । वानरोऽपि राज्ञा दोलाधिरूढेन स्वोत्सङ्गे आरोपितः सुखेन प्रीति-पूर्वमानीयते । अथवा साध्विदमुच्यते-
तृष्णे देवि नमस्तुभ्यं यया वित्तान्विता अपि ।
अकृत्येषु नियोज्यन्ते भ्रामन्ते दुर्गमेष्वपि ॥ ५.७७॥
तथा च-
इच्छति शती सहस्रं सहस्री लक्षमीहते ।
लक्षाधिपस्तथा राज्यं राज्यस्थः स्वर्गमीहते ॥ ५.७८॥
जीर्यन्ते जीर्यतः केशाः दन्ता जीर्यन्ति जीर्यतः ।
जीर्यतश्चक्षुषी श्रोत्रे तृष्णैका तरुणायते ॥ ५.७९॥
अथ तत्-सरः समासाद्य वानरः प्रत्यूष-समये राजानमुवाच-देव ! अत्रार्धोदिते सूर्येऽन्तः-प्रविष्टानां सिद्धिर्भवति तत् सर्वोऽपि जन एकदैव प्रविशतु । त्वया पुनर्मया सह प्रवेष्टव्यं, येन पूर्व-दृष्ट-स्थानमासाद्य, प्रभूतास्ते रत्न-माला दर्शयामि ।
अथ प्रविष्टास्ते लोकाः सर्वे भक्षिता राक्षसेन । अथ तेषु चिरमाणेषु राजा वानरमाह-भो यूथाधिप किमिति चिरायते मे परिजनः ?
तच्छ्रुत्वा वानरः सत्वरं वृक्षमारुह्य राजानमुवाच-भो दुष्ट-नरपते ! राक्षसेनान्तः-सलिल-स्थितेन भक्षितास्ते परिजनः । साधितं मया कुल-क्षयजं वैरम्, तद्गम्यताम् । त्वं स्वामीति मत्वा नात्र प्रवेशितः । उक्तं च-
कृते प्रतिकृतं कुर्याद्धिंसिते प्रतिहिंसितम् ।
न तत्र दोषं पश्यामि यो दुष्टे दुष्टमाचरेत् ॥ ५.८०॥
तत् त्वया मम कुल-क्षयः कृतः मया पुनस्तव इति ।
अथैतदाकर्ण्य राजा कोपाविष्टः पदातिरेकाकी यथायात-मार्गेण निष्क्रान्तः । अथ तस्मिन् भूपतौ गते राक्षस-स्पृष्टो जलान् निष्क्रम्य सानन्दमिदमाह-
हतः शत्रुः कृतं मित्रं रत्न-माला न हारिता ।
नालेन पिबता तोयं भवता साधु वानर ॥ ५.८१॥
अतोऽहं ब्रवीमि-यो लौल्यात् कुरुते कर्म इति ।
एवमुक्त्वा भूयोऽपि स चक्रधरमाह-भो मित्र ! प्रेषय मां, येन स्व-गृहं गच्छामि ।
चक्रधर आह-भद्र ! आपदर्थे धन-मित्र-सङ्ग्रहः क्रियते । तन् मामेवंविधं त्यक्त्वा क्व यास्यसि ? उक्तं च-
यस्त्यक्त्वा सापदं मित्रं याति निष्ठुरतां वहन् ।
कृतघ्नस्तेन पापेन नरके यातसंशयम् ॥ ५.८२॥
सुवर्णसिद्धिराह-भोः, सत्यमेतद्यदि गम्य-स्थाने शक्तिर्भवति । एतत् पुनर्मनुष्याणामगम्य-स्थानम् । नास्ति कस्यापि त्वामुन्मोचयितुं शक्तिः अपरं यथा यथा चक्र-भ्रम-वेदनया तव मुख-विकारं पश्यामि तथा तथाहमेतज् जानामि यत् द्राग्गच्छामि मा कश्चिन् ममापनर्थो भवेदिति । यतः-
यादृशी वदन-च्छाया दृश्यते तव वानर ।
विकालेन गृहीतोऽसि यः परैति स जीवति ॥ ५.८३॥
चक्रधर आह-कथमेतत् ?
सोऽब्रवीत्-
कथा १० विकाल-वानर-कथा
कस्मिंश्चिन् नगरे भद्रसेनो नाम राजा प्रतिवसति स्म । तस्य सर्व-लक्षण-सम्पन्ना रत्नवती नाम कन्यास्ति । तां कश्चिद्राक्षसो जिहीर्षति । रात्रावागत्योपभुङ्क्ते, परं कृत-रक्षोपधानां तां हर्तुं न शक्नोति । सापि तत्-समये रक्षः-सान्निध्यजामवस्थामनुभवति कम्पादिभिः ।
एकमतिक्रामति काले कदाचित् स राक्षसो मध्य-निशायां गृह-कोणे स्थितः । सापि राज-कन्या स्व-सखीमुवाच-सखि ! पश्यैष विकालः समये नित्यमेव मां कदर्थयति । अस्ति तस्य दुरात्मनः प्रतिषेधोपायः कश्चित् ?
तच्छ्रुत्वा राक्षसोऽपि व्यचिन्तयत्-नूनं यथाहं तथान्योऽपि कश्चिद्विकाल-नामास्या हरणाय नित्यमेवागच्छति । परं सोऽपेनां हर्तुं न शक्नोति । तत् तावदश्व-रूपं कृत्वाश्व-मध्य-गतो निरीक्षयामि । किं-रूपः स किं-प्रभावश्चेति ? एवं राक्षसोऽश्व-रूपं कृत्वाश्वानां मध्ये तिष्ठति ।
तथानुष्ठिते निशीथ-समये राज-गृहे कश्चिदश्व-चौरः प्रविष्टः । स च सर्वानश्वानवलोक्य तं राक्षसमश्वतमं विज्ञायाधिरूढः ।
अत्रान्तरे राक्षसश्चिन्तयामास-नूनमेष विकाल-नामा मां चौरं मत्वा कोपान् निहन्तुमागतः । तत् किं करोमि ? एवं चिन्तयन् सोऽपि तेन खलीनं मुखे निधाय कशाघातेन ताडितः । अथासौ भय-त्रस्त-मनाः प्रधावितुमारब्धः ।
चौरोऽपि दूरं गत्वा खलीनाकर्षणेन तं स्थिरं कर्तुमारब्धवान् । स तु वेगाद्वेगतरं गच्छति । अथ तं तथागणित-खलीनाकर्षणं मत्वा चौरश्चिन्तयामास-अहो नैवं-विधा वाजिनो भवन्तगणित-खलीनाः । तन् नूनमनेनाश्व-रूपेण राक्षसेन भवितव्यम् । यद्यपि कञ्चित् पांसुलं भूमि-देशमवलोकयामि तदात्मानं तत्र पातयामि । नान्यथा मे जीवितव्यमस्ति ।
एवं चिन्तयत इष्ट-देवतां स्मरतस्तस्य सोऽश्वो बट-वृक्षस्य तले निष्क्रान्तः । चौरोऽपि बट-प्ररोहमासाद्य तत्रैव विलग्नः । ततो द्वावपि तौ पृथग्-भूतौ परमानन्द-भाजौ जीवित-विषये लब्ध-प्रत्याशौ सम्पन्नौ ।
अथ तत्र बटे कश्चिद्राक्षस-सुहृद्वानरः स्थित आसीत् । तेन राक्षसं त्रस्तमालोक्य व्याहृतम्-भो मित्र ! किमेव अलाय्यतेऽलीक-भयेन ? तद्भक्ष्योऽयं मानुषः भक्ष्यताम् ।
सोऽपि वानर-वचो निशम्य, स्वरूपमाधाय शङ्कित-मनाः स्खलित-गतिर्निवृत्तः । चौरोऽपि तं वानराहूतं ज्ञात्वा कोपात् तस्य लाङ्गुलं लम्बमानं मुखे निधाय चर्वितवान् ।
वानरोऽपि तं राक्षसाभ्यधिकं मन्यमानो भयान् न किञ्चिदुक्तवान् । केवलं व्यथार्तो निमीलित-नयनस्तिष्ठति । राक्षसोऽपि तं तथा-भूतमवलोक्य श्लोकमेनमपठत्-
यादृशी वचन-च्छाया दृश्यते तव वानर ।
विकालेन गृहीतोऽसि यः परैति स जीवति ॥ ५.८४॥
इतुक्त्वा प्रणष्टश्च । तत् प्रेषय मां येन गृहं गच्छामि । त्वं पुनरनुभुङ्क्ष्वात्र स्थित एव लोभ-वृक्ष-फलम् ।
चक्रधर आह-भोः अकारणमेतत् । दैव-वशात् सम्पद्यते नृणां शुभाशुभम् । उक्तं च-
दुर्गस्त्रिकूटः परिखा समुद्रो
रक्षांसि योधा धनदाच्च वित्तम् ।
शास्त्रं च यस्योशनसा प्रणीतं
स रावणो दैव-वशाद्विपन्नः ॥ ५.८५॥
तथा च-
अन्धकः कुब्जकश्चैव त्रिस्तनी राज-कन्यका ।
त्रयोऽपन्यायतः सिद्धाः सम्मुखे कर्मणि स्थिते ॥ ५.८६॥
सुवर्ण-सिद्धिः प्राह-कथमेतत् ?
सोऽब्रवीत्-
कथा ११ अन्धक-कुब्जक-त्रिस्तनी-कथा
अस्तत्र धरा-तल उत्तरा-पथे मधु-पुरं नाम नगरम् । तत्र मधुसेना नाम राजा बभूव । तस्य कदाचिद्विषय-सुखमनुभवतस्त्रिस्तनी कन्या बभूव । अथ तां त्रस्तनीं जातां श्रुत्वा स राजा कञ्चुकिनः प्रोवाच, यद्भोस्त्यज्यतामियं त्रस्तनी गत्वा दूरेऽरण्ये यथा कश्चिन् न जानाति ।
तच्छ्रुत्वा कञ्चुकिनः प्रोचुः-महाराज ज्ञायते यदनिष्ट-कारिणी त्रिस्तनी कन्या भवति । तथापि ब्राह्मणमाहूय प्रष्टव्याः, येन लोक-द्वयं न विरुध्यते, यतः-
यः सततं परिपृच्छति शृणोति सन्धारयतनिशम् ।
तस्य दिवाकर-किरणैर्नलिनीव विवर्धते बुद्धिः ॥ ५.८७॥
तथा च-
पृच्छकेन सदा भाव्यं पुरुषेण विजानता ।
राक्षसेन्द्र-गृहीतोऽपि प्रश्नान् मुक्तो द्विजः पुरा ॥ ५.८८॥
राजा आह–कथमेतत् ?
ते प्रोचुः-
कथा १२ चण्डकर्म-नाम-राक्षस-कथा
देव ! कस्मिंश्चिद्वनोद्देशे चण्डकर्मा नाम राक्षसः प्रतिवसति स्म । एकदा तेन भ्रमताटव्यां कश्चिद्ब्राह्मणः समासादितः । ततस्तस्य स्कन्धमारुह्य प्रोवाच-भो अग्रेसरो गम्यताम् ।
ब्राह्मणोऽपि भय-त्रस्त-मनास्तमादाय प्रस्थितः । अथ तस्य कमलोदर-कोमलौ पादौ दृष्ट्वा ब्राह्मणो राक्षसमपृच्छत्-भोः ! किमेवं-विधौ ते पादावतिकोमलौ ?
राक्षस आह-भोः ! व्रतमस्ति, नाहमार्द्र-पादो भूमिं स्पृशामि ।
ततस्तच्छ्रुत्वात्मनो मोक्षोपायं चिन्तयंस्तत्-सरः प्राप्तः । ततो राक्षसेनाभिहितं-भोः ! यावदहं स्नानं कृत्वा देवतार्चन-विधिं विधायागच्छामि तावत् त्वयातः स्थानादन्यत्र न गन्तव्यम् ।
तथानुष्ठिते दिव्जश्चिन्तयामास-नूनं देवतार्चन-विधेरूर्ध्वं मामेष भक्षयिष्यति । तद्द्रुततरं गच्छामि, येनैष आर्द्र-पादो न मम पृष्ठमेष्यति ।
तथानुष्ठिते राक्षसो व्रत-भङ्ग-भयात् तस्य पृष्ठं न गतः । अतोऽहं ब्रवीमि-पृच्छकेन सदा भाव्यमिति ।
अथ तेभ्यस्तच्छ्रुत्वा-राजा द्विजान् आहूय प्रोवाच-भो ब्राह्मणाः ! त्रिस्तनी मे कन्या समुत्पन्ना, तत् किं तस्याः प्रतिविधानमस्ति, न वा ?
हीनाङ्गी वाधिकाङ्गी वा या भवेत् कन्यका नृणाम् ।
भर्तुः स्यात् सा विनाशाय स्व-शील-निधनाय च ॥ ५.८९॥
या पुनस्त्रिस्तनी कन्या याति लोचन-गोचरम् ।
पितरं नाशतेव सा द्रुतं नात्र संशयः ॥ ५.९०॥
तस्मादस्या दर्शनं परिहरतु देवः । तथा यदि कश्चिदुद्वाहयति, तदेनां तस्मै दत्त्वा, देश-त्यागेन स नियोजयितव्यः इति । एवं-कृते लोक-द्वयाविरुद्धता भवति ।
अथ तेषां तद्वचनमाकर्ण्य स राजा पटह-शब्देन सर्वत्र घोषणामाज्ञापयामास-अहो ! त्रिस्तनीं राजकन्यां यः कश्चिदुद्वाहयति स सुवर्ण-लक्षमाप्नोति देश-त्यागं च ।
एवं तस्यामाघोषणायां क्रियमाणायां महान् कालो व्यतीतः । न कश्चित् तां प्रतिगृह्णाति । सापि यौवनोन्मुखी सञ्जाता सुगुप्त-स्थान-स्थिता यत्नेन रक्ष्यमाणा तिष्ठति ।
अत्र तत्रैव नगरे कश्चिदन्धस्तिष्ठति । तस्य च मन्थरक-नामा कुब्जोऽग्रेसरो यष्टि-ग्राही । ताभ्यां तं पटह-शब्दमाकर्ण्य, मिथो मन्त्रितं-स्पृश्यतेऽयं पटहः । यदि कथमपि दैवात् कन्या लभ्यते । सुवर्ण-प्राप्तिश्च भवति, तथा सुखेन सुवर्ण-प्राप्त्या कालो व्रजति । अथ यदि तस्य दोषतो मृत्युर्भवति । तदा दारिद्र्योपात्तस्यास्य क्लेशस्य पर्यन्तो भवति । उक्तं च-
लज्जा स्नेहः स्वर-मधुरता बुद्धयो यौवन-श्रीः
कान्तासङ्गः स्वजन-ममता दुःख-हानिर्विलासः ।
धर्मः शास्त्रं सुर-गुरु-मतिः शौचमाचार-चिन्ता
पूर्णे सर्वे जठर-पिठरे प्राणिनां सम्भवन्ति ॥ ५.९१॥
एवमुक्त्वान्धेन गत्वा, स पटहः स्पृष्टः । उक्तं च-भोः ! अहं तां कन्यामुद्वाहयामि, यदि राजा मे प्रयच्छति ।
ततस्तै राज-पुरुषैर्गत्वा राज्ञे निवेदितम्-देव ! अन्धेन केनचित् पटहः स्पृष्टः । तदत्र विषये देवः प्रमाणम् ।
राजा प्राह-
अन्धो वा वधिरो वाथ कुष्टी वापन्त्यजोऽपि वा ।
परिगृह्णातु तां कन्यां सलक्षां स्याद्विदेशगः ॥ ५.९२॥
अथ राजादेशात् तै राज-पुरुषैस्तं नदी-तीरे नीत्वा सुवर्ण-लक्षेण समं विवाह-विधिना त्रिस्तनीं तस्मै दत्त्वा, जल-याने निधाय कैवर्ताः प्रोक्ताः-भो ! देशान्तरं नीत्वा कस्मिंश्चिदधिष्ठानेऽन्धः सपत्नीकः । कुब्जकेन सह मोचनीयः ।
तथानुष्ठिते विदेशमासाद्य कस्मिंश्चिदधिष्ठाने कैवर्त-दर्शिते त्रयोऽपि मूल्येन गृहं प्राप्ताः सुखेन कालं नयन्ति स्म । केवलमन्धः पर्यङ्के सुप्तस्तिष्ठति, गृह-व्यापारं मन्थरकः करोति । एवं गच्छता कालेन त्रिस्तन्या कुब्जकेन सह विकृतिः समपद्यत । अथवा साध्विदमुच्यते-
यदि स्याच्छ्री-तलो वह्निश्चन्द्रमा दहनात्मकः ।
सुस्वादः सागरः स्त्रीणां तत्-सतीस्त्वं प्रजायते ॥ ५.९३॥
अथान्येद्युस्त्रिस्तन्या मन्थरकोऽभिहितः-भोः सुभग ! यदेषोऽन्धः कथञ्चित् व्यापाद्यते, तदावयोः सुखेन कालो याति