अद्वैत गुरु परंपरा स्तोत्रम्
नारायणं पद्मभुवं वशिष्ठं शक्तिं च तत्पुत्रं पराशरं च व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रं अथास्य शिष्यम् ।
श्री शंकराचार्यं अथास्य पद्मपादं च हस्तामलकं च शिष्यम् तं तोटकं वार्त्तिककारमन्यान् अस्मद् गुरून् सन्ततमानतोऽस्मि ॥
YATI-PANCHAKAM – यतिपञ्चकम्
वेदान्तवाक्येषु सदा रमन्तो
भिक्षान्नमात्रेण च तुष्टिमन्तः ।
विशोकवन्तः करणैकवन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ १॥
मूलं तरोः केवलमाश्रयन्तः
पाणिद्वयं भोक्तुममत्रयन्तः ।
कन्थामिव श्रीमपि कुत्सयन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ २॥
देहादिभावं परिमार्जयन्त
आत्मानमात्मन्यवलोकयन्तः ।
नान्तं न मध्यं न बहिः स्मरन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ ३॥
स्वानन्दभावे परितुष्टिमन्तः
संशान्तसर्वेन्द्रियदृष्टिमन्तः ।
अहर्निशं ब्रह्मणि ये रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ ४॥
पञ्चाक्षरं पावनमुच्चरन्तः
पतिं पशूनां हृदि भावयन्तः ।
भिक्षाशना दिक्षु परिभ्रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ ५॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीमच्छङ्करभगवतः कृतौ यतिपञ्चक सम्पूर्णम् ॥