Skip to content

Advocatetanmoy Law Library

Legal Database

United States Code

  • Title 1. General Provisions
  • Title 2. The Congress
  • Title 3. The President
  • Title 4. Flag and Seal, Seat of Government, and the States
  • Title 5. Government Organization and Employees
  • Title 6. Domestic Security
  • Title 7. Agriculture
  • Title 8. Aliens and Nationality
  • Title 9. Arbitration
  • Title 10. Armed Forces
  • Title 11. Bankruptcy
  • Title 12. Banks and Banking
  • Title 13. Census
  • Title 14. Coast Guard
  • Title 15. Commerce and Trade
  • Title 16. Conservation
  • Title 17. Copyrights
  • Title 18. Crimes and Criminal Procedure
  • Title 19. Customs Duties
  • Title 20. Education
  • Title 21. Food and Drugs
  • Title 22. Foreign Relations and Intercourse
  • Title 23. Highways
  • Title 24. Hospitals and Asylums
  • Title 25. Indians
  • Title 26. Internal Revenue Code
  • Title 27. Intoxicating Liquors
  • Title 28. Judiciary and Judicial Procedure
  • Title 29. Labor
  • Title 30. Mineral Lands and Mining
  • Title 31. Money and Finance
  • Title 32. National Guard
  • Title 33. Navigation and Navigable Waters
  • Title 35. Patents
  • Title 36. Patriotic and National Observances, Ceremonies, and Organizations
  • Title 37. Pay and Allowances of the Uniformed Services
  • Title 38. Veterans' Benefits
  • Title 39. Postal Service
  • Title 40. Public Buildings, Property, and Works
  • Title 41. Public Contracts
  • Title 42. The Public Health and Welfare
  • Title 43. Public Lands
  • Title 44. Public Printing and Documents
  • Title 45. Railroads
  • Title 46. Shipping
  • Title 47. Telecommunications
  • Title 48. Territories and Insular Possessions
  • Title 49. Transportation
  • Title 50. War and National Defense
  • Title 51. National and Commercial Space Programs
  • Title 52. Voting and Elections
  • Title 54. National Park Service and Related Programs

Read More

  • Home
    • About
  • UPDATES
  • Courts
  • Constitutions
  • Law Exam
  • Pleading
  • Indian Law
  • Notifications
  • Glossary
  • Account
  • Home
  • 2021
  • December
  • 26
  • श्री ब्रह्मविदाशीर्वाद पद्धतिः- Sree Brahmavid Ashirvada Padhyati-By Vidyaranya
  • Sanskrit Documents

श्री ब्रह्मविदाशीर्वाद पद्धतिः- Sree Brahmavid Ashirvada Padhyati-By Vidyaranya

अहमात्मा साक्षी, केवलः, चिन्मात्रस्वरूपः नाज्ञानं, नापि तत्कार्यः किंतु, नित्यशुद्धबुद्धमुक्तसत्यपरमानन्दाद्वयं ब्रह्मैवाहमस्मीति अभॆदॆनावस्थानं समाधिः तत्र च अन्तस्समाधिना दृग्दृश्यविवॆकॆ, बहिस्समाधिना ब्रह्मसर्गविवॆकॆ च दृढॆ जातॆ, तॆन विवॆकद्वयेनायं गलितदॆहाभिमानः विज्ञातपरमात्मतत्वश्च भूयात्
1 min read
Print Friendly, PDF & Email

श्रीमत्परमहंसपरिव्राजकाचार्य श्रीविद्यारण्यमुनिविरचित

॥ श्रीब्रह्मविदाशीर्वादपद्धतिः ॥

जगत्कामकलाकारं नाभिस्थानं भुवः परम् ।
पदपद्मस्य कामाक्ष्याः महापीठमुपास्महे ॥
वेदवेदान्त साम्राज्य धर्मकामार्थ मोक्षदम् ।
विद्यारण्यन्नुमः पुण्यं योऽविद्यारण्य-मच्छिनत् ॥

हिरण्यगर्भादिस्थावरान्तॆषु शरीरॆषु यदॆकं चैतन्यमस्ति, तदॆवाहमस्मीति दृढज्ञानं निरन्तरं भूयात् ॥ १ ॥
निर्विकल्पसमाधिप्रतिबन्धक लयविक्षेपकषायरसास्वादेभ्यो रक्षितं मे चित्तमविघ्नेन ब्रह्मणि अवस्थितं भूयात् ॥ २ ॥
नित्यनिर्विकारासङ्गाद्वितीय परिपूर्ण सच्चिदानन्द स्वप्रकाशचिदॆक-रसब्रह्मानुभवसिद्धिर्भूयात् ॥ ३ ॥
अहमादि दृश्यविलक्षणास्मत्प्रत्ययालम्बनभूत प्रत्यक्चिन्मात्रस्वरूपात्मानुभव-सिद्धिर्भूयात् ॥ ४ ॥

सजातीयविजातीयस्वगतभॆदरहिताखंड सच्चिदानन्दाद्वितीय ब्रह्मात्मानुभवसिद्धिर्भूयात् ॥ ५ ॥

नित्यशुद्ध बुद्धमुक्त सत्यपरमानन्दाद्वितीय ब्रह्मात्मानुभवसिद्धिर्भूयात् ॥ ६ ॥
स्वगतादि-भॆदरहिताखण्ड- सच्चिदानन्दलक्षण- ब्रह्माभिन्नकूटस्थ-प्रत्यक्स्वरूपः सर्वसाक्षीति चिद्रूपानुभवसिद्धिर्भूयात् ॥ ७ ॥
स्वात्मनॊऽन्यत्वॆन प्रतिभातं सकलं साक्ष्यं जगत्स्वाविद्याविलसितत्वॆन स्वानन्यत्वात् स्वात्ममात्रमिति, अद्वितीयब्रह्मात्मानुभवसिद्धिर्भूयात् ॥ ८ ॥
असंभावना-विपरीतभावना-रहितत्वॆन करतलामलकवत् अहं ब्रह्मास्मीति अप्रतिबद्धापरॊक्षब्रह्मसाक्षात्कारॊ दृढीभूयात्॥९॥

यॊ ब्रह्मादिस्तम्बपर्यन्तानां सर्वॆषां प्राणिनां दॆहमध्यॆ, तत्तद्देहसाक्षित्वॆन भासमान:, परिपूर्णात्माऽस्ति, सॊऽयं परमात्मा, कॆवलं मुमुक्षॊ: पुरुषस्य मॆ स्वरूपम् इत्यॆवंरूपात्मसाक्षात्कारॊ दृढीभूयात् ॥ १० ॥
वासनाक्षय-मनॊनाश-तत्वज्ञानाभ्यासवशात्, ज्ञानरक्षा, तपःसिद्धि:, सर्वसमत्वं, दुःखनिवृत्ति:, सुखाविर्भाव: इत्यॆतत् पञ्चप्रयॊजनसिद्धिर्भूयात् ॥ ११ ॥
मैत्री-करुणा-मुदितॊपॆक्षारूपसद्वासनापाटवॆन रागादिदुर्वासनाक्षय: सम्यग्भूयात् ॥ १२ ॥

मैत्रीकरुणामुदितॊपॆक्षाणां सुखदु:खपुण्यापुण्यविषयॆषु भावनातः चित्तप्रसाद: ॥ निरन्तरस्वात्मानुसंधानवशात् मनसॊ वृत्तिरूपपरिणामत्यागॆन, निरुद्धताकारॆण आत्मपरिणामॊ दृढीभूयात् ॥ १३ ॥

शमादिपूर्वकश्रवणमनन-निदिध्यासनाभ्यासबलात्, विषयासक्ति:, प्रज्ञामान्द्यं, विपर्यय:, दुराग्रहश्चॆति वर्तमानप्रतिबन्धचतुष्टयनिवृत्तिद्वारा, अप्रतिबद्धापरॊक्षब्रह्मसाक्षात्कारॊ दृढीभूयात् ॥ १४ ॥

उपक्रमादिषड्विधलिङ्गै:, अशॆषवॆदान्तानां अद्वैते ब्रह्मणि तात्पर्यावधारणं दृढीभूयात् ॥ १५ ॥

उपक्रमॊपसंहारौ अभ्यासॊऽपूर्वता फलम् ।
अर्थवादॊपपत्ती च लिङ्गं तात्पर्यनिर्णयॆ ॥

श्रीगुरुमुखात् श्रुताद्वितीयवस्तुन:, वेदान्तानुगुणयुक्तिभि: अनवरतमनुचिन्तनं भूयात् ।। १६ ॥

विजातीयदॆहादिप्रत्ययानन्तरित-सजातीयसच्चिदानन्दात्म प्रत्ययप्रवाहॊ निरन्तरं भूयात् ॥ १७ ॥

असंङ्गॊऽहं, चिदात्माहमिति प्रत्यगात्मनि निवेशिते, वृत्तिरहितॆ, संस्कारशेषमात्रतया सूक्ष्मरूपेणावस्थिते चित्ते आत्मनः स्वरूपभूतपरमानन्दॊ निरन्तरं सम्यगाविर्भूयात्॥१८॥

अहमात्मा साक्षी, केवलः, चिन्मात्रस्वरूपः नाज्ञानं, नापि तत्कार्यः किंतु, नित्यशुद्धबुद्धमुक्तसत्यपरमानन्दाद्वयं ब्रह्मैवाहमस्मीति अभॆदॆनावस्थानं समाधिः तत्र च अन्तस्समाधिना दृग्दृश्यविवॆकॆ, बहिस्समाधिना ब्रह्मसर्गविवॆकॆ च दृढॆ जातॆ, तॆन विवॆकद्वयेनायं गलितदॆहाभिमानः विज्ञातपरमात्मतत्वश्च भूयात् ॥ १९ ॥

देहाद्बहि: सकलनामरूपात्मकॆषु वस्तुष्वपि, सर्पधारादिषु रज्जुरिव व्याप्तः, सच्चिदानन्दलक्षणॊ यः परमात्मा, स एव परशब्देनॊच्यते । अन्तः अहमादिदृश्यविलक्षणः, अस्मत्प्रत्ययालम्बनभूतः, प्रत्यक् चिन्मात्रस्वरूपः यः साक्ष्याख्यॊ जीवात्मा, स एव अवरशब्देनॊच्यते । परश्चासौ अवरश्चेति परावरः प्रत्यगभिन्नः परमात्मा । तस्मिन् एवं अन्तर्बहिश्च पररूपॆण अवररूपेण च अवस्थिते, परमार्थतः परावरविभागरहिते प्रत्यगभिन्ने परावरे, ब्रह्मणि त्वं वा अहमस्मि भगवॊ देवते अहं वै त्वमसि इति श्रुत्यनुसारेण अहं ब्रह्मास्मि, ब्रह्मैवाहमस्मि इति व्यतिहारेण, अखण्डैकरसत्वेन साक्षात्कृते सति, तेन परावरब्रह्मसाक्षात्कारेण अस्य परावरब्रह्म साक्षात्कृतवतॊ मम हृदयग्रन्थिभेदसर्वसंशयनिवृत्ति सर्वकर्मक्षयरूपपरमपुरुषार्थः सम्यगाविर्भूयात् ॥ २० ॥

भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टॆ परावरे ॥

अहंकारात्मनॊः एकत्वभ्रमनिवृत्तिरूपॊऽयं ग्रन्थिभेदः दृढीभूयात् ॥ २१ ॥

कर्मादिसहितं वा मुक्तिसाधनं केवलं वा, तथापि, आत्मा साक्षी वा कर्ता वा, साक्षित्वेपि अस्य ब्रह्मत्वमस्ति वा न वा, ब्रह्मत्वे सत्यपि, तद्बुद्धया वेदितुं शक्यते वा न वा, शक्यत्वॆऽपि, तद्वेदनमात्रेण मुक्तिरस्ति वा न वा, मम परमार्थतः ब्रह्मत्वे सत्यपि तादृग्रूपं साक्षात्कृतं वा न वा, साक्षात्कृतेऽपि इतः परं कर्तव्यमस्ति वा न वा, कर्तव्याभावेऽपि, इदानीं मम जीवन्मुक्तिरस्ति वा न वा, जीवन्मुक्तत्वेऽपि, वर्तमान-देहपातानन्तरं विदेहमुक्तिः भविष्यति वा न वा, तत्प्राप्तावपि, कालान्तरे पुनर्जन्म भविष्यति वा न वा, इत्यादिसर्वसंशयनिवृत्तिर्भूयात् ॥ २२ ॥

अनारब्धानां आगामिजन्महेतूनां अनेककॊटिजन्मार्जितानां प्रारब्धव्यतिरिक्तानां संचितकर्माणां निवृत्तिरूपः परमपुरुषार्थः सम्यगाविर्भूयात् ॥ २३ ॥

यः पूर्णानन्देकबॊधः तद्ब्रह्माहमस्मीति ब्रह्मात्मानुभवमात्रपर्यवसाने बुद्धिर्निरन्तरं भूयात् ॥ २४ ॥

यस्मिन् काले द्वैतभानं नस्ति, निद्राऽपि नागच्छति, तस्मिन् काले उपलभ्यमानं यत्सुखमस्ति स ब्रह्मानन्द इति ब्रह्मात्मानुभवसिद्धिः निरन्तरं भूयात् ॥ २५ ॥

मनॊव्यापाराभावसमये यत्सुखं भासते, तत् सुखमात्मस्वरूपमिति आत्मनिश्चयः सम्यग्भूयात् ॥ २६ ॥

स्वप्नः स्वातिरेकेण यथा नास्ति, तथैव स्वजाग्रदपि स्वातिरेकेण नास्ति, तेन अद्वीतीयात्मानुभवसिद्धिः सम्यग्भूयात् ॥ २७ ॥

वासनाक्षयमनॊनाशाभ्यां निर्वासने वृत्तिशून्ये चित्तॆ, संशयविपर्ययदॊषद्वयाभावेन उत्पन्नं ब्रह्मज्ञानं अबाधितत्वेन सुरक्षितं भूयात् ॥ २८ ॥

पञ्चम्यादिभूमिकात्रयरूपायां जीवन्मुक्तौ संपाद्यमानायां द्वैतभानाभावेन संशयविपर्ययप्रसङ्गाभावात् उत्पन्नं तत्वज्ञानं अबाधितत्वेन सुरक्षितं भूयात् ॥ २९ ॥

स्वप्ने स्थूलशरीराभावॆऽपि, सुषुप्तौ सूक्ष्मशरीराभावॆऽपि, समाधौ कारणशरीराभावॆऽपि, जाग्रदाद्यवस्थाचतुष्टयॆऽपि यः चिद्रूपात्मा मणिषु सूत्रमिव अनुस्यूततया निरन्तरं भासते, स चिद्रूपात्मैव अहमस्मीति अन्वयव्यतिरेकाभ्यां शरीरत्रयव्यावृत्तिं तत्साक्षि-चैतन्यस्यानुवृत्तिं च पश्यतॊ मम शरीरत्रयव्यतिरिक्तात्मानुभवः सम्यग्भूयात् ॥ ३० ॥

भगवन्तं परमेश्वरं प्रीतिपूर्वकं भजतो ममॊपरि अनुग्रहार्थं भगवान् वासुदॆवः आत्मभावस्थः सन् विवेकप्रत्ययरूपॆण, भक्तिप्रसादस्नेहयुक्तेन, तद्भावनाभिनिवेशवातेरितेन, ब्रह्मचर्यादिसाधन- संस्कारवत्प्रज्ञावर्तिना, विरक्तान्तःकरणाधारेण विषयव्यावृत्तरागद्वेषाकलुषित चित्तनिवातापवरकस्थॆन, नित्यप्रवृत्तैकाग्र्यध्यानजनित-सम्यग्दर्शनभास्वता ज्ञानदीपेन अज्ञानजं अविवेकतॊ जातं मिथ्याप्रत्ययरूपं मॊहान्धकारं तमॊ नाशयत्वित्याशीः निरन्तरं भूयात् ॥ ३१ ॥

परमेश्वरं प्रीतिपूर्वकं भजन्तॊ भक्ता येनानन्यबुद्धियॊगेन सम्यग्दर्शनलक्षणॆन भगवन्तं परमेश्वरं आत्मत्वेन उपयान्ति प्रतिपद्यन्ते, तं बुद्धियॊगं भगवान् वासुदेवः मे ददातु इति आशीर्निरन्तरं भूयात् ॥ ३२ ॥

विकारमन्तरेण स्वाध्यस्तं सर्वं साक्षादव्यवधानेन स्वरूपबॊधेन ईक्षते पश्यतीति साक्ष्यनुभवसिद्धिः सम्यग्भूयात् ॥ ३३ ॥

देहेन्द्रियादिसकलजडावभासकत्वेन आत्मा चिद्रूप इति चिदात्मानुभवसिद्धिः सम्यग्भूयात् ।। ३४ ॥

आत्मनि कदाचिदपि अप्रियाभावेन, परमप्रॆमास्पदत्वेन च, आत्मा परमानन्दरूप इति, आनन्दात्मानुभवसिद्धिः सम्यग्भूयात् ॥ ३५ ॥

अभारूपस्य विश्वस्य भानं भासकसन्निधिं विना कदाचिदपि न संभवतीति, भारूपात्मा सर्वगत इति सर्वगतात्मानुभवसिद्धिः सम्यग्भूयात् ।। ३६ ॥

असज्जडदुःखात्मकाहङ्कारादिभ्यॊ विलक्षणतया, प्रातिकूल्येन सत्यज्ञानानन्दरूपॆण अञ्चति प्रकाशत इति, प्रत्यगात्मानुभवसिद्धिः सम्यग्भूयात् ।। ३७ ॥

पश्चाद्भासमानस्य जडस्य, प्रथमतॊ भासमानं चैतन्यमॆव वास्तवं स्वरूपमिति निश्चित्य, जडमुपॆक्ष्य, चिन्मात्रमॆव चित्तं निरन्तरं सम्यग्भूयात् ।। ३८ ॥

“सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति” इति वाक्येन देहेन्द्रियादिसाक्षिरूपं यत् प्रज्ञानं त्वंपदार्थरूपं निर्णीतं, तदॆव “एष ब्रह्म” इत्यादिवाक्येन जगत्कारणतया निर्णीतं परं ब्रह्म, न चानयॊरीषदपि भेदॊऽस्ति इति, ऎतरेयमहावाक्यज्ञानसिद्धिः निरन्तरं भूयात्
॥ ३९ ॥

यतः सर्वत्रावस्थितं प्रज्ञानं ब्रह्म, अतॊ मयि अवस्थितं प्रज्ञानं ब्रह्म, प्रज्ञानत्वाविशॆषात् इति ऎतरेयमहावाक्यॊत्थित- जीवब्रह्मैक्यज्ञानसिद्धिः निरन्तरं भूयात् ॥ ४० ॥

आत्मसन्निधौ विद्यमानत्वेन, जडरूपस्यापि देहेन्द्रियादेः चेतनत्वेन भासमानत्वात्, आत्मा चिद्रूप इति चिदात्मानुभसिद्धिः सम्यग्भूयात् ॥ ४१ ॥

आत्मसहितत्वेन, दुःखात्मकस्य देहादेरपि प्रियतमत्वात्, आत्मा परमानन्दरूप इति, आनन्दात्मानुभवसिद्धिः सम्यग्भूयात् ॥ ४२ ॥
दॆशतः, कालतः, वस्तुतः,परिच्छेदरहिताद्वितीयात्मानुभवसिद्धिः सम्यग्भूयात् ॥ ४३ ॥

पूर्वापरपरामर्शमन्तरेण सहसॊत्पद्यमानस्य क्रॊधादिवृत्तिविशॆषस्य हेतॊः चित्तसंस्कारस्य,
विवॆकजन्यायां क्षान्त्यादिवासनायां दृढायां सत्यां विनाशात्, बाह्यनिमित्ताभावेन क्रॊधाद्यनुत्पत्तिः सम्यग्भूयात् ॥ ४४ ॥

यस्य प्रसादादहमेव विष्णुः, मय्येव सर्वं परिकल्पितं च इति, आत्मस्वरूपं विजानामि, तस्य पादारविन्दयॊः अचञ्चला भक्तिः निरन्तरं सम्यग्भूयात् ॥ ४५ ॥

अचिद्रूपस्य जगतः चित्सन्निधेर्विद्यमानत्वात्, चिद्रूपात्मा सर्वगत इति सर्वगतात्मानुभवसिद्धिः सम्यग्भूयात् ॥ ४६ ॥

सर्वार्थसाधकत्वहेतुना, सर्वसंबन्धेन च आत्मा परिपूर्ण इति परिपूर्णात्मानुभवः सम्यग्भूयात् ॥ ४७ ॥

देशकालाव्यवहितत्वेन परॊक्षहेतॊरभावात्, साधनान्तरनिरपेक्षतया स्वयंप्रकाशमानः चिदात्मा सर्वदा स्वतस्सिद्धापरॊक्ष इति अपरॊक्षानुभवसिद्धिः सम्यग्भूयात् ॥ ४८ ॥

यत्र यद्वस्तु अस्तीति ईक्षते तेन वस्तुना अन्यत्र अनन्वागतत्वेन आत्मा असंग इति, असंसर्गात्मानुभवः सम्यग्भूयात् ॥ ४९ ॥
निरवयवत्वेन असंगत्वेन च, आत्मनः केनापि संबन्धाभावात्, आत्मा नित्यमुक्त इति, नित्यमुक्तस्वरूपात्मानुभवः सम्यग्भूयात् ॥ ५० ॥
अवेद्यत्वे सति अपरॊक्षव्यवहारयॊग्यत्वात्, आत्मा स्वयंप्रकाश इति स्वयंप्रकाशात्मानुभवः सम्यग्भूयात् ॥ ५१ ॥
साधनान्तरनिरपॆक्षतया स्वयमेव भासमानत्वात्, आत्मा स्वयंप्रकाश इति स्वयंप्रकाशात्मानुभवः सम्यग्भूयात् ॥ ५२ ॥

इदं सर्वम् आत्मनि प्रतीयमानं यत् रूपरसादिकं जगत् मायामयम्, न त्वेतत् वस्तुतॊऽस्तीति तत्वनिश्चयॊ दृढीभूयात् ॥ ५३ ॥

अयम् आत्मा स्थूलदेहरूपो वा सूक्ष्मदेहरूपो वा ताभ्यामतिरिक्तो वा अतिरिक्तत्वेऽपि अणुपरिमाणो वा मध्यमपरिमाणो वा सर्वगतो वा जडो वा द्रव्यबोधात्मको वा चिद्रूपो वा ईश्वरादन्यो वा ईश्वर एव वा प्रपञ्चः सत्यो वा मिथ्या वा मोक्षसाधनं कर्माणि वा ज्ञानं वा इत्यादिकानां संशयानां निवृत्तिर्भूयात् ॥ ५४ ॥

इति श्रीमत्परमहंसपरिव्राजक श्रीविद्यारण्यमुनिविरचिता ब्रह्मविदाशीर्वादपद्धतिः संपूर्णा ॥

॥ ऒं तत् सत् ब्रह्मार्पणमस्तु ॥



Related

Tags: Advaita Vedanta Vidyaranya

Continue Reading

Previous: यतिपञ्चकम् -YATI PANCHAKAM-Sankar
Next: तन्त्रालोकः-अभिनवगुप्त- Tantraloka by Avinaba Gupta

Indian Supreme Court Digest

  • ISKCON leaders, engage themselves into frivolous litigations and use court proceedings as a platform to settle their personal scores-(SC-18/05/2023)
  • High Court would not interfere by a Revision against a decree or order u/s 6 of SRA if there is no exceptional case (SC-2/4/2004)
  • Borrower may file a counterclaim either before DRT in a proceeding filed by Bank under RDB Act or a Civil Suit under CPC-SC (10/11/2022)
  • When Supreme Court interfered in case of High Court refused Anticipatory Bail (02/12/2022)
  • Award can be modified only to the extent of arithmetical or clerical error-SC (22/11/2021)

Write A Guest Post

Current Posts

Uddharan Dutta Thakur (1904)
1 min read
  • Bengali Documents

Uddharan Dutta Thakur (1904)

Siddhanta Darpana of Baladeva Vidyabhushana (Nanda Mishra Commentary)
3 min read
  • BOOK

Siddhanta Darpana of Baladeva Vidyabhushana (Nanda Mishra Commentary)

Higher Bengali Grammar-Vamandev Chakraverty
1 min read
  • Bengali Documents

Higher Bengali Grammar-Vamandev Chakraverty

Unique Transaction Reference number (22-character code) used to uniquely identify a transaction in RTGS system
7 min read
  • BANKING

Unique Transaction Reference number (22-character code) used to uniquely identify a transaction in RTGS system

  • DATABASE
  • INDEX
  • JUDGMENTS
  • CONTACT US
  • DISCLAIMERS
  • RSS
  • PRIVACY
  • ACCOUNT
Copyright by Advocatetanmoy.
 

Loading Comments...
 

You must be logged in to post a comment.