अथर्ववेदीय कौशिकपद्धतिः – केशव- Atharvavediya Koushik Paddhati by Keshav Acharya

केशवकृता कौशिकपद्धतिः

संहिताविधि

ओं नमोऽथर्ववेदाय । अथर्ववेदस्य संहिताविधेर्विवरणं क्रियते । तत्राथर्ववेदस्य नव भेदा भवन्ति । तत्र चतसृषु शाखासु शौनकादिषु कौशिकोऽयं संहिताविधिः । स च गोपथब्राह्मणादर्थवादादि परित्यज्य विधिमात्रं कल्पयित्वा विधिः कृतः । तत्र यथोपयोगं टीका क्रियते संहिताविधेः । तत्राह सूत्रं कौशिकः

दर्शपूर्णमासविधिः

अथ विधिं वक्ष्यामः ॥ कौशिकसूत्र १,१.१ ॥

अथशब्द आनन्तर्यार्थः । संहिताध्ययनानन्तरं विधेरधिकारः । संहिताविधिं वक्ष्यामः । शान्तिकपौष्टिकाभिचारिकाद्भुतादीनि कर्माणि संहिताविधावुक्तानि । त्रिविधानि कर्माणि । विधिकर्माण्यविधिकर्माण्युच्छ्रयकर्माणि । त्रिप्रमाणको विधिः । प्रत्यक्षमनुमानं शब्दं चेति ॥

स पुनराम्नायप्रत्ययः ॥ कौशिकसूत्र १,१.२ ॥

स विधिर्वेदप्रत्ययः । गोपथब्राह्मणप्रमाणकः ॥

आम्नायः पुनर्मन्त्राश्च ब्राह्मणानि च ॥ कौशिकसूत्र १,१.३ ॥

आम्नायशब्देन किमुच्यते । तत्राह मन्त्रब्राह्मणमाम्नायशब्देनोच्यते ॥

तद्यथा ब्राह्मणविधिरेवं कर्मलिङ्गा मन्त्राः ॥ कौशिकसूत्र १,१.४ ॥

यथा संहिताविधेः कर्मोक्तं तथैवंलिङ्गा मन्त्रा अपि भवन्ति । यथा वाताज्जात (४.१०) इति शङ्खं बध्नाति ॥

तथान्यार्थाः ॥ कौशिकसूत्र १,१.५ ॥

अन्यार्था अपि मन्त्रा भवन्ति । यथाऽअग्निं ब्रूमो (११.६) उतामृतासुः (५.१.७) शिवास्त (७.४३) इत्यभ्याख्याताय प्रयच्छतिऽ (Kऔश्ष्४६.१) ॥

तथा ब्राह्मणलिङ्गा मन्त्राः ॥ कौशिकसूत्र १,१.६ ॥

ब्रह्म ह वा इदमग्र आसीत् (गोब्रा १.१.१) इत्यादि पूर्वब्राह्मणम् । एवंरूपा अपि मन्त्रा भवन्ति । यथाऽविराड्वा इदमग्र आसीत् (८.१०.१) इत्याद्यर्थवादार्था अपि मन्त्रा भवन्ति ॥

तदभावे सम्प्रदायः ॥ कौशिकसूत्र १,१.७ ॥

संहिताविधौ यन्नाम्नायते तत्सर्वं स्वशाखान्यायेन परम्परया सम्प्रदायेन कर्तव्यम् । तथा चोक्तं भट्टपादैः न्यायेन सम्प्रदायेन यान्ति कर्माणि मीमांसका इति । तथा नदीवालुकया वेदिकरणं शान्तिककर्मसु शान्तवृक्षकाष्ठेन वेदिमानं च । तथा मीमांसायां स्मृतिपादे स्मृत्याचाराणां प्रमाणमुक्तम् ॥

प्रमुक्तत्त्वाद्ब्राह्मणानाम् ॥ कौशिकसूत्र १,१.८ ॥

आचारसम्प्रदायविषये विस्मृतानि ब्राह्मणानि । शिष्यैः सम्प्रदायो रक्षितः । उपवर्षाचार्येणोक्तं मीमांसायां स्मृतिपादे कल्पसूत्राधिकरणे.
नक्षत्रकल्पो वैतानस्तृतीयः संहिताविधिः.
चतुर्थोऽङ्गिरसां कल्पः शान्तिकल्पस्तु पञ्चमः ॥
इति ।ऽएते कल्पा वेदतुल्या हिऽ इति भगवतोपवर्षाचार्येण प्रतिपादितम् । अन्ये कल्पाः स्मृतितुल्याः ॥

यज्ञं व्याख्यास्यामो देवानां पितॄणां च ॥ कौशिकसूत्र १,१.९ ॥

पाकतन्त्रमाज्यतन्त्रं च यज्ञशब्देनोच्यते । तं व्याख्यास्यामः । देवानां यज्ञः शान्तिकपौष्टिकादि । पितॄणां पितृमेधपिण्डपितृयज्ञादि ॥

प्राङ्मुख उपांशु करोति ॥ कौशिकसूत्र १,१.१० ॥

प्राङ्मुखः सर्वकर्माणि करोति । नित्यनैमित्तिककाम्यानि कर्माणि । उपांशु च । एकपुरुषान्तरं द्वितीयः पुरुषः शृणोति शब्दं तदुपांश्वित्युच्यते ॥

यज्ञोपवीती देवानाम् ॥ कौशिकसूत्र १,१.११ ॥
प्राचीनावीती पितॄणाम् ॥ कौशिकसूत्र १,१.१२ ॥

यज्ञोपवीती भूत्वा नित्यं नैमित्तिकं काम्यं च कर्म कुर्यात् । अपसव्यं कृत्वा पितृकर्म कुर्यात्पिण्डपितृयज्ञादि ॥

प्रागुदग्वा देवानाम् ॥ कौशिकसूत्र १,१.१३ ॥
दक्षिणा पितॄणाम् ॥ कौशिकसूत्र १,१.१४ ॥

प्राङ्मुखो वोदङ्मुखो वा देवकर्माणि सर्वाणि कुर्यात् । दक्षिणामुखः पितृकर्माणि कुर्यात् । केचित्दक्षिणपूर्वमन्तर्देशमभिमुखः पितृकर्म कुर्यात् ॥

प्रागुदगपवर्गं देवानाम् ॥ कौशिकसूत्र १,१.१५ ॥
दक्षिणप्रत्यगपवर्गं पितॄणाम् ॥ कौशिकसूत्र १,१.१६ ॥

प्रागुदग्वा कर्मसमाप्तिर्दैवकर्मसु । दक्षिणा प्रत्यग्वा समाप्तिः पितृकर्मसु । केचित्प्रागुदगन्तराले समाप्तिः ॥

सकृत्कर्म पितॄणां त्र्यवरार्धं देवानाम् ॥ कौशिकसूत्र १,१.१७ ॥

आचमनप्रोक्षणादिषु पितॄणां सकृत्कर्म कुर्यात् । देवानां चतुर्वा त्रिर्वा सर्वं कर्म कुर्यात् । निर्वपणपरिस्तरणाज्यग्रहणादि कर्म ॥

यथादिष्टं वा ॥ कौशिकसूत्र १,१.१८ ॥

यथापठितं वा कर्म कुर्यात् । यथाऽपरि त्वाग्ने पुरं वयम् (७.७१.१) इति त्रिः पर्यग्नि करोतिऽ (Kऔश्ष्२.१०) ॥

अभिदक्षिणमाचारो देवानां प्रसव्यं पितॄणाम् ॥ कौशिकसूत्र १,१.१९ ॥
प्रदक्षिणं देवानां कर्म कुर्यात् । अप्रदक्षिणं पितृकर्म ॥

स्वाहाकारवषट्कारप्रदाना देवाः ॥ कौशिकसूत्र १,१.२० ॥
स्वधाकारनमस्कारप्रदानाः पितरः ॥ कौशिकसूत्र १,१.२१ ॥

देवानां हविर्दीयते स्वाहाकारेण वषट्कारेण वा ।ऽस्वाहान्ताभिः प्रत्यृचं होमाःऽ (Kऔश्ष्४.११) सर्वत्र । स्वधाकारेण नमस्कारेण पितॄणां दीयते ॥

उपमूललूनं बर्हिः पितॄणाम् ॥ कौशिकसूत्र १,१.२२ ॥
पर्वसु देवानाम् ॥ कौशिकसूत्र १,१.२३ ॥

समूलं बर्हिः पितॄणाम् । लूनं देवानां बर्हिः । सकृदाच्छिन्नं पितॄणां बर्हिः । उपहरणम् ।ऽउत्तरतोऽग्नेरुपसादयतीध्ममुत्तरं बर्हिःऽ (Kऔश्ष्२.१३१४)

प्र यच्छ पर्शुम् (१२.३.३१) इति दर्भाहाराय दात्रं प्रयच्छति ॥ कौशिकसूत्र १,१.२४ ॥
प्र यच्छ पर्शुम् इत्यादिऽअहिंसन्तःऽ (१२.३.३१) इत्यन्तेन ॥

[ओषधीर्दान्तु पर्वन् (१२.३.३१) इत्युपरि पर्वणां लूत्वा तूष्णीमाहृत्योत्तरतोऽग्नेरुपसादयति ॥ कौशिकसूत्र १,१.२५ ॥]
ऽओषधीर्दान्तु पर्वन्ऽ इत्यादिशेषेण बर्हिर्लूत्वा तूष्णीमाहृत्योत्तरतोऽग्नेरुपसादयति । आवसथ्याग्नेरुत्तरतो बर्हिरुपसादयति । केचिद्व्रतोपायनान्तं कृत्वा बर्हिर्लवनं कुर्वन्ति । कर्मणां द्व्यहकालत्वात् ॥

नाग्निं विपर्यावर्तेत ॥ कौशिकसूत्र १,१.२६ ॥
अग्निं पृष्ठतो न वसेत । नाप्रदक्षिणं कुर्यात्.

नान्तरा यज्ञाङ्गानि व्यवेयात् ॥ कौशिकसूत्र १,१.२७ ॥
अन्तरा मध्ये न गच्छेत् । अग्नौ यज्ञपात्रेषु ब्राह्मणेषु व्यवायं न कुर्यात् ॥

दक्षिणं जानु प्रभुज्य जुहोति ॥ कौशिकसूत्र १,१.२८ ॥
होमकर्मकाले दक्षिणं जानु प्रपात्य ततो होमः कार्यः ॥

या पूर्वा पौर्णमासी सानुमतिर्योत्तरा सा राका ॥ कौशिकसूत्र १,१.२९ ॥
या पूर्वामावास्या सा सिनीवाली योत्तरा सा कुहूः ॥ कौशिकसूत्र १,१.३० ॥
साङ्ख्यायनीये ब्राह्मणे उक्तंऽद्वे पौर्णमास्यौ द्वे अमावास्येऽ (शाम्ब्रा ४.४) इति । पौर्णमासी प्रतिपदिति । अमावास्या प्रतिपदिति । पूर्वोपोष्योत्तरा याज्या । केचित्पूर्वा चतुर्दशी मन्यन्ते । केचिच्चतुर्दशीमिश्रा पौर्णमास्यमावास्येति । तिथिभेदे चतुर्दशीमिश्रोपोष्या प्रतिपन्मिश्रा याज्या ॥

अद्योपवसथ इत्युपवत्स्यद्भक्तमश्नाति ॥ कौशिकसूत्र १,१.३१ ॥
तिथिभेदे मुख्या पौर्णमासी । भेदे या पूर्वा सोपोष्या । उपवासं करोति । उपवासो वेदे भक्तमशनम् । येन यागं करोति तन्नाश्नाति यजमानः ॥

मधुलवणमांसमाषवर्जम् ॥ कौशिकसूत्र १,१.३२ ॥
एतान्युपवसथे नाश्नीयात् । एतानि द्रव्याणि प्रसिद्धानि । व्रतोपायनान्तं कृत्वा ततो व्रतग्रहणं करोति । ब्रह्मचर्यादि करोति । त्रिविधानि कर्माणि । विधिकर्माण्यविधिकर्माण्युच्छ्रयकर्माणि । मेधाजननादि पिण्डपितृयज्ञान्तं (Kऔश्ष्१०८९) विधिकर्मत्वम् । अनध्यायकण्डिका (Kऔश्ष्१४१) च । मधुपर्कादीन्द्रमहान्तम् (Kऔश्ष्९०१४०) अविधिकर्मत्वम् । यत्र सूक्तविनियोगं कृत्वा पुनरृचां विनियोगस्तत्रोच्छ्रयकर्मत्वं यथाऽउदुत्तमम्ऽ (७.८८.३) इति । परिभाषा प्रथमेऽध्याये सर्वार्था विधिकर्मार्थाऽविधिकर्मार्था च । परिशिष्टानां परिभाषात्वम् । पञ्चकल्पानां विधिकर्मत्वम् । अद्भुतेषु द्वितीया परिभाषा । कुलं वा ग्रामो वा जनपदो वा तत्र राजा भूमिपतिर्विद्वांसं भूग्वङ्गिरसं वृणीयातित्यादि तत्रोक्तम् ।
कौशिकोक्तानां कर्मणां विदुषां हितार्थायानुष्ठानपद्धतिः क्रियते ॥
ऽअव्यसश्चऽ (१९.६८.१) बर्हिर्लवनवेद्युत्तरवेद्यग्निप्रतिष्ठापनान्तं कृत्वा

ममाग्ने वर्चः (५.३.१) इति समिध आधाय व्रतमुपैति ॥ कौशिकसूत्र १,१.३३ ॥
व्रतेन त्वं व्रतपते (७.७४.४) इति वा ॥ कौशिकसूत्र १,१.३४ ॥
ब्रह्मचारी व्रत्यधः शयीत ॥ कौशिकसूत्र १,१.३५ ॥
ऽममाग्ने वर्चःऽ इति समिध आधायऽव्रतेन त्वं व्रतपतेऽ इत्यृचा भक्तं जुहोति । एतत्कृत्वा ततो द्वितीयेऽहनीदं करोति ॥

[प्रातर्हुतेऽग्नौ कर्मणे वां वेषाय वां सुकृताय वामिति पाणी प्रक्षाल्यापरेणाग्नेर्दर्भानास्तीर्य तेषूत्तरमानडुहं रोहितं चर्म प्राग्ग्रीवमुत्तरलोम प्रस्तीर्य पवित्रे कुरुते ॥ कौशिकसूत्र १,१.३६ ॥
दर्भावप्रच्छिन्नप्रान्तौ प्रक्षाल्यानुलोममनुमार्ष्टि विष्णोर्मनसा पूते स्थः इति ॥ कौशिकसूत्र १,१.३७ ॥]
ऽकर्मणे वाम्ऽ इति मन्त्रेण हस्तप्रक्षालनम् । अपरेणाग्नेर्दर्भानास्तीर्य तेषूत्तरमानडुहं रोहितं चर्म स्तृणाति । पवित्रे कुरुते दर्भावप्रच्छिन्नप्रान्तौ । प्रक्षाल्यानुलोममनुमार्ष्टिऽविष्णोर्मनसा पूते स्थःऽ इति मन्त्रेण ॥ प्रथमा कण्डिका ॥ Kऔशिकपद्धतिकण्डिका १ ॥


[त्वं भूमिमत्येष्योजसा त्वं वेद्यां सीदसि चारुरध्वरे । त्वां पवित्रमृषयो भरन्तस्त्वं पुनीहि दुरितान्यस्मत्(१९.३३.३) इति पवित्रे अन्तर्धाय हविर्निर्वपति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टं निर्वपामि इति ॥ कौशिकसूत्र १,२.१ ॥]
सायम्प्रातर्होमवैश्वदेवपिण्डपितृयज्ञादि उद्धृतेऽग्नौ कार्याणि ।ऽत्वं भूमिम्ऽ इत्यृचा चर्मणि पवित्रे निधाय चतुरो मुष्टीन्निर्वपतिऽदेवस्य त्वाऽ इति । तूष्णीं चतुर्थम् ।ऽअग्नये जुष्टं निर्वपामिऽ ॥

[एवमग्नीषोमाभ्यामिति ॥ कौशिकसूत्र १,२.२ ॥]
ऽअग्नीषोमाभ्यां जुष्टं निर्वपामिऽ इति विकारः ॥

[इन्द्राग्निभ्यामित्यमावास्यायाम् ॥ कौशिकसूत्र १,२.३ ॥
नित्यं पूर्वमाग्नेयम् ॥ कौशिकसूत्र १,२.४ ॥
निरुप्तं पवित्राभ्यां प्रोक्षति अमुष्मै त्वा जुष्टमिति यथादेवतम् ॥ कौशिकसूत्र १,२.५ ॥]
ऽअग्नये त्वा जुष्टं प्रोक्षामिऽ इति । अग्नीषोमाभ्यां च । प्रोक्षणं द्वयोरपि ॥

[उलूखलमुसलं शूर्पं प्रक्षालितं चर्मण्याधाय व्रीहीनुलूखल ओप्यावघ्नंस्त्रिर्हविष्कृता वाचं विसृजति हविष्कृदा द्रवेहि इति ॥ कौशिकसूत्र १,२.६ ॥]
ऽअरातीयोःऽ (१०.६.१) इत्यृचोलूखलमुसलं तक्षतिऽयत्त्वा शिक्वःऽ (१०.६.३) इत्यृचा प्रक्षालयतिऽयद्यत्कृष्णःऽ (१२.३.१३) इत्यृचा मार्जपति । ततः उलूखले व्रीहीनोप्यऽहविष्कृदा द्रवेहिऽ इत्यनेनावहन्ति त्रिः । ततः शूर्पनिष्पवनम् । ततस्त्रिः प्रक्षालनं तण्डुलानाम् ॥

[अपहत्य सुफलीकृतान् कृत्वा त्रिः प्रक्षाल्य तण्डुलानग्ने चरुर्यज्ञियस्त्वाध्यरुक्षत्(११.१.१६) इति चरुमधिदधाति ॥ कौशिकसूत्र १,२.७ ॥]
ऽअग्ने चरुः इत्यृचा चरुमधिदधातिऽ ॥

[शुद्धाः पूताः (११.१.१७) इत्युदकमासिञ्चति ॥ कौशिकसूत्र १,२.८ ॥]
ऽशुद्धाः पूताःऽ इत्यृचोदकमासिञ्चति ॥

[ब्रह्मणा शुद्धाः (११.१.१८) इति तण्डुलान् ॥ कौशिकसूत्र १,२.९ ॥]
ऽब्रह्मणा शुद्धाःऽ इत्यृचा तण्डुलानावपति पवित्रे अन्तर्धानं कृत्वा ॥

[परि त्वाग्ने पुरं वयम् (७.७१.१) इति त्रिः पर्यग्नि करोति ॥ कौशिकसूत्र १,२.१० ॥]
ऽपरि त्वाग्ने पुरं वयम्ऽ इत्यृचा त्रिः पर्यग्निकरणम् ॥

नेक्षणेन त्रिः प्रदक्षिणमुदायौति ॥ कौशिकसूत्र १,२.११ ॥
[अत ऊर्ध्वं यथाकामम् ॥ कौशिकसूत्र १,२.१२ ॥
उत्तरतोऽग्नेरुपसादयतीध्मम् ॥ कौशिकसूत्र १,२.१३ ॥
उत्तरं बर्हिः ॥ कौशिकसूत्र १,२.१४ ॥]
अग्नेरुत्तरत इध्ममुपसादयति । ततो बर्हिः ॥

[अग्नये त्वा जुष्टं प्रोक्षामि इतीध्मम् ॥ कौशिकसूत्र १,२.१५ ॥]
ऽअग्नये त्वा जुष्टं प्रोक्षामिऽ इतीध्मप्रोक्षणम् ॥

[पृथिव्यै इति बर्हिः ॥ कौशिकसूत्र १,२.१६ ॥]
ऽपृथिव्यै त्वा जुष्टं प्रोक्षामिऽ इति बर्हिःप्रोक्षणम् ॥

[दर्भमुष्टिमभ्युक्ष्य पश्चादग्नेः प्रागग्रं निदधाति ऊर्णम्रदं प्रथस्व स्वासस्थं देवेभ्यः इति ॥ कौशिकसूत्र १,२.१७ ॥]
दर्भमुष्टिमभ्युक्ष्य पश्चादग्नेः स्तृणातिऽऊर्णम्रदम्ऽ इति मन्त्रेण ॥

[दर्भाणामपादाय ऋषीणां प्रस्तरोऽसि (१६.२.६) इति दक्षिणतोऽग्नेर्ब्रह्मासनं निदधति ॥ कौशिकसूत्र १,२.१८ ॥]
ऽऋषीणां प्रस्तरोऽसिऽ इति दक्षिणतोऽग्नेर्ब्रह्मासनं निदधति ।ऽभूपतेऽ इति ब्रह्मवरणम् । तथा च गोभिलब्राह्मणम् । प्रत्यक्षं वा दर्भमयं वासनमुदककमण्डलुं वा ब्रह्मस्थाने कुर्यात् । ततो ब्रह्मासनसंस्कारः ॥

[पुरस्तादग्नेरास्तीर्य तेषां मूलान्यपरेषां प्रान्तैरवच्छादयन् परिसर्पति दक्षिणेनाग्निमा पश्चार्धात् ॥ कौशिकसूत्र १,२.१९ ॥]
ततः स्तरणं पुरस्तादग्नेरिति । कर्ता ब्रवीति

परि स्तृणीहि (७.९९.१) इति सम्प्रेष्यति ॥ कौशिकसूत्र १,२.२० ॥
[देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूतः प्रशिषा परिस्तृणामि इति ॥ कौशिकसूत्र १,२.२१ ॥]
ततोऽदेवस्य त्वाऽ इति स्तृणाति ॥

[एवमुत्तरतोऽयुजो धातून् कुर्वन् ॥ कौशिकसूत्र १,२.२२ ॥
यत्र समागच्छन्ति तद्दक्षिणोत्तरं करोति ॥ कौशिकसूत्र १,२.२३ ॥]
परिभोजनीयान् स्तृणाति ॥

स्तीर्णं प्रोक्षति हविषां त्वा जुष्टं प्रोक्षामि इति ॥ कौशिकसूत्र १,२.२४ ॥
नानभ्युक्षितं संस्तीर्णमुपयोगं लभेत ॥ कौशिकसूत्र १,२.२५ ॥
नैधोऽभ्याधानम् ॥ कौशिकसूत्र १,२.२६ ॥
नानुत्पूतं हविः ॥ कौशिकसूत्र १,२.२७ ॥
नाप्रोक्षितं यज्ञाङ्गम् ॥ कौशिकसूत्र १,२.२८ ॥
तस्मिन् प्रक्षालितोपवातानि निदधाति ॥ कौशिकसूत्र १,२.२९ ॥
सर्वत्र एषा परिभाषा ॥

[स्रुवमाज्यधानीं च ॥ कौशिकसूत्र १,२.३० ॥]
स्रुवमाज्यधानीं निदधति ॥

विलीनपूतमाज्यं गृहीत्वाधिशृत्य पर्यग्नि कृत्वोदगुद्वास्य पश्चादग्नेरुपसाद्योदगग्राभ्यां पवित्राभ्यामुत्पुनाति ॥ कौशिकसूत्र १,२.३१ ॥
[विष्णोर्मनसा पूतमसि ॥ कौशिकसूत्र १,२.३२ ॥
देवस्त्वा सवितोत्पुनातु ॥ कौशिकसूत्र १,२.३३ ॥
अच्छिद्रेण त्वा पवित्रेण शतधारेण सहस्रधारेण सुप्वोत्पुनामि इति तृतीयम् ॥ कौशिकसूत्र १,२.३४ ॥
तूष्णीं चतुर्थम् ॥ कौशिकसूत्र १,२.३५ ॥]
ऽविष्णोर्मनसा पूतमसिऽ इति ॥

शृतं हविरभिघारयति मध्वा समञ्जन् घृतवत्कराथ इति ॥ कौशिकसूत्र १,२.३६ ॥
शृतं हविरभिघारयतिऽमध्वा समञ्जन्ऽ इति ॥

[अभिघार्योदञ्चमुद्वासयति उद्वासयाग्नेः शृतमकर्म हव्यमा सीद पृष्ठममृतस्य धाम (ড়ैप्प्ष्५.१६.३) इति ॥ कौशिकसूत्र १,२.३७ ॥]
ऽउद्वासयाग्नेःऽ इत्यृचोद्वासयति ॥

[पश्चादाज्यस्य निधायालङ्कृत्य समानेनोत्पुनाति ॥ कौशिकसूत्र १,२.३८ ॥]
ततः पश्चादाज्यस्य निधायालङ्कृत्याज्येन चरुमभिघार्य समानेनोत्पुनाति ॥

अदारसृत्(१.२२.१) इत्यवेक्षते ॥ कौशिकसूत्र १,२.३९ ॥
उत्तिष्ठत (७.७२.१३) इत्यैन्द्रम् ॥ कौशिकसूत्र १,२.४० ॥
चरुमवेक्षते ॥

[अग्निर्भूम्याम् (१२.१.१९२१) इति तिसृभिरुपसमादधाति अस्मै क्षत्राणि (७.७८.२) एतमिध्मम् (१०.६.३५) इति वा ॥ कौशिकसूत्र १,२.४१ ॥

॥ कौशिकपद्धतिकण्डिका २ ॥


युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढवे जातवेदः । इन्धानास्त्वा सुप्रजसः सुवीरा ज्योग्जीवेम बलिहृतो वयं ते इति ॥ कौशिकसूत्र १,३.१ ॥]
ऽअग्निर्भूम्यामोषधीषुऽ,ऽअग्निर्दिव आ तपतिऽ,ऽअग्निवासाः पृथिव्यसितज्ञूःऽ,ऽअस्मै क्षत्राणि धारयन्तमग्नेऽ,ऽएतमिध्मम्ऽ इति वा,ऽयुनज्मि त्वाऽ इत्येभिः पञ्चभिरिध्ममुपसमादधाति ॥ द्वितीया कण्डिका ॥

[दक्षिणतो जाङ्मायनमुदपात्रमुपसाद्याभिमन्त्रयते तथोदपात्रं धारय यथाग्रे ब्रह्मणस्पतिः । सत्यधर्मां अदीधरद्देवस्य सवितुः सवे इति ॥ कौशिकसूत्र १,३.२ ॥]
दक्षिणतोऽग्नेर्जाङ्मायनमुदपात्रं कांस्यपात्रमुपसाद्याभिमन्त्रयतेऽतथोदपात्रं धारयऽ इत्यृचा ॥

[अथोदकमासिञ्चति इहेत देवीरमृतं वसाना हिरण्यवर्णा अनवद्यरूपाः । आपः समुद्रो वरुणश्च राजा सम्पातभागान् हविषो जुषन्ताम् ॥ इन्द्रप्रशिष्टा वरुणप्रसूता अपः समुद्राद्दिवमुद्वहन्तु । इन्द्रप्रशिष्टा वरुणप्रसूता दिवस्पृथिव्याः श्रियमा वहन्तु इति ॥ कौशिकसूत्र १,३.३ ॥]
ऽइहेत देवीःऽ इति द्वाभ्यामृग्भ्यां सन्ततधारयोदपात्रमवसिञ्चति ॥

[ऋतं त्वा सत्येन परिषिञ्चामि जातवेदः इति सह हविर्भिः पर्युक्ष्य जीवाभिराचम्योपोत्थाय वेदप्रपद्भिः प्रपद्यते ओं प्रपद्ये भूः प्रपद्ये भुवः प्रपद्ये स्वः प्रपद्ये जनत्प्रपद्ये इति ॥ कौशिकसूत्र १,३.४ ॥]
ऽऋतं त्वा सत्येनऽ इति सह हविर्भिः पर्युक्ष्य सर्वत्र स्थण्डिलकर्मणि होष्यन्ऽऋतं त्वा सत्येनऽ हुत्वाऽसत्यं त्वर्तेनऽ (Kऔश्ष्६.२०) इति सम्प्रदायग्रन्थ उक्तम् ।ऽजीवा स्थऽ (१९.६९७०) इति सूक्तेन त्रिराचामति ।ऽसत्यं बृहत्ऽ (१२.१.१९) इति नवभिःऽशान्तिवाऽ (१२.१.५९) इत्यृचाऽउदायुषाऽ (३.३१.१०११) इति द्वाभ्यामुत्तिष्ठति । वेदप्रपद्भिः प्रपद्यतेऽओं प्रपद्ये भूःऽ इत्यृचाऽ…प्रपद्येऽ इति ॥

[प्रपद्य पश्चात्स्तीर्णस्य दर्भानास्तीर्य अहे दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत्पाकतरः इति ब्रह्मासनमन्वीक्षते ॥ कौशिकसूत्र १,३.५ ॥
निरस्तः पराग्वसुः सह पाप्मना निरस्तः सोऽस्तु योऽस्मान् द्वेष्टि यं च वयं द्विष्मः इति दक्षिणा तृणं निरस्यति ॥ कौशिकसूत्र १,३.६ ॥
तदन्वालभ्य जपति इदमहमर्वाग्वसोः सदने सीदामि सत्यस्य सदने सीदामीष्टस्य सदने सीदामि पूर्तस्य सदने सीदामि मामृष देव बर्हिः स्वासस्थं त्वाध्यासदेयमूर्णम्रदमनभिशोकम् ॥ कौशिकसूत्र १,३.७ ॥
विमृग्वरीम् (१२.१.२९) इत्युपविश्यासनीयं ब्रह्मजपं जपति बृहस्पतिर्ब्रह्मा ब्रह्मसदन आसिष्यते बृहस्पते यज्ञं गोपाय यदुदुद्वत उन्निवतः शकेयमिति ॥ कौशिकसूत्र १,३.८ ॥]
आसने दर्भानास्तीर्यऽअहे दैधिषव्योदतस्तिष्ठऽ इत्यासनसंस्कारं करोति ॥

[दर्भैः स्रुवं निर्मृज्य निष्टप्तं रक्षो निष्टप्ता अरातयः प्रत्युष्टं रक्षः प्रत्युष्टा अरातयः इति प्रतप्य ॥ कौशिकसूत्र १,३.९ ॥]
दर्भैः स्रुवं निर्मृज्यऽनिष्टप्तं रक्षःऽ इति स्रुवं प्रतपति ॥

मूले स्रुवं गृहीत्वा जपति विष्णोर्हस्तोऽसि [दक्षिणः पूष्णा दत्तो बृहस्पतेः । तं त्वाहं स्रुवमाददे देवानां हव्यवाहनम् । अयं स्रुवो वि दधाति होमाञ्छताक्षरच्छन्दसा जागतेन । सर्वा यज्ञस्य समनक्ति विष्ठा बार्हस्पत्येष्टिः शर्मणा दैव्येन] इति ॥ कौशिकसूत्र १,३.१० ॥
ओं भूः शं भूत्यै त्वा गृह्णे भूतये इति प्रथमं ग्रहं गृह्णाति ॥ कौशिकसूत्र १,३.११ ॥
ओं भुवः शं पुष्ट्यै त्वा गृह्णे पुष्टये इति द्वितीयम् ॥ कौशिकसूत्र १,३.१२ ॥
ओं स्वः शं त्वा गृह्णे सहस्रपोषाय इति तृतीयम् ॥ कौशिकसूत्र १,३.१३ ॥
ओं जनच्छं त्वा गृह्णेऽपरिमितपोषाय इति चतुर्थम् ॥ कौशिकसूत्र १,३.१४ ॥
राजकर्माभिचारिकेषु अमुष्य त्वा प्राणाय गृह्णेऽपानाय व्यानाय समानायोदानाय इति पञ्चमम् ॥ कौशिकसूत्र १,३.१५ ॥
स्रुवेणाज्यधान्यां ग्रहग्रहणं करोतिऽओं भूः शं भूत्यै त्वाऽ इति चतुर्भिः ॥

अग्नावग्निः, हृदा पूतम् (४.३९.९१०) पुरस्ताद्युक्तः (५.२९.१) यज्ञस्य चक्षुः (२.३५.५) इति जुहोति ॥ कौशिकसूत्र १,३.१६ ॥
[पश्चादग्नेर्मध्यदेशे समानत्र पुरस्ताद्धोमान् ॥ कौशिकसूत्र १,३.१७ ॥
दक्षिणेनाग्निमुदपात्र आज्याहुतीनां सम्पातानानयति ॥ कौशिकसूत्र १,३.१८ ॥
पुरस्ताद्धोम आज्यभागः संस्थितहोमः समृद्धिः शान्तानामिति ॥ कौशिकसूत्र १,३.१९ ॥
एतावाज्यभागौ ॥ कौशिकसूत्र १,३.२० ॥]
पुरस्ताद्धोमान् पश्चादग्नेर्जुहोति । आज्यभागौ पार्श्वत उत्तरतो दक्षिणतश्च जुहोति । मध्ये अन्ये सर्वे होमाः । उदपात्रे सम्पातः ॥ तृतीया कण्डिका ॥ कौशिकपद्धतिकण्डिका ३ ॥


वृष्णे बृहते स्वर्विन्दे अग्नये शल्कं हरामि त्विषीमते । स न स्थिरान् बलवतः कृणोतु ज्योक्च नो जीवातवे दधात्वग्नये स्वाहा (ড়ैप्प्ष्१९.५२.६) इत्युत्तरार्धपूर्वार्ध आग्नेयमाज्यभागं जुहोति ॥ कौशिकसूत्र १,४.१ ॥
दक्षिणपूर्वार्धे सोमाय त्वं सोम दिव्यो नृचक्षाः सुगा॑मस्मभ्यं पथो अनु ख्यः । अभि नो गोत्रं विदुष इव नेषोऽच्छा नो वाचमुशतीं जिगासि सोमाय स्वाहा (ড়ैप्प्ष्१.५१.३) इति ॥ कौशिकसूत्र १,४.२ ॥
ऽवृष्णे बृहतेऽऽत्वं सोम दिव्यःऽ इत्याज्यभागान्तं कृत्वा तत आग्नेयं चरुं जुहोतिऽउदेनमुत्तरं नयऽ (६.५.१३) इति त्रिभिरृग्भिःऽप्रजापते न त्वत्ऽ (७.८०.३) इति च चतस्र आहुतीर्जुहोति ॥

मध्ये हविः ॥ कौशिकसूत्र १,४.३ ॥
उपस्तीर्याज्यं संहताभ्यामङ्गुलिभ्यां द्विर्हविषोऽवद्यति मध्यात्पूर्वार्धाच्च ॥ कौशिकसूत्र १,४.४ ॥
अवत्तमभिघार्य द्विर्हविः प्रत्यभिघारयति ॥ कौशिकसूत्र १,४.५ ॥
यतोयतोऽवद्यति तदनुपूर्वम् ॥ कौशिकसूत्र १,४.६ ॥
एवं सर्वाण्यवदानानि ॥ कौशिकसूत्र १,४.७ ॥
अन्यत्र सौविष्टकृतात् ॥ कौशिकसूत्र १,४.८ ॥
उदेनमुत्तरं नय (६.५.१३) इति पुरस्ताद्धोमसंहतां पूर्वाम् ॥ कौशिकसूत्र १,४.९ ॥
[एवं पूर्वाम्पूर्वां संहतां जुहोति ॥ कौशिकसूत्र १,४.१० ॥]
इत्यादि प्रत्याहुति योजयितव्यम् ॥

स्वाहान्ताभिः प्रत्यृचं होमाः ॥ कौशिकसूत्र १,४.११ ॥
[यामुत्तरामग्नेराज्यभागस्य जुहोति रक्षोदेवत्या सा यां दक्षिणतः सोमस्य पितृदेवत्या सा ॥ कौशिकसूत्र १,४.१२ ॥
तस्मादन्तरा होतव्या देवलोक एव हूयन्ते ॥ कौशिकसूत्र १,४.१३ ॥
यां हुत्वा पूर्वामपरां जुहोति सापक्रामन्ती स पापीयान् यजमानो भवति ॥ कौशिकसूत्र १,४.१४ ॥
यां पराम्परां संहतां जुहोति साभिक्रामन्ती स वसीयान् यजमानो भवति ॥ कौशिकसूत्र १,४.१५ ॥
यामनग्नौ जुहोति सान्धा तया चक्षुर्यजमानस्य मीयते सोऽन्धम्भावुको यजमानो भवति ॥ कौशिकसूत्र १,४.१६ ॥
यां धूमे जुहोति सा तमसि हूयते सोऽरोचको यजमानो भवति ॥ कौशिकसूत्र १,४.१७ ॥
यां ज्योतिष्मति जुहोति तया ब्रह्मवर्चसी भवति तस्माज्ज्योतिष्मति होतव्यम् ॥ कौशिकसूत्र १,४.१८ ॥]
सर्वत्र हविराज्यं च चतुर्गहीतम् । उक्तं चऽसर्वत्र चतुर्गृहीतेन होमःऽ ॥

[एवमस्मै क्षत्रमग्नीषोमौ (६.५४.२) इत्यग्नीषोमीयस्य ॥ कौशिकसूत्र १,४.१९ ॥
अग्नीषोमा सवेदसा सहूती वनतं गिरः । सं देवत्रा बभूवथुः ॥ युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम् । युवं सिन्धू॑म्रभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीतान् ॥ अग्नीषोमा य आहुतिं यो वां दाशाद्धविष्कृतिम् । स प्रजया सुवीर्यं विश्वमायुर्व्यश्नवत् ॥ कौशिकसूत्र १,५.१ ॥]
अग्नीषोमीयं चरुं जुहोतिऽअस्मै क्षत्रम्ऽ इत्येका,ऽअग्नीषोमा सवेदसाऽ इति त्रिभिः ॥ चतुर्थी कण्डिका ॥ कौशिकपद्धतिकण्डिका ४ ॥


[इन्द्राग्नी रोचना दिवः परि वाजेषु भूषयः । तद्वां चेति प्र वीर्यम् ॥ श्नथद्वृत्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात् । इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥ इन्द्राग्नी अस्मान् रक्षतां यौ प्रजानां प्रजावती । स प्रजया सुवीर्यं विश्वमायुर्व्यश्नवत्(ড়ैप्प्ष्१६.३७.१) ॥ गोमद्धिरण्यवद्वसु यद्वामश्वावदीमहे । इन्द्राग्नी तद्वनेमहि (ড়ैप्प्ष्१.९६.३) स्वाहा इति ॥ कौशिकसूत्र १,५.२ ॥
ऐन्द्राग्नस्य हविषोऽमावास्यायाम् ॥ कौशिकसूत्र १,५.३ ॥]
आमावास्यायामैन्द्राग्नौ द्वितीयो भवतिऽइन्द्राग्नी रोचनाऽ इति चतस्रः ॥

[प्राक्स्विष्टकृतः पार्वणौ होमौ समृद्धिहोमाः काम्यहोमाश्च ॥ कौशिकसूत्र १,५.४ ॥
पूर्णा पश्चात्(७.८०.१) इति पौर्णमास्याम् ॥ कौशिकसूत्र १,५.५ ॥]
ऽपूर्णा पश्चात्ऽ इति पौर्णमास्यां पार्वणहोमः ॥

[यत्ते देवा अकृण्वन् भागधेयम् (७.७९.१) इत्यमावास्यायाम् ॥ कौशिकसूत्र १,५.६ ॥]
ऽयत्ते देवाःऽ इत्यमावास्यायां पार्वणहोमः ॥

[आकूत्यै त्वा स्वाहा । कामाय त्वा स्वाहा । समृधे त्वा स्वाहा । आकूत्यै त्वा कामाय त्वा समृधे त्वा स्वाहा । ऋचा स्तोमं समर्धय गायत्रेण रथन्तरम् । बृहद्गायत्रवर्तनि स्वाहा ॥ कौशिकसूत्र १,५.७ ॥]
ऽआकूत्यै त्वाऽ इति चतुर्भिःऽऋचा स्तोमम्ऽ इति च समृद्धिहोमाञ्जुहोति । उदपात्रे सम्पातानानयति ॥

[पृथिव्यामग्नये समनमन् (४.३९.१८) इति सन्नतिभिश्च ॥ कौशिकसूत्र १,५.८ ॥
प्रजापते न त्वदेतान्यन्यः (७.८०.३) इति च ॥ कौशिकसूत्र १,५.९ ॥]
ऽपृथिव्यामग्नयेऽ इत्यष्टभिः सन्नतिहोमाञ्जुहोतिऽप्रजापते न त्वदेतानिऽ इति च ॥

उपस्तीर्याज्यं सर्वेषामुत्तरतः सकृत्सकृदवदाय द्विरवत्तमभिघारयति ॥ कौशिकसूत्र १,५.१० ॥
न हवींषि ॥ कौशिकसूत्र १,५.११ ॥
[आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनुप्रवोढुम् । अग्निर्विद्वान् स यजात्स इद्धोता सोऽध्वरान् स ऋतून् कल्पयाति (ড়ैप्प्ष्१९.४७.६) अग्नये स्विष्टकृते स्वाहा इत्युत्तरपूर्वार्धेऽवयुतं हुत्वा सर्वप्रायश्चित्तीयान् होमाञ्जुहोति ॥ कौशिकसूत्र १,५.१२ ॥]
ऽआ देवानाम्ऽ इति स्विष्टकृतं जुहोति ॥

[स्वाहेष्टेभ्यः स्वाहा । वषडनिष्टेभ्यः स्वाहा । भेषजं स्विष्ट्यै स्वाहा । निष्कृतिर्दुरिष्ट्यै स्वाहा । दैवीभ्यस्तनूभ्यः स्वाहा । अयाश्चाग्नेऽस्यनभिशस्तिश्च सत्यमित्त्वमया असि । अयासा मनसा कृतोऽयास्यं हव्यमूहिषे । अया नो धेहि भेषजं स्वाहा इति ओं स्वाहा भूः स्वाहा भुवः स्वाहा स्वः स्वाहों भूर्भुवः स्वः स्वाहा इति ॥ कौशिकसूत्र १,५.१३ ॥]
ऽस्वाहेष्टेभ्यःऽ इत्येवमादिभिरेकादशभिः सर्वप्रायश्चित्तीयाञ्जुहोति ।ऽपुनर्मैत्विन्द्रियम्ऽ (७.६७.१) इति च ॥ पञ्चमी कण्डिका ॥ कौशिकपद्धतिकण्डिका ५ ॥


[यन्मे स्कन्नं मनसो जातवेदो यद्वास्कन्दद्धविषो यत्रयत्र । उत्प्रुषो विप्रुषः सं जुहोमि सत्याः सन्तु यजमानस्य कामाः स्वाहा इति ॥ कौशिकसूत्र १,६.१ ॥
यन्मे स्कन्नं, यदस्मृति (७.१०६) इति च स्कन्नास्मृतिहोमौ ॥ कौशिकसूत्र १,६.२ ॥]
ऽयन्मे स्कन्नंऽ,ऽयदस्मृतिऽ इति च द्वाभ्यां जुहोति । आज्यहोमे सर्वत्र स्रुवेण होमः ॥

[यदद्य त्वा प्रयति (७.९७) इति संस्थितहोमाः ॥ कौशिकसूत्र १,६.३ ॥]
ऽयदद्य त्वा प्रयतिऽ इति संस्थितहोमाञ्जुहोति । उदपात्रे सम्पातानानयति ॥

[मनसस्पते (७.९७.८) इत्युत्तमं चतुर्गृहीतेन ॥ कौशिकसूत्र १,६.४ ॥]
ऽमनसस्पतेऽ इत्यृचा चतुर्गृहीतेन जुहोति ॥

[बर्हिराज्यशेषेऽनक्ति पृथिव्यै त्वा इति मूलमन्तरिक्षाय त्वा इति मध्यं दिवे त्वा इत्यग्रम् ॥ कौशिकसूत्र १,६.५ ॥]
बर्हिः स्थाल्यामाज्येनानक्तिऽपृथिव्यै त्वाऽ इति मूलम्ऽअन्तरिक्षाय त्वाऽ इति मध्यंऽदिवे त्वाऽ इत्यग्रम् ॥

एवं त्रिः ॥ कौशिकसूत्र १,६.६ ॥
त्रिर्मन्त्रावृत्तिः ॥

सं बर्हिरक्तम् (७.९८) इत्यनुप्रहरति यथादेवतम् ॥ कौशिकसूत्र १,६.७ ॥
[स्रुवमग्नौ धारयति ॥ कौशिकसूत्र १,६.८ ॥
यदाज्यधान्यां तत्संस्रावयति संस्रावभागास्तविषा बृहन्तः प्रस्तरेष्ठा बर्हिषदश्च देवाः । इमं यज्ञमभि विश्वे गृणन्तः स्वाहा देवा अमृता मादयन्तामिति ॥ कौशिकसूत्र १,६.९ ॥]
ऽसंस्रावभागाःऽ इत्याज्यधान्या आज्यं जुहोति ॥

[स्रुवोऽसि घृतादनिषितः । सपत्नक्षयणो दिवि षीद । अन्तरिक्षे सीद पृथिव्यां सीदोत्तरोऽहं भूयासमधरे मत्सपत्नाः इति स्रुवं प्राग्दण्डं निदधाति ॥ कौशिकसूत्र १,६.१० ॥]
ऽस्रुवोऽसि घृतादनिषितःऽ इत्यृचा स्रुवं प्राग्दण्डं निदधाति ॥

[वि मुञ्चामि ब्रह्मणा जातवेदसमग्निं होतारमजरं रथस्पृतम् । सर्वा देवानां जनिमानि विद्वान् यथाभागं वहतु हव्यमग्निरग्नये स्वाहा इति समिधमादधाति ॥ कौशिकसूत्र १,६.११ ॥]
ऽवि मुञ्चामिऽ इत्यृचा समिधमादधाति ॥

एधोऽसि (७.८९.४ ) इति द्वितीयां समिदसि (७.८९.४ ) इति तृतीयाम् ॥ कौशिकसूत्र १,६.१२ ॥
तेजोऽसि (७.८९.४ ) इति मुखं विमार्ष्टिम् ॥ कौशिकसूत्र १,६.१३ ॥
[दक्षिणेनाग्निं त्रीन् विष्णुक्रमान् क्रमते विष्णोः क्रमोऽसि (१०.५.२५२७) इति दक्षिणेन पादेनानुसंहरति सव्यम् ॥ कौशिकसूत्र १,६.१४ ॥]
ऽविष्णोः क्रमोऽसिऽ इति तिसृभिर्विष्णुक्रमान् क्रमते । अग्नेर्दक्षिणतः । अग्निब्रह्मणोर्मध्ये क्रमते ॥

सूर्यस्यावृतम् (१०.५.३७) इत्यभिदक्षिणमावर्तते ॥ कौशिकसूत्र १,६.१५ ॥
[अगन्म स्वः (१६.९.३,४) इत्यादित्यमीक्षते ॥ कौशिकसूत्र १,६.१६ ॥]
ऽअगन्म स्वःऽ इति पर्यायद्वयेनादित्यमीक्षते ॥

[इन्द्रस्य वचसा वयं मित्रस्य वरुणस्य च । ब्रह्मणा स्थापितं पात्रं पुनरुत्थापयामसि इत्यपरेणाग्निमुदपात्रं परिहृत्योत्तरेणाग्निमापो हि ष्ठा मयोभुवः (१.५) इति मार्जयित्वा बर्हिषि पत्न्या अञ्जलौ निनयति समुद्रं वः प्र हिणोमि (१०.५.२३२४) इति इदं जनासः (१.३२) इति वा ॥ कौशिकसूत्र १,६.१७ ॥]
ऽइन्द्रस्य वचसाऽ इत्यृचोदपात्रमुत्थापयति । उत्तरतोऽग्नेरुदपात्रेणऽआपो हि ष्ठाऽ इति मार्जयित्वा बर्हिषि स्रुवं च पवित्रे च पत्न्या अञ्जलौ कृत्वोदपात्रं निनयतिऽसमुद्रं वः प्र हिणोमिऽ इति ॥

वीरपत्न्यहं भूयासमिति मुखं विमार्ष्टि ॥ कौशिकसूत्र १,६.१८ ॥
व्रतानि व्रतपतये (Kऔश्ष्४२.१७) इति समिधमादधाति ॥ कौशिकसूत्र १,६.१९ ॥
[सत्यं त्वर्तेन इति परिषिच्योदञ्चि हविरुच्छिष्टान्युद्वासयति ॥ कौशिकसूत्र १,६.२० ॥]
ऽसत्यं त्वर्तेनऽ इति पर्युक्ष्य उदञ्चि हविरुच्छिष्टान्युद्वासयति ॥

पूर्णपात्रं दक्षिणा ॥ कौशिकसूत्र १,६.२१ ॥
ततो ब्रह्मकर्तृवाचनम् ।ऽउत्तिष्ठ ब्रह्मणस्पतेऽ (१९.६३.१) इत्यृचा ब्रह्माणमुत्थापयेत् ॥

ऽनादक्षिणं हविः कुर्वीत यः कुरुते कृत्यामात्मनः कुरुतेऽ इति ब्राह्मणम् ॥ कौशिकसूत्र १,६.२२ ॥
तस्मान्नादक्षिणम् । हविःशब्देनाज्यतन्त्रं पाकतन्त्रं चोच्यते । कर्ममात्रमभिमन्त्रणाद्यदक्षिणं कुर्यात् । पाकतन्त्रे पूर्णपात्रमानं प्रसृतिप्रस्थद्रोणाढकादि । पूर्णपात्रं यजमानशक्त्यपेक्षम् ।ऽशक्त्या वा दक्षिणां दद्यान्नातिशक्तिर्विधीयतेऽ (Kऔश्ष्७४.२२२३) इत्युक्तं नवमे । आज्यतन्त्रे धेनुः सर्वत्र ॥

अन्वाहार्यं ब्राह्मणान् भोजयति ॥ कौशिकसूत्र १,६.२३ ॥
यद्वै यज्ञस्यानन्वितं भवति तदन्वाहार्येणान्वाह्रियते ॥ कौशिकसूत्र १,६.२४ ॥
एतदन्वाहार्यस्यान्वाहार्यत्वम् ॥ कौशिकसूत्र १,६.२५ ॥
कर्मसमाप्तौ सर्वत्र ब्राह्मणान् त्रीन् पञ्च सप्त विंशतिं शतं सहस्रमयुतं वा भोजयेत् । यजमानशक्तपेक्षं ब्राह्मणभोजनम् । तथा च ब्राह्मणम्

ऽईड्या वा अन्ये देवाः सपर्येण्या अन्ये देवा ईड्या देवा ब्राह्मणाः सपर्येण्याः ॥ कौशिकसूत्र १,६.२६ ॥
यज्ञेनैवेड्यान् प्रीणात्यन्वाहार्येण सपर्येण्यान् ॥ कौशिकसूत्र १,६.२७ ॥
तेऽस्योभये प्रीता यज्ञे भवन्तिऽ इति ॥ कौशिकसूत्र १,६.२८ ॥
देवब्राह्मणानां तुष्टे सति यज्ञफलं भवति । तथा च मनुःऽअस्कन्नमव्यथं चैवऽ इत्येवमादि ब्राह्मणस्तुतिः । तस्मात्कर्मणि ब्राह्मणा भोजयितव्याः स्वशक्त्या चतुर्वेदपारगाः ॥

इमौ दर्शपूर्णमासौ व्याख्यातौ ॥ कौशिकसूत्र १,६.२९ ॥
दर्शपूर्णमासाभ्यां पाकयज्ञाः ॥ कौशिकसूत्र १,६.३० ॥
व्याख्याताः । आज्यतन्त्रे पाकतन्त्रे दर्शपूर्णमासधर्मा भवन्ति । पूर्वतन्त्रं चोत्तरतन्त्रं च सर्वेषु पाकतन्त्रेषु । सर्वमाथर्वणं कर्म पाकयज्ञशब्देनोच्यते ॥

अथाप्यपरो हवनयोगो भवति ॥ कौशिकसूत्र १,६.३१ ॥
कुम्भीपाकादेव व्युद्धारं जुहुयात् ॥ कौशिकसूत्र १,६.३२ ॥
आज्यभागान्तं कृत्वा ॥

अधिश्रयणपर्यग्निकरणाभिघारणोद्वासनालङ्करणोत्पवनैः संस्कृत्य ॥ कौशिकसूत्र १,६.३३ ॥
मन्त्रेण संस्कारः ॥

[अथापि श्लोकौ भवतः ]
अथापि गोपथब्राह्मणपठितौ श्लोकौ भवतः ॥

ऽआज्यभागान्तं प्राक्तन्त्रमूर्ध्वं स्विष्टकृता सह । हवींषि यज्ञ आवापो यथा तन्त्रस्य तन्तवः ॥ पाकयज्ञान् समासाद्यैकाज्यानेकबर्हिषः । एकस्विष्टकृतः कुर्यान्नानापि सति दैवतेऽ इति ॥ कौशिकसूत्र १,६.३४ ॥
सर्वत्राज्यभागान्तं पूर्वतन्त्रम् । उत्तरतन्त्रं पार्वणादि स्विष्टकृता सह । हविषां मध्य आवापो यथा तन्त्रस्य तन्तवः । यथा कोलिकः स्वतन्त्रं बध्नाति तथैव वस्त्रादितन्तवोऽन्येऽन्ये ॥

एतेनैवामावास्यो व्याख्यातः ॥ कौशिकसूत्र १,६.३५ ॥
ऐद्राग्नोऽत्र द्वितीयो भवति ॥ कौशिकसूत्र १,६.३६ ॥
[तयोर्व्यतिक्रमे त्वमग्ने व्रतपा असि (१९.५९) कामस्तदग्रे (१९.५२) इति शान्ताः ॥ कौशिकसूत्र १,६.३७ ॥]
तयोर्व्यतिक्रमेऽत्वमग्ने व्रतपा असिऽ तृचं सूक्तम् ।ऽकामस्तदग्रेऽ इति पञ्चर्चं सूक्तम् । एते चारणवैद्यानां पठ्येते । तस्मिन्नेव तन्त्र आज्यं जुहोति शान्तसमिधो वादधाति । सूक्तयोर्विकल्पः । दर्शपूर्णमासव्यतिक्रमे प्रायश्चित्तम् । सर्वत्र कर्मव्यतिक्रमे प्रायश्चित्तं सर्वप्रायश्चित्तं वा । सर्वत्र पतिते सर्वप्रायश्चित्तीयाञ्जुहोति । तस्मिन्नेव तन्त्र अन्यस्मिन् तन्त्रे वा ।ऽतन्त्रमध्ये सर्वे होमाःऽ इति भद्रमतम् । तन्त्रं समाप्तम् ॥

दर्शपूर्णमासाभ्यां पाकयज्ञा व्याख्याताः । आज्यतन्त्रे हविरुत्सृज्याज्यभागान्त अभ्यातानानि भवन्ति ।ऽकर्मणि कर्मणिऽ इति वचनात् । आज्यतन्त्रपाकतन्त्रयोरभ्यातानानां कृतो विशेषः । शेषं समानमाज्यतन्त्रपाकतन्त्रयोरिति । अथर्ववेदस्य शौनकीयो मण्डपः सम्भारलक्षण उक्तः । सम्भाराश्च तत्रैवोक्ताः.

ऽअव्यसश्चऽ (१९.६९.१) इति मन्त्राणां कर्मण्यादौ प्रयुज्यते.
ऽयस्मात्कोशात्ऽ (१९.७२) इत्यन्ते च एतदाचार्यशासनम् ॥
लोकपालेभ्यः कर्तव्यमष्टानां दिग्बलिं ततः.
वषट्कारेण कर्तव्यं नमस्कारेण वा पुनः ॥
चतुरस्रो मणिः प्रोक्तो अङ्गुष्ठपर्वमात्रतः.
सूत्रे प्रोत्यश्च सम्पात्य बन्ध्यः पुण्याहवाचने ॥
शान्तवृक्षमयी कार्या अरणिः शान्तिकर्मसु.
मन्त्रेणैव पृथक्कुर्यात्क्रव्यादं च विधानतः ॥
मन्थनं च शान्तिकल्प उक्तम् । पूर्णाहुतिः तथैव च । नाभिचारे न सर्वानां न साङ्ग्रामिकेषु च । मण्डपं च शान्त्युदकं च तत्रैव न विद्यते । पुनर्व्रतं सर्वत्र । एकरात्रादयः । प्रारम्भः सर्वत्र पूर्णमास्यमावास्ययोः पुण्ये नक्षत्रे वा । एते त्रयः कालाः सर्वेषां कर्मणां स्मृताः । अद्भुतानां सदाकालमारम्भः सर्वकर्मणाम् ॥

सर्वार्थाः परिभाषा

अथ सर्वार्थाः परिभाषाः । विधिकर्मार्था अविधिकर्मार्था उच्छ्रयकर्मार्था उच्यन्ते । मेधाजननादि पिण्डपितृयज्ञान्तं (१०.८९) यावद्विधिकर्माणि । मधुपर्कादीन्द्रमहान्तं (९०१४०) यावदविधिकर्माणि । पाकयज्ञा विधिकर्म । सूक्तेन विनियोगं कृत्वा पश्चादृचां विनियोगस्तान्युच्छ्रयकर्माणि । त्रिविधानि कर्माणि । उपदधीतेत्यनादेशे आज्यं, समित्, पुरोडाशः, पयः, उदौदनः, पायसः, पशुः, व्रीहिः, यवः, तिलः, धानाः, करम्भः, शष्कुल्यः, एतानि त्रयोदश हवींषि जानीयात् । सर्वत्र इयं पैठीनसिपरिभाषा । सर्वत्र हविषां विकल्पः । यत्र गणस्तत्र सर्वत्र सूक्तानां विकल्पः । यत्रौषधिगणस्तत्रौषधीनां विकल्पः ।ऽहविषां त्वा जुष्टं प्रोक्षामिऽ इति सर्वद्रव्येषु प्रोक्षणम् ।ऽसर्वत्रोत्पवनं हविषाम्ऽ इति युवाकौशिक आचार्यो मन्यते अवशिष्टाः परिभाषाः पुरत उच्यन्ते सर्वकर्मार्थाः । आज्यतन्त्रादि वैदिकेषु कर्मसु । सर्वत्र वृद्धिश्राद्धम् । यत्रोदकेन प्रयोजनं तत्र सर्वत्र शान्त्युदकं कुर्यात्चतुर्भिर्गणैरेकेन वा गणेन । सूक्तादिग्रहणे सूक्तं जानीयात् । सर्वत्र स्रुवहोमे नित्यं तन्त्रम् । हस्तहोमे विकल्पेन तन्त्रम् । आज्यतन्त्रे सर्वत्र धेनुर्दक्षिणा हविरुच्छिष्टं चाधिकरणं च.

आज्यतन्त्रमुच्यते ।ऽअव्यसश्चऽ (१९.६९.१), बर्हिर्लवनं, वेदिः, उत्तरवेदिः, अग्निप्रणयनम्, अग्निप्रतिष्ठापनं, व्रतग्रहणं, पवित्रकरणं, पवित्रेणेध्मप्रोक्षणम्, इध्मोपसमाधानं, बर्हिःप्रोक्षणं, ब्रह्मासनं, ब्रह्मस्थापनं, स्तरणं, स्तीर्णप्रोक्षणम्, आत्मासनम्, उदपात्रस्थापनम्, आज्यसंस्कारः, स्रुवग्रहणं, ग्रहग्रहणं, पुरस्ताद्धोमः, आज्यभागौ, अभ्यातानान्तं पूर्वतन्त्रम् । अथ उत्तरतन्त्रमुच्यते । अभ्यातानानि, पार्वणहोमः, समृद्धिहोमाः, सन्नतिहोमाः, प्रजापतिहोमः, स्विष्टकृद्धोमः, सर्वप्रायश्चित्तीयहोमाः, स्कन्नहोमः, पुनर्मैत्विन्द्रियहोमः, स्कन्नास्मृतिहोमौ, संस्थितहोमाः, चतुर्गृहीतहोमः, बर्हिर्होमः, संस्रावहोमः, स्रुवस्थापनं, समिदाधानं, विष्णुक्रमान्, उदपात्रोत्थापनं, व्रतविसर्जनं, दक्षिणादानं, ब्रह्मोत्थापनं,ऽयस्मात्कोशात्ऽ (१९.७२) इत्येतदुत्तरतन्त्रम् । उत्तरतन्त्रं समाप्तम् । षष्ठी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ६ ॥


परिभाषाः

परिभाषाव्याख्यानं क्रियते
अश्नात्यनादेशे स्थालीपाकः ॥ कौशिकसूत्र १,७.१ ॥
सर्वत्र प्रत्येतव्यः । यथाऽदोषो गाय (६.१) इत्यथर्वाणं समावृत्याश्नातिऽ (Kऔश्ष्५९.२५) । सर्वत्राज्यभागान्ते श्रपणम् ॥

[पुष्टिकर्मसु सारूपवत्से ॥ कौशिकसूत्र १,७.२ ॥]
पुष्टिकर्मसु सारूपवत्सः स्थालीपाकः । अश्नात्यनादेशे जानीयात् । यथाऽहरितबर्हिषमश्नातिऽ (Kऔश्ष्१८.२०) । तृतीयेऽध्याये (Kऔश्ष्१८.२४) पौष्टिकानि कर्माण्युक्तानि ॥

आज्यं जुहोति ॥ कौशिकसूत्र १,७.३ ॥
जुहोत्यनादेश आज्यं द्रव्यं जानीयात् । यथाऽपृथिव्यै श्रोत्राय (६.१०.१) इति जुहोतिऽ (Kऔश्ष्१२.३) ॥

समिधमादधाति ॥ कौशिकसूत्र १,७.४ ॥
अनादेशे जानीयात् । यथाऽअन्वक्ताः प्रादेशमात्रीरादधातिऽ (Kऔश्ष्१८.२१) । सर्वत्र प्रादेशमात्र्यः समिधः । सर्वत्र घृताक्ताः । सर्वत्र पालाशादयो वृक्षाः । विकल्पः ॥

आवपति व्रीहियवतिलान् ॥ कौशिकसूत्र १,७.५ ॥
सर्वत्रानादेशे जानीयात् । यथाऽसप्त मर्यादा (५.१.६) इति तिसृणां प्रातरावपतेऽ (Kऔश्ष्७९.१) । द्रव्यादिविकल्पः सर्वत्र ॥

भक्षयति क्षीरौदनपुरोडाशरसान् ॥ कौशिकसूत्र १,७.६ ॥
अनादेशे जानीयात् । यथाऽत्वं नो मेघे (६.१०८) द्यौश्च म (१२.१.५३) इति भक्षयतिऽ (Kऔश्ष्१०.२०) । द्रव्यविकल्पः ॥

मन्थौदनौ प्रयच्छति ॥ कौशिकसूत्र १,७.७ ॥
अनादेशे जानीयात् । यथाऽउतामृतासुः (५.१.७) शिवास्त (७.४३) इत्यभ्याख्याताय प्रयच्छतिऽ (Kऔश्ष्४६.१) । सक्तूदकं द्विशलाकया समिधा मथितं मन्थ इत्युच्यते । द्रव्यविकल्पः ॥

पूर्वं त्रिषप्तीयम् ॥ कौशिकसूत्र १,७.८ ॥
अनादेशे जानीयात् । यथाऽपूर्वस्य मेधाजननानिऽ (Kऔश्ष्१०.१) ।ऽपूर्वस्य ब्रह्मचारिसाम्पदानिऽ (Kऔश्ष्११.१).
पूर्वस्यऽममाग्ने वर्चःऽ (५.३.१) इति (Kऔश्ष्१२.१०) ।ऽपूर्वस्य हस्तित्रसनानिऽ (Kऔश्ष्१४.१) ।ऽपूर्वस्य पूर्वस्यां पौर्णमास्याम्ऽ (Kऔश्ष्१८.१) ।ऽपूर्वस्य चित्राकर्मऽ (Kऔश्ष्१८.१९) ।ऽपूर्वस्योदपात्रेणऽ (Kऔश्ष्२५.४) ।ऽपूर्वस्य पुत्रकामावतोकयोःऽ (Kऔश्ष्३२.२८) ।ऽत्रिषप्तीयं च पच्छो वाचयेत्ऽ (Kऔश्ष्१३९.१०) । सर्वत्रऽये त्रिषप्ताःऽ (१.१) इति ॥

उदकचोदनायामुदपात्रं प्रतीयात् ॥ कौशिकसूत्र १,७.९ ॥
यथाऽपिञ्जूलीभिराप्लावयतिऽ (Kऔश्ष्२७.७) । घटं वा कांस्यपात्रं वा ॥

पुरस्तादुत्तरतः सम्भारमाहरति ॥ कौशिकसूत्र १,७.१० ॥
अनादेशे जानीयात् । दर्भसमित्पात्रादिसम्भाराः ॥

गोरनभिप्रापाद्वनस्पतीनाम् ॥ कौशिकसूत्र १,७.११ ॥
सूर्योदयनतः ॥ कौशिकसूत्र १,७.१२ ॥
दूरदेशाद्वृक्षसम्भारा आहर्तव्याः । सूर्योदयकाले ॥

पुरस्तादुत्तरतोऽरण्ये कर्मणां प्रयोगः ॥ कौशिकसूत्र १,७.१३ ॥
नित्यनैमित्तिककाम्यानां कर्मणां प्रयोगः । अरण्यं शान्तिकल्पे उक्तम् । यत्र ग्रामशब्दो न श्रूयते तत्रारण्यम् ॥
उत्तरत उदकान्ते प्रयुज्य कर्माणि.
सर्वाणि कर्माणि नित्यनैमित्तिककाम्यानि । उत्तरत उदकसमीपे कार्याणि जपहोमस्नानादीनि प्रयुज्य कर्माणि ॥

अपां सूक्तैराप्लुत्य प्रदक्षिणमावृत्याप उपस्पृश्यानवेक्षमाणा ग्राममुदाव्रजन्ति ॥ कौशिकसूत्र १,७.१४ ॥
सर्वं होमकर्म समाप्यते । ततोऽवभृथं कुर्यात् । सर्वत्र पुंसवनादिषु संस्कारेषु गृहे प्रयोगः ।ऽनावभृथःऽ इति रुद्रभाष्यमतम् ॥

आश्यबन्ध्याप्लवनयानभक्ष्याणि सम्पातवन्ति ॥ कौशिकसूत्र १,७.१५ ॥
एतेषु नित्यमभ्यातानान्तं तन्त्रं भवति । आश्यादिषु यथाऽमादानकश्रृतं क्षीरौदनमश्नातिऽ (Kऔश्ष्१२.१) ।ऽएहि जीवम् (४.९) इत्याञ्जनमणिं बध्नातिऽ (Kऔश्ष्५८.८) ।ऽसर्वैराप्लावयतिऽ (Kऔश्ष्१३.९) ।ऽयानेनाभियातिऽ (Kऔश्ष्१४.३) ।ऽआग्रहायण्यां भक्षयतिऽ (Kऔश्ष्१०.२२) । आश्यादिषु सर्वत्र सम्पाताभिमन्त्रणं भवत्याज्यतन्त्रे ॥

सर्वाण्यभिमन्त्र्याणि ॥ कौशिकसूत्र १,७.१६ ॥
सर्वे पदार्था अभिमन्त्र्य कर्तव्याः । यथाऽसीरा युञ्जन्ति (३.१७) इति युगलाङ्गलं प्रतनोतिऽ (Kऔश्ष्२०.१) । अभिमन्त्र्य कर्तव्यम् ॥

स्त्रीव्याधितावाप्लुतावसिक्तौ शिरस्तः प्रकम्या प्रपदात्प्रमार्ष्टि ॥ कौशिकसूत्र १,७.१७ ॥
स्त्री च व्याधितः पुरुषः व्याधिता स्त्री च । एतावाप्लुतावसिक्तौ वस्त्रेण मार्जयति ॥

पूर्वं प्रपाद्य प्रयच्छति ॥ कौशिकसूत्र १,७.१८ ॥
तं पुरुषमग्रे कृत्वा गृहे प्रवेश्य ततो मन्थौदनौ प्रयच्छति । यथाऽउतामृतासुः (५.१.७) शिवास्त (७.४३) इत्यभ्याख्याताय प्रयच्छतिऽ (Kऔश्ष्४६.१) मन्त्रेण ॥

त्रयोदश्यादयस्तिस्रो दधिमधुनि वासयित्वा बध्नाति ॥ कौशिकसूत्र १,७.१९ ॥
यत्र वासितं बध्नाति तत्र सर्वत्र त्रयोदश्यादि भवति । यथाऽयुग्मकृष्णलं वासितं बध्नातिऽ (Kऔश्ष्११.१९) ॥

आशयति ॥ कौशिकसूत्र १,७.२० ॥
मणिं बद्ध्वा तद्दधिमध्वाशयति ॥

अन्वारब्धायाभिमन्त्रणहोमाः ॥ कौशिकसूत्र १,७.२१ ॥
अन्वारब्धे यजमाने कर्तव्याः । अभिमन्त्रणम् । यजमान उत्तरतो भूत्वा दर्भैरन्वारभते ॥

पश्चादग्नेश्चर्मणि हविषां संस्कारः ॥ कौशिकसूत्र १,७.२२ ॥
यथाऽआवपति ब्रीहियवतिलान्ऽ (Kऔश्ष्७.५) इत्यादि । तथाऽअष्टकायाम्ऽ (Kऔश्ष्१३८.१) ॥

आनडुहः शकृत्पिण्डः ॥ कौशिकसूत्र १,७.२३ ॥
रक्तवृषभगोमयपिण्ड इत्यर्थः । यथाऽस्योनम् (१४.१.४७) इति… शकृत्पिण्डेऽश्मानं निदधातिऽ (Kऔश्ष्७७.१७) ॥

जीवघात्यं चर्म ॥ कौशिकसूत्र १,७.२४ ॥
समर्थवृषभचर्म । यथाऽपश्चादग्नेश्चर्मणि हविषां संस्कारःऽ (Kऔश्ष्७.२२) ॥

अकर्णोऽश्मा ॥ कौशिकसूत्र १,७.२५ ॥
जानीयात् । यथाऽअश्मानं निदधातिऽ (Kऔश्ष्७७.१७) ॥

आप्लवनावसेचनानामाचामयति च ॥ कौशिकसूत्र १,७.२६ ॥
यत्राप्लवनमवसेचनं च तत्राचमनं भवति मार्जनं च ॥

सम्पातवतामश्नाति न्यङ्क्ते वा ॥ कौशिकसूत्र १,७.२७ ॥
बन्ध्यं मणिम् । सम्पातवन्तम् । वासनं कृत्वा ततो बध्नाति । आप्लावयति । यानेनाभियाति अक्षिणी आङ्क्ते । यथा यत्सम्पात्यते तत्सर्वं प्राश्य ततो बन्धनादि करोति ॥

अभ्याधेयानां धूमं नियच्छति ॥ कौशिकसूत्र १,७.२८ ॥
समित्पुरोडाशचरुव्रीहियवतिलादीन्यभ्याधेयानि । यजमानो धूमं भक्षयति कर्मसमाप्तौ ॥

शुचिना कर्मप्रयोगः ॥ कौशिकसूत्र १,७.२९ ॥
नित्यनैमित्तिककाम्यानि कर्माणि स्नानं कृत्वा प्रयुञ्जीत् । शचिः स्नात्वेत्यर्थः ॥ सप्तमी कण्डिका समाप्ता ॥ Kऔशिकपद्धतिकण्डिका ७ ॥


सर्वकर्मार्थाः परिभाषाः । अथ निशाकर्मपरिभाषा उच्यन्ते ॥
पुरस्ताद्धोमवत्सु निशाकर्मसु पूर्वाह्णे यज्ञोपवीती शालानिवेशनं समूहयत्युपवत्स्यद्भक्तमशित्वा स्नातोऽहतवसनः प्रयुङ्क्ते ॥ कौशिकसूत्र १,८.१ ॥
येषु निशाकर्मसु तन्त्रं तेष्वयं धर्मः । केचित्ऽस्नातोऽहतवसनः प्रयुङ्क्तेऽ इति सर्वार्थाः परिभाषा मन्यन्ते । यथाऽचित्राकर्मनिशायां सम्भारान् सम्पातवतः करोतिऽ (Kऔश्ष्२३.१२) । समाप्ता निशाकर्मपरिभाषाः ॥

अथ स्वस्त्ययनपरिभाषा उच्यन्ते
स्वस्त्ययनेषु च ॥ कौशिकसूत्र १,८.२ ॥
इज्यानां दिश्यान् बलीन् हरति ॥ कौशिकसूत्र १,८.३ ॥
प्रतिदिशमुपतिष्ठते ॥ कौशिकसूत्र १,८.४ ॥
ऽयेऽस्यां स्थऽ (३.२६) इति सूक्तेन प्रतिदिशं प्रत्यृचं बलिहरणं करोति ।ऽप्राची दिग्ऽ (३.२७) इति प्रतिदिशमुपतिष्ठते । यथाऽउत्तमेन (४.२८) सारूपवत्सस्य रुद्राय त्रिर्जुहोतिऽ (Kऔश्ष्५०.१४) । तत्र हविरुच्छिष्टेन बलिहरणं कुर्यात् । समाप्ताः स्वस्त्ययनपरिभाषाः ॥

पुनः सर्वार्थाः परिभाषा उच्यन्ते
सर्वत्राधिकरणं कर्तुर्दक्षिणा ॥ कौशिकसूत्र १,८.५ ॥
हविरुच्छिष्टमाज्यधान्युदपात्रं चर्म मण्डपदर्भसमिधः शान्त्युदकभाजनस्रुक्स्रुवादीनि देयानि कर्त्रे । सर्वत्र धेनुर्दक्षिणाज्यतन्त्रे । पाकतन्त्रे पूर्णपात्रं ब्रह्मणो दक्षिणा । यत्किञ्चित्तन्त्रे प्रविशति तत्सर्वमधिकरणमित्युच्यते ॥ नित्येषु नाधिकरणमस्ति । परद्रव्येषु नाधिकरणमस्ति । यथा नापितस्य क्षरः ॥

त्रिरुदकक्रिया ॥ कौशिकसूत्र १,८.६ ॥
प्रोक्षणाचमनपर्युक्षणादि त्रिः कर्तव्यम् । यथाऽऋतं त्वा सत्येन परिषिञ्चामि इति सह हविर्भिः पर्युक्ष्यऽ (Kऔश्ष्३.४) ॥

अनन्तराणि समानानि युक्तानि ॥ कौशिकसूत्र १,८.७ ॥
सूक्तानामनन्तरपठितानां समानानां समुच्चयः । यथाऽमा नो विदन् (१.१९) अदारसृत्(१.२०) स्वस्तिदा (१.२१)ऽ (Kऔश्ष् । १४.७) इति समुच्चयः । एवमन्यत्रापि.

शान्तं सम्भारम् ॥ कौशिकसूत्र १,८.८ ॥
सर्वत्र शान्तिकेषु शान्तं सम्भारं दर्भसमिदादि । अभिचारे रौद्रमाङ्गिरसं सम्भारम् ॥

अधिकृतस्य सर्वम् ॥ कौशिकसूत्र १,८.९ ॥
स्रुक्स्रुवसमित्काष्ठादिमणिद्रव्यकाष्ठानि कर्तव्यानि । यत्किं च द्रव्यं च । यथाऽकथं महे (५.११) इति मादानकशृतं क्षीरौदनमश्नातिऽ (Kऔश्ष्१२.१) ।ऽफालचमसे सरूपवत्सायाः दुग्धेऽ (Kऔश्ष् । १२.२) । चमसोऽपि मादानक एव ।ऽकथं महेऽ इत्युत्तरमप्यनेन सूक्तेन कर्म कुर्यात् ॥

विशये यथान्तरम् ॥ कौशिकसूत्र १,८.१० ॥
मन्त्रद्रव्यसंशये सन्निधानं गृहीतव्यम् । यथा लोमानि हस्तिरोमाणि यथाऽविद्मा शरस्य (१.३) इति प्रमेहणं बध्नातिऽ (Kऔश्ष्२५.१०) ॥

[प्र यच्छ पर्शुम् (१२.३.३१) इति दर्भलवनं प्रयच्छति ॥ कौशिकसूत्र १,८.११ ॥]
ऽप्र यच्छ पर्शुम्ऽ इति मन्त्रेण दर्भाहाराय दात्रं प्रयच्छति ।ऽओषधीर्दान्तु पर्वन्ऽ (१२.३.३१) इत्युपरि पर्वणां लूत्वा तूष्णीमाहृत्योत्तरतोऽग्नेरुपसादयति ॥

[अरातीयोः (१०.६.१) इति तक्षति ॥ कौशिकसूत्र १,८.१२ ॥]
ऽअरातीयोःऽ (१०.६.१) इत्यृचोलूखलमुसलकाष्ठम् । अन्यार्थमिन्धनार्थम् । काष्ठतक्षणं करोति ॥

[यत्त्वा शिक्वः (१०.६.३) इति प्रक्षालयति ॥ कौशिकसूत्र १,८.१३ ॥]
ऽयत्त्वा शिक्वःऽ इत्यृचा काष्ठानि प्रक्षालयति ॥

[यद्यत्कृष्णः (१२.३.१३) इति मन्त्रोक्तम् ॥ कौशिकसूत्र १,८.१४ ॥]
ऽयद्यत्कृष्णःऽ इत्यृचा वस्त्रेण वा हस्तेन वोलूखलादीनि विमार्ष्टि मार्जनं करोति पात्राणाम्.

[पलाशोदुम्बरजम्बुकाम्पीलस्रग्वङ्घशिरीषस्रक्त्यवरणबिल्वजङ्गिडकुटकगर्ह्यगलावलवेतसशिम्ब लसिपुनस्यन्दनारणिकाश्मयोक्ततुन्युपूतुदारवः शान्ताः ॥ कौशिकसूत्र १,८.१५ ॥]

अथ शान्तवृक्षा उच्यते । पलाशः प्रसिद्धः । उदुम्बरः प्रसिद्धः । जम्बुः प्रसिद्धः । काम्पीलो मालवके प्रसिद्धः । स्रक्मालवके प्रसिद्धः । वङ्घः कन्यकुब्जे प्रसिद्धः । शिरीषो भोजपुरे वागारि (दि?)त्यवाटिकायां प्रसिद्धः । स्रक्त्यस्तिलकः प्रसिद्धः । वरणो वरणक इत्यानन्दपुरे प्रसिद्धः । बिल्वः प्रसिद्धः । जङ्गिडो वाराणस्यां प्रसिद्धः । कुटको मालवके प्रसिद्धः । गर्ह्यो हिमवति प्रसिद्धः । गलावलस्तत्रैव प्रसिद्धः । वेतसः प्रसिद्धः । शिम्बलः प्रसिद्धः । सिपुनः केवनिका । स्यन्दनो हिमवति नर्मदायामाथर्वणिकस्थाने प्रसिद्धः । अरणिका नर्मदातटे प्रसिद्धा । अश्मयोक्तोऽश्मन्तको भृगुकच्छे प्रसिद्धः । तुन्युस्तैन्दुकी । पूतुदारुर्देवदारुः । देवदारुश्च वैद्यके प्रसिद्धः । समाप्ताः शान्तवृक्षाः । शान्तिकवृक्षा एते । स्रुक्स्रुवः समिधो नेक्षणं दर्विः सामिधेनीः प्रादेशमात्रीः समिधोऽग्निहोत्रावसथ्याग्निष्टोमादियज्ञेष्वेतेषां वृक्षाणां पात्राणि शान्तिकपौष्टिकादिषु कर्तव्यानि ॥

[चितिप्रायश्चित्तिशमीशमकासवंशाशाम्यवाकातलाशापलाशवाशाशिंशपाशिम्बलसिपुनदर्भापामार्गा
कृतिलोष्टवल्मीकवपादूर्वाप्रान्तव्रीहियवाः शान्ताः ॥ कौशिकसूत्र १,८.१६ ॥]
अथ शान्तौषधय उच्यन्ते । चितिः प्रसिद्धा । प्रायश्चित्तिः पर्वणि पर्वणि तस्यास्त्रीणि पत्राणि भवन्ति । शमी वापीप्रसिद्धा । शमकानन्दपुरे विश्वामित्रीवाप्याः समीपेऽस्ति । सवंशा शृगालवंशका घर्मोलिका । शाम्यवाका काकजङ्घासदृशा । तलाशावल्ली । पलाशः प्रसिद्धः । वाशा वृषक आटरूषकः । शिंशपा प्रसिद्धा । शिम्बलः प्रसिद्धः । सिपुनः करी । दर्भः प्रसिद्धः । अपामार्गः प्रसिद्धः । आकृतिलोष्टः क्षेत्रमृत्तिका । वल्मीकवपा प्रसिद्धा । दूर्वा प्रसिद्धा । सा च प्रान्तया ग्राह्या । व्रीहियवौ प्रसिद्धौ । एताः सर्वाः शान्ता ओषधयः शान्त्युदकादौ प्रयोक्तव्या । एतासां समुच्चयः । एतासामलाभे यवः प्रतिनिधिः कार्य इति पैठीनसिः । शान्तौषधिकल्पः समाप्तः ॥

प्रमन्दोशीरशलल्युपधानशकधूमा जरन्तः ॥ कौशिकसूत्र १,८.१७ ॥
प्रमन्दो गेन्दुकः । उशीरः प्रसिद्धः । शलली प्रसिद्धा । उपधानं विद्यागन्धुकम् । शकधूमो ब्राह्मणः । एते जरन्तो जीर्णा ग्राह्याः । यथाऽप्रमन्दालङ्कारान् सम्पातवतः प्रयच्छतिऽ (Kऔश्ष्३२.२९) ।ऽउशीराणि भिनद्मि (५.२३.१३) इति मन्त्रोक्तम्ऽ (Kऔश्ष्२९.२४) ।ऽत्रिः शलल्या मासं प्राशयतिऽ (Kऔश्ष्२९.१२) ।ऽसोपधानमास्तरणम्ऽ (Kऔश्ष्६४.२६) ।ऽशकधूमं किमद्याहरिति पृच्छतिऽ (Kऔश्ष्५०.१५) । एतान्युदाहरणानि ॥

सीसनदीसीसे अयोरजांसि कृकलासशिरः सीसानि ॥ कौशिकसूत्र १,८.१८ ॥
यत्र सीसानि तत्रैतानि सर्वाणि प्रत्येतव्यानि । सीसं प्रसिद्धम् । नदीसीसं नदीफेनम् । अयोरजो लोहसङ्घातिका । कृकलासशिरः प्रसिद्धम् । सीसानां समुच्चयः । यथाऽयेऽमावास्याम् (१.१६) इति सन्नह्य सीसचूर्णानि भक्तेऽलङ्कारेऽ (Kऔश्ष्४७.२३) उदाहरणम् ॥

दधि घृतं मधूदकमिति रसाः ॥ कौशिकसूत्र १,८.१९ ॥
रसकर्मण्येते रसाः प्रत्येतव्याः समुच्चयेन । यथाऽरसकर्माणि कुरुतेऽ (Kऔश्ष्२१.२२) ॥

व्रीहियवगोधूमोपवाकतिलप्रियङ्गुश्यामाका इति मिश्रधान्यानि ॥ कौशिकसूत्र १,८.२० ॥
व्रीहियवगोधूमाः प्रसिद्धाः । उपवाक इन्द्रयवः । तिलः प्रसिद्धः । प्रियङ्गु कङ्गुणिका । श्यामाकः प्रसिद्धः । एतेषां समुच्चयः । यत्र मैश्रधान्यशब्दस्तत्रैते प्रत्येतव्याः । एतानि सर्वाणि मिश्रधान्यानि । यथाऽमैश्रधान्यं पुरोडाशमन्याशायां वा निदधातिऽ (Kऔश्ष्४६.१०) उदाहरणम् ॥

ग्रहणमा ग्रहणात् ॥ कौशिकसूत्र १,८.२१ ॥
ग्रहणं प्रतीकग्रहणम् । ग्रहणमनुग्रहणं तावदनुवर्तते यावत्प्रतीकग्रहणं द्वितीयम् । यथाऽपूर्वस्य मेधाजननानिऽ (Kऔश्ष्१०.१) इत्याद्यनुवर्तते तावद्यावद्ऽअहं रुद्रेभिःऽ (४.३०॑ Kऔश्ष्१०.१६) इति द्वितीयमुदाहरणम् ।ऽब्राह्मणो जज्ञे (४.६॑ Kऔश्ष्२८.१) वारिदम् (४.७)ऽ इति ग्रहणं भवति । अग्रेऽभूतो भूतेषु (४.८॑ Kऔश्ष्१७.१)ऽ इति ग्रहणात्ऽवारिदम्ऽ इत्यग्रहणेऽपि ग्रहणं भवति ॥

यथार्थमुदर्कान् योजयेत् ॥ कौशिकसूत्र १,८.२२ ॥
अनुषङ्गो यथार्थं सर्वत्र कर्तव्यः । यथाऽविद्मा शरस्य पितरं पर्जन्यं शतवृष्ण्यम्ऽ (१.३.१) इति वैदिकम् । लौकिकमिति भवतिऽकृतयामं कङ्कतमवसृजामिऽ इति । तथा मीमांसायामप्यनुषङ्गोऽवाक्यपरिसमाप्तिः सर्वेषु तुल्ययोगित्वात्ऽ (जैसू २.१.४६) । अनुषङ्गः पुनरुक्तमित्यर्थः ॥

अथ चतुर्गणीमहाशान्तिगणाः पठ्यन्ते
इहैव ध्रुवाम् (३.१२) एह यातु (६.७३) यमो मृत्युः (६.९३) सत्यं बृहत्(१२.१) इत्यनुवाको वास्तोष्पतीयानि ॥ कौशिकसूत्र १,८.२३ ॥
इति वास्तोष्पतीयो गणः । सर्वत्र सूक्तेन प्रयोगोऽथर्ववेदे ।ऽसूक्तादि सूक्तं प्रतीयात्ऽ इति वचनात् । यथाऽवास्तोष्पतीयैः कुलिजकृष्टेऽ (Kऔश्ष्४३.४) ॥

दिव्यो गन्धर्वः (२.२) इमं मे अग्ने (६.१११) यौ ते माता (८.६) इति मातृनामानि ॥ कौशिकसूत्र १,८.२४ ॥
यत्र मातृनामानि तत्रैतानि प्रत्येतव्यानि । सर्वत्र सूक्तप्रयोगः यथाऽदिव्यो गन्धर्व इति मातृनामभिर्जुहुयात्ऽ (Kऔश्ष्९४.१५) ॥

स्तुवानम् (१.७) इदं हविः (१.८) निस्सालाम् (२.१४) अरायक्षयणम् (२.१८.३) शं नो देवी पृश्निपर्णी (२.२५) आ पश्यतिं (४.२०) तान्त्सत्यौजाः (४.३६) त्वया पूर्वम् (४.३७) पुरस्ताद्युक्तः (५.२९) रक्षोहणम् (८.३४) इत्यनुवाकश्चातनानि ॥ कौशिकसूत्र १,८.२५ ॥
एतानि चातनानि प्रत्येतव्यानि । सर्वाणि सूक्तानि ।ऽअरायक्षयणम्ऽ (२.१८.३५) इति तिस्रः । अष्टमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ८ ॥


[शान्त्युदकविधानम्]

अम्बयो यन्ति (१.४) शम्भुमयोभू हिरण्यवर्णाः (१.३३) निस्सालाम् (२.१४) ये अग्नथः (३.२१.१७) ब्रह्म जज्ञानम् (४.१.१) इत्येका उत देवाः (४.१३) मृगारसूक्तानि ॥ कौशिकसूत्र १,९.१ ॥
उत्तमं वर्जयित्वा अप नः शोशुचदघम् (४.३३) पुनन्तु मा (६.१९) सस्रुषीः (६.२३) हिमवतः प्र स्रवन्ति (६.२४) वायोः पूतः पवित्रेण (६.५१) शं च नो मयश्च नः (६.५७.३) अनडुद्भ्यस्त्वं प्रथमम् (६.५९) मह्यमापः (६.६१) वैश्वानरो रश्मिभिः (६.६२) यमो मृत्युः (६.९३) विश्वजित्(६.१०७) सञ्ज्ञानं नः (७.५२) यद्यन्तरिक्षे (७.६६) पुनर्मैत्विन्द्रियम् (७.६७) शिवा नः (७.६८.३) शं नो वातो वातु (७.६९) अग्निं ब्रूमो वनस्पतीन् (११.६) इति ॥ कौशिकसूत्र १,९.२ ॥
सर्वाणि सूक्तानि प्रत्येतव्यानि । यत्र शान्तिगणस्तत्रायं गणः प्रत्येतव्यः । शम्भुमयोभूऽआपो हि ष्ठाऽऽशं नो देवीऽ (१.५६) क्रमेण प्रयोगः । तथा व्याकरणेऽअल्पाच्तरम्ऽ (पा । २.२.३४) इति पूर्वनिपातः कृतः समासे ।ऽहिरण्यवर्णाःऽऽनिस्सालाम्ऽ इति षडर्चम् ।ऽये अग्नयःऽ इति सप्तः ।ऽब्रह्म जज्ञानम्ऽ इत्येका ।ऽउत देवाःऽ इति सप्तर्चं सूक्तम् ।ऽअग्नेर्मन्वःऽ (४.२३२९) इति सप्त मृगारसूक्तानि गृहीतव्यानि । प्रथमे द्वे (४.२१२२) उत्तमं (४.३०) च वर्जयित्वा ।ऽशं च नो मयश्च नःऽ इत्येका ।ऽपुनर्मैत्विन्द्रियम्ऽ इत्येका ।ऽशिवा नःऽ इत्येका ।ऽशं नो वातो वातुऽ इत्येका । शेषाणि सूक्तानि । अनेन शान्तिगणेन शान्त्युदकं कुर्यात् । यत्र शान्तिस्तत्रैतानि सर्वाणि प्रत्येतव्यानि ॥

पृथिव्यै श्रोत्राय (६.१०) इति त्रिः प्रत्यासिञ्चति ॥ कौशिकसूत्र १,९.३ ॥
यत्र शान्त्युदकं क्रियते तत्रऽपृथिव्यै श्रोत्रायऽ इति त्रिभिरृग्भिः शान्त्युदकं शान्त्युदकमध्ये प्रक्षिपेत् । अनेनैव कारयिता प्रोक्षणाचमनादीनि प्रत्यृचं करोति ॥

अम्बयो यन्ति (१.४) शम्भुमयोभू हिरण्यवर्णाः (१.३३) शन्तातीयं शिवा नः (७.६८.३) शं नो वातो वातु (७.६९) अग्निं ब्रूमो वनस्पतीन् (११.६) इति ॥ कौशिकसूत्र १,९.४ ॥
अथवाऽनेन गणेन शान्त्युदकं करोति । बृहद्गणेन वा चतुर्गणेन वा शान्त्युदकं करोति । शन्तातीयम्ऽउतः देवाःऽ (४.१३) इति । शेषाणि प्रतीकानि कथितानि । एष शन्तातीयो गणः । यत्र शन्तातीयेन प्रयोजनं तत्रायं सर्वत्र प्रयोक्तव्यः । यथा शन्तातीयेन तिलान् जुहोति ॥

[पृथिव्यै श्रोत्राय (६.१०) इति त्रिः प्रत्यासिञ्चति ॥ कौशिकसूत्र १,९.५ ॥]
यत्र शान्त्युदकं तत्र सर्वत्र प्रत्यासेकः । कारयिता प्रोक्षणमासेचनमाचमनं करोति ॥

इति शान्तियुक्तानि ॥ कौशिकसूत्र १,९.६ ॥
इह शान्त्युदके सर्वेषां सूक्तानां समुच्चयः । अन्यत्र सर्वत्र यथोक्तेन न्यायेन विकल्पः । इह पुनर्गणविकल्पो न सूक्तविकल्पः ॥

उभयतः सावित्र्युभयतः शन्नोदेवी ॥ कौशिकसूत्र १,९.७ ॥
उभयतः शान्तिगणस्य प्रारम्भे समाप्तौ च । शन्नोदेवी सावित्री च प्रयोक्तव्या । समाप्तौ सावित्री पश्चाच्छन्नोदेवी करोति । तथा
च भाष्यं ससावित्रीकस्य गणस्य उभयतः शन्नोदेवी भवति ॥

अथ शान्त्युदकविधानमुच्यते
अहतवासाः कंसे शान्त्युदकं करोति ॥ कौशिकसूत्र १,९.८ ॥
कर्ता अहतवसनो भूत्वा कांस्यपात्रे शान्त्युदकं करोति ॥

[अतिसृष्टो अपां वृषभः (१६.१) इत्यपोऽतिसृज्य सर्वा इमा आप ओषधयः इति पृष्ट्वा सर्वाः इत्याख्यात ओं बृहस्पतिप्रसूतः करवाणि इत्यनुज्ञाप्य ओं सवितृप्रसूतः भवानित्यनुज्ञातः कुर्वीत ॥ कौशिकसूत्र १,९.९ ॥]
ऽअतिसृष्टो अपां वृषभःऽ इति सूक्तेनापोऽतिसृज्यावकरं विसर्जयति ।ऽसर्वा इमा आप ओषधयःऽ इति पृष्ट्वा । कर्ता ब्रह्माणं पृच्छति । ब्रह्मा ब्रवीतिऽसर्वाःऽ इति । चित्यादिभिः सर्वाभिरौषधीभिः सर्वाभिरद्भिर्गङ्गादिनदीसमुद्रादिह्रदप्रभासादितीर्थेभ्य आहृताभिरद्भि शान्त्युदकं करोति । कर्ता ब्रवीतिऽबृहस्पतिप्रसूतः करवाणिऽ इति । ततो ब्रह्मा ब्रवीतिऽसवितृप्रसूतः कुरुतां भवान्ऽ । अनुज्ञातः शान्त्युदकं करोति ।ऽशं नो देवीऽ इत्यृचा सावित्र्या चाम्बयोयन्तिगणेन च शान्त्युदकं करोति । लघुगणेन बृहद्गणेन चतुर्गणेन वा । ततः सावित्रीशन्नोदेव्यौ । ततःऽपृथिव्यै श्रोत्रायऽ इति त्रिः प्रत्यासिञ्चति । शान्त्युदके शान्त्युदकं प्रक्षिपति ॥

[पूर्वया कुर्वीतेति गार्ग्यपार्थश्रवसभागलिकाङ्कायनोपरिबभ्रवकौशिकजाटिकायनकौरुपथयः ॥ कौशिकसूत्र १,९.१० ॥]
एतच्छान्त्युदकं पूर्वया शान्तिगणेन कुर्वीतेति गार्ग्यपार्थश्रवसभागलिकाङ्कायनोपरिबभ्रवकौशिकजाटिकायनकौरुपथयः । एते शान्त्युदकं कुर्वन्ति ॥

[अन्यतरया कुर्वीतेति युवा कौशिको युवा कौशिकः ॥ कौशिकसूत्र १,९.११ ॥]
आचार्यो मन्यते । सर्वे ते कर्तारोऽविकल्पं मन्यन्ते । यत्रोदकेन कर्म तत्र सर्वत्र शान्त्युदकं कुर्यात् । आचमनप्रोक्षणावसेचनाप्लवनादीनि सर्वाणि प्रयोजनानि शान्त्युदकेन कार्याणि । यत्र पठितं तत्र कुर्यात्.
शान्त्युदकस्य प्रयोजनत्रितयं कल्पपञ्चके.
पठितं सूत्रकारैश्च श्रौतस्मार्तेषु कर्मसु ॥
कारयितुः प्रोक्षणाचमनद्वितयं सर्वदैव हि.
अग्नीनां तु तथा कुर्यात्श्रौते स्मार्ते द्वितीयकम् ॥
प्रोक्षणं वास्तुशालायास्तृतीयं परिकीर्तितम्.
आप्लवनावसेचनानि सर्वाणि पठितानि च ॥
शान्त्युदकेन कुर्वीत प्रयोजनैर्विना सदा.
कल्पसूत्रैर्न दृष्टं यत्तदयुक्तं कदाचन ॥
यत्र पुनः पठितमुदकेन प्रयोजनं तत्र सर्वत्र कर्ममध्ये केवलं वा कुर्यात्शान्त्यर्थम् । यत्र शान्त्युदकं तत्र कारयितुर्नित्यमाचमनं प्रोक्षणं च भवति । वास्तुप्रोक्षणं च । समाप्तं शान्त्युदकं कर्म । परिभाषा समाप्ता ॥ नवमी कण्डिका ॥ कौशिकपद्धतिकण्डिका ९ ॥


तत्र भद्रश्लोकः

प्रमाणं पार्वणे चैव प्रकृतित्वात्परीक्षिते.
परिभाषा च सर्वार्था प्रथमे संहिताविधौ ॥

इति प्रथमोऽध्यायः ॥


अथ द्वितीयोऽध्यायः

मेधाजननकर्माणि

[पूर्वस्य मेधाजननानि ॥ कौशिकसूत्र २,१{१०}.१ ॥]

मेधाजननविधिं वक्ष्यामः ॥

[शुकसारिकृशानां जिह्वा बध्नाति ॥ कौशिकसूत्र २,१{१०}.२ ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ (१.१) इति सूक्तेन शुकजिह्वां सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति मेधाकामः । अभ्यातानाद्युत्तरतन्त्रम् । अथवाऽभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन सारिजिह्वां सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति मेधाकामः । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन कृशजिह्वां सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । प्रतिकर्म मेधाकामोऽनुवर्तते ब्रह्मचारिसाम्पदेभ्यः कर्मभ्यो यावत् । सर्वत्र कर्मणां विकल्पः ॥

[आशयति ॥ कौशिकसूत्र २,१{१०}.३ ॥]
अभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन शुकजिह्वां सम्पात्याभिमन्त्र्य प्राशयति । तत उत्तरतन्त्रम् । मेधाकामः । पुनस्तन्त्रं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन सारिजिह्वां सम्पात्याभिमन्त्र्य प्राशयति । अभ्यातानाद्युत्तरतन्त्रम् । मेधाकामः । अभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन कृशजिह्वां सम्पात्याभिमन्त्र्य प्राशयति । शुकः प्रसिद्धः । सारि सरण्टिका प्रसिद्धा । कृशो भारद्वाजः । तत उत्तरतन्त्रम् ॥

[औदुम्बरपलाशकर्कन्धूनामादधाति ॥ कौशिकसूत्र २,१{१०}.४ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन औदुम्बरसमिध आदधाति । हस्तहोमत्वात्तन्त्रविकल्पः ।ऽये त्रिषप्ताःऽ इति सूक्तेन पलाशसमिध आदधाति । तन्त्रविकल्पः ।ऽये त्रिषप्ताःऽ इति सूक्तेन कर्कन्धूसमिध आदधाति । कर्कन्धू बृहद्बदरी । तन्त्रविकल्पः ॥

[आवपति ॥ कौशिकसूत्र २,१{१०}.५ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन व्रीहीनावपति ।ऽये त्रिषप्ताःऽ इति सूक्तेन यवानावपति ।ऽये त्रिषप्ताःऽ इति सूक्तेन तिलानावपति ॥

[भक्षयति ॥ कौशिकसूत्र २,१{१०}.६ ॥]
अभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन क्षीरौदनं सम्पात्याभिमन्त्र्य भक्षयति । उत्तरतन्त्रम् । तन्त्रं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन पुरोडाशं सम्पात्याभिमन्त्र्य भक्षयति । उत्तरतन्त्रम् । अभ्यातानान्तेऽये त्रिषप्ताःऽ इति सूक्तेन रसान् सम्पात्याभिमन्त्र्य भक्षयति । उत्तरतन्त्रम् । रसप्राशनं सर्वत्रऽत्वे क्रतुम्ऽ (५.२.३) इत्यृचा कर्तव्यम् ॥

[उपाध्यायाय भैक्षं प्रयच्छति ॥ कौशिकसूत्र २,१{१०}.७ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेनोपनयनानन्तरं द्वादशरात्रमपक्वं पक्वं वा प्रत्यहं बहुभैक्ष्यमेकत्र कृत्वाभिमन्त्र्योपाध्यायाय ददाति ॥

[सुप्तस्य कर्णमनुमन्त्रयते ॥ कौशिकसूत्र २,१{१०}.८ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन सुप्तस्योपाध्यायस्य कर्णमनुमन्त्रयते ब्रह्मचारी । ब्रह्मचारिणः कर्णं वा बालस्य कर्णं वा पिता वाभिमन्त्रणं कुर्यात् ॥

[उपसीदञ्जपति ॥ कौशिकसूत्र २,१{१०}.९ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तं यदा यदोपाध्यायगृहं याति तदा तदा जपति ब्रह्मचारी ॥

[धानाः सर्पिर्मिश्राः सर्वहुताः ॥ कौशिकसूत्र २,१{१०}.१० ॥]
अभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन धानाः सर्पिर्मिश्राः सर्वा जुहोति प्रत्यृचम् । उत्तरतन्त्रम् ॥

[तिलमिश्रा हुत्वा प्राश्नाति ॥ कौशिकसूत्र २,१{१०}.११ ॥]
अभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन तिलमिश्रा हुत्वा ततः प्राश्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[पुरस्तादग्नेः कल्माषं दण्डं निहत्य पश्चादग्नेः कृष्णाजिने धाना अनुमन्त्रयते ॥ कौशिकसूत्र २,१{१०}.१२ ॥
सूक्तस्य पारं गत्वा प्रयच्छति ॥ कौशिकसूत्र २,१{१०}.१३ ॥
सुकृज्जुहोति ॥ कौशिकसूत्र २,१{१०}.१४ ॥
दण्डधानाजिनं ददाति ॥ कौशिकसूत्र २,१{१०}.१५ ॥]
स्थण्डिलेऽग्निं कृत्वा पुरस्तादग्नेः कल्माषं दण्डं निहत्य पश्चादग्नेः कृष्णाजिने धानाः कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेनानुमन्त्र्य दण्डधानाजिनं ददात्युपाध्यायाय । अभ्यातानान्तं कृत्वा पुरस्तादग्नेः कल्माषं दण्डं निहत्य पश्चादग्नेः कृष्णाजिने धानाः कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन सकृज्जुहोति दण्डधानाजिनं ददाति । तत उत्तरतन्त्रम् ॥

जातकर्मोच्यते
[अहं रुद्रेभिः (४.२) इति शुक्लपुष्पहरितपुष्पे किंस्त्यनाभिपिप्पल्यौ जातरूपशकलेन प्राक्स्तनग्रहात्प्राशयति ॥ कौशिकसूत्र २,१{१०}.१६ ॥]
कर्मविकल्पः ।अहं रुद्रेभिःऽ इति सूक्तेन शुक्लपुष्पहरितपुष्पे पिष्ट्वाभिमन्त्र्य हिरण्यशकलेन प्राशयति प्राक्स्तनग्रहणात् । इति जातकर्म । शुक्लपुष्पहरितपुष्पे इति । शङ्खपुष्पिकान्धपुष्पिकेति प्रसिद्धे ।अहं रुद्रेभिःऽ इति सूक्तेन शङ्खनाभिं पिप्पलीं च पिष्ट्वाभिमन्त्र्य प्राशयति जातरूपशकलेन प्राक्स्तनग्रहणात् । इति जातकर्म ॥

[प्रथमप्रवदस्य मातुरुपस्थे तालुनि सम्पातानानयति ॥ कौशिकसूत्र २,१{१०}.१७ ॥]
अभ्यातानान्तं कृत्वाऽअहं रुद्रेभिःऽ इति सूक्तेन माणवकं मातुरुत्सङ्गे कृत्वा तालुनि सम्पातानानयति । सम्यग्वचनकामो मेधाकामश्च । प्रथमप्रवदस्य । अभ्यातानाद्युत्तरतन्त्रम् ॥

[दधिमध्वाशयति ॥ कौशिकसूत्र २,१{१०}.१८ ॥]
अभ्यातानान्तं कृत्वाऽअहं रुद्रेभिःऽ इति सूक्तेन दधिमधुनी एकत्रासाद्य सम्पात्याभिमन्त्र्याशयति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[उपनीतं वाचयति वार्षशतिकं कर्म ॥ कौशिकसूत्र २,१{१०}.१९ ॥]
अभ्यातानान्तं कृत्वाऽअहं रुद्रेभिःऽ इति सूक्तं ब्रह्मचारिणं वाचयति । दण्डप्रदानं कृत्वोपनयने नित्यं वाचनम् ।ऽअहं रुद्रेभिःऽ इति शुक्लपुष्पेत्यादि पञ्च कर्माण्यायुष्कामोऽपि करोति ।ऽवार्षशतिकं कर्मऽ इति वाचनात् ॥

[त्वं नो मेधे (६.१०८) द्यौश्च मे (१२.१.५३) इति भक्षयति ॥ कौशिकसूत्र २,१{१०}.२० ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वाऽत्वं नो मेधेऽ इति पञ्चर्चेन सूक्तेन क्षीरौदनं सम्पात्याभिमन्त्र्य भक्षयति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽत्वं नो मेधेऽ इति सूक्तेन पुरोडाशं सम्पात्याभिमन्त्र्य भक्षयति । अभ्यातानाद्युत्तरतन्त्रम् । पूर्वतन्त्रं कृत्वाऽत्वं नो मेधेऽ इति सूक्तेन रसान् सम्पात्याभिमन्त्र्य भक्षयति ।ऽत्वे क्रतुम्ऽ
(५.२.३) इति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽद्यौश्च म इदं पृथिवी चऽ (१२.१.५३) इत्येकया क्षीरौदनं सम्पात्याभिमन्त्र्य भक्षयति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वाऽद्यौश्च मेऽ इत्यृचा पुरोडाश सम्पात्याभिमन्त्र्य भक्षयति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽद्यौश्च मेऽ इत्यृचा रसान् सम्पात्याभिमन्त्र्य भक्षयति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[दित्यमुपतिष्ठते ॥ कौशिकसूत्र २,१{१०}.२१ ॥]
त्वं नो मेधेऽ इति सूक्तेनादित्यमुपतिष्ठते ।ऽद्यौश्च मेऽ इत्यृचादित्यमुपतिष्ठते । सर्वत्र मेधाकामः ॥

[यदग्ने तपसा (७.६१) इत्याग्रहायण्यां भक्षयति ॥ कौशिकसूत्र २,१{१०}.२२ ॥]
आग्रहायण्यां पौर्णमास्यां तन्त्रं कृत्वाऽयदग्ने तपसाऽ इति द्वाभ्यामृग्भ्यां रौदनं सम्पात्याभिमन्त्र्य भक्षयेत् । अभ्यातानाद्युत्तरतन्त्रम् । मार्गशीर्षपौर्णमास्यां तन्त्रं कृत्वाऽयदग्ने तपसाऽ इति द्वाभ्यां पुरोडाशं सम्पात्याभिमन्त्र्य भक्षयेत् । अभ्यातानाद्युत्तरतन्त्रम् । मार्गशीर्षपौर्णमास्यां तन्त्रं कृत्वाऽयदग्ने तपसाऽ इत्यृग्भ्यां रसान् सम्पात्याभिमन्त्र्य भक्षयति । उत्तरतन्त्रम् ॥

[अग्निमुपतिष्ठते ॥ कौशिकसूत्र २,१{१०}.२३ ॥]
ऽयदग्ने तपसाऽ इति द्वाभ्यामग्निमुपतिष्ठते मार्गशीर्षपौर्णमास्यामेव ॥

[प्रातरग्निं (३.१६) गिरावरगराटेषु (६.६९) दिवस्पृथिव्याः (९.१) इति संहाय मुखं विमार्ष्टि ॥ कौशिकसूत्र २,१{१०}.२४ ॥]
ऽप्रातरग्निम्ऽ इति सूक्तेन निद्रां त्यक्त्वा मुखं प्रक्षालयति ।ऽगिरावरगराटेषुऽ इति सूक्तेन सुप्तोत्थाय मुखं विमार्ष्टि । उदकेन प्रक्षालनम् ।ऽदिवस्पृथिव्याःऽ (९.१.११०)ऽयथा सोमः प्रातःसवनेऽ (९.१.११२४) इति सूक्ताभ्यां सुप्तोत्थाय मुखं विमार्ष्टि । हस्तेन प्रक्षालयति । मुखप्रक्षालनं वर्चस्कामोऽपि करोति । उदकाभिमन्त्रणं स्वयं वाऽन्योऽपि वा करोति । मेधाव्येकं कर्म कुर्याद्द्वे वा सर्वाणि वा । सर्वत्र कर्मणां विकल्पः । कर्मबाहुल्यात्फलबाहुल्यम् । अभ्यासे च पुनः कर्मसिद्धिः । मेधाकर्माणि समाप्तानि ॥ प्रथमा कण्डिका ॥ Kऔशिकपद्धतिकण्डिका १० ॥


[ब्रह्मचारिसाम्पदकर्माणि]
ब्रह्मचारिसाम्पदानां विधिं वक्ष्यामः
[पूर्वस्य ब्रह्मचारिसाम्पदानि ॥ कौशिकसूत्र २,१{११}.१ ॥]
पौर्णमास्यां निरृतिकर्म कृत्वा सकृत्श्वो भूते साम्पदं कुरुते ॥

[औदुम्बर्यादयः ॥ कौशिकसूत्र २,१{११}.२ ॥]
ऽये त्रिषप्ताःऽ (१.१) इति सूक्तेनौदुम्बरसमिध आदधाति । हस्तहोमत्वात्तन्त्रविकल्पः । अतो ब्रह्मचारी सम्पत्कामोऽनुवर्तते ।ऽये त्रिषप्ताःऽ इति सूक्तेन पलाशसमिध आदधाति ।ऽये त्रिषप्ताःऽ इति सूक्तेन बृहद्बदरीसमिध आदधाति ॥

[ब्रह्मचार्यावसथादुपस्तरणान्यादधाति ॥ कौशिकसूत्र २,१{११}.३ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन ब्रह्मचारी गृहादुपस्तरणानि तृणान्यादधाति ॥

[पिपीलिकोद्वापे मेदोमधुश्यामाकेषीकतूलान्याज्यं जुहोति ॥ कौशिकसूत्र २,१{११}.४ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेनारण्यपिपीलिकाच्छिद्रे मेदोमांसमधुश्यामाकशरतूलान्याज्यं चैतानि द्रव्याणि जुहोति । पञ्चकृत्वः सूक्तावृत्तिः ॥

[आज्यशेषे पिपीलिकोद्वापानोप्य ग्राममेत्य सर्वहुतान् ॥ कौशिकसूत्र २,१{११}.५ ॥]
पञ्च द्रव्याणि छिद्रे हुत्वा ततः सङ्गृह्याज्यस्थाल्यां कृत्वा ग्राम आगत्याभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन स्थाल्याः
सकृज्जुहोति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[ब्रह्मचारिभ्योऽन्नं धानास्तिलमिश्राः प्रयच्छति ॥ कौशिकसूत्र २,१{११}.६ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेनान्नमभिमन्त्र्य ब्रह्मचारिणो भोजयेत् । भुक्ते सतिऽये त्रिषप्ताःऽ इति सूक्तेन धानाः तिलमिश्रा अभिमन्त्र्य ददाति । समाप्तानि ब्रह्मचारिसाम्पदानि । ब्रह्मचारिसाम्पदानि शिष्यसम्पत्तिर्भवतीत्यर्थः । सर्वत्र कर्मणां विकल्पः ॥

[ग्रामसाम्पदकर्माणि]
अथ ग्रामसाम्पदकर्मोच्यते
[एतानि ग्रामसाम्पदानि ॥ कौशिकसूत्र २,१{११}.७ ॥]
पूर्वेद्युर्निरृतिकर्म कृत्वा ग्रामसाम्पदानामधिकारः ॥

[विकारः स्थूणामूलावतक्षणानि सभानामुपस्तरणानि ॥ कौशिकसूत्र २,१{११}.८ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेनौदुम्बरतक्षणान्यादधाति । ग्रामसम्पत्कामोऽनुवर्तते । आ सर्वसम्पत्कामेभ्यो यावत् ।ऽये त्रिषप्ताःऽ इति सूक्तेन पालाशतक्षणान्यादधाति ।ऽये त्रिषप्ताःऽ इति सूक्तेन कर्कन्धूतक्षणान्यादधाति । स्थूणामूलतक्षणानि ।ऽये त्रिषप्ताःऽ इति सूक्तेन सभानामुपस्तरणान्यादधाति ॥

[ग्रामीणेभ्योऽन्नम् ॥ कौशिकसूत्र २,१{११}.९ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेनान्नमभिमन्त्र्य ग्रामीणेभ्यो ददाति ॥

[सुरां सुरापेभ्यः ॥ कौशिकसूत्र २,१{११}.१० ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन सुरामभिमन्त्र्य सुरापेभ्यो ददाति । समाप्तानि ग्रामसाम्पदानि । कर्मणां विकल्पः । सर्वत्र ग्रामो नास्ति । सर्वत्र हस्तहोमे वा तन्त्रम् । ग्रामशब्दः समूहवचनः । ग्रामो वा पत्तनं वा नगरं वा दुर्गाङ्गं सर्वं ग्रामशब्देनोच्यते । ग्रामकामो यदा भवति तदा ग्रामसाम्पदं कुरुत इत्यर्थः ॥

[सर्वसाम्पदकर्माणि]
अथ सर्वसाम्पदानां विधिं वक्ष्यामः
[औदुम्बर्यादीनि भक्षणान्तानि सर्वसाम्पदानि ॥ कौशिकसूत्र २,१{११}.११ ॥]
पौर्णमास्यां रात्रौ निरृतिकर्म कृत्वा श्वो भूते कर्मप्रयोगः ।ऽये त्रिषप्ताःऽ इति सूक्तेनौदुम्बरसमिध आदधाति । सर्वसम्पत्कामोऽनुवर्तते । आ साम्मनसेभ्यः कर्मभ्यो यावत् ।ऽये त्रिषप्ताःऽ इति सूक्तेन पालाशसमिध आदधाति ।ऽये त्रिषप्ताःऽ इति सूक्तेन बृहद्बदरीसमिध आदधाति ।ऽये त्रिषप्ताःऽ इति सूक्तेन व्रीहिनावपति ।ऽये त्रिषप्ताःऽ इति सूक्तेन यवानावपति ।ऽये त्रिषप्ताःऽ इति सूक्तेन तिलानावपति । सर्वफलकामः । अभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन क्षीरौदनं सम्पात्याभिमन्त्र्य भक्षयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन पुरोडाशं सम्पात्याभिमन्त्र्य भक्षयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन रसान् सम्पात्याभिमन्त्र्य भक्षयति ।ऽत्वे क्रतुम् (५.२.३) इति रसप्राशनीऽ (Kऔश्ष्२१.२१) । तत उत्तरतन्त्रम् ॥

[त्रिर्ज्योतिः कुरुते ॥ कौशिकसूत्र २,१{११}.१२ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन त्रिरहनि मध्य अग्निं प्रज्वालयति सर्वकामः ॥

[उपतिष्ठते ॥ कौशिकसूत्र २,१{११}.१३ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेनाग्निमुपतिष्ठते त्रिकालम् ॥

[सव्यात्पाणिहृदयाल्लोहितं रसमिश्रमश्नाति ॥ कौशिकसूत्र २,१{११}.१४ ॥]
अभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन सव्यात्पाणिमध्याद्रुधिरं रसमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरम् ॥

[पृश्निमन्थः ॥ कौशिकसूत्र २,१{११}.१५ ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन पृश्निमन्थः ॥

जिह्वाया उत्साद्यमक्ष्योः परिस्तरणमस्तृहणं हृदयं दूर्श उपनह्य तिस्रो रात्रीः पल्पूलने वासयति ॥ कौशिकसूत्र २,१{११}.१६ ॥
चूर्णानि करोति ॥ कौशिकसूत्र २,१{११}.१७ ॥
[मैश्रधान्ये मन्थ ओप्य दधिमधुमिश्रमश्नाति ॥ कौशिकसूत्र २,१{११}.१८ ॥]
मैश्रधान्ये मन्थ ओप्यैवं पृश्निमन्थः । पृश्निमन्थं मैश्रधान्यं च दधिमधुमिश्रं कृत्वा सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । समाप्तः पृश्निमन्थः ॥

[अस्मिन् वसु (१.९) यदाबध्नन् (१.३५) नव प्राणान् (५.२८) इति युग्मकृष्णलं वासितं बध्नाति ॥ कौशिकसूत्र २,१{११}.१९ ॥]
आज्यतन्त्रं कृत्वाऽअस्मिन् वसुऽ इति सूक्तेन युग्मकृष्णलं हिरण्यमणिं कृत्वा त्रयोदश्यादयस्तिस्रो दधिमधुनि वासयित्वा सम्पात्याभिमन्त्र्य बध्नाति । तद्दधिमधु प्राशयति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽयदाबध्नन्ऽ इति सूक्तेन युग्मकृष्णलं सुवर्णमणिं वासितं सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति । दधिमधुप्राशनम् । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽनव प्राणान्ऽ इति सूक्तेन युग्मकृष्णलं सुवर्णमणिं वासितं सम्पात्याभिमन्त्र्य बध्नाति । प्राशनम् । अभ्यातानाद्युत्तरतन्त्रम् ॥

[सारूपवत्सं पुरुषगात्रं द्वादशरात्रं सम्पातवन्तं कृत्वानभिमुखमश्नाति ॥ कौशिकसूत्र २,१{११}.२० ॥]
आज्यतन्त्रं कृत्वा सारूपवत्स ओदने पुरुषाकृतिमालिख्य द्वादशरात्रंऽअस्मिन् वसुऽ इति सूक्तेन प्रत्यहं सम्पात्य द्वादशेऽहन्यभिमन्त्र्यानभिमुखमश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । प्रथमेऽहनि तन्त्रं कृत्वाऽयदा बध्नन्ऽ इति सूक्तेन सारूपवत्सं पुरुषगात्रं द्वादशरात्रं सम्पातवन्तं कृत्वाभिमन्त्र्यानभिमुखमश्नाति । तत उत्तरतन्त्रम् । प्रथमे दिवसे तन्त्रं कृत्वाऽनव प्राणान्ऽ इति सूक्तेन सारूपवत्सं पुरुषगात्रं द्वादशरात्रं सम्पातवन्तं कृत्वाभिमन्त्र्यानभिमुखमश्नाति । तत उत्तरतन्त्रम् । द्वितीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ११ ॥


[कथं महे (५.११) इति मादानकशृतं क्षीरौदनमश्नाति ॥ कौशिकसूत्र २,२{१२}.१ ॥]
अभ्यातानान्तं कृत्वाऽकथं महेऽ इति सूक्तेन मादानककाष्ठशृतं क्षीरौदनं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् ॥

[चमसे सरूपवत्साया दुग्धे व्रीहियवाववधाय मूर्च्छयित्वा मध्वासिच्याशयति ॥ कौशिकसूत्र २,२{१२}.२ ॥]
अभ्यातानान्तं कृत्वाऽकथं महेऽ इति सूक्तेन चमसे सरूपवत्साया दुग्धे व्रीहियवाववधाय मूर्च्छयित्वा मध्वासिच्य सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् ॥

[पृथिव्यै श्रोत्राय (६.१०) इति जुहोति ॥ कौशिकसूत्र २,२{१२}.३ ॥]
तन्त्रं कृत्वाऽपृथिव्यै श्रोत्रायऽ इति सूक्तेनाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[वत्सो विराजः (१३.१.३३) इति मन्थान्तानि ॥ कौशिकसूत्र २,२{१२}.४ ॥]
ऽवत्सो विराजःऽ इत्यृचौदुम्बरसमिध आदधाति ।ऽवत्सो विराजःऽ इत्यृचा पालाशसमिध आदधाति ।ऽवत्सो विराजःऽ इत्यृचा बृहद्बदरीसमिध आदधाति । अभ्यातानाद्युत्तरतन्त्रम् ।ऽवत्सो विराजःऽ इत्यृचा व्रीहीनावपति । अभ्यातानान्तं कृत्वाऽवत्सो विराजःऽ इत्यृचा यवानावपति ।ऽवत्सो विराजःऽ इत्यृचा तिलानावपति । अभ्यातानान्तं कृत्वाऽवत्सो विराजःऽ इत्यृचा क्षीरौदनं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽवत्सो विराजःऽ इत्यृचा पुरोडाशं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽवत्सो विराजःऽ इत्यृचा रसान् सम्पात्याभिमन्त्र्याश्नाति । उत्तरतन्त्रम् ।ऽवत्सो विराजःऽ इत्यृचा त्रिकालमहन्यग्निं प्रज्वालयति ।ऽवत्सो विराजःऽ इत्यृचा त्रिकालमग्निमुपतिष्ठते । अभ्यातानान्तं कृत्वाऽवत्सो विराजःऽ इत्यृचा सव्यात्पाणिहृदयाल्लोहितं रसमिश्रितं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽवत्सो विराजःऽ इत्यृचा पृश्निमन्थो जिह्वाया आदि मैश्रधान्ये मन्थ ओप्य दधिमधुमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । सर्वसाम्पदानि कर्माणि समाप्तानि । सर्वत्र कर्मणां विकल्पः । सर्वकाम इत्यर्थः । सर्वसाम्पदानि पुत्रपशुधनधान्यप्रजापत्नीजयविजयलाभलक्ष्मीअश्वहस्तिनरयानाअरामग्रामगृहक्पतडागवापीवेदपाठकल्पपाठवेदार्थज्ञानमीमांसाज्ञानव्याकरणज्ञानसूत्रज्ञान आवसथ्याग्नित्रेताग्निकामज्योतिष्ठोमकामसत्रकाम धर्मार्थकामविशेषेषु । परेषु शत्रुषु उच्चाटनवशीकरणगृहकलहोत्पत्तिविद्वेषणस्तम्भनादिजतुरसायनधातुवादादिरसस्त्रीभोगादिकाममेध्यवस्तुवृषभाभिचारस्वस्त्ययनायुष्यचतुरङ्गबलपुष्टिदेवताज्ञानादिसम्पद इति । अनेककामसम्पद उच्यन्ते । सम्पदोऽपूर्वलाभ इति । सर्वत्र कर्मणां क्रमो नास्ति । सर्वत्र विकल्पः । फलार्थिनः अभ्यासेन पुनःपुनः क्रियाभ्यासेन कर्मसिद्धिः । कामानन्त्यात्
कामानां परिगणनं कृतम् । सर्वसाम्पदानीति लोक अनेककामसम्पदित्युच्यते । धनविशेषकामाः । पुत्रविशेषकामाः । कपिलवर्णगौरवर्णपुत्रा एवंविधं भवतीति । कर्मणां क्रमोऽपि नास्ति तन्त्रेण कर्म पठितम् । साम्पदस्य कर्मपद्धतिः समाप्ता ॥

[साम्मनस्यकर्माणि]
साम्मनस्यानां कर्मणां विधिं वक्ष्यामः
[सहृदयं (३.३०) तदू षु (५.१.५) सं जानीध्वम् (६.६४) एह यातु (६.७३) सं वः पृच्यन्तां (६.७४) सं वो मनांसि (६.९४) सञ्ज्ञानं नः (७.५२) इति साम्मनस्यानि ॥ कौशिकसूत्र २,२{१२}.५ ॥
उदकुलिजं सम्पातवन्तं ग्रामं परिहृत्य मध्ये निनयति ॥ कौशिकसूत्र २,२{१२}.६ ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वाऽसहृदयं साम्मनस्यम्ऽ इति सूक्तेनोदकुलिजमुदकुम्भं सम्पात्य ग्रामपार्श्वे भ्रामयित्वा मध्ये निनयति । तत उत्तरतन्त्रम् । साम्मनस्याधिकार आ वर्चस्येभ्यः कर्मभ्यो यावत् । तन्त्रं कृत्वाऽतदू षु तेऽ इत्यृचा कुम्भं सम्पात्य ग्रामपार्श्वे भ्रामयित्वा मध्ये निनयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽसं जानीध्वम्ऽ इति सूक्तेन कुम्भं सम्पात्य तं घटं गृहीत्वा ग्रामपार्श्वे भ्रामयित्वा मध्ये निनयति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽएह यातुऽऽसं वः पृच्यन्ताम्ऽ इति सूक्ताभ्यामुदकुम्भं सम्पात्य ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् । अनेन सूक्तेन ज्ञातिपुत्रस्य साम्मनस्यं क्रियते । यावज्जीवं सजातानां सगोत्राणां साम्मनस्यं भवति । तन्त्रं कृत्वाऽसं वो मनांसिऽ इति तिसृभिरृग्भिरुदकुम्भं सम्पात्य ग्रामं परिहृत्य मध्ये निनयति । अभ्यातानाद्युत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽसञ्ज्ञानं नःऽ इति द्वाभ्यामृग्भ्यामुदकुलिजं सम्पात्य ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् ॥

[एवं सुराकुलिजम् ॥ कौशिकसूत्र २,२{१२}.७ ॥]
अभ्यातानान्तं कृत्वाऽसहृदयम्ऽ इति सूक्तेन सुराकुलिजं सम्पातितं कृत्वा ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽतदू षु तेऽ इत्यृचा सुराकुलिजं सम्पातितं कृत्वा ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽसं जानीध्वम्ऽ इति सूक्तेन सुराकुलिजं सम्पातितं कृत्वा ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽएह यातुऽऽसं वः पृच्यन्ताम्ऽ इति सूक्ताभ्यां सुराकुलिजं सम्पातवन्तं कृत्वा ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽसं वो मनांसिऽ इति तिसृभिरृग्भिः सुराकुलिजं
सम्पातवन्तं कृत्वा ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽसञ्ज्ञानं नःऽ इति द्वाभ्यामृग्भ्यां सुराकुलिजं सम्पातवन्तं कृत्वा ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् ॥

[त्रिहायण्या वत्सतर्याः शुक्तानि पिशितान्याशयति ॥ कौशिकसूत्र २,२{१२}.८ ॥]
अभ्यातानान्तं कृत्वाऽसहृदयम्ऽ इति सूक्तेन त्रिवर्षवत्सिकायाः शुक्तानि पिशितानि मांसानि सम्पात्याभिमन्त्र्याशयति ।
अभ्यातानाद्युत्तरतन्त्रम् । आज्यतन्त्रमभ्यातानान्तं कृत्वाऽतदू षु तेऽ इत्यृचाम्लेन रसेन सिक्तानि मांसानि सम्पात्याभिमन्त्र्याशयति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽसं जानीध्वम्ऽ इति सूक्तेन शुक्तानि मांसानि सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽएह यातुऽऽसं वः पृच्यन्ताम्ऽ इति सूक्ताभ्यां त्रैहायण्या वत्सतर्याः शुक्तानि मांसानि सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽसं वो मनांसिऽ इति सूक्तेन शुक्तानि मांसानि सम्पात्याभिमन्त्र्याशयति । उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽसञ्ज्ञानं नःऽ इति द्वाभ्यामृग्भ्यां त्रैहायण्या वत्सतर्या शुक्तानि मांसानि सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् ॥

[भक्तं सुरां प्रपां सम्पातवत्करोति ॥ कौशिकसूत्र २,२{१२}.९ ॥]
आज्यतन्त्रं कृत्वाऽसहृदयम्ऽ इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽतदू षु तेऽ इत्येकया भक्तं सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽसं जानीध्वम्ऽ इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याशयति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वाऽएह यातुऽऽसं वः पृच्यन्ताम्ऽ इति सूक्ताभ्यां भक्तं सम्पात्याभिमन्त्र्याशयति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽसं वो मनांसिऽ इति तिसृभिरृग्भिभक्तं सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् । वेद्यादितन्त्रं कृत्वाऽसञ्ज्ञानं नःऽ इति द्वाभ्यां भक्तं सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् । ब्राह्मणतर्पणम् । अभ्यातानान्तं कृत्वाऽसहृदयम्ऽ इति सूक्तेन सुरां सम्पात्याभिमन्त्र्य प्रयच्छति । साम्मनस्येभ्यः पुरुषेभ्यस्त्रैवर्णिकेभ्यः । अभ्यातानाद्युत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽतदू षु तेऽ इत्येकया सुरां सम्पात्याभिमन्त्र्य प्रयच्छति । तत उत्तरतन्त्रम्.
तन्त्रं कृत्वाऽसं जानीध्वम्ऽ इति सूक्तेन सुरां सम्पात्याभिमन्त्र्य प्रयच्छति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽएह यातुऽऽसं वः पृच्यन्ताम्ऽ इति सूक्ताभ्यां सुरां सम्पात्याभिमन्त्र्य प्रयच्छति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽसं वो मनांसिऽ इति तृचेन सूक्तेन सुरां सम्पात्याभिमन्त्र्य प्रयच्छति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽसञ्ज्ञानं नःऽ इति द्वाभ्यामृग्भ्यां सुरां सम्पात्याभिमन्त्र्य प्रयच्छति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽसहृदयम्ऽ इति सूक्तेन प्रपोदकं सम्पात्याभिमन्त्र्य पाययेत् । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽतदू षु तेऽ इत्येकया प्रपोदकं सम्पात्याभिमन्त्र्य पाययेत् । तत उत्तरतन्त्रम्.
आज्यतन्त्रं कृत्वाऽसं जानीध्वम्ऽ इति सूक्तेन प्रपोदकं सम्पात्याभिमन्त्र्य पाययेत् । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽएह यातुऽऽसं वः पृच्यन्ताम्ऽ इति सूक्ताभ्यां प्रपोदकं सम्पात्याभिमन्त्र्य पाययेत् । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽसं वो मनांसिऽ इति तृचेन प्रपोदकं सम्पात्याभिमन्त्र्य पाययेत् । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽसञ्ज्ञानं नःऽ इति द्वाभ्यां प्रपोदकं सम्पात्याभिमन्त्र्य पाययेत् । अभ्यातानाद्युत्तरतन्त्रम् । साम्मनस्यानि समाप्तानि । येन सह साम्मनस्यं करोति तस्य भक्तादीनि ददाति । कर्मणां विकल्पः । येन सह साम्मनस्यं कर्तुमिच्छति तस्य कर्म करोति । सुरादि शूद्राय ददाति । मांसानि चाण्डालेभ्यः । किञ्च येन सहैकचित्तकरणं साम्मनस्यमित्युच्यते । वशीकरणमित्यर्थः । ब्राह्मणस्त्रीशूद्रचाण्डालादीनां नास्ति जातिनियमः । नापि सङ्ख्यानियमः । बहूनामपि भवति । वशीकरणं साम्मनस्यमित्युच्यते । इति वशीकरणमिति साम्मनस्यम् । साम्मनस्यकर्मपद्धतिः समाप्ता ॥

[वर्चस्यकर्माणि]
अथ वर्चस्यविधिं वक्ष्यामः
[पूर्वस्य ममाग्ने वर्चः (५.३) इति वर्चस्यानि ॥ कौशिकसूत्र २,२{१२}.१० ॥
औदुम्बर्यादीनि त्रीणि ॥ कौशिकसूत्र २,२{१२}.११ ॥]
ऽये त्रिषप्ताःऽ (१.१) इति सूक्तेनौदुम्बरसमिध आदधाति । सर्वत्र वर्चस्कामोऽनुवर्तते आ राजकर्मभ्यो यावत् ।ऽये त्रिषप्ताःऽ इति सूक्तेन पालाशसमिध आदधाति । तेजस्कामः ।ऽये त्रिषप्ताःऽ इति सूक्तेन बृहद्बदरीसमिध आदधाति ।ऽये त्रिषप्ताःऽ इति सूक्तेन
व्रीहीनावपति ।ऽये त्रिषप्ताःऽ इति सूक्तेन यवानावपति ।ऽये त्रिषप्ताःऽ इति सूक्तेन तिलानावपति । तेजस्कामः । अभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन क्षीरौदनं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । वर्चस्कामः । अभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन पुरोडाशं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतरम् । तन्त्रं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन रसान् सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् ।ऽममाग्ने वर्चःऽ इति सूक्तेनौदुम्बरसमिध आदधाति ।ऽममाग्ने वर्चःऽ इति सूक्तेन पालाशसमिध आदधाति ।ऽममाग्ने वर्चःऽ इति सूक्तेन बृहद्बदरीसमिध आदधाति ।ऽममाग्ने वर्चःऽ इति सूक्तेन व्रीहीनावपति ।ऽममाग्ने वर्चःऽ इति सूक्तेन यवानावपति ।ऽममाग्ने वर्चःऽ इति सूक्तेन तिलानावपति । अभ्यातानान्तं कृत्वाऽममाग्ने वर्चःऽ इति सूक्तेन क्षीरौदनं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वाऽममाग्ने वर्चःऽ इति सूक्तेन पुरोडाशं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वाऽममाग्ने वर्चःऽ इति सूक्तेन रसान्
सम्पात्याभिमन्त्र्याश्नाति । उत्तरतन्त्रम् ॥

अथ कुमारीवर्चस्यमुच्यते
[कुमार्या दक्षिणमूरुमभिमन्त्रयते ॥ कौशिकसूत्र २,२{१२}.१२ ॥]
ये त्रिषप्ताःऽ इति सूक्तेन कुमार्या दक्षिणमूरुमभिमन्त्रयते ।ऽममाग्ने वर्चःऽ इति सूक्तेन कुमार्या दक्षिणमूरुमभिमन्त्रयते । कुमारी रूपवती वर्चस्विनी भर्तृगृहे प्रधाना भवति । तस्या इदं कर्म क्रियते ॥

[वपां जुहोति ॥ कौशिकसूत्र २,२{१२}.१३ ॥]
अभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन वपां कृत्त्वानीय जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वाऽममाग्ने वर्चःऽ इति सूक्तेन वपां कृत्त्वानीय जुहोति । उत्तरतन्त्रम् ॥

[अग्निमुपतिष्ठते ॥ कौशिकसूत्र २,२{१२}.१४ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेनाग्निमुपतिष्ठते ।ऽममाग्ने वर्चःऽ इति सूक्तेनाग्निमुपतिष्ठते । वर्चस्कामः ॥

[प्रातरग्निं (३.१६) गिरावरगराटेषु (६.६९) दिवस्पृथिव्याः (९.१) इति दधिमध्वाशयति ॥ कौशिकसूत्र २,२{१२}.१५ ॥]
अभ्यातानान्तं कृत्वाऽप्रातरग्निम्ऽ इति सूक्तेन दधिमधुनी सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽगिरावरगराटेषुऽ इति सूक्तेन दधिमधुनी एकत्र कृत्वा सम्पात्याभिमन्त्र्याशयति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वाऽदिवस्पृथिव्याःऽ इत्यर्थसूक्तेन दधिमधुनी एकत्र कृत्वा सम्पात्याभिमन्त्र्याशयति । अभ्यातानाद्युत्तरतन्त्रम् ॥

अथ क्षत्रियवर्चस्यमुच्यते
[कीलालमिश्रं क्षत्रियं कीलालमितरान् ॥ कौशिकसूत्र २,२{१२}.१६ ॥]
अभ्यातानान्तं कृत्वाऽप्रातरग्निम्ऽ इति सूक्तेन दधिमधु भक्तमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याशयति क्षत्रियम् । तत उत्तरतन्त्रम् । तेजस्कामः । तन्त्रं कृत्वाऽगिरावरगराटेषुऽ इति सूक्तेन दधिमधु भक्तमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याशयति क्षत्रियम् । तत उत्तरतन्त्रम् । तेजस्कामः । तन्त्रं कृत्वाऽदिवस्पृथिव्याःऽ इत्यर्थसूक्तेन दधिमधु भक्तमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याशयति क्षत्रियम् । वचस्कामः । तत उत्तरतन्त्रम् ॥
अथ वैश्यशूद्रादिवर्चस्यमुच्यते । अभ्यातानान्तं कृत्वाऽप्रातरग्निम्ऽ इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याशयति वैश्यशूद्रम् । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽगिरावरगराटेषुऽ इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याशयति वैश्यान् शूद्राननुलोमजांश्च । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽदिवस्पृथिव्याःऽ इत्यर्थसूक्तेन भक्तं सम्पात्याभिमन्त्र्याशयति । वैश्यशूद्रादीन् । तत उत्तरतन्त्रम् । तेजस्कामः । तृतीया कण्डिका ॥ कौशिकपद्धतिकण्डिका १२ ॥


[हस्तिवर्चसम् (३.२२) इति हस्तिनम् ॥ कौशिकसूत्र २,३{१३}.१ ॥]
ऽहस्तिवर्चसम्ऽ इति सूक्तेन हस्तिनं दृष्ट्वा उपतिष्ठते । तेजस्कामः ॥

[हास्तिदन्तं बध्नाति ॥ कौशिकसूत्र २,३{१३}.२ ॥]
अभ्यातानान्तं कृत्वाऽहस्तिवर्चसम्ऽ इति सूक्तेन हस्तिदन्तमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरम् । सर्वत्र वर्चस्याधिकारोऽनुवर्तते ॥

[लोमानि जतुना सन्दिह्य जातरूपेणापिधाप्य ॥ कौशिकसूत्र २,३{१३}.३ ॥]
अभ्यातानान्तं कृत्वाऽहस्तिवर्चसम्ऽ इति सूक्तेन हस्तिलोमानि जतुना लाक्षारसेन सन्दिह्य हिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् ॥

[सिंहे व्याघ्रे (६.३८) यशो हविः (६.३९) इति स्नातकसिंहव्याघ्रबस्तकृष्णवृषभराज्ञां नाभिलोमानि ॥ कौशिकसूत्र २,३{१३}.४ ॥]
अभ्यातानान्तं कृत्वाऽसिंहे व्याघ्रेऽऽयशो हविःऽ इति सूक्ताभ्यां स्नातकनाभिलोमानि लाक्षाहिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽसिंहे व्याघ्रेऽऽयशो हविःऽ इति सूक्ताभ्यां सिंहनाभिलोमानि लाक्षाहिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽसिंहे व्याघ्रेऽऽयशो हविःऽ इति सूक्ताभ्यां व्याघ्रनाभिलोमानि लाक्षाहिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽसिंहे व्याघ्रेऽऽयशो हविःऽ इति सूक्ताभ्यां अजनाभिलोमानि लाक्षाहिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽसिंहे व्याघ्रेऽऽयशो हविःऽ इति सूक्ताभ्यां कृष्णनाभिलोमानि गृहीत्वा जतुना सन्दिह्य जातरूपेणापिधाप्य सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽसिंहे व्याघ्रेऽऽयशो हविःऽ इति सूक्ताभ्यां वृषभनाभिरोमाणि लाक्षाहिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽसिंहे व्याघ्रेऽऽयशो हविःऽ इति सूक्ताभ्यां राज्ञान्नाभिरोमाणि लाक्षाहिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् ॥

[दशानां शान्तवृक्षाणां शकलानि ॥ कौशिकसूत्र २,३{१३}.५ ॥]
आज्यतन्त्रं कृत्वाऽसिंहे व्याघ्रेऽऽयशो हविःऽ इति सूक्ताभ्यां पालाशादिदशवृक्षशकलानि लाक्षाहिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । केचित्वृक्षविकल्पं मन्यन्ते ॥

[एतयोः प्रातरग्निं (३.१६) गिरावरगराटेषु (६.६९) दिवस्पृथिव्याः (९.१) इति सप्त मर्माणि स्थालीपाके पृक्तान्यश्नाति ॥ कौशिकसूत्र २,३{१३}.६ ॥]
एतयोः सूक्तयोः स्थाने सूक्तेन विकल्पः ।ऽप्रातरग्निम्ऽऽगिरावरगराटेषुऽऽदिवस्पृथिव्याःऽ इति त्रिभिः प्रतीकैः स्नातकादिसप्तमर्माणि स्थालीपाके दत्त्वा तन्त्रे सम्पात्याभिमन्त्र्याश्नाति । उत्तरतन्त्रम् । स्थालीपाके च इदं कर्म क्षत्रियादीनाम् । न ब्राह्मणस्य । स्थालीपाकं केवलं कुर्यात् ॥

अकुशलं यो ब्राह्मणो लोहितमश्नीयादिति गार्ग्यः ॥ कौशिकसूत्र २,३{१३}.७ ॥
उक्तो लोममणिः ॥ कौशिकसूत्र २,३{१३}.८ ॥
वर्चस्कामः । अभ्यातानान्तं कृत्वाऽप्रातरग्निम्ऽ इति सूक्तेन स्नातकनाभिमणिं लाक्षाहिरण्येन वेष्टितं सम्पात्याभिमन्त्र्य बध्नाति । उदञ्चि हविरुच्छिष्टान्तं समानम् । तन्त्रेऽप्रातरग्निम्ऽ इति सूक्तेन सिंहरोममणिं संस्कृत्य बध्नाति । बर्हिर्लवनादि तन्त्रं कृत्वाऽप्रातरग्निम्ऽ इति सूक्तेन व्याघ्रनाभिरोममणिं लाक्षाहिरण्येन वेष्टितं कृत्वा सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति । उत्तरतन्त्रम् । पूर्वतन्त्रं कृत्वाऽप्रातरग्निम्ऽ इति सूक्तेनाजनाभिरोममणिं लाक्षाहिरण्येन वेष्टितं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वाऽप्रातरग्निम्ऽ इति सूक्तेन कृष्णनाभिरोममणिं लाक्षाहिरण्येन वेष्टितं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वाऽप्रातरग्निम्ऽ इति सूक्तेन वृषभनाभिरोममणिं लाक्षाहिरण्येन वेष्टितं सम्पात्याभिमन्त्र्य बध्नाति । उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽप्रातरग्निम्ऽ इति सूक्तेन राज्ञां नाभिरोममणिं सम्पात्य लाक्षाहिरण्येन वेष्टितं कृत्वाभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽगिरावरगराटेषुऽ इति सूक्तेन स्नातकरोममणिं लाक्षाहिरण्येन वेष्टितं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति ।
तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽगिरावरगराटेषुऽ इति सूक्तेन सिंहरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । पूर्वतन्त्रं कृत्वाऽगिरावरऽ इति व्याघ्ररोममणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽगिरावरऽ इत्यजरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽगिरावरऽ इति सूक्तेन मेषरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽगिरावरऽ इति सूक्तेन वृषभरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽगिरावरऽ इति राज्ञां रोममणिं लाक्षाहिरण्येन वेष्टितं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तेऽदिवस्पृथिव्याःऽ इत्यर्थसूक्तेन स्नातकरोममणिं सम्पात्य लाक्षाहिरण्येन वेष्टितमभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽदिवस्पृथिव्याःऽ इति सिंहरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यानातान्तं कृत्वाऽदिवस्पृथिव्याःऽ इति व्याघ्ररोममणिं सम्पात्य लाक्षासुवर्णेन वेष्टितं कृत्वाभिमन्त्र्य बध्नाति । उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽदिवस्पृथिव्याःऽ इति सूक्तेनाजरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽदिवस्पृथिव्याःऽ इति सूक्तेन मेषरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । उत्तरतन्त्रम् । तन्त्रं कृत्वाऽदिवस्पृथिव्याःऽ इति वृषभरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानान्तं कृत्वाऽदिवस्पृथिव्याःऽ इति सूक्तेन राज्ञां रोममणिं सम्पात्याभिमन्त्र्य बध्नाति । उत्तरतन्त्रम् । सर्वत्र कर्मणां विकल्पः । कर्मबाहुल्यात्फलबाहुल्यम् ॥

[सर्वैराप्लावयति ॥ कौशिकसूत्र २,३{१३}.९ ॥]
अभ्यातानान्तं कृत्वाऽसिंहे व्याघ्रेऽऽयशो हविःऽऽप्रातरग्निम्ऽऽगिरावरगराटेषुऽऽदिवस्पृथिव्याःऽ इत्येतैः सर्वैः सूक्तैरुदकुम्भं सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । वर्चस्कामः । एतदेव नित्ये स्नाने नैमित्तिके काम्ये वा विधानं भवति । यथा वसन्त ऋतौ स्नानं क्रियते ॥

[अवसिञ्चति ॥ कौशिकसूत्र २,३{१३}.१० ॥]
ऽसिंहे व्याघ्रेऽऽयशो हविःऽऽप्रातरग्निम्ऽऽगिरावरगराटेषुऽऽदिवस्पृथिव्याःऽ इत्येतैः सूक्तैरुदकमभिमन्त्र्यावसिञ्चति.

[चतुरङ्गुलं तृणं रजोहरणं बिन्दुनाभिश्चोत्योपमथ्य ॥ कौशिकसूत्र २,३{१३}.११ ॥]
चन्दनादिगन्धानासाद्य तस्मिन्मध्य आकाशोदकं प्रक्षिप्य चतुरङ्गुलेन दर्भतृणेनालोड्य तत्तृणं गृहीत्वा ॥

[शुनि किलासमजे पलितं तृणे ज्वरो योऽस्मान् द्वेष्टिं यं च वयं द्विष्मस्तस्मिन् राजयक्ष्मः इति दक्षिणा तृणं निरस्यति गन्धप्रवादादिभिरलङ्कुरुते ॥ कौशिकसूत्र २,३{१३}.१२ ॥]
ऽशुनि किलासमजेऽ इति मन्त्रेण दक्षिणा दिशं निरस्यति । चन्दनादिऽयस्ते गन्धःऽ (१२.१.२३२५) इति त्रिभिरृग्भिरभिमन्त्र्य राज्ञां समालभते । सर्वत्र कर्मणां विकल्पः । कर्मबाहुल्यात्फलबाहुल्यम् । नारित जातिनियमः सर्वस्याधिकारः । अश्वादीनामपि वर्चस्यं भवति । वर्चः शब्देन तेज उच्यते । दीप्तिस्तेजो वर्चो भव्यतापश्याबाध्य इति एकोऽर्थः । लाभपूजादिप्रसङ्गे भवति । एतैः कृतैः । समाप्तानि वर्चस्यानि ॥ चतुर्थी कण्डिका ॥ कौशिकपद्धतिकण्डिका १३ ॥


राजकर्माणि

अथ राजकर्माण्युच्यन्ते । साङ्ग्रामिकाणां कर्मणां विधिं वक्ष्यामः अश्वत्थस्य बधकस्य वारण्योरग्निं मन्थति ।ऽइन्द्रो मन्थतुऽ (८.८.१) इति ऋचा मथ्यमानमनुमन्त्रयते ।ऽपूतिरज्जुःऽ (८.८.२) इत्यर्धर्चेनाग्निपतनस्थाने काशरज्जुं निदधाति ।ऽधूममग्निं परादृश्यऽ (८.८.२) इत्यर्धर्चेन धूममनुमन्त्रयते ।ऽअग्निं परादृश्यऽ (८.८.२) इत्यर्धर्चेन जातमग्निमनुमन्त्रयते । एष सेनाग्निः ॥
साङ्ग्रामिकतन्त्रमुच्यते ।ऽअव्यसश्चऽ (१९.६८.१) बर्हिर्लवनादि समानम् । सेनाग्निप्रणयनं, ग्रहग्रहणं, पञ्चगृहीतमाज्यं अभ्यातानान्तं कृत्वा लोहिताश्वत्थस्य शाखां रोपयति । नीललोहिताभ्यां सूत्राभ्यां परितत्योत्तरतः । ततः प्रधानकर्म कुर्यात् । तत उत्तरतन्त्रे विशेषः । सन्नतिहोमान्तं कृत्वाऽइमे जयन्तु स्वाहेभ्यःऽ (८.८.२४) इत्यनेन मन्त्रेणाज्यं जुहोति । ततो बधककाष्ठप्रज्वलितेऽग्नौ वामेन हस्तेनेङ्गिडं जुहोतिऽपरामी जयन्तां दुराहामीभ्यःऽ (८.८.२४) इति मन्त्रेण । ततः शाखां दक्षिणतः प्रक्षिपतिऽनीललोहितेनामून्ऽ (८.८.२४) इति मन्त्रेण । स्विष्टकृदाद्युत्तरतन्त्रम् । एतत्साङ्ग्रामिकं तन्त्रम् । साङ्ग्रामिकेषु सर्वत्र उच्चैर्मन्त्राणां प्रयोगः । तन्त्रमध्ये ये प्रधानमन्त्रास्त उच्चैर्भवन्ति ॥

शत्रुहस्तित्रासनानां कर्मणां विधिं वक्ष्यामः
[पूर्वस्य हस्तित्रसनानि ॥ कौशिकसूत्र २,४{१४}.१ ॥
रथचक्रेण सम्पातवता प्रतिप्रवर्तयति ॥ कौशिकसूत्र २,४{१४}.२ ॥]
साङ्ग्रामिकं तन्त्रं कृत्वाऽये त्रिषप्ताःऽ (१.१) इति सूक्तेन रथचक्रं सम्पातवत्कृत्वा हस्त्यभिमुखं रथं प्रवर्तयति । अभ्यातानाद्युत्तरतन्त्रम् । हस्तित्रासनकामः । राजकर्माण्यनुवर्तन्ते आ निरृतिकर्मभ्यो यावत् ॥

[यानेनाभियाति ॥ कौशिकसूत्र २,४{१४}.३ ॥]
तन्त्रं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन हस्त्यादि यानं सम्पात्याभिमन्त्र्य हस्त्यभिमुखं प्रेरयति । अश्वादयः । अभ्यातानाद्युत्तरतन्त्रम् ॥

[वादित्रैः ॥ कौशिकसूत्र २,४{१४}.४ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन वादित्राणि भेरीमृदङ्गेत्यादि अभिमन्त्र्य हस्तिनोऽभि पुरतो गच्छन्ति ॥

[दृतिवस्त्योरोप्य शर्कराः ॥ कौशिकसूत्र २,४{१४}.५ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन चर्मखल्वायां शर्कराः प्रक्षिप्याभिमन्त्र्य हस्त्यभिमुखाः पुरुषाः यान्ति ।ऽये त्रिषप्ताःऽ इति चर्मपुटे शर्कराः प्रक्षिप्याभिमन्त्र्य हस्तिनोऽभिमुखान् प्रेषयति ॥

[तोत्त्रेण नग्नप्रच्छन्नः ॥ कौशिकसूत्र २,४{१४}.६ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन वेलुकमभिमन्त्र्य यत्र हस्तिनस्तत्राभिमुखो याति । समाप्तानि हस्तित्रासनानि । अनेन कर्मणा हस्तिनः पलायन्ते परचक्रहस्तिनस्तेषां त्रासनकर्म ॥

पुनः साङ्ग्रामिकाणां कर्मणां विधिं वक्ष्यामः
[विद्मा शरस्य (१.२) मा नो विदन्, अदारसृत्, स्वस्तिदा (१.१९२१) अव मन्युः, निर्हस्तः, परि वर्त्मानि (६.६५६७) अभिभूः, इन्द्रो जयाति, अभि त्वेन्द्र (६.९७९९) इति साङ्ग्रामिकाणि ॥ कौशिकसूत्र २,४{१४}.७ ॥
आज्यसक्तूञ्जुहोति ॥ कौशिकसूत्र २,४{१४}.८ ॥]
साङ्ग्रामिकं तन्त्रमभ्यातानान्तं कृत्वाऽविद्मा शरस्य पितरं पर्जन्यं भूरिधायसम्ऽ इति सूक्तेनाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । जयकर्माण्यनुवर्तन्ते आ राष्ट्रप्रवेशकर्मभ्यो यावत् । अभ्यातानान्तं कृत्वाऽमा नो विदन्ऽ इति त्रिभिः (१.१९२१) सूक्तैराज्यं जुहोति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽअव मन्युःऽ इति त्रिभिः (६.६५६७) सूक्तैराज्यं जुहोति । उत्तरतन्त्रम् । साङ्ग्रामिकं तन्त्रं कृत्वाऽअभिभूर्यज्ञःऽ इति त्रिभिः (६.९७९९) सूक्तैराज्यं जुहोति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽविद्मा शरस्यऽ इति सूक्तेन सक्तूञ्जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । जयकामः । साङ्ग्रामिकं तन्त्रं कृत्वाऽमा नो विदन्ऽ इति त्रिभिः सूक्तैः सक्तूञ्जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वाऽअव मन्युःऽ इति त्रिभिः सूक्तैः सक्तूञ्जुहोति । उत्तरतन्त्रम् । तन्त्रं कृत्वाऽअभिभूर्यज्ञःऽ इति त्रिभिः सूक्तैः सक्तूञ्जुहोति । तत उत्तरतन्त्रम् ॥

[धनुरिध्मे धनुःसमिधमादधाति ॥ कौशिकसूत्र २,४{१४}.९ ॥]
आज्यतन्त्रम् । इध्मसमाधानस्थाने धनुरिध्ममादधाति । अभ्यातानान्तं कृत्वाऽविद्मा शरस्यऽ इति सूक्तेन धनुःसमिध आदधाति । ततः साङ्ग्रामिकमुत्तरतन्त्रम् । साङ्ग्रामिकं पूर्वतन्त्रं धनुरिध्मविशिष्टं कृत्वाऽमा नो विदन्ऽ इति त्रिभिः सूक्तैः धनुःसमिध आदधाति । अभ्यातानाद्युत्तरतन्त्रम् । धनुरिध्मविशिष्टं अभ्यातानान्तं कृत्वाऽअव मन्युःऽ इति त्रिभिः सूक्तैर्धनुःसमिध आदधाति । उत्तरतन्त्रम् । जयकामः । धनुरिध्मविशिष्टमभ्यातानान्तं कृत्वाऽअभिभूर्यज्ञःऽ इत्येतैस्त्रिभिः सूक्तः धनुःसमिधः प्रादेशमात्रीरादधाति । तत उत्तरतन्त्रम् ॥

[एवमिष्विध्मे ॥ कौशिकसूत्र २,४{१४}.१० ॥]
बर्हिर्लवनादि इध्मप्रोक्षणं शरैरिध्मोपसमाधानंऽअग्निर्भूम्याम्ऽ इत्यादि अभ्यातानान्तं कृत्वाऽविद्मा शरस्यऽ इति सूक्तेन शरसमिधः प्रादेशमात्रीः आदधाति । तत उत्तरतन्त्रम् । शरेध्मविशिष्टं तन्त्रं कृत्वाऽमा नो विदन्ऽ इति त्रिभिः सूक्तैः शरसमिध आदधाति । तत उत्तरतन्त्रम् । शरेध्मविशिष्टं तन्त्रं कृत्वाऽअव मन्युःऽ इति त्रिभिः सूक्तैः शरसमिध आदधाति । तत उत्तरतन्त्रम् । शरेध्मोपसमाधानादि तन्त्रं कृत्वाऽअभिभूर्यज्ञःऽ इत्येतैः त्रिभिः सूक्तैः शरसमिध आदधाति । तत उत्तरतन्त्रम् ॥

[धनुः सम्पातवद्विमृज्य प्रयच्छति ॥ कौशिकसूत्र २,४{१४}.११ ॥]
साङ्ग्रामिकं तन्त्रं कृत्वाऽविद्मा शरस्यऽ इति सूक्तेन धनुः सम्पात्याभिमन्त्र्य विमृज्य राज्ञे प्रयच्छति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽमा नो विदन्ऽ इति त्रिभिः सूक्तैः धनुः सम्पात्याभिमन्त्र्य हस्तेन विमृज्य प्रयच्छति । तत उत्तरतन्त्रम्.
साङ्ग्रामिकं तन्त्रं कृत्वाऽअव मन्युःऽ इति त्रिभिः सूक्तैः धनुः सम्पात्याभिमन्त्र्य हस्तेन विमृज्य राज्ञे समर्पयति । अभ्यातानाद्युत्तरतन्त्रम् । साङ्ग्रामिकं तन्त्रमभ्यातानान्तं कृत्वाऽअभिभूर्यज्ञःऽ इत्येतैस्त्रिभिः सूक्तैः धनुः सम्पात्याभिमन्त्र्य हस्तेन विमृज्य राज्ञे प्रयच्छति । अभ्यातानाद्युत्तरतन्त्रम् । विजयकर्माणि साङ्ग्रामिकाणि समाप्तानि । क्षेत्रदारहरणे शस्त्रहरणे च ब्राह्मणक्षत्रियवैश्यशूद्रादिग्रामनगरादिसर्वस्याधिकारः । सर्वविषयमेतत् । सर्वत्र कर्मणां विकल्पः । सङ्ग्रामेऽयुद्धमाने जयो भवति । एभिः कर्मभिः दृष्टमात्रेण शत्रवः पलायन्ते । सङ्ग्रामकर्मपद्धतिः समाप्ताः ॥

इषुनिवारणानि कर्माण्युच्यन्ते
[प्रथमस्येषुपर्ययणानि ॥ कौशिकसूत्र २,४{१४}.१२ ॥
द्रुघ्न्यार्त्नीज्यापाशतृणमूलानि बध्नाति ॥ कौशिकसूत्र २,४{१४}.१३ ॥]
अभ्यतानान्तं साङ्ग्रामिकं तन्त्रं कृत्वाऽविद्मा शरस्यऽ इति सूक्तेन द्रुघ्न्यार्त्नीज्यापाशं द्व्यङ्गुलमात्रं छित्त्वा सम्पात्याभिमन्त्र्य बध्नाति । ततः साङ्ग्रामिकमुत्तरतन्त्रम् । तन्त्रं कृत्वाऽविद्मा शरस्यऽ इति सूक्तेन दूर्वादि तृणमूलं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । यो युद्धे प्रविशति तस्य मणिबन्धनं क्रियते । अथवा राज्ञे कृतं सर्वेषां कृतं भवति । सर्वत्र पुण्याहान्ते बन्धनं भवति । अनेन कर्मणा पुरुषशरीरे इषवो न पतन्ति पार्श्वतो गच्छन्ति । समाप्तानि इषुनिवारणानि । युद्धकाले शरनिवारणानीत्यर्थः ॥

सर्वशस्त्रनिवारणकर्मणां विधिं वक्ष्यामः
[आरेऽसौ (१.२६) इत्यपनोदनानि ॥ कौशिकसूत्र २,४{१४}.१४ ॥
फलीकरणतुषबुसावतक्षणान्यावपति ॥ कौशिकसूत्र २,४{१४}.१५ ॥]
ऽआरेऽसौऽ इत्येतेन सूक्तेन कुकूलान् जुहोति सेनाग्नौ ।ऽआरेऽसौऽ इति सूक्तेन तुषान् जुहोति ।ऽआरेऽसौऽ इति सूक्तेन बसान जुहोति ।ऽआरेऽसौऽ इति सूक्तेन काष्ठशकलानि जुहोति ॥

[अन्वाह ॥ कौशिकसूत्र २,४{१४}.१६ ॥]
ऽआरऽसौऽ इति सूक्तं शत्रुं दृष्ट्वा जपति । हस्तहोमत्वात्तन्त्रविकल्पः । एवं क्रियमाणे सर्वशस्त्रनिवारणसिद्धिः । खड्गादिसर्वशस्त्रनिवारणं समाप्तम् ॥

मोहनकर्मणां विधिं वक्ष्यामः
[अग्निर्नः शत्रून् (३.१) अग्निर्नो दूतः (३.२) इति मोहनानि ॥ कौशिकसूत्र २,४{१४}.१७ ॥
ओदनेनोपयम्य फलीकरणानुलूखलेन जुहोति ॥ कौशिकसूत्र २,४{१४}.१८ ॥]
साङ्ग्रामिकं तन्त्रं कृत्वाऽअग्निर्नः शत्रून्ऽऽअग्निर्नो दूतःऽ इति सूक्ताभ्यामोदनेन फलीकरणान् पिण्डीकृत्योलूखलेन जुहोति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[एवमणून् ॥ कौशिकसूत्र २,४{१४}.१९ ॥]
अभ्यातानान्तं तन्त्रं कृत्वाऽअग्निर्नःऽ इति सूक्ताभ्यामोदनेन सह कणिकाः पिण्डीकृत्योलूखलेन जुहोति । तत उत्तरतन्त्रम् ॥

[एकविंशत्या शर्कराभिः प्रतिनिष्पुनाति ॥ कौशिकसूत्र २,४{१४}.२० ॥]
ऽअग्निर्नः शत्रून्ऽ इति सूक्ताभ्यामेकविंशतिशर्कराः शूर्पे कृत्वा शत्रून् प्रति निष्पुनाति ॥

[अप्वां यजते ॥ कौशिकसूत्र २,४{१४}.२१ ॥]
अप्वा देवता । चरुतन्त्रमाज्यभागान्तं कृत्वाऽअग्निर्नः शत्रून्ऽ इति सूक्ताभ्यां चरुं जुहुयात् । निर्वापे प्रोक्षणे बर्हिर्होमे विशेषः ।ऽअप्वायै जुष्टं निर्वपामिऽऽअप्वायै त्वा जुष्टं प्रोक्षामिऽऽअप्वां गच्छतु स्वाहाऽ इति । पार्वणाद्युत्तरतन्त्रम् । परसेनामोहनानि समाप्तानि ॥

उद्वेगकरणमुच्यते
[संशितम् (३.१९) इति शितिपदीं सम्पातवतीमवसृजति ॥ कौशिकसूत्र २,४{१४}.२२ ॥
उद्वृधत्सु योजयेत् ॥ कौशिकसूत्र २,४{१४}.२३ ॥]
अभ्यातानान्तं साङ्ग्रामिकं तन्त्रं कृत्वाऽसंशितं मेऽ इति सूक्तेनाजां सितपदीं सम्पात्याभिमन्त्र्य शत्रुसेनां प्रति विसर्जयति । तत उत्तरतन्त्रम् । श्वेतेन पादेन अजा वाविर्वैणो वा । एतानि शितिपदीशब्देनोच्यन्ते । उद्वेगकरणं समाप्तम् । मोहनं स्तम्भनमित्यर्थः । मूर्छयाचेतनाः सुखं हन्यन्ते । हस्त्यश्वपदातीनां सर्वेषां मोहनमचेतनत्वं भवतीत्यर्थः । सेनाग्नौ मोहनादीनि सर्वाणि कर्माणि कार्याणि । परसैन्यस्य मोहनं स्थापनमित्यर्थः ॥

पुनः साङ्ग्रामिकं होमविधिं वक्ष्यामः
[इममिन्द्र (४.२२) इति युक्तयोः प्रदानान्तानि ॥ कौशिकसूत्र २,४{१४}.२४ ॥]
साङ्ग्रामिकं तन्त्रमभ्यातानान्तं कृत्वाऽसंशितं मेऽ इति सूक्तंऽइममिन्द्रऽ इति द्वितीयम् । द्वाभ्यामाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । जयकामः । अभ्यातानान्तं कृत्वाऽसंशितं मेऽ,ऽइममिन्द्र वर्धयऽ इति सूक्ताभ्यां प्रत्यृचं सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । आज्यतन्त्रे धनुरिध्मा भवति । अभ्यातानान्तं कृत्वाऽसंशितं मेऽऽइममिन्द्र वर्धय क्षत्रियं मेऽ इति सूक्ताभ्यां धनुःसमिध आदधाति । तत उत्तरतन्त्रम् । इष्विध्म आज्यतन्त्रमभ्यातानान्तं कृत्वाऽसंशितं मेऽऽइममिन्द्रऽ इति सूक्ताभ्यामिषुसमिध आदधाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽसंशितं मेऽऽइममिन्द्रऽ इति सूक्ताभ्यां धनुः सम्पात्याभिमन्त्र्य हस्तेन विमृज्य राज्ञे प्रयच्छति । तत उत्तरतन्त्रम् । जयकामः । पुनः समाप्तानि जयकर्माणि ॥

स्वसेनारक्षणार्थं कर्म उच्यते
[दिग्युक्ताभ्यां नमो देववधेभ्यः (६.१३) इत्युपतिष्ठते ॥ कौशिकसूत्र २,४{१४}.२५ ॥]
ऽयेऽस्याम्ऽ (३.२६)ऽप्राची दिक्ऽ (३.२७) इति सूक्ताभ्यां प्रत्यृचं मन्त्रोक्तं प्रतिदिशमुपतिष्ठते । जयार्थम् ।ऽनमो देववधेभ्यःऽ इति तृचेन स्वसेनां प्रतिदिशमुपतिष्ठते । षट्सूक्तावृत्तिः । जयकामः प्रतिदिशं रक्षणार्थं च । समाप्तं स्वसेनारक्षणं कर्म ॥

स्वसेनाया उत्साहकरणमुच्यते
[त्वया मन्यो (४.३१) यस्ते मन्यो (४.३२) इति संरम्भणानि ॥ कौशिकसूत्र २,४{१४}.२६ ॥
सेने समीक्षमाणो जपति ॥ कौशिकसूत्र २,४{१४}.२७ ॥]
अभियोग उत्साहः । युद्धे उत्साहवर्धनं भवति ।ऽत्वया मन्योऽ,ऽयस्ते मन्योऽ इति सूक्तद्वयम् । सेनयोर्मध्ये स्थितो जपति निरीक्षमाणः ॥

[भाङ्गमौञ्जान् पाशानिङ्गिडालङ्कृतान् सम्पातवतोऽनूक्तान् सेनाक्रमेषु वपति ॥ कौशिकसूत्र २,४{१४}.२८ ॥]
साङ्ग्रामिकं तन्त्रं कृत्वाऽत्वया मन्योऽ,ऽयस्ते मन्योऽ इति सूक्ताभ्यां भाङ्गमौञ्जान् पाशानिङ्गिडालङ्कृतान् सम्पात्याभिमन्त्र्य परसेनायां प्रक्षिपति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा मौञ्जपाशानिङ्गिडालङ्कृतान् सम्पात्याभिमन्त्र्य उच्छ्वसननूक्तग्रहणात्क्रुद्धेनाभिमन्त्रणमित्युच्यते । परसेनाक्रमेषु वपति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[एवमामपात्राणि ॥ कौशिकसूत्र २,४{१४}.२९ ॥]
अभ्यातानान्तं कृत्वाऽत्वया मन्योऽ इति सूक्ताभ्यामामपात्राणि सम्पात्याभिमन्त्र्य क्रुद्धः सेनाक्रमेषु वपति ।
अभ्यातानाद्युत्तरतन्त्रम् ॥

अथ जयपराजयविज्ञानमुच्यते
[इङ्गिडेन सम्प्रोक्ष्य तृणान्याङ्गिरसेनाग्निना दीपयति ॥ कौशिकसूत्र २,४{१४}.३० ॥]
यां धूमोऽवतनोति तां जयन्ति ॥ कौशिकसूत्र २,४{१४}.३१ ॥
ऽत्वया मन्योऽऽयस्ते मन्योऽ इति सूक्ताभ्यां शरतृणानीङ्गिडेन प्रोक्षितान्यभिमन्त्र्य तत आङ्गिरसेनाग्निना दीपयति सेनयोर्मध्ये कृत्वा । यत्र धूमो गच्छति तत्र न जयः । इति स्वसेनाया उत्साहकरणं समाप्तम् । आङ्गिरोऽग्निश्चाण्डालाग्निः सूतीकाग्निः । स्वरमालतृणानि ॥ पञ्चमी कण्डिका ॥ कौशिकपद्धतिकण्डिका १४ ॥


अथ साङ्ग्रामिकविधिं वक्ष्यामः । जयकर्माण्युच्यन्ते
[ऋधङ्मन्त्रः (५.१) तदिदास (५.२) इत्याश्वत्थ्यां पात्र्यां त्रिवृति गोमयपरिचये हस्तिपृष्ठे पुरुषशिरसि वामित्राञ्जुह्वदभिप्रक्रम्य निवपति ॥ कौशिकसूत्र २,५{१५}.१ ॥]
ऽऋधङ्मन्त्रःऽ,ऽतदिदासऽ इति सूक्ताभ्यामाश्वत्थ्यां पात्र्यां त्रिवृति गोमयपरिचयेऽग्निं प्रज्वाल्य हस्तिपृष्ठे शत्रूनभिमुखो गच्छनाज्यं जुहोति । न तन्त्रम् । पुरुषशिरसि वाश्वत्थ्यां पात्र्यां त्रिवृति गोमयपरिचयेऽग्निं प्रज्वाल्य शत्रूनभिमुखो गच्छन्ऽऋधङ्मन्त्रऽ,ऽतदिदासऽ इति सूक्ताभ्यामाज्यं जुहोति । तत्पात्रमभिप्रक्रम्य भूम्यां प्रक्षिपति ॥

[वराहविहताद्राजानो वेदिं कुर्वन्ति ॥ कौशिकसूत्र २,५{१५}.२ ॥]
वराहविहितमृत्तिकाया राजानो वेदिं कुर्वन्ति ॥

[तस्यां प्रदानान्तानि ॥ कौशिकसूत्र २,५{१५}.३ ॥]
ततः कर्ताभ्यातानान्तं कृत्वाऽऋधङ्मन्त्रःऽऽतदिदासऽ इति सूक्ताभ्यामाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । जयकामः । वराहविहितादि पूर्वतन्त्रं कृत्वाऽऋधङ्मन्त्रःऽऽतदिदासऽ इति सूक्ताभ्यां सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । पूर्वोक्तेन तन्त्रं कृत्वाऽऋधङ्मन्त्रःऽ इति सूक्ताभ्यां धनुरिध्मे धनुःसमिध आदधाति । तत उत्तरतन्त्रम् । वराहविहितादीष्विध्मेऽऋधङ्मन्त्रःऽऽतदिदासऽ इतीषुसमिध आदधाति । तत उत्तरतन्त्रम् । वराहविहिताद्यभ्यातानान्तं कृत्वाऽऋधङ्मन्त्रःऽऽतदिदासऽ इति सूक्ताभ्यां धनुः सम्पात्याभिमन्त्र्य विमृज्य राज्ञे प्रयच्छति । तत उत्तरतन्त्रम् ॥

[एकेष्वाहतस्यादहन उपसमाधाय दीर्घदण्डेन स्रुवेण रथचक्रस्य खेन समया जुहोति ॥ कौशिकसूत्र २,५{१५}.४ ॥]
युद्धे मृतस्य पुरुषस्यादहन इध्ममुपसमाधायोपरि रथचक्रं धारयित्वा दीर्घदण्डेन स्रुवेणऽऋधङ्मन्त्रःऽऽतदिदासऽ इति सूक्ताभ्यां चक्रच्छिद्रेणाज्यमग्नौ जुहोति । न तन्त्रम् ॥

[योजनीयां श्रुत्वा योजयेत् ॥ कौशिकसूत्र २,५{१५}.५ ॥]
ऽउत्तिष्ठऽऽसन्नह्यऽऽप्रहरऽऽयुध्यस्वऽऽयोजयस्वऽ (इति) वचनं श्रुत्वा युद्धं योजयेत्स्वसेनायाः ॥

[यदि चिन्नु त्वा (५.२.४) नमो देववधेभ्यः (६.१३) इत्यन्वाह ॥ कौशिकसूत्र २,५{१५}.६ ॥]
ऽयदि चिन्नु त्वाऽ इत्यृचं जपित्वा द्वेष्यमन्वाह ।ऽनमो देववधेभ्यःऽ इति सूक्तं जपित्वा द्वेष्यमन्वाह । जयकर्माणि साङ्ग्रामिकाणि समाप्तानि । कर्मणां विकल्पः । एतैः कृतैरवश्यं जयो भवति ॥

[वैश्यकर्माणि]
वैश्याय सङ्ग्रामविधिं वक्ष्यामः
[वैश्याय प्रदानान्तानि ॥ कौशिकसूत्र २,५{१५}.७ ॥]
अग्निमन्थनादि साङ्ग्रामिकं तन्त्रं कृत्वाऽयदि चिन्नु त्वाऽ इत्येकयाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽयदि चिन्नु त्वा धनाऽ इत्येकया सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽयदि चिन्नु त्वाऽ इत्यृचा धनुरिध्मे धनुःसमिध आदधाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽयदि चिन्नु त्वाऽ इत्यृचा शरेध्मे शरसमिध आदधाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽयदि चिन्नु त्वाऽ इत्येकयर्चा धनुः सम्पात्याभिमन्त्र्य विमृज्य वैश्याय प्रयच्छति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽनमो देववधेभ्यःऽ इति सूक्तेनाज्यं जुहोति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽनमो देववधेभ्यःऽ इति सूक्तेन सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽनमो देववधेभ्यःऽ इति सूक्तेन धनुरिध्मे धनुःसमिध आदधाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽनमो देववधेभ्यःऽ इति सूक्तेनेष्विध्म इषुसमिध आदधाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽनमो देववधेभ्यःऽ इति सूक्तेन धनुः सम्पात्याभिमन्त्र्य विमृज्य वैश्याय प्रयच्छति । तत उत्तरतन्त्रम् । विजयकामः । समाप्तानि वैश्ययुद्धकर्माणि ॥

[आयुधिग्रामणीकर्माणि]
आयुधिने ग्रामण्ये सङ्ग्रामविधिं वक्ष्यामः
[त्वया वयम् (५.२.५) इत्यायुधिग्रामण्ये ॥ कौशिकसूत्र २,५{१५}.८ ॥]
साङ्ग्रामिकं तन्त्रमभ्यातानान्तं कृत्वाऽत्वया वयम्ऽ इत्येकयाज्यं जुहोति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽत्वया वयम्ऽ इत्येकया सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽत्वया वयम्ऽ इत्यृचा धनुरिध्मे धनुःसमिध आदधाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽत्वया वयम्ऽ इत्यृचेष्विध्म इषुसमिध आदधाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽत्वया वयम्ऽ इत्यृचा धनुः सम्पात्याभिमन्त्र्य विमृज्य बलाधिकृताय प्रयच्छति । तत उत्तरतन्त्रम् । समाप्तान्यायुधिग्रामणीकर्माणि । कर्मणां विकल्पः । जयो भवतीत्यर्थः । समाप्तं सेनापतिजयकर्म । दण्डनायकजयकर्म । कोटपालजयकर्म । स्वसेनाजयपराजयकर्म । बलाधिकृतजयकर्म । अन्येषां वरिष्ठादीनां जयकर्म । समाप्तमेषां विजयकर्म ॥

विज्ञानकर्माणि

स्वसेनाजयपराजयपुरुषवधशङ्कायां च विज्ञानमुच्यते
नि तद्दधिषे (५.२.६) इति राज्ञोदपात्रं द्वौद्वाववेक्षयेत् ॥ कौशिकसूत्र २,५{१५}.९ ॥
नि तद्दधिषे इत्यृचोदपात्रमभिमन्त्र्य ततो द्वौ द्वौ योद्धाराववेक्षयेत् ॥

यन्न पश्येन्न युध्येत ॥ कौशिकसूत्र २,५{१५}.१० ॥
राजा यं न पश्येत्न युध्येत न योधयेत् । पुरोहितो मन्त्रं ब्रूयात् । पुनःपुनरुदपात्र अभिमन्त्रणम् । समाप्तं स्वसेनाया योद्धृपुरुषाणां च विज्ञानम् ॥

अथ नवे रथे घटिते संस्कार उच्यते जयकामस्य
[नि तद्दधिषे (५.२.६) वनस्पते (६.१२५) अया विष्ठा (७.३४) अग्न इन्द्रः (७.११०.१२) दिशश्चतस्रः (८.८.२२२३) इति नवं रथं राजानं ससारथिमास्थापयति ॥ कौशिकसूत्र २,५{१५}.११ ॥]
ऽनि तद्दधिषेऽ इत्यृचा रथमभिमन्त्र्य ससारथिं राजानमास्थापयति ।ऽवनस्पते वीड्वङ्गःऽ इति तृचेन सूक्तेन नवरथमभिमन्त्र्य ससारथिं राजानमास्थापयति ।ऽअया विष्ठा जनयन्ऽ इति द्वाभ्यामृग्भ्यां नवं रथमभिमन्त्र्य ससारथिं राजानमास्थापयति ।ऽअग्न इन्द्रश्च दाशुषेऽ इति द्वाभ्यामृग्भ्यां नवं रथमभिमन्त्र्य ससारथिं राजानमास्थापयति ।ऽदिशश्चतस्रःऽ इति द्वाभ्यामृग्भ्यां नवं रथमभिमन्त्र्य राजानं ससारथिमास्थापयति । जयकामः । नवे रथ आरोहणविधानं समाप्तम् ॥

अथारोग्यविधानमुच्यते

[ब्रह्म जज्ञानम् (५.६) इति जीवितविज्ञानम् ॥ कौशिकसूत्र २,५{१५}.१२ ॥
तिस्रः स्नावरज्जूरङ्गारेष्ववधाय ॥ कौशिकसूत्र २,५{१५}.१३ ॥]
ऽब्रह्म जज्ञानम्ऽ (५.६.१)ऽअनाप्ताःऽ (६.६.२) इति सूक्तेन तिस्रः स्नावरज्जूरभिमन्त्र्य ततोऽङ्गारेषु निदधाति ॥

[उत्कुचतीषु कल्याणम् ॥ कौशिकसूत्र २,५{१५}.१४ ॥]
यदि ता उत्क्षरन्ति तत आरोग्यता भवति । समाप्तमारोग्यविज्ञानम् ॥

अथ साङ्ग्रामिकविज्ञानमुच्यते
[साङ्ग्रामिकमेता व्यादिशति मध्ये मृत्युरितरे सेने ॥ कौशिकसूत्र २,५{१५}.१५ ॥]
ऽब्रह्म जज्ञानम्ऽ (५.६.१)ऽअनाप्ता येऽ (५.६.२)ऽसहस्रधारेऽ (५.६.३) इति सूक्तेन तिस्रः स्नावरज्जूरभिमन्त्र्य ततः सङ्कल्पः । एका रज्जुरात्मसेना । मध्ये द्वितीया (रज्जुः) मृत्युः । तृतीया रज्जुः परसेना । एवं सङ्कल्पः । ततः अङ्गारेषु निधायेष्यते ॥

[पराजेष्यमाणान्मृत्युरतिवर्तते जेष्यन्तो मृत्युम् ॥ कौशिकसूत्र २,५{१५}.१६ ॥]
यस्या उपरि मृत्युर्गच्छति तस्याः सेनाया जयो न भवति । या मृत्योरुपरि पतति तस्या जयो भवति । परसेनासम्मुखा या याति तस्या अपि जयो भवति ॥

[अग्रेषूत्कुचत्सु मुख्या हन्यन्ते मध्येषु मध्या अन्तेष्ववरे ॥ कौशिकसूत्र २,५{१५}.१७ ॥]
ऽब्रह्म जज्ञानम्ऽ (५.६) इति द्वितीयेन सूक्तेन स्नावरज्जुमेकामभिमन्त्र्य ततोऽङ्गारेषु निदधाति । ततो निरीक्षते । अग्रेषु अग्रेः पश्चिमदिग्भागेषूत्कुचत्सु मुख्या हन्यन्ते । मध्येषु मध्याः । अन्तेषु पूर्वदिशान्तेष्ववरपदातिविनाशः ॥

[एवमिषीकाः ॥ कौशिकसूत्र २,५{१५}.१८ ॥]
एवमिषीकाः करोति । बद्ध्वा रज्जूः कृताःऽब्रह्म जज्ञानम्ऽ इति सूक्तेनाभिमन्त्र्य करोति । आरोग्यविज्ञानकर्म । जयपराजयविज्ञानकर्म । स्नावरज्जुमुख्यमध्यमावरविज्ञानकर्म । एतानि त्रीणि कर्माणि भवन्ति । अभिमन्त्र्य कर्तव्यानि । इषीकाः शरमया वा वीरिणमया वा कर्तव्याः । समाप्तं साङ्ग्रामिकं विज्ञानम् । षष्ठी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका १५ ॥


[राजकर्माणि]
अथ परसेनात्रासनविद्वेषणमुच्यते
[उच्चैर्घोषः (५.२०) उप श्वासय (६.१२६) इति सर्ववादित्राणि प्रक्षाल्य तगरोशीरेण सन्धाव्य सम्पातवन्ति त्रिराहत्य प्रयच्छति ॥ कौशिकसूत्र २,६{१६}.१ ॥]
अभ्यातानान्तं कृत्वाऽउच्चैर्घोषःऽ इति सूक्तेन भेर्यादिवादित्राणि प्रक्षाल्य तगरोशीरेण लेपयित्वा सम्पात्य ततः स्वयं पुरोधा (वादयितृभ्यः) त्रिराहत्य प्रयच्छति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा वादित्राणि प्रक्षाल्य तगरोशीरेण सन्धाव्यऽउप श्वासयऽ इति सूक्तेन वादित्राणि सम्पातवन्ति कृत्वा त्रिराहत्य प्रयच्छति । तत उत्तरतन्त्रम् ॥

[विहृदयम् (५.२१) इत्युच्चैस्तरां हुत्वा स्रुवमुद्वर्तयन् ॥ कौशिकसूत्र २,६{१६}.२ ॥]
अभ्यातानान्तं कृत्वाऽविहृदयम्ऽ इति सूक्तेन सर्ववादित्राणि प्रक्षाल्य तगरोशीरेण लेपयित्वोच्चैस्तरां हुत्वा सम्पातवन्ति त्रिराहत्य प्रयच्छति । तत उत्तरतन्त्रम् ॥

[सोमांशुं हरिणचर्मण्युत्सीव्य क्षत्रियाय बध्नाति ॥ कौशिकसूत्र २,६{१६}.३ ॥]
अभ्यातानान्तं कृत्वाऽविहृदयम्ऽ इति सूक्तेन सोमाङ्कुरमणिं हरिणचर्मणावेष्टितं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् ।ऽविहृदयम्ऽ इति सूक्तस्य सर्वत्र उच्चैस्तरेण स्वरेण प्रयोगः । सूचनं परत्र । समाप्तं द्विषो विद्वेषणं त्रासनं च ॥

[परि वर्त्मानि (६.६७) इन्द्रो जयाति (६.९८) इति राजा त्रिः सेनां परियाति ॥ कौशिकसूत्र २,६{१६}.४ ॥]
ऽपरि वर्त्मानि सर्वतःऽ इति सूक्तेन राजा त्रिः सेनां परिभ्राम्यति ।ऽइन्द्रो जयातिऽ इति सूक्तेन राजा त्रिः कटकं भ्राम्येत् । जयकामः । त्रिः सूक्तावृत्तिः ॥

[उक्तः पूर्वस्य सोमांशुः ॥ कौशिकसूत्र २,६{१६}.५ ॥]
अभ्यातानान्तं कृत्वाऽपरि वर्त्मानिऽ इति सूक्तेन सोममणिं चर्मवेष्टितं कृत्वा सम्पात्याभिमन्त्र्य राज्ञे बध्नाति । तत उत्तरतन्त्रम् । जयकामः ॥

[सन्दानं वः (६.१०३) आदानेन (६.१०४) इति पाशैरादानसन्दानानि ॥ कौशिकसूत्र २,६{१६}.६ ॥]
अभ्यातानान्तं कृत्वाऽसन्दानं वःऽ,ऽआदानेनऽ इति सूक्ताभ्यां भाङ्गपाशान् सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । तत उत्तरतन्त्रम् । जयकाम इदं कर्म कुर्यात् । जयकर्माण्यनुवर्तन्तेऽअस्मिन् वसुऽ इति राष्ट्रावगमनं यावत् । अभ्यातानान्तं कृत्वाऽसन्दानं वःऽऽआदानेनऽ इति सूक्ताभ्यां मौञ्जान् पाशानिङ्गिडालङ्कृतान् सम्पातवतोऽनूक्तानभिमन्त्र्य सेनाक्रमेषु वपति । तत उत्तरतन्त्रम् ॥

स्वसेनाया अभयकर्म उच्यते
[मर्माणि ते (७.११८.१) इति क्षत्रियं सन्नाहयति ॥ कौशिकसूत्र २,६{१६}.७ ॥]
ऽमर्माणि तेऽ इत्यृचा सन्नाहमभिमन्त्र्य राजानं सन्नाहं परिधापयति । अभयकामः ॥

[अभयानामप्ययः ॥ कौशिकसूत्र २,६{१६}.८ ॥]
ऽअभयं द्यावापृथिवीऽ (६.४०) इति सूक्तेन सप्तर्षीन् यजते प्रतिदिशं सेनायाः ।ऽअभयं द्यावापृथिवीऽ इति सूक्तेन प्रतिदिशं सेनाया उपतिष्ठते वा ।ऽश्येनोऽसि गायत्रम्ऽ (६.४८) इति सूक्तेन सप्तर्षीन् यजत उपतिष्ठते वा सेनायाः प्रतिदिशम् । चतुर्षु दिक्षु कुर्यात् । सङ्ग्रामे वर्तमाने ।ऽअभयं द्यावापृथिवी श्येनोऽसीति प्रतिदिशं सप्तर्षीनभयकामःऽ (Kऔश्ष् । ५९.२६) । यजते । उपतिष्ठते वा । एकस्मिन् स्थाने कर्मप्रयोगं वा कुर्यात् । दिशि दिश्यभिमुखानि तन्त्राणि कृत्वा यजते । सूक्तविकल्पः । उपतिष्ठते । स्वस्थाने उर्ध्वस्थितो दिश्यभिमुखश्चतुर्षु दिक्षु कुर्यात् । समाप्तं सेनाया अभयकर्म ॥

[इन्द्रो मन्थतु (८.८.१) इति ॥ कौशिकसूत्र २,६{१६}.९ ॥
पूतिरज्जुः (८.८.२) इति पूतिरज्जुमवधाय ॥ कौशिकसूत्र २,६{१६}.१० ॥
अश्वत्थबधकयोरग्निं मन्थति ॥ कौशिकसूत्र २,६{१६}.११ ॥
धूमम् (८.८.२) इति ममनुमन्त्रयते ॥ कौशिकसूत्र २,६{१६}.१२ ॥
अग्निम् (८.८.२) इत्यग्निम् ॥ कौशिकसूत्र २,६{१६}.१३ ॥]
उक्तमग्निमन्थनमादौऽइन्द्रो मन्थतुऽ इति ॥

अथ सपत्नक्षयणीकर्म उच्यते
[तस्मिन्नरण्ये सपत्नक्षयणीरादधात्यश्वत्थबधकताजदभङ्गाह्वखदिरशराणाम् ॥ कौशिकसूत्र २,६{१६}.१४ ॥]
अरण्ये सपत्नक्षयणीकर्म कुर्यात् । न ग्राममध्ये कुर्यात् । तन्त्रविकल्पः हस्तहोमत्वात् ।ऽइन्द्रो मन्थतुऽ इति सूक्तेन अश्वत्थसमिध आदधाति । शत्रुक्षयो भवति ।ऽइन्द्रो मन्थतुऽ इति सूक्तेन करिमालकसमिध आदधाति । सेनाग्नौ सर्वत्र ।ऽइन्द्रो मन्थतुऽ इति सूक्तेन एरण्डसमिध आदधाति ।ऽइन्द्रो मन्थतुऽ इति सूक्तेन तिर्णिसमिध आदधाति ।ऽइन्द्रो मन्थतुऽ इति सूक्तेन खदिरसमिध आदधाति ।ऽइन्द्रो मन्थतुऽ इति सूक्तेन शरसमिध आदधाति सेनाग्नौ । सपत्नक्षयणी समाप्ता । शत्रुक्षयो भवति । कर्मविकल्पः ॥

[उक्ताः पाशाः ॥ कौशिकसूत्र २,६{१६}.१५ ॥]
अभ्यातानान्तं कृत्वाऽइन्द्रो मन्थतुऽ इति सूक्तेन भाङ्गपाशान् सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । सर्वत्र क्रुद्धेनाभिमन्त्रणं पाशादिषु । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽइन्द्रो मन्थतुऽ इति सूक्तेन मौञ्जान् पाशान् सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । तन्त्रं च ॥

[आश्वत्थानि कूटानि भाङ्गानि जालानि ॥ कौशिकसूत्र २,६{१६}.१६ ॥]
अभ्यातानान्तं कृत्वाऽइन्द्रो मन्थतुऽ इति सूक्तेन आश्वत्थानि कूटानि सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति तन्त्रं च । तन्त्रं कृत्वाऽइन्द्रो मन्थतुऽ इति सूक्तेन भाङ्गानि जालानि सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । तत उत्तरतन्त्रम् ॥

[बाधकदण्डानि ॥ कौशिकसूत्र २,६{१६}.१७ ॥]
तन्त्रं कृत्वाऽइन्द्रो मन्थतुऽ इति सूक्तेन बाधकदण्डानि सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । तत उत्तरतन्त्रम् । समाप्तानि जयकर्माणि ॥

[स्वाहैभ्यः (८.८.२४) इति मित्रेभ्यो जुहोति ॥ कौशिकसूत्र २,६{१६}.१८ ॥
दुराहामीभ्यः (८.८.२४) इति सव्येनेङ्गिडममित्रेभ्यो बाधके ॥ कौशिकसूत्र २,६{१६}.१९ ॥
उत्तरतोऽग्नेर्लोहिताश्वत्थस्य शाखां निहत्य नीललोहिताभ्यां सूत्राभ्यां परितत्य नीललोहितेनामून् (८.८.२४) इति दक्षिणा प्रहापयति ॥ कौशिकसूत्र २,६{१६}.२० ॥]
ऽस्वाहैभ्यःऽ इति मित्रेभ्य इत्यादि नीललोहितशाखान्तं सर्वकर्मसु भवति । आदौ उक्तम् ॥

आवश्यानि जयकर्माण्युच्यन्ते
[ये बाहवः (११.९) उत्तिष्ठत (११.१०) इति यथालिङ्गं सम्प्रेष्यति ॥ कौशिकसूत्र २,६{१६}.२१ ॥]
ऽये बाहवःऽ इत्यनुवाकं युद्धकाले जपति कर्ता ॥

[होमार्थे पृषदाज्यम् ॥ कौशिकसूत्र २,६{१६}.२२ ॥]
आज्यतन्त्रं कृत्वाऽये बाहवःऽ इत्यनुवाकेन पृषदाज्यं जुहोति । तत आज्येनोत्तरतन्त्रम्.

[प्रदानान्तानि वाप्यानि ॥ कौशिकसूत्र २,६{१६}.२३ ॥]
अभ्यातानान्तं कृत्वाऽये बाहवःऽ इत्यनुवाकेन सक्तूञ्जुहोति । ततः साङ्ग्रामिकमुत्तरतन्त्रम् । साङ्ग्रामिकं तन्त्रं कृत्वाऽये बाहवःऽ इत्यनुवाकेन धनुरिध्मेऽग्नौ पृषदाज्येनाक्ता धनुःसमिध आदधाति । तत उत्तरतन्त्रम् । पूर्वतन्त्रं कृत्वाऽये बाहवःऽ इत्यनुवाकेनेष्विध्मेऽग्नौ पृषदाज्येनाक्ता इषुसमिध आदधाति । तत उत्तरतन्त्रम् । आज्येन पूर्वतन्त्रं कृत्वाऽये बाहवःऽ इत्यनुवाकेन पृषदाज्येन धनुः सम्पात्याभिमन्त्र्य विमृज्य योद्ध्रे प्रयच्छति । तत आज्येनोत्तरतन्त्रम् । आज्येन पूर्वतन्त्रं कृत्वाऽये बाहवःऽ इत्यनुवाकेन भाङ्गपाशान् पृषदाज्येन सम्पात्य क्रुद्धोऽभिमन्त्र्य सेनाक्रमेषु वपति । तत आज्येनोत्तरतन्त्रम् । सर्वत्र पाशेषु आश्वत्थेषु कूटेषु भाङ्गेषु जालेषु बाधकदण्डेषु वज्ररूपेषु पात्रेषु च इङ्गिडालङ्करणं क्रुद्धाभिमन्त्रणं कुर्यात् । आज्येन तन्त्रं कृत्वाऽये बाहवःऽ इत्यनुवाकेन मौञ्जपाशान् पृषदाज्येन सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । आज्येन उत्तरतन्त्रम् । आज्येन तन्त्रं कृत्वाऽये बाहवःऽ इत्यनुवाकेन आमपात्राणि पृषदाज्येन सम्पात्याभिमन्त्र्य सेनायुद्धस्थाने वपति । आज्येनोत्तरतन्त्रम् ॥

[वाप्यैस्त्रिषन्धीनि वज्ररूपाण्यर्बुदिरूपाणि ॥ कौशिकसूत्र २,६{१६}.२४ ॥]
तन्त्रं कृत्वाऽये बाहवःऽ इत्यनुवाकेन त्रिषन्धीनि लोहमयानि सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । उत्तरतन्त्रम् । तन्त्रं कृत्वाऽये बाहवःऽ इत्यनुवाकेन वज्ररूपाणि सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽये बाहवःऽ इत्यनुवाकेन वज्ररूपाणि लोहमयानि अर्बुदिरूपाणि सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । तत उत्तरतन्त्रम् ॥

[शितिपदीं सम्पातवतीं दर्भरज्ज्वा क्षत्रियायोपासङ्गदण्डे बध्नाति ॥ कौशिकसूत्र २,६{१६}.२५ ॥]
अभ्यातानान्तं कृत्वाऽये बाहवःऽ इत्यनुवाकेन शितिपदीमजां पृषदाज्येन सम्पात्याभिमन्त्र्य राज्ञे दर्भरज्ज्वा उपासङ्गदण्डे बध्नाति । आज्येनोत्तरतन्त्रम् ॥

[द्वितीयामस्यति ॥ कौशिकसूत्र २,६{१६}.२६ ॥]
साङ्ग्रामिकं तन्त्रं कृत्वाऽये बाहवःऽ इत्यनुवाकेन द्वितीयां शितिपदीं सम्पात्याभिमन्त्र्य शत्रुसेनां प्रक्षिपति । आज्येन उत्तरतन्त्रम् । ततः सेनाग्न्युत्सर्गः । अवभृथश्च । शत्रुं जित्वा कर्मसमाप्तिं करोति । सर्वत्र कर्मणां विकल्पः । समाप्तानि साङ्ग्रामिकाणि कर्माणि । शितिपद्योः द्वयोरप्येकं कर्म । अन्यत्र विकल्पः । अनेन कर्मणा अवश्यं जयो भवति ॥

अथ राष्ट्रप्रवेशाभिगमनकर्मविधिं वक्ष्यामः
[अस्मिन् वसु (१.९) इति राष्ट्रावगमनम् ॥ कौशिकसूत्र २,६{१६}.२७ ॥]
स्वराष्ट्रे यो निष्क्रान्तः शत्रुणा पुनः प्रवेशमिच्छति तस्येदं कर्म ॥

[आनुशूकानां व्रीहीणामाव्रस्कजैः काम्पीलैः शृतं सारूपवत्समाशयति ॥ कौशिकसूत्र २,६{१६}.२८ ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वाऽअस्मिन् वसुऽ इति सूक्तेनानुशूकानां व्रीहीणामाव्रस्कजैः काम्पीलैः शृतं सारूपवत्समोदनं सम्पात्याभिमन्त्र्य राजानमाशयति । अभ्यातानाद्युत्तरतन्त्रम् । राष्ट्रे य उद्वासितस्तस्येदं कर्म प्रवेशार्थम् । अनेन कर्मणा स्वराष्ट्रप्रवेशो भवति । सर्वस्यां मर्दितायां भूमौ यदा निष्क्रान्तो राजा तदेदं कर्म करोति । राष्ट्रप्रवेशनकामः । आनुशूकालना व्रीहयः पुनरुत्थिताः । छिन्नानि यानि पुनरुत्थितान्याव्रस्कानि ॥

[अभीवर्तेन (१.२९) इति रथनेमिमणिमयःसीसलोहरजतताम्रवेष्टितं हेमनाभिं वासितं बद्ध्वा
सूत्रोतं बर्हिषि कृत्वा सम्पातवन्तं प्रत्यृचं भृष्टीरभीवर्तोत्तमाभ्यामाचृतति ॥ कौशिकसूत्र २,६{१६}.२९ ॥]
अभ्यातानान्तं कृत्वाऽअभीवर्तेनऽ इति चतुर्भिरृग्भी रथचक्रनेमिमणिमयःसीसलोहरजतताम्रवेष्टितं हेमनाभिं त्रिर्वासितं कृत्वा सूत्रोतं बर्हिषि कृत्वा प्रत्यृचं सम्पात्याभिमन्त्र्यऽउदसौ सूर्यःऽ (१.२९.५६) इति द्वाभ्यामृग्भ्यां बध्नाति । तत उत्तरतन्त्रम् । अतिक्रान्त अर्धमर्दिते राष्ट्र इदं कर्म । अनेन कर्मणा राष्ट्रवृद्धिश्च भवति ॥

[अचिक्रदद्(३.३) आ त्वा गन् (३.४) इति यस्माद्राष्ट्रादवरुद्धस्तस्याशायां शयनविधं पुरोडाशं दर्भेषूदके निनयति ॥ कौशिकसूत्र २,६{१६}.३० ॥
ततो लोष्टेन ज्योतिरायतनं संस्तीर्य क्षीरौदनमश्नाति ॥ कौशिकसूत्र २,६{१६}.३१ ॥]
ऽअचिक्रदद्ऽ,ऽआ त्वा गन्ऽ इति सूक्ताभ्यां शयनाकारं पुरोडाशमभिमन्त्र्य दर्भेषूदके निनयति । ततो लोष्टेन पूरयेत् । दर्भस्थाने मृत्तिकाभिस्तरणम् । अभ्यातानान्तं तन्त्रं कृत्वाऽअचिक्रदद्ऽ,ऽआ त्वा गन्ऽ इति सूक्ताभ्यां क्षीरौदनं स्थालीपाकं सम्पात्याभिमन्त्र्य राजानमाशयति । तत उत्तरतन्त्रम् ॥

[यतो लोष्टस्ततः सम्भाराः ॥ कौशिकसूत्र २,६{१६}.३२ ॥]
तस्मात्स्थानात्सम्भाराहरणं यस्मान्निष्क्रान्तो राजा ॥

[तिसृणां प्रातरशिते पुरोडाशे ह्वयन्ते ॥ कौशिकसूत्र २,६{१६}.३३ ॥]
तिसृणां प्रातरशिते पुरोडाशे भक्षिते पुनरत्र राष्ट्रे राजा प्रवेशं लभते । एतस्य पुरोडाशकर्म विज्ञानार्थम् । समाप्तानि राष्ट्रप्रवेशकानि कर्माणि । अवश्यं प्रवेशो भवति । भयं वा मृत्युर्वा विघ्नं दैवोपघातो वा शत्रोर्भवति । अवश्यं प्रवेशो भवतीत्यर्थः । राजकर्माण्येव वर्तन्ते । समाप्तं स्वराष्ट्रप्रवेशनकर्म ॥ सप्तमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका १६ ॥


अथ लघ्वभिषेककर्मोच्यते
[भूतो भूतेषु (४.८) इति राजानमभिषेक्ष्यन्महानदे शान्त्युदकं करोत्यादिष्टानाम् ॥ कौशिकसूत्र २,७{१७}.१ ॥]
अभ्यातानान्तं कृत्वा शान्त्युदकविधानेन शान्त्युदकं करोति । महानद्या उदकं वनपुष्करिणीनामुदकं देववृष्ट्युदकं दिव्यमुदकं च । उदकानां विकल्पः समुच्चयो वा शान्त्युदकमादिष्टानाम् ॥

[स्थालीपाकं श्रपयित्वा दक्षिणतः परिगृह्याया दर्भेषु तिष्ठन्तमभिषिञ्चति ॥ कौशिकसूत्र २,७{१७}.२ ॥]
ततश्चरुं श्रपयति नद्योदकेन समुद्रोदकेन वा । वेद्या दक्षिणतः दर्भानास्तीर्य तत्रोपर्यूर्ध्वं स्थितं राजानंऽभूतो भूतेषुऽ इति सूक्तेन शान्त्युदककलशमभिमन्त्र्य पुरोधा राजानमभिषिञ्चति ॥

[तल्पार्षभं चर्मारोहयति ॥ कौशिकसूत्र २,७{१७}.३ ॥]
अभिषिक्तः स्नातः । खट्वायामार्षभं चर्मास्तीर्य तत्र राजानमारोहयतिऽभूतो भूतेषुऽ इति सूक्तेन ॥

[उदपात्रं समासिञ्चेते ॥ कौशिकसूत्र २,७{१७}.४ ॥
विपरिदधाने ॥ कौशिकसूत्र २,७{१७}.५ ॥]
उदपात्रमुभावप्यासिञ्चतो धाराया उदकेन ॥

[सहैव नौ सुकृतं सह दुष्कृतमिति ब्रह्मा ब्रूयात् ॥ कौशिकसूत्र २,७{१७}.६ ॥
यो दुष्कृतं करवत्तस्य दुष्कृतं सुकृतं नौ सह इति ॥ कौशिकसूत्र २,७{१७}.७ ॥]
ऽसहैव नोऽ इति राजा ब्रूते । ब्रह्मा ब्रूयात्ऽयो दुष्कृतम्ऽ इति ॥

[आशयति ॥ कौशिकसूत्र २,७{१७}.८ ॥]
ततः स्थालीपाकंऽभूतो भूतेषुऽ इति सूक्तेन सम्पात्याभिमन्त्र्याशयति ॥

[अश्वमारोह्यापराजितां प्रतिपादयति ॥ कौशिकसूत्र २,७{१७}.९ ॥]
ततोऽश्वमारोहयतिऽभूतो भूतेषुऽ इति सूक्तेन । अपराजितां प्रतिपादयति । वाहेनोपनिष्क्रम्य पुनर्गृह आगत्याभ्यातानाद्युत्तरतन्त्रम्.

[सहस्रं ग्रामवरो दक्षिणा ॥ कौशिकसूत्र २,७{१७}.१० ॥]
सहस्रं गवां दक्षिणा ग्रामवरश्च । अभिषेकः समाप्तः ॥

[विपरिधानान्तमेकराजेन व्याख्यातम् ॥ कौशिकसूत्र २,७{१७}.११ ॥]
माण्डलिकस्य सामन्तस्य युवराजस्य सेनापतेरन्यस्य कस्यचिदभिषेकः अनेन विधानेन कार्यः । तस्यापि पुरोहितवरणे कृते सत्यभिषेकः कार्यः । अभिषेकादनन्तरं घृतावेक्षणमारात्रिकं राजकर्माणि पिष्टरात्र्यादीनि प्रत्यहं कर्तव्यानि । विधानेन सर्वाणि दानानि ददाति । पुष्पाभिषेकमहानवमीइन्द्रोत्सववृषोत्सर्गजन्मदिनादि प्रतिवर्षं कार्याणि ॥

सार्वभौमाभिषेक उच्यते । महाभिषेकविधिं वक्ष्यामः
[तल्पे दर्भेष्वभिषिञ्चति ॥ कौशिकसूत्र २,७{१७}.१२ ॥]
सार्वभौमस्य भवति । अभ्यातानान्तं कृत्वा ततः शान्त्युदकं करोति । चतुर्णां सागराणां तु महानदीनां शतस्य च । तेनोदकेन शान्त्युदकं करोति वधानेन । मन्त्रोक्तेन उदकेन चरुं श्रपयति । ततो दक्षिणतो वेदेः खट्वां स्तृणाति । मञ्चिका । यथा लोके अभिषेकः । तस्या उपरि दर्भान् स्तृणाति । तत्र राजनि उपविष्टेऽभूतो भूतेषुऽ इति सूक्तेन तेन शान्त्युदकेन राजानमभिषिञ्चति ॥

[वर्षीयसि वैयाघ्रं चर्मारोहयति ॥ कौशिकसूत्र २,७{१७}.१३ ॥]
ततः खट्वायां वर्षीयस्यां वैयाघ्रं चर्म स्तृणाति मञ्चके । तत्र राजानमारोहयतिऽभूतो भूतेषुऽ इति सूक्तेन । उदपात्रं समासिञ्चेते । राजा ब्रूतेऽसहैव नोऽ इति । पुरोहितो ब्रूयात्ऽयो दुष्कृतम्ऽ इति । ततः पुरोहितः सूक्तं जपति ॥

[चत्वारो राजपुत्रास्ताल्पाः पृथक्पादेषु शयनं परामृश्य सभां प्रापयन्ति ॥ कौशिकसूत्र २,७{१७}.१४ ॥]
चत्वारो राजपुत्रास्ताल्पाः पृथक्पादेषु गृहीत्वा सभामध्ये निदधति ॥

[दासः पादौ प्रक्षालयति ॥ कौशिकसूत्र २,७{१७}.१५ ॥
महाशूद्र उपसिञ्चति ॥ कौशिकसूत्र २,७{१७}.१६ ॥]
दासः पादौ प्रक्षालयति राजकीयो महाशूद्रः प्रक्षालनं ददाति । पुरोहितोऽभूतो भूतेषुऽ इति सूक्तं जपति ॥

[कृतसम्पन्नानक्षानातृतीयं विचिनोति ॥ कौशिकसूत्र २,७{१७}.१७ ॥]
राजा द्यूतक्रीडां करोति । पुनः पुरोहितःऽभूतो भूतेषुऽ इति सूक्तं जपति । एको दायश्चतुर्णां वर्णानाम् । त्रयः दायाः राज्ञः । सर्ववर्णान् सर्वत्र पालयते राजा ॥

[वैश्यः सर्वस्वजैनमुपतिष्ठते उत्सृजायुष्मनिति ॥ कौशिकसूत्र २,७{१७}.१८ ॥]
वैश्यः राजानमुपतिष्ठतेऽउत्सृजायुष्मन्ऽ इति मन्त्रेण ॥

[उत्सृजामि ब्राह्मणायोत्सृजामि क्षत्रियायोत्सृजामि वैश्याय धर्मो मे जनपदे चर्यतामिति ॥ कौशिकसूत्र २,७{१७}.१९ ॥]
ततो राजा ब्रूतेऽब्राह्मणायऽ । अनुज्ञामाहैतैर्मन्त्रैः ॥

प्रतिपद्यते ॥ कौशिकसूत्र २,७{१७}.२० ॥
[आशयति ॥ कौशिकसूत्र २,७{१७}.२१ ॥]
ततः स्थालीपाकंऽभूतो भूतेषुऽ इति सूक्तेन सम्पात्याभिमन्त्र्य राजानमाशयति ॥

[अश्वमारोह्यापराजितां प्रतिपादयति ॥ कौशिकसूत्र २,७{१७}.२२ ॥]
ऽभूतो भूतेषुऽ इत्यनेनाश्वमभिमन्त्र्यारोह्यापराजितां पादयति ॥

[सभामुदायति ॥ कौशिकसूत्र २,७{१७}.२३ ॥]
पुनः सभां प्रगच्छति ॥

[मधुमिश्रं ब्राह्मणान् भोजयति ॥ कौशिकसूत्र २,७{१७}.२४ ॥]
ततो मधुमिश्रं मिष्टमन्नं ब्राह्मणान् भोजयति ॥

[रसानाशयति ॥ कौशिकसूत्र २,७{१७}.२५ ॥]
तन्त्रं कृत्वा ततोऽभूतो भूतेषुऽ इति सूक्तेन रसान् सम्पात्याभिमन्त्र्य राजानमाशयति । अभ्यातानाद्युत्तरतन्त्रम् । सहस्रं गवां ग्रामवरश्च दक्षिणा ॥

[माहिषाण्युपयाति ॥ कौशिकसूत्र २,७{१७}.२६ ॥]
ततः स्त्रीणां गृहे याति ॥

[कुर्युर्गामिति गार्ग्यपार्थश्रवसौ नेति भागलिः ॥ कौशिकसूत्र २,७{१७}.२७ ॥]
तत्र मधुपर्को देयः । महाभिषेकः समाप्तः । अतःप्रभृति राजकर्माधिकारः । घृतावेक्षणं पुरोहितकर्मारात्रिकं नक्षत्रपूजाग्रहपूजादिकं कर्तव्यम् ॥

इममिन्द्र वर्धय क्षत्रियं मे (४.२२) इति क्षत्रियं प्रातःप्रातरभिमन्त्रयते ॥ कौशिकसूत्र २,७{१७}.२८ ॥
[उक्तं समासेचनं विपरिधानम् ॥ कौशिकसूत्र २,७{१७}.२९ ॥]
ऽइममिन्द्रऽ इत्युदपात्रं समासिञ्चेते उदकधारया । ततो राजा ब्रूयात्ऽसहैव नौऽ इति । ततः पुरोहितो ब्रूयात्ऽयो दुष्कृतम्ऽ इति । ततः पुरोहितः सूक्तं जपति ॥

[सविता प्रसवानाम् (५.२४) इति पौरोहित्ये वत्स्यन् वैश्वलोपीः समिध आधाय ॥ कौशिकसूत्र २,७{१७}.३० ॥]
ततःऽसविता प्रसवानाम्ऽ इति सूक्तेन पौरोहित्ये वत्स्यन् शूद्रेण आहृताः समिध आदधाति ।ऽअथर्वाङ्गिरसः पुरोहितो भवतिऽ इति गोपथब्राह्मणे उक्तम् । राजकर्मसु पञ्चगृहीतमाज्यं सर्वत्र । हस्तित्रसनादीनि अभिषेकान्तानि राजकर्माणि ॥

[इन्द्र क्षत्रम् (७.८४.२३) इति क्षत्रियमुपनयीत ॥ कौशिकसूत्र २,७{१७}.३१ ॥]
ऽइन्द्र क्षत्रम्ऽ इति द्वाभ्यामृग्भ्यामुपनयनम् । तन्त्रऽअस्मिन् वसुऽ (१.९) इति गणस्थाने क्षत्रियमभिमन्त्रयते । क्षत्रियरयोपनयनं कुर्यात् । क्षत्रियस्योपनयने विशेषः । समानमन्यत् ॥

तदाहुर्न क्षत्रियं सावित्रीं वाचयेदिति ॥ कौशिकसूत्र २,७{१७}.३२ ॥
[कथं नु तमुपनयीत यन्न वाचयेत् ॥ कौशिकसूत्र २,७{१७}.३३ ॥
वाचयेदेव वाचयेदेव ॥ कौशिकसूत्र २,७{१७}.३४ ॥]
अथ वाचयेदिति विकल्पं मन्यन्ते आचार्याः । समाप्तं क्षत्रियस्योपनयनकर्म । तत्र श्लोकः

मेधासाम्पदकर्माणि साम्मनस्यं च वर्चसम्.
क्रमाच्च राजकर्माणि द्वितीयेऽस्मिन्महर्षिणा ॥
अष्टमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका १७ ॥

॥ द्वितीयोऽध्यायः समाप्तः ॥


अथ तृतीयोऽध्यायः

निरृतिकर्माणि

निरृतिकर्मणां विधिं वक्ष्यामः । आ पुष्टिकर्मभ्यो यावत्.
[पूर्वस्य पूर्वस्यां पौर्णमास्यामस्तमित उदकान्ते कृष्णचैलपरिहितो निरृतिकर्माणि प्रयुङ्क्ते ॥ कौशिकसूत्र ३,१{१८}.१ ॥]
पौर्णमास्यां रात्रौ निरृतिकर्म कुर्यात् । कृष्णवसनपरिहितोऽग्निं गृहीत्वोदकान्ते गत्वा नाव्योपरि चटित्वाग्निं प्रज्वाल्यऽये त्रिषप्ताःऽ (१.१) इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याश्नाति । न तन्त्रम् ॥

[नाव्याया दक्षिणावर्ते शापेटं निखनेत् ॥ कौशिकसूत्र ३,१{१८}.२ ॥]
शापेटं गर्तं निखनेत् ॥

[अपां सूक्तैरवसिञ्चति ॥ कौशिकसूत्र ३,१{१८}.३ ॥]
तत्रोपर्यपां सूक्तैः स्नात्वा ॥

अप्सु कृष्णं जहाति ॥ कौशिकसूत्र ३,१{१८}.४ ॥
[अहतवसन उपमुच्योपानहौ जीवघात्याया उदाव्रजति ॥ कौशिकसूत्र ३,१{१८}.५ ॥]
अहतवसनो भूत्वोपमुच्योपानहौ ततो गृह आगच्छति ॥

[प्रोष्य तामुत्तरस्यां साम्पदं कुरुते ॥ कौशिकसूत्र ३,१{१८}.६ ॥]
ततः साम्पदं वा पौष्टिकं वा कुरुते । केवलं वा कुरुते ॥

[शापेटमालिप्याप्सु निबध्य तस्मिन्नुपसमाधाय सम्पातवन्तं करोति ॥ कौशिकसूत्र ३,१{१८}.७ ॥
अश्नाति ॥ कौशिकसूत्र ३,१{१८}.८ ॥
आधाय कृष्णं प्रवाहयति ॥ कौशिकसूत्र ३,१{१८}.९ ॥
उपमुच्य जरदुपानहौ सव्येन जरच्छत्त्रं दक्षिणेन शालातृणान्यादीप्य जीर्णं वीरिणमभिन्यस्यति ॥ कौशिकसूत्र ३,१{१८}.१० ॥
अनावृतमावृत्य सकृज्जुहोति ॥ कौशिकसूत्र ३,१{१८}.११ ॥]
कृष्णवस्त्रपरिहितो विमुच्य जरदुपानहौ वामेन हस्तेन जरच्छत्रं गृहीत्वा दक्षिणेन हस्तेन शालातृणपूलकेऽग्निं कृत्वा जीर्णे वीरिणेऽग्निं प्रज्वाल्याप्रदक्षिणं भूत्वा निरृतिदिशमभिमुखो भूत्वाऽये त्रिषप्ताःऽ इति सूक्तेनाज्यं सकृज्जुहोति ॥

[सव्यं प्रहरत्युपानहौ च ॥ कौशिकसूत्र ३,१{१८}.१२ ॥]
अग्नौ छत्रोपानहौ प्रहरति । तत उत्तरतन्त्रम् । उदकान्ते नाव्याया दक्षिणावत शापेटं निखनेत् । अपां सूक्तैरवसिञ्चति । अप्सु कृष्णं जहाति । अहतवसन उपमुच्योपानहौ ततो गृह आगच्छति ॥

[जीर्णे वीरिण उपसमाधाय अयं ते योनिः(३.२०) इति जरत्कोष्ठाद्व्रीहीञ्छर्करामिश्रानावपति ॥ कौशिकसूत्र ३,१{१८}.१३ ॥]
पूर्वस्यां पौर्णमास्यामस्तमिते कृष्णचैलपरिहितोऽग्निं गृहीत्वा बहिर्गत्वा वीरिणस्तम्बेऽग्निं प्रज्वाल्यऽअयं ते योनिःऽ इति सूक्तेन
व्रीहिञ्छर्करामिश्रान् सकृज्जुहोति ॥

[आ नो भर (५.७) इति धानाः ॥ कौशिकसूत्र ३,१{१८}.१४ ॥]
ऽआ नो भर मा परि ष्ठाऽ इति सूक्तेन धानाः शर्करामिश्राः सकृज्जुहोति ॥

[युक्ताभ्यां सह कोष्ठाभ्यां तृतीयाम् ॥ कौशिकसूत्र ३,१{१८}.१५ ॥]
ऽअयं ते योनिःऽ,ऽआ नो भरऽ इति द्वाभ्यां सूक्ताभ्यां सह पिटकेन तृतीयामाहुतिं जुहोति । तत उदकान्ते शापेटं निखनेत् । अपां सूक्तैरवसिञ्चति । अप्सु कृष्णं जहाति । अहतवसन उपमुच्योपानहौ जीवघात्याया उदाव्रजति ॥

[कृष्णशकुनेः सव्यजङ्घायामङ्कमनुबध्याङ्के पुरोडाशं प्र पतेत (७.११५.१) इत्यनावृतं प्रपादयति ॥ कौशिकसूत्र ३,१{१८}.१६ ॥]
पूर्वस्यां पौर्णमास्यामस्तमित उदकान्ते कृष्णचैलपरिहितो निरृतिकर्माणि प्रयुङ्क्ते । काकजङ्घायां लोहकण्टकं बद्ध्वा कण्टके पुरोडाशं कृत्वा निरृत्यभिमुखो भूत्वाऽप्र पतेतऽ इत्यृचा काकं विसर्जयति । नाव्याया दक्षिणावर्ते शापेटं निखनेत् । अपां सूक्तैरवसिञ्चति । अप्सु कृष्णं जहाति । अहतवसन उपमुच्योपानहौ ततो गृह आगच्छति ॥

[नीलं सन्धाय लोहितमाच्छाद्य शुक्लं परिणह्य द्वितीययोष्णीषमङ्केनोपसाद्य सव्येन सहाङ्केनावाङप्स्वपविध्यति ॥ कौशिकसूत्र ३,१{१८}.१७ ॥]
पूर्वस्यां पौर्णमास्यामस्तमित उदकान्ते कृष्णचैलपरिहितो निरृतिकर्माणि प्रयुङ्क्ते । कारयिता नीलं वस्त्रमधः परिधत्ते । रक्तं वस्त्रमुपर्याच्छाद्य शुक्लं वस्त्रमुष्णीषं कृत्वाऽया मा लक्ष्मीःऽ (७.११५.२) इत्यृचा लोहखण्डेन सहोष्णीषमुदके प्रक्षिपति वामेन हस्तेन ॥

[तृतीयया छन्नं चतुर्थ्या संवीतम् ॥ कौशिकसूत्र ३,१{१८}.१८ ॥]
ऽएकशतं लक्ष्म्यःऽ (७.११५.३) इत्यृचा रक्तं वस्त्रं लोहखण्डेन सहाप्सु क्षिपति वामेन हस्तेन ।ऽएता एना व्याकरम्ऽ (७.११५.४) इत्यृचा नीलं वस्त्रं लोहखण्डेन सहाप्सु क्षिपति वामेन हस्तेन । शापेटं निखनेत् । अपां सूक्तैरवसिञ्चति । अप्सु कृष्णं जहाति । अहतवसनो भूत्वोपानहौ परिधाय गृह आगच्छति । ततः कर्माणि कुर्यात्पौष्टिकानि साम्पदानि च । समाप्तानि
निरृतिकर्माणि । पञ्च प्रधानानि कर्माणि । एवं निरृतिकर्म कृत्वा ततः साम्पदेषु पौष्टिकेषु चाधिकारः । प्रतिकर्म वा केवलं वा निरृतिकर्म पापक्षयार्थं करोति । निरृतिकर्मणां क्रमोऽपि नास्ति । पञ्चानां मध्य एकं कृत्वा ततः पौष्टिकानां प्रयोगः साम्पदानां च । पूर्वस्य ब्रह्मचारिसाम्पदादीनि साम्पदानि । पूर्वस्य चित्राकर्मादीनि पौष्टिकानि । एतान्युच्यन्ते आ भैषज्येभ्यः कर्मभ्यो यावत् ॥

[पुष्टिकर्माणि]
पुष्टिकर्मणां विधिं वक्ष्यामः
[पूर्वस्य चित्राकर्म ॥ कौशिकसूत्र ३,१{१८}.१९ ॥]
[कुलायशृतं हरितबर्हिषमश्नाति ॥ कौशिकसूत्र ३,१{१८}.२० ॥]
आज्यतन्त्रे हरितदर्भास्तरणं करोति । अभ्यातानान्तं समानम् ।ऽये त्रिषप्ताःऽ (१.१) इति सूक्तेन कुलायशृतं क्षीरौदनं स्थालीपाकं सम्पात्याभिमन्त्र्याश्नाति कारयिता । अभ्यातानाद्युत्तरतन्त्रम् । एतत्कर्म चैत्र्यां पौर्णमास्यां कुर्यात् । अथवा चित्रानक्षत्रे कुर्यात् । नित्यं चैत्रीकर्म ॥

[अन्वक्ताः प्रादेशमात्रीरादधाति ॥ कौशिकसूत्र ३,१{१८}.२१ ॥]
ऽये त्रिषप्ताःऽ इति सूक्तेन घृतेनाक्ताः पालाशादिसमिध आदधाति । एतदपि चित्राकर्म नित्यं च ॥

[नाव्ययोः सांवैद्ये पश्चादग्नेर्भूमिपरिलेखे कीलालं मुखेनाश्नाति ॥ कौशिकसूत्र ३,१{१८}.२२ ॥]
नाव्यनदीसङ्गमे गत्वाभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्य पश्चादग्नेर्भूमौ प्रक्षिप्य पशुवन्मुखेनाश्नाति न हस्तेन । अभ्यातानाद्युत्तरतन्त्रम् ॥

[तेजोव्रतं त्रिरात्रमश्नाति ॥ कौशिकसूत्र ३,१{१८}.२३ ॥]
त्रिरात्रं कर्म भवति । प्रत्यहं तन्त्रम्.

तद्भक्षः ॥ कौशिकसूत्र ३,१{१८}.२४ ॥
तेजस्कामः पुष्टिकामश्च । समाप्तं तेजोव्रतम् ॥

[शम्भुमयोभुभ्यां ब्रह्म जज्ञानम् (५.६) अस्य वामस्य (९.९१०) यो रोहितः (१३.१.२५२६) उदस्य केतवः (१३.२) मूर्धाहम् (१६.३४) विषासहिम् (१७.१) इति सलिलैः क्षीरौदनमश्नाति ॥ कौशिकसूत्र ३,१{१८}.२५ ॥]
अभ्यातानान्तं कृत्वाऽआपो हि ष्ठाऽ (१.५)ऽशं नो देवीःऽ (१.६)ऽब्रह्म जज्ञानम्ऽ,ऽअनाप्ता येऽ (५.६.२),ऽअस्य वामस्यऽ अनुवाकः,ऽयो रोहितःऽ इति द्वे,ऽउदस्य केतवःऽ इत्यनुवाकः,ऽमूर्धाहम्ऽ इति द्वे सूक्ते,ऽविषासहिम्ऽ इत्यनुवाकः, एतैः क्षीरौदनं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । सर्वत्रऽआपो हि ष्ठाऽ इत्यादिसलिलगणो ज्ञातव्यः ॥

[मन्थान्तानि ॥ कौशिकसूत्र ३,१{१८}.२६ ॥]
सलिलैः औदुम्बरसमिध आदधाति । सलिलैः पालाशसमिध आदधाति । सलिलैः कर्कन्धूसमिध आदधाति । सलिलैः व्रीहीन् जुहोति । सलिलैर्यवान् जुहोति । सलिलैस्तिलान् जुहोति । तन्त्रे सलिलैः क्षीरौदनं सम्पात्याभिमन्त्र्य भक्षयति । तन्त्रे सलिलैः पुरोडाशं सम्पात्याभिमन्त्र्य भक्षयति । तन्त्रे सलिलैः रसान् सम्पात्याभिमन्त्र्य भक्षयति । सलिलैः त्रिरह्नोऽग्निं प्रज्वालयति । सलिलैः त्रिरग्निमुपतिष्ठते । अभ्यातानान्ते सलिलैः सव्यात्पाणिहृदयाल्लोहितं रसमिश्रमश्नाति । तत उत्तरतन्त्रम् । इति मन्थान्तानि कर्माणि ॥

अध्वानं गच्छतः पुष्टिकर्माण्युच्यन्ते
[द्वितीयेन प्रवत्स्यन् हविषामुपदधीत ॥ कौशिकसूत्र ३,१{१८}.२७ ॥]
ऽब्रह्म जज्ञानम्ऽ,ऽअनाप्ता येऽ सूक्तेनाज्यं जुहोति । तन्त्रेऽब्रह्म जज्ञानम्ऽ इति चतुर्दशेन पालाशादिसमिध आदधाति । अनेन सूक्तेन पुरोडाशं जुहोति । द्वितीयेन ब्रह्मजज्ञानेन पयः, उदौदनः, पायसः, पशुः, व्रीहिः, यवः, तिलाः, धानाः, करम्भः, शष्कुल्यः एतेषां विकल्पेन होमः । हस्तहोमे तन्त्रविकल्पः । इति प्रस्थानकर्म ॥

[अथ प्रत्येत्य ॥ कौशिकसूत्र ३,१{१८}.२८ ॥]
यदा आगच्छति तदा एतत्कर्म ॥

[अथ प्रत्येत्य ॥ कौशिकसूत्र ३,१{१८}.२९ ॥]
यदा ग्रामं गच्छति तदा एतत्कर्म कुर्यात् ॥

[अथ प्रार्थयमाणः ॥ कौशिकसूत्र ३,१{१८}.३० ॥]
यथार्थं याचते तदा द्रव्यकाम एतत्कर्म कुर्यात् ॥

[अथ प्रार्थयमाणः ॥ कौशिकसूत्र ३,१{१८}.३१ ॥]
अथवा निष्कामोऽपि करोति ॥

अथ समुद्रकर्मेति । सर्वफलकर्म व्याख्यास्यामः
[चत्वारो धायाः पलाशयष्टीनां भवन्ति ॥ कौशिकसूत्र ३,१{१८}.३२ ॥
दर्भाणामुपोलवानां चत्वारः ॥ कौशिकसूत्र ३,१{१८}.३३ ॥
तं व्यतिषक्तमष्टावरमिध्मं सात्त्रिकेऽग्नावाधायाज्येनाभिजुहुयात् ॥ कौशिकसूत्र ३,१{१८}.३४ ॥]
अभ्यातानान्तं कृत्वा ततश्चत्वारः पूलका पालाशमिन्धनं चत्वारो दर्भपूलकाः । व्यतिषङ्गेन जुहोति । एकं समिद्भारकं द्वितीयं तस्योपरि दर्भभारकं पुनरपि तथैव च । अष्टौ उपर्युपरि कृत्वा ततोऽब्रह्म जज्ञानम्ऽ इति चतुर्दशेनाज्यं जुहोति ॥

[धूमं नियच्छेत ॥ कौशिकसूत्र ३,१{१८}.३५ ॥]
ततो धूमं भक्षयति ॥

[लेपं प्राश्नीयात् ॥ कौशिकसूत्र ३,१{१८}.३६ ॥]
लेपं प्राश्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[तमु चेन्न विन्देदथ सत्त्रस्यायतने यज्ञायतनमिव कृत्वा ॥ कौशिकसूत्र ३,१{१८}.३७ ॥
समुद्र इत्याचक्षते कर्म ॥ कौशिकसूत्र ३,१{१८}.३८ ॥]
सात्त्रिकस्याग्नेः प्रणयनम् । अथवा तत्र स्थाने एतत्कर्म करोति । धनधान्यपुत्रलक्ष्मीयशोमेधाधर्मकामः । स्वर्गकामः । आयुर्बलप्रज्ञासम्पद्ग्रामकूपादि पत्नीप्राधान्यअभयस्वस्त्ययनविजयगृहवरस्त्रीहिरण्यरत्नादि सम्पद्यते ।ऽसमुद्र इत्याचक्षते कर्मऽ इति वचनात् ॥ प्रथमा कण्डिका ॥ Kऔशिकपद्धतिकण्डिका १८ ॥


अथ गवां रोगेषु गवां पुष्टिप्रजननेषु च शान्तिरुच्यते
[अम्बयो यन्ति (१.४) शम्भुमयोभुभ्यां ब्रह्म जज्ञानम् (४.१) आ गावः (४.२१) एका च मे (५.१५) इति गा
लवणं पाययत्युपतापिनीः ॥ कौशिकसूत्र ३,२{१९}.१ ॥]
ऽअम्बयो यन्तिऽ,ऽआपो हि ष्ठाऽ (१.५),ऽशन्नो देवीःऽ (१.६) इत्येतैः सूक्तैर्लवणमभिमन्त्र्य गाः पाययति । ब्रह्मजज्ञानेन प्रथमेन लवणमभिमन्त्र्य गाः पाययति ।ऽआ गावःऽ इति सूक्तेन लवणमभिमन्त्र्य गाः पाययति ।ऽएका च मेऽ इति सूक्तेन लवणमभिमन्त्र्य गाः पाययति । बहुदुग्धा गावो भवन्ति । ज्वरगण्डमालादिरोगे एतत्कर्म ॥

[प्रजननकामाः ॥ कौशिकसूत्र ३,२{१९}.२ ॥]
गर्भग्रहणार्थमेतत्कर्म भवति ॥

[प्रपामवरुणद्धि ॥ कौशिकसूत्र ३,२{१९}.३ ॥]
ऽअम्बयो यन्तिऽ,ऽआपो हि ष्ठाऽ,ऽशन्नो देवीःऽ इति त्रिभिः सूक्तैः उदकमभिमन्त्र्य गाः पाययति । पुष्ट्यर्थी ।ऽब्रह्म जज्ञानम्ऽ इति सूक्तेनोदकमभिमन्त्र्य गाः पाययति ।ऽआ गावःऽ इति सूक्तेनोदकमभिमन्त्र्य गाः पाययति ।ऽएका च मेऽ इति सूक्तेन तडागमवरुध्य ततो गाः पाययति । समाप्तानि गवां पुष्टिकर्माणि ॥

सर्वार्थानि पुष्टिकर्माण्युच्यन्ते
[सं सं स्रवन्तु (१.१५) इति नाव्याभ्यामुदकमाहरतः सर्वत उपासेचम् ॥ कौशिकसूत्र ३,२{१९}.४ ॥]
द्वाभ्यां महानदीभ्यामुदकमाहृत्य सर्वत उपासिच्य कूपतडागाद्युदकं तत्रव प्रक्षिपति ॥

[तस्मिन्मैश्रधान्यं शृतमश्नाति ॥ कौशिकसूत्र ३,२{१९}.५ ॥]
तेनोदकेन मैश्रधान्यं श्रपयित्वाभ्यातानान्तं कृत्वाऽसं सं स्रवन्तुऽ इति मैश्रधान्यं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । पुष्ट्यर्थी ॥

[मन्थं वा दधिमधुमिश्रम् ॥ कौशिकसूत्र ३,२{१९}.६ ॥]
अभ्यातानान्तं कृत्वा महानदीभ्यामुदकेन सक्तुमन्थं कृत्वा दधिमधु निक्षिप्यऽसं सं स्रवन्तुऽ इति सूक्तेन सम्पात्याभिमन्त्र्याश्नाति । उत्तरतन्त्रम् । पुष्ट्यर्थी ॥

अथ लक्ष्मीकर्म व्याख्यास्यामः
[यस्य श्रियं कामयते ततो व्रीह्याज्यपय आहार्य क्षीरौदनमश्नाति ॥ कौशिकसूत्र ३,२{१९}.७ ॥]
अभ्यातानान्तं कृत्वा यस्य गृहे लक्ष्मी अस्ति तस्य गृहात्व्रीह्याज्यपय आहार्य क्षीरौदनं श्रपयित्वाऽसं सं स्रवन्तुऽ इति सूक्तेन सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[तदलाभे हरितगोमयमाहार्यं शोषयित्वा त्रिवृति गोमयपरिचये शृतमश्नाति ॥ कौशिकसूत्र ३,२{१९}.८ ॥]
अभ्यातानान्तं कृत्वा श्रीमतो गृहात्गोमयमाहार्य ततः शोषयित्वा त्रिवृति गोमयपरिचये शृतं सारूपवत्स ओदनंऽसं सं स्रवन्तुऽ इति सूक्तेन सम्पात्याभिमन्त्र्याश्नाति ॥ तत उत्तरतन्त्रम् । समाप्तं लक्ष्मीप्राप्तिकर्म । लक्ष्मीकर्मणि कृते लक्ष्मीर्भवति ॥

अथ समुद्र इदं कर्म क्रियते पुष्टिकर्म । अलक्ष्मीविनाशकर्माण्युच्यन्ते
[शेरभक (२.२४) इति सामुद्रमप्सु कर्म व्याख्यातम् ॥ कौशिकसूत्र ३,२{१९}.९ ॥]
शापेटमालिप्याप्सु निबध्य तत्राग्निं प्रणीयऽशेरभकऽ इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याश्नाति । तन्त्रम् । पुष्ट्यर्थी ॥

[अनपहतधाना लोहिताजाया द्रप्सेन सन्नीयाश्नाति ॥ कौशिकसूत्र ३,२{१९}.१० ॥
एतावदुपैति ॥ कौशिकसूत्र ३,२{१९}.११ ॥]
अभ्यातानान्तं कृत्वाऽशेरभकऽ इति सूक्तेनाखण्डितयवानां सक्तून् रक्ताजाया दध्युदकेन सन्नीय सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् ॥

[तृणानां ग्रन्थीनुद्ग्रथ्नन्नपक्रामति ॥ कौशिकसूत्र ३,२{१९}.१२ ॥]
तृणानां ग्रन्थीन् कृत्वा तान् ग्रन्थीनुद्गृह्णन्नपक्रामति उदाव्रजति ॥

[तानुदाव्रजन्नुदपात्रस्योदपात्रेणाभिप्लावयति मुखं विमार्ष्टि ॥ कौशिकसूत्र ३,२{१९}.१३ ॥]
ऽशेरभकऽ इति सूक्तेन उदपात्रे विचृतति प्रत्यृचम् । तेनोदपात्रेण स्नानं कृत्वा मुखं प्रक्षालयति । पुष्ट्यर्थी ॥

गोष्ठकर्मणां विधिं वक्ष्यामः
एह यन्तु पशवः (२.२६), सं वो गोष्ठेन (३.१४), प्रजावतीः (७.७५.१), प्रजापतिः (९.७) इति गोष्ठकर्माणि ॥ कौशिकसूत्र ३,२{१९}.१४ ॥
गृष्टेः पीयूषं श्लेष्ममिश्रमश्नाति ॥ कौशिकसूत्र ३,२{१९}.१५ ॥
तन्त्रं कृत्वाऽएह यन्तु पशवःऽ इति सूक्तेन गृष्टेः पीयूषं श्लेष्ममिश्रितं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । पुष्टिकामः । अभ्यातानान्तं कृत्वाऽसं वो गोष्ठेनऽ इति सूक्तेन गृष्टेः पीयूषं श्लेष्ममिश्रितं कृत्वा सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽप्रजावतीःऽ इत्येका,ऽपदज्ञा स्थऽ (७.७५.२) इति द्वितीया । आभ्यां गृष्टेः पीयूषं श्लेष्ममिश्रितं कृत्वा सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽप्रजापतिश्च परमेष्ठी चऽ इति सूक्तेन प्रथमप्रसूताया गोः पीयूषं वत्सलालामिश्रितं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[गां ददाति ॥ कौशिकसूत्र ३,२{१९}.१६ ॥]
ऽएह यन्तु पशवःऽ इति सूक्तेन गामभिमन्त्र्य ददाति । सर्वत्र पुष्टिकामोऽनुवर्तते ।ऽसं वो गोष्ठेनऽ इति सूक्तेन गामभिमन्त्र्य ददाति । प्रजावतीःऽपदज्ञा स्थऽ इति द्वाभ्यामृग्भ्यां गामभिमन्त्र्य ददाति ।ऽप्रजापतिश्चऽ इति सूक्तेन गामभिमन्त्र्य ददाति ॥

[उदपात्रं निनयति ॥ कौशिकसूत्र ३,२{१९}.१७ ॥
समुह्य सव्येनाधिष्ठायार्धं दक्षिणेन विक्षिपति ॥ कौशिकसूत्र ३,२{१९}.१८ ॥]
ऽएह यन्तुऽ इति सूक्तेनोदपात्रमभिमन्त्र्य गोष्ठमध्ये निनयति । गोवाटे पांशुकूटं वामेन हस्तेन कृत्वा दक्षिणेन हस्तेन अर्धं विक्षिपति । पुष्ट्यर्थी ।ऽसं वो गोष्ठेनऽ इति सूक्तेन उदपात्रमभिमन्त्र्य गोवाटे निनयति । समुह्य सव्येनाधिष्ठायार्धं दक्षिणेन विक्षिपति । पुष्ट्यर्थी ।ऽप्रजावतीःऽ इति द्वाभ्यामृग्भ्यामुदपात्रमभिमन्त्र्य निनयति । समुह्य सव्येनाधिष्ठायार्धं दक्षिणेन विक्षिपति ।ऽप्रजापतिश्च परमेष्ठी चऽ इति सूक्तेन उदपात्रमभिमन्त्र्य निनयति । सव्येन गोवाटे पांशुकूटं कृत्वार्धं दक्षिणेन विक्षिपति ॥

[सारूपवत्से शकृत्पिण्डान् गुग्गुलुलवणे प्रतिनीय पश्चादग्नेर्निखनति ॥ कौशिकसूत्र ३,२{१९}.१९ ॥]
सारूपवत्स ओदने शकृत्पिण्डान् गुग्गुलुलवणं प्रक्षिप्य ततः पश्चादग्नेर्निखनति ॥

[तिसृणां प्रातरश्नाति ॥ कौशिकसूत्र ३,२{१९}.२० ॥
विकृते सम्पन्नम् ॥ कौशिकसूत्र ३,२{१९}.२१ ॥]
त्रिरात्रं यावत् । चतुर्थे उत्खात्य अभ्यातानान्तं कृत्वाऽएह यन्तुऽ इति सूक्तेन सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । पूर्ववच्चतुर्थेऽहनि अभ्यातानान्तं कृत्वाऽसं वो गोष्ठेनऽ इति सूक्तेन सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् ।
पूर्ववच्चतुर्थेऽहनि अभ्यातानान्तं कृत्वाऽप्रजावतीःऽ इति द्वाभ्यां सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽप्रजापतिश्चऽ इति सूक्तेन पूर्ववत्सारूपवत्सं चतुर्थेऽहनि सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । समाप्तानि गोष्ठकर्माणि । इति समाप्ता गोशान्तिः ॥

अथ सर्वकाममणिशान्तिरुच्यते
[आयमगन् (३.५), अयं प्रतिसरः (८.५), अयं मे वरणः (१०.३), अरातीयोः (१०.६) इति वासितान् बध्नाति ॥ कौशिकसूत्र ३,२{१९}.२२ ॥]
अभ्यातानान्तं कृत्वाऽआयमगन् पर्णमणिःऽ इति सूक्तेन पालाशमणिं त्रिर्वासितं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति ।ऽत्रयोदश्यादयस्तिस्रो दधि मधुनि वासयित्वा बध्नातिऽ इति परिभाषावचनात् । पालाशादिषु चतुर्षु मणिषु सम्बध्यते पुष्टिकामस्तेजस्कामो बलकाम आयुष्कामो धनकामश्च । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽअयं प्रतिसरो मणिःऽ इत्यर्थसूक्तेन तिलकमणिं वासितं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभिचारदोषे पुष्टिधनकामार्थी धर्मवीर्य आयुष्यकृत्याप्रतिहरणार्थी यशोर्थी च सपत्ननाशार्थी रोगे च जयार्थी । बलकामो मङ्गलार्थी च । अभ्यातानान्तं कृत्वाऽअयं मे वरणो मणिःऽ इत्यर्थसूक्तेन वरणमणिं वासितं सम्पात्याभिमन्त्र्य बध्नाति । उत्तरतन्त्रम् । शत्रुक्षयकामः रक्षार्थी चाभिचारे जयकामो यशकामः पुष्टिकामश्च ॥

[उत्तमस्य चतुरो जातरूपशकलेनानुसूत्रं गमयित्वावभुज्य त्रैधं पर्यस्यति ॥ कौशिकसूत्र ३,२{१९}.२३ ॥
एतमिध्मम् (१०.६.३५) इत्युपसमाधाय ॥ कौशिकसूत्र ३,२{१९}.२४ ॥
तमिमं देवताः (१०.६.२९) इति वासितमुल्लुप्य ब्रह्मणा तेजसा (१०.६.३०) इति बध्नाति ॥ कौशिकसूत्र ३,२{१९}.२५ ॥]
अभ्यातानान्तं कृत्वा खदिरफालमणिं त्रिर्वासितं कृत्वा हिरण्यवेष्टितं कृत्वाऽएतमिध्मम्ऽ इत्यृचा इध्ममुपसमाधायऽतमिमं देवताःऽ इति वासितमुल्लुप्यासाद्यऽअरातीयोःऽ इत्यर्थसूक्तेन सम्पात्याभिमन्त्र्यऽब्रह्मणा तेजसाऽ इति बध्नाति खदिरफालमणिम् । तत उत्तरतन्त्रम् । सर्वकामार्थसिद्ध्यर्थो मणिः सर्वकामः ॥

[उत्तमो असि (६.१५) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ३,२{१९}.२६ ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वाऽउत्तमो अस्योषधीनाम्ऽ इति सूक्तेन पालाशमणिं त्रिर्वासितं कृत्वा सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । पुष्टिकामोऽयं मणिः ॥

[अक्षितास्ते (६.१४२.३) इति यवमणिम् ॥ कौशिकसूत्र ३,२{१९}.२७ ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वाऽअक्षितास्तेऽ इत्यृचा यवमणिं त्रिर्वासितं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । पुष्ट्यर्थी । पुष्टिकामाधिकारोऽनुवर्तते आ तृतीयाध्यायपरिसमाप्तिं यावत् । समाप्ता मणिशान्तिः ॥

अष्टकाकर्म पुष्टिकर्माण्युच्यन्ते । पुष्टिकामो वा नित्यं वा अष्टकाकर्म कुर्यात्
[प्रथमा ह व्युवास सा (३.१०) इत्यष्टक्याया वपां सर्वेण सूक्तेन त्रिर्जुहोति ॥ कौशिकसूत्र ३,२{१९}.२८ ॥
समवत्तानां स्थालीपाकस्य ॥ कौशिकसूत्र ३,२{१९}.२९ ॥]
माघाष्टकायांऽपूर्वाह्णे यज्ञोपवीती शालानिवेशनं समूहयत्युपवत्स्यद्भक्तमशित्वा स्नातोऽहतवसनः प्रयुङ्क्तेऽ (Kऔश्ष्८.१) रात्रौ । वशामन्त्राः । पाकयज्ञविधानम् । धानादीनां श्रपणं कृत्वा तत आज्यभागान्तं कृत्वा ततःऽपुरस्तादग्नेः प्रतीचीं गां धारयति पश्चादग्नेः प्राङ्मुख उपविश्यान्वारब्धाय शान्त्युदकं करोतिऽ । ततःऽप्रथमा ह व्युवास साऽ इति सर्वेण सूक्तेन घृतं जुहोति । त्रिः सूक्तावृत्तिः । ततः मांसहोमेऽप्रथमा ह व्युवास साऽ इति सर्वेण सूक्तेन तिस्रः पश्वाहुतीर्जुहोति । त्रिः सूक्तावृत्तिः । ततःऽप्रथमा ह व्युवास साऽ इति सर्वेण स्थालीपाकं जुहोति । त्रिः सूक्तावृत्तिः । ततः अष्टकायामष्टकाहोमान् जुहुयात् । तस्यां हवीषिं धानादीन्याज्यमिश्राण्येकत्र कृत्वा विशतिं पिण्डिकाः कृत्वा । पशोर्दक्षिणं बाहुं निर्लोमं सचर्मं सखुरं प्रक्षाल्यासाद्य । तत अभ्यातानान्तं कृत्वाऽप्रथमा ह व्युवास साऽ (३.१०.१५) इति पञ्चभिःऽआयमगन्ऽ (३.१०.८११) इति चतसृभिर्विज्ञायते ।ऽऋतुभ्यष्ट्वाऽ (३.१०.१०) इति विग्राहमष्ठौ ।ऽइन्द्रपुत्रऽ (३.१०.१३) इत्यष्टादशीम् ।ऽअहोरात्राभ्याम्ऽ (६.१२८.३) इत्यूनविंशीम् ।ऽइडायास्पदम्ऽ (३.१०.६७) इति द्वाभ्यां विंशीम् । दक्षिणं बाहुं जुहोति ।ऽपूर्णा दर्वेऽ
(३.१०.७) इति सदर्वीमेकविंशीम् ॥

[सहहुतानाज्यमिश्रान् हुत्वा पश्चादग्नेर्वाग्यतः संविशति ॥ कौशिकसूत्र ३,२{१९}.३० ॥]
ततोऽभ्यातानानि हुत्वा धानाः करम्भ इत्यादीनि हविरुच्छिष्टान्याज्यमिश्राणि कृत्वाऽप्रथमा ह व्युवास साऽ इति सर्वेण सूक्तेन तिस्र आहुतीर्जुहोति । त्रिः सूक्तावृत्तिः । अभ्यातानाद्युत्तरतन्त्रम् । ततः पश्चादग्नेर्वाग्यतः संविशति । स्वपिति । प्रभात उत्तिष्ठति ॥

[महाभूतानां कीर्तयन् सञ्जिहीते ॥ कौशिकसूत्र ३,२{१९}.३१ ॥]
पृथिव्यापस्तेजो वायुराकाशमिति स्मरति । ततः प्रभाते श्राद्धं मातरं नान्दीमुखमित्यष्टकाकर्म । पुष्टिकामो वा नित्यं वा करोति ॥ द्वितीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका १९ ॥


कृषिकर्म वक्ष्यामः
[सीरा युजन्ति (३.१७) इति युगलाङ्गलं प्रतनोति ॥ कौशिकसूत्र ३,३{२०}.१ ॥]
क्षेत्रे गत्वाऽसीरा युञ्जन्तिऽ इति सूक्तेन युगलाङ्गलं बध्नाति ॥

[दक्षिणमुष्टारं प्रथमं युनक्ति ॥ कौशिकसूत्र ३,३{२०}.२ ॥]
ऽसीरा युञ्जन्तिऽ इति सूक्तेन युगस्य दक्षिणतो वृषभं युनक्ति ॥

[एहि पूर्णक इत्युत्तरम् ॥ कौशिकसूत्र ३,३{२०}.३ ॥]
ऽएहि पूर्णकऽ इति मन्त्रेण उत्तरतो द्वितीयं वृषभं युनक्ति ॥

[कीनाशा इतरान् ॥ कौशिकसूत्र ३,३{२०}.४ ॥]
ऽशुनं कीनाशा अनुयन्तु वाहान्ऽ (३.१७.५) इति पादेन हालिकोऽन्यान् चतुरो वृषभान् युनक्ति ।ऽषड्गवं हलम्ऽ इति वचनात् ॥

[अश्विना फालं कल्पयतामुपावतु बृहस्पतिः । यथासद्बहुधान्यमयक्ष्मं बहुपूरुषमिति फालमतिकर्षति ॥ कौशिकसूत्र ३,३{२०}.५ ॥
इरावानसि धार्तराष्ट्रे तव मे सत्त्रे राध्यतामिति प्रतिमिमीते ॥ कौशिकसूत्र ३,३{२०}.६ ॥
अपहताः प्रतिष्ठाः इत्यपूपैः प्रतिहत्य कृषति ॥ कौशिकसूत्र ३,३{२०}.७ ॥]
ऽअश्विना फालम्ऽ इत्यृचा लोहफालमभिमन्त्र्य हले प्रतिकर्षति ।ऽइरावानसिऽ इति मन्त्रेण फालमभिमन्त्रयते ।ऽअपहताःऽ इति मन्त्रेणापूपानभिमन्त्र्य हले फालमुखे ददाति । ततःऽसीरा युञ्जन्तिऽ इति सूक्तेन कर्ता हलेन कृषति ॥

[सूक्तस्य पारं गत्वा प्रयच्छति ॥ कौशिकसूत्र ३,३{२०}.८ ॥]
सूक्तं समाप्य ततो हलं हालिकाय प्रयच्छति ॥

[तिस्रः सीताः प्राचीर्गमयन्ति कल्याणीर्वाचो वदन्तः ॥ कौशिकसूत्र ३,३{२०}.९ ॥]
तिस्रः सीताः प्राचीः हालिकः कृषति । कल्याणीर्वाचो वदन्तः पुण्याहादीनि च ॥

[सीते वन्दामहे त्वा (३.१७.८) इत्यावर्तयित्वोत्तरस्मिन् सीतान्ते पुरोडाशेनेन्द्रं यजते ॥ कौशिकसूत्र ३,३{२०}.१० ॥]
ऽसीते वन्दामहे त्वाऽ इत्यृचा कर्तानुमन्त्रयते । त्रिर्मन्त्रावृत्तिः । उत्तरस्मिन् सीताया अन्ते कृत्वा । तत्राज्यभागान्तं पाकतन्त्रं कृत्वा
ऽसीरा युञ्जन्तिऽ इति सूक्तेनेन्द्रदैवत्यं पुरोडाशं जुहोति । इन्द्रदेवताके पुरोडाशे चरुधर्मा अविरुद्धाः पुरोडाशस्य सर्वे भवन्ति ॥

[अश्विनौ स्थालीपाकेन ॥ कौशिकसूत्र ३,३{२०}.११ ॥]
अश्विनादेवताकं चरुंऽसीरा युञ्जन्तिऽ इति सूक्तेन जुहोति ॥

[सीतायां सम्पातानानयन्ति ॥ कौशिकसूत्र ३,३{२०}.१२ ॥]
ततः अभ्यातानानि हुत्वाऽसीरा युञ्जन्तिऽ इति सूक्तेनोत्तरस्यां सीतायां सम्पातानानयति ॥

[उदपात्र उत्तरान् ॥ कौशिकसूत्र ३,३{२०}.१३ ॥
शष्पहविषामवधाय ॥ कौशिकसूत्र ३,३{२०}.१४ ॥]
उदपात्र उत्तरसम्पातानानयति । तत उदपात्रे हवींषि शष्पं व्रीहीन् विरूढं च निदधाति ॥

[सर्वमनक्ति ॥ कौशिकसूत्र ३,३{२०}.१५ ॥]
तेनोदकेन सर्वं हलमनक्ति ॥

[यत्र सम्पातानानयति ततो लोष्टं धारयन्तं पत्नी पृच्छति अकृक्षत इति ॥ कौशिकसूत्र ३,३{२०}.१६ ॥
अकृक्षाम इति ॥ कौशिकसूत्र ३,३{२०}.१७ ॥
किमाहार्षीः इति ॥ कौशिकसूत्र ३,३{२०}.१८ ॥
वित्तिं भूतिं पुष्टिं प्रजां पशूनन्नमन्नाद्यमिति ॥ कौशिकसूत्र ३,३{२०}.१९ ॥]
यत्र सीता सम्पातिता तस्मात्स्थानात्मृत्तिकां पत्नी गृह्णाति हस्तेन । तत अन्यो मनुष्यः पृच्छतिऽकिमाहार्षीःऽ । ततः पत्नी ब्रूतेऽवित्तिं भूतिम्ऽ इति ॥

[उत्तरतो मध्यमायां निवपति ॥ कौशिकसूत्र ३,३{२०}.२० ॥]
ततो मध्यमायां सीतायां मृत्तिकां निदधाति पत्नी तूष्णीम् ॥

[अभ्यज्योत्तरफालं प्रातरायोजनाय निदधाति ॥ कौशिकसूत्र ३,३{२०}.२१ ॥]
ततो लोहफालं घृतेनाभ्यज्य तत्रैव क्षेत्रे निदधाति ततोऽभ्यातानाद्युत्तरतन्त्रम् ॥

[सीताशिरःसु दर्भानास्तीर्य प्लक्षोदुम्बरस्य त्रींस्त्रींश्चमसान्निदधाति ॥ कौशिकसूत्र ३,३{२०}.२२ ॥]
ततः सीताशिरःसु दर्भानास्तीर्य दर्भोपरि प्लक्षचमसानौदुम्बरचमसांस्त्रींस्त्रीन्निदधाति ॥

[रसवतो दक्षिणे शष्पवतो मध्यमे पुरोडाशवत उत्तरे ॥ कौशिकसूत्र ३,३{२०}.२३ ॥]
एकैकस्याः सीतायाः दक्षिणेषु चमसेषु रसान् प्रक्षिप्य मध्यमेषु विरूढं प्रक्षिप्योत्तरेषु पुरोडाशं निदधाति ॥

[दर्भान् प्रत्यवभुज्य संवपति ॥ कौशिकसूत्र ३,३{२०}.२४ ॥]
चमसोपरि दर्भान्निदधाति । ततश्चमसान् पांसुना प्रच्छादयति । मृत्तिकां दधाति तत्र । ततः प्रभाते अवश्यं तस्मिन् क्षेत्रे द्वितीयेऽहनि कर्षयितव्यम् । एतत्सर्वमेकं कर्म । कृषिकर्म समाप्तम् ॥

अय वृषभलाभकर्मोच्यते
[सारूपवत्से शकृत्पिण्डान् गुग्गुलुलवणे प्रतिनीयाश्नाति ॥ कौशिकसूत्र ३,३{२०}.२५ ॥
अनडुत्साम्पदम् ॥ कौशिकसूत्र ३,३{२०}.२६ ॥]
अभ्यातानान्तं कृत्वाऽसीरा युञ्जन्तिऽ इति सूक्तेन सारूपवत्स ओदने शकृत्पिण्डान् प्रक्षिप्य गुग्गुलु लवणं च प्रक्षिप्य तस्मिन्नोदने सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । धेनुर्दक्षिणा । वृषभलाभकर्म समाप्तम् । अनेन कर्मणा कृतेन बहवो वृषभाः सम्पद्यन्ते ।ऽअनडुत्साम्पदम्ऽ इति वचनात् ॥ तृतीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका २० ॥


अथ स्फातिकरणकर्मोच्यते
[पयस्वतीः (३२.४) इति स्फातिकरणम् ॥ कौशिकसूत्र ३,४{२१}.१ ॥
शान्तफलशिलाकृतिलोष्टवल्मीकराशिवापं त्रीणि कूदीप्रान्तानि मध्यमपलाशे दर्भेण परिवेष्ट्य राशिपल्येषु करोति ॥ कौशिकसूत्र ३,४{२१}.२ ॥]
शान्तफलं तस्यावसितमाकृतिलोष्टं वल्मीकमृत्तिका तस्यामन्तं वपा च । त्रीणि कूद्याः प्रान्तान्यग्राणि मध्यमपलाशे कृत्वा दर्भेण परिवेष्ट्य शान्तिपुष्टिवद्वाऽपयस्वतीःऽ इति सूक्तेनाभिमन्त्र्य राशिपल्येषु करोत्यधस्तात् ॥

[सायं भुञ्जते ॥ कौशिकसूत्र ३,४{२१}.३ ॥
प्रत्यावपन्ति शेषम् ॥ कौशिकसूत्र ३,४{२१}.४ ॥
आ भक्तयातनात् ॥ कौशिकसूत्र ३,४{२१}.५ ॥
अनुमन्त्रयते ॥ कौशिकसूत्र ३,४{२१}.६ ॥]
ऽपयस्वतीःऽ इति सूक्तेन यदा यदा भक्तं राध्यते तदा तदाभिमन्त्रयते यदा दीयते । कण्डने पेषणे निष्पवने रन्धने परिवेषणे दाने च सर्वत्राभिमन्त्रणम् ॥
[अयं नो नभसस्पतिः (६.७९) इति पल्येऽश्मानं सम्प्रोक्ष्यान्वृचं काशीनोप्यावापयति ॥ कौशिकसूत्र ३,४{२१}.७ ॥]
ऽअयं नो नभसस्पतिःऽ इति सूक्तेनाश्मानं अभिमन्त्र्य पल्ये निदधाति । अश्मनोपरि त्रीनन्वृचं मुष्टिं धान्यं निदधाति । स्थिरधान्यमक्षयं भवति । समाप्तानि स्फातिकरणानि ॥

पुष्टिकर्माण्येव वर्तन्ते
[आ गावः (४.२१) इति गाः आयतीः प्रत्युत्तिष्ठति ॥ कौशिकसूत्र ३,४{२१}.८ ॥]
ऽआ गावःऽ इति सूक्तेन सन्ध्याकाले गा आयतीः प्रत्युत्तिष्ठति ॥

[प्रावृषि प्रथमधारस्येन्द्राय त्रिर्जुहोति ॥ कौशिकसूत्र ३,४{२१}.९ ॥]
यदा प्रथमं होममिच्छति तदेदं कर्म करोति पाकयज्ञविधानेन । तस्या दुग्धेनेन्द्रदेवताकं चरुं श्रपयित्वाऽआ गावःऽ इति षड्भिरृग्भिर्द्वाभ्यां द्वाभ्यां त्रयो होमाः कर्तव्याः ।ऽइन्द्राय जुष्टं निर्वपामिऽ इति । प्रोक्षणे बर्हिःप्रहरणे च विशेषः ॥

[प्रजावतीः (४.२१.७) इति प्रतिष्ठमाना अनुमन्त्रयते ॥ कौशिकसूत्र ३,४{२१}.१० ॥]
ऽप्रजावतीः सूयवसाऽ इत्यृचारण्ये गच्छन्तीर्गा अनुमन्त्रयते ॥

[कर्कीप्रवादानां द्वादशदाम्न्यां सम्पातवत्यामयं घासः (४.३८.७) इह वत्साम् (४.३८.७) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ३,४{२१}.११ ॥]
अभ्यातानान्तं कृत्वाऽसूर्यस्य रश्मीननुऽ (४.३८.५७) इति तिसृभिर्द्वादशदाम्न्यां सम्पातितायां वत्सां बध्नाति ।ऽइह वत्सां निबध्नीमःऽ इति पादेन वत्सां बध्नाति ।ऽअयं घासःऽ इति पादेन घासं ददाति गोभ्यो वत्सेभ्यश्च । अभ्यातानाद्युत्तरतन्त्रम् । समाप्ता गोशान्तिः ॥

वस्त्रसाम्पदानि कर्माण्युच्यन्ते
[यस्ते शोकाय (५.१.३) इति वस्त्रसाम्पदी ॥ कौशिकसूत्र ३,४{२१}.१२ ॥
तिस्रः कूदीमयीरूर्णनाभिकुलायपरिहिता अन्वक्ता आदधाति ॥ कौशिकसूत्र ३,४{२१}.१३ ॥]
ऽयस्ते शोकायऽ इत्यृचा तिस्रः कूदीमयीः ऊमयकुलायसूत्रेणावेष्ट्य घूतेनाक्ता आदधाति । त्रिर्मन्त्रावृत्तिः । ऊमय ऊर्णनाभिः । अनेन कर्मणा कृतेन वस्त्राणि सम्पद्यन्ते ॥

[अत्यन्तेषीका मौञ्जपरिहिता मधुना प्रलिप्य चिक्कशेषु पर्यस्य ॥ कौशिकसूत्र ३,४{२१}.१४ ॥]
ऽयस्ते शोकायऽ इत्यृचा मुञ्जेन सह इषीकास्तिस्रो मधुना प्रलिप्ता चिक्कशेष्वादधाति । त्रिर्मन्त्रावृत्तिः । समाप्तानि वस्त्रसाम्पदानि ॥

ज्येष्ठेन पुत्रेण सह भागविधिं वक्ष्यामः
[उत पुत्रः (५.१.८) इति ज्येष्ठं पुत्रमवसाययति ॥ कौशिकसूत्र ३,४{२१}.१५ ॥]
ऽउत पुत्रःऽ इत्यृचा गृहकाष्ठेष्टकाद्या अभिमन्त्र्य गृहं कारयेत् । पुष्टिकामः । पुत्रो वा साम्पदं करोति पिता वा ॥

[मितशरणः साम्पदं कुरुते ॥ कौशिकसूत्र ३,४{२१}.१६ ॥]
ऽउत पुत्रःऽ इत्यृचा सर्वसाम्पदं कुरुते ।ऽउत पुत्रःऽ इत्यृचा औदुम्बरसमिध आदधाति ।ऽउत पुत्रःऽ इत्यृचा पालाशसमिध आदधाति ।ऽउत पुत्रःऽ इत्यृचा बृहद्बदरीसमिध आदधाति । आवपति व्रीहियवतिलानित्यादि । ग्रामपशुपुत्रधनधान्यकामः सर्वसाम्पदं कुरुते । पुत्रः करोति साम्पदानि कर्माणि ॥

[अर्धमर्धेन (५.१.९) इत्यार्द्रपाणी रसं ज्ञात्वा प्रयच्छति ॥ कौशिकसूत्र ३,४{२१}.१७ ॥
शान्तशाखया प्राग्भागमपाकृत्य ॥ कौशिकसूत्र ३,४{२१}.१८ ॥]
ऽअर्धमर्धेनऽ इत्यृचा आर्द्रपाणिर्भूत्वा शान्तशाखया ऋचं जपित्वा पिता पुत्रस्य भागं प्रयच्छति प्राग्भागमपाकृत्य । पुत्रस्य गृहे गोधनं बध्नाति ॥

[प्रत्यग्नि परिचृतति ॥ कौशिकसूत्र ३,४{२१}.१९ ॥]
अग्निसम्मुखं कुरुते । पुत्रभागं कुरुते ॥

[तस्या अमावास्यायां तिस्रः प्रादेशमात्रीरादधाति ॥ कौशिकसूत्र ३,४{२१}.२० ॥]
अग्रे या अमावास्या भविष्यति तस्याममावास्यायाम्ऽअर्धमर्धेनऽ इत्यृचा शाखां भित्त्वा तिस्रः समिध आदधाति । त्रिर्मन्त्रावृत्तिः । पुत्राश्च भ्रातरोऽप्यनेन विधानेन भागं कुर्वन्ति । समाप्तं विभागकर्म पुत्रस्य । पुष्टिकामः ॥

[त्वे क्रतुम् (५.२.३) इति रसप्राशनी ॥ कौशिकसूत्र ३,४{२१}.२१ ॥
रसकर्माणि कुरुते ॥ कौशिकसूत्र ३,४{२१}.२२ ॥]
ऽत्वे क्रतुमपिऽ इत्यृचा रसकर्माणि कुरुते । रसान् सम्पात्याभिमन्त्र्य प्राशयति । यानि मेधाजननादीनि विहितानि सर्वाणि विकल्पेनानया ऋचा भवन्ति । कामः पुष्टिरेव ।ऽत्वे क्रतुम्ऽ इत्यृचा सर्वत्र रसप्राशनम् । परिभाषा सर्वस्मिन्नथर्ववेदे रसकर्मसु ॥

[स्तुष्व वर्ष्मन् (५.२.७) इति प्राजापत्यामावास्यायामस्तमिते वल्मीकशिरसि दर्भावस्तीर्णेऽध्यधि दीपं धारयंस्त्रिर्जुहोति ॥ कौशिकसूत्र ३,४{२१}.२३ ॥]
पाकयज्ञविधानेन प्रजापतये चरुं श्रपयित्वाऽस्तुष्व वर्ष्मन्ऽ इत्यृचा जुहोति । तत उत्तरतन्त्रम् । पुष्टिकामः । अमावास्यायामस्तमिते रात्रौ वल्मीकशिरसि दर्भावास्तीर्य तत्र दीपं ददाति । दीपोपरि त्रिराज्याहुतीर्जुहोतिऽस्तुष्व वर्ष्मन्ऽ इत्यृचा । त्रिर्मन्त्रावृत्तिः ॥

[तण्डुलसम्पातानानीय रसैरुपसिच्याश्नाति ॥ कौशिकसूत्र ३,४{२१}.२४ ॥]
तण्डुलेषु सम्पातानानयति । तानुपवत्स्यद्भक्तं श्रपयति । तत रसैरुपसिच्याश्नाति । न तन्त्रम् ॥

[एवं पौर्णमास्यामाज्योतान् ॥ कौशिकसूत्र ३,४{२१}.२५ ॥]
एवं पौर्णमास्यामस्तमिते वल्मीकशिरसि ।ऽस्तुष्व वर्ष्मन्ऽ इत्यृचा त्रिर्होमः । न तन्त्रम् । त्रिर्मन्त्रावृत्तिः । तण्डुलसम्पातानानीय रसैरुपसिच्याश्नाति ॥ चतुर्थी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका २१ ॥


पुनरनेकफलपुष्टिकर्माण्युच्यन्ते
[ऋधङ्मन्त्रः, तदिदास (५.१.२) इति मैश्रधान्यं भृष्टपिष्टं लोहितालङ्कृतं रसमिश्रमश्नाति ॥ कौशिकसूत्र ३,५{२२}.१ ॥]
अभ्यातानान्तं कृत्वाऽऋधङ्मन्त्रः,ऽऽतदिदासऽ इति सूक्ताभ्यां मैश्रधान्यं भृष्टपिष्टं सक्तुमजालोहितमिश्रं रसमिश्रितं च सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् ॥

[अभृष्टं प्लक्षोदुम्बरस्योत्तरतोऽग्नेस्त्रिषु चमसेषु पूर्वाह्णस्य तेजसाग्रमन्नस्य प्राशिषमिति पूर्वाह्णे ॥ कौशिकसूत्र ३,५{२२}.२ ॥
मध्यन्दिनस्य तेजसा मध्यमन्नस्य प्राशिषमिति मध्यन्दिने ॥ कौशिकसूत्र ३,५{२२}.३ ॥
अपराह्णस्य तेजसा सर्वमन्नस्य प्राशिषमित्यपराह्णे ॥ कौशिकसूत्र ३,५{२२}.४ ॥]
अभ्यातानान्तं कृत्वाऽऋधङ्मन्त्रःऽ,ऽतदिदासऽ इति सूक्ताभ्यामौदुम्बरचमसेषु त्रिषु मैश्रधान्यं प्रक्षिप्य रसांश्च सम्पात्याभिमन्त्र्याश्नाति मन्त्रेण त्रिकालं च ।ऽपूर्वाह्णस्य तेजसाऽ इत्यादयो मन्त्राः । प्रतिमन्त्रं भक्षणम् । प्लक्षचमसेषु वा । एकं चमसं पूर्वाह्णे । एकं मध्याह्ने । एकमपराह्णे । त्रिकालभेदाः । अभ्यातानाद्युत्तरतन्त्रम्.

[ऋतुमत्या स्त्रिया अङ्गुलिभ्यां लोहितम् ॥ कौशिकसूत्र ३,५{२२}.५ ॥]
तन्त्रं कृत्वाऽऋधङ्मन्त्रःऽ,ऽतदिदासऽ इति सूक्ताभ्यामृतुमत्याः स्त्रिया लोहितं रसमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याङ्गुलिभ्यां प्रदेशनीमध्यमाभ्यां प्राश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । पुष्ट्यर्थी ॥

क्षेत्रकामस्य कर्मोच्यते
[यत्क्षेत्रं कामयते तस्मिन् कीलालं दधिमधुमिश्रम् ॥ कौशिकसूत्र ३,५{२२}.६ ॥]
यत्क्षेत्रं कामयते तस्मिन् क्षेत्र इदं कर्म कुर्यात् । आज्यतन्त्रं बर्हिर्लवनाद्यभ्यातानान्तं कृत्वाऽऋधङ्मन्त्रःऽ,ऽतदिदासऽ इति सूक्ताभ्यां भक्तं दधिमधुमिश्रं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । समाप्तं क्षेत्रकामस्य कर्म ॥

[संवत्सरं स्त्रियमनुपेत्य शुक्त्यां रेत आनीय तण्डुलमिश्रं सप्तग्रामम् ॥ कौशिकसूत्र ३,५{२२}.७ ॥]
संवत्सरं ब्रह्मचर्यं कृत्वा ततो मैथुनं कृत्वा शुक्त्यां रेत आनीय तण्डुलमिश्रं कृत्वाऽऋधङ्मन्त्रःऽ,ऽतदिदासऽ इति सूक्ताभ्यां सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । पुष्टिकामः । इदं सप्तग्रामलाभकर्म कथ्यते ॥

[द्वादशीममावास्येति क्षीरभक्षो भवत्यमावास्यायां दधिमधुभक्षस्तस्य मूत्र उदकदधिमधुपल्पूलनान्यासिच्य ॥ कौशिकसूत्र ३,५{२२}.८ ॥
क्रव्यादं नाडी प्र विवेशाग्निं प्रजाभाङ्गिरतो माययैतौ । आवां देवी जुषाणे घृताची इममन्नाद्याय प्र विशतं स्वाहा इति ॥ कौशिकसूत्र ३,५{२२}.९ ॥]
द्वादशीममावास्येति क्षीरभक्षो भवति । अमावास्यायां दधिमधुभक्षः । प्रतिपद्यभ्यातानान्तं कृत्वाऽऋधङ्मन्त्रःऽ,ऽतदिदासऽ इति सूक्ताभ्यां तस्य मूत्र उदकदधिमधुगोमयं च एतान्येकीकृत्य सम्पात्याभिमन्त्र्याश्नातिऽक्रव्यादं नाडीऽ इत्यृचा । अभ्यातानाद्युत्तरतन्त्रम् । सप्तग्रामलाभकर्म समाप्तम् ॥

अथ समृद्धिकर्मोच्यते
निशायामाग्रयणतण्डुलानुदक्यान्मधुमिश्रान्निदधात्या यवानां पङ्क्तेः ॥ कौशिकसूत्र ३,५{२२}.१० ॥
एवं यवानुभयान् समोप्य ॥ कौशिकसूत्र ३,५{२२}.११ ॥
[त्रिवृति गोमयपरिचये शृतमश्नाति ॥ कौशिकसूत्र ३,५{२२}.१२ ॥
समृद्धमिति काङ्कायनः ॥ कौशिकसूत्र ३,५{२२}.१३ ॥]
तृतीयमाग्रयणं कृत्वाभ्यातानान्तं कृत्वाऽऋधङ्मन्त्रःऽ,ऽतदिदासऽ इति सूक्ताभ्यां व्रीहियवानेकत्र कृत्वा त्रिवृति गोमयपरिचये श्रपयित्वा सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । सर्वकामः । समृद्धिपुत्रपशुधनादि ॥

अथ समुद्रकर्मोच्यते
[ममाग्ने वर्चः (५.३) इति सात्त्रिकानग्नीन् दर्भपूतीकभाङ्गाभिः परिस्तीर्य गार्हपत्यशृतं सर्वेषु सम्पातवन्तं गार्हपत्यदेशेऽश्नाति ॥ कौशिकसूत्र ३,५{२२}.१४ ॥]
शत्रुदेशे गत्वा गार्हपत्यदक्षिणाग्न्याहवनीयेषु कर्म कुर्यात् । ततो गार्हपत्येऽभ्यातानान्तं कृत्वाऽममाग्ने वर्चःऽ इति सूक्तेन सारूपवत्समोदनं गार्हपत्यशृतं गार्हपत्ये प्रथमं सम्पात्य । ततो दक्षिणाग्नौ तन्त्रं कृत्वा पूतीकैः काशैः स्तरणम् । तमेव सारूपवत्सं सम्पात्य । तत आहवनीये तन्त्रं कृत्वा भाङ्गास्तरणम् । ततस्तमेव सारूपवत्सं सम्पात्य तेनैव सूक्तेन ततः पश्चात्सकृदभिमन्त्रणं कृत्वा तत अश्नाति । अशनं गार्हपत्यदेशे करोति । गार्हपत्यप्रभृत्युत्तरतन्त्रं कुर्यात् ॥

[एवं पूर्वस्मिन्नपरयोरुपसंहृत्य ॥ कौशिकसूत्र ३,५{२२}.१५ ॥]
व्रतग्रहणादि करोति । दक्षिणाग्न्याहवनीयगार्हपत्येषु यथाक्रमं व्रतग्रहणादि अभ्यातानान्तं कृत्वा सारूपवत्सस्य दक्षिणाग्नौ श्रपणं कृत्वाऽममाग्ने वर्चःऽ इति सूक्तेन सारूपवत्सं सम्पात्यादिषु यथाक्रमेण । ततो गार्हपत्यं दक्षिणाग्निं चैकत्र कृत्वा ततोऽभिमन्त्र्य दक्षिणाग्निदेश अश्नाति यथाक्रमेण । उत्तरतन्त्रम् । एवमाहवनीयगार्हपत्यदक्षिणाग्निषु व्रतोपायनाद्यभ्यातानान्तं कृत्वा सारूपवत्सस्याहवनीये श्रपणं कृत्वाऽममाग्ने वर्चःऽ इति सूक्तेनाहवनीयादि यथाक्रमेण । सारूपवत्सं सम्पात्य गार्हपत्याहवनीयमेकत्र कृत्वा ततोऽभिमन्त्र्याश्नाति । तत आहवनीयगार्हपत्यदक्षिणाग्निषु यथाक्रमेण । उत्तरतन्त्रम् । गार्हपत्यस्य दर्भैः स्तरणम् । दक्षिणाग्नेः पूतीकैः स्तरणम् । आहवनीयस्य भाङ्गाभिः स्तरणम् । स्तरणे विशेषः ॥

[एवं द्रोणकलशे रसानुक्तम् ॥ कौशिकसूत्र ३,५{२२}.१६ ॥]
गार्हपत्यदक्षिणाग्न्याहवनीयेषु यथाक्रमेण पुनरेव तन्त्रं कृत्वाऽममाग्नेः वर्चःऽ इति सूक्तेन द्रोणकलशे रसान् कृत्वा
ततः सम्पात्य यथाक्रमेण । अभिमन्त्रणं च सकृत्कुर्यात् । ततो रसान् प्राश्नाति गार्हपत्यादिक्रमेण । उत्तरतन्त्रम् । दर्भपूतीकभाङ्गाभिः परिस्तरणम् । गार्हपत्यादिषु यथाक्रमम् । समाप्तं समुद्रकर्म ॥ पञ्चमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका २२ ॥


अथ निवेशकर्मोच्यते
[यजूंषि यज्ञे (५.२६) इति नवशालायां सर्पिर्मधुमिश्रमश्नाति ॥ कौशिकसूत्र ३,६{२३}.१ ॥]
अग्निशालायां वा गोशालायां वा ग्रामे वा पुरे वान्यत्राभिनवे गृहे वा । पुष्टिकामोऽनुवर्तते । पाषाणमये वा काष्ठमये वा तृणमये वा इष्टकामये वा सर्वत्र नवे वासितं इदं कर्म । अभ्यातानान्तं कृत्वाऽयजूंषि यज्ञेऽ इति सूक्तान्तेन सकृद्घृतं मधुमिश्रं जुहोति ॥

[दोषो गाय (६.१) इति द्वितीयाम् ॥ कौशिकसूत्र ३,६{२३}.२ ॥]
ऽदोषो गायऽ इति सूक्तेन द्वितीयामाहुतिं जुहोति ॥

[युक्ताभ्यां तृतीयाम् ॥ कौशिकसूत्र ३,६{२३}.३ ॥]
ऽयजूंषि यज्ञेऽ,ऽदोषो गायऽ इति सूक्ताभ्यां तृतीयामाहुतिं जुहोति ॥

[आनुमतीं चतुर्थीम् ॥ कौशिकसूत्र ३,६{२३}.४ ॥]
ऽअनुमतिः सर्वम्ऽ (७.२०.६) इत्यृचा चतुर्थीमाहुतिं जुहोति ॥

[शालामङ्गुलिभ्यां सम्प्रोक्ष्य गृहपत्न्यासाद उपविश्योदपात्रं निनयति ॥ कौशिकसूत्र ३,६{२३}.५ ॥]
ततः शालामङ्गुलिभ्यां सम्प्रोक्ष्य तूष्णीं गृहपत्न्यासाद उपविश्य उदपात्रं निनयति तूष्णीम् ॥

[इहैव स्त (७.६०.७) इति वाचं विसृजते ॥ कौशिकसूत्र ३,६{२३}.६ ॥]
आदौ वाग्यमनं कृतम् ।ऽइहैव स्तऽ इति वाग्विसर्गः । तत उत्तरतन्त्रम् । नवशालायां पुष्टिकामः करोति । गृहप्रवेशे च नित्यम् ॥

[ऊर्ध्वा अस्य (५.२७) इति वार्ष्मणमौदुम्बरं मन्थप्रतिरूपमभिजुहोति ॥ कौशिकसूत्र ३,६{२३}.७ ॥]
अभ्यातानान्तं कृत्वाऽऊर्ध्वा अस्यऽ इति सूक्तेनाग्नौ औदुम्बरं दत्त्वाज्यं जुहोति । धूमं नियच्छति । लेपं प्राश्नीयात् । अभ्यातानाद्युत्तरतन्त्रम् । पुष्टिकामाधिकारोऽनुवर्तते ॥

[असङ्ख्याता अधिशृत्य सप्तागमशष्कुलीः ॥ कौशिकसूत्र ३,६{२३}.८ ॥]
अभ्यातानान्तं कृत्वासङ्ख्याता आगमशष्कुलीरधिशृत्यऽऊर्ध्वा अस्यऽ इति सूक्तेन सप्त शष्कुलीरग्नौ दत्त्वाज्यं जुहोति । तत उत्तरतन्त्रम् । शेषाः शष्कुलीः कर्त्रे ददाति । पुष्टिकामः ॥

दायादेषु विभागकर्म वक्ष्यामः
[त्वष्टा मे (६.४) इति प्रातर्विभुङ्क्ष्यमाणोऽश्नाति ॥ कौशिकसूत्र ३,६{२३}.९ ॥]
अभ्यातानान्तं कृत्वाऽत्वष्टा मे दैव्यं वचःऽ इति सूक्तेन सारूपवत्सं श्रपयित्वा सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[ज्यायुं बध्नाति ॥ कौशिकसूत्र ३,६{२३}.१० ॥]
अभ्यातानान्तं कृत्वाऽत्वष्टा मे दैव्यम्ऽ इति सूक्तेन धनुर्ज्यां सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । समाप्तानि विभागशान्तिकर्माणि दायादविभागानाम् ॥

[दण्डं सम्पातवन्तं विमृज्य धारयति ॥ कौशिकसूत्र ३,६{२३}.११ ॥]
अभ्यातानान्तं कृत्वाऽत्वष्टा मेऽ इति सूक्तेन दण्डं सम्पात्याभिमन्त्र्य विमृज्य ततो धारयति । ध्वजदण्डं चित्रं धनुर्दण्डं शैलकुन्तदण्डं राजदण्डं वेण्वादि । पुष्ट्यर्थी ॥

अथ चित्राकर्म चित्रानक्षत्रे उच्यते
[वायुरेनाः (६.१४) इति युक्तयोश्चित्राकर्मनिशायां सम्भारान् सम्पातवतः करोति ॥ कौशिकसूत्र ३,६{२३}.१२ ॥]
ऽपूर्वाह्णे यज्ञोपवीती शालानिवेशनं समूहयत्युपवत्स्यद्भक्तमशित्वा स्नातोऽहतवसनः प्रयुङ्क्तेऽ, (Kऔश्ष्८.१) । रात्रौ अभ्यातानान्तं कृत्वाऽत्वष्टा मेऽऽवायुरेनाःऽ इति सूक्ताभ्यां सम्भारान् सम्पातयति । वृक्षशाखा उदकं औदुम्बरशकलं ताम्रछुरिका एतेषु प्रतिद्रव्यं सूक्तावृत्तिः । अभ्यातानाद्युत्तरतन्त्रम् ॥

[अपरेद्युः वायुरेनाः इति शाखयोदकधारया गाः परिक्रामति ॥ कौशिकसूत्र ३,६{२३}.१३ ॥]
ततः प्रभाते इदं कर्म क्रियते ।ऽवायुरेनाःऽ इत्यृचा शाखयोदकधारया गाः परिक्रामति ॥

[प्रथमजस्य शकलमवधायौदुम्बरेणासिना लोहितेन (६.१४१.२) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ३,६{२३}.१४ ॥]
प्रथमजस्येक्षुकाशकाण्ड्याः शकलमवधायौदुम्बरेणासिनाऽलोहितेनऽ इति मन्त्रेण वत्सकर्णं छिन्नति ॥

[यथा चक्रुः (६.१४१.३) इतीक्षुकाशकाण्ड्या लोहितं निर्मृज्य रसमिश्रमश्नाति ॥ कौशिकसूत्र ३,६{२३}.१५ ॥
सर्वमौदुम्बरम् ॥ कौशिकसूत्र ३,६{२३}.१६ ॥]
अभ्यातानान्तं कृत्वाऽयथा चक्रुःऽ इत्यृचा इक्षुकाशकाण्ड्या कर्णलोहितं रसमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याश्नाति पुष्टिकामः । अभ्यातानाद्युत्तरतन्त्रम् ॥

अथ कृषिकर्मोच्यते
[यस्येदमा रजः (६.३३) इत्यायोजनानामप्ययः ॥ कौशिकसूत्र ३,६{२३}.१७ ॥]
ऽयस्येदमा रजो युजःऽ इति सूक्तेनोक्तंऽसीरा युञ्जन्तिऽ (३.१७) इतिवत्कृषिकर्म करोति । पुष्टिकर्मणामुपधानोपस्थानं करोति ॥ षष्ठी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका २३ ॥


बीजवापनकर्म करोति
[उच्छ्रयस्व (६.१४२) इति बीजोपहरणम् ॥ कौशिकसूत्र ३,७{२४}.१ ॥
आज्यमिश्रान् यवानुर्वरायां कृष्टे फालेनोदुह्यान्वृचं काशीन्निनयति निवपति ॥ कौशिकसूत्र ३,७{२४}.२ ॥]
ऽउच्छ्रयस्वऽ इति सूक्तेन यवव्रीह्यादिबीजमासाद्याज्यमिश्रमभिमन्त्र्य कृष्टे वा क्षेत्रे निवपति त्रीन्मुष्टीन् बीजस्य । ततः पांशुभिराच्छादयति । समाप्तं बीजक्षेत्रवापनकर्म ॥

[अभि त्यम् (७.१४) इति महावकाशेऽरण्य उन्नते विमिते प्राग्द्वारप्रत्यग्द्वारेष्वप्सु सम्पातानानयति ॥ कौशिकसूत्र ३,७{२४}.३ ॥
कृष्णाजिने सोमांशून् विचिनोति ॥ कौशिकसूत्र ३,७{२४}.४ ॥]
उच्चस्थाने गत्वा ततोऽभ्यातानान्तं कृत्वाऽअभि त्यम्ऽ इति चतुरृचेन सूक्तेनोदपात्रं सम्पात्य कृष्णाजिने सोमं विचिनोति ॥

[सोममिश्रेण सम्पातवन्तमश्नाति ॥ कौशिकसूत्र ३,७{२४}.५ ॥]
तदुदपात्रं सोमरसमिश्रं सारूपवत्समोदनं श्रपयित्वा सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । प्राग्द्वारप्रत्यग्द्वारे मण्डप एतत्कर्म ॥

[आदीप्ते सम्पन्नम् ॥ कौशिकसूत्र ३,७{२४}.६ ॥]
पश्चान्मण्डपमग्निना दहति ॥

[तां सवितः (७.१५.१) इति गृष्टिदाम बध्नाति ॥ कौशिकसूत्र ३,७{२४}.७ ॥]
अभ्यातानान्तं कृत्वाऽतां सवितःऽ इत्यृचा । एकवारप्रसूता गौः गृष्टिः । गोदाममणिं सम्पात्याभिमन्त्र्य बध्नाति पुष्ट्यर्थी । अभ्यातानाद्युत्तरतन्त्रम् ॥

[सं मा सिञ्चन्तु (७.३३.१) इति सर्वोदके मैश्रधान्यम् ॥ कौशिकसूत्र ३,७{२४}.८ ॥]
अभ्यातानान्तं कृत्वाऽसं मा सिञ्चन्तुऽ इत्यृचा ग्रामस्य सर्वोदके मैश्रधान्यं प्रक्षिप्य सम्पात्याभिमन्त्र्याश्नाति । ततो हविरुद्वासनान्तं तन्त्रम् । पुष्ट्यर्थी ॥

[दिव्यं सुपर्णम् (७.३९.१) इत्यृषभदण्डिनो वपयेन्द्रं यजते ॥ कौशिकसूत्र ३,७{२४}.९ ॥
अनुबद्धशिरःपादेन गोशालां चर्मणावच्छाद्यावदानकृतं ब्राह्मणान् भोजयति ॥ कौशिकसूत्र ३,७{२४}.१० ॥]
ऽदिव्यं सुपर्णम्ऽ इत्यृचा ऋषभस्य वपयेन्द्रं यजते वशाविधानेन ॥

अथ प्रवत्स्यत एकाग्निकस्येदं कर्म कथ्यते
[इहैव स्त (७.६०.७) इति प्रवत्स्यन्नवेक्षते ॥ कौशिकसूत्र ३,७{२४}.१६ ॥
सूयवसाद्(७.७३.११) इति सूयवसे पशून्निष्ठापयति ॥ कौशिकसूत्र ३,७{२४}.१७ ॥]
ऽइहैव स्तऽ इत्यृचा गृहं मानुषांश्चावेक्षते ।ऽसूयवसाद्ऽ इत्यृचा पशूनभिमन्त्रयते । समाप्तं प्रवेशे याजमानम् ॥

यदा आगच्छति तदेदं कर्मोच्यते
[प्रोष्य समिध आदाय ऊर्जं बिभ्रत्(७.६०) इति गृहसङ्काशे जपति ॥ कौशिकसूत्र ३,७{२४}.११ ॥]
मौनं कृत्वा समिध आदाय गृहं दृष्ट्वाऽऊर्जं बिभ्रत्ऽ इति षडर्चं सूक्तं जपति ॥

[सव्येन समिधो दक्षिणेन शालावलीकं संस्तभ्य जपति ॥ कौशिकसूत्र ३,७{२४}.१२ ॥]
वामेन हस्तेन समिधः कृत्वा दक्षिणेन शालावलीकं संस्तभ्य जपतिऽऊर्जं बिभ्रत्ऽ इति ॥

[अतिव्रज्य समिध आधाय सुमङ्गलि प्रजावति सुसीमेऽहं वां गृहपतिर्जीव्यासमिति स्थूणे गृह्णात्युपतिष्ठते ॥ कौशिकसूत्र ३,७{२४}.१३ ॥]
ततःऽऊर्जं बिभ्रत्ऽ इति सूक्तेन समिध आदधाति अग्नौ ।ऽसुमङ्गलि प्रजावतिऽ कल्पजेन स्थूणे गृह्णात्युपतिष्ठते ॥

[यद्वदामि (१२.१.५८) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ३,७{२४}.१४ ॥]
ऽयद्वदामिऽ इत्यृचा वाग्विसर्गं करोति ॥

[गृहपत्न्यासाद उपविश्य उदपात्रं निनयति ॥ कौशिकसूत्र ३,७{२४}.१५ ॥]
तूष्णीम् । समाप्तमागमनकर्म । पुष्ट्यर्थी ॥

[दूर्वाग्रैरञ्जलावप आनीय दर्शं दार्शीभिरुपतिष्ठते ॥ कौशिकसूत्र ३,७{२४}.१८ ॥]
दूर्वाग्राण्यञ्जुलिकायां कृत्वाऽपूर्वापरम्ऽ (७.८१) इति षडर्चं सूक्तं जपत्यमावास्यायाम् । केचित्चन्द्रमसं दृष्ट्वा जपं कुर्वन्ति । पुष्टिकामः ॥

अथ वृषोत्सर्गविधिं वक्ष्यामः
[इन्द्रस्य कुक्षिः (७.१११.१) साहस्रः (९.४) इत्यृषभं सम्पातवन्तमतिसृजति ॥ कौशिकसूत्र ३,७{२४}.१९ ॥
रेतोधायै त्वातिसृजामि वयोधायै त्वातिसृजामि यूथत्वायै त्वातिसृजामि गणत्वायै त्वातिसृजामि सहस्रपोषायै त्वातिसृजाम्यपरिमितपोषायै त्वातिसृजामि ॥ कौशिकसूत्र ३,७{२४}.२० ॥
एतं वो युवानम् (९.४.२४) इति पुराणं प्रवृत्य नवमुत्सृजते सम्प्रोक्षति ॥ कौशिकसूत्र ३,७{२४}.२१ ॥]
अभ्यातानान्तं कृत्वाऽइन्द्रस्य कुक्षिःऽ इत्यृचा ऋषभं सम्पात्य विवाहवतग्निपरिणयनं कृत्वा सह वत्सतरीभिर्विसर्जयति ।ऽरेतोधायैऽ इति षट् ।ऽएतं वो युवानम्ऽ इत्यृचाभिमन्त्रणम् । ततः प्रोक्षणम् । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽसाहस्रःऽ इत्यर्थसूक्तेन वृषभं सम्पात्य विवाहवत्सर्वं कृत्वा विसर्जयति ।ऽरेतोधायैऽ इत्येतैः ।ऽएतं वो युवानम्ऽ इत्यृचाभिमन्त्रणं वत्सस्य । अभ्यातानाद्युत्तरतन्त्रम् । यदा एकादशाहे वृषोत्सर्गं करोति तदा शान्त्युदकं कृत्वा ततो वृषोत्सर्गं करोति । वृषोत्सर्गः समाप्तः । वृषभपुच्छं गृहीत्वाऽदेवपितृऋषिभ्योऽहं ददे ऋषभम्ऽ उच्चारयति ॥

अथ पुनः पुष्टिकर्माण्युच्यते
[उत्तरेण पुष्टिकाम ऋषभेणेन्द्रं यजते ॥ कौशिकसूत्र ३,७{२४}.२२ ॥]
ऽसाहस्रस्त्वेषःऽ इत्यर्थसूक्तेन ऋषभेणेन्द्रं यजते वशाविधानेन । पुष्टिकामः ॥

[सम्पत्कामः श्वेतेन पौर्णमास्याम् ॥ कौशिकसूत्र ३,७{२४}.२३ ॥]
ऽसाहस्रःऽ इत्यर्थसूक्तेन श्वेतेन ऋषभेणेन्द्रं यजते वशाविधानेन । सम्पत्कामः ॥

अथाग्रहायणीकर्म उच्यते
[सत्यं बृहद्(१२.१) इत्याग्रहायण्याम् ॥ कौशिकसूत्र ३,७{२४}.२४ ॥]
रात्रौ अभ्यातानान्तं कृत्वा त्रयश्चरवः श्रपयितव्याःऽसत्यं बृहत्ऽ इत्यनुवाकेन ॥

[पश्चादग्नेर्दर्भेषु खदायां सर्वहुतम् ॥ कौशिकसूत्र ३,७{२४}.२५ ॥]
पश्चादग्नेर्दर्भेषु खदायां भूमावेकं चरुं सकृत्सर्वहुतं जुहोति ॥

[द्वितीयं सम्पातवन्तमश्नाति ॥ कौशिकसूत्र ३,७{२४}.२६ ॥]
द्वितीयं चरुमनुवाकेन सम्पात्याभिमन्त्र्याश्नाति ॥

[तृतीयस्यादितः सप्तभिः भूमे मातः (१२.१.६३) इति त्रिर्जुहोति ॥ कौशिकसूत्र ३,७{२४}.२७ ॥]
तृतीयं चरुंऽसत्यं बृहद्ऽ (१२.१.१७) इति सप्तऽभूमे मातःऽ इत्यृचा जुहोति । त्रिर्मन्त्रावृत्तिः ॥

पश्चादग्नेर्दर्भेषु कशिप्वास्तीर्य विमृग्वरीम् (१२.१.२९) इत्युपविशति ॥ कौशिकसूत्र ३,७{२४}.२८ ॥
[यास्ते शिवाः (९.२.२५) इति संविशति ॥ कौशिकसूत्र ३,७{२४}.२९ ॥]
ऽयास्ते शिवाःऽ इत्यृचा संविशति ॥

[यच्छयानः (१२.१.३४) इति पर्यावर्तते ॥ कौशिकसूत्र ३,७{२४}.३० ॥]
ऽयच्छयानःऽ इत्यृचा पर्यावर्तते ॥

[नवभिः शन्तिवा (१२.१.५९) इति दशम्या उदायुषा (३.३१.१०११) इत्युपोत्तिष्ठति ॥ कौशिकसूत्र ३,७{२४}.३१ ॥]
प्रातरुतिष्ठतिऽसत्यं बृहत्ऽ (१२.१.१९) इति नवभिःऽशन्तिवाऽ इति दशम्या,ऽउदायुषाऽ इति द्वाभ्याम् ॥

उद्वयम् (७.५३.७) इत्युत्क्रामति ॥ कौशिकसूत्र ३,७{२४}.३२ ॥
[उदीराणाः (७.१.२८) इति त्रीणि पदानि प्राङ्वोदङ्वा बाह्येनोपनिष्क्रम्य यावत्ते (१२.१.३३) इति वीक्षते ॥ कौशिकसूत्र ३,७{२४}.३३ ॥]
ऽउदीराणाःऽ इत्यृचा त्रीणि पदानि निष्क्रामति प्राग्वोदग्वा । बाह्येनोपनिष्क्रम्यऽयावत्तेऽ इत्यृचादित्यमीक्षते । नित्यं काम्यं च
भवति ॥

[उन्नताच्च ॥ कौशिकसूत्र ३,७{२४}.३४ ॥]
उन्नतमारुह्यऽयावत्तेऽ इत्यृचा वीक्षते । पुष्टिकामः । तत उत्तरतन्त्रम् । आग्रहायणीकर्म समाप्तम् ॥

[पुरस्तादग्नेः सीरं युक्तमुदपात्रेण सम्पातवतावसिञ्चति ॥ कौशिकसूत्र ३,७{२४}.३५ ॥]
तन्त्रं कृत्वाऽसत्यं बृहत्ऽ इत्यनुवाकेनोदपात्रं सम्पात्य पुरस्तादग्नेः सीरं युक्तं सम्प्रोक्षति । तत उत्तरतन्त्रम् ॥

[आयोजनानामप्ययः ॥ कौशिकसूत्र ३,७{२४}.३६ ॥]
ऽसत्यं बृहत्ऽ इत्यनुवाकेन कृषिकर्म ।ऽसीरा युञ्जन्तिऽ वत्कर्म भवति ॥

[यस्यां सदोहविर्धाने (१२.१.३८४०) इति जुहोति वरो म आगमिष्यति इति ॥ कौशिकसूत्र ३,७{२४}.३७ ॥]
अभ्यातानान्तं कृत्वाऽयस्यां सदोहविर्धानेऽ इति तिसृभिराज्यं जुहोति । उत्तरतन्त्रम् ।ऽवरो म आगमिष्यतिऽ इति वरस्य । प्रार्थितोऽभिलाषः । उत्कृष्टपुत्रधनादिसर्वफलकामः ॥

[यस्यामन्नम् (१२.१.४२) इत्युपतिष्ठते ॥ कौशिकसूत्र ३,७{२४}.३८ ॥]
ऽयस्यामन्नम्ऽ इत्यृचोपतिष्ठते पृथिवीं पुष्टिकामः । व्रीहियवाद्यन्नम् ॥

[निधिं बिभ्रति (१२.१.४४) इति मणिहिरण्यकामः ॥ कौशिकसूत्र ३,७{२४}.३९ ॥
एवं वित्त्वा ॥ कौशिकसूत्र ३,७{२४}.४० ॥]
ऽनिधिं बिभ्रतिऽ इति द्वाभ्यामुपतिष्ठते पृथिवीं मणिहिरण्यद्रवनिधिरत्नकामः ॥

[यस्यां कृष्णम् (१२.१.५२) इति वार्षकृतस्याचामति शिरस्यानयते ॥ कौशिकसूत्र ३,७{२४}.४१ ॥]
वृष्टिकालेऽयस्यां कृष्णम्ऽ इत्यृचा नवोदकमभिमन्त्र्याचमनं करोति पुष्टिकामः ।ऽयस्यां कृष्णम्ऽ इत्यृचा नवोदकमभिमन्त्र्य स्नानं करोति पुष्टिकामः । नवोदकस्य कर्म समाप्तम् ॥

[यं त्वा पृषती रथः (१३.१.२१२४) इति द्यौः पृषत्यादित्यो रोहितः ॥ कौशिकसूत्र ३,७{२४}.४२ ॥
पृषतीं गां ददाति ॥ कौशिकसूत्र ३,७{२४}.४३ ॥]
ऽयं त्वा पृषती रथःऽ इति चतुर्भिः रक्तवर्णां गामभिमन्त्र्य ब्राह्मणाय ददाति पुष्टिकामः ॥

[पृषत्या क्षीरौदनं सर्वहुतम् ॥ कौशिकसूत्र ३,७{२४}.४४ ॥]
तन्त्रं कृत्वाऽयं त्वा पृषती रथःऽ इति चतुर्भिः रक्तवर्णायाः गोः क्षीरौदनं श्रपयित्वा सर्वहुतं जुहोति । तत उत्तरतन्त्रम् । पुष्टिकामः ॥

पुष्टिकर्मणामुपधानोपस्थानम् ॥ कौशिकसूत्र ३,७{२४}.४५ ॥
सर्वे मन्त्राः पुष्टिकर्मसु पठिताः तृतीयेऽध्याये । तेषामुपधानमुपस्थानं भवति सर्वेषां सूक्तानां येत्रिषप्तादीनाम् ॥

[सलिलैः सर्वकामः सलिलैः सर्वकामः ॥ कौशिकसूत्र ३,७{२४}.४६ ॥]
सलिलगणः (Kऔश्ष्१८.२५) ।ऽब्रह्म जज्ञानम्ऽ,ऽअम्बयो यन्तिऽ गणः (Kऔश्ष्१९.१) ।ऽसं सं स्रवन्तुऽ (Kऔश्ष्१९.४)ऽशेरभकऽ (Kऔश्ष्१९.९) ।ऽएह यन्तुऽ गणः (Kऔश्ष्१९.१४) ।ऽआयमगन्ऽ,ऽअयं प्रतिसरःऽ,ऽअयं मे वरणःऽ,ऽअरातीयोःऽ इति (Kऔश्ष्१९.२२) ।ऽउत्तमो असिऽ (Kऔश्ष्१९.२६) ।ऽअक्षितास्तेऽ (Kऔश्ष्१९.२७) ।ऽप्रथमा ह व्युवासऽ (Kऔश्ष्१९.२८) ।ऽसीरा युञ्जन्तिऽ (Kऔश्ष्२०.१) ।ऽपयस्वतीःऽ (Kऔश्ष्२१.१६) ।ऽअयं नो नभसःऽ (Kऔश्ष्२१.७) ।ऽआ गावःऽ (Kऔश्ष्२१.८) ।ऽप्रजावतीःऽ (Kऔश्ष्२१.१०) ।ऽसूर्यस्य रश्मीन्ऽ (Kऔश्ष्२१.११) ।ऽयस्ते शोकायऽ (Kऔश्ष्२१.१२) ।ऽऋधङ्मन्त्रःऽ,ऽतदिदासऽ इति (Kऔश्ष्२२.१) ।
ऽममाग्ने वर्चःऽ (Kऔश्ष्२२.१४) ।ऽयजूंषि यज्ञेऽ (Kऔश्ष्२३.१) ।ऽऊर्ध्वा अस्यऽ (Kऔश्ष्२३.७) ।ऽत्वष्टा मेऽ (Kऔश्ष्२३.९) ।ऽवायुरेनाःऽ (Kऔश्ष्२३.१२) ।ऽयस्येदमा रजःऽ (Kऔश्ष्२३.१७) ।ऽउच्छ्रयस्वऽ (Kऔश्ष्२४.१) ।ऽअभि त्यम्ऽ (Kऔश्ष्२४.३) ।ऽतां सवितुःऽ (Kऔश्ष्२४.७) ।ऽदिव्यं सुपर्णम्ऽ (Kऔश्ष्२४.९) ।ऽऊर्जं बिभ्रत्ऽ (Kऔश्ष्२४.११) ।ऽइन्द्रस्य कुक्षिःऽ,ऽसाहस्रःऽ (Kऔश्ष्२४.१९) ।ऽसत्यं बृहत्ऽ (Kऔश्ष्२४.२४) ।ऽयास्ते शिवाःऽ (Kऔश्ष्२४.२९) ।ऽयस्यां सदःऽ (Kऔश्ष्२४.३७) ।ऽयं त्वा पृषतीःऽ (Kऔश्ष्२४.४२) इत्येते मन्त्राः पुष्टिकर्ममध्ये पठिताः । एते मन्त्राः पौष्टिकाः । पौष्टिकानां सर्वेषां मन्त्राणां हविरुपधानमुपस्थानं वा करोति विकल्पेन पुष्टिकर्मणामुपधानोपस्थानम् (Kऔश्ष्२४.४५) इति वचनात् । पुष्टिकर्मणामुपधानमुपस्थानं वा करोति पुष्टिकामः । उपदधीतेत्यनादेशे आज्यं समित्पुरोडाशपयओदनपायसपशुव्रीहियवतिलाः धानाः करम्भशष्कुल्यः एतानि हवींषि जानीयात् । यत्र यत्र होमः कर्तव्यस्तत्र तत्र सर्वत्रोपधानं पौष्टिकानां मन्त्राणां कर्तव्यम् । उपस्थानं वा । गृहे बहिर्वा वृक्षार्थं पुरुषार्थं पश्वर्थं हस्त्यर्थमश्वार्थं गोअर्थं महिष्यर्थमजाविकादिगृहपशुधनधान्यमृगार्थम् । ग्रामे नगरे क्षेत्रे बहिर्वा । यत्र नित्यनैमित्तिककाम्यहोमस्तत्र सर्वत्र पौष्टिकहोमः कार्यः । नास्ति सङ्ख्याजातिनियमः पुष्टिकर्मणाम् । यत्रान्यप्रयोजनार्थं होमः न तत्र पौष्टिकहोमः कार्यः । सर्वत्र पुष्ट्यर्थप्रयोजनम्.

यत्रयत्र च सङ्कीर्णमात्मानं मन्यते द्विजः.
तत्रतत्र तिलैर्होमो नैरृतिर्न विधीयते ॥

न तत्र निरृतिकर्म कुर्यादित्यर्थः । पुष्टिकर्मणामुपधानोपस्थानमित्यर्थः । सलिलैः सर्वकामः । आज्यादि जुहोति सलिलगणेन । तन्त्रं यथासम्भवं योज्यम् । सर्वफलकाम इत्यर्थः । सलिलगणेनोपधानं वा कुर्यात् । उपस्थानं वा कुर्यात्सर्वकामः । पुष्टिशब्देन द्रव्यादिलाभो द्रव्यादिवृद्धिश्च पुष्टिशब्देनोच्यते । शरीरपुष्टिश्च धनादिपुष्टिश्च भवति आयुःपुष्टिश्च । अथ सलिलगण उच्यते ऽआपो हि ष्ठाःऽ,ऽशन्नो देवीःऽ,ऽब्रह्म जज्ञानम्ऽऽअनाप्ता येऽ,ऽसहस्रधार एवऽ (५.६.१३),ऽअस्य वामस्यऽ,ऽयो रोहितो वृषभऽ द्व्यर्चं,ऽउदस्य केतवःऽ,ऽमूर्धाहम्ऽ,ऽविषासहिम्ऽ इति सलिलगणः । अस्य गणस्य वा उपधानं आज्यादि वा करोति अथवा उपस्थानम् । पुत्रपशुधनधान्यरत्नगृहपदातिअश्वहस्तिगोमहिषी अविवस्त्रजातद्रव्यादिहिरण्यभोजनआरामदेवपूजादिउच्चाटनवशीकरणस्तम्भनजम्भनादि सर्वं सलिलगणेन सिध्यति । उपधानोपस्थानं करोति सर्वफलकामः पुत्रपशुधान्यादिसर्वकामः । समाप्तानि पौष्टिकानि । तत्र श्लोकः

पूर्वं निरृतिकर्माणि सर्वपापापनुत्तये.
पौष्टिकानि ततः पश्चात्तृतीये संहिताविधौ ॥
सप्तमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका २४ ॥


इति कौशिकपद्धतौ तृतीयोऽध्यायः समाप्तः ॥


अथ चतुर्थोऽध्यायः
[भैषज्यकर्माणि]

अथ भैषज्यानि ॥ कौशिकसूत्र ४,१{२५}.१ ॥
लिङ्ग्युपतापो भैषज्यम् ॥ कौशिकसूत्र ४,१{२५}.२ ॥
वचनादन्यत् ॥ कौशिकसूत्र ४,१{२५}.३ ॥
इति । भेषजशान्तिर्भैषज्यशब्देनोच्यते । तत्र द्विविधा व्याधयः आहारनिमित्ता अन्यजन्मपापनिमित्ताश्च । तत्र आहारनिमित्तेषु चरकबाहडसुश्रुतप्रणीतेषु औषधेषु व्याध्युपशमनं भवति । अशुभनिमित्तेषु अथर्ववेदविहितेषु शान्तिकेषु व्याध्युपशमनं भवति । तथा चाग्रे वक्ष्यतिअनूक्तान्यप्रतिषिद्धानि भपज्यानाम् । अंहोलिङ्गाभिः । सर्वाणि कर्तव्यानि । उक्तान्यनुक्तानि च कर्तव्यानि । बन्धनपायनाचमनादीनि च कार्याणि ॥

भैषज्यकर्मणां विधिं वक्ष्यामः
[पूर्वस्योदपात्रेण सम्पातवताङ्क्ते ॥ कौशिकसूत्र ४,१{२५}.४ ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ (१.१) इति सूक्तेन उदपात्रं सम्पात्य व्याधितस्य शरीरं सम्मार्ष्टि । अभ्यातानाद्युत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् ॥

[वलीर्विमार्ष्टि ॥ कौशिकसूत्र ४,१{२५}.५ ॥]
अभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेनोदपात्रं सम्पात्य मुखवलीर्विमार्ष्ट्यङ्गवलीश्च । तत उत्तरतन्त्रम् । तरुणस्य यदि वलयस्तदा एतत्कर्म । सर्वव्याधिभैषज्यं समाप्तम् ॥

अथ ज्वरातिसारभैषज्यान्युच्यन्ते
[विद्मा शरस्य (१.२) अदो यद्(२.३) इति मुञ्जशिरो रज्ज्वा बध्नाति ॥ कौशिकसूत्र ४,१{२५}.६ ॥]
अभ्यातानान्तं कृत्वाऽविद्मा शरस्यऽ इति सूक्तेन मुञ्जपुष्पमणिं मुञ्जरज्ज्वा बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । ज्वरभैषज्यं अतिसारे च अतिमूत्रे च । आज्यतन्त्रं कृत्वाऽअदो यदवधावतिऽ इति सूक्तेन मुञ्जशिरो रज्ज्वा बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अतिसारे अतिमूत्रे च भैषज्यम् ॥

[आकृतिलोष्टवल्मीकौ परिलिख्य पाययति ॥ कौशिकसूत्र ४,१{२५}.७ ॥]
ऽविद्मा शरस्यऽ इति प्रथमसूक्तेन क्षेत्रमृत्तिकामभिमन्त्र्य पाययति । अतिसारे अतिमूत्रे च भैषज्यम् ।ऽअदो यद्ऽ इति सूक्तेन आकृतिलोष्टमभिमन्त्र्य पाययति । अतिसारे अतिमूत्रे च ।ऽविद्मा शरस्यऽ इति प्रथमेन वल्मीकमृत्तिकामभिमन्त्र्य पाययति । अतिसारे अतिमूत्रे च ।ऽअदो यद्ऽ इति सूक्तेन वल्मीकमृत्तिकामभिमन्त्र्य पाययति । अतिसारे अतिमूत्रे च ॥

[सर्पिषालिम्पति ॥ कौशिकसूत्र ४,१{२५}.८ ॥]
ऽविद्मा शरस्यऽ इति प्रथमेन घृतमन्त्र्यापानं म्रक्षति । अतिसारे भैषज्यम् ।ऽअदो यद्ऽ इति सूक्तेन घृतमभिमन्त्र्यापानं वा प्रलिम्पति । अतिसारे च ॥

[अपिधमति ॥ कौशिकसूत्र ४,१{२५}.९ ॥]
ऽविद्मा शरस्यऽ इति चर्मखल्वामुखमभिमन्त्र्य व्रणमुखं धमति । अतिसारे भैषज्यम् ।ऽअदो यद्ऽ इति सूक्तेन मुखेन खल्वा वाभिमन्त्र्यापानं शिश्नं वा नाडीं वा व्रणमुखं धमति । समाप्तानि ज्वरातिसार अतिमूत्र अङ्गनाडीप्रवाहे च भैषज्यानि ॥

अतिदुःखमूत्रे दुःखपुरीषकरणे शमनभैषज्यान्युच्यन्ते
[विद्मा शरस्य (१.३) इति प्रमेहणं बध्नाति ॥ कौशिकसूत्र ४,१{२५}.१० ॥]
अभ्यातानान्तं कृत्वाऽविद्मा शरस्यऽ इति द्वितीयेन हरीतकीं कर्पुरं वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । मूत्रनिरोधे पुरीषस्य च ॥
[आखुकिरिपूतीकमथितजरत्प्रमन्दसाव्रस्कान् पाययति ॥ कौशिकसूत्र ४,१{२५}.११ ॥]
ऽविद्मा शरस्यऽ इति द्वितीयेन मूषकमृत्तिकामभिमन्त्र्य पाययति ।ऽविद्मा शरस्यऽ इति द्वितीयेन तल्लग्नं लण्डिकातृणमभिमन्त्र्य पाययति ।ऽविद्मा शरस्यऽ इति द्वितीयेन दधिमथितं पाययति । मूत्रपुरीषप्रतिबन्धे भैषज्यम् ।ऽविद्मा शरस्यऽ इति द्वितीयेन जरदिन्दुकमभिमन्त्र्य पिष्ट्वा पाययति । मूत्रादिनिरोधे ।ऽविद्मा शरस्यऽ इति द्वितीयेन सूक्तेन काष्ठतक्षणान्युदके कृत्वाभिमन्त्र्य पाययति । मूत्रपुरीषप्रतिबन्धे ॥

[उत्तमाभ्यामास्थापयति ॥ कौशिकसूत्र ४,१{२५}.१२ ॥]
ऽविषितं ते वस्तिबिलम्ऽ (१.३.८९) इति द्वाभ्यामृग्भ्यां मूषकमृत्तिकोपर्युपवेश्याभिमन्त्रयते मूत्रप्रतिबन्धे ।ऽविषितं ते वस्तिबिलम्ऽ इति द्वाभ्यामृग्भ्यां पूतीकतृणोपर्युपवेश्याभिमन्त्रयते । मूत्रप्रतिबन्धे ।ऽविषितं ते वस्तिबिलम्ऽ इति द्वाभ्यां दधिमथितोपर्युपवेश्य ततोऽभिमन्त्रयते ।ऽविषितं ते वस्तिबिलम्ऽ इति द्वाभ्यां जरत्प्रमन्दस्योपर्युपवेश्याभिमन्त्रयते मूत्रप्रतिबन्धे.ऽविषितं ते वस्तिबिलम्ऽ इत्यृग्भ्यां दारुतक्षशकलानामुपर्युपवेश्य व्याधितमभिमन्त्रयते मूत्रप्रतिबन्धे ।ऽमूत्रं मुच्यताम्ऽ (१.३.८) इति लिङ्गात् ॥

[यानमारोहयति ॥ कौशिकसूत्र ४,१{२५}.१३ ॥]
अभ्यातानान्तं कृत्वाऽविद्मा शरस्यऽ इति द्वितीयेन हस्त्यादियानं सम्पात्याभिमन्त्र्य ततो व्याधितमारोहयति । ततो धावति वेगेन मूत्रमोचनकामः ॥

[इषुं विसृजति ॥ कौशिकसूत्र ४,१{२५}.१४ ॥]
ऽविद्मा शरस्यऽ इति द्वितीयेन धनुःशरमभिमन्त्र्य ततो व्याधितं प्रति शरं क्षिपति शीघ्रः ॥

[वस्तिं बिष्यति ॥ कौशिकसूत्र ४,१{२५}.१५ ॥]
ऽविद्मा शरस्यऽ इति द्वितीयेन शिश्नमभिमन्त्र्य चर्म निःस्फोटति । शिश्नं चर्मणो निःसारयतीत्यर्थः ॥

[वर्तिं बिभेत्ति ॥ कौशिकसूत्र ४,१{२५}.१६ ॥]
ऽविद्मा शरस्यऽ इति द्वितीयेन लोहशलाकामभिमन्त्र्य शिश्नं प्रवेशयति । मूत्रप्रवाहं विदारयति ॥

[एकविंशतिं यवान् दोहन्यामद्भिरानीय द्रुघ्नीं जघने संस्तभ्य फलतोऽवसिञ्चति ॥ कौशिकसूत्र ४,१{२५}.१७ ॥]
ऽविद्मा शरस्यऽ इति द्वितीयेन द्रुघ्नीं ज्याधनुषं जघने शिश्नदेश ऊर्ध्वं कृत्वा गोदोहन्यामुदकं कृत्वा यवानेकविंशतिं प्रक्षिप्य तेनोदकेन धनुष उपरि फलं सिञ्चति । यथोदकं शिश्ने पतति तथा कार्यम् ॥

[आलबिसोलं फाण्टं पाययति ॥ कौशिकसूत्र ४,१{२५}.१८ ॥
उदावर्तिने च ॥ कौशिकसूत्र ४,१{२५}.१९ ॥]
ऽविद्मा शरस्यऽ इति द्वितीयेन यवगोधूमवल्ली पद्ममूलं पाठिका एतानि क्वाथयित्वाभिमन्त्र्य व्याधितं पाययति । समाप्तानि मूत्रप्रतिबन्धे दुःखमूत्रकरणे दुःखपुरीषकरण उदावर्तन उदरपूर्णनिरोधकरणे चैतानि भैषज्यानि कार्याणि । आरोग्यकामः ॥

अथ सर्वरोगभैषज्यान्युच्यन्ते
[अम्बयो यन्ति (१.४) वायोः पूतः (६.५१) इति च शान्ताः ॥ कौशिकसूत्र ४,१{२५}.२० ॥]
अभ्यातानान्तं कृत्वाऽअम्बयो यन्तिऽ इति सूक्तेनाज्यं जुहोति । तत उत्तरतन्त्रम् ।ऽअम्बयो यन्तिऽ सूक्तेन पालाशौदुम्बराद्याः समिध आदधाति । सर्वव्याधिभैषज्यम् । तन्त्रविकल्पः हस्तहोमत्वात् । तन्त्रं कृत्वाऽवायोः पूतःऽ इति सूक्तेन तृचेनाज्यं जुहोति । उत्तरतन्त्रम् । सर्वभैषज्यं समाप्तम् ॥

अथ सोमभक्षणे भैषज्यमुच्यते
[उत्तरस्य ससोमाः ॥ कौशिकसूत्र ४,१{२५}.२१ ॥]
ऽवायोः पूतःऽ इति तृचेन पालाशाद्याः समिधः सोमरसेनाक्ता आदधाति । सोमवमने सोमपाने सोमाभिषवे च व्याध्युत्पन्ने भैषज्यं समाप्तम् ॥

अथ भूततन्त्रकर्माण्युच्यन्ते । भूतपिशाचशङ्कायां शान्तिरुच्यते
[चातनानामपनोदनेन व्याख्यातम् ॥ कौशिकसूत्र ४,१{२५}.२२ ॥]
अभ्यातानान्तं कृत्वाऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां कुकुसाञ्जुहोति । तत उत्तरतन्त्रम् । पिशाचभैषज्यम् ।ऽअभ्याधेयानां धूमं नियच्छतिऽ (Kऔश्ष् । ७.२८) । पिशाचगृहीतं पुरुषं धूमं पाययति । गृहे ग्रामे वा पत्तने क्षेत्रे वा देवगृहे वा यत्र क्वचित्पिशाचशङ्कास्ति तत्र होमं कृत्वा धूमं नियतं कुर्यादित्यर्थः ।ऽनिःसालाम्ऽ इति सूक्तेन कुकुसाञ्जुहोति । तन्त्रविकल्पः । धूमभक्षणं कुर्यादित्यर्थः ।ऽअरायक्षयणम्ऽ इति तिसृभिः कुकुसाञ्जुहोति । धूमभक्षणं च ।ऽशन्नो देवी पृश्निपर्णीऽ इति सूक्तेन कुकुसाञ्जुहोति । धूमपानं च ।ऽआ पश्यतिऽ इति सूक्तेन कुकुसाञ्जुहोति । धूमनियमनम् ।ऽतान्त्सत्यौजाःऽ,ऽत्वया पूर्वम्ऽ इति कुकुसाञ्जुहोति । विकल्पेन तन्त्रे धूमं करोति ।ऽपुरस्ताद्युक्तःऽ इति सूक्तेन कुकुसाञ्जुहोति । पिशाचगृहीतस्य धूमपानं कार्यम् । पिशाचदोषान्मुच्यते ।ऽरक्षोहणम्ऽ इत्यनुवाकेन कुकुसाञ्जुहोति तन्त्रे । धूमभक्षकरणं च । पिशाचदोषान्मुच्यते.
ऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां तुषाञ्जुहोति । तन्त्रे वा । धूपनं च ।ऽनिःसालाम्ऽ इति सूक्तेन तुषाञ्जुहोति । पिशाचोच्चाटनकामः ।ऽअरायक्षयणम्ऽ इति तिसृभिः तुषाञ्जुहोति ।ऽशन्नो देवी पृश्निपर्णीऽ इति सूक्तेन तुषाञ्जुहोति.
तन्त्रविकल्पः । धूपनं पुरुषस्य । पिशाचोच्चाटनकामः ।ऽआ पश्यतिऽ सूक्तेन तुषाञ्जुहोति ।ऽतान्त्सत्यौजाःऽ,ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां तुषाञ्जुहोति । तन्त्रविकल्पः । सर्वत्र पिशाचोच्चाटनकामः ।ऽपुरस्ताद्युक्तःऽ इति सूक्तेन तुषाञ्जुहोति । पिशाचोच्चाटनकामः ।ऽरक्षोहणम्ऽ इत्यनुवाकेन तुषाञ्जुहोति । पिशाचोच्चाटनकामः ।ऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां बुसं जुहोति । तन्त्रं वा । धूमेन पुरुषं धूपयति । यस्मिन् स्थाने पिशाचस्तस्मिन् स्थाने होमं करोति । यथा धूमो भवति तथा कुर्यात्स्थाने च ।ऽनिःसालाम्ऽ इति सूक्तेन बुसं जुहोति ।ऽअरायक्षयणम्ऽ इति तिसृभिः बुसं जुहोति ।ऽशन्नो देवी पृश्निपर्णीऽ इति सूक्तेन बुसं जुहोति ।ऽआ पश्यतिऽ इति सूक्तेन बुसं जुहोति ।ऽतान्त्सत्यौजाःऽ,ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां बुसं जुहोति ।ऽपुरस्ताद्युक्तःऽ इति बुसं जुहोति ।ऽरक्षोहणम्ऽ इत्यनुवाकेन बुसं जुहोति ।ऽअभ्याधेयानां धूमं नियच्छतिऽ (Kऔश्ष्७.२८) सर्वत्र ।ऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां काष्ठशकलानि जुहोति । तन्त्रविकल्पः । सर्वत्र पिशाचोच्चाटनं सर्वत्र धूपनं च ।ऽनिःसालाम्ऽ इति सूक्तेनावतक्षणानि जुहोति ।ऽअरायक्षयणम्ऽ इति तिसृभिः शकलानि जुहोति ।ऽशन्नो देवी पृश्निपर्णीऽ इति शकलानि जुहोति ।ऽआ पश्यतिऽ इति सूक्तेन शकलानि जुहोति ।ऽतान्त्सत्यौजाःऽ,ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां शकलानि जुहोति ।ऽपुरस्ताद्युक्तःऽ इति शकलानि जुहोति ।ऽरक्षोहणम्ऽ इत्यनुवाकेन काष्ठशकलानि जुहोति । सर्वत्र तन्त्रविकल्पः हस्तहोमत्वात् । धूमं च करोति सर्वत्र । पुरुषस्य स्थाने नगरे ग्रामे गृहे वा यत्र शङ्का विद्यते तत्र धूमकरणं होमेन.
ऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां पिशाचगृहीतं पुरुषमन्वाह ।ऽनिःसालाम्ऽ इति सूक्तेन पुरुषमन्वाह ।ऽअरायक्षयणम्ऽ इति तिसृभिः पुरुषमन्वाह ।ऽशन्नो देवीऽ इति सूक्तेन पिशाचगृहीतमाक्रोशयेत् ।ऽआ पश्यतिऽ इति सूक्तेन पिशाचगृहीतं पुरुषमाक्रोशयेत् ।ऽतान्त्सत्यौजाःऽऽत्वया पूर्वंऽ सूक्ताभ्यां पिशाचमन्वाह ।ऽपुरस्ताद्युक्तःऽ इति सूक्तं जपित्वान्वाह ।ऽरक्षोहणम्ऽ इत्यनुवाकेन पिशाचगृहीतं पुरुषमन्वाह । यदि ग्रामे नगरे वा रथ्यायां वा क्षेत्रे वा तदा जपं कृत्वा पिशाचनामग्रहणं कुर्यादिति । सर्वत्र कर्मणां विकल्पः ॥

[त्रपुसमुसलखदिरतार्ष्टाघानामादधाति ॥ कौशिकसूत्र ४,१{२५}.२३ ॥]
ऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां कर्कटिकासमिध आदधाति । तन्त्रविकल्पः ।ऽनिःसालाम्ऽ इति सूक्तेन कर्कटिकासमिध आदधाति । तन्त्रं वा । पिशाचगृहीतं वा धूपयति ।ऽअरायक्षयणम्ऽ इति तिसृभिः त्रपुससमिध आदधाति । पिशाचोच्चाटनकामः ।ऽशन्नो देवीऽ इति सूक्तेन त्रपुससमिध आदधाति । पिशाचरक्षाकामः ।ऽआ पश्यतिऽ इति सूक्तेन कर्कटिकासमिध आदधाति ।ऽतान्त्सत्यौजाःऽऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां त्रपुससमिध आदधाति । सर्वत्र सूक्तादिग्रहणे सूक्तं प्रतीयात् । ऋगादिग्रहणे ऋचं प्रतीयात् । सूक्तमध्ये ऋचं प्रतीयात् ।ऽपुरस्ताद्युक्तःऽ इति त्रपुससमिध आदधाति ।ऽरक्षोहणम्ऽ इत्यनुवाकेन कर्कटिकासमिध आदधाति । तन्त्रविकल्पः । पिशाचोच्चाटनकामः ।ऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां मुसलसमिध आदधाति । पिशाचभैषज्यम् ।ऽनिःसालाम्ऽ इति सूक्तेन लोकप्रसिद्धमुसलकाष्ठान्यादधाति ।ऽअरायक्षयणम्ऽ इति तिसृभिः मुसलकाष्ठान्यादधाति । तन्त्रं वा ।ऽशन्नो देवीऽ इति मुसलकाष्ठान्यादधाति । सर्वत्र पिशाचभैषज्यम् ।ऽआ पश्यतिऽ इति सूक्तेन मुसलकाष्ठसमिध आदधाति । तन्त्रविकल्पः ।ऽतान्त्सत्यौजाःऽ,ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां मुसलकाष्ठशकलानि जुहोति । तन्त्रं वा । पिशाचोच्चाटनम् ।ऽपुरस्ताद्युक्तःऽ इति सूक्तेन मुसलसमिध आदधाति । सर्वत्र ऋगन्ते होमः । सर्वत्र ऋगन्ते स्वाहाकारः । अनुतन्त्रे सर्वत्र धूमनियमनम् ।ऽरक्षोहणम्ऽ इत्यनुवाकेन मुसलसमिध आदधाति । जातिनियमो नास्ति । हस्तहोमे सर्वत्र तन्त्रविकल्पः ।ऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां खदिरसमिध आदधाति ।ऽनिःसालाम्ऽ इति सूक्तेन खदिरसमिध आदधाति ।ऽअरायक्षयणम्ऽ इति तिसृभिः खदिरसमिध आदधाति ।ऽशन्नो देवीऽ इति खदिरसमिध आदधाति ।ऽआ पश्यतिऽ इति सूक्तेन खदिरसमिध आदधाति ।ऽतान्त्सत्यौजाःऽ,ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां खदिरसमिध
आदधाति । तन्त्रविकल्पः.
ऽपुरस्ताद्युक्तःऽ इति खदिरसमिध आदधाति ।ऽरक्षोहणम्ऽ इत्यनुवाकेन खदिरसमिध आदधाति । पिशाचोच्चाटनकामः । सर्वत्र तन्त्रविकल्पः । सर्वत्र कर्मणां विकल्पः । एकं कुर्यात्द्वे वा बहूनि वा.
ऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां सर्षपसमिध आदधाति ।ऽनिःसालाम्ऽ इति सूक्तेन सर्षपसमिध आदधाति ।ऽअरायक्षयणम्ऽ इति तिसृभिः सर्षपसमिध आदधाति ।ऽशन्नो देवीःऽ इति सूक्तेन तार्ष्टाघीः समिध आदधाति ।ऽआ पश्यतिऽ इति सूक्तेन तार्ष्टाघीः समिध आदधाति ।ऽतान्त्सत्यौजाःऽऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां सर्षपसमिध आदधाति ।ऽपुरस्ताद्युक्तःऽ इति सर्षपसमिध आदधाति ।ऽरक्षोहणम्ऽ इत्यनुवाकेन सर्षपसमिध आदधाति । तन्त्रविकल्पः । मुसलखदिरसमिद्भ्यां द्विजस्योच्चाटनं भवति । अन्याभ्यां शूद्रादीनामुच्चाटनं भवति ॥

[अयुग्मान्खादिराञ्छङ्कूनक्ष्यौ नि विध्य (५.२९.४) इति पश्चादग्नेः समम्भूमि निहन्ति ॥ कौशिकसूत्र ४,१{२५}.२४ ॥]
ऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां खदिरशङ्कून् सप्त नव वाभिमन्त्र्य पश्चादग्नेर्निखनति । भूमिम् । समाम् ।ऽअक्ष्यौ नि विध्यऽ इति ऋचा । निखननमन्त्रः । पिशाचोपद्रवे ।ऽनिःसालम्ऽ इति सूक्तेन सप्त खदिरशङ्कूनभिमन्त्र्य पश्चादग्नेर्निखनतिऽअक्ष्यौ नि विध्यऽ इत्यृचा । पिशाचभये ।ऽअरायक्षयणम्ऽ इति तिसृभिः सप्त खदिरकीलकानभिमन्त्र्यऽअक्ष्यौ निविध्यऽ इत्यृचा पश्चादग्नेर्निखनति । पिशाचरक्षार्थम् ।ऽशन्नो देवीःऽ इति सूक्तेन अयुग्मान् खादिराञ्छङ्कूनभिमन्त्र्यऽअक्ष्यौ नि विध्यऽ इत्यृचा पश्चादग्नेर्निखनति ।ऽआ पश्यतिऽ इति सूक्तेन सप्त कीलकानभिमन्त्र्य पश्चादग्नेःऽअक्ष्यौ नि विध्यऽ इत्यृचा निखनति । सर्वत्र भूमिं समां करोति ।ऽतान्त्सत्यौजाःऽ,ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां सप्त कीलकानभिमन्त्र्यऽअक्ष्यौ नि विध्यऽ इत्यृचा निखनति अग्नेः पश्चात् । पिशाचभये ।ऽरक्षोहणम्ऽ इत्यनुवाकेन खादिरमयान् सप्त कीलकानभिमन्त्र्य पश्चादग्नेर्निखनतिऽअक्ष्यौ नि विध्यऽ इति ऋचा । पिशाचभये ॥

[एवमायसलोहान् ॥ कौशिकसूत्र ४,१{२५}.२५ ॥]
ऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां लोहकीलकान् पञ्च सप्त वाभिमन्त्र्य पश्चादग्नेर्निखनतिऽअक्ष्यौ नि विध्यऽ इत्यृचा । सर्वत्र कीलकानां निखननम् ।ऽनिःसालाम्ऽ इति सूक्तेन लोहकीलकानभिमन्त्र्य पश्चादग्नेर्निखनतिऽअक्ष्यौ नि विध्यऽ इति ।ऽअरायक्षयणम्ऽ इति तिसृभिः लोहकीलकानभिमन्त्र्य निखनति ।ऽशन्नो देवीःऽ इति सूक्तेन लोहमयकीलकानभिमन्त्र्य निखनति । पश्चादग्नेः सर्वत्र निखननम् ।ऽआ पश्यतिऽ इति सूक्तेन लोहमयकीलकानभिमन्त्र्य पश्चादग्नेर्निखनति । सर्वत्रऽअक्ष्यौ नि विध्यऽ इति ।ऽतान्त्सत्यौजाःऽ,ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां पञ्च सप्त वा लोहमयकीलकानभिमन्त्र्य निखनतिऽअक्ष्यौ नि विध्यऽ
इति ।ऽपुरस्ताद्युक्तःऽ इति सूक्तेन लोहमयकीलकानभिमन्त्र्य पश्चादग्नेर्निखनतिऽअक्ष्यौ नि विध्यऽ इत्यृचा ।ऽरक्षोहणम्ऽ इत्यनुवाकेन लोहमयकीलकान् पञ्च सप्त वाभिमन्त्र्य पश्चादग्नेर्निखनतिऽअक्ष्यौ नि विध्यऽ इत्यृचा । सर्वत्र निखननम् ।ऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां ताम्रमयकीलकानभिमन्त्र्य पश्चादग्नेर्निखनतिऽअक्ष्यौ नि विध्यऽ इति । सर्वत्र पिशाचाय ।ऽनिःसालाम्ऽ इति सूक्तेन ताम्रमयान् कीलकानभिमन्त्र्य पश्चादग्नेर्निखनति ।ऽअरायक्षयणम्ऽ इति तिसृभिस्ताम्रमयान् कीलकानभिमन्त्र्य पश्चादग्नेर्निखनति ।ऽशन्नो देवी पृश्निपर्णीऽ इति सूक्तेन ताम्रमयान् कीलकानभिमन्त्र्य निखनति ।ऽआ पश्यतिऽ इति ताम्रमयान् कीलकानभिमन्त्र्य पश्चादग्नेर्निखनति ।ऽतान्त्सत्यौजाःऽ इति सूक्तेन ताम्रकीलकानभिमन्त्र्यऽअक्ष्यौ नि विध्यऽ इति पश्चादग्नेर्निखनति ।ऽत्वया पूर्वम्ऽ इति सूक्तेन ताम्रमयकीलकानभिमन्त्र्यऽअक्ष्यौ नि विध्यऽ इति निखनति ।ऽपुरस्ताद्युक्तःऽ इति ताम्रमयकीलकानभिमन्त्र्य निखनति । सर्वत्र पिशाचभये ।ऽरक्षोहणम्ऽ इत्यनुवाकेन ताम्रमयकीलकानभिमन्त्र्य पश्चादग्नेर्निखनति ।ऽअक्ष्यौ नि विध्यऽ इति सर्वत्र निखननम् । सर्वत्र पश्चादग्नेर्निखनति । सर्वत्र पिशाचभये भैषज्यानि ॥

[तप्तशर्कराभिः शयनं राशिपल्याणि परिकिरति ॥ कौशिकसूत्र ४,१{२५}.२६ ॥]
ऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां तप्तशर्करा अभिमन्त्र्य शयनं वान्तराणि वा गृहं वा ग्रामं वा एषु स्थानेषु परिकिरेत्रक्षोभये ।ऽनिःसालाम्ऽ इति सूक्तेन तप्तशर्करा अभिमन्त्र्य गृहादिषु परिकिरति पिशाचभये ।ऽअरायक्षयणम्ऽ इति तिसृभिः तप्तशर्करा अभिमन्त्र्य शयनराशिपल्यानि परिकिरति । यत्र पिशाचभयं तत्र परिकिरति ।ऽशन्नो देवीऽ इति सूक्तेन तप्तशर्करा अभिमन्त्र्य शयनराशिपल्यानि परिकिरति ।ऽआ पश्यतिऽ इति तप्तशर्करा परिकिरति ।ऽतान्त्सत्यौजाःऽ,ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां तप्तशर्करा अभिमन्त्र्य शयनराशिपल्यानि परिकिरति पिशाचभये ।ऽपुरस्ताद्युक्तो वहऽ इति सूक्तेन तप्तशर्करा अभिमन्त्र्य शयनराशिपल्यानि परिकिरति पिशाचभये ।ऽरक्षोहणम्ऽ इत्यनुवाकेन तप्तशर्करा अभिमन्त्र्य शयनराशिपल्यानि परिकिरति पिशाचभये ॥

[अमावास्यायां सकृद्गृहीतान् यवाननपहतानप्रतीहारपिष्टानाभिचारिकं परिस्तीर्य तार्ष्टाघेध्म आवपति ॥ कौशिकसूत्र ४,१{२५}.२७ ॥
य आगच्छेत्तं ब्रूयात्शणशुल्बेन जिह्वां निर्मृजानः शालायाः प्रस्कन्द इति ॥ कौशिकसूत्र ४,१{२५}.२८ ॥
तथा कुर्वन्ननाद्ये हनुवाने ॥ कौशिकसूत्र ४,१{२५}.२९ ॥]
अमावास्यायामभ्यातानान्तं कृत्वा शरमयं बर्हिः स्तृणाति । सर्षपेध्मानामुपसमाधानम् ।ऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां सकृद्गृहीतयवसक्तूञ्जुहोति प्रत्यृचम् । अभ्यातानाद्युत्तरतन्त्रम् । एतस्मिन् तन्त्रे यवराशिमध्यान्मुष्टिमेकां गृहात्वोलूखलेन खण्ड्यत अप्रदक्षिणं पिष्यते । ततो व्याधितं सम्पात्य शणसूत्रेण जिह्वामार्जनं करोति ततो ग्रहणमुक्तः । यदि न करोति शणेन जिह्वामार्जनं तदा न गतो ग्रह इति विजानीयात् । अमावास्यायामाज्यतन्त्रं शरस्तृतं सर्षपेध्ममुपसमाहितमभ्यातानान्तं कृत्वाऽनिःसालाम्ऽ इति सूक्तेन सकृद्गृहीतान् यवाननपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोति । मुच्यते । तत उत्तरतन्त्रम् । यदि शणसूत्रेण जिह्वामार्जनं करोति तदा गतो ग्रहः । अमावास्यायां शरमयं बर्हिःस्तृतं सर्षपेध्मविशिष्टं तन्त्रं कृत्वाऽअरायक्षयणम्ऽ इति तिसृभिः सकृद्गृहीतान् यवाननपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । यदि शणसूत्रेण जिह्वामार्जनं करोति ततो गतो ग्रहः । अमावास्यायां शरमयं बर्हिःस्तृतं सर्षपेध्मविशिष्टं तन्त्रं कृत्वाऽअरायक्षयणम्ऽ इति तिसृभिः यवानपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । यदि शणसूत्रेण जिह्वामार्जनं करोति ततो गतो ग्रहः । अमावास्यायां प्रातरभ्यातानान्तं कृत्वा शरमयं बर्हिःस्तृतं सर्षपेध्मविशिष्टंऽशन्नो देवी पृश्निपर्णीऽ इति सूक्तेन यवाननपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । शणेन जिह्वामार्जनम् । अमावास्यायां प्रातः शरमयं बर्हिःस्तृतं सर्षपेध्मविशिष्टं
तन्त्रं कृत्वाऽआ पश्यतिऽ इति सूक्तेन यवाननपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । शणेन जिह्वामार्जनम्.अमावास्यायां शरमयं बर्हिःस्तृतं सर्षपेध्मविशिष्टं तन्त्रं कृत्वाऽतान्त्सत्यौजाःऽ,ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां सकृद्गृहीतान् यवाननपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोतिटत उत्तरतन्त्रम् । शणेन जिह्वामार्जनम् । अमावास्यायां प्रातः शरमयं बर्हिःस्तृतं सर्षपेध्मविशिष्टमभ्यातानान्तं कृत्वाऽपुरस्ताद्युक्तःऽ इति सूक्तेन सकृद्गृहीतान् यवाननपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । शणेन जिह्वामार्जनम् । अमावास्यायां प्रातः शरमयं बर्हिःस्तृतं सर्षपेध्मविशिष्टमभ्यातानान्तं कृत्वाऽरक्षोहणम्ऽ इत्यनुवाकेन सकृद्गृहीतान् यवाननपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । शणसूत्रेण जिह्वामार्जनं करोति । यदि न करोति तदा न गतो ग्रहः । असाध्यो ग्रहः । असाध्यो ग्रह इत्यर्थः ॥

अथ ग्रहाभिचार उच्यते । इदं कर्म अवश्यस्य ग्रहस्य वशीकरणमुच्यते । अयमभिचारोऽवश्यग्रहस्य वशीकरणार्थः
[वीरिणतूलमिश्रमिङ्गिडं प्रपुटे जुहोति ॥ कौशिकसूत्र ४,१{२५}.३० ॥]
आज्यतन्त्रमभ्यातानान्तं कृत्वाऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां वीरिणतूलमिश्रमिङ्गिडं पूर्णपुटेन जुहोति । तत उत्तरतन्त्रम् ।ऽनिःसालाम्ऽ इति सूक्तेन वीरिणपुष्पमिश्रितमिङ्गिडमाज्यं जुहोति पालाशपुटेनाज्यतन्त्रे । उत्तरतन्त्रम् । तन्त्रं कृत्वाऽअरायक्षयणम्ऽ इति तिसृभिः वीरिणतूलमिश्रितमिङ्गिडं पलाशपुटेन जुहोति । उत्तरतन्त्रम् । तन्त्रं कृत्वाऽशन्नो देवी पृश्निपर्णीऽ इति सूक्तेन वीरिणतूलमिश्रितमिङ्गिडं प्रपुटेन जुहोति । उत्तरतन्त्रम् । ग्रहस्याभिचारोऽयम् । तन्त्रं कृत्वाऽआ पश्यतिऽ इति सूक्तेन वीरिणतूलमिश्रितमिङ्गिडं प्रपुटेन जुहोति । उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽतान्त्सत्यौजाःऽ,ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां वीरिणतूलमिश्रमिङ्गिडं प्रपुटेन जुहोति । उत्तरतन्त्रम् । पिशाचस्याभिचारकर्म । तन्त्रं कृत्वाऽपुरस्ताद्युक्तःऽ इति सूक्तेन वीरिणतूलमिश्रितमिङ्गिडं पर्णपुटेन जुहोति । उत्तरतन्त्रम् ।ऽरक्षोहणम्ऽ इत्यनुवाकेन वीरिणतूलमिश्रितमिङ्गिडं प्रपुटेन जुहोत्याज्यतन्त्रे । ग्रहाभिचारः समाप्तः ॥

अथास्मिन् गृहे पिशाचोऽस्ति वा न वेति संशये इदं कर्म उच्यते
[इध्माबर्हिः शालायामासजति ॥ कौशिकसूत्र ४,१{२५}.३१ ॥
अपरेद्युर्विकृते पिशाचतो रुगिति ॥ कौशिकसूत्र ४,१{२५}.३२ ॥
उक्तो होमः ॥ कौशिकसूत्र ४,१{२५}.३३ ॥]
ऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां सर्षपेध्मं शरमयं बर्हिरभिमन्त्र्य शालाया उपरि निदधाति । शालाया उपरि करोति । ततः प्रभाते निरीक्षणम् । विकृते पिशाचशङ्का । तदा उक्तो होमः । वीरिणतूलमित्यादि ।ऽनिःसालाम्ऽ इति सूक्तेन तार्ष्टाघेध्मं शरमयं बर्हिश्चाभिमन्त्र्य शालाया उपरि निदधाति । यदि तद्विकृतं तदा तद्गृहं पिशाचगृहीतम् । तदा उक्तो होमः । वीरिणतूलमिश्रितमिङ्गिडं प्रपुटेन जुहोति । तन्त्रे ।ऽअरायक्षयणम्ऽ इति तिसृभिरिध्माबर्हिरभिमन्त्र्य शालाया उपरि निदधाति ।
द्वितीयेऽहनि निरीक्षयेत् । बर्हिषि विकृते पिशाचभयम् । तत्र वीरिणतूलमिश्रितमिङ्गिडं प्रपुटेन जुहोति ।ऽशन्नो देवीऽ इतीध्माबर्हिरभिमन्त्र्य शालायामासजति । अपरेद्युर्विकृते पिशाचतो रुगिति । ततो वीरिणतूलमिश्रितमिङ्गिडं प्रपुटेन जुहोति । तन्त्रे ।ऽआ पश्यतिऽ इति सूक्तेनेध्माबर्हिः शालायामासजति । अपरेद्युर्विकृते पिशाचतो रुगिति । तत इध्माबर्हिः शालाया गृहीत्वा तेन तन्त्रमभ्यातानान्तं कृत्वा वीरिणतूलमिश्रमिङ्गिडं प्रपुटेन जुहोति ।ऽतान्त्सत्यौजाःऽ,ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां इध्माबर्हिरभिमन्त्र्य शालायामासजति । अपरेद्युर्विकृते पिशाचतो रुगिति । वीरिणतूलमिश्रमिङ्गिडं प्रपुटेन जुहोति तेनैव सूक्तेन ।ऽपुरस्ताद्युक्तःऽ इति सूक्तेनेध्माबर्हिरभिमन्त्र्य शालायामासजति । अपरेद्युर्विकृते पिशाचतो रुगिति । तत्र वीरिणतूलमिश्रमिङ्गिडं प्रपुटेन जुहोति ।ऽरक्षोहणम्ऽ इत्यनुवाकेनेध्माबर्हिः शालायामासजति । अपरेद्युर्विकृते पिशाचतो रुगिति । तन्त्रं कृत्वा तेनानुवाकेन वीरिणतूलमिश्रमिङ्गिडं प्रपुटेन जुहोति । पिशाचग्रहाभिचारः ॥

[वैश्रवणायाञ्जलिं कृत्वा जपन्नाचामयत्यभ्युक्षति ॥ कौशिकसूत्र ४,१{२५}.३४ ॥]
वैश्रवणाय नमस्कारं कृत्वाऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यामुदकमभिमन्त्र्य तमाचामयति सम्प्रोक्षति च । वैश्रवणाय नमस्कारं कृत्वाऽनिःसालाम्ऽ इति सूक्तेनोदकमभिमन्त्र्याचामयति सम्प्रोक्षति च व्याधितम् । पिशाचग्रहरक्षाकामः । वैश्रवणाय नमस्कारं कृत्वाऽअरायक्षयणम्ऽ इति तिसृभिरुदकमभिमन्त्र्याचामयति सम्प्रोक्षति च पिशाचगृहीतं पुरुषम् । वैश्रवणाय नमस्कारं कृत्वाऽशन्नो देवीऽ इति सूक्तेनोदकमभिमन्त्र्याचामयति सम्प्रोक्षति च । पिशाचरक्षार्थम् । वैश्रवणाय नमस्कारं कृत्वाऽआ पश्यतिऽ इति सूक्तेनोदकमभिमन्त्र्याचामयति सम्प्रोक्षति च व्याधितं मानुषम् । वैश्रवणाय नमस्कारं कृत्वाऽतान्त्सत्यौजाःऽ,ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यामुदकमभिमन्त्र्य व्याधितमाचामयति सम्प्रोक्षति च । पिशाचभये । वैश्रवणायाञ्जलिं कृत्वाऽपुरस्ताद्युक्तःऽ इति सूक्तेनोदकमभिमन्त्र्य व्याधितमाचामयति सम्प्रोक्षति च । पिशाचभये रक्षाकामः । वैश्रवणायाञ्जलिं कृत्वाऽरक्षोहणम्ऽ इत्यनुवाकेनोदकमभिमन्त्र्याचामयति सम्प्रोक्षति च व्याधितम् । पिशाचभये रक्षाकामः । सर्वत्र कर्मणां विकल्पः । पिशाचगृहीतं मनुष्यमन्वारब्धे सर्वत्र होमः कार्यः । भैषज्यकर्म च । गृहे प्रयोगः ॥

रात्रिकर्माण्युच्यन्ते
[निश्युल्मुके सङ्कर्षति ॥ कौशिकसूत्र ४,१{२५}.३५ ॥
स्वस्त्याद्यं कुरुते ॥ कौशिकसूत्र ४,१{२५}.३६ ॥]
रात्रौऽस्तुवानम्ऽ,ऽइदं हविःऽ इति सूक्ताभ्यां उल्मुके द्वे अभिमन्त्र्य परस्परं घृष्यति । ततः प्रभातेऽस्वस्तिदाःऽ (१.२१) इति
सूक्तेन दक्षिणेन प्रक्रामति पदानि ददाति । पिशाचभये । रात्रौऽनिःसालाम्ऽ इति सूक्तेन उल्मुके अभिमन्त्र्य परस्परं घृष्यति । ततः प्रभातेऽस्वस्तिदाःऽ इति सूक्तेन दक्षिणेन प्रक्रामति । पिशाचभये । रात्रौऽअरायक्षयणम्ऽ इत्युल्मुके अभिमन्त्र्य परस्परं घृष्यति । ततः प्रभातेऽस्वस्तिदाःऽ इति सूक्तेन पदानि प्रक्रामति । रात्रौऽशन्नो देवीऽ इत्युल्मुके अभिमन्त्र्य परस्परं घृष्यति । ततः प्रभातेऽस्वस्तिदाःऽ इति पदानि ददाति । रात्रौऽआ पश्यतिऽ इत्युल्मुकद्वयं परस्परं सर्वत्राभिमन्त्रणान्ते सङ्घृष्यति । ततः प्रभातेऽस्वस्तिदाःऽ इति सूक्तं जपित्वा पदानि प्रक्रामति । रात्रौऽतान्त्सत्यौजाःऽऽत्वया पूर्वम्ऽ इति सूक्ताभ्यामुल्मुके अभिमन्त्र्य सङ्घृष्यति । ततः प्रभातेऽस्वस्तिदाःऽ इति सूक्तेन पदानि ददाति । पिशाचरक्षार्थम् । रात्रौऽपुरस्ताद्युक्तःऽ इति उल्मुके अभिमन्त्र्य सङ्घृष्यति । ततः प्रभातेऽस्वस्तिदाःऽ इति सूक्तं जपित्वा पदानि प्रक्रामति । सर्वभूतग्रहविनाशनः । गतेन गणविकल्पेन होमः । ब्रह्मराक्षसस्यापि शान्तिः । रात्रौःऽरक्षोहणम्ऽ इत्यनुवाकेनोल्मुके अभिमन्त्र्य परस्परं सङ्घृष्यति । ततः प्रभातेऽस्वस्तिदाःऽ इति सूक्तं जपित्वा पदानि प्रक्रामति । समाप्तानि रात्रिकर्माणि । पिशाचराक्षसभूताप्सरःप्रेतयक्षगन्धर्वा ग्रहाश्च । येऽन्येऽपि क्षुद्रब्राह्मणजातिकाः क्षत्रियवैश्यशूद्रादयो ग्रहाः सर्वे एभिः कर्मभिस्तुष्यन्ति । राक्षसग्रहप्रकरणं भूततन्त्रं समाप्तम् ॥

अथ जलोदरभैषज्यमुच्यते
[अयं देवानाम् (१.१०) इत्येकविंशत्या दर्भपिञ्जूलीभिर्वलीकैः सार्धमधिशिरोऽवसिञ्चति ॥ कौशिकसूत्र ४,१{२५}.३७ ॥]
ऽअयं देवानाम्ऽ इति सूक्तेन घटे दर्भपिञ्जुलीः प्रक्षिप्येकविंशतिगृहतृणानि च प्रक्षिप्य तं घटमभिमन्त्र्य ततो व्याधितं सिञ्चति । ततो मार्जनं च । दर्भत्रयमेकत्र बद्धं पिञ्जूलीत्युच्यते । समाप्तं जलोदरभैषज्यम् । अभ्यासेन कर्मसिद्धिः । दिनेदिने कुर्यात्जलोदरनाशनार्थम् ॥ भैषज्ये प्रथमा कण्डिका समाप्ता ॥ Kऔशिकपद्धतिकण्डिका २५ ॥


अथ वातपित्तश्लेष्मणि भैषज्यान्युच्यन्ते
[जरायुजः (१.१२) इति मेदो मधु सर्पिस्तैलं पाययति ॥ कौशिकसूत्र ४,२{२६}.१ ॥]
ऽजरायुजःऽ इति सूक्तेन मांसभेदोऽभिमन्त्र्य पाययति वातविकारे ।ऽजरायुजःऽ इति सूक्तेन मध्वभिमन्त्र्य पाययति श्लेष्मविकारे ।ऽजरायुजःऽ इति सूक्तेन घृतमभिमन्त्र्य पाययति वातपित्तसहविकारे ।ऽजरायुजःऽ इति सूक्तेन तैलमभिमन्त्र्य पाययति वातश्लेष्मविकारे । समाप्तं वातपित्तश्लेष्मभैषज्यम् ॥

अतिकासे शीर्षक्तौ शिरोवेदनायां च कर्माण्युच्यन्ते
[मौञ्जप्रश्नेन शिरस्यपिहितः सव्येन तितौनि पूल्यानि धारयमाणो दक्षिणेनावकिरन् व्रजति ॥ कौशिकसूत्र ४,२{२६}.२ ॥]
व्याधितशिरो मौञ्जवेष्टितं कृत्वा वामेन हस्तेन पवनं लाजसहितं गृहीत्वा । दक्षिणेन हस्तेन तान् लाजान् प्रगृह्यऽजरायुजःऽ इति सूक्तेन लाजान् प्रकिरन् व्रजति व्याधिदेशं यावत् । तत्रैव मुञ्जप्रश्नलाजापवनानां प्रक्षेपः ॥

[सव्येन तितौप्रश्नौ दक्षिणेन ज्यां द्रुघ्नीम् ॥ कौशिकसूत्र ४,२{२६}.३ ॥
प्रेषकृदग्रतः ॥ कौशिकसूत्र ४,२{२६}.४ ॥]
वामेन हस्तेन पवनं मौञ्जेन्दुकं च गृहीत्वा दक्षिणेन हस्तेन ज्यां द्रुघ्नीं गृहीत्वा व्याधितमग्रे कृत्वा ॥

[यत्रैनं व्याधिर्गृह्णाति तत्र तितौप्रश्नौ निदधाति ॥ कौशिकसूत्र ४,२{२६}.५ ॥]
यत्र व्याधिरुत्पन्नस्तत्र स्थाने गत्वाऽजरायुजःऽ इति सूक्तं जपित्वा मौञ्जप्रश्नं पवनं च प्रक्षिपति व्याधितः ॥

[ज्यां च ॥ कौशिकसूत्र ४,२{२६}.६ ॥
आव्रजनम् ॥ कौशिकसूत्र ४,२{२६}.७ ॥]
तत्र स्थाने तूष्णीं ज्यां प्रक्षिपति ॥

[घृतं नस्तः ॥ कौशिकसूत्र ४,२{२६}.८ ॥]
वातज्वरे कटिभङ्गे शिरीरोगे च वातगुल्मे वातविकारे च सर्वरोगे धनुर्वातेऽङ्गकम्पने वाते शरीरभङ्गे सर्ववातविकारे भैषज्यम् ।ऽजरायुजःऽ इति सूक्तेन घृतमभिमन्त्र्य नासिकानस्तं ददाति । शिरोरोगे वातभङ्गे ॥

[पञ्चपर्वणा ललाटं संस्तभ्य जपति ॥ कौशिकसूत्र ४,२{२६}.९ ॥]
ऽजरायुजःऽ इति सूक्तेन पञ्चपर्ववेणुदण्डं ललाटे संस्तभ्य जपति । शिरोरोगे कटिभङ्गे वा वातगुल्मे वा वातविकारे च । लिङ्ग्युपतापः समाप्तः ॥

अथ लोहिते वहति शरीरमध्ये बहिश्च शस्त्रघाते पाषाणलकुटेष्टकाद्यभिघाते कर्माण्युच्यन्ते
[अमूर्याः (१.१७) इति पञ्चपर्वणा पांसुसिकताभिः परिकिरति ॥ कौशिकसूत्र ४,२{२६}.१० ॥]
पञ्चपर्ववेणुदण्डं रुधिरवहनस्थाने दत्त्वाऽअमूर्याःऽ इति सूक्तं जपति । रुधिरप्रवाहे भैषज्यम् ।ऽअमूर्याःऽ इति सूक्तेन रथ्यायाः पांसून् गृहीत्वाभिमन्त्र्य रुधिरव्रणे विकिरति ।ऽअमूर्याःऽ इति सूक्तेन सिकता अभिमन्त्र्य व्याधिदेशे किरति ॥

[अर्मकपालिकां बध्नाति ॥ कौशिकसूत्र ४,२{२६}.११ ॥]
अभ्यातानान्तं कृत्वाऽअमूर्याःऽ इति सूक्तेनार्मकपालिकां सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[पाययति ॥ कौशिकसूत्र ४,२{२६}.१२ ॥]
ऽअमूर्याःऽ इति सूक्तेनार्मकपालिकामभिमन्त्र्य पाययति । अर्मकपालिका शुष्कपङ्कमृत्तिका । स्त्रीरजसोऽतिप्रवर्तने भैषज्यं रुधिरप्रवाहे च ॥

[चतुर्भिर्दूर्वाग्रैर्दधिपललं पाययति ॥ कौशिकसूत्र ४,२{२६}.१३ ॥]
ऽअमूर्याःऽ इति सूक्तेन चत्वारि दूर्वाग्राणि पिष्ट्वा तैः सह दधिपललमांसाद्यालोड्य ततोऽभिमन्त्र्य पाययति । रुधिरप्रवाहे शरीरमध्ये शस्त्राद्यभिघाते बहिश्च शोणितवहने गुदवहने मुखवहने नासिकारुधिरवहने शिरोऽङ्गुल्यादिरुधिरप्रवाहे च । रुधिरप्रवहने भैषज्यानि समाप्तानि.

अथ हृद्रोगे कामले च भैषज्यान्युच्यन्ते
[अनु सूर्यम् (१.२२) इति मन्त्रोक्तस्य लोममिश्रमाचमयति ॥ कौशिकसूत्र ४,२{२६}.१४ ॥]
ऽअनु सूर्यम्ऽ इति रक्तवृषभरोममिश्रमुदकमभिमन्त्र्य पाययति । कामले हृद्रोगे च भैषज्यम् ॥

[पृष्ठे चानीय ॥ कौशिकसूत्र ४,२{२६}.१५ ॥]
ऽअनु सूर्यम्ऽ इति सूक्तेन रक्तवृषभपृष्ठ उदकमानीय ततोऽभिमन्त्र्याचामयति ॥

[शङ्कुधानं चर्मण्यासीनाय दुग्धे सम्पातवन्तं बध्नाति ॥ कौशिकसूत्र ४,२{२६}.१६ ॥]
अभ्यातानान्तं कृत्वाऽअनु सूर्यम्ऽ इति सूक्तेन गो रक्तचर्मछिद्रमणिं गोदुग्धे दत्त्वा तं सम्पात्याभिमन्त्र्य बध्नाति ॥

[पाययति ॥ कौशिकसूत्र ४,२{२६}.१७ ॥]
दुग्धं च पाययति । अभ्यातानाद्युत्तरतन्त्रम् । कामले हृद्रोगे च लिङ्ग्युपतापः ॥

[हरिद्रौदनभुक्तमुच्छिष्टानुच्छिष्टेना प्रपदात्प्रलिप्य मन्त्रोक्तानधस्तल्पे हरितसूत्रेण सव्यजङ्घासु बद्ध्वाऽवस्नापयति ॥ कौशिकसूत्र ४,२{२६}.१८ ॥]
हरिद्रौदनं व्याधितस्य भोजनं दत्त्वा तस्योच्छिष्टं चानुच्छिष्टं चैकत्र कृत्वा तेन चोद्वर्तनं कृत्वा शिरःप्रभृत्यारभ्य यावत्पादौ । ततो व्याधितं च खट्वायामुपवेश्य खट्वाया अधस्तात् । शुकः काष्ठशुको गोपीतिलका चैते त्रयः पक्षिणः । सव्यजङ्घायां हरितसूत्रेण बद्ध्वा खट्वाया अधस्ताद्बध्नाति । ततोऽअनु सूर्यम्ऽ इति सूक्तेनोदकमभिमन्त्र्य व्याधितं स्नापयति । कामले हृद्रोगे च ॥

[प्रपादयति ॥ कौशिकसूत्र ४,२{२६}.१९ ॥]
ऽअनु सूर्यम्ऽ इति सूक्तेन मन्थमभिमन्त्र्य प्रपाद्य प्रयच्छति । सर्वत्र गृहद्वारेऽग्रे व्याधितं कृत्वा तमग्रे प्रवेश्य स्वयं प्रविश्य ततो भक्तमभिमन्त्र्य ततो व्याधिताय प्रयच्छति । सर्वत्र यत्र यत्रऽप्रयच्छतिऽ शब्दस्तत्र तत्रैवं
बोद्धव्यम् ॥

[वदत उपस्थापयति ॥ कौशिकसूत्र ४,२{२६}.२० ॥]
ऽअनु सूर्यम्ऽ इति सूक्तेन शुकं वदन्तमभिमन्त्रयेत् ।ऽअनु सूर्यम्ऽ इति सूक्तेन काष्ठशुकं वदन्तमभिमन्त्रयेत् ।ऽअनु सूर्यम्ऽ इति सूक्तेन गोपीतिलकां पक्षिणीं यत्र कुत्रचिद्दृष्ट्वा वदन्तीं तत्राभिमन्त्रयेद्व्याधितः । कामले च व्याधौ ॥

[क्रोडलोमानि जतुना सन्दिह्य जातरूपेणापिधाप्य ॥ कौशिकसूत्र ४,२{२६}.२१ ॥]
अभ्यातानान्तं कृत्वाऽअनु सूर्यम्ऽ इति सूक्तेन वृषभहृदयलोमभिर्लाक्षारक्तैः सुवर्णवेष्टितं मणिं कृत्वा सम्पात्याभिमन्त्र्य व्याधिताय बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । सर्वत्र यत्र बहूनि कर्माणि विहितानि तत्रैकं कुर्याद्द्वे वा कुर्यात्सर्वाणि वा कुर्यात् । सर्वत्र कर्मणां विकल्पः । अपस्मारविस्मयहृद्रोगकामलकरोहिणकानि भैषज्यानि समाप्तानि ॥

अथ श्वेतकुष्ठभैषज्यान्युच्यन्ते
[नक्तञ्जाता (१.२३) सुपर्णो जातः (१.२४) इति मन्त्रोक्तं शकृदा लोहितं प्रघृष्यालिम्पति ॥ कौशिकसूत्र ४,२{२६}.२२ ॥]
श्वेतकुष्ठं गोमयेन प्रघृष्य यावल्लोहितं दृष्ट्वाऽनक्तञ्जाताऽ,ऽसुपर्णो जातःऽ इति सूक्ताभ्यां भृङ्गराजहरिन्द्रेन्द्रवारुणी नीलिकापुष्पा एताः पञ्च पिष्ट्वाभिमन्त्र्य कुष्ठं प्रलिम्पति । तिसृणां वा चतसृणां वौषधीनां ग्रहणम् ॥

[पलितान्याच्छिद्य ॥ कौशिकसूत्र ४,२{२६}.२३ ॥]
पलितनाशे तच्च । पलितानि छित्त्वा घृष्ट्वालिम्पति ॥

अथ मारुतान्युच्यन्ते
[मारुतान्यपिहितः ॥ कौशिकसूत्र ४,२{२६}.२४ ॥]
ऽनक्तञ्जाताऽ,ऽसुपर्णो जातःऽ इति सूक्ताभ्यां मरुतो यजते यथा वरुणं पाकयज्ञविधानेन । श्वेतपलिते श्वेतकुष्ठे च । अभ्यातानान्तं कृत्वाऽनक्तञ्जाताऽ,ऽसुपर्णो जातःऽ इति द्वाभ्यां सूक्ताभ्यां कृष्णाया गोराज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽनक्तञ्जाताऽ,ऽसुपर्णो जातःऽ इति सूक्ताभ्यां कासदिविधुवकवेतसा ओषधीरेकत्र कृत्वा सम्पात्याभिमन्त्र्य तत उदकमध्ये प्रवेश्याधोमुखं पात्रं निनयति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽनक्तञ्जाताऽ,ऽसुपर्णो जातःऽ इति सूक्ताभ्यां कासाद्योषधीरुदके कृत्वा सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् ।ऽनक्तञ्जाताऽ,ऽसुपर्णो जातःऽ इति सूक्ताभ्यां श्वशिरो मेषशिरो मानुषकेशरज्ज्वा जरदुपानहौ च वंशद्वयाग्रे प्रबध्य योधयति धारयतीत्यर्थः । पलितनाशे श्वेतकुष्ठे च भैषज्यानि । अभ्यातानान्तं कृत्वाऽनक्तञ्जाताऽ,ऽसुपर्णो जातःऽ इति द्वाभ्यां सूक्ताभ्यामुदकं सम्पात्य तेनामपात्रं प्रसिच्य ततोऽश्मानं निदधाति । तत आमपात्रमश्मानं च त्रिपादे शिक्ये निदधाति । ततोऽप्सु क्षिपति । तत उत्तरतन्त्रम् । मारुतानि कर्माणि समाप्तानि । मारुतेषु कर्मसु सर्वत्र मारुतक्षीरौदनं मारुतशृतं मारुतैः परिस्तीर्य मारुतेन स्रुवेण मारुतेनाज्येनेति भवति । समाप्तानि कुष्ठभैषज्यानि । श्वेतपलितनाशनं दुर्भगनाशनं च ॥

अथ ज्वरभैषज्यमुच्यते
[यदग्निः (१.२५) इति परशुं जपंस्तापयति क्वाथयत्यवसिञ्चति ॥ कौशिकसूत्र ४,२{२६}.२५ ॥]
नित्यज्वरे वेलाज्वरे सततज्वरे एकान्तरज्वरे चातुर्थकज्वरे शीतज्वरे चतुर्ज्वरे चऽयदग्निःऽ इति सूक्तेन लोहकुठारमभिमन्त्र्याग्नौ तापयति । ततोऽयदग्निःऽ इति जपित्वा तं कुठारमुष्णोदकमध्ये क्वाथयति । ततोऽयदग्निःऽ इति सूक्तं जपित्वा तेनोदकेन व्याधितमवसिञ्चति । आचमनं तूष्णीं मार्जनं च । ज्वरभैषज्यं समाप्तम् ॥

अथोद्वेगविनाशभैषज्यान्युच्यन्ते
[उप प्रागात्(१.२८) इत्युद्विजमानस्य शुक्लप्रसूनस्य वीरिणस्य चतसृणामिषीकाणामुभयतः प्रत्युष्टं बध्नाति ॥ कौशिकसूत्र ४,२{२६}.२६ ॥]
अभ्यातानान्तं कृत्वाऽउप प्रागात्ऽ इति सूक्तेन शुक्लवीरिणेषीकाचतुष्टयेनोभयतः प्रत्युष्टमेकत्र बद्ध्वा मणिं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति पुण्याहान्ते । तत उत्तरतन्त्रम् । उद्वेगभैषज्यम् ॥

[त्रिविदग्धं काण्डमणिम् ॥ कौशिकसूत्र ४,२{२६}.२७ ॥]
तन्त्रं कृत्वाऽउप प्रागात्ऽ इति सूक्तेन त्रिविदग्धं शुक्लवीरणकाण्डमणिं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । उद्वेगभैषज्यम् ॥

[उल्मुके स्वस्त्याद्यम् ॥ कौशिकसूत्र ४,२{२६}.२८ ॥]
ऽउप प्रागात्ऽ इति सूक्तेनोल्मुकद्वयमभिमन्त्र्य घर्षयेत् । रात्रौ उषाकाले वैतत्कर्म । ततः प्रभातेऽस्वस्तिदाःऽ (१.२१) इति सूक्तेन दक्षिणेन पादेन प्रक्रामति इति स्वस्त्ययनम् । वृद्धबालयुवस्त्रीपुरुषाणामकस्मादुद्वेगः प्रलापो वा भवेत्तदैतत्कुर्यात् । समाप्तान्युद्वेगभैषज्यानि ॥

गन्धर्वराक्षसाप्सरोभूतग्रहादिषु भैषज्यान्युच्यन्ते
[मातृनाम्नोः सर्वसुरभिचूर्णान्यन्वक्तानि हुत्वा शेषेण प्रलिम्पति ॥ कौशिकसूत्र ४,२{२६}.२९ ॥]
अभ्यातानान्तं कृत्वाऽदिव्यो गन्धर्वःऽ (२.१) इति सूक्तेन घृताक्ताः सर्वौषधीर्जुहोति । होमशेषेण व्याधितं म्रक्षयति । उत्तरतन्त्रम् । तन्त्रं कृत्वाऽइमं मे अग्नेऽ (६.१११) इति चतुरृचेनाज्यमिश्राः सर्वौषधीर्जुहोति । तत उत्तरतन्त्रम् । तन्त्रे होमशेषेण व्याधितं म्रक्षयति । गन्धर्वग्रहादिभैषज्यम् ॥

[चतुष्पथे च शिरसि दर्भेण्ड्वेऽङ्गारकपालेऽन्वक्तानि ॥ कौशिकसूत्र ४,२{२६}.३० ॥]
चतुष्पथे व्याधितं कृत्वा तस्य शिरसि दर्भेण्डुकं कृत्वा तस्योपरि कपालमग्निपूर्णं प्रज्वालितं कृत्वा तत्र प्रज्वालितेऽग्नौऽदिव्यो गन्धर्वःऽ इति सूक्तेन घृताक्ताः सर्वौषधीर्जुहोति । चतुष्पथे च शिरसि दर्भेण्ड्वेऽङ्गारकपाले प्रज्वालितेऽग्नौऽइमं मे अग्नेऽ इति
चतसृभिराज्येनाक्ताः सर्वौषधीर्जुहोति प्रत्यृचं शिरसि होमे न तन्त्रम् ॥

[तितौनि प्रतीपं गाहमानो वपतीतरोऽवसिञ्चति पश्चात् ॥ कौशिकसूत्र ४,२{२६}.३१ ॥]
व्याधितस्य वल्लणिकां सर्वौषधिसहितां हस्ते कृत्वा नद्युदकसम्मुखं प्रवेश्य ततोऽवगाहयति ।ऽदव्यो ग्न्धर्वःऽ इति सूक्तेन सर्वौषधीरुदकमध्ये वपति कर्ता ।ऽदिव्यो गन्धर्वःऽ इति सूक्तेन पश्चात्स्थितो व्याधितं सिञ्चति ॥

[आमपात्र ओप्यासिच्य मौञ्जे त्रिपादे वयोनिवेशने प्रबध्नाति ॥ कौशिकसूत्र ४,२{२६}.३२ ॥]
ततो मृन्मय आमपात्रे होमशेषः सर्वौषधीः कृत्वा पक्षिणो यस्मिन् वृक्षे वसन्ति तत्र त्रिपादे शिक्ये कृत्वा बध्नाति । गन्धर्वयक्षराक्षसभैषज्यम् ।ऽइमं मे अग्नेऽ इति सूक्तेन नदीमध्ये वल्लणिकायां सर्वौषधीर्घृताक्ता जुहोति प्रत्यृचम् । ततः कर्ता तमवसिञ्चति व्याधितम्ऽइमं मेऽ इति चतसृभिः । पश्चादामपात्र ओप्यासिच्य मौञ्जे त्रिपादे वयोनिवेशने वृक्षे बध्नाति । रक्षोग्रहे यक्षग्रहे गन्धर्वग्रहेऽप्सरोग्रहे राजसे ग्रहे तामसे ग्रहे ग्रहभैषज्यानि समाप्तानि ॥

अथ लौकिके शापे वैदिके शापे च स्त्रीणामाक्रोशे पुरुषाणां च भैषज्यमुच्यते
[अघद्विष्टा (२.७), शं नो देवी (२.२५), वरणः (६.८५), पिप्पली (६.१०९), विद्रधस्य (६.१२७), या बभ्रवः (८.७) इति ॥ कौशिकसूत्र ४,२{२६}.३३ ॥
उपोत्तमेन पलाशस्य चतुरङ्गुलेनालिम्पति ॥ कौशिकसूत्र ४,२{२६}.३४ ॥
प्रथमेन मन्त्रोक्तं बध्नाति ॥ कौशिकसूत्र ४,२{२६}.३५ ॥
द्वितीयेन मन्त्रोक्तस्य सम्पातवतानुलिम्पति ॥ कौशिकसूत्र ४,२{२६}.३६ ॥
तृतीयेन मन्त्रोक्तं बध्नाति ॥ कौशिकसूत्र ४,२{२६}.३७ ॥
चतुर्थेनाशयति ॥ कौशिकसूत्र ४,२{२६}.३८ ॥
पञ्चमेन वरुणगृहीतस्य मूर्ध्नि सम्पातानानयति ॥ कौशिकसूत्र ४,२{२६}.३९ ॥
उत्तमेन शाकलम् ॥ कौशिकसूत्र ४,२{२६}.४० ॥]
सर्वस्मिन् संहिताविधिकर्मणि प्रधानकर्ममध्ये उत्तरतः उदकुम्भमास्थाप्य तेनोदकेनऽहिरण्यवर्णाःऽ (१.३३) इति सूक्तेनाभिमन्त्रितेन कारयिताभिषेचयेत्सर्वत्र मेधाजननादिकर्मसु । ततः पश्चान्मणिबन्धनादि कर्म कुर्यात् ।
भैषज्येष्वभिषेकं न कुर्यात् । अभ्यातानान्तं कृत्वाऽअघद्विष्टा देवजाताऽ इति सूक्तेन यवमणिं सम्पात्याभिमन्त्र्य पुनः सूक्तं जपित्वा बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । लौकिक आक्रोशे वैदिके च ब्राह्मणस्य शापे क्रूरचक्षुर्दृष्टिनिपाते च पिशाचराक्षसादिषु भैषज्यं समाप्तम् ॥

अथ रक्षोग्रहे भैषज्यमुच्यते
आज्यतन्त्रं कृत्वाऽशं नो देवी पृश्निपर्णीऽ इति सूक्तेन पृश्निपर्णीं सम्पात्याभिमन्त्र्य घृष्ट्वा पुनः सूक्तं जपित्वा व्याधितं प्रलिम्पति । अभ्यातानाद्युत्तरतन्त्रम् । पापगृहीते च स्त्रीगर्भस्त्रावे च मृतापत्यायां च क्रव्यादगृहीते च पिशाचगृहीते च रक्षोमयभैषज्यं समाप्तम् ॥

अथ राजयक्ष्मादिभैषज्यमुच्यते
तन्त्रं कृत्वाऽवरणो वारयाताऽ इति तृचेन वरणवृक्षकाष्ठमणिं सम्पात्याभिमन्त्र्य पुनः सूक्तं जपित्वा बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । राजयक्ष्मादिषूग्रव्याधिषु श्वेतोदुम्बरकुष्ठाद्यष्टादशजातिषु ज्वरादिसर्वरोगेषु भैषज्यं समाप्तम् ॥

अथ वातविकारे भैषज्यमुच्यते
अभ्यातानान्तं कृत्वाऽपिप्पली क्षिप्तभेषजीऽ इति सूक्तेन पिप्पलद्रव्यं सम्पात्याभिमन्त्र्य पुनः सूक्तं जपित्वाशयति । अभ्यातानाद्युत्तरतन्त्रम् । सर्वत्र । वातविकारे धनुर्वाते वातगुल्मे वातशूले क्षिप्तवातप्रदोषे कर्मकृते वात उत्पन्ने सर्ववातविकारे भैषज्यं समाप्तम् ॥

जलोदरभैषज्यमुच्यते
अभ्यातानान्तं कृत्वाऽविद्रधस्य बलासस्यऽ इति तृचेन सूक्तेन व्याधितस्य मूर्ध्नि सम्पातानानयति । अभिमन्त्रणं च ।
अभ्यातानाद्युत्तरतन्त्रम् । जलोदरभैषज्यम् । सर्वव्याधिविसर्पणे हृदयामये वा जलोदरे च एतेषां भैषज्यं समाप्तम् ॥
ऽविद्रधस्यऽ इति सूक्तेन पालाशशकलं चतुरङ्गुलमानं पिष्ट्वाभिमन्त्र्य पुनः सूक्तं जपित्वा व्याधितं लिम्पति । सर्वव्याधिविसर्पणे प्रकोपे च बलासे चान्त्रादिविसर्पणे चाक्षिविसर्पणे च कर्णव्याधिविसर्पणे हृदयामये चाज्ञातराजयक्ष्मणि च । एतेषां भैषज्यं समाप्तम् ॥
तन्त्रं कृत्वाऽया बभ्रवःऽ इति सूक्तेन दशवृक्षशकलानि लाक्षाहिरण्येन वेष्टितं मणिं कृत्वा सम्पात्याभिमन्त्र्य पुनः सूक्तं
जपित्वा बध्नाति । सर्वव्याधिभैषज्यम् ॥

अथ क्षेत्रियव्याधिभैषज्यमुच्यते
[उदगाताम् (२.८) इत्याप्लावयति बहिः ॥ कौशिकसूत्र ४,२{२६}.४१ ॥]
अभ्यातानान्तं कृत्वाऽउदगाताम्ऽ इति सूक्तेन उदकघटं सम्पात्याभिमन्त्र्य व्याधितं गृहाद्बहिः कृत्वाप्लावयति । अभ्यातानाद्युत्तरतन्त्रम् । क्षेत्रियो व्याधिर्लिङ्गी पितृपारम्पर्यागतः क्षेत्रियो रोगः । कुष्ठक्षयरोगो ग्रहणीदोषः सर्वशरीरे विस्फोटकरक्तदोषादिः क्षेत्रियः ॥

[अपेयम् (२.८.२) इति व्युच्छन्त्याम् ॥ कौशिकसूत्र ४,२{२६}.४२ ॥]
तन्त्रं कृत्वाऽअपेयं रात्रीऽ इत्यृचा घटं सम्पात्याभिमन्त्र्य गृहाद्बहिराप्लावयति । अभ्यातानाद्युत्तरतन्त्रम् । अपररात्र एतत्कर्म कुर्यात्क्षेत्रियव्याधौ ॥

[बभ्रोः (२.८.३) इति मन्त्रोक्तमाकृतिलोष्टवल्मीकौ परिलिख्य जीवकोषण्यामुत्सीव्य बध्नाति ॥ कौशिकसूत्र ४,२{२६}.४३ ॥]
अभ्यातानान्तं कृत्वाऽबभ्रोरर्जुनकाण्डस्यऽ इत्यृचार्जुनकाष्ठं यवबुसं तिलपिञ्जिकां चैकत्र त्रीणि बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । क्षेत्रियव्याधौ । अभ्यातानान्तं कृत्वाऽबभ्रोरर्जुनऽ इत्यृचाकृतिलोष्टं जीवकोषण्यां बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽबभ्रोरर्जुनऽ इत्यृचा वल्मीकमृत्तिकां चर्मजीवकोषण्यां बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । एकस्मिन् व्याधौ सर्वत्र कर्मणां विकल्पः । जीवतः पशोश्चर्म जीवकोषणीत्युच्यते । अजायाश्चर्मावेर्वाश्वाया वा चर्मग्रहणम् । मातृपितृवर्गादायातः
कौलः कुलभवः । सर्वत्र कर्मणां विकल्पः ॥ भैषज्येषु द्वितीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका २६ ॥


[नमस्ते लाङ्गलेभ्यः (२.८.४) इति सीरयोगमधिशिरोऽवसिञ्चति ॥ कौशिकसूत्र ४,३{२७}.१ ॥]
ऽनमस्ते लाङ्गलेभ्यःऽ इत्यृचोदकघटमभिमन्त्र्य वृषभयुक्तस्य हलस्याधस्तात्कृत्वा व्याधितं ततोऽभिषिञ्चति । क्षेत्रियस्य भैषज्यम् ॥

[नमः सनिस्रसाक्षेभ्यः (२.८.५) इति शून्यशालायामप्सु सम्पातानानयति ॥ कौशिकसूत्र ४,३{२७}.२ ॥
उत्तरं जरत्खाते सशालातृणे ॥ कौशिकसूत्र ४,३{२७}.३ ॥
तस्मिन्नाचमयत्याप्लावयति ॥ कौशिकसूत्र ४,३{२७}.४ ॥]
तस्मिन् गर्ते व्याधितमुपवेश्याचामयति । उत्तरतन्त्रम् । क्षेत्रियभैषज्यम् । अभ्यातानान्तं कृत्वाऽनमः सनिस्रसाक्षेभ्यःऽ इत्यृचोदकघटं सम्पात्याभिमन्त्र्योत्तरसम्पातान् जरद्गर्तः आनयति । शालातृणसहिते गर्ते व्याधितमवसिञ्चति । आचमनं च । यत्र क्वचित्स्नानं तत्र सर्वत्राचमनम् । तत उत्तरतन्त्रम् । यत्र यत्र स्नानं प्रोक्षणं च तत्र सर्वत्र भैषज्येषु शिरःप्रभति मार्जनं कुर्यात्यावत्पादौ । समाप्तं क्षेत्रियस्य भैषज्यम् ॥

अथ ब्रह्मग्रहे भैषज्यमुच्यते
[दशवृक्ष (२.९) इति शाकलः ॥ कौशिकसूत्र ४,३{२७}.५ ॥]
अभ्यातानान्तं कृत्वाऽदशवृक्षऽ इति सूक्तेन वृक्षविकल्पेन पलाशादिदशवृक्षशकलानि गृहीत्वा लाक्षाहिरण्येन वेष्टितं मणिं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । ब्रह्मग्रहे भैषज्यम् ॥

[दश सुहृदो जपन्तोऽभिमृशन्ति ॥ कौशिकसूत्र ४,३{२७}.६ ॥]
दश ब्राह्मणा अथर्वाङ्गिरसः सुहृदोऽदशवृक्षऽ इति सूक्तं जपन्तो व्याधितशरीरमभिमृशन्ति । सर्वग्रहे ब्रह्मग्रहे । ग्रहभैषज्यं समाप्तम् ॥

[क्षेत्रियात्त्वा (२.१०) इति चतुष्पथे काम्पीलशकलैः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति ॥ कौशिकसूत्र ४,३{२७}.७ ॥]
चतुष्पथे गत्वाभ्यातानान्तं कृत्वाऽक्षेत्रियात्त्वाऽ इति सूक्तेनोदकघटं सम्पात्याभिमन्त्र्य काम्पीलशकलानि व्याधितपर्वणि दत्त्वा
पिञ्जूलीर्घटे प्रक्षिप्य ततोऽभिषिञ्चति । तत आचमनम् । उत्तरतन्त्रम् । क्षेत्रियग्रहे ॥

[अवसिञ्चति ॥ कौशिकसूत्र ४,३{२७}.८ ॥]
ऽक्षेत्रियात्त्वाऽ इति सूक्तेनोदकघटं सह पिञ्जूलीभिरभिमन्त्र्य चतुष्पथे व्याधितं कृत्वावसिञ्चति । क्षेत्रिये ग्रहे काम्पीलशकलैर्बन्धयित्वा । क्षेत्रियभैषज्यम् । समाप्तानि क्षेत्रियभैषज्यानि ॥

उदकतृषाक्रान्तभैषज्यमुच्यते
[पार्थिवस्य (२.२९) इत्युद्यति पृष्ठसंहितावुपवेशयति ॥ कौशिकसूत्र ४,३{२७}.९ ॥
प्राङ्मुखं व्याधितं प्रत्यङ्मुखमव्याधितं शाखासूपवेश्य वैतसे चमस उपमन्थनीभ्यां तृष्णागृहीतस्य शिरसि मन्थमुपमथ्यातृषिताय प्रयच्छति ॥ कौशिकसूत्र ४,३{२७}.१० ॥
तस्मिंस्तृष्णां सन्नयति ॥ कौशिकसूत्र ४,३{२७}.११ ॥]
उदित आदित्ये प्रभाते पृष्ठसंहितावुपवेश्य द्वौ पुरुषौ । प्राङ्मुखं व्याधितं प्रत्यङ्मुखमव्याधितं वैतसशाखासूपवेश्य वैतसे चमसे सक्तूदकं प्रक्षिप्य वैतसशलाकाभ्यां मन्थं निर्मथ्य तृष्णागृहीतस्य शिरसि मन्थमुपमथ्यऽपार्थिवस्यऽ इति सूक्तेन चमसमभिमन्त्र्य तृषिताय प्रयच्छति यस्य व्याधिर्भवति ॥

[उद्धृतमुदकं पाययति ॥ कौशिकसूत्र ४,३{२७}.१२ ॥]
ऽपार्थिवस्यऽ इति सूक्तेनाप्सूदकमभिमन्त्र्योद्धृत्य पाययति । तृषार्ते भैषज्यम् ॥

[सवासिनौ (२.१९.६) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ४,३{२७}.१३ ॥]
ऽसवासिनौऽ इति सूक्तेन मन्थमभिमन्त्र्य पाययति । व्याधिताव्याधितावेकवस्त्रपरिहितौ सन्तौ । तृषार्तभैषज्यानि समाप्तानि ॥

अरुषोदरगण्डुलभैषज्यान्युच्यन्ते
[इन्द्रस्य या मही (२.३१) इति खल्वङ्गानलाण्डून् हननान् घृतमिश्राञ्जुहोति ॥ कौशिकसूत्र ४,३{२७}.१४ ॥]
तन्त्रं कृत्वाऽइन्द्रस्य या महीऽ इति सूक्तेन कृष्णचणकान् घृतमिश्राञ्जुहोति । तन्त्रविकल्पः ॥

[बालान् कल्माषे काण्डे सव्यं परिवेष्ट्य सम्भिनत्ति ॥ कौशिकसूत्र ४,३{२७}.१५ ॥]
ऽइन्द्रस्य या महीऽ इति सूक्तेन गोवालान् । चित्रिते शरे सव्यं परिवेष्ट्य पाषाणेन चूर्णयति ॥

[प्रतपति ॥ कौशिकसूत्र ४,३{२७}.१६ ॥]
ततः सूक्तं जपित्वाग्नौ प्रतपति ॥

[आदधाति ॥ कौशिकसूत्र ४,३{२७}.१७ ॥]
ततः सूक्तान्तेनाग्नावादधाति ॥

[सव्येन दक्षिणामुखः पांसूनुपमथ्य परिकिरति ॥ कौशिकसूत्र ४,३{२७}.१८ ॥]
ऽइन्द्रस्य या महीऽ इति सूक्तेन सव्ये हस्ते पांसून् कृत्वा दक्षिणेन विमृज्य दक्षिणामुखः स्थितः सूक्तं जपित्वा व्याधितस्योपरि किरति । अरुषीगण्डुलकानां भैषज्यम् ॥

[सम्मृद्नाति ॥ कौशिकसूत्र ४,३{२७}.१९ ॥]
ऽइन्द्रस्य या महीऽ इति सूक्तेन पांसून्मर्दयति हस्ताभ्यां व्याधितः ॥

[आदधाति ॥ कौशिकसूत्र ४,३{२७}.२० ॥]
ऽइन्द्रस्य या महीऽ इति सूक्तेन पालाशौदुम्बराद्याः समिध आदधाति । समाप्ता उदरकृमय उदरगण्डुलकाश्च दृष्टकृमयश्च
तेषां भैषज्यम् ॥

अथ गोकृमिभैषज्यान्युच्यन्ते
[उद्यन्नादित्यः (२.३२) इत्युद्यति गोनामेत्याह असौ इति ॥ कौशिकसूत्र ४,३{२७}.२१ ॥
सूक्तान्ते ते हताः इति ॥ कौशिकसूत्र ४,३{२७}.२२ ॥
दर्भैरभ्यस्यति ॥ कौशिकसूत्र ४,३{२७}.२३ ॥]
प्रातःऽउद्यन्नादित्यःऽ इति सूक्तं जपित्वा गोनामोच्चारयित्वा यस्य क्रिमयः ।ऽते हताःऽ इति मन्त्रेण दर्भैराहन्ति क्रिमीणां मुखम् ॥

[मध्यन्दिने च ॥ कौशिकसूत्र ४,३{२७}.२४ ॥]
एतन्मध्यन्दिने कुर्यात् ॥

[प्रतीचीमपराह्णे ॥ कौशिकसूत्र ४,३{२७}.२५ ॥]
आदित्यसम्मुखोऽपराह्णे एतत् । त्रिकाले कर्मसमाप्तिः । गोनामग्रहणम्ऽअसौऽ इति स्थाने ॥

[बालस्तुकामाच्छिद्य खल्वादीनि ॥ कौशिकसूत्र ४,३{२७}.२६ ॥]
ऽउद्यन्नादित्यःऽ इति सूक्तेन घृतमिश्रान् कृष्णचणकाञ्जुहोति । कृमिभैषज्यम् ।ऽउद्यन्नादित्यःऽ इति सूक्तेन कल्माषं शरं
गोवालवेष्टितं धारयति । ततः पाषाणेन चूर्णयति । ततः सूक्तेन प्रतपति । ततः सूक्तेन जपित्वाग्नावादधाति जुहोतीत्यर्थः । कृमिभैषज्यम् ।ऽउद्यन्नादित्यःऽ इति सूक्तेन पांसूनभिमन्त्र्य वामे हस्ते कृत्वा दक्षिणामुखः पांसुना कृमिव्रणं मर्दयति ।ऽउद्यन्नादित्यःऽ इति सूक्तेन पलाशवृक्षादिसमिध आदधाति । समाप्तं सर्वकृमिभैषज्यं मनुष्यगजहस्त्यश्वादियूकालिक्षादिषु कृमिभैषज्यम् ॥

सर्वव्याधिभैषज्यमुच्यते
[अक्षीभ्यां ते (२.३३) इति वीबर्हम् ॥ कौशिकसूत्र ४,३{२७}.२७ ॥
उदपात्रेण सम्पातवतावसिञ्चति ॥ कौशिकसूत्र ४,३{२७}.२८ ॥]
आज्यतन्त्रं कृत्वा व्याधितं पर्वसु बद्ध्वाऽअक्षीभ्यां तेऽ इति सूक्तेनोदपात्रं सम्पात्य ततः पुनः सूक्तं जपित्वावसिच्य व्याधितस्य पर्वग्रन्थीन् विमुञ्चति । तत उत्तरतन्त्रम् । समाप्तमक्षिरोगनासिकाकर्णमूलशिरोजिह्वाग्रीवाराजयक्ष्मादिसर्वव्याधिभैषज्यम् ।ऽअक्षीभ्यां तेऽ इति सूक्तेनाभिमन्त्रयते व्याधितम् । सर्वव्याधिभैषज्यं समाप्तम् ॥

अथ क्षेत्रियव्याधिभैषज्यान्युच्यन्ते
[हरिणस्य (३.७) इति बन्धनपायनाचमनशङ्कुधानज्वालेनावनक्षत्रेऽवसिञ्चति ॥ कौशिकसूत्र ४,३{२७}.२९ ॥]
तन्त्रं कृत्वाऽहरिणस्यऽ इति सूक्तेन हरिणशृङ्गमणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । क्षेत्रियभैषज्यम् ।ऽहरिणस्यऽ इति सूक्तेन हरिणशृङ्गेण सहोदकमभिमन्त्र्य पाययत्याचामयति च । अथोषाकाल एतत्कर्म । हरिणवर्म शङ्कुधानं प्रज्वाल्योदके प्रक्षिप्य ततोऽहरिणस्यऽ इत्यभिमन्त्र्य व्याधितमवसिञ्चति । मार्जनमाचमनं च । क्षेत्रियभैषज्यम् ॥

[अमितमात्रायाः सकृद्गृहीतान् यवानावपति ॥ कौशिकसूत्र ४,३{२७}.३० ॥]
ऽहरिणस्यऽ इति सूक्तेन यवाञ्जुहोति प्रत्यृचं राशेरपरिमितान्मध्यात्सकृद्ग्राह्या यवा इत्यर्थः । क्षेत्रियभैषज्यम् ॥

[भक्तं प्रयच्छति ॥ कौशिकसूत्र ४,३{२७}.३१ ॥]
ऽहरिणस्यऽ इति सूक्तेन भक्तमभिमन्त्र्य भोजने प्रपाद्य प्रयच्छति । समाप्तं क्षेत्रियभैषज्यम् । बालरोगगृहीते च ॥

मैथुनदोषव्याधिभैषज्यान्युच्यन्ते

[मुञ्चामि त्वा (३.३१) इति ग्राम्ये पूतिशफरीभिरोदनम् ॥ कौशिकसूत्र ४,३{२७}.३२ ॥]
ऽमुञ्चामि त्वाऽ इति सूक्तेन पूतिगन्धमत्स्यसहितमोदनमभिमन्त्र्य व्याधिताय प्रयच्छति भक्षणार्थं भोजनकाले ॥
[अरण्ये तिलशणगोमयशान्ताज्वालेनावनक्षत्रेऽवसिञ्चति ॥ कौशिकसूत्र ४,३{२७}.३३ ॥]
ऽमुञ्चामि त्वाऽ इति सूक्तेनारण्यकतिलैः प्रज्वालितमुदकं पात्रे प्रक्षिपति । ततोऽभिमन्त्र्योषाकालेऽवसिञ्चति व्याधितम् । मैथुनराजयक्ष्मणि भैषज्यम् । उषाकाल इदं कर्म ।ऽमुञ्चामि त्वाऽ इति सूक्तेनारण्यशणेनावज्वालितमुदकमभिमन्त्र्यावसिञ्चति । मार्जनमाचमनं च । मैथुनव्याधिभैषज्यम् ।ऽमुञ्चामि त्वाऽ इति सूक्तेनारण्यगोमयेनावज्वालितमुदकमभिमन्त्र्यावसिञ्चत्युषाकाले । मार्जनमाचमनं च । मैथुनव्याधिभैषज्यम् । उषाकालेऽमुञ्चामि त्वाऽ इति सूक्तेन चित्याद्याभिः प्रज्वालितमुदकमभिमन्त्र्य व्याधितमवसिञ्चति । मार्जनमाचमनं च । केचित्तिलशणादिचतुर्षु कर्मस्वरण्येऽवसेकमिच्छन्ति । केचिद्गृहेऽवसेकमिच्छन्ति । विकल्पः । समाप्तं मैथुनव्याधिभैषज्यम् ।ऽमुञ्चामि त्वाऽ इति सूक्तेन व्याधितमभिमन्त्रयते । सर्वव्याधिभैषज्यम् ॥

अथ सर्वभैषज्यान्युच्यन्ते
[मृगारैः मुञ्च (१.१२.३) इत्याप्लावयति ॥ कौशिकसूत्र ४,३{२७}.३४ ॥]
अभ्यातानान्तं कृत्वाऽआ गावःऽ (४.२१३०) इति दशभिः सूक्तैर्घटमुदकपूर्णं सम्पात्याभिमन्त्र्य व्याधितमाप्लावयति । मार्जनाचमने स्मर्तव्ये । अभ्यातानाद्युत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् । तन्त्रं कृत्वाऽमुञ्च शीर्षक्त्याःऽ इत्यृचोदकघटं सम्पात्याभिमन्त्र्याप्लावयति व्याधितम् । अभ्यातानाद्युत्तरतन्त्रम् । आप्लवने सर्वत्र मार्जनाचमने च । सर्वव्याधिभैषज्यं समाप्तम् ॥ तृतीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका २७ ॥


स्कन्दविषभैषज्यान्युच्यन्ते
[ब्राह्मणो जज्ञे (४.६) इति तक्षकायाञ्जलिं कृत्वा जपन्नाचमयत्यभ्युक्षति ॥ कौशिकसूत्र ४,४{२८}.१ ॥]
तक्षकदेवतायै नमस्कारं कृत्वा ततोऽब्राह्मणो जज्ञेऽऽवारिदम्ऽ (४.७) इति सूक्ताभ्यामुदकमभिमन्त्र्याचामयति विषकरम् । तक्षकाय नमस्कारं कृत्वाऽब्राह्मणो जज्ञेऽऽवारिदम्ऽ इति सूक्ताभ्यामुदकमभिमन्त्र्य सम्प्रोक्षति विषदुष्टम् । स्कन्दविषभैषज्य ॥

[कृमुकशकलं सङ्क्षुद्य दूर्शजरदजिनावकरज्वालेन ॥ कौशिकसूत्र ४,४{२८}.२ ॥]
ऽब्राह्मणो जज्ञेऽऽवारिदम्ऽ इति सूक्ताभ्यां कृमुकवृक्षशकलं सहोदकमभिमन्त्र्य तत आचामयति । स्कन्दविषभैषज्यम् ।ऽब्राह्मणो जज्ञेऽऽवारिदम्ऽ इति सूक्ताभ्यां कृमुकवृक्षशकलं सहोदकमभिमन्त्र्याभ्युक्षति । ततो मार्जनमाचमनं च सर्वं तूष्णीम् । दूर्शावज्वालितमुदकमभिमन्त्र्य व्याधितमवसिञ्चति । मार्जनाचमने च । सर्वं तूष्णीम् ।ऽब्राह्मणो जज्ञेऽ इति सूक्ताभ्यां जीर्णहरिणचर्मावज्वालितमुदके प्रक्षिप्य तमभिमन्त्र्य ततोऽवसिञ्चति । विषभैषज्यम् ।ऽब्राह्मणो जज्ञेऽऽवारिदम्ऽ इति सूक्ताभ्यां सम्मार्जनिकावकरतृणैरवज्वालितमुदकमभिमन्त्र्यावसिञ्चति । स्कन्दविषभैषज्यम् ॥

[सम्पातवत्युदपात्र ऊर्ध्वफलाभ्यां दिग्धाभ्यां मन्थमुपमथ्य रयिधारणापिण्डानन्वृचं प्रकीर्य छर्दयते ॥ कौशिकसूत्र ४,४{२८}.३ ॥]
अभ्यातानान्तं कृत्वाऽब्राह्मणो जज्ञेऽऽवारिदम्ऽ इति सूक्ताभ्यामुदपात्रं सम्पात्याभिमन्त्र्याप्लावयति विषदुष्टम् । विषभैषज्यम् ।ऽब्राह्मणो जज्ञेऽऽवारिदम्ऽ इति सूक्ताभ्यां विषलिप्ताभ्यां फलाभ्यां सक्तुमन्थमुपमथ्य ततोऽभिमन्त्र्य पाययति । विषभैषज्यम् ।ऽब्राह्मणो जज्ञेऽऽवारिदम्ऽ इति सूक्ताभ्यां मदनफलानि प्रत्यृचमभिमन्त्र्य भक्षयति । यथा छर्दयति तथा च कर्तव्यम् । स्कन्दविषभैषज्यम् ॥

[हरिद्रां सर्पिषि पाययति ॥ कौशिकसूत्र ४,४{२८}.४ ॥]
ऽब्राह्मणो जज्ञेऽऽवारिदम्ऽ इति सूक्ताभ्यां हरिद्रां सर्पिषा सहितामभिमन्त्र्य पाययति । समाप्तं स्कन्दविषभैषज्यम् ॥

अथ शस्त्राद्यभिघाते रुधिरप्रवाहे भैषज्यान्युच्यन्ते
[रोहणी (४.१२) इत्यवनक्षत्रेऽवसिञ्चति ॥ कौशिकसूत्र ४,४{२८}.५ ॥]
ऽरोहण्यसिऽ इति सूक्तेन लाक्षोदकं क्वाथितमभिमन्त्र्य व्याधिदेशमवसिञ्चति । उषाकाले कर्म । अस्थिभङ्गे रुधिरप्रवाहे दंशशस्त्राभिघातादौ भैषज्यम् ॥

[पृषातकं पाययत्यभ्यनक्ति ॥ कौशिकसूत्र ४,४{२८}.६ ॥]
ऽरोहण्यसिऽ इति पृषातकं घृतमिश्रं दुग्धमभिमन्त्र्य पाययति ।ऽरोहण्यसिऽ इति सूक्तेन क्षीरं घृतमिश्रं कृत्वा व्याधिदेशं म्रक्षति ।
अङ्गभङ्गेऽङ्गछेदेऽङ्गरुधिरप्रवाहेऽङ्गाभिघातेऽङ्गभग्नेऽङ्गमूढाभिघातेऽङ्गवृक्षाभिघाते मुष्टिलोष्टेष्टिकापशुशृङ्गाग्नि पाषाणलकुटशस्त्राद्यभिघाते रुधिरप्रवाहे वा शरीरछेदादौ भैषज्यं समाप्तम् ॥

अथ रक्षोभैषज्यमुच्यते
[आ पश्यति (४.२०) इति सदम्पुष्पामणिं बध्नाति ॥ कौशिकसूत्र ४,४{२८}.७ ॥]
तन्त्रं कृत्वाऽआ पश्यतिऽ इति सूक्तेन सदम्पुष्पामणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । सदम्पुष्पा त्रिसन्ध्या प्रसिद्धा । ब्रह्मग्रहे क्षत्रियग्रहे वैश्यग्रहे शूद्रग्रहे वान्येषां व्यन्तराणां पिशाचानां रक्षसां च भैषज्यं समाप्तम् ॥

अथ सर्वव्याधिभैषज्यमुच्यते
[भवाशर्वौ (४.२८) इति सप्त काम्पीलपुटानपां पूर्णान् सम्पातवतः कृत्वा दक्षिणेनावसिच्य पश्चाद्विध्यति ॥ कौशिकसूत्र ४,४{२८}.८ ॥]
अभ्यातानान्तं कृत्वाऽभवाशर्वौ मन्वे वाम्ऽ इति सूक्तेन सप्तर्चेनैकैकयर्चा काम्पीलसप्तपुटकानुदकपूर्णान् सम्पात्यर्चर्चा ततः प्रत्यृचमभिमन्त्र्य ततो व्याधितमवसिञ्चति । ततः पुटं पश्चात्क्षिपति । एवं द्वितीयमेवं तृतीयम् । तत उत्तरतन्त्रम् । समाप्तं सर्वव्याधिभैषज्यम् ॥

सर्वभूतग्रहभैषज्यमुच्यते
[त्वया पूर्वम् (४.३७) इति कोशेन शमीचूर्णानि भक्ते ॥ कौशिकसूत्र ४,४{२८}.९ ॥]
ऽत्वया पूर्वम्ऽ इति सूक्तेन शमीपर्णचूर्णं शमीफले कृत्वाभिमन्त्र्य सक्तुमध्ये ददाति भक्षार्थम् । रक्षोग्रहे भैषज्यम् ॥

[अलङ्कारे ॥ कौशिकसूत्र ४,४{२८}.१० ॥]
ऽत्वया पूर्वम्ऽ इति सूक्तेन शमीपर्णचूर्णं शमीफले कृत्वाभिमन्त्र्यालङ्कारे ददाति व्याधितस्य । सर्वग्रहभैषज्यम् ॥

[शालां परितनोति ॥ कौशिकसूत्र ४,४{२८}.११ ॥]
ऽत्वया पूर्वम्ऽ इति सूक्तेन शमीचूर्णं कृत्वाभिमन्त्र्य शालां चूर्णैः परिकिरति । व्याधितस्य शालाम् । रक्षोग्रहाप्सरोग्रहगन्धर्वग्रहसर्वग्रहभैषज्यं समाप्तम् ॥

अथामतिगृहीते भैषज्यमुच्यते
[उतामृतासुः (५.७१) इत्यमतिगृहीतस्य भक्तं प्रयच्छति ॥ कौशिकसूत्र ४,४{२८}.१२ ॥]
ऽउतामृतासुःऽ इत्यृचा भोजनकाले भक्तमभिमन्त्र्य ददाति भक्षणार्थं प्रज्ञाप्रनष्टेऽज्ञानगृहीतेऽधर्मगृहीते त्रिवर्गे च विनष्टे द्यूतक्रीडाद्यतिप्रत्ते कुबुद्धिभैषज्यम् ॥

राजयक्ष्मणि शिरोरोगे कुष्ठामये सर्वगात्रवेदनायां भैषज्यमुच्यते
[कुष्ठलिङ्गाभिर्नवनीतमिश्रेणाप्रतीहारं प्रलिम्पति ॥ कौशिकसूत्र ४,४{२८}.१३ ॥]
ऽयो गिरिष्वजायथाःऽ (५.४) इति सूक्तेनऽत्रिः शाम्बुभ्यो अङ्गिरेभ्यःऽ (१९.३९.५८) इति चतुरृचेन कुष्ठपिष्टं नवनीतमिश्रं कृत्वाभिमन्त्र्याप्रतीहारं व्याधितस्य शरीरं प्रलिम्पति । राजयक्ष्मणि शिरोरोगे कुष्ठामये सर्वगात्रवेदनासु भैषज्यं समाप्तम् ॥

अथ शस्त्राद्यभिघाते भैषज्यमुच्यते
[लाक्षालिङ्गाभिर्दुग्धे फाण्टान् पाययति ॥ कौशिकसूत्र ४,४{२८}.१४ ॥]
ऽरात्री माताऽ (५.५) इति सूक्तेन दुग्धे लाक्षां क्वाथयित्वाभिमन्त्र्य पाययति । शस्त्राद्यभिघाते पाषाणपतनाभिघातेऽग्निदाहे सर्वशरीराभिघाते भैषज्यं समाप्तम् ॥

सूतिका स्त्री अरिष्टकस्य च भैषज्यान्युच्यन्ते
[ब्रह्म जज्ञानम् (५.६) इति सूतिकारिष्टकौ प्रपादयति ॥ कौशिकसूत्र ४,४{२८}.१५ ॥]
ऽब्रह्म जज्ञानम्ऽ (५.६.१)ऽअनाप्ता येऽ (५.६.२)ऽसहस्रधार एव तेऽ (५.६.३) इति सूक्तेन भक्तमभिमन्त्र्य ददाति
भक्षणार्थम् । पूर्वं स्त्री प्रवेश्य तूष्णीं ततः पश्चात्कर्ता तूष्णीं प्रविश्य सूक्तेन भक्तमभिमन्त्र्य दद्यात् ॥

[मन्थाचमनोपस्थानमादित्यस्य ॥ कौशिकसूत्र ४,४{२८}.१६ ॥]
ऽब्रह्म जज्ञानम्ऽऽअनाप्ता येऽऽसहस्रधार एव तेऽ इति सूक्तेन सक्तुमन्थमभिमन्त्र्य पाययति । तेनैव सूक्तेनोपस्थानमादित्यस्य ।ऽब्रह्म जज्ञानम्ऽ इति सूक्तेनोदकमभिमन्त्र्याचामयति । समाप्तं स्त्रीप्रसवदोषे सूतिकारोगे च भैषज्यम् । अद्भुतदर्शने दोषनाशनभैषज्यं समाप्तम् ॥ सर्वाद्भुतेषु भक्तकर्म वाचमनकर्म वा कुर्यात् । यानि चरकादिवैद्यकेष्वद्भुतानि पठ्यन्तेऽस्वस्थशारीरविषये तेषां सर्वेषामियं शान्तिर्भैषज्यं भवति । यानि चाद्भुतानि शरीररोगे ज्योतिषे पठ्यन्ते तेषामपीदं कर्म ॥

अथ सर्वव्याधिभैषज्यमुच्यते
[दिवे स्वाहा (५.९) इमं यवम् (६.९१) इति चतुर उदपात्रे सम्पातानानयति ॥ कौशिकसूत्र ४,४{२८}.१७ ॥]
तन्त्रं कृत्वाऽदिवे स्वाहाऽ इति सूक्तेन चतुर उदपात्रे सम्पातानानयति ॥

[द्वौ पृथिव्याम् ॥ कौशिकसूत्र ४,४{२८}.१८ ॥
तौ प्रत्याहृत्याप्लावयति ॥ कौशिकसूत्र ४,४{२८}.१९ ॥]
द्वौ सम्पातौ भूमौ दत्त्वा ततः सम्पातितां भूमिमृत्तिकां सङ्गृह्य तत उदपात्रे प्रक्षिप्य ततोऽभिमन्त्रणं कृत्वा व्याधितमाप्लावयति ।ऽदिवे स्वाहाऽ इति त्रिभिः स्वाहाकारैरेकः सम्पातः । त्रिभिः स्वाहाकारैस्त्रयः सम्पाताः । द्वौ द्वाभ्यामृग्भ्यां सम्पातौ । एवं षड्भवन्ति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽइमं यवम्ऽ इति सूक्तेनार्धर्चेनार्धर्चेन होमः । उदपात्रे सम्पातानानीय द्वौ भूमौ सम्पातौ । तौ गृहीत्वोदपात्रे प्रक्षिप्य ततोऽभिमन्त्रणम् । तत आप्लावयति व्याधितम् । अभ्यातानाद्युत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् ॥

[सयवे चोत्तरेण यवं बध्नाति ॥ कौशिकसूत्र ४,४{२८}.२० ॥]
अभ्यातानान्तं कृत्वाऽदिवे स्वाहाऽ इति सूक्तेन षट्सम्पातान् करोति यवसहित उदपात्रे चतुरः सम्पातानानयति । द्वौ सम्पातौ भूमौ दत्त्वा मृत्तिकामुदपात्रे प्रक्षिप्य ततोऽभिमन्त्रणमाप्लावनं च । अभ्यातानाद्युत्तरतन्त्रम् ।ऽदिवे स्वाहाऽ इति त्रिभिः स्वाहाकारैरेकः सम्पातः । अन्यत्सर्वं यथार्थं कुर्यात् । एवं षट्सर्वत्र कुर्यात् । तन्त्रं कृत्वाऽइमं यवम्ऽ इति सूक्तेनार्धर्चेन षढोमान् कृत्वा चतुर उदपात्रे सम्पातानानयति । द्वौ पृथिव्याम् । तावुदपात्रे प्रक्षिप्य ततः सूक्तेनाभिमन्त्रणम् । यवसहित उदपात्रे सम्पाताः । ततोऽभिषेचनं मार्जनमाचमनं च । अभ्यातानाद्युत्तरतन्त्रम् । सर्वव्याधिभैषज्यं समाप्तम् । अभ्यातानान्तं कृत्वाऽइमं यवम्ऽ इति सूक्तेन यवमणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । शीतज्वरक्षुद्रज्वरकामज्वरश्लेष्मज्वरग्रीष्मज्वर वर्षाज्वरदानद्रव्यत्यागप्रतिग्रहयाजनाध्ययनाध्यापनयाज्ययाजनबुद्धिध्वान्ते अक्षिपटलोद्वेगे स्त्रीषु पुरुषेषु पापलक्षणापकामहृदय तापहर्षविषादापस्मारेषु । सर्वशब्देन कथ्यन्ते । सर्वव्याधिभैषज्यं यत्र एकस्मिन् व्याधौ बहूनि कर्माणि विहितानि सर्वस्मिन् शास्त्रे तत्र सर्वत्र कर्मणां विकल्पः । यत्राभिषेकोऽवसेचनं तत्राचमनं मार्जनं च सर्वत्र ॥ चतुर्थी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका २८ ॥


सर्पविषभैषज्यमुच्यते

[ददिर्हि (५.१३) इति तक्षकायेत्युक्तम् ॥ कौशिकसूत्र ४,५{२९}.१ ॥]
तक्षकाय नमस्कारं कृत्वाऽददिर्हिऽ इत्यृचोदकमभिमन्त्र्याचामयति सर्पादिविषभैषज्यम् । तक्षकाय नमस्कारं कृत्वाऽददिर्हिऽ इत्यृचोदकमभिमन्त्र्यावसिञ्चति विषदष्टम् । विषभैषज्यम् ।ऽददिर्हिऽ इत्यृचा कृमुकवृक्षशकलं सङ्घृष्य तत उदकं च प्रक्षिप्य ततोऽभिमन्त्र्यावसिञ्चति विषधारितम् ।ऽददिर्हिऽ इत्यृचोदकं चर्माग्निप्रज्वालितमभिमन्त्र्य व्याधितमवसिञ्चति ।ऽददिर्हिऽ इत्यृचा हरिणजीर्णचर्मावज्वालितमुदकमभिमन्त्र्यावसिञ्चति ।ऽददिर्हिऽ इत्यृचा मार्जनिकावकरतृणावज्वालितोदकमभिमन्त्र्या वसिञ्चति । जङ्गमविषभैषज्यम् । अभ्यातानान्तं कृत्वाऽददिर्हिऽ इत्यृचोदपात्रं सम्पात्य ततः पाययति ।ऽददिर्हिऽ इत्यृचा सक्तुमन्थमूर्ध्वफलाभ्यां विषलिप्ताभ्यां मथित्वाभिमन्त्र्य पाययति सर्पदष्टम् । जङ्गमविषभैषज्यम् ।ऽददिर्हिऽ इत्यृचा मदनफलमभिमन्त्र्य भक्षयति छर्दनार्थम् । जङ्गमविषभैषज्यम् ।ऽददिर्हिऽ इत्यृचा हरिद्रां घृतं च सहाभिमन्त्र्य पाययति । जङ्गमविषभैषज्यम्.

[द्वितीयया ग्रहणी ॥ कौशिकसूत्र ४,५{२९}.२ ॥
सव्यं परिक्रामति ॥ कौशिकसूत्र ४,५{२९}.३ ॥]
ऽयत्ते अपोदकम्ऽ (५.१३.२) इत्यृचाप्रदक्षिणं व्याधितं परिक्रामति । विषस्तम्भनभैषज्यम् । विषं स्तम्भितं नान्येनोत्तारयितुं शक्यते वन वेदमन्त्रेण ॥

[शिखासिचि स्तम्बानुद्ग्रथ्नाति ॥ कौशिकसूत्र ४,५{२९}.४ ॥]
ऽयत्ते अपोदकम्ऽ इत्यृचं जपित्वा शिखां बध्नाति । विषस्तम्भनभैषज्यम् ।ऽयत्ते अपोदकम्ऽ इत्यृचं जपित्वा श्वेतवस्त्रेण ग्रन्थिं बध्नाति । विषस्तम्भनभैषज्यम् ।ऽयत्ते अपोदकम्ऽ इत्येकां जपित्वा शणस्तम्बे ग्रन्थिं बध्नाति । विषं न विसर्पति । देशस्थितं भवति । शरीरे न सर्पति । विषस्तम्भनं भवति ॥

[तृतीयया प्रसर्जनी ॥ कौशिकसूत्र ४,५{२९}.५ ॥]
ऽवृषा मे रवःऽ (५.१३.३) इत्यृचा यस्मिन् स्थाने दष्टं तं स्थानं पीडयति ऋचं जपित्वा । देशाद्विषमन्यत्र गच्छति । विषनाशने भैषज्यम् ॥

[चतुर्थ्या दक्षिणमपेहि (७.८८.१) इति दंश्म तृणैः प्रकर्ष्याहिमभिनिरस्यति ॥ कौशिकसूत्र ४,५{२९}.६ ॥]
ऽचक्षुषा ते चक्षुःऽ (५.१३.४) इत्यृचाचार्यस्ततः प्रदक्षिणं परिक्रामति ।ऽअपेह्यरिरसिऽ इत्यृचं जपित्वा तृणानि प्रज्वाल्य ततोऽहेरभिमुखं क्षिपति ॥

[यतो दष्टः ॥ कौशिकसूत्र ४,५{२९}.७ ॥]
ऽअपेह्यरिरसिऽ इत्यृचं जपित्वा यतो दष्टस्ततो ज्वलिततृणानि क्षिपति दशने ॥

[पञ्चम्या वलीकपललज्वालेन ॥ कौशिकसूत्र ४,५{२९}.८ ॥]
ऽकैरात पृश्नेऽ (५.१३.५) इत्यृचोदकं गृहतृणावज्वालितमभिमन्त्र्य व्याधितं पाययति प्रोक्षति च ॥

[षष्ठ्यार्त्नीज्यापाशेन ॥ कौशिकसूत्र ४,५{२९}.९ ॥]
ऽअसितस्यऽ (५.१३.६) इत्यृचार्त्नीज्यापाशं सम्पात्याभिमन्त्र्य बध्नात्याज्यतन्त्रे । विषभैषज्यम् ॥

[द्वाभ्यां मधूद्वापान् पाययति ॥ कौशिकसूत्र ४,५{२९}.१० ॥]
ऽआलिगी च विलिगी चऽ (५.१३.७)ऽउरुगलायाःऽ (५.१३.८) इति द्वाभ्यां मधुमक्षिकां मधुवृक्षमृत्तिकां चाभिमन्त्र्य पाययति ॥

[नवम्या श्वावित्पुरीषम् ॥ कौशिकसूत्र ४,५{२९}.११ ॥]
ऽकर्णा श्वावित्तदब्रवीत्ऽ (५.१३.९) इत्यृचा शुकसारिकृशानां पुरीषं श्वावित्पुरीषमित्युच्यते । पुरीषमभिमन्त्र्य पाययति विषदष्टम् ॥

[त्रिःशुक्लया मांसं प्राशयति ॥ कौशिकसूत्र ४,५{२९}.१२ ॥]
ऽकर्णा श्वावित्तदब्रवीत्ऽ इत्यृचा शललीमांसमभिमन्त्र्य प्राशयति । विषनाशनभैषज्यम् ॥

[दशम्यालाबुनाचमयति ॥ कौशिकसूत्र ४,५{२९}.१३ ॥]
ऽताबुवं न ताबुवम्ऽ (५.१३.१०) इत्यृचालाबुमध्य उदकं प्रक्षिप्य ततोऽभिमन्त्र्याचामयति । सर्पविषभैषज्यम् ॥

[एकादश्या नाभिं बध्नाति ॥ कौशिकसूत्र ४,५{२९}.१४ ॥]
ऽतस्तुवं न तस्तुवम्ऽ (५.१३.११) इत्यृचालाबुवृन्तं सम्पात्याभिमन्त्र्य बध्नात्याज्यतन्त्रे । सर्पविषदष्टम् । सर्वत्र कर्मणां प्रयोगो विकल्पेन न समुच्चयः । एकं कुर्याद्द्वे वा त्रीणि वा सर्वाणि वा । समाप्तं सर्पविषभैषज्यम् । एकव्याधौ यत्र बहूनि कर्माणि विहितानि तत्रैकं वा कुर्यात्कर्मबाहुल्याद्द्वे वा सर्वाणि वा ।ऽसर्वत्र हस्तहोमे न तन्त्रम्ऽ इति वचनात् ॥

अथ दुष्टवक्तॄणां मुखबन्धनमुच्यते
[मधुलावृषलिङ्गाभिः खलतुलपर्णी सङ्क्षुद्य मधुमन्थे पाययति ॥ कौशिकसूत्र ४,५{२९}.१५ ॥]
ऽएका च मेऽ (५.१५)ऽयद्येकवृषोऽसिऽ (५.१६) इति सूक्ताभ्यां कुलपल्लवान्मधूदकं चैतत्त्रितयमेकत्र कृत्वाभिमन्त्र्य ततो व्याधित पाययति । दुष्टवक्तृमुखबन्धनभैषज्यम् । दुष्टपुरुषाः परोक्षे न वदन्ति ॥

[उत्तराभिर्भुङ्क्ते ॥ कौशिकसूत्र ४,५{२९}.१६ ॥]
ऽयद्येकवृषःऽ इति सूक्तेन भोजनमभिमन्त्र्य भक्षयति । शापभैषज्यम् । अकृतवत्कृतपापभैषज्यम् ॥

[द्वारं सृजति ॥ कौशिकसूत्र ४,५{२९}.१७ ॥]
ऽयद्येकवृषःऽ इति सूक्तेन गृहद्वारं ददात्यपिदधातीत्यर्थः । प्रविशतीत्यर्थः । दुष्टवक्तृमुखबन्धने ब्राह्मणशापे च भैषज्यम् ॥

अथ ज्वरभैषज्यमुच्यते
[अग्निस्तक्मानम् (५.२२) इति लाजान् पाययति ॥ कौशिकसूत्र ४,५{२९}.१८ ॥]
ऽअग्निस्तक्मानम्ऽ इति सूक्तेन लाजान् पाययति । सर्वज्वरभैषज्यम् ॥

[दावे लोहितपात्रेण मूर्ध्नि सम्पातानानयति ॥ कौशिकसूत्र ४,५{२९}.१९ ॥]
अभ्यातानान्तं कृत्वाऽअग्निस्तक्मानम्ऽ इति सूक्तेन ताम्रस्रुवेण मूर्ध्नि सम्पातानानयति । तत उत्तरतन्त्रम् । एतस्मिन् तन्त्रे दावाग्निप्रणयनम् । समाप्तं ज्वरभैषज्यम् । सर्वज्वरे कुर्यात् ॥

अथ कृमिभैषज्यमुच्यते
[ओते मे (५.२३) इति करीरमूलं काण्डेनैकदेशम् ॥ कौशिकसूत्र ४,५{२९}.२० ॥]
अभ्यातानान्तं कृत्वाऽओते मेऽ इति सूक्तेन करीरमूलं सम्पात्यभिमन्त्र्य बध्नाति ।ऽओते मेऽ इति सूक्तेन गोवालैः करीरकाष्ठं वेष्टयित्वा । सूक्तं जपित्वा पाषाणेन चूर्णयति । ततः सूक्तेनाग्नौ प्रतपति । ततः सूक्तेनादधाति । तत उत्तरतन्त्रम् । कृमिभैषज्यम् ॥

[ग्रामात्पांसून् ॥ कौशिकसूत्र ४,५{२९}.२१ ॥]
ऽओते मेऽ इति सूक्तेन ग्रामपांसूनभिमन्त्र्य सव्येन हस्तेन दक्षिणाभिमुखो भूत्वा पांसून् परिकिरति । सर्वकृमिभैषज्यम् ।ऽओते मेऽ इति सूक्तेन पांसूनभिमन्त्र्य मथित्वा हस्तेन कृमेरुपरि क्षिपति ।ऽओते मेऽ इति सूक्तेन शान्तवृक्षसमिध आदधाति । कृमिभञ्जनम् । मुखकृमिकर्णकृमिसर्वकृमिभैषज्यम् ॥

[पश्चादग्नेर्मातुरुपस्थे मुसलबुध्नेन नवनीतान्वक्तेन त्रिः प्रतीहारं तालुनि तापयति ॥ कौशिकसूत्र ४,५{२९}.२२ ॥]
ऽओते मेऽ इति सूक्तेन पश्चादग्नेर्मातुरुत्सङ्गे बालकं कृत्वा नवनीतान्वक्तेन मुसलबुध्नेन तालुनि तापयति । त्रिः सूक्तप्रयोगः । अपानकृमिं शिरसि वा तस्य । सर्वकृमिभैषज्यम् ॥

[शिग्रुभिर्नवनीतमिश्रैः प्रदेग्धि ॥ कौशिकसूत्र ४,५{२९}.२३ ॥]
ऽओते मेऽ इति सूक्तेन शिग्रुबीजैर्नवनीतमिश्रितैरभिमन्त्र्य व्याधिदेशं प्रलिम्पति क्षतदेशम् । कृमिभैषज्यम् ॥

[एकविंशतिमुशीराणि भिनद्मि (५.२३.१३) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ४,५{२९}.२४ ॥]
ऽओते मेऽ इति सूक्तेनैकविंशत्युशीरमूलान्यभिमन्त्र्य ततः पाषाणेन कुट्टयति । ततः सूक्तं जपित्वोशीराण्यग्निना दहति ॥

[उशीराणि प्रयच्छति ॥ कौशिकसूत्र ४,५{२९}.२५ ॥]
ऽओते मेऽ इति सूक्तेनैकविंशत्युशीराण्यभिमन्त्र्य व्याधिताय समर्पयति । कृमिभैषज्यम् ॥

[एकविंशत्या सहाप्लावयति ॥ कौशिकसूत्र ४,५{२९}.२६ ॥]
ऽओते मेऽ इति सूक्तेनोदकघटमेकविंशत्युशीरपिञ्जूलीसहितं सम्पात्याभिमन्त्र्य ततो व्याधितमाप्लावयत्याज्यतन्त्रे । कृमिजातानामक्षिकर्णमुखशिरोनासिकादन्तकृमीणां कृष्मश्वेतपीतदृष्टानामदृष्टानां च सर्वेषां कृमीणां भैषज्यम् । समाप्तं कृमिभैषज्यम् ॥

अथ राक्षसभैषज्यमुच्यते । तत्राह
[आ यं विशन्ति (६.२.२) इति वयोनिवेशनशृतं क्षीरौदनमश्नाति ॥ कौशिकसूत्र ४,५{२९}.२७ ॥]
अभ्यातानान्तं कृत्वाऽआ यं विशन्तिऽ इत्यृचा वयोनिवेशनकाष्ठशृतं क्षीरौदनं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् ।
राक्षसभैषज्यं समाप्तम् ॥

अथ सर्पविषभैषज्यमुच्यते
[परि द्यामिव (६.१२) इति मधुशीभं पाययति ॥ कौशिकसूत्र ४,५{२९}.२८ ॥]
ऽपरि द्यामिवऽ इति तृचेन सूक्तेन मधुशीभमभिमन्त्र्य पाययति । मधुक्रोडमित्यर्थः । सर्पविषलिङ्ग्युपतापः ॥

[जपंश्च ॥ कौशिकसूत्र ४,५{२९}.२९ ॥]
ऽपरि द्यामिवऽ इति सूक्तेनोदकमभिमन्त्र्याचामयति । विषभैषज्यम् ।ऽपरि द्यामिवऽ इति सूक्तेनोदकमभिमन्त्र्य सम्प्रोक्षति । विषभैषज्यम् ।ऽपरि द्यामिवऽ इति सूक्तेन दुल्लकावज्वालितमुदकमभिमन्त्र्यावसिञ्चति व्याधितम् ।ऽपरि द्यामिवऽ इति सूक्तेनावकरतृणान्यवज्वालितमुदकमभिमन्त्र्यावसिञ्चति । तन्त्रं कृत्वाऽपरि द्यामिवऽ इति सूक्तेनोदपात्रं सम्पात्याभिमन्त्र्य पाययति । तत उत्तरतन्त्रम् ।ऽपरि द्यामिवऽ इति सूक्तेनोर्ध्वफलाभ्यां विषदिग्धाभ्यां मन्थमुपमथ्य ततोऽभिमन्त्र्य पाययति ।ऽपरि द्यामिवऽ इति सूक्तेन मदनफलान्यभिमन्त्र्य भक्षयति छर्दनार्थम् ।ऽपरि द्यामिवऽ इति हरिद्रां सर्पिष्यभिमन्त्र्य पाययति । समाप्तं सर्पविषभैषज्यम् ॥

श्लेष्मभैषज्यमुच्यते
[अस्थिस्रंसम् (६.१४) इति शकलेनाप्स्विटे सम्पातवतावसिञ्चति ॥ कौशिकसूत्र ४,५{२९}.३० ॥]
उदक इदं क्रियते । अप्स्विटं कृत्वा तत्राग्निं प्रज्वाल्यऽअस्थिस्रंसम्ऽ इति सूक्तेन काष्ठशकलं सम्पात्य तेन शकलेन व्याधितमवसिञ्चति । मार्जनमाचमनं च । श्लेष्मभैषज्यम् । न तन्त्रम् । पञ्चमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका २९ ॥


अथाक्षिरोगभैषज्यमुच्यते
[आबयो (६.१६) इति सार्षपं तैलसम्पातं बध्नाति ॥ कौशिकसूत्र ४,६{३०}.१ ॥]
अभ्यातानान्तं कृत्वाऽआबयो अनाबयोऽ इति सूक्तेन चतुरृचेन सर्षपकाण्डमणिं सम्पात्याभिमन्त्र्य बध्नाति । सर्षपतैलेन सम्पातवन्तं करोति । तन्त्रकृतेनैव । ततोऽभ्यातानाद्युत्तरतन्त्रम् । अक्षिरोगे भैषज्यम् ॥

[काण्डं प्रलिप्य ॥ कौशिकसूत्र ४,६{३०}.२ ॥]
अभ्यातानान्तं कृत्वाऽआबयो अनाबयोःऽ इति सूक्तेन सर्षपकाण्डमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । आज्येन प्रधानमङ्गानि च । सर्षपतैलेनाभ्यज्य मणिं ततो बध्नाति । अक्षिरोगे भैषज्यम् ॥

[पृक्तं शाकं प्रयच्छति ॥ कौशिकसूत्र ४,६{३०}.३ ॥]
ऽआबयोऽ इति सूक्तेन सर्षपशाकं सर्षपतैलेनाभ्यक्तमभिमन्त्र्य व्याधिताय प्रयच्छति । अक्षिरोगे ॥

[चत्वारि शाकफलानि प्रयच्छति ॥ कौशिकसूत्र ४,६{३०}.४ ॥]
ऽआबयोऽ इति सूक्तेन चत्वारि शाकवृक्षफलान्यभिमन्त्र्य प्रयच्छति व्याधिताय । अक्षिरोगे ॥

[क्षीरलेहमाङ्क्ते ॥ कौशिकसूत्र ४,६{३०}.५ ॥]
ऽआबयोऽ इति सूक्तेन मूलक्षीरं मुखेन प्राश्य ततोऽभिमन्त्र्याक्षिणी आङ्क्ते व्याधितस्य । मूलक्षीरं पाटिकालग्नं तदुच्यते ॥

[अश्नाति ॥ कौशिकसूत्र ४,६{३०}.६ ॥]
तन्त्रं कृत्वाऽआबयोऽ इति सूक्तेन मूलक्षीरं सम्पात्याभिमन्त्र्य भक्षयति । तत उत्तरतन्त्रम् । समाप्तमक्षिरोगे भैषज्यम् ॥

पित्तज्वरभैषज्यमुच्यते
[अग्नेरिव (६.२०) इत्युक्तं दावे ॥ कौशिकसूत्र ४,६{३०}.७ ॥]
तन्त्रं कृत्वाऽअग्नेरिवास्य दहत एति शुष्मिणःऽ इति तृचेन ताम्रस्रुवेण मूर्ध्नि सम्पातानानयति । तत उत्तरतन्त्रम् । अस्मिन् तन्त्रे दावाग्निप्रणयनं कुर्यात् । समाप्तं पित्तज्वरभैषज्यम् ॥

अथ केशवृद्धिकरणे केशपतने च भैषज्यमुच्यते
[इमा यास्तिस्रः (६.२१) इति वृक्षभूमौ जाताज्वालेनावसिञ्चति ॥ कौशिकसूत्र ४,६{३०}.८ ॥]
ऽइमा यास्तिस्रःऽ इति तृचेन सूक्तेन वृक्षभूमिजातौषधिभिरवज्वालितमुदकमभिमन्त्र्योषाकालेऽवसिञ्चति । केशवृद्धौ केशपतने च भैषज्यम् । उषाकाल इदं कर्म ॥

[शीर्षफाण्टाक्षैः ॥ कौशिकसूत्र ४,६{३०}.९ ॥]
ऽइमा यास्तिस्रःऽ इति सूक्तेन मधुसिक्थकं क्वाथयित्वाभिमन्त्र्यावसिञ्चति । उषाकालेऽइमा यास्तिस्रःऽ इति सूक्तेन बिभीतकानि क्वाथयित्वाभिमन्त्र्य व्याधितमवसिञ्चति । केशभैषज्यम् ॥

[निकटाभ्याम् ॥ कौशिकसूत्र ४,६{३०}.१० ॥]
उषाकालेऽइमा यास्तिस्रःऽ इति दारुहरिद्राहरिद्रे च द्वाभ्यां क्वाथयित्वाभिमन्त्र्यावसिञ्चति । समाप्तं केशवर्धनार्थं भैषज्यं केशपतने च क्षये च ॥

अथ उदरतुण्डभैषज्यमुच्यते
[कृष्णं नियानम् (६.२२) इत्योषध्याभिश्चोतयते ॥ कौशिकसूत्र ४,६{३०}.११ ॥]
ऽकृष्णं नियानम्ऽऽसस्रुषीःऽ (६.२३) इति सूक्ताभ्यां चित्त्याद्यौषध्या सहितमुदकमभिमन्त्र्य ततो व्याधितमवसिञ्चति । उदरतुण्डभैषज्यम् ॥

[मारुतानामप्ययः ॥ कौशिकसूत्र ४,६{३०}.१२ ॥]
ऽकृष्णं नियानम्ऽऽसस्रुषीःऽ इति सूक्ताभ्यां मरुतो यजते पाकयज्ञविधानेन यथा वरुणम् ।ऽमारुतं क्षीरौदनं मारुतशृतं मारुतैः परिस्तीय मारुतेन स्रुवेण मारुतेनाज्येन वरुणाय त्रिजुहोतिऽ (Kऔश्ष्४०.७) । मरुतो यथा वरुणम् ।ऽकृष्णं नियानम्ऽऽसस्रुषीःऽ इति सूक्ताभ्यामाज्यं जुहोति । आज्यतन्त्रे ।ऽकृष्णं नियानम्ऽऽसस्रुषीःऽ इति सूक्ताभ्यामोषधीः सम्पात्य प्रवेश्याभिन्युब्जति । आज्यतन्त्रे ।ऽकृष्णं नियानम्ऽऽसस्रुषीःऽ इति सूक्ताभ्यां चित्त्याद्योषधीः सम्पात्य विप्लावयेतोदकमध्ये । जलोदरे उदरे च ।ऽकृष्णं नियानम्ऽऽसस्रुषीःऽ इति सूक्ताभ्यां श्वशिरोऽभिमन्त्र्योदके विप्लावयति । एडकशिरो वा विप्लावयत्यभिमन्त्रोदके ।ऽकृष्णं नियानम्ऽऽसस्रुषीःऽ इति सूक्ताभ्यां केशजरदुपानहौ वंशाग्रे बद्ध्वाभिमन्त्र्य योधयति ।ऽकृष्णं नियानम्ऽऽसस्रुषीःऽ इति सूक्ताभ्यामुदपात्रेण सम्पातवता । सम्प्रोक्ष्यामपात्रं त्रिपादेऽश्मानमवधायाप्सु निदधाति । जलोदरे नाभितुण्डे बृहदुदरे भैषज्यानि समाप्तानि ॥

अथ हृदयदाघे जलोदरे कामले च भैषज्यान्युच्यन्ते
[हिमवतः (६.२४) इति स्यन्दमानादन्वीपमाहार्य वलीकैः ॥ कौशिकसूत्र ४,६{३०}.१३ ॥]
ऽहिमवतःऽ इति सूक्तेन नद्युदकमनुलोममाहार्य तत्र वलीकतृणानि प्रक्षिप्य ततोऽभिमन्त्र्य ततो व्याधितमवसिञ्चति । मार्जनाचमने च । हृदयदोषे जलोदरे कामले च भैषज्यं समाप्तम् ॥

अथ गण्डमालाभैषज्यान्युच्यन्ते
[पञ्च च याः (६.२५) इति पञ्चपञ्चाशतं परशुपर्णान काष्ठैरादीपयति ॥ कौशिकसूत्र ४,६{३०}.१४ ॥]
ऽपञ्च च याःऽ इति सूक्तेन गोपांशुलिकानां पञ्चाशत्पञ्चाधिका अग्नौ प्रज्वाल्याधस्तादयः समिध आदधाति ॥

[कपाले प्रशृतं काष्ठेनालिम्पति ॥ कौशिकसूत्र ४,६{३०}.१५ ॥]
अग्न्युपरि कपाले पर्णान् धृत्वा श्रपयति । ततः सूक्तं जपित्वा तेनैव काष्ठेन गण्डमालां लिम्पति ॥

[किंस्त्यश्वजाम्बीलोदकरक्षिकामशकादिभ्यां दंशयति ॥ कौशिकसूत्र ४,६{३०}.१६ ॥]
ऽपञ्च च याःऽ इति सूक्तेन शङ्खं घृष्ट्वा ततोऽभिमन्त्र्य गण्डमालां प्रलिम्पति ।ऽपञ्च च याःऽ इति सूक्तेन श्वानकुवकुरलालामभिमन्त्र्य प्रलिम्पति ।ऽपञ्च च याःऽ इति सूक्तेन जलौकामभिमन्त्र्य गण्डमालायां संसर्जयति ।
रुधिरप्रवाहणार्थम् ।ऽपञ्च च याःऽ इति सूक्तेन गृहगोधिकादि मत्स्यादि अभिमन्त्र्य गण्डमालायां संसर्जयति ॥

[निशि अव मा पाप्मन् (६.२६) इति तितौनि पूल्यान्यवसिच्यापविध्य ॥ कौशिकसूत्र ४,६{३०}.१७ ॥
अपरेद्युः सहस्राक्षायाप्सु बलींस्त्रीन् पुरोडाशसंवर्तांश्चतुष्पथेऽवक्षिप्यावकिरति ॥ कौशिकसूत्र ४,६{३०}.१८ ॥]
षष्ठी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ३० ॥


[यस्ते मदः (६.३०.२) इति शमीलूनपापलक्षणयोः शमीशम्याकेनाभ्युद्य वापयति ॥ कौशिकसूत्र ४,७{३१}.१ ॥
अधिशिरः ॥ कौशिकसूत्र ४,७{३१}.२ ॥
अन्तर्दावे (६.३२) इति समन्तमग्नः कर्ष्वामुष्णपूर्णायां जपंस्त्रिः परिक्रम्य पुरोडाशं जुहोति ॥ कौशिकसूत्र ४,७{३१}.३ ॥
प्राग्नये (६.३४) प्रेतः (७.११४.२) इत्युपदधीत ॥ कौशिकसूत्र ४,७{३१}.४ ॥]
ऽप्राग्नये वाचम्ऽ इति सूक्तेन पुरोडाशं जुहोति ।ऽप्राग्नये वाचम्ऽ इति सूक्तेन पयो जुहोति ।ऽप्राग्नये वाचम्ऽ इति सूक्तेनोदौदनं जुहोतिऽप्राग्नयेऽ इति सूक्तेन पायसं जुहोति ।ऽप्राग्नये वाचम्ऽ इति सूक्तेन पशुं जुहोति । वपामवदानानि चरुं च वशाविधानेन ।ऽप्राग्नयेऽ इति सूक्तेन व्रीहीनावपति । रक्षोग्रहभैषज्यम् । अनुवर्तते विकारः ।ऽप्राग्नये वाचम्ऽ इति सूक्तेन यवाञ्जुहोति ।ऽप्राग्नयेऽ इति तिलाञ्जुहोति ।ऽप्राग्नयेऽ इति धाना जुहोति ।ऽप्राग्नयेऽ इति दधिसक्तूञ्जुहोति ।ऽप्राग्नयेऽ इति सूक्तेन शष्कुलीर्जुहोति । प्रत्यृचं होमः ।ऽप्रतो यन्तुऽ इत्यचाज्यं जुहोति तन्त्रे । रक्षोग्रहभैषज्यम् ।ऽप्रेतो यन्तुऽ इत्यृचा शान्तवृक्षसमिध आदधाति ।ऽप्रेतो यन्तुऽ इत्यृचा पुरोडाशं जुहोति ।ऽप्रेतो यन्तुऽ इत्यृचा पायसं जुहोति ।ऽप्रेतो यन्तुऽ इत्यृचा पशुं जुहोति । वशाविधानेन ।ऽप्रेतो यन्तुऽ इत्यृचा व्रीहीञ्जुहोति ।ऽप्रेतो यन्तुऽ इत्यृचा यवाञ्जुहोति । तन्त्रविकल्पः ।ऽप्रेतो यन्तुऽ इत्यृचा दधिसक्तूञ्जुहोति ।ऽप्रेतो यन्तुऽ इत्यृचा शष्कुलीर्जुहोति समाप्तं राक्षसग्रहभैषज्यम् ॥

अथ सर्वभैषज्यमुच्यते
[वैश्वानरीयाभ्यां पायनानि ॥ कौशिकसूत्र ४,७{३१}.५ ॥]
ऽवैश्वानरो न ऊतयेऽ (६.३५)ऽऋतावानं वैश्वानरम्ऽ (६.३६) इति सूक्ताभ्यामुदपात्रमभिमन्त्र्य पाययति । सर्वव्याधिभैषज्यम् । वैश्वानरीयाभ्यां सूक्ताभ्यां सक्तुमन्थमभिमन्त्र्य पाययति । सर्वभैषज्यम् ।ऽवैश्वानरो नऽऽऋतावानम्ऽ इति सूक्ताभ्यां हरिद्रां सर्पिष्यभिमन्त्र्य पाययति ।ऽवैश्वानरो नऽऽऋतावानम्ऽ इति सूक्ताभ्यामुद्धृतमुदकमभिमन्त्र्य पाययति । आज्य तन्त्रेऽपि यत्पीयते, तत्संशृत्य पाययति वैश्वानरीयाभ्यां सूक्ताभ्याम् । समाप्तं सर्वभैषज्यम् ॥

अथापवादभैषज्यमुच्यते
[अस्थाद्द्यौः (६.४४) इत्यपवातायाः स्वयंस्रस्तेन गोशृङ्गेण सम्पातवता जपन् ॥ कौशिकसूत्र ४,७{३१}.६ ॥]
बहुभाषणमधर्मे च प्रवर्तते सोऽपवादः । अभ्यातानान्तं कृत्वाऽअस्थाद्द्यौःऽ इति सूक्तेन पूर्वेण स्वयम्पतितं गोशृङ्गं सम्पात्य ततः शृङ्ग उदकं कृत्वाभिमन्त्र्याचामयत्यभ्युक्षति च । अभ्यातानाद्युत्तरतन्त्रम् । अपवादभैषज्यं समाप्तम् । अपवादश्चन्द्रग्रहादिषु बहुभाषणादि ॥

अथोदरे वा हृदये वाङ्गे वा सर्वाङ्गे वा शूल उत्पन्ने भैषज्यमुच्यते
[यां ते रुद्रः (६.९०) इति शूलिने शूलम् ॥ कौशिकसूत्र ४,७{३१}.७ ॥]
अभ्यातानान्तं कृत्वाऽयां ते रुद्रःऽ इति सूक्तेन शूलमणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । शूलो लोहमणिः पाषाणो वा दारिलभद्रमतम् ।ऽयां ते रुद्रःऽ इति सूक्तेन व्याधितमभिमन्त्रयते । रुद्रभाष्यमतम् । शूलभैषज्यं समाप्तम् ॥

रक्षोग्रहभैषज्यमुच्यते
[उत्सूर्यः (६.५२) इति शमीबिम्बशीर्षपर्ण्यावधि ॥ कौशिकसूत्र ४,७{३१}.८ ॥]
ऽउत्सूर्यःऽ इति सूक्तेन चित्त्याद्योषधिभिः सहोदकघटमभिमन्त्र्य व्याधितमवसिञ्चति ।ऽउत्सूर्यःऽ इति सूक्तेन शमीमुदकेन सहाभिमन्त्र्यावसिञ्चति ।ऽउत्सूर्यःऽ इति सूक्तेन शमीबिम्बमुदकसहितमभिमन्त्र्यावसिञ्चति ।ऽउत्सूर्यःऽ इति सूक्तेन शीर्षपर्णीमुदकेन दत्त्वाभिमन्त्र्य व्याधितमवसिञ्चति । समाप्तं रक्षोग्रहभैषज्यम् ॥

दुष्टगण्डविरिष्टभैषज्यमुच्यते
[द्यौश्च मे (६.५३) इत्यभ्यज्यावमार्ष्टि ॥ कौशिकसूत्र ४,७{३१}.९ ॥]
ऽद्यौश्च मे इदं पृथिवीऽ इति तृचेन सूक्तेन तैलमभिमन्त्र्य गण्डमभ्यज्य हस्तेन व्याधितमवमार्ष्टि । अभ्युक्षतीत्यर्थः । दुष्टगण्डभैषज्यम् ।ऽद्यौश्च मेऽ इति सूक्तं जपन् व्याधिदेशं हस्तेन मार्ष्टि । दुष्टगण्डे दुष्टव्रणे च भैषज्यम् ॥

[स्थूणायां निकर्षति ॥ कौशिकसूत्र ४,७{३१}.१० ॥]
ऽद्यौश्च मेऽ इति सूक्तेन स्थूणायां व्रणं निकर्षति । घृष्यतीत्यर्थः । रुधिरकृते दुष्टव्रणे दुष्टगण्डे भैषज्यं समाप्तम् ॥

अक्षतव्रणभैषज्यमुच्यते
[इदमिद्वै (६.५७) इत्यक्षतं मूत्रफेनेनाभ्युद्य ॥ कौशिकसूत्र ४,७{३१}.११ ॥]
ऽइदमिद्वा उ भेषजम्ऽ इति सूक्तेन गोमूत्रमभिमन्त्र्य । तेन व्रणं मर्दयति ॥

[प्रक्षिपति ॥ कौशिकसूत्र ४,७{३१}.१२ ॥]
ऽइदमिद्वा उ भेषजम्ऽ इति सूक्तेन मूत्रेण व्रणं क्षिपति ॥

[प्रक्षालयति ॥ कौशिकसूत्र ४,७{३१}.१३ ॥]
तेनैव सूक्तेन मूत्रेण व्रणं प्रक्षालयति । यस्य व्रणस्य मुखं नास्त्यक्षतव्रणमुच्यते ॥

[दन्तरजसावदेग्धि ॥ कौशिकसूत्र ४,७{३१}.१४ ॥]
ऽइदमिद्वा उ भेषजम्ऽ इति सूक्तेन दन्तमलमभिमन्त्र्य प्रलिम्पति । अक्षतव्रणभैषज्यम् ॥

[स्तम्बरजसा ॥ कौशिकसूत्र ४,७{३१}.१५ ॥]
ऽइदमिद्वा उ भेषजम्ऽ इति सूक्तेन तृणरजस्य फेनमभिमन्त्र्य व्रण प्रलिम्पति । यस्य व्रणस्य रुधिरं न वहति तस्य । समाप्तमक्षतव्रणभैषज्यम् ॥

गण्डमालाभैषज्यमुच्यते
[अपचितः (६.८३) आ सुस्रसः (७.७६) इति किंस्त्यादीनि ॥ कौशिकसूत्र ४,७{३१}.१६ ॥]
ऽअपचितः प्र पततऽ इति सूक्तेन शङ्खं घृष्ट्वाभिमन्त्र्य गण्डमालां प्रलिम्पति ।ऽअपचितःऽ इति सूक्तेन श्वानलालामभिमन्त्र्य गण्डमालां प्रलिम्पति । श्वानः कुर्करः । गण्डमालाभैषज्यम् ।ऽअपचितःऽ इति सूक्तेन जलौकामभिमन्त्र्य गण्डमालायां संश्लेषयति । यथाकथञ्चिद्रुधिरप्रवाहणार्थम् ।ऽअपचितःऽ इति सूक्तेन गृहगोधिकामभिमन्त्र्य गण्डमालायामासजति ।ऽआ सुस्रसःऽ इति द्वाभ्यां शङ्खं घृष्ट्वाभिमन्त्र्य ततो गण्डमालां प्रलिम्पति ।ऽआ सुस्रसःऽ इति द्वाभ्यां श्वानलालां कुर्करलालामभिमन्त्र्य गण्डमालां प्रलिम्पति । गण्डमालाभैषज्यम् ।ऽआ सुस्रसःऽ इति द्वाभ्यां जलौकामभिमन्त्र्य गण्डमालायां संसर्जयति रुधिरप्रवाहणार्थम् ।ऽआ सुस्रसःऽ इति द्वाभ्यां गृहगोधिकां मशकादीमभिमन्त्र्य गण्डमालायां संसर्जयति रुधिरप्रवाहणार्थम् ॥

[लोहितलवणं सङ्क्षुद्याभिनिष्ठीवति ॥ कौशिकसूत्र ४,७{३१}.१७ ॥]
ऽअपचितःऽ इति सूक्तेन सैन्धवलवणं चूर्णयित्वाभिमन्त्र्य गण्डमालायां उपरि प्रकिरति । ततस्तस्योपरि निष्ठीवति । मुखलालां प्रक्षिपति तूष्णीम् ।ऽआ सुस्रसःऽ इति द्वाभ्यां सैन्धवलवणं चूर्णयित्वाभिमन्त्र्य व्याध्युपरि प्रकिरति । ततस्तूष्णीमुपरि निष्ठीवति ।
समाप्तं गण्डमालाभैषज्यम् ॥

अथ पक्षिणोऽभिघाते भैषज्यमुच्यते
[अन्तरिक्षेण (६.८०) इति पक्षहतं मन्त्रोक्तं चङ्क्रमया ॥ कौशिकसूत्र ४,७{३१}.१८ ॥]
ऽअन्तरिक्षेण पततिऽ इति सूक्तेन श्वानपदस्थानमृत्तिकामभिमन्त्र्य पक्षहतं देशं प्रलिम्पति । पक्षहतभैषज्यम् ॥

[कीटेन धूपयति ॥ कौशिकसूत्र ४,७{३१}.१९ ॥]
ऽअन्तरिक्षेण पततिऽ इति सूक्तेन शुनो मक्षिकामभिमन्त्र्याग्नौ प्रक्षिप्य ततो धूपयति व्याधिप्रदेशम् । काकगृध्रकपोतश्येनादीनां पक्षिणामभिघाते भैषज्यं समाप्तम् ॥

अथ गण्डभैषज्यमुच्यते
[ग्लौः (६.८३.३) इत्यक्षतेन ॥ कौशिकसूत्र ४,७{३१}.२० ॥]
ऽग्लौरितः प्र पतिष्यतिऽ इत्यर्धर्चेन गोमूत्रमभिमन्त्र्य गण्डं मर्दयति गण्डभैषज्यम् ।ऽग्लौरितः प्र पतिष्यतिऽ इत्यर्धर्चेन गोमूत्रमभिमन्त्र्य गण्डं प्रक्षालयति ।ऽग्लौरितः प्र पतिष्यतिऽ इत्यर्धर्चेन दन्तमलमभिमन्त्र्य गण्डं प्रलिम्पति ।ऽग्लौरितः प्र पतिष्यतिऽ इत्यर्धर्चेन तृणरजफेनमभिमन्त्र्य गण्डं प्रलिम्पति । समाप्तं गण्डभैषज्यम् । गण्डः स्फोटक इत्यर्थः ॥

गर्दभश्वानाद्युरुगण्डे भैषज्यमुच्यते
[वीहि स्वाम् (६.८३.४) इत्यज्ञातारुः शान्त्युदकेन सम्प्रोक्ष्य मनसा सम्पातवता ॥ कौशिकसूत्र ४,७{३१}.२१ ॥]
ऽवीहि स्वामाहुतिं जुषाणःऽ इति सूक्तेन शान्त्युदकमभिमन्त्र्य ततः क्षतं प्रोक्षति । तत आज्यतन्त्रं कृत्वाऽवीहि स्वामाहुतिम्ऽ इति सूक्तेनाज्यं जुहोति । ततो मनसा सङ्कल्पयति । सम्पातान् ददाति । उत्तरतन्त्रम् । समाप्तं गर्दभदशनक्षतगण्डभैषज्यम् ॥

पापगृहीते जलोदरे च भैषज्यमुच्यते
[या ओषधयः (६.९६) इति मन्त्रोक्तस्यौषधीभिर्धूपयति ॥ कौशिकसूत्र ४,७{३१}.२२ ॥]
ऽया ओषधयः सोमराज्ञीःऽ इति सूक्तेन तृचेन सोमलता अग्नौ प्रक्षिप्य व्याधितं धूपयति ॥

[मधूदश्वित्पाययति ॥ कौशिकसूत्र ४,७{३१}.२३ ॥]
ऽया ओषधयःऽ इति तृचेन मधु तक्रं चाभिमन्त्र्य पाययति । जलोदरे पापे शापे च भैषज्यम् ॥

[क्षीरोदश्वित् ॥ कौशिकसूत्र ४,७{३१}.२४ ॥]
ऽया ओषधयः सोमराज्ञीःऽ इति तृचेन क्षीरं तक्रेण मिश्रयित्वाभिमन्त्र्य पाययति ॥

[उभयं च ॥ कौशिकसूत्र ४,७{३१}.२५ ॥]
ऽया ओषधयःऽ इति सूक्तेन मधु तक्रं क्षीरं दध्येतच्चतुष्टयमेकत्र कृत्वाभिमन्त्र्य पाययति । ब्राह्मणाक्रोशे पापगृहीते जलोदरे च भैषज्यं समाप्तम् ॥

विष उपविषे स्थावरे जङ्गमे च भैषज्यमुच्यते । मक्षिकायां च भैषज्यम्
[देवा अदुः (६.१००) इति वल्मीकेन बन्धनपायनाचमनप्रदेहनमुष्णेन ॥ कौशिकसूत्र ४,७{३१}.२६ ॥]
ऽदेवा अदुःऽ इति तृचेन वल्मीकपोट्टलिकां कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । आज्यतन्त्रम् ।ऽदेवा अदुःऽ इति तृचेन वल्मीकमृत्तिकामुदकमध्ये प्रक्षिप्य ततोऽभिमन्त्र्य पाययति ।ऽदेवा अदुःऽ इति तृचेन वल्मीकमृदमुदके प्रक्षिप्य ततोऽभिमन्त्र्याचामयति । विषभैषज्यम् ।ऽदेवा अदुःऽ इति तृचेन वल्मीकमृत्तिकामुष्णोदके प्रक्षिप्य ततोऽभिमन्त्र्य प्रलिम्पति विषदष्टव्रणम् । उपविषे विषे च मक्षिकानां भैषज्यम् । समाप्त विषभैषज्यम् ॥

अथ कासे श्लेष्मपतने च भैषज्यमुच्यते
[यथा मनः (६.१०५) अव दिवः (७.१०७) इत्यरिष्टेन ॥ कौशिकसूत्र ४,७{३१}.२७ ॥]
ऽयथा मनो मनस्केतैःऽ इति सूक्तेन भोजनमभिमन्त्र्य ददाति भक्षणार्थं प्रथमं प्रपाद्य ।ऽयथा मनःऽ इति सक्तुमन्थमभिमन्त्र्य भक्षयति । कासपतने भैषज्यम् । उपस्थानमादित्यस्य द्विः सूक्तस्य प्रयोगः ।ऽयथा मनो मनःऽ इति सूक्तेनोदकमभिमन्त्र्याचामयति । तत उपस्थानं चादित्यस्य । द्विः सूक्तावृत्तिः । कासपतने भैषज्यम् ।ऽअव दिवस्तारयन्तिऽ इत्यृचा प्रपाद्य गृहे प्रवेश्य ततो भोजनमभिमन्त्र्य ददाति भक्षणार्थम् । कासपतने भैषज्यम् ।ऽअव दिवस्तारयन्तिऽ इत्यृचा सक्तुमभिमन्त्र्य ददाति भक्षणार्थमुपस्थानं च ।ऽअव दिवस्तारयन्तिऽ
इत्यृचोदकमभिमन्त्र्याचामयत्युपस्थानमादित्यस्य । सर्वत्र द्विः सूक्तप्रयोगः । समाप्तं कासश्लेष्मपतने भैषज्यम् ॥

केशदृढीकरणे केशवृद्धिकरणे च भैषज्यमुच्यते
[देवी देव्याम् (६.१३६) यां जमदग्निः (६.१३७) इति मन्त्रोक्ताफलं जीव्यलाकाभ्याममावास्यायां कृष्णवसनः कृष्णभक्षः पुरा काकसम्पातादवनक्षत्रेऽवसिञ्चति ॥ कौशिकसूत्र ४,७{३१}.२८ ॥]
अभ्यातानान्तं कृत्वाऽदेवी देव्याम्ऽऽयां जमदग्निःऽ इति सूक्ताभ्यां काचमाचीफलमणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् ।ऽदेवी देव्याम्ऽऽयां जमदग्निःऽ इति सूक्ताभ्यां जीवन्तीफलमणिं बध्नाति । आज्यतन्त्रम् ।ऽदेवी देव्याम्ऽऽयां जमदग्निःऽ इति सूक्ताभ्यां भृङ्गराजं सम्पात्याभिमन्त्र्य बध्नात्याज्यतन्त्रे । केशदृढीकरणे केशजनने ह्रस्वकेशेषु वृद्धिकरणे भैषज्यम् । अमावास्यायामिदं कर्म कुर्यात् । कृष्णवस्त्रपरिहितो भूत्वा माषतिलकृष्णमन्नं भैक्षयित्वा कर्ताऽदेवी देव्याम्ऽऽयां जमदग्निःऽ इति सूक्ताभ्यां काचमाचीफलभृङ्गराजाभ्यां सहोदकमभिमन्त्र्य रात्रौ ब्राह्मे मुहूर्तेऽवसिञ्चति । तेनोदकेन पुरा काकसम्पातादवनक्षत्रेऽवसिञ्चति । समाप्तं केशवृद्धिकरणं केशजननं खलतिकेशजननं केशदृढीकरणं पलितनाशनं भैषज्यम् ॥ सप्तमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ३१ ॥


जम्भगृहीते भैषज्यमुच्यते
[यस्ते स्तनः (७.१०) इति जम्भगृहीताय स्तनं प्रयच्छति ॥ कौशिकसूत्र ४,८{३२}.१ ॥]
ऽयस्ते स्तनःऽ इत्यृचा स्तनमभिमन्त्र्य बालकाय प्रयच्छति पानार्थं पतिः करोति कर्ता वा करोति । जम्भगृहीते भैषज्यम् । दुःखनाशने भैषज्यम् ॥

[प्रियङ्गुतण्डुलानभ्यवदुग्धान् पाययति ॥ कौशिकसूत्र ४,८{३२}.२ ॥]
ऽयस्ते स्तनःऽ इत्यृचा प्रियङ्गुतण्डुलानभ्यवदुग्धानभिमन्त्र्य पाययति । बालकं मातरं वा पाययति । यत्रोपरि दुह्यते तेऽभ्यवदुग्धाः । जम्भगृहीते दुःखनाशे च भैषज्यम् ॥

सर्वव्याधिभैषज्यमुच्यते
[अग्नाविष्णू (७.२९) सोमारुद्रा (७.४२) सिनीवालि (७.४६) वि ते मुञ्चामि (७.७८) शुम्भनी (७.११२) इति मौञ्जेः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति ॥ कौशिकसूत्र ४,८{३२}.३ ॥]
अभ्यातानान्तं कृत्वाऽअग्नाविष्णूऽ इति द्वाभ्यां मौञ्जेः पाशैर्व्याधितं बद्ध्वा शरपिञ्जूलीभिः सहोदकघटं सम्पात्याभिमन्त्र्याप्लावयति । मार्जनाचमने च । तत उत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् । अभ्यातानान्तं कृत्वाऽसोमारुद्रा वि वृहतम्ऽ इति द्वाभ्यामुदकघटं सम्पात्याभिमन्त्र्य ततो मौञ्जेः पर्वसु व्याधित बद्ध्वा दर्भपिञ्जूलीभिः सहोदकघटेनाप्लावयति । तत उत्तरतन्त्रम् । सर्वभैषज्यम् । अभ्यातानान्तं कृत्वाऽसिनीवालिऽ इति नवभिरृग्भिरुदकघटं सम्पात्याभिमन्त्र्य मौञ्जेः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति । मार्जनाचमने च स्मर्तव्ये सर्वत्र सर्वभैषज्यम् ।ऽवि ते मुञ्चामि रशनाम्ऽ इति द्वाभ्यामुदकघटं सम्पात्याभिमन्त्र्य मौञ्जेः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति । आज्यतन्त्रम् । अभ्यातानान्तं कृत्वाऽशुम्भनीऽऽमुञ्चन्तु माऽ (७.११२.१२) इति द्वाभ्यामुदकघटं सम्पात्याभिमन्त्र्य मौञ्जेः पाशैः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति । तत उत्तरतन्त्रम् ॥

[अवसिञ्चति ॥ कौशिकसूत्र ४,८{३२}.४ ॥]
ऽअग्नाविष्णूऽ इति द्वाभ्यां पिञ्जूलीभिः सहोदकमभिमन्त्र्य व्याधितमवसिञ्चति ।ऽसोमारुद्राऽ इति द्वाभ्यामुदकमभिमन्त्र्य व्याधितमवसिञ्चति । सर्वभैषज्यम् ।ऽसिनीवालिऽ इति नवभिरृग्भिरुदकमभिमन्त्र्यावसिञ्चति ।ऽवि ते मुञ्चामिऽ इति द्वाभ्यामुदकमभिमन्त्र्यावसिञ्चति ।ऽशुम्भनीऽ इति द्वाभ्यामुदकमभिमन्त्र्यावसिञ्चति । सर्वत्र मौञ्जैः पाशैरङ्गुलीत्रयं बद्ध्वा तताप्लावनमवसेवनं च सर्वत्र कुर्यात् । अस्मिन्नधिकारे आप्लावनेऽवसेचने च मार्जनमाचमनं च सर्वत्र । समाप्तानि सर्वव्याधिभैषज्यानि ॥

वृश्चिकभैषज्यमुच्यते
[तिरश्चिराजेः (७.५६) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ४,८{३२}.५ ॥]
ऽतिरश्चिराजेःऽ इत्यष्टर्चेन ज्येष्ठीमधु पिष्ट्वाभिमन्त्र्य पाययति ॥

[आकृतिलोष्टवल्मीकौ परिलिख्य ॥ कौशिकसूत्र ४,८{३२}.६ ॥]
ऽतिरश्चिराजेःऽ इति सूक्तेन क्षेत्रमृत्तिकां जीवकोषण्यां सम्पात्याभिमन्त्र्य बध्नाति । तन्त्रं कृत्वाऽतिरश्चिराजेःऽ इत्यष्टर्चेन वल्मीकमृत्तिकां सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । वृश्चिकमशकभैषज्यम् । जीवत्पशुचर्म जीवकोषणीत्युच्यते ॥

[पायनानि ॥ कौशिकसूत्र ४,८{३२}.७ ॥]
ऽतिरश्चिराजेःऽ इत्यष्टर्चेनोदपात्रमभिमन्त्र्य पाययति । वृश्चिकभैषज्यम् ।ऽतिरश्चिराजेःऽ इत्यष्टर्चेन हरिद्रां सर्पिषा सह मिश्रितां कृत्वाभिमन्त्र्य पाययति ।ऽतिरश्चिराजेःऽ इत्यष्टर्चेनोदपात्रं सहमधुदुग्धचर्वभिमन्त्र्य पाययति ।ऽतिरश्चिराजेःऽ इत्यष्टर्चेन वल्मीकमृत्तिकामभिमन्त्र्य पाययति । यानि पायनान्युक्तानि तानिऽतिरश्चिराजेःऽ इत्यस्य सूक्तस्य भवन्ति । समाप्तं वृश्चिकपिपीलिकामशकदंशशर्कोटजलूकाभैषज्यम् ॥

अथ गण्डमालाभैषज्यमुच्यते
[अपचिताम् (७.७४) इति वैणवेन दार्भ्यूषेण कृष्णोर्णाज्येन कालबुन्दैः स्तुकाग्रैरिति मन्त्रोक्तम् ॥ कौशिकसूत्र ४,८{३२}.८ ॥]
ऽअपचितां लोहिनीनाम्ऽ (७.७४.१२) इति द्वे ।ऽआ सुस्रसःऽ इत्येका (७.७६.१) । एताभिस्तिसृभिर्वंशधनुषा कृष्णोर्णामयीं ज्यां कृत्वा चित्रितेन शरेण गण्डमालां विध्यति प्रत्यृचम् । त्रयः शरा भवन्ति ॥

[चतुर्थ्याभिनिधायाभिविध्यति ॥ कौशिकसूत्र ४,८{३२}.९ ॥]
ऽया ग्रैव्या अपचितःऽ (७.७६.२) इति चतुर्थ्या ऋचा चतुर्थेन शरेण गण्डमालामभिनिधाय विध्यत्याहन्ति । चतुर्थशरेण गण्डमालां प्रश्लेषयति । शरस्य स्वं भल्लं बहिर्वर्जयित्वा ॥

[ज्यास्तुकाज्वालेन ॥ कौशिकसूत्र ४,८{३२}.१० ॥]
ऽअपचिताम्ऽ इति द्वेऽआ सुस्रसःऽ इति तृतीयाऽया ग्रैव्याःऽ इति चतुर्थी एताभिश्चतसृभिः शरकृष्णोर्णाज्यावज्वालितमुदकमभिमन्त्र्योषाकाले रात्रिशेषे तेनोदकेनावसिञ्चति व्याधितम् । द्विविधा गण्डमाला । समाप्तं गण्डमालाभैषज्यम् । द्वयोरेकं कर्म ॥

अथ राजयक्ष्मभैषज्यमुच्यते
[यः कीकसाः (७.७६.३) इति पिशीलावीणातन्त्रीं बध्नाति ॥ कौशिकसूत्र ४,८{३२}.११ ॥]
आज्यतन्त्रं कृत्वाऽयः कीकसाःऽ (७.७६.३४॑ ७७.१) इति तृचेन वीणातन्त्रीखण्डं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । राजयक्ष्मभैषज्यम् ॥

[तन्त्र्या क्षितिकाम् ॥ कौशिकसूत्र ४,८{३२}.१२ ॥]
पूर्वतन्त्रं कृत्वाऽयः कीकसाःऽ इति तृचेन वाद्यवीणा तस्याः खण्डं विष्णीवाद्यवीणाकण्ठं शङ्खखण्डं वीणातन्त्रीं बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । राजयक्ष्मभैषज्यम् ॥

[वीरिणवध्रीं स्वयम्म्लानं त्रिः समस्य ॥ कौशिकसूत्र ४,८{३२}.१३ ॥]
अभ्यातानान्तं कृत्वाऽयः कीकसाःऽ इति तृचेन स्वयम्पतितम्लानवीरिणखण्डत्रयमेकत्र बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । राजयक्ष्मभैषज्यम् । सर्वत्र यत्र बहूनि कर्माणि विहितानि तत्रैकं कुर्यात्द्वे वा सर्वाणि वा कुर्यात् । सर्वत्र कर्मणां विकल्पः । सर्वत्र हस्तहोमे तन्त्रविकल्पः । अभ्यासे वा फलं भवति । समाप्तं राजयक्ष्मभैषज्यम् ॥

जलोदरे वरुणगृहीते भैषज्यमुच्यते
[अप्सु ते (७.८३) इति वहन्त्योर्मध्ये विमिते पिञ्जूलीभिराप्लावयति ॥ कौशिकसूत्र ४,८{३२}.१४ ॥]
वहन्त्योर्नद्योर्मध्ये मण्डपं कृत्वा तत्राज्यतन्त्रं कृत्वाऽअप्सु ते राजन् वरुणऽ इति चतुरृचेनोष्णोदकघटं सम्पात्याभिमन्त्र्य पिञ्जूलीभिः सह व्याधितमाप्लावयति । मार्जनाचमने च । तत उत्तरतन्त्रम् । जलोदरे भैषज्यम् ॥

[अवसिञ्चति ॥ कौशिकसूत्र ४,८{३२}.१५ ॥]
नदीद्वयोर्वहन्त्योः सङ्गमे मण्डपं कृत्वाऽअप्सु ते राजन्ऽ इति चतुरृचेनोदकमभिमन्त्र्य दर्भपिञ्जूलीभिः सहोदकं गृहीत्वा व्याधितमवसिञ्चति । मार्जनाचमने च । जलोदरे भैषज्यम् ॥

[उष्णाः सम्पातवतीरसम्पाताः ॥ कौशिकसूत्र ४,८{३२}.१६ ॥]
आप्लवनमुष्णोदकेनावसेचनं शीतोदकेन । द्वयोरेकं कर्म । समाप्तं जलोदरभैषज्यम् ॥

अथ ज्वरभैषज्यमुच्यते
[नमो रूराय (७.११६११७) इति शकुनीनिवेषीकाञ्जिमण्डूकं नीललोहिताभ्यां सूत्राभ्यां सकक्षं बद्ध्वा ॥ कौशिकसूत्र ४,८{३२}.१७ ॥]
ऽनमो रूरायऽ इति सूक्तद्वयेन खट्वायां व्याधितं कृत्वा मण्डूकमिषीकाञ्जि नीललोहिताभ्यां सूत्राभ्यां सकक्षं बद्ध्वा । ततः खट्वायामधो मण्डूकं कृत्वा खट्वायां व्याधितमुपवेश्य तत उदकमभिमन्त्र्य व्याधितमवसिञ्चति । व्याधिते सिच्यमाने यथा मण्डूकोऽवसिच्यते तथा कुर्यात् । मार्जनाचमने च सर्वत्र स्मर्तव्ये । समाप्तं ज्वरभैषज्यम् ॥
अथ सर्वभैषज्यमुच्यते
[शीर्षक्तिम् (९.८) इत्यभिमृशति ॥ कौशिकसूत्र ४,८{३२}.१८ ॥]
ऽशीर्षक्तिं शीर्षामयम्ऽ इत्यर्थसूक्तेन व्याधितशरीरमभिमृशति । अभिमन्त्रणं कुर्यादित्यर्थः ॥

[उत्तमाभ्यामादित्यमुपतिष्ठते ॥ कौशिकसूत्र ४,८{३२}.१९ ॥]
ऽपादाभ्यां तेऽ (९.८.२१२२) इति द्वाभ्यामृग्भ्यामादित्यमुपतिष्ठते । शिरोरोगे कर्णरोगेऽङ्गरोगे शूले लोहितमूत्रे लोहितपुरीषे यक्ष्मणि मुखरोगेऽक्षिरोगेऽङ्गभेदेऽङ्गज्वरे व्याधिसर्पण उरोरोगे शरीराभ्यन्तररोगे हृदयरोगे कासे श्लेष्मणि गुह्यादिभैषज्यम् । समाप्तं सर्वभैषज्यम् ॥

सर्वविषभैषज्यमुच्यते
[इन्द्रस्य प्रथमः (१०.४) इति तक्षकायेत्युक्तम् ॥ कौशिकसूत्र ४,८{३२}.२० ॥]
तक्षकाय नमस्कारं कृत्वाऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेनोदकमभिमन्त्र्याचामयति । विषभैषज्यम् । तक्षकाय नमस्कारं कृत्वाऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेनोदकमभिमन्त्र्य व्याधितमवसिञ्चति । मार्जनाचमने च । विषभैषज्यम् ।ऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेनोदके कृमुकवृक्षशकलं सङ्क्षुद्याभिमन्त्र्य पाययति ।ऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेन दुल्लकशकृद्गोमयेनाव ज्वालितमुदकमभिमन्त्र्यावसिञ्चति ।ऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेन कृष्णाजिनावज्वालितमुदकमभिमन्त्र्य विषदष्टमवसिञ्चति ।ऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेन मार्जनिकातृणावज्वालितमुदकमभिमन्त्र्याचामयति । विषभैषज्यम् ।ऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेनोदपात्रं सम्पात्याभिमन्त्र्य ततः पाययति । आज्यतन्त्रे । विषभैषज्यम् ।ऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेन सक्तुमन्थमर्ध्वफलकाण्डाभ्यामुपमथ्य ततोऽभिमन्त्र्य पाययति । विषभैषज्यम् ।ऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेन मदनफलान्यभिमन्त्र्य भक्षयति छर्दनार्थम् । विषभैषज्यम् ।ऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेन हरिद्रां घृतेन सहाभिमन्त्र्य व्याधितं पाययति ॥

[पैद्वं प्रकर्ष्य दक्षिणेनाङ्गुष्ठेन दक्षिणस्यां नस्तः ॥ कौशिकसूत्र ४,८{३२}.२१ ॥]
ऽइन्द्रस्य प्रथमःऽ इत्यर्थसूक्तेन पद्वं कीटकं तलिणीति लोके प्रसिद्धा तं पिष्ट्वाभिमन्त्र्य नस्तं ददाति । दक्षिणेनाङ्गुष्ठेन दक्षिणनासिकापुटे । समाप्तं विषभैषज्यम् ॥

अथ सर्पभये भैषज्यमुच्यते
[अहिभये सिच्यवगूहयति ॥ कौशिकसूत्र ४,८{३२}.२२ ॥]
ऽइन्द्रस्य प्रथमःऽ इति सूक्तेन पैद्वं श्वेतवस्त्रवेष्टितमभिमन्त्र्य यत्र सर्पभयं तत्र निखनति । पैद्वं
हिरण्यवर्णसदृशः कीटश्चित्रितो वा स पैद्व इत्युच्यते । सर्पभये भैषज्यम् । बध्नाति वोपरि गृहे सर्पदर्शनादर्शने वा ॥

[अङ्गादङ्गात्(१०.४.२५) इत्या प्रपदात् ॥ कौशिकसूत्र ४,८{३२}.२३ ॥]
ऽअङ्गादङ्गात्प्रच्यावयऽ इत्यृचाऽऽप्रपदान्तं शिरःप्रभृति हस्तेन मार्ष्टि । शङ्काविषभैषज्यम् ॥

[दंश्मोत्तमया निताप्याहिमभिनिरस्यति ॥ कौशिकसूत्र ४,८{३२}.२४ ॥]
ऽआरे अभूत्ऽ (१०.४.२६) इत्यृचान्तेनोल्मुकं प्रताप्याभिमन्त्र्य ततो विषव्रणं दृष्ट्वा तत्सम्मुखं क्षिपति । सर्पविषभैषज्यम् ॥

[यतो दष्टः ॥ कौशिकसूत्र ४,८{३२}.२५ ॥]
सर्पादर्शने यतो दष्टस्ततः प्रक्षिपत्युल्मुकम् । समाप्तं सर्पविषभैषज्यम् ॥
अथानूक्तेषु कौशिकीयेषु सर्वव्याधिभैषज्येषूक्तेष्वनूक्तेषु वा पठितेषु तत्र सर्वत्र भैषज्यमुच्यते । सर्वव्याधिभैषज्येषु मन्त्राः ॥

ओषधिवनस्पतीनामनूक्तान्यप्रतिषिद्धानि भैषज्यानाम् ॥ कौशिकसूत्र ४,८{३२}.२६ ॥
अंहोलिङ्गाभिः ॥ कौशिकसूत्र ४,८{३२}.२७ ॥
तानि कर्तव्यानि । अंहोलिङ्गगण उच्यते ।ऽआशानामाशापालाःऽ (१.३१.२) इत्येका ।ऽअग्नेर्मन्वेऽ (४.२३२९) इति सप्त सूक्तानि ।ऽया ओषधयः सोमराज्ञीःऽ (६.९६.१) इत्यका ।ऽवैश्वानरो न आगमत्ऽ (६.३५.२) इत्येका ।ऽशुम्भनी द्यावापृथिवीऽ (७.११७.१) इत्येका ।ऽयदर्वाचीनम्ऽ (१०.५.२२) इत्येका ।ऽअग्निं ब्रूमःऽ (११.६) इत्यर्थसूक्तम् । अस्मिन् सूक्तेऽमुञ्चतु माऽ (११.६.७),ऽभवाशर्वाविदम्ऽ (११.६.९),ऽया देवीः पञ्चऽ (११.६.२२)ऽयन्मातली रथक्रीतम्ऽ (११.६.२३) इत्येताश्चतस्रो वर्जयित्वा । अंहोलिङ्गगणः । यानि च पञ्चप्रतीकानि सूक्तानि तान्याभिमन्त्रणन सर्वव्याधिभैषज्यानि भवन्ति । तान्युच्यन्ते ।ऽअक्षीभ्यां तेऽ (२.३३),ऽमुञ्चामि त्वऽ (३.११),ऽउत देवाःऽ (४.१३),ऽआवतस्तेऽ (५.३०),ऽशीर्षक्तिं शीर्षामयम्ऽ (९.८) अंहोलिङ्गगणः । एतैः पञ्चप्रतीकैः सर्वव्याधीनामभिमन्त्रणं क्रियते । पञ्चप्रतीकानामन्यतमेनैकेनाभिमन्त्रणं कुर्यादित्यर्थः ॥

अथांहोलिङ्गगणेन सर्वव्याधिभैषज्यं क्रियते । अंहोलिङ्गगणेनोदपात्रं सम्पात्याभिमन्त्र्य सर्वव्याधिष्वाप्लावयति । आज्यतन्त्रम् । अंहोलिङ्गगणेनोदकमभिमन्त्र्य व्याधितमवसिञ्चति । अंहोलिङ्गगणेन मृत्तिकामभिमन्त्र्य पाययति सर्वव्याधिषु । अंहोलिङ्गगणेन मृत्तिकामभिमन्त्र्य व्याधितमालिम्पति । तथा सम्भवे व्याधिषु । अंहोलिङ्गगणेन प्रमेहमणिं बध्नाति सर्वव्याधिषु । तन्त्रे । अंहोलिङ्गगणेनाखुमृत्तिकामभिमन्त्र्य पाययति सर्वव्याधिभैषज्येषु । अंहोलिङ्गेन गणेन पूतीकान् पिष्ट्वाभिमन्त्र्य पाययति सर्वव्याधिषु । अंहोलिङ्गेन गणेन प्रमन्दं पिष्ट्वाभिमन्त्र्य पाययति सर्वव्याधिषु । अंहोलिङ्गेन गणेनावतक्षणानि पिष्ट्वाभिमन्त्र्य पाययति । अंहोलिङ्गेन गणेनैतेषां द्रव्याणामास्थापयति पाययति च । सर्वव्याधिभैषज्यम् । अंहोलिङ्गेन गणेन यानं सम्पात्याभिमन्त्र्यारोहयति । तन्त्रे । सर्वव्याधिषु । अत्र सर्वत्रेषुं विसृजतीति च योजनीयम् । आज्यतन्त्रमभ्यातानान्तं कृत्वांहोलिङ्गेन गणेनोदपात्रं सम्पातवन्तं कृत्वा तेन व्याधिदेशं सम्मार्ष्टि । अभ्यातानाद्युत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् । अंहोलिङ्गेन गणेन पालाशादयः समिध आदधाति । सर्वव्याधिभैषज्यम् । अंहोलिङ्गेन गणेनाज्यं जुहोति । तन्त्रे । अंहोलिङ्गेन गणेन बुसं जुहोति । तन्त्रे । सर्वव्याधिभैषज्यम् । अंहोलिङ्गेन गणेन पालाशसमिधः सोमरसाक्ता आदधाति । सर्वव्याधिभैषज्यम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेनोदपात्रं सम्पात्य तेनोदकेन सम्प्रोक्षति । एवं बन्धनं मोचयित्वा । अभ्यातानाद्युत्तरतन्त्रम् । सर्वभैषज्यम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन सप्तभिः
प्रतीकैरुदपात्रं सम्पात्याभिमन्त्र्य व्याधितमाप्लावयति । अभ्यातानाद्युत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेन सप्त काम्पीलपुटानुदकेन पूरयित्वा सम्पात्याभिमन्त्र्य प्रत्यृचं व्याधितमवसिञ्चति पश्चादपविध्यति पुटान् । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेन चतुर उदपात्रे सम्पातानानयति द्वौ पृथिव्यामावपति तौ प्रत्याहृत्याप्लावयति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेनोदपात्रं सम्पात्याभिमन्त्र्याप्लावयति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेनोदपात्रे यवान् प्रक्षिप्य सम्पात्याभिमन्त्र्याप्लावयति पूर्ववत् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेनोदपात्रे सयवे चतुरः सम्पातानानयति द्वौ पृथिव्यां तौ प्रत्याहृत्याप्लावयति । उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा अंहोलिङ्गेन यवमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् । अंहोलिङ्गेन गणेनाकृतिलोष्टं पाययति । सर्वव्याधिभैषज्यम् । आकृतिलोष्टवल्मीके उद्धृतमुदकं लाजा एवमाद्यभिमन्त्र्य पाययति । सर्वव्याधिभैषज्यम् । वैश्वानरीयाभ्यां पायनकर्माणि भवन्ति । अभ्यातानान्तं कृत्वांहोलिङ्गेनोदपात्रं सम्पात्याभिमन्त्र्य पिञ्जूलीभिराप्लावयति । उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेनोदपात्रं सम्पात्याभिमन्त्र्य मौञ्जैः पाशैः पर्वसु
बद्ध्वा पिञ्जूलीभिराप्लावयत्यवसिञ्चति । उत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् । अभ्यातानान्तं कृत्वांहोलिङ्गगणेन द्वाभ्यामुदपात्रं सम्पात्याभिमन्त्र्याप्लावयति । उत्तरतन्त्रम् । अंहोलिङ्गेन मौञ्जैः पर्वसु बद्ध्वा दर्भमणिं सहोदकमभिमन्त्र्यावसिञ्चति । अंहोलिङ्गेन गणेनोदकमभिमन्त्र्याचमयति । अंहोलिङ्गेन गणेनालबिसोलं फाण्टं पाययति । अंहोलिङ्गेन त्रपुसमुसलखदिरतार्ष्टाघानां समिध आदधाति । अंहोलिङ्गेन खादिरानायसलोहांश्च शङ्कूनभिमन्त्र्य निखनति । यवान् सकृद्गृहीताननपहतानप्रतीहारपिष्टानाभिचारिकं परिस्तीर्य जुहोति । अंहोलिङ्गेन मेदो मधु सर्पिस्तैलमभिमन्त्र्य पाययति । सर्वव्याधिषु । यथासम्भवं पानं कर्तव्यम् । अंहोलिङ्गेन वीरिणतूलमिश्रमिङ्गिडं प्रपुटेन जुहोति । अंहोलिङ्गेन यवमणिं वरणमणिं पृश्निपर्णीमूर्ध्निसम्पातशाकलमणिमाप्लावनं बहिर्विसर्जनं काण्डमणिं यवपलालमणिं तिलपिञ्जिकामणिमाकृतिलोष्टवल्मीक जीवकोषण्या वेष्टितमणिं बध्नातीत्यादि । आज्यतन्त्रं सर्वत्र योजनीयम् । यथासम्भवं भैषज्यम् ॥

उक्तव्याधीनां परिगणनं क्रियते । ज्वररोगे । अतिसाररोगे । अतिमूत्रे । दुःखमूत्रे । दुःखपुरीषे उदावर्ते च । नाड्यावहने । अङ्गभेदे । अङ्गज्वरे । अङ्गछेदे । सोमवमने । सोमस्य छर्दनज्वरे । अप्सरोगन्धर्वयक्षराक्षसपिशाचासुरेषु ज्वरेषु । जलोदरे । वातपित्तश्लेष्मविकाररोगेषु । शिरोवेदनायाम् । अङ्गवेदनायाम् । अपस्मारे । हृद्रोगे । कामले । पापरोगे । २० । उद्वेगरोगे । ज्वरे च । एकान्तरितज्वरे च । कामज्वरे । ब्राह्मणशापे च । आक्रोशे च । शिरोरोगे च । आक्रोशव्रणे । शत्रोराक्रोशे । पुत्रदुहितुरसजातासगोत्राणामाक्रोशरोगे । चक्षुर्दृष्टिनिपातरोगे । दुर्नामरोगे । गर्भसम्भवरोगे । निरृतिक्रव्यादगृहीतरोगे । राजयक्ष्मणि । धनुर्वाते । वातगुल्मे च । वातभङ्गे च । वातज्वरे च । कासे च । २० । उत्कासे च । श्लेष्मणि च । श्लेष्मपतने च । रुधिरवहने च । कर्णरोगे । बलासे । व्याधिविसर्पणे । कक्षागन्धिविसर्पणे । अङ्गे गण्डविसर्पणे । कर्णविसर्पणे । अक्षिविसर्पणे । हृदयामये । कुष्ठरोगे । अष्टादशजातिकुष्ठरोगे । शरीरविस्फोटरोगे । ग्रहणीरोगे । अज्ञाते राजयक्ष्मशरीरशोषे । रोहिणीरोगे । अङ्गप्रसर्पणे । नितम्बरोगे । २० । तीक्ष्णशृङ्गाद्यभिघाते । जलोदरे । कन्दविषे । उपविषे । सर्पविषे । कृत्याज्वरे । ग्रामज्वरे । ग्रामनगरजनपदेषु सहज्वरे । पापरोगे सहोत्पन्नरोगे । श्वेतकुष्ठे । श्वेताङ्गे । श्वेतकेशेषु । गोअश्वपुरुषेषु रोगेषु सह उत्पन्नेषु । गवां क्षयरोगे । पुरुषाणां क्षयरोगे । उदके अनिपाते । रुचितृषारोगे । बुभुक्षारोगे । स्वशरीरे क्षेत्रियरोगे । उदरगण्डुलकरोगे । उदरकृमिरोगे । शरीरपुरुषस्त्रीणां श्वाजाविहस्तिनादिषु कृमिरोगेषु । यूकालिक्षाद्यपुरुषरोगेषु । अक्षिरोगे । नासिकारोगे । कर्णरोगे । एकरोगे । अन्त्ररोगे । गुदरोगे । धमनिषु रोगे । उदररोगे । पाणिरोगे । हृदयरोगे । पांशुलिरोगे । अङ्गुलिषु रोगे । नखरोगे
। उभूअर्वीवती (?) प्रपदपार्ष्णिभसदश्रोणितम् । उद्वेगज्वरे । ज्वरे च । एकान्तरितज्वरे । कामज्वरे च । ब्राह्मणशापे च । आक्रोशरोगे । आक्रोशव्रणे । शत्रोराक्रोशे । पुत्रदुहितुरसजातासगोत्राणामाक्रोशरोगे । चक्षुर्दृष्टिनिपातरोगे । दुर्नामरोगे । गर्भसम्भवरोगे । निरृतिक्रव्यादगृहीतरोगे । राजयक्ष्मणि । धनुर्वाते । वातगुल्मे च । वातभङ्गे च । वातज्वरे च । कासे च । उत्कासे च । श्लेष्मणि च । श्लेष्मपतने च । सदअस्थिनजश्वाबाधमणिपाणिमवातरोगेषु । क्षेत्रियरोगे । सर्वव्याधिरोगे । पापरोगे । गन्धर्वरक्षाग्रहव्याधिरोगे । अमतिगृहीतरोगे । धर्मार्थकामेषु शून्यबुद्धिषु त्रिवर्गशून्येषु पुरुषेषु रोगे । शिरोरोगे । अक्षिदीर्घरोगे । २० । शरीरदुःखव्याधिपीडारोगे । पदाभिघातरोगे । शरीराभिघातरोगे । इष्टिकालोष्टाभिघातरोगे । शस्त्राद्यभिघाते । काष्ठाभिघाते । प्रथमप्रसूतासूतिकारोगे । अद्भुतदर्शने । रोगमध्ये वैद्यकपठिते । अरिष्टरोगे ज्योतिषपठिते । ग्रहनक्षत्रविवक्षार्थं बन्धहिरण्यश्च तत्रारिष्टाभिघातरोगे । शरीरवातसम्भवरोगे । सन्निपाते । वातपित्तश्लेष्मविकाररोगे । मैथुनकृतरोगे । कर्णलोहितवहने । कर्णमूले । विसल्पके । यक्ष्मरोगे । शारदरोगे । २० । शीतज्वरे । क्षुद्रज्वरे । कामज्वरे । श्लेष्मज्वरे । पामायाम् । ग्रीष्मज्वरे । वर्षाज्वरे । दाने द्रव्यत्यागे प्रतिग्रहे याजने अध्ययनेऽध्यापनेऽयाज्ययाजने रोगेषूत्पन्नेषु । बुद्धिप्रध्वंसने । अक्षिपटलरोगे । अङ्गभेदे । उद्वेगे । सर्पविषौपविषकन्दविषादिषु । स्त्रीपुरुषेषु पापलक्षणेषु । अपकामे हृदये । हृदयतापे । राजयक्ष्मणि । हरिषाकामतोविषये । अपस्मारेषु । २० । उरसेषु गण्डेषु । गर्भभक्तेषु द्वादशजातिषु । सव्रणेऽव्रणे गण्डेषु । क्षये । कुष्ठे । साण्डेऽङ्गसूजने । अतिशोषायाम् । अङ्गे कृमिषूत्पन्नेषु
। वृश्चिकदष्टे । सर्पकृकवाकुमयूरचक्रवाककाककपोतश्येनगृध्रहरिणव्याघ्रचित्रकतरक्षऋक्ष महिषगोश्वमार्जारसर्वेषु मृगेषु सर्वेषु पक्षिष्वभिघातेषु । उदरे नाभ्यां कण्ठे ग्रीवायां चारुगृहीते । सर्पदर्शने । सर्पभये । सर्पदष्टे ।
मानुषादिदष्टे । श्वानादिदष्टे । हस्ताद्यभिघाते । योनिप्रवाहे । रुधिरप्रवाहे । सर्वव्याधिषु केशपतने । केशदृढीकरणे । २० । गण्डमालायाम् । ग्रीवामालायाम् । खलतिकण्डूयने । केशबन्धने शतबृहत्प्रवाहे । पूतिनासिकायाम् । नाभितुण्डे । बृहदुदरे । उदरवृद्धौ । नाभिग्रीवानासिकापादकर्णदन्तादिवृद्धिषु । विस्फोटकापापरोगकुष्ठक्षयश्वित्रोदुम्बरादिषु कुष्ठेषु । दद्रविचर्चिकावतां स्त्रीसन्निपातेषु । सद्योवान्ती । अङ्गभेदे । वातरोगे । धनुर्वाते । नाडीवहने । स्त्र्यासक्तौ । ब्राह्मणाक्रोशे । स्त्र्याकोशे । द्रव्यनाशे । २० । हृद्रोगे । फलमूलपत्रशाकार्द्रमांसतैलघृतव्यञ्जनमिष्टान्नभोजनेषु रोगेषु । अजीर्णे । चतुर्विधेषु सामान्याजीर्णेषु । उदरशूलेषु । मस्तकशूलेषु । शिश्नेषु पुरुषरोगेषु । स्त्रीरोगेषु च । बालरोगे । तरुणवलयोत्पत्तिः । वालाः श्वेतकचाः । अङ्गछेदे । शस्त्रछेदे । अरुगण्डे । पापेऽधर्मप्रवृत्तौ । कृमिव्याधौ । सत्त्वरजस्तमप्रवृत्तौ । कामक्रोधलोभमोहादिषु ।
शृङ्गाभिघाते । दन्ताभिघाते । २० । नानाभिघाते । जनपदे चाङ्गुष्ठवेष्टके । अर्बुदरोगे । मशकानाम् । तिलकेषु । दुभित्तके । कुलिकेषु । व्याधिप्रकोपेषु सर्वव्याधिप्रकोपेषु । इत्युक्तव्याधिषु परिगणनं समाप्तम् ॥
अथ भैषज्यानि पठितानि तानि सर्वाण्यंहोलिङ्गेन सर्वव्याधिषु कर्तव्यानि । अंहोलिङ्गेनोदपात्रकर्म करोति । तन्त्रम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेनोदपात्रं सम्पात्योदकेन वलीर्विमार्ष्टि । पुनस्तन्त्रं च । एवं सर्वव्याधिषु । तन्त्रं कृत्वांहोलिङ्गेन गणेन मुञ्जशिरो रज्ज्वा बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । सर्वभैषज्यम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन प्रमेहणं बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । अथवा तैः सूक्तैः सर्वाणि कर्तव्यानि । अथवांहोलिङ्गेन गणेन कर्तव्यानि सर्वाणि । समिध आदधाति । आज्यं जुहोतीत्येवमादिसर्वभैषज्यम् । यानीह कर्माणि पठितानि तानि सर्वाण्यंहोलिङ्गेन कर्तव्यानि । यानि वैद्यकेष्वजीर्णप्रभवानि रोगजातानि चरकबाहडसुश्रुतेषु पठ्यन्ते तेषु तत्पठितानि सर्वाणि व्याधिष्वौषधानि । अंहोलिङ्गेन गणेन समाम्नातम् । अजीर्णप्रभवा रोगा इति सम्भवे कार्याणि । बन्धनपायनाचमनेषु बध्नाति । धूपनस्नानाभ्यञ्जनमर्दनपथ्यभोजन विलेपनविपुलाञ्जनावसेचनशयनादीनि तान्यंहोलिङ्गेन संस्कर्तव्यानि । अभिमन्त्र्य कर्तव्यानीत्यर्थः । अभिमन्त्रणं संस्कारः सर्वत्र कर्तव्य इत्यर्थः ।ऽसर्वाण्यभिमन्त्र्याणिऽ (Kऔश्ष्७.१६) इति वचनात् । बन्धने तन्त्रम् । यानि स्वशास्त्रपठितानि तान्यंहोलिङ्गेन कर्तव्यानि । परशास्त्रपठितानि वैद्यकपठितानि च तानि सर्वाणि कर्तव्यानि । सर्वत्र तन्त्रं वा यथासम्भवं योज्यम् । तथा चोक्तं मूलकौशिकग्रन्थे । ओषधिबन्धनं पठितं तदंहोलिङ्गेन गणेन कर्तव्यम् । आज्यतन्त्रमध्ये सम्पात्याभिमन्त्र्य बध्नाति । तत्रैवोक्तं खननविधानेन बन्धनं च सर्वत्रऽआश्यबन्ध्याप्लवनयानभक्ष्याणि सम्पातवन्तिऽऽसर्वाण्यभिमन्त्र्याणिऽ (Kऔश्ष्७.१५१६) इति वचनात् । तथा चोक्तम् ऽस्रजेनौषधिखननं व्याख्यातम्ऽ (Kऔश्ष्३३.१६) । ओषधिखननं
विधानेनैव । बन्धनमपि विधानेनैव । तथा गोपथ उक्तम् । वैद्यकज्योतिषपुराणेषु बन्धनपायनस्नानादिष्वंहोलिङ्गः सर्वत्र प्रयोक्तव्यः । अधर्मसमुद्भवत्वाद्रोगनाम । हस्तिवैद्यकाश्ववैद्यकेषूक्तमेतदेव भैषज्यम् । मन्त्रविशेषकृतो विशेषः । अन्यथा क्रियमाणे दृष्टादृष्टेषूपकारो नास्ति । शूद्रेणैव ज्योतिष्टोमे न दृष्टं नाप्यदृष्टम् । द्विविधा व्याधयः आहारनिमित्ता अधर्मनिमित्ताश्च । आहारेण व्याधिरुत्पद्यते यस्तत्र वैद्यकम् । अधर्मेणोत्पन्ने व्याधौ वेदोक्तेन विधानेनाधर्मशमनं भवति । सर्वव्याधिभैषज्यानि समाप्तानि । अष्टोत्तरशतव्याध्यपनोदनानि विनाशकानि ॥

अथ भैषज्यानि (Kऔश्ष्२५.१) इति यानि सूक्तानि भैषज्यानि कानिचित्पठितानि तानि सर्वाण्युपधाने उपस्थाने च विनियोज्यानि तत्र तत्र व्याधौ रुद्रभाष्यमते । उपदधीतेत्यनादेश आज्यसमित्पुरोडाशपयौदौदनपायसपशुव्रीहियवतिलधाना करम्भशष्कुल्य एतानि हवींषि जानीयात् । हस्तहोमत्वात्तन्त्रविकल्पः । उपस्थानं चादित्यस्य । अन्वारब्धे यजमाने सर्वत्र होमाभिमन्त्रणम् । यथासम्भवं तन्त्रसम्बन्धः । उपधानमुपस्थानं च कर्तव्यम् । समाप्तानि भैषज्यानि ॥

[स्त्रीकर्माणि]

अथ स्त्रीकर्मणां विधिं वक्ष्यामः
[पूर्वस्य पुत्रकामावतोकयोरुदकान्ते शान्ता अधिशिरोऽवसिञ्चति ॥ कौशिकसूत्र ४,८{३२}.२८ ॥]
पुत्रकामायै स्त्रियै मृतापत्यायै च रजोनाशे च शान्तिरुच्यते ।ऽये त्रिषप्ताःऽ (१.१) इति सूक्तेन शान्तौषधिं सहोदकमभिमन्त्र्य स्त्रीमवसिञ्चति ॥

[आव्रजितायै पुरोडाशप्रमन्दालङ्कारान् सम्पातवतः प्रयच्छति ॥ कौशिकसूत्र ४,८{३२}.२९ ॥]
ततोऽभ्यातानान्तं कृत्वाऽये त्रिषप्ताःऽ इति सूक्तेन पुरोडाशप्रमन्दालङ्कारान् सम्पातवतः कृत्वा प्रयच्छति भक्षणार्थं क्रीडनार्थं बन्धनार्थम् । पर्यायेण स्त्रियः करोति । अभ्यातानाद्युत्तरतन्त्रम् । पुत्रकामामृतापत्ययो रजोनाशे च समाप्तमिदं कर्म ॥ अष्टमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ३२ ॥


अथ प्रसवकाल इदं कर्म क्रियते । यथा सुखेनैव प्रसवो भवतीत्यर्थः.
अथ प्रसूतिकरणमुच्यते
[वषट्ते पूषन् (१.११) इति चतुर उदपात्रे सम्पातानानीय चतुरो मुञ्जान्मूर्ध्नि विवृहति प्राचः ॥ कौशिकसूत्र ४,९{३३}.१ ॥]
अभ्यातानान्तं कृत्वाऽवषट्ते पूषन्ऽ इति सूक्तेनोष्णोदके चतुरोऽप्सु सम्पातानानयति । त्रयः सम्पाताः प्रत्यृचम् । चतुर्थसम्पातश्च तिसृभिरृग्भिः । ततः सर्वेण सूक्तेनानुमन्त्रणम् । चतुरो मुञ्जजातानिषीकान् गर्भिण्या मूर्ध्नि तत्र पृथक्विवृहति । तत
उदपात्रेण सम्पातितेनाप्लावयति । मार्जनाचमने च । तत उत्तरतन्त्रम् ॥

[प्रतीचीरिषीकाः ॥ कौशिकसूत्र ४,९{३३}.२ ॥]
ततः पश्चादेवाभिमुख इषीका निःसारयति ॥

[छिद्यमानासु संशयः ॥ कौशिकसूत्र ४,९{३३}.३ ॥
उष्णेनाप्लावयति दक्षिणात्केशस्तुकात् ॥ कौशिकसूत्र ४,९{३३}.४ ॥]
छिद्यमानासु मुञ्जेषीकासु गर्भस्य मरणं भवेत् । एकं कर्म ॥

[शालाग्रन्थीन् विचृतति ॥ कौशिकसूत्र ४,९{३३}.५ ॥]
ऽवषट्ते पूषन्ऽ इति सूक्तं जपित्वा शालाग्रन्थीन् विचृतति मोचयति । द्वितीयं कर्म ॥

[उभयतःपाशं योक्त्रमाबध्नाति ॥ कौशिकसूत्र ४,९{३३}.६ ॥]
ऽवषट्ते पूषन्ऽ इति सूक्तेन योक्त्रमभिमन्त्र्य कटिप्रदेशे बध्नाति । तन्त्रम् । तृतीयं कर्म । केचित्ऽवषट्ते पूषन्ऽ इति सूक्तेन तैलमभिमन्त्र्याभ्यञ्जनं कुर्वन्ति प्रसवकाले । चतुर्थी ॥

लाङ्गलीओषधिविधानमुच्यते
[यदि सोमस्यासि राज्ञः सोमात्त्वा राज्ञोऽधि क्रीणामि यदि वरुणस्यासि राज्ञो वरुणात्त्वा राज्ञोऽधि क्रीणामि इत्येकविंशत्या यवैः स्रजं परिकिरति ॥ कौशिकसूत्र ४,९{३३}.७ ॥]
ऽयदि सोमस्यासि राज्ञःऽ इति मन्त्रेणैकविंशत्या यवैरोषध्युपरि प्रकिरति ॥

[अन्या वो अन्यामवत्वन्यान्यस्या उपावत । सध्रीचीः सव्रता भूत्वास्या अवत वीर्यमिति सन्नयति ॥ कौशिकसूत्र ४,९{३३}.८ ॥]
ऽअन्या वो अन्यामवऽ इत्योषध्या सयवमेकत्र बध्नाति ॥

[मा ते रिषत्खनिता यस्मै च त्वा खनामसि । द्विपाच्चतुष्पादस्माकं मा रिषद्देव्योषधे ॥ स्रजो नामासि । प्रजापतिष्ट्वामखनदात्मने शल्यस्रंसनम् । तां त्वा वयं खनामस्यमुष्मै त्वा शल्यस्रंसनमित्यस्तमिते छत्रेण चान्तर्धाय फालेन खनति ॥ कौशिकसूत्र ४,९{३३}.९ ॥]
ओषधिखननविधानम् ।ऽमा ते रिषत्खनिताऽ इति मन्त्रेण लोहफालेन खनति ॥

[अत्र तव राध्यतामित्यग्रमवदधाति ॥ कौशिकसूत्र ४,९{३३}.१० ॥]
ऽअत्र तव राध्यताम्ऽ इति मन्त्रेणौषध्यग्रं तत्रैव दधाति ॥

[इह मम इति मूलमुपयच्छति ॥ कौशिकसूत्र ४,९{३३}.११ ॥
एकसरेऽनुपलीढे कुमारः ॥ कौशिकसूत्र ४,९{३३}.१२ ॥]
ऽइह मम राध्यताम्ऽ इति मन्त्रेण मूलं गृह्णाति । गृहीत्वाऽवषट्ते पूषन्ऽ इति सूक्तेनौषधीमभिमन्त्र्य गर्भिण्याः शिरसि निदधाति ॥

[दर्भेण परिवेष्ट्य केशेषूपचृतति ॥ कौशिकसूत्र ४,९{३३}.१३ ॥]
दर्भेण वेष्टयित्वा रात्रावोषधिखननं करोति । छत्रेण वान्तर्धाय खनति ॥

[एवं ह विवृहशाकवृषे ॥ कौशिकसूत्र ४,९{३३}.१४ ॥
अवपन्ने जरायुण्युपोद्धरन्ति ॥ कौशिकसूत्र ४,९{३३}.१५ ॥]
पतिते गर्भेऽन्यत्र स्फोटयति । चतुर्थं कर्म ॥

[स्रजेनौषधिखननं व्याख्यातम् ॥ कौशिकसूत्र ४,९{३३}.१६ ॥]
सर्वत्रौषधिखननमनेन विधानेन कर्तव्यम् । यत्र क्वचिदोषधिखननं तत्र सर्वत्रानेन विधानेन कर्तव्यम् । स्वशास्त्रे परशास्त्रे च वैद्यकाद्येषु सर्वत्र ।ऽस्रजेनौषधिखननं व्याख्यातम्ऽ इति वचनात् । श्वेतकण्टारिकामूलं पुत्रकामा पिबति । यथोक्तेन सम्पातः । सर्वकर्मणां विकल्पेन प्रयोगः । एकं वा द्वे वा सर्वाणि वा कुर्यात् । कर्मबाहुल्यात्फलबाहुल्यम् । ओषधिवत्स्रजमूलं खात्वाऽवषट्ते पूषन्ऽ इत्यभिमन्त्र्य शिरसि विचृतति । ओषधिवद्व्रीहिमूलं खात्वाऽवषट्ते पूषन्ऽ इत्यभिमन्त्र्य ददाति । ओषधिवत्काकजङ्घामूलं खात्वाऽवषट्तेऽ इत्यभिमन्त्र्य शिरस्युपरि ददाति ॥

[चत्वार्युमाफलानि पाणावद्भिः श्चोतयते ॥ कौशिकसूत्र ४,९{३३}.१७ ॥]
ऽवषट्तेऽ इति सूक्तेन चत्वार्यौदुम्बरफलानि हस्ते कृत्वा तत उदकं प्रक्षिप्य ततो निरीक्षते ॥

[संवर्तमानेषु कुमारः ॥ कौशिकसूत्र ४,९{३३}.१८ ॥]
यदि तान्येकत्र भवति तदा पुत्रो जायते । विज्ञानकर्मेदम् ॥

[ब्राह्मणायनोऽङ्गान्यभिमृशति ॥ कौशिकसूत्र ४,९{३३}.१९ ॥]
ऽवषट्ते पूषन्ऽ इति सूक्तेन ब्राह्मणमभिमन्त्र्य ततः स गर्भिण्या अङ्गान्यभिमृशति ॥

[पुन्नामधेये कुमारः ॥ कौशिकसूत्र ४,९{३३}.२० ॥]
यदि पुन्नामधेयं स्पृशति तदा कुमारो जायते । विज्ञानकर्म । समाप्तानि सुखप्रसवकर्माणि । एभिः कर्मभिः कृतैः गर्भिण्याः सुखेन प्रसवो भवतीत्यर्थः ॥ नवमी कण्डिका ॥कौशिकपद्धतिकण्डिका ३३ ॥


अथ वन्ध्याप्रजननकरणमुच्यते
[इदं जनासः (१.३२) इत्यस्यै शिंशपाशाखासूदकान्ते शान्ता अधिशिरोऽवसिञ्चति ॥ कौशिकसूत्र ४,१०{३४}.१ ॥]
ऽइदं जनासःऽ इति सूक्तेन शिंशपाशाखासूपविष्टायै शान्त्यौषधिसहितमुदकमभिमन्त्र्य वन्ध्यामवसिञ्चति ॥

[आव्रजितायै ॥ कौशिकसूत्र ४,१०{३४}.२ ॥]
ततो गृहेऽभ्यातानान्तं कृत्वाऽइदं जनासःऽ इति सूक्तेन पुरोडाशप्रमन्दालङ्कारान् सम्पातवतः प्रयच्छति । अभ्यातानाद्युत्तरतन्त्रम् । समाप्तं वन्ध्या काकवन्ध्या च प्रजननकर्म ॥

अथ मृतापत्यायाः स्त्र्यास्तस्याः शान्तिरुच्यते
[निःसालाम् (२.१४) इत्यवतोकायै कृष्णवसनायै त्रिषु विमितेषु प्राग्द्वारप्रत्यग्द्वारेष्वप्सु सम्पातानानयति ॥ कौशिकसूत्र ४,१०{३४}.३ ॥]
गर्भास्त्रावे जातमात्रे मृते वा स्त्र्यां वा पुरुषे वा बाले वा यूनि वा मृते इदं कर्म । त्रीणि मण्डपानि प्राग्द्वाराणि कृत्वैकस्मिन्मण्डपेऽभ्यातानान्तं कृत्वाऽनिःसालाम्ऽ इति सूक्तेन ततः स्त्री कृष्णं वासः परिधाय ॥

[पलाशे सीसेषूत्तरान् ॥ कौशिकसूत्र ४,१०{३४}.४ ॥]
तत उदपात्रे सम्पात्याभिमन्त्र्य पलाशपत्रे सीसं कृत्वा सीसेषूत्तरसम्पातानानयति ॥

[सीसान्यधिष्ठाप्याप्लावयति ॥ कौशिकसूत्र ४,१०{३४}.५ ॥]
सीसेषूपरि स्त्रीमधिष्ठाप्य तेनोदपात्रेणाप्लावयति ॥

[निधाय कृष्णं व्रजति ॥ कौशिकसूत्र ४,१०{३४}.६ ॥]
कृष्णवस्त्रं तस्मिन्मण्डपे निधाय ॥

[आदीप्य ब्रह्मा ॥ कौशिकसूत्र ४,१०{३४}.७ ॥]
तत उत्तरतन्त्रं कृत्वा मण्डपमग्निना ज्वालयति ॥

[एवं पूर्वयोः पृथक्सम्भार्ये ॥ कौशिकसूत्र ४,१०{३४}.८ ॥
शाखासूक्तम् ॥ कौशिकसूत्र ४,१०{३४}.९ ॥]
तत द्वितीयमण्डप एवं कृत्वा श्वेतवस्त्रं परिधानं कृत्वा शिंशपाशाखासूपवेश्य स्त्रींऽनिःसालाम्ऽ इति सूक्तेन शान्तौषधिभिस्तदुदकमभिमन्त्र्यावसिञ्चति स्नपनं करोति । ततो गृह आगत्याज्यतन्त्रं कृत्वाऽनिःसालाम्ऽ इति सूक्तेन पुरोडाशप्रमन्दालङ्कारान् सम्पातवतः प्रयच्छति । तत उत्तरतन्त्रम् । त्रिमण्डपाद्येकं कर्म ॥

[पश्चादग्नेरभितः काण्डे इषीके निधायाध्यधि धायिने औदुम्बरीराधापयति ॥ कौशिकसूत्र ४,१०{३४}.१० ॥]
एकं मण्डपं कृत्वा प्राक्पश्चिमद्वारे इषीकां द्वार्योपरि बद्ध्वा ततोऽनिःसालाम्ऽ इति सूक्तेनौदुम्बरीः समिधो मृतापत्यायै आदधाति । तन्त्रविकल्पः । मन्त्रं कर्ता ब्रूयात् ॥

[उत्तमाव्रजितायै ॥ कौशिकसूत्र ४,१०{३४}.११ ॥]
ततोऽनिःसालाम्ऽ इति सूक्तेनोदकान्ते शान्तौषधिसहोदकमभिमन्त्र्यावसिञ्चति । ततो गृहेऽभ्यातानान्तं कृत्वाऽनिःसालाम्ऽ इति सूक्तेन पुरोडाशप्रमन्दालङ्कारान् सम्पातवतः प्रयच्छति । मृतापत्याविषये द्वितीयं कर्म । समाप्ता मृतापत्याशान्तिः । गर्भपतिते बालमरणे युवाने वा मृते एकस्मिन् वा मृते बहुषु वा मृतेषु स्त्रीणां शान्तिः कर्तव्या ॥

पतिलाभकर्माण्युच्यन्ते
[पतिवेदनानि ॥ कौशिकसूत्र ४,१०{३४}.१२ ॥
आ नो अग्ने (२.३६) इत्यागमकृशरमाशयति ॥ कौशिकसूत्र ४,१०{३४}.१३ ॥]
अभ्यातानान्तं कृत्वाऽआ नो अग्नेऽ इति सूक्तेनागमकृशरं सम्पात्याभिमन्त्र्याशयति कुमारीम् । उत्तरतन्त्रम् । पतिलाभकर्मार्थिनाम् ॥

[मृगाखराद्वेद्यां मन्त्रोक्तानि सम्पातवन्ति द्वारे प्रयच्छति ॥ कौशिकसूत्र ४,१०{३४}.१४ ॥]
मृगाखरमृत्तिकाया वेदिं कृत्वाभ्यातानान्तं समानम् ।ऽआ नो अग्नेऽ इति सूक्तेन हिरण्यालङ्कारान् गुग्गुलमौक्षं च यथोक्तान् सम्पात्य बन्धनं धूपनं प्रलेपनं करोति कुमार्याः । अभ्यातानाद्युत्तरतन्त्रम् । द्रव्यं प्रति सूक्तावृत्तिः । पूर्वस्य संहिताविधिः । श्लोकः
आवपेत्सुरभिर्गन्धान् क्षीरे सर्पिस्तथोदके.
एतदायनमित्याहुरौक्षं तु मधुना सह ॥

[उदकंसे व्रीहियवौ जाम्यै निशि हुत्वा दक्षिणेन प्रक्रामति ॥ कौशिकसूत्र ४,१०{३४}.१५ ॥]
ऽआ नो अग्नेऽ इति सूक्तेन कांस्यपात्रे उदकसहिते व्रीहियवौ गृहीत्वा प्रत्यृचं जुहोति रात्रौ । ततो दक्षिणामुखीं कुमारीं प्रक्रामति । तन्त्रं वा ॥

[पश्चादग्नेः प्रक्षाल्य सन्धाव्य सम्पातवतीं भगस्य नावम् (२.३६.५) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ४,१०{३४}.१६ ॥]
अभ्यातानान्तं कृत्वाऽआ नो अग्नेऽ इति सूक्तेन नावं सम्पात्योदके कृत्वा कुमारीं चटापयित्वाऽभगस्य नावम्ऽ इत्यृचा
उत्तारयति । तत उत्तरतन्त्रम् ॥

[सप्तदाम्न्यां सम्पातवत्यां वत्सान् प्रत्यन्तान् प्रचृतन्तो वहन्ति ॥ कौशिकसूत्र ४,१०{३४}.१७ ॥]
अभ्यातानान्तं कृत्वाऽआ नो अग्नेऽ इति सूक्तेन सप्तदामतन्त्र्यां सम्पातवत्यां वत्सान् बन्धयित्वाभिमन्त्र्य कुमारी मोचयति स्वयं न कर्ता । उत्तरतन्त्रम् । दिशा पतिवेदनं च । यदि प्रदक्षिणं मोचयति तदा पतिलाभः ॥

[अहतेन सम्पातवता ऋषभमभ्यस्यति ॥ कौशिकसूत्र ४,१०{३४}.१८ ॥
उदर्दयति यां दिशम् ॥ कौशिकसूत्र ४,१०{३४}.१९ ॥]
तन्त्रं कृत्वाऽआ नो अग्नेऽ इति सूक्तेनाहतवस्त्रेण वेष्टितं वृषभं सम्पात्याभिमन्त्र्य विसर्जयति । उत्तरतन्त्रम् ॥

[जाम्यै प्र यदेते (५.१.४) इत्यागमकृशरम् ॥ कौशिकसूत्र ४,१०{३४}.२० ॥]
ऽप्र यदेते प्रतरम्ऽ इत्यृचागमकृशरं सम्पात्याभिमन्त्र्याशयति । आज्यतन्त्रे ॥

[इमा ब्रह्म (५.२.८) इति स्वस्रे ॥ कौशिकसूत्र ४,१०{३४}.२१ ॥]
ऽइमा ब्रह्मऽ इत्यृचागमकृशरं सम्पात्याभिमन्त्र्याशयति । आज्यतन्त्रे । भगिनीकम् ॥

[अयमा याति (६.६०) इति पुरा काकसम्पातादर्यम्णे जुहोति ॥ कौशिकसूत्र ४,१०{३४}.२२ ॥]
ऽअयमा यातिऽ इति सूक्तेनाज्यं जुहोति । आज्यतन्त्रे । पुरा काकसम्पातात् ॥

[अन्तःस्रक्तिषु बलीन् हरन्ति ॥ कौशिकसूत्र ४,१०{३४}.२३ ॥]
ततःऽअर्यम्णेऽ इत्यर्धर्चेन गृहाभ्यन्तरे कोणे बलिहरणं करोति । रात्राविदं कर्म ॥

[आपतन्ति यतः ॥ कौशिकसूत्र ४,१०{३४}.२४ ॥]
यतः काक आगच्छति तत आगच्छति वरः । समाप्तानि पतिलाभकर्माणि ॥ दशमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ३४ ॥


पुंसवनान्युच्यन्ते
[पुंसवनानि ॥ कौशिकसूत्र ४,११{३५}.१ ॥
रजौद्वासायाः पुन्नक्षत्रे ॥ कौशिकसूत्र ४,११{३५}.२ ॥]
नक्षत्रकल्प उक्तानि पुन्नक्षत्राणि ॥

[येन वेहत्(३.२३) इति बाणं मूर्ध्नि विवृहति बध्नाति ॥ कौशिकसूत्र ४,११{३५}.३ ॥]
ऽयेन वेहत्ऽ इति सूक्तेन बाणमभिमन्त्र्य स्त्रीमूर्ध्नि विवृहति पुण्याहान्ते । ततः श्राद्धं करोति । एवं कर्म । अथवा इदं कर्म करोति । पुंसवनकर्मणि वर्तते । अभ्यातानान्तं कृत्वाऽयेन वेहत्ऽ इति सूक्तेन शरमणिं सम्पात्याभिमन्त्र्य बध्नाति पुण्याहान्ते । अभ्यातानाद्युत्तरतन्त्रम् ॥

[फालचमसे सरूपवत्साया दुग्धे व्रीहियवाववधाय मूर्छयित्वाध्यण्डे बृहतीपलाशविदर्यौ वा प्रतिनीय पैद्वमिव ॥ कौशिकसूत्र ४,११{३५}.४ ॥]
ऽयेन वेहत्ऽ इति सूक्तेन फालचमसे सारूपवत्साया दुग्धे व्रीहियवाववधाय मूर्च्छयित्वाध्यण्डे बृहतीपलाशविदर्यौ वा एकत्र पिष्ट्वाभिमन्त्र्य दक्षिणेनाङ्गुष्ठेन दक्षिणस्यां नासिकायां नस्तं ददाति । पुत्रार्थं कर्म पुंसवनमित्युच्यते । समाप्तं पुंसवनम् ॥

अथ गर्भाधानमुच्यते
[पर्वताद्दिवः (५.२५) इत्यागमकृशरमाशयति ॥ कौशिकसूत्र ४,११{३५}.५ ॥
युगतर्द्मना सम्पातवन्तं द्वितीयम् ॥ कौशिकसूत्र ४,११{३५}.६ ॥]
अभ्यातानान्तं कृत्वाऽपर्वताद्दिवःऽ इति सूक्तेनागमकृशरं चरुद्वयं श्रपयित्वैकं चरुं सम्पात्याभिमन्त्र्य द्वितीयं चरुं युगछिद्रेण सम्पात्याभिमन्त्र्य ततः प्राशनम् । तत उत्तरतन्त्रम् ॥

[खे लूनांश्च पलाशत्सरून्निवृत्ते निघृष्याधाय शिश्ने ग्रामं प्रविशति ॥ कौशिकसूत्र ४,११{३५}.७ ॥]
केलूनांश्च पलाशत्सरून्निवृत्ते निघृष्यऽपर्वताद्दिवःऽ इति सूक्तेनाभिमन्त्र्य शिश्ने आधाय । ततो मैथुनं करोति । समाप्तं गर्भाधानम् ॥

पुनःपुंसवनमुच्यते
[शमीमश्वत्थः (६.११) इति मन्त्रोक्तेऽग्निं मथित्वा पुंस्याः सर्पिषि पैद्वमिव ॥ कौशिकसूत्र ४,११{३५}.८ ॥]
ऽशमीमश्वत्थःऽ इति सूक्तेनाग्निं मथित्वा ततोऽग्निं सर्पिषि निक्षिप्य घृतमभिमन्त्र्य स्त्र्या दक्षिणनासिकायां नस्तं ददाति दक्षिणेनाङ्गुष्ठेन ॥

[मधुमन्थे पाययति ॥ कौशिकसूत्र ४,११{३५}.९ ॥]
ततोऽग्निं मथित्वा ततो मधुमन्थेऽग्निं निक्षिप्यऽशमीमश्वत्थःऽ इति सूक्तेनाभिमन्त्र्य पाययति स्त्रीम् ॥

[कृष्णोर्णाभिः परिवेष्ट्य बध्नाति ॥ कौशिकसूत्र ४,११{३५}.१० ॥]
ऽशमीमश्वत्थःऽ इति सूक्तेन शमीगर्भाश्वत्थस्याग्निं कृष्णोर्णया वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । आज्यतन्त्रे । समाप्तं पुनःपुंसवनम् ॥

अथ गर्भाधानमुच्यते
[यन्तासि (६.८१) इति मन्त्रोक्तं बध्नाति ॥ कौशिकसूत्र ४,११{३५}.११ ॥]
ऽयन्तासिऽ इति सूक्तेन हस्तावर्तं कङ्कणादिकं सम्पात्याभिमन्त्र्य बध्नाति । आज्यतन्त्रे । समाप्तं गर्भाधानम् ॥

अथ गर्भदृंहणान्युच्यन्ते
[ऋधङ्मन्त्रः (५.१.१) इत्येका यथेयं पृथिवी (६.१७) अच्युता इति गर्भदृंहणानि ॥ कौशिकसूत्र ४,११{३५}.१२ ॥
जम्भगृहीताय प्रथमावर्जं ज्यां त्रिरुद्ग्रथ्य बध्नाति ॥ कौशिकसूत्र ४,११{३५}.१३ ॥]
ऽऋधङ्मन्त्रःऽ इत्येकया धनुर्ज्यां त्रिरुद्ग्रथ्य सम्पात्याभिमन्त्र्य बध्नाति । आज्यतन्त्रम् ।ऽयथेयं पृथिवीऽ इति सूक्तम् ।ऽअच्युता द्यौःऽ इति सूक्तम् । द्वाभ्यां धनुर्ज्यां त्रिरुद्ग्रथ्य सम्पात्याभिमन्त्र्य बध्नाति स्त्रियाः । अभ्यातानाद्युत्तरतन्त्रम् ॥

[लोष्टानन्वृचं प्राशयति ॥ कौशिकसूत्र ४,११{३५}.१४ ॥]
ऽऋधङ्मन्त्रःऽ इत्येकया क्षेत्रलोष्टमृत्तिकामभिमन्त्र्य प्राशयति ।ऽयथेयं पृथिवीऽऽअच्युताऽ इति सूक्ताभ्यां क्षेत्रलोष्टमृत्तिकामभिमन्त्र्य प्राशयति गर्भिणीं प्रत्यृचम् ॥

[श्यामसिकताभिः शयनं परिकिरति ॥ कौशिकसूत्र ४,११{३५}.१५ ॥]
ऽऋधङ्मन्त्रःऽ इत्येकया कृष्णसिकता अभिमन्त्र्य गर्भिण्याः शयनं परिकिरति ।ऽयथेयं पृथिवीऽऽअच्युताऽ इति सूक्ताभ्यां श्यामसिकता अभिमन्त्र्य प्रत्यृचं गर्भिण्याः शयनं परिकिरति । जम्भगृहीताय प्रथमावर्जम् । समाप्तानि गर्भदृंहणानि ॥

[यामिच्छेद्वीरं जनयेदिति धातर्व्याभिरुदरमभिमन्त्रयते ॥ कौशिकसूत्र ४,११{३५}.१६ ॥]
ऽधाता दधातुऽ (७.१७) इति चतसृभिर्गर्भिण्या उदरमभिमन्त्रयते । ब्राह्मणक्षत्रियवैश्यशूद्राणां जात्याधर्मस्वजात्याधर्मबलवीर्यादियुक्ताः पुत्रा भवन्ति । वीरो जायते । वीरकर्म समाप्तम् ॥

अथ प्रजननकर्म
[प्रजापतिः (७.२०) इति प्रजाकामाया उपस्थे जुहोति ॥ कौशिकसूत्र ४,११{३५}.१७ ॥]
ऽप्रजापतिर्जनयतुऽ इति सूक्तेन प्रजाकामायाः स्त्रिय उत्सङ्गे आज्यं जुहोति । प्रजननकर्म ॥

[लोहिताजापिशितान्याशयति ॥ कौशिकसूत्र ४,११{३५}.१८ ॥]
अभ्यातानान्तं कृत्वाऽप्रजापतिर्जनयतुऽ इत्यृचा रक्तच्छागमांसं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् ॥

[प्रपान्तानि ॥ कौशिकसूत्र ४,११{३५}.१९ ॥]
अभ्यातानान्तं कृत्वाऽप्रजापतिःऽ इत्यृचोदकुलिजं सम्पातवन्तं कृत्वा गर्भिणीं परिहृत्य मध्ये निनयति । उत्तरतन्त्रम् । तन्त्रे
सुराकुलिजं सम्पात्य स्त्रीं परिहृत्याग्रे निनयति । भक्तं सुरां प्रपां सम्पात्याभिमन्त्र्य प्रजाकामायै प्रयच्छति तन्त्रे । समाप्तं
प्रजाकर्म वन्ध्यायाः ॥

अथ सीमन्तकर्मोच्यते
[यौ ते माता (८.६) इति मन्त्रोक्तौ बध्नाति ॥ कौशिकसूत्र ४,११{३५}.२० ॥]
अभ्यातानान्तं कृत्वाऽयौ ते माताऽ इत्यर्थसूक्तेन श्वेतपीतसर्षपान् सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । समाप्तं सीमन्तोन्नयनम् । समाप्तानि दृंहणानि ॥

अथ स्त्रीवशीकरणमुच्यते
[यथेदं भूम्या अधि (२.३०), यथा वृक्षम् (६.८), वाञ्छ मे (६.९), यथायं वाहः (६.१०२) इति संस्पृष्टयोर्वृक्षलिबुजयोः शकलावन्तरेषुस्थकराञ्जनकुष्ठमदुघरेष्ममथिततृणमाज्येन सन्नीय संस्पृशति ॥ कौशिकसूत्र ४,११{३५}.२१ ॥]
वृक्षत्वक्शरखण्डं तगरमञ्जनं कुष्ठं ज्येष्ठीमधु श्लेष्मवातसंश्रयगततृणमेतानि द्रव्याण्याज्यमध्ये पेषयित्वाऽयथेदं भूम्याःऽ इति सूक्तेनाभिमन्त्र्य स्त्रिया अङ्गं समालभते । रुच्यर्थम् ।ऽयथा वृक्षं लिबुजाऽऽवाञ्छ मे तन्वम्ऽ इति सूक्ताभ्यां वृक्षत्वक्तगरमञ्जनं कुष्ठं ज्येष्ठीमधु वातसम्भ्रमतृणान्येतानि द्रव्याण्याज्येनालोड्याभिमन्त्र्य जायां प्रलिम्पति ।ऽयथायं वाहःऽ इत्येतानि द्रव्याण्यालोड्य घृतेन ततोऽभिमन्त्र्य जायां प्रलिम्पति । वशीकरणकामः ॥

[उत्तुदस्त्वा (३.२५) इत्यङ्गुल्योपनुदति ॥ कौशिकसूत्र ४,११{३५}.२२ ॥]
ऽउत्तुदस्त्वाऽ इति सूक्तं जपित्वा अङ्गुल्या नुदति भार्यामुदरे पृष्टौ रुच्यर्थी ॥

[एकविंशतिं प्राचीनकण्टकानलङ्कृताननूक्तानादधाति ॥ कौशिकसूत्र ४,११{३५}.२३ ॥]
ऽउत्तुदस्त्वाऽ इति सूक्तेनैकविंशति बदरीकण्टकानादधाति । घृतेनाभ्यज्य ॥

[कूदीप्रान्तानि ससूत्राणि ॥ कौशिकसूत्र ४,११{३५}.२४ ॥]
एकविंशतिबदरीप्रान्तानि सूत्रेण वेष्टयित्वाऽउत्तुदस्त्वाऽ इति सूक्तेन सकृत्जुहोति । रुच्यर्थी ॥

[नवनीतान्वक्तं कुष्ठं त्रिरहनः प्रतपति त्रिरात्रे ॥ कौशिकसूत्र ४,११{३५}.२५ ॥]
ऽउत्तुदस्त्वाऽ इति सूक्तेन कुष्ठं नवनीतेनाभ्यज्याग्नौ प्रक्षिपति प्रातर्मध्यन्दिने सायं च । एकरात्रौ वा ॥

[दीर्घोत्पलेऽवगृह्य संविशति ॥ कौशिकसूत्र ४,११{३५}.२६ ॥]
ऽउत्तुदस्त्वाऽ इति सूक्तेन खट्वाधोमुखपट्टिकां गृहीत्वा संविशति स्वपिति । त्रिरात्रं कर्म ॥

[उष्णोदकं त्रिपादे पत्तः प्रबद्धाङ्गुष्ठाभ्यामर्दयञ्छेते ॥ कौशिकसूत्र ४,११{३५}.२७ ॥]
ऽउत्तुदस्त्वाऽ इति सूक्तेनोष्णोदकं त्रिपादे शिक्ये प्रबद्धाङ्गुष्ठाभ्यामर्दयञ्छेते । रुच्यर्थी ॥

[प्रतिकृतिमावलेखनीं दार्भ्यूषेण भाङ्गज्येन कण्टकशल्ययोलूकपत्रयासितालकाण्डया हृदये विध्यति ॥ कौशिकसूत्र ४,११{३५}.२८ ॥]
प्रतिकृतिमावलेखनीं दार्भ्यषेण भाङ्गज्येन कण्टकशल्ययोलूकपत्रयासितालकाण्डयाऽउत्तुदस्त्वाऽ इति सूक्तेन हृदये विध्यति ।
समाप्तानि संवननानि वशीकरणानि । कामविषये स्त्रिया उत्साहो भवति । तथा च यस्य कामो नास्ति तस्य कामोऽतिशयेन कामकरणमित्यर्थः । अनेन कर्मणा कामो भवति ॥ एकादशमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ३५ ॥


स्वापनविघ्नशमनम् । स्त्रीस्वापनकर्मोच्यते
[सहस्रशृङ्गः (४.५) इति स्वापनम् ॥ कौशिकसूत्र ४,१२{३६}.१ ॥
उदपात्रेण सम्पातवता शालां सम्प्रोक्ष्यापरस्मिन् द्वारपक्षे न्युब्जति ॥ कौशिकसूत्र ४,१२{३६}.२ ॥]
अभ्यातानान्तं कृत्वाऽसहस्रशृङ्गःऽ इति सूक्तेनोदपात्रं सम्पात्य शालां सम्प्रोक्षति । शयनशालां सर्वां प्रोक्षति । अभ्यन्तरद्वारे
शेषमुदकं न्युब्जति । अभ्यातानाद्युत्तरतन्त्रम् । स्वापनकर्म ॥

[एवं नग्नः ॥ कौशिकसूत्र ४,१२{३६}.३ ॥
उलूखलमुत्तरां स्रक्तिं दक्षिणशयनपादं तन्तूनभिमन्त्रयते ॥ कौशिकसूत्र ४,१२{३६}.४ ॥]
ऽसहस्रशृङ्गःऽ इति सूक्तेन नग्नो भूत्वोलूखलमभिमन्त्रयते ।ऽसहस्रशृङ्गःऽ इति सूक्तेन गृहस्योत्तरं कोणमभिमन्त्रयते ।ऽसहस्रशृङ्गःऽ इति सूक्तेन स्त्रियाः खटवाया दक्षिणं पादमभिमन्त्रयते ।ऽसहस्रशृङ्गःऽ इति सूक्तेन खट्वाया रज्जुमभिमन्त्रयते । कर्मणां विकल्पः । स्त्रीस्वापनम् । पुरुषस्य विषये काम उत्पद्यते । कामविषये स्त्रीस्वापनं समाप्तम् । लज्जाप्रच्छादनं न भवतीत्यर्थः । स्वापनं सर्वेषां मानुषाणां निद्राकामानां निद्रा भवति । मैथुनमाचरतो विघ्नं न भवति । अन्तःस्वापनमित्युच्यते । मैथुनान्निद्रेच्छा भवतीत्यर्थः ॥

अथ पलायिन्याः स्त्रियो बन्धनकर्म तन्त्रक्रमेण क्रियते । रज्जुः कल्पते । तद्रज्जुवेष्टनमुच्यते । पलायमानाया निरोधकरणं कर्मोच्यते
[अस्थाद्द्यौः (६.७७) इति निवेष्टनम् ॥ कौशिकसूत्र ४,१२{३६}.५ ॥
आवेष्टनेन वंशाग्रमवबध्य मध्यमायां बध्नाति ॥ कौशिकसूत्र ४,१२{३६}.६ ॥]
ऽअस्थाद्द्यौःऽ इति सूक्तेन द्वितीयेन रज्जुवेष्टनमभिमन्त्र्य वंशाग्रे बद्ध्वा मध्यमस्थूणे बध्नाति ॥

[शयनपादमुत्पले च ॥ कौशिकसूत्र ४,१२{३६}.७ ॥
आकृष्टे च ॥ कौशिकसूत्र ४,१२{३६}.८ ॥
आकर्षेण तिलाञ्जुहोति ॥ कौशिकसूत्र ४,१२{३६}.९ ॥]
ऽअस्थाद्द्यौःऽ इति सूक्तेन शयनपादमभिमन्त्र्योत्पले च बध्नाति ।ऽअस्थाद्द्यौःऽ इति सूक्तेनाङ्कुशेन तिलाञ्जुहोति । पलायिन्याः स्त्रिया बन्धनकर्माणि समाप्तानि । निरोधकरणानि ॥

जायापत्योरक्रोधकरणमुच्यते
[इदं यत्प्रेण्यः (६.८९) इति शिरःकर्णमभिमन्त्रयते ॥ कौशिकसूत्र ४,१२{३६}.१० ॥]
ऽइदं यत्प्रेण्यः शिरःऽ इति सूक्तेन स्त्रीशिरःकर्णं चानुमन्त्रयते । पुरुषस्य च ॥

[केशान् धारयति ॥ कौशिकसूत्र ४,१२{३६}.११ ॥]
ऽइदं यत्प्रेण्यः शिरःऽ इति सूक्तेन केशान् धारयति । समाप्तं स्त्रीपुरुषयोरक्रोधकरणम् ॥

सौभाग्यकरणमुच्यते
[भगेन मा (६.१२९) न्यस्तिका (६.१३९) इदं खनामि (७.३८) इति सौवर्चलमोषधिवच्छुक्लप्रसूनं शिरस्युपचृत्य ग्रामं प्रविशति ॥ कौशिकसूत्र ४,१२{३६}.१२ ॥]
अभ्यातानान्तं कृत्वाऽभगेन मा शांशपेनऽ इति सूक्तेन शङ्खपुष्पीमूलमोषधिवत्खात्वा सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् ।ऽभगेन माऽ इति सूक्तेन सौवचलपुष्पमभिमन्त्र्य यस्य सौभाग्यमिच्छति तस्य शिरसि बद्ध्वा स मैथुनं करोति । समाप्तं सौभाग्यकरणम् ॥

सौभाग्यसंवननमुच्यते
अभ्यातानान्तं कृत्वाऽन्यस्तिका रुरोहिथऽ इति सूक्तेन सौवर्चलमूलं सम्पात्याभिमन्त्र्य बध्नाति पुष्पं च शिरसि ददाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽइदं खनामिऽ इति सूक्तेन सौवर्चलमूलं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । सौवर्चलं सूर्यवेलेति प्रसिद्धा ।ऽइदं खनामिऽ इति सूक्तेन सौवर्चलमूलमभिमन्त्र्य बध्नाति । तन्त्रे । शिरसि स्त्रियः । समाप्तं पतिरुचिकरणम् ॥

दुष्टास्त्रीवशीकरणमुच्यते
[रथजिताम् (६.१३०१३२) इति माषस्मरान्निवपति ॥ कौशिकसूत्र ४,१२{३६}.१३ ॥]
ऽरथजिताम्ऽ इति सूक्तैस्त्रिभिर्माषानभिमन्त्र्य स्त्रिया आक्रमेषु वपति ।ऽरथजिताम्ऽ इति त्रिभिः सूक्तैश्चणकानभिमन्त्र्य स्त्रिया आक्रमेषु वपति । खट्वास्थाने वा गृहे शयनदेशे वा ॥

[शरभृष्टीरादीप्ताः प्रतिदिशमभ्यस्यत्यर्वाच्या आवलेखन्याः ॥ कौशिकसूत्र ४,१२{३६}.१४ ॥]
ऽरथजिताम्ऽ इति त्रिभिः सूक्तैः शरभृष्टीरादीप्ता अभिमन्त्र्य प्रतिदिशमभ्यस्यति । एषु पतिः प्रतिकृतिं कृत्वाऽरथजिताम्ऽ इति त्रिभिसूक्तैः हृदये विध्यति दार्भ्यूषेण भाङ्गज्येन । समाप्तानि दुष्टस्त्रीवशीकरणानि । पुरुषो वा स्त्रीणां द्वेषं करोति । अनेन कर्मणा शान्तिर्भवति ॥

अथ स्त्रियो वा पुरुषस्य वा दौर्भाग्यकरणमुच्यते
[भगमस्या वर्चः (१.१४) इति मालानिष्प्रमन्ददन्तधावनकेशमीशानहताया अनुस्तरण्या वा कोशमुलूखलदरणे त्रिशिले निखनति ॥ कौशिकसूत्र ४,१२{३६}.१५ ॥]
स्त्रियाः पुष्पमालानिष्प्रमन्ददन्तधावनकेशास्तानेकीकृत्य । ज्वरहतगोचर्मणावेष्ट्यऽभगमस्याःऽ इति सूक्तेनाभिमन्त्र्योलूखलदरणे त्रिशिले निखनति । तत उलूखले ददाति । दौर्भाग्यकामः । मालानिष्प्रमन्ददन्तधावनकेशास्तानेकीकृत्यऽभगमस्याःऽ इति सूक्तेनाभिमन्त्र्य । दहनघातिता गौरनुस्तरणीत्युच्यते । ईशानहता ज्वरहतेत्युच्यते । तस्याश्चर्मणावेष्ट्य तत उलूखलदरणे त्रिशिले निखनति । तत उलूखले ददाति उपरि । यस्य दौर्भाग्यं क्रियते तस्यैतानि गृह्णीयात् ॥

[मालामुपमथ्यान्वाह ॥ कौशिकसूत्र ४,१२{३६}.१६ ॥]
ऽभगमस्या वर्चःऽ इति सूक्तेन स्त्रीपुष्पमालां हस्तेन मथित्वा स्त्रीं दृष्ट्वान्वाह । जपतीत्यर्थः । दौर्भाग्यकामः ॥

[त्रीणि केशमण्डलानि कृष्णसूत्रेण विग्रथ्य त्रिशिलेऽश्मोत्तराणि व्यत्यासम् ॥ कौशिकसूत्र ४,१२{३६}.१७ ॥]
ऽभगमस्या वर्चःऽ इति सूक्तेन त्रीणि केशमण्डलानि कृष्णसूत्रेण वेष्टयित्वाभिमन्त्र्य त्रिशिलेऽश्मोत्तराणि व्यत्यासमश्मानं शालाया उपरि ददाति । व्यत्यासेन निखनति । दौर्भाग्यकामः । समाप्तं दौर्भाग्यकरणम् ॥

दुष्टस्त्री वेश्याकुलटादि । अथ तस्याः सौभाग्यकरणमुच्यते
[अथास्यै भगमुत्खनति यं ते भगं निचख्नुस्त्रिशिले यं चतुःशिले । इदं तमुत्खनामि प्रजया च धनेन च इति ॥ कौशिकसूत्र ४,१२{३६}.१८ ॥]
ऽयं ते भगं निचख्नुःऽ इत्यृचा शिला उत्खनति । उत्पाटयति ।ऽभगमस्याःऽ इत्यनेन सूक्तेन यत्कृतं तदनया विनश्यति । समाप्तं यस्या दौर्भाग्यं कृतं तस्याः सौभाग्यकरणम् ॥

अथ सपत्नीजयकर्माण्युच्यन्ते । भर्त्रा सह विद्वेषो भवतीत्यर्थः
[इमां खनामि (३.१८) इति बाणापर्णीं लोहिताजाया द्रप्सेन सन्नीय शयनमनु परिकिरति ॥ कौशिकसूत्र ४,१२{३६}.१९ ॥]
ऽइमां खनामिऽ इति सूक्तेन बाणापर्णीं रक्तवर्णाया अजाया दध्युदकेन सन्नीय ततोऽभिमन्त्र्य सपत्नीशयने परिकिरति । सपत्नीविद्वेषणं भर्त्रा सह ॥

[अभि तेऽधाम् (३.१८.६) इत्यधस्तात्पलाशमुपचृतति ॥ कौशिकसूत्र ४,१२{३६}.२० ॥]
ऽअभि तेऽधाम्ऽ इति पादेन बाणापर्णीपत्राण्यभिमन्त्र्य शयनाधस्तात्प्रक्षिपति । सपत्नीशयने जयकामः ॥

[उप तेऽधाम् (३.१८.६) इत्युपर्युपास्यति ॥ कौशिकसूत्र ४,१२{३६}.२१ ॥]
ऽउप तेऽधाम्ऽ इति पादेन बाणापर्णीओषधिपत्राण्यभिमन्त्र्य सपत्नीशयन उपरि क्षिपति । बाणापर्णी मासिका लोके प्रसिद्धा । समाप्तानि सपत्नीजयकर्माणि । भर्त्रा सह विद्वेषो भवतीत्यर्थः ॥

अथ स्त्रीविषये काम उत्पन्ने कामविनाशकान्युच्यन्ते
[कामं विनेष्यमाणोऽपाघेनासङ्ख्याताः शर्कराः परिकिरन् व्रजति ॥ कौशिकसूत्र ४,१२{३६}.२२ ॥]
ऽअप नः शोशुचदघम्ऽ (४.३३) इति सूक्तेनासङ्ख्याताः शर्करा अभिमन्त्र्य परिकिरन् व्रजति । यस्मिन् देशे काम उत्पन्नः तत्
स्थानं यावत् । स्त्री वा पुरुषो वा ॥

[सम्मृद्नञ्जपति ॥ कौशिकसूत्र ४,१२{३६}.२३ ॥]
ऽअप नः शोशुचत्ऽ इति सूक्तेनासङ्ख्याताः शर्करा हस्ते गृहीत्वा परिकिरन् व्रजति । स्त्रीगृहं यावत्कामोत्पत्तिदेशम् ॥

[असम्मृद्नन् ॥ कौशिकसूत्र ४,१२{३६}.२४ ॥]
ऽअप नः शोशुचत्ऽ इति सूक्तेनासङ्ख्याताः शर्करा हस्ते गृहीत्वा जपति । कामो विनश्यति । स्त्रीकामं यावत् । स्त्रीणां पुरुषाणां कामविनाशकानि समाप्तानि ॥

स्त्रीविषय ईर्ष्याविनाशकान्युच्यन्ते
[ईर्ष्याया ध्राजिम् (६.१८) जनाद्विश्वजनीनात्(७.४५) त्वाष्ट्रेणाहम् (७.७४.३) इति प्रतिजापः प्रदानाभिमर्शनानि ॥ कौशिकसूत्र ४,१२{३६}.२५ ॥]
ऽईर्ष्याया ध्राजिं प्रथमाम्ऽ इति सूक्तेनेर्ष्यालुं दृष्ट्वा जपति । ईर्ष्या विनश्यति ।ऽजनाद्विश्वजनीनात्ऽ इति द्व्यृचमीर्ष्यालुं दृष्ट्वा जपति ।ऽत्वाष्ट्रेणाहम्ऽ इत्यृचेर्ष्यालुं दृष्ट्वा जपति । ईर्ष्या विनश्यति ।ऽईर्ष्याया ध्राजिम्ऽ इति सूक्तेन सक्तुमन्थमभिमन्त्र्येर्ष्यालुकाय ददाति । ईर्ष्याविनाशकामः ।ऽजनाद्विश्वजनीनात्ऽ इत्यृचा मन्थमभिमन्त्र्येर्ष्यालुकाय ददाति भक्षणार्थम् ।ऽत्वाष्ट्रेणाहम्ऽ इत्यृचा मन्थमभिमन्त्र्येर्ष्यालुकाय ददाति ।ऽईर्ष्याया ध्राजिम्ऽ इति सूक्तमीर्ष्यालुं स्पृष्ट्वा जपति ।ऽजनाद्विश्वजनीनात्ऽ इत्यृचेर्ष्यालुं स्पृष्ट्वा जपति ।ऽत्वाष्ट्रेणाहम्ऽ इत्यृचेर्ष्यालुं स्पृष्ट्वा जपति ॥

[प्रथमेन वक्षणासु मन्त्रोक्तम् ॥ कौशिकसूत्र ४,१२{३६}.२६ ॥]
ऽईर्ष्याया ध्राजिम्ऽ इति सूक्तेन कटिप्रदेशे वक्षणे खल्वामभिमन्त्र्य धमति । ईर्ष्याविनाशनम् ॥

[अग्नेरिव (७.४५.२) इति परशुफाण्टम् ॥ कौशिकसूत्र ४,१२{३६}.२७ ॥]
ऽअग्नेरिवऽ इत्यृचा परशुना तप्तेन क्वाथितमुदकमभिमन्त्र्य पाययति । समाप्तानीर्ष्याविनाशकानि । स्त्रीविषये ॥

अथ मन्युविनाशकान्युच्यन्ते स्त्रीविषये पुरुषस्य
[अव ज्यामिव (६.४२) इति दृष्ट्वाश्मानमादत्ते ॥ कौशिकसूत्र ४,१२{३६}.२८ ॥]
ऽअव ज्यामिवऽ इति सूक्तेन मन्युमन्तं पुरुषं दृष्ट्वाश्मानमभिमन्त्र्य हस्तेन गृह्णाति । सर्वत्र कर्ता कर्म करोति ॥

[द्वितीययाभिनिदधाति ॥ कौशिकसूत्र ४,१२{३६}.२९ ॥]
ऽसखायाविव सचावहैऽ (६.४२.२) इत्येकां जपित्वाश्मानं भूमौ निदधाति ॥

[तृतीययाभिनिष्ठीवति ॥ कौशिकसूत्र ४,१२{३६}.३० ॥]
ऽअभि तिष्ठामि ते मन्युम्ऽ (६.४२.३) इत्येकां जपित्वाश्मनोपरि निष्ठीवति ॥

[छायायां सज्यं करोति ॥ कौशिकसूत्र ४,१२{३६}.३१ ॥]
ऽअव ज्यामिवऽ इति सूक्तेन मन्युमतः पुरुषस्य छायायां धनुरभिमन्त्र्य सज्यं करोति । चटापयतीत्यर्थः । स्त्रीविषये पुरुषस्य
मन्युर्भवति । पुरुषविषये स्त्रीणां वा । समाप्तानि स्त्रीविषये मन्युविनाशकानि ॥

अथ सर्वविषये मन्युविनाशकान्युच्यन्ते
[अयं दर्भः (६.४३) इत्योषधिवत् ॥ कौशिकसूत्र ४,१२{३६}.३२ ॥]
तन्त्रं कृत्वाऽअयं दर्भःऽ इति सूक्तेन दर्भमूलमोषधिवत्खात्वा सम्पात्याभिमन्त्र्य बध्नाति मन्युके । तत उत्तरतन्त्रम् । मन्युविनाशम् । स्त्रीविषये मन्युविनाशो भवति । समाप्तानि स्त्रीमन्युविनाशकानि ॥

अवीरजननमुच्यते । अपुत्रजननमित्यर्थः
[अग्ने जातान् (७.३४) इति न वीरं जनयेत्प्रान्यान् (७.३५) इति न विजायेतेत्यश्वतरीमूत्रमश्ममण्डलाभ्यां सङ्घृष्य भक्तेऽलङ्कारे ॥ कौशिकसूत्र ४,१२{३६}.३३ ॥
सीमन्तमन्वीक्षते ॥ कौशिकसूत्र ४,१२{३६}.३४ ॥]
ऽअग्ने जातान्ऽ इत्यचाश्वतरीमूत्रेण पाषाणं निघृष्य ततोऽभिमन्त्र्य भक्तेन सह ददाति विद्वेषिण्य परस्त्र्यै ।ऽअग्ने जातान्ऽ इत्यृचाश्वतरीमूत्रमश्ममण्डलाभ्यां सङ्घृष्याभिमन्त्र्यालङ्कारं समालभते परस्त्र्यै विद्वेषिण्यै ।ऽअग्ने जातान्ऽ इत्यृचा सीमन्तमन्वीक्षते परस्त्र्यै । दुहिता वा पुरुषो वेति । कृष्णो वा जायते । समाप्तान्यवीरजननानि ॥

अथ वन्ध्याकरणमुच्यते
ऽप्रान्यान्त्सपत्नान्ऽ इति तृचेनाश्वतरीमूत्रमश्ममण्डलाभ्यां सङ्घृष्याभिमन्त्र्य भक्ते ददाति । तद्भक्तं परस्त्र्यै विद्वेषिण्यै ददाति भोजनार्थम् ।ऽप्रान्यान्त्सपत्नान्ऽ इति तृचेनाश्वतरीमूत्रमश्ममण्डलाभ्यां सङ्घृष्याभिमन्त्र्य तस्यालङ्कारा॑म्ल्लेपयति ।ऽप्रान्यान्ऽ इति तृचेन सीमन्तमन्वीक्षते विद्वेषिण्यै । समाप्तानि परस्त्रीवन्ध्याकरणानि ॥

जारोच्चाटनमुच्यते
[अपि वृश्च (७.९०) इति जायायै जारमन्वाह ॥ कौशिकसूत्र ४,१२{३६}.३५ ॥]
ऽअपि वृश्चऽ इति सूक्तं तृचं जारं दृष्ट्वा जपति ॥

[क्लीबपदे बाधकं धनुर्वृश्चति ॥ कौशिकसूत्र ४,१२{३६}.३६ ॥]
ऽअपि वृश्चऽ इति सूक्तेन जारपदस्थाने बाधकं धनुर्वृश्चति ॥

[आशयेऽश्मानं प्रहरति ॥ कौशिकसूत्र ४,१२{३६}.३७ ॥]
ऽअपि वृश्चऽ इति तृचेन सूक्तेन पाषाणमभिमन्त्र्य जारमैथुनस्थाने प्रक्षिपत्युच्चाटनार्थम् । समाप्तं जारोच्चाटनम् ॥

पुरुषस्य स्त्रियाः परस्परविद्वेषकरणान्युच्यन्ते
[तृष्टिकः (७.१३३) इति बाणापर्णीम् ॥ कौशिकसूत्र ४,१२{३६}.३८ ॥]
ऽतृष्टिकःऽ इति द्व्यर्चेन सूक्तेन बाणापर्णीं लोहिताजाया द्रप्सेन सन्नीयाभिमन्त्र्य शयनमनु परिकिरति । पुरुषस्त्रीशयने च । समाप्तं विद्वेषणकरणं स्त्रीपुरुषस्योभयरुचिविनाशकरणम् ॥

अथ दौर्भाग्यकरणमुच्यते
[आ ते ददे (७.११४.१) इति मन्त्रोक्तानि संस्पृशति ॥ कौशिकसूत्र ४,१२{३६}.३९ ॥
अपि चान्वाहापि चान्वाह ॥ कौशिकसूत्र ४,१२{३६}.४० ॥]
ऽआ ते ददेऽ इत्येका । हृदयं मुखं वाभिमन्त्रयते परस्त्र्यै ।ऽआ ते ददेऽ इत्येकां जपित्वान्वाह । दौर्भाग्यकरणं स्त्रियो वा पुरुषस्य वा । समाप्तानि स्त्रीकर्मकरणानि । तत्र भद्रश्लोकः

भैषज्यकर्माणि प्रोक्तानि सर्वव्याध्युपशान्तये.
स्त्रीकर्माणि ततः पश्चाच्चतुर्थे संहिताविधौ ॥
द्वादशमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ३६ ॥


इति कौशिके संहिताविधौ चतुर्थोऽध्यायः समाप्तः ॥

॥ चतुर्थोऽध्यायः समाप्तः ॥


अथ पञ्चमोऽध्यायः
[विज्ञानकर्माणि]

अथ विज्ञानकर्मणां विधिं वक्ष्यामः । लाभालाभजयपराजयसुखदुःखोत्कर्षापकर्षसुभिक्षदुर्भिक्षक्षेमाक्षेमभयाभयरोगारोग त्रासोऽस्तीति न वेति । धनाधनधर्माधर्मजीवाजीवमरणामरणधान्यं भविष्यति न वेति । क्षेत्रे भविष्यति न वेति । गृहे वासो भविष्यति नेति । धान्यपुत्रपशुहिरण्यरत्नवस्त्राणि च । विद्याशास्त्रादिलाभो भविष्यति न वा । जीवितमरणे गमनागमने बलाबले सदसद्योगाद् । व्याधितस्य जीवितमरणाभ्याम् । प्रसवे पुत्रयोगात् । पुत्रे जाते धर्मसंयोगात् । मित्रामित्रसंयोगात् । ग्रामोऽस्ति वा न वेति । पुरुषस्य विवाहोऽस्ति वा न वेति । संवत्सरे मासे वा भविष्यति । सुभगा दुर्भगा वा । गृहं ग्रामादि भविष्यति न वा । अध्ययनं भवति न वेति । इत्यादि मनसा वाचा वा सञ्चित्य तत्कर्म कुर्यात् ॥

अथ विधानमुच्यते विज्ञानकर्मणाम्
[अम्बयो यन्ति (१.४) इति क्षीरौदनोत्कुचस्तम्बपाटाविज्ञानानि ॥ कौशिकसूत्र ५,१{३७}.१ ॥]
ऽअम्बयो यन्तिऽ इति सूक्तेन राध्यमानं क्षीरौदनमभिमन्त्र्य तत आसिञ्चेत् । मनसा चिन्तयेद्वाता चिन्तयेत् । ओदनं शृतं भवेदशृतं वा भवेत् । यदि यथाचिन्तितं भवति यदा तस्य कार्यसिद्धिर्भविष्यति जानीयात् । अथाशंसितं भवति न कार्यसिद्धिर्भविष्यतीति विद्यात् । अभिमन्त्र्याशंसेत् । यदि पाकश्चिन्तितस्तदा पाकेनार्थसिद्धिः ।ऽअम्बयो यन्तिऽ इति सूक्तेनेध्ममुपसमाधायाभिमन्त्र्यायाचेत् । उत्कुचनेनार्थः ।ऽअम्बयो यन्तिऽ इति सूक्तेन दर्भस्तम्बमभिमन्त्र्यायाचेत् । यत्र समविषमभावेनार्थसिद्धिः ।ऽअम्बयो यन्तिऽ इति सूक्तेन पूर्वेद्युः पाठामभिमन्त्र्यायाचेत् । पत्राणां सङ्कोचेनार्थसिद्धिः ॥

[साङ्ग्रामिकं वेदिविज्ञानम् ॥ कौशिकसूत्र ५,१{३७}.२ ॥]
ऽअम्बयो यन्तिऽ इति सूक्तेन सङ्ग्रामे पूर्वेद्युर्वेदिं कृत्वाभिमन्त्र्यायाचेत् । द्वितीयेऽहनि समविषमेन भावेन सिद्धिः ।ऽअम्बयो यन्तिऽ इति सूक्तेन व्यासकष्टादयोऽभिमन्त्र्य कर्तव्यानि । भोगे केवल्यादि लौकिकान्युपश्रुतये व्यासाष्टका व्यासः कष्टादयः । अन्यानि ज्योतिःशास्त्रपठितानि सर्वाणि विज्ञानानि शास्त्राण्यभिमन्त्र्य कर्तव्यानि ॥

[वेनस्तत्(२.१) इति पञ्चपर्वेषुकुम्भकमण्डलुस्तम्बकाम्पीलशाखायुगेध्माक्षेषु पाण्योरेकविंशत्यां शर्करास्वीक्षते ॥ कौशिकसूत्र ५,१{३७}.३ ॥]
ऽवेनस्तत्ऽ इति सूक्तेन पञ्चग्रन्थिवेणुदण्डमभिमन्त्र्यायाच्य समे धारयत्यभीष्टदिशि पतनेनार्थसिद्धिः ।ऽवेनस्तत्ऽ इति सूक्तेनेषुं सन्धायाभिमन्त्र्यायाचेत् । चिन्तितप्रक्षेपणेनार्थम् ।ऽवेनस्तत्ऽ इति सूक्तेन कुम्भ उदकपूर्णं दुग्धं प्रक्षिप्यायाचेत् । ऊनाधिकेनार्थसिद्धिः । यथाचिन्तितं तथा सिद्धिः ।ऽवेनस्तत्ऽ इति सूक्तेन कमण्डलुमुदकपूर्णं दुग्धमाक्षिप्याभिमन्त्र्यायाचेत् । ऊनाधिकेनार्थसिद्धिः ।ऽवेनस्तत्ऽ इति सूक्तेन दर्भस्तम्बमभिमन्त्र्यायाचेत् । स्त्यायनेनार्थसिद्धिः ।ऽवेनस्तत्ऽ इति सूक्तेन काम्पीलशाखां मूर्ध्ना धारयित्वाभिमन्त्र्यायाचेत् । इष्टदिक्पतनेनार्थः ।ऽवेनस्तत्ऽ इति सूक्तेन युगमभिमन्त्र्यायाचेत् । इष्टदिक्पतनेनार्थः ।ऽवेनस्तत्ऽ इति सूक्तेनेध्मन्यभिमन्त्र्यायाचेत् । अग्नौ प्रक्षिपेत । प्रदक्षिणज्वलनेनार्थः ।ऽवेनस्तत्ऽ इत्यक्षावभिमन्त्र्य पातयति । अभियातनेनार्थः ।ऽवेनस्तत्ऽ इति सूक्तेन हस्तयोरङ्गुलिद्वयमभिमन्त्र्यायाचेत् । अज्ञाने स्पर्शनेनार्थः ।ऽवेनस्तत्ऽ इति सूक्तेनैकविंशत्या शर्करा अभिमन्त्र्यायाचेत् । समविषमभावेन यथावतार्थः ॥

अथ नष्टद्रव्ये परीक्षणे क्रियमाणे च इदं कर्म
[कुम्भमहतेन परिवेष्ट्याधाय शयने विकृते सम्पातानतिनयति ॥ कौशिकसूत्र ५,१{३७}.४ ॥
अनतीकाशमवच्छाद्यारजोवित्ते कुमार्यौ येन हरेतां ततो नष्टम् ॥ कौशिकसूत्र ५,१{३७}.५ ॥]
अभ्यातानान्तं कृत्वा कुम्भमहतेन परिवेष्ट्याधाय शयनेऽवेनस्तत्ऽ इति सूक्तेन कुम्भे सम्पातानानयति । अरजोवित्ते कुमार्यौ येन हरेतां ततो नष्टम् । अभ्यातानाद्युत्तरतन्त्रम् ॥

[एवं सीरे साक्षे ॥ कौशिकसूत्र ५,१{३७}.६ ॥]
तन्त्रं कृत्वाऽवेनस्तत्ऽ इति सूक्तेनाहतेन वस्त्रेण वेष्टितं हलं सम्पात्याभिमन्त्र्य येन हरेतां ततो नष्टम् । तत
उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽवेनस्तत्ऽ इति सूक्तेनाक्षान् कुम्भवत्कृत्वा सम्पात्य येन हरेतां ततो नष्टम् । तत उत्तरतन्त्रम् । समाप्तं नष्टद्रव्ये परीक्षणे विज्ञानम् ॥

अथ कुमारीविज्ञानमुच्यते
[लोष्टानां कुमारीमाह यमिच्छसि तमादत्स्व इति ॥ कौशिकसूत्र ५,१{३७}.७ ॥
आकृतिलोष्टवल्मीकौ कल्याणम् ॥ कौशिकसूत्र ५,१{३७}.८ ॥
चतुष्पथाद्बहुचारिणी ॥ कौशिकसूत्र ५,१{३७}.९ ॥
श्मशानान्न चिरं जीवति ॥ कौशिकसूत्र ५,१{३७}.१० ॥
उदकाञ्जलिं निनय इत्याह ॥ कौशिकसूत्र ५,१{३७}.११ ॥
प्राचीनमपक्षिपन्त्यां कल्याणम् ॥ कौशिकसूत्र ५,१{३७}.१२ ॥]
आकृतिलोष्टवल्मीकलोष्टचतुष्पथलोष्टश्मशानमृत्तिकाः ।ऽवेनस्तत्ऽ इति सूक्तेनाभिमन्त्र्य चतस्रो मृत्तिकाः । ततः कुमारीं प्रेष्यति । तां मृत्तिकास्पर्शनम् ।ऽवेनस्तत्ऽ इति सूक्तेन कुमारीमुदकाञ्जलिं पूरयित्वाभिमन्त्र्याजानत्यैऽनिनयऽइति । यदि प्राचीं निनयति तदा कल्याणम् । आकृतिलोष्टवल्मीक आलभते कल्याणम् । चतुष्पथे स्पर्शे बहुचारिणी । श्मशाने स्पर्शेऽचिरं भविष्यतीति जानीयात् । समाप्तं कुमारीविवाहकाले ज्ञानम् । गृहपुत्रधनधान्यादिसर्वकल्याणम् । समाप्तानि विज्ञानानि । सर्वत्र कर्मणां विकल्पः ॥ पञ्चमेऽध्याये प्रथमा कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ३७ ॥


[नैमित्तिकानि]

अथ नैमित्तिकान्युच्यन्ते
[जरायुजः (१.१२) इति दुर्दिनमायन् प्रत्युत्तिष्ठति ॥ कौशिकसूत्र ५,२{३८}.१ ॥]
ऽजरायुजःऽ इति सूक्तेन दुर्दिनमभिमुखमुपतिष्ठते । सर्वत्र दुर्दिनविनाशकानि ॥

[अन्वृचमुदवज्रैः ॥ कौशिकसूत्र ५,२{३८}.२ ॥]
ऽजरायुजःऽ इति सूक्तेन प्रत्यृचमुदकं प्रक्षिपति ॥

[अस्युल्मुककिष्कुरूनादाय ॥ कौशिकसूत्र ५,२{३८}.३ ॥]
ऽजरायुजःऽ इति सूक्तेन खङ्गं गृहीत्वोपतिष्ठतेऽभिमुखम् ।ऽजरायुजःऽ इति सूक्तेनोल्मुकं गृहीत्वोपतिष्ठते सूर्यस्याभिमुखः ।ऽजरायुजःऽ इति सूक्तेन लकुटं गृहीत्वोपतिष्ठते ॥

[नग्नो ललाटमुन्मृजानः ॥ कौशिकसूत्र ५,२{३८}.४ ॥]
ऽजरायुजःऽ इति सूक्तेन नग्नो ललाटमुन्मृजानः अर्कमुखो भूत्वोपतिष्ठते ॥

[उत्साद्य बाह्यतोऽङ्गारकपाले शिग्रुशर्करा जुहोति ॥ कौशिकसूत्र ५,२{३८}.५ ॥]
ऽजरायुजःऽ इति सूक्तेनाभ्यन्तरे प्रविश्याङ्गान्युद्वर्त्य बहिर्निष्क्रम्याङ्गारकपालेऽग्निं कृत्वा शिग्रुं जुहोति ।ऽजरायुजःऽ इति सूक्तेन कपालेऽग्निं कृत्वा शर्करां जुहोति ॥

[केरार्कावादधाति ॥ कौशिकसूत्र ५,२{३८}.६ ॥]
ऽजरायुजःऽ इति सूक्तेन पटेरकसमिध आदधाति स्थण्डिले । अभ्यन्तरे प्रविश्य तत उद्वर्त्य ततो होमः । दुर्दिनस्य विनाशकामः । दुर्दिनमम्भादि पांशुवृष्ट्यादि ।ऽजरायुजःऽ इति सूक्तेनार्कसमिध आदधाति । समाप्तानि दुर्दिनकर्माणि । सर्वत्र कर्मणां विकल्पः ॥

वृष्टिनिवारणं वक्ष्यामः
[वर्षपरीतः प्रतिलोमकर्षितस्त्रिः परिक्रम्य खदायामर्कं क्षिप्रं संवपति ॥ कौशिकसूत्र ५,२{३८}.७ ॥]
ऽजरायुजःऽ इति सूक्तेन खदां खात्वा खदां त्रिष्परिक्रम्यार्कं निर्लुचितं कृत्वा खदायां प्रक्षिपति सूक्तान्तेन । ततः पांशुना खदां पूरयति । नाग्निम् । वृष्टिनिवारणं समाप्तम् ॥

अशनिनिवारणं वक्ष्यामः
[नमस्ते अस्तु (१.१३) यस्ते पृथु स्तनयित्नुः (७.११) इत्यशनियुक्तमपादाय ॥ कौशिकसूत्र ५,२{३८}.८ ॥]
ऽनमस्ते अस्तु विद्युतेऽ इत्यशन्यभिमुखमुपतिष्ठते ।ऽयस्ते पृथु स्तनयित्नुःऽ इत्यृचाशन्यभिमुखमुपतिष्ठते ।ऽनमस्ते अस्तु विद्युतेऽ इति सूक्तेन खङ्गं गृहीत्वोपतिष्ठते ।ऽनमस्ते अस्तुऽ इति सूक्तेन दण्डं गृहीत्वोपतिष्ठते ॥

[प्रथमस्य सोमदर्भकेशानीकुष्ठलाक्षामञ्जिष्ठीबदरहरिद्रं भूर्जशकलेन परिवेष्ट्य मन्थशिरस्युर्वरामध्ये निखनति ॥ कौशिकसूत्र ५,२{३८}.९ ॥]
ऽनमस्ते अस्तुऽ इति सूक्तेन सोमदर्भकेशानीकुष्ठलाक्षामञ्जिष्ठीबदरहरिद्रमेतानि द्रव्याणि भूर्जे कृत्वा मन्थशिरसि कृत्वाभिमन्त्र्य क्षेत्रमध्ये निखनति । एतत्कर्म क्षेत्रे । अशनिनिवारणम् ॥
“अतिवृष्टिरनावृष्टिः शलभा मूषकाः शुकाः.
स्वचक्रं परचक्रं च सप्तैता ईतयः स्मृताः ॥”

समाप्तान्यशनिनिवारणानि ॥

दधिनवे नाश्नात्या संहरणात् ॥ कौशिकसूत्र ५,२{३८}.१० ॥
अवदीर्यमाणे ग्रामे वावसाने वाग्निशरणे वा समज्यायां वा गृहे वा प्राकारे वा यान्यवातरक्षार्थं कर्म वक्ष्यामः

[आशापालीयं तृतीयावर्जं दृंहणानि ॥ कौशिकसूत्र ५,२{३८}.११ ॥
भौमस्य दृतिकर्माणि ॥ कौशिकसूत्र ५,२{३८}.१२ ॥
पुरोडाशानश्मोत्तरानन्तःस्रक्तिषु निदधाति ॥ कौशिकसूत्र ५,२{३८}.१३ ॥]
अभ्यातानान्तं कृत्वाऽआशानामाशापालेभ्यःऽ (१.३१) इति सूक्तेनऽअस्रामस्त्वाऽ (१.३१.३) इत्यृचं वर्जयित्वा चतुःपुरोडाशान् सम्पात्य गृहकोणेषु निखनति । पाषाणमुपरि दधाति । चतुः सूक्तावृत्तिः । अभ्यातानाद्युत्तरतन्त्रम् ॥

[उभयान् सम्पातवतः ॥ कौशिकसूत्र ५,२{३८}.१४ ॥]
अभ्यातानान्तं कृत्वाऽआशानामाशापालेभ्यःऽ इति तृतीयावर्जेन सूक्तेन पुरोडाशानश्मनश्चोभयान् सम्पातवतः करोति । सूक्तस्याष्टावावृत्तिः ॥

[सभाभागधानेषु च ॥ कौशिकसूत्र ५,२{३८}.१५ ॥]
ग्रामकोणेषु चतुर्षु निखनति । अभ्यातानाद्युत्तरतन्त्रम् ।ऽआशानामाशापालेभ्यःऽ इति सूक्तं तृतीयाऋग्वर्जं जपति । रात्रावग्निशरणमुपतिष्ठति । समाप्तान्यवदीरणे रक्षाकर्माणि ॥

पत्तने रक्षार्थान्युच्यन्ते
[असन्तापे ज्योतिरायतनस्यैकतोऽन्यं शयानो भौमं जपति ॥ कौशिकसूत्र ५,२{३८}.१६ ॥]
अभ्यातानान्तं कृत्वाऽसत्यं बृहत्ऽ (१२.१) इत्यनुवाकेन पुरोडाशान् सम्पात्याश्मोत्तरान् कृत्वा निखनति ग्रामस्य कोणेषु । चतुः सूक्तावृत्तिः । अभ्यातानान्तं कृत्वाऽसत्यं बृहत्ऽ इत्यनुवाकेन पुरोडाशानश्मनश्च सम्पात्य गृहकोणेषु निखनति । अष्टावावृत्तिः । पतने रक्षा । तत उत्तरतन्त्रम् ।ऽसत्यं बृहत्ऽ इत्यनुवाकं जपति शयानोऽग्निशरण उपविष्टः सन् । समाप्तानि दृढकर्माणि ।
सर्वत्र कर्मणां विकल्पः । गृहपतने ग्रामपतने कार्याणि दृढकरणेऽवदीरणरक्षार्थम् ॥
अथ विवादे जयकर्मणां विधिं वक्ष्यामः
[इयं वीरुत्(१.३४) इति मदुघं खादन्नपराजितात्परिषदमाव्रजति ॥ कौशिकसूत्र ५,२{३८}.१७ ॥]
ऽइयं वीरुत्ऽ इति सूक्तेन ज्येष्ठीमधुमभिमन्त्र्य भक्षयति । ततः सभां प्रविशति । अपराजिताद्देशात् । पर्षदं सभा । जयकर्म समाप्तम् ॥

विवादे जयकर्माण्युच्यन्ते
[नेच्छत्रुः (२.२७) इति पाटामूलं प्रतिप्राशितम् ॥ कौशिकसूत्र ५,२{३८}.१८ ॥]
ऽनेच्छत्रुःऽ इति पाटामूलमभिमन्त्र्य मुखे प्रक्षिप्य खादन्नपराजिताद्देशादागच्छति ॥

[अन्वाह ॥ कौशिकसूत्र ५,२{३८}.१९ ॥]
ऽनेच्छत्रुःऽ इति सूक्तेन पाटामूलं मुखे प्रक्षिप्यान्वाह ॥

[बध्नाति ॥ कौशिकसूत्र ५,२{३८}.२० ॥]
आज्यतन्त्रं कृत्वाऽनेच्छत्रुःऽ इति सूक्तेन पाटामूलं सम्पात्याभिमन्त्र्य बध्नाति । जयार्थम् ॥

[मालां सप्तपलाशीं धारयति ॥ कौशिकसूत्र ५,२{३८}.२१ ॥]
ऽनेच्छत्रुःऽ इति सूक्तेन पाटापुष्पमालामभिमन्त्र्य शिरसि धारयति केचिज्जात्यादिगन्धपुष्पाणि ।ऽनेच्छत्रुःऽ इति सूक्तेन पाटापलाशीं सप्तपलाशीं सप्तपर्णीमालामभिमन्त्र्य धारयति । विवादे जयकर्मार्थम् ॥

परिषदि निवारणं कर्मोच्यते
[ये भक्षयन्तः (२.३५) इति परिषद्येकभक्तमन्वीक्षमाणो भुङ्क्ते ॥ कौशिकसूत्र ५,२{३८}.२२ ॥]
ऽये भक्षयन्तःऽ इति सूक्तेन भक्तमभिमन्त्र्य भक्तं शाकादि च ततो भुञ्जति । परिषदि निवारणं समाप्तम् ॥

[ब्रह्म जज्ञानम् (४.१) इत्यध्यायानुपाकरिष्यन्नभिव्याहारयति ॥ कौशिकसूत्र ५,२{३८}.२३ ॥]
ऽब्रह्म जज्ञानम्ऽ इति प्रथमेन काण्डादिना सूक्तेन वेदं वा अनुवाकं वा सूक्तं वा कल्पं वा ब्राह्मणं वाऽध्ययनं कर्तुमिच्छति तदा तदा सूक्तं जपित्वा ततोऽध्ययनं कुर्यात् । कलहशमनं समाप्तम् ॥

[प्राशमाख्यास्यन् ॥ कौशिकसूत्र ५,२{३८}.२४ ॥]
ऽब्रह्म जज्ञानम्ऽ इति सूक्तं जपति विवादे जयार्थम् ॥

[ब्रह्मोद्यं वदिष्यन् ॥ कौशिकसूत्र ५,२{३८}.२५ ॥]
ऽब्रह्म जज्ञानम्ऽ इति सूक्तं जपित्वा मीमांसाव्याकरणादिशास्त्रवादं करोति । तदा जपित्वा करोति । प्रतिवादिनं जयति ॥

विभागकर्मोच्यते
[ममाग्ने वर्चः (५.३) इति विभुङ्क्ष्यमाणः प्रमत्तरज्जुं बध्नाति ॥ कौशिकसूत्र ५,२{३८}.२६ ॥]
ऽममाग्ने वर्चो विहवेषुऽ इति सूक्तेन चाक्रिकस्य रज्जुमभिमन्त्र्य धारयति हस्तेन । कलहो न भवति । इति विवादकर्तुर्वदने कलहो न भवति ॥

सभाजयकर्माण्युच्यन्ते
[सभा च मा (७.१२) इति भक्षयति ॥ कौशिकसूत्र ५,२{३८}.२७ ॥]
सभास्तम्भनं कर्म जयकर्म । तदा सभासदधर्माधिकरणादि जीयते । आज्यतन्त्रं कृत्वाऽसभा च मा समितिःऽ इति पञ्चर्चेन सूक्तेन क्षीरौदनं सम्पात्याभिमन्त्र्य भक्षयति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽसभा च माऽ इति पुरोडाशं सम्पात्याभिमन्त्र्य
भक्षयति । तत उत्तरतन्त्रम् ।ऽसभा च माऽ इति पञ्चर्चेन रसान् सम्पात्याभिमन्त्र्य भक्षयति आज्यतन्त्रे ॥

[स्थूणे गृह्णात्युपतिष्ठते ॥ कौशिकसूत्र ५,२{३८}.२८ ॥]
ऽसभा च माऽ इति पञ्चर्चं सूक्तं जपित्वा स्थूणां गृह्णाति ।ऽसभा च माऽ इति सभामुपतिष्ठते । धर्माधिकरणमपि जीयते । सभास्तम्भनम् ॥

[यद्वदामि (१२.१.५८) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ५,२{३८}.२९ ॥]
ऽयद्वदामिऽ इत्यृचं जपित्वा सभां वदेत् ।ऽयद्वदामिऽ इत्यृचं जपित्वा सभां निरीक्षते ।ऽयद्वदामिऽ इत्यृचं जपित्वान्वाह । यद्वदति तत्तथैव वदति यच्चक्षुषा पश्यति तद्वदन् । विघातो न भवति ॥

[अहमस्मि (१२.१.५४) इत्यपराजितात्परिषदमाव्रजति ॥ कौशिकसूत्र ५,२{३८}.३० ॥]
ऽअहमस्मि सहमानःऽ इत्यृचं जपित्वाऽपराजितात्पर्षदमाव्रजति जयकामः । समाप्तानि विवादजयकर्माणि । प्रतिवादी जीयते । सर्वत्र कर्मणां विकल्पः ॥ पञ्चमेऽध्याये द्वितीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ३८ ॥


[दूष्या दूषिरसि (२.११) इति स्राक्त्यं बध्नाति ॥ कौशिकसूत्र ५,३{३९}.१ ॥]
अभ्यातानान्तं कृत्वाऽदूष्या दूषिरसिऽ इति सूक्तेन तिलकमणिं सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । आत्मरक्षार्थो मणिः । अभिचारदोषान्मुच्यते । सर्वत्रान्वारब्धायाभिमन्त्रणहोमाः । प्रत्यभिचरणार्थी च मणिं बध्नाति । स्त्रीकृते शूद्रकृते राजकृते ब्राह्मणकृते कपालिककृते शाकिनीकृतेऽन्त्यजादिकृतेऽन्येषां वा दुःसिद्धिः । अयं रक्षार्थो मणिः । मणिना रक्षा भवति । अभिचाररक्षामणिः ॥
अथ कृत्याप्रतिहरणमुच्यते । अभ्यातानान्तं कृत्वाऽदूष्या दूषिरसिऽ इति सूक्तेन तिलकमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । आत्मरक्षार्थो मणिः ॥

[पुरस्तादग्नेः पिशङ्गं गां कारयति ॥ कौशिकसूत्र ५,३{३९}.२ ॥
पश्चादग्नेर्लोहिताजम् ॥ कौशिकसूत्र ५,३{३९}.३ ॥
यूषपिशितार्थम् ॥ कौशिकसूत्र ५,३{३९}.४ ॥]
कारयितुः शान्त्युदकं करोति । पुरस्तादग्नेः पिशङ्गं गां धारयित्वा पश्चादग्नेर्लोहिताजं धारयित्वा ततः शान्त्युदकं करोति । महाशान्त्युदकं करोति ॥

[मन्त्रोक्ताः ॥ कौशिकसूत्र ५,३{३९}.५ ॥
वाशाकाम्पीलसितीवारसदम्पुष्पा अवधाय ॥ कौशिकसूत्र ५,३{३९}.६ ॥]
मन्त्रोक्ताः चित्त्याद्योषधीरानयति । दर्भा अपामार्गा सहदेवी आटरूषकः काम्पीलं सितीवारसदम्पुष्पा एता मन्त्रोक्ताः भाजन आनयति शान्तिगणेन ॥

[दूष्या दूषिरसि (२.११), ये पुरस्तात्(४.४०), ईशानां त्वा (४.१७), समं ज्योतिः (४.१८), उतो अस्य बन्धुः (४.१९), सुपर्णस्त्वा (५.१४), यां ते चक्रुः (५.३१), अयं प्रतिसरः (८.५), यां कल्पयन्ति (१०.१) इति महाशान्तिमावपते ॥ कौशिकसूत्र ५,३{३९}.७ ॥]
यन्मातलीवर्जं कृत्यादूषणगणम् ।ऽदूष्या दूषिरसिऽ सूक्तं,ऽये पुरस्तात्ऽ इति सूक्तम्,ऽईशानां त्वाऽ त्रीणि सूक्तानि,ऽसुपर्णस्त्वाऽ सूक्तं,ऽयां ते चक्रुःऽ सूक्तम्,ऽअयं प्रतिसरःऽ अर्थसूक्तं,ऽयां कल्पयन्तिऽ इत्यर्थसूक्तं कृत्याप्रतिहरगणः । ततो वास्तोष्पत्यः, मातृनामा, चातन, बृहच्छान्तिगण एते पञ्च गणाः शान्त्युदक आवाप्यन्ते । ततो मातलीं कृत्वाऽसर्वा इमाःऽ इत्यादि करोति ॥

[निश्यवमुच्योष्णीष्यग्रतः प्रोक्षन् व्रजति ॥ कौशिकसूत्र ५,३{३९}.८ ॥
यतायै यतायै शान्तायै शान्तिवायै भद्रायै भद्रावति स्योनायै शग्मायै शिवायै सुमङ्गलि प्रजावति सुसीमेऽहं वामाभूः इति ॥ कौशिकसूत्र ५,३{३९}.९ ॥]
तेन शान्त्युदकेन प्रोक्षन् व्रजति कृत्यानिखननस्थानं च । अतो रात्रविदं कर्म क्रियते । उपानहौ परिधायोष्णीषं कृत्वाऽग्रे भूत्वा कर्ता शान्त्युदकेन प्रोक्षति ।ऽयतायै शान्तायैऽ इत्यनेन मन्त्रेण कृत्यास्थानं यावत् । वालागमपात्रेषु कृत्यादिषु च सर्वेष्विदं कर्म भवति ॥

[अभावादपविध्याति ॥ कौशिकसूत्र ५,३{३९}.१० ॥
कृत्ययामित्रचक्षुषा समीक्षन् कृतव्यधनि (५.१४.९) इत्यवलिप्तं कृत्यया विध्यति ॥ कौशिकसूत्र ५,३{३९}.११ ॥
उक्तावलेखनीम् ॥ कौशिकसूत्र ५,३{३९}.१२ ॥]
अमित्रचक्षुः । यदि कृत्या दुष्टा भवति तदा वक्ष्यमाणं कर्म करोति । अथ न भवति तदा न कुर्यात् । एवं वालागमपात्रेषु
कृत्यादिषु च सर्वेषु इदं कर्म भवति अमित्रचक्षुषा इति । अनेन मन्त्रेण कृत्यां निरीक्षते । कारयिता निरीक्षते ।ऽकृतव्यधनिऽ इत्यृचा कृत्यामवलेपनं करोति ।ऽकृतव्यधनिऽ इत्यृचा कर्ता काण्डेन विध्यति । आङ्गिरसकल्पविधानात् । धनुषाथवा दार्भ्यूषेण कार्योत्पन्नेन विध्यविधिना काण्डेन विध्यति ॥

[दूष्या दूषिरसि (२.११) इति दर्व्या त्रिः सारूपवत्सेनापोदकेन मथितेन गुल्फान् परिषिञ्चति ॥ कौशिकसूत्र ५,३{३९}.१३ ॥]
ऽदूष्या दूषिरसिऽ इत्यृचा दर्व्या त्रिः सारूपवत्सस्य विनोदकेन मन्थेन गुल्फान् परिषिञ्चति । सकृन्मन्त्रः ॥

[शकलेनावसिच्य यूषपिशितान्याशयति ॥ कौशिकसूत्र ५,३{३९}.१४ ॥]
मथितं शकलेनावसिच्य तां यूषपिशितान्याशयति ॥

[यष्टिभिश्चर्म पिनह्य प्रैषकृत्परिक्रम्य बन्धान्मुञ्चति सन्दंशेन ॥ कौशिकसूत्र ५,३{३९}.१५ ॥]
मांसानि शकले निधाय कर्ता लकुटैश्चर्मणा बद्ध्वा प्रैषकृत्परिक्रम्य बन्धान्मुञ्चति सन्दंशेन ॥

[अन्यत्पार्श्वीं संवेशयति ॥ कौशिकसूत्र ५,३{३९}.१६ ॥]
पार्श्वीं संवेशयति ॥

[शकलेनोक्तम् ॥ कौशिकसूत्र ५,३{३९}.१७ ॥]
शकलेनावसिच्य तां यूषपिशितान्याशयति ॥

[अभ्यक्ता (१०.१.२५) इति नवनीतेन मन्त्रोक्तम् ॥ कौशिकसूत्र ५,३{३९}.१८ ॥]
ऽअभ्यक्ताक्ता स्वरङ्कृताऽ इत्यृचा नवनीतेनाभ्यज्याक्षिणी चाङ्क्ते । कृत्यां सालङ्कारां बध्नाति ॥

[दर्भरज्ज्वा सन्नह्य उत्तिष्ठैव (१०.१.२०) इत्युत्थापयति ॥ कौशिकसूत्र ५,३{३९}.१९ ॥]
ऽउत्तिष्ठैव परेहिऽ इत्यर्धर्चेन दर्भरज्ज्वा सन्नह्योत्थापयति प्रषकृत् ॥

[सव्येन दीपं दक्षिणेनोदकालाब्वादाय वाग्यताः ॥ कौशिकसूत्र ५,३{३९}.२० ॥]
सव्येन हस्तेन दीपं धारयति । दक्षिणेनालाबूदकपूर्णमादाय ततोऽरण्ये गच्छन्ति सह कर्त्रा सर्वे ॥

[प्रैषकृदग्रतः ॥ कौशिकसूत्र ५,३{३९}.२१ ॥
अनावृतम् ॥ कौशिकसूत्र ५,३{३९}.२२ ॥
अगोष्पदम् ॥ कौशिकसूत्र ५,३{३९}.२३ ॥
अनुदकखातम् ॥ कौशिकसूत्र ५,३{३९}.२४ ॥
दक्षिणाप्रवणे वा स्वयन्दीर्णे वा स्वकृते वेरिणेऽन्याशायां वा निदधाति ॥ कौशिकसूत्र ५,३{३९}.२५ ॥]
अनावृते वाऽगोष्पददेशे वाऽनुदकखाते वा दक्षिणाप्रवणे वा स्वयमवदीर्णे वा स्वकृते वेरिणेऽन्याशायां वा तत्र कृत्यां
निदधाति ॥

[अलाबुना दीपमवसिच्य यथा सूर्यः (१०.१.३२) इत्यावृत्याव्रजति ॥ कौशिकसूत्र ५,३{३९}.२६ ॥]
अलाबुना दीपमवसिच्य ततः सर्वे गृहानागच्छन्ति ।ऽयथा सूर्यःऽ इत्यावृत्य व्रजति । गृहद्वार इदं कर्म करोति ॥

[तिष्ठंस्तिष्ठन्तीं महाशान्तिमुच्चैरभिनिगदति ॥ कौशिकसूत्र ५,३{३९}.२७ ॥]
अभिचरितपुरुषसन्मुखो भूत्वा कर्ता चोपद्रष्टारश्च । वास्तोष्पत्यादयश्चत्वारो गणाः । उच्चैः पठन्ति ॥

[मर्माणि सम्प्रोक्षन्ते ॥ कौशिकसूत्र ५,३{३९}.२८ ॥]
कर्ताऽभिचरितपुरुषस्य शान्त्युदकेन मर्माणि सम्प्रोक्षते । गार्हपत्यसभामपात्रकूपकुक्कुट इत्यादीनि मर्माणि सम्प्रोक्षन्ते ॥

[कृष्णसीरेण कर्षति ॥ कौशिकसूत्र ५,३{३९}.२९ ॥
अधि सीरेभ्यो दश दक्षिणा ॥ कौशिकसूत्र ५,३{३९}.३० ॥
अभिचारदेशा मन्त्रेषु विज्ञायन्ते तानि मर्माणि ॥ कौशिकसूत्र ५,३{३९}.३१ ॥]
कृत्यास्थानं कृष्णवृषभेण हलेन कर्षति । दश गावो दक्षिणा वृषभैर्युक्तं हलं च आङ्गिरसकल्पे कृतां कृत्यां शमयति । अन्यां च । क्षुद्रविद्याकृतोऽभिचारः । सर्वावस्थस्याभिचारस्येयं चिकित्सा । शान्तिरित्यर्थः । अभिचारो यथाऽऽक्रोशपापान्मुच्यते । येन कृतोऽभिचारस्तस्यैव गच्छति यतः प्रत्यभिचारो भवति । ततस्तन्त्रं सर्वत्र । समाप्तं कृत्याप्रतिहरणमभिचारकृतं कर्म ॥ पञ्चमेऽध्याये तृतीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ३९ ॥


अथ नदीप्रवाहविधिं वक्ष्यामः
[यददः सम्प्रयतीः (३.१३) इति येनेच्छेन्नदी प्रतिपद्येतेति प्रसिञ्चन् व्रजति ॥ कौशिकसूत्र ५,४{४०}.१ ॥]
नदीप्रवाहं खात्वाऽयददः सम्प्रयतीःऽ इति सूक्तेन प्रसिञ्चन् व्रजति । उदकं प्रक्षिपति वहनिकामध्यप्रवाहस्थाने । अन्यत्रैव वहनं कार्यम् । वहनविरोधो न भवति । इति नदीकर्म । नदीप्रवाहं खात्वा तस्मिन् प्रवाह इदं करोति ॥

[काशदिविधुवकवेतसान्निमिनोति ॥ कौशिकसूत्र ५,४{४०}.२ ॥]
ऽयददः सम्प्रयतीःऽ इति सूक्तेन काशमभिमन्त्र्य तत्र खाते रोपयति ।ऽयददः सम्प्रयतीःऽ इति सूक्तेन दिवि सेवालपर्णीमभिमन्त्र्य रोपयति नदीप्रवाहे ।ऽयददः सम्प्रयतीःऽ इति सूक्तेन धुवक पटेरकमभिमन्त्र्य नदीप्रवाहे निखनति ।ऽयददः सम्प्रयतीःऽ इति सूक्तेन वेतसशाखामभिमन्त्र्य रोपयति । इति नदीप्रवाहकर्म ॥

[इदं व आपः (३.१३.७) इति हिरण्यमधिदधाति ॥ कौशिकसूत्र ५,४{४०}.३ ॥]
ऽइदं व आपःऽ इति पादेन हिरण्यमभिमन्त्र्य नदीमार्गखाते निदधाति ॥

[अयं वत्सः (३.१३.७) इतीषीकाञ्जिमण्डूकं नीललोहिताभ्यां सकक्षं बद्ध्वा ॥ कौशिकसूत्र ५,४{४०}.४ ॥]
ऽअयं वत्सःऽ इति पादेनेषीकाञ्जिमण्डूकं नीललोहिताभ्यां सूत्राभ्यां बद्ध्वाभिमन्त्र्य निदधाति खातप्रवाहे ॥

[इहेत्थम् (३.१३.७) इत्यवकया प्रच्छादयति ॥ कौशिकसूत्र ५,४{४०}.५ ॥]
ऽइहेत्थमेतऽ इति पादेनावकामभिमन्त्र्य मण्डूकोपरि निदधाति ॥

[यत्रेदम् (३.१३.७) इति निनयति ॥ कौशिकसूत्र ५,४{४०}.६ ॥]
ऽयत्रेदम्ऽ इति पादेनोदकमभिमन्त्र्य मण्डूकस्योपरि निनयति । समाप्तं वहनकर्म । वहने विघातो न भवति । पूर्णप्रवाहो न भवति ॥

अथ नवप्रवाह इदं कुर्यात्
[मारुतं क्षीरौदनं मारुतशृतं मारुतैः परिस्तीर्य मारुतेन स्रुवेण मारुतेनाज्येन वरुणाय त्रिर्जुहोति ॥ कौशिकसूत्र ५,४{४०}.७ ॥]
वरुणदेवतापाकयज्ञविधानेनाज्यभागान्तं कृत्वाऽयददः सम्प्रयतीःऽ इति सूक्तेन त्रिर्विभज्य जुहोति । तत उत्तरतन्त्रम् । कृष्णव्रीहिः कृष्णाया गोः पयः घृतं च वेतसकाष्ठस्रुव इन्धनं च वेतसपत्रैः स्तरणं पटेरकेन वा । अस्मिन् तन्त्रे सर्वं मारुतं कर्तव्यम् । उदके प्रवाह उदकप्रवाहभये नदीभये ग्रामे नगरे वा यत्रोदकनदीभयं भवति तत्र सर्वत्र वारुणो होमः कर्तव्यः । मुख्यं प्रवाहे कर्म ॥

[उक्तमुपमन्थनम् ॥ कौशिकसूत्र ५,४{४०}.८ ॥
दधिमन्थं बलिं हृत्वा सम्प्रोक्षणीभ्यां प्रसिञ्चन् व्रजति ॥ कौशिकसूत्र ५,४{४०}.९ ॥]
ऽयददः सम्प्रयतीःऽ इति सूक्तेन दधिसक्तुमन्थं बलिहरणं कृत्वा वैतसे चमसे वैतसाभ्यामुपमन्थनीभ्यामुपमथ्य बलिं हरेत् । ततःऽअति धन्वानिऽ (७.४१.१२) इति द्वाभ्यां सम्प्रोक्षणीभ्यां मन्त्रोदकं नदीप्रवाहे प्रसिञ्चन् व्रजति । समाप्तं नदीदूरगमनकर्म ॥

यदि न वहति नदी तदा वक्ष्यमाणमिदं कर्म
[पाणिना वेत्रेण वा प्रत्त्याहत्योपरि निपद्यते ॥ कौशिकसूत्र ५,४{४०}.१० ॥]
ऽयददः सम्प्रयतीःऽ इति सूक्तेन हस्तेन नदीं वहन्ति ।ऽयददः सम्प्रयतीःऽ इति सूक्तेन वेतसशाखामभिमन्त्र्य नदीमवसिञ्चति ।ऽयददः सम्प्रयतीःऽ इति सूक्तं जपित्वा स्वयं पतति । निवर्तमानायां नदीमध्ये स्वपति निश्चयम् । यदि दूरं गता पुनर्निवर्तते तदेदं कर्म । एक आचार्याःऽयददः सम्प्रयतीःऽ इत्यादि सर्वमेकं कर्म मन्यन्ते । अन्ये भिन्नानि कर्माणि मन्यन्ते । अन्ये प्रसिञ्चनकर्म हिरण्यमण्डूककर्म योगकर्म मन्थनकर्म पाणिकर्मैतेषां विकल्पं मन्यन्ते । समुच्चयो वेति दारिलभद्रमतम् । समाप्तमन्यप्रवाहे नदीकर्म ॥

अथारणिसमारोपणकर्मोच्यते
[अयं ते योनिः (३.२०) इत्यरण्योरग्निं समारोपयति ॥ कौशिकसूत्र ५,४{४०}.११ ॥]
ऽअयं ते योनिःऽ इत्यृचारणिद्वयं प्रतापयति ॥

[आत्मनि वा ॥ कौशिकसूत्र ५,४{४०}.१२ ॥]
पाणी वा प्रतापयति । उत्थाय वा गृह्णाति । अनेन विधानेन समारोपणं कृत्वा पथि गच्छतां दोषो न भवति । समाप्तं समारोपणम् ॥

अथावरोहणमुच्यते
[उपावरोह जातवेदः पुनर्देवो देवेभ्यो हव्यं वहतु प्रजानन् । आनन्दिनो मोदमानाः सुवीरा इन्धीमहि त्वा शरदां शतानि इत्युपावरोहयति ॥ कौशिकसूत्र ५,४{४०}.१३ ॥]
ऽउपावरोहऽ इत्यृचारणिद्वयमभिमन्त्र्य ततो मन्थति । अथवा लौकिकाग्निमुपर्युच्छ्वासं प्रक्षिप्य ततोऽग्निकार्यं करोति । लौकिकाग्नौ हस्तौ प्रताप्य ततोऽग्निकार्याणि करोति । एकाग्नौ वा त्रेतायां वा शान्तिकपौष्टिकादौ च सर्वत्र समारोपणमुपावरोहणं भवति । समाप्तमुपावरोहणम् ॥

पुरुषस्य वीर्यकरणे विधिं वक्ष्यामः
[यां त्वा गन्धर्वो अखनत्(४.४) वृषणस्ते खनितारो वृषा त्वमस्योषधे । वृषासि वृष्ण्यावति वृषणे त्वा खनामसि (ড়ैप्प्ष्४.५.२) इत्युच्छुष्मापरिव्याधावायसेन खनति ॥ कौशिकसूत्र ५,४{४०}.१४ ॥
दुग्धे फाण्टावधिज्योपस्थ आधाय पिबति ॥ कौशिकसूत्र ५,४{४०}.१५ ॥]
कपिकच्छुमूलं ओषधिवत्खात्वाऽयां त्वा गन्धर्वो अखनत्ऽ इति सूक्तेनऽवृषणस्ते खनिताऽ इति मन्त्रेण दुग्धे श्रपयित्वोपविष्टं धनुरुत्सङ्गे कृत्वा दुग्धे प्रक्षिप्य ततो दुग्धंऽयां त्वा गन्धर्वो अखनत्ऽ इति सूक्तेनऽवृषणस्तेऽ इत्यभिमन्त्र्य पाययति ।ऽयां त्वा गन्धर्वो अखनत्ऽऽवृषणस्तेऽ इत्यृचा सुरवालकमोषधिवत्खात्वा दुग्धे श्रपयति । उपविष्टं धनुरुत्सङ्गे कृत्वाऽयां त्वा गन्धर्वो अखनत्ऽ इति सूक्तेनऽवृषणस्ते खनितारःऽ इति दुग्धमभिमन्त्र्य पाययति ॥

[मयूखे मुसले वासीनः]
ऽयां त्वा गन्धर्वो अखनत्ऽ इतिऽवृषणस्ते खनितारःऽ इत्यृचा कपिकच्छ्वोषधिवत्खात्वा दुग्धे श्रपयित्वा कीलक उपविश्यऽयां त्वाऽ इति दुग्धमभिमन्त्र्य पिबति ।ऽयां त्वा गन्धर्वो अखनत्ऽ इति सूक्तेनऽवृषणस्ते खनितारःऽ इत्यृचैभिर्मन्त्रैः सुरवालकमोषधिवत्खात्वा दुग्धे क्वाथयित्वा मुशल उपविश्य दुग्धमभिमन्त्र्यऽयां त्वाऽ इति मन्त्रैः पिबति । यतो बाहुल्यं भवति । वीर्यकरणं समाप्तम् ॥

शिश्नस्य स्थूलकरणमुच्यते
[यथासितः (६.७२) इत्येकार्कसूत्रमार्कं बध्नाति ॥ कौशिकसूत्र ५,४{४०}.१६ ॥]
अभ्यातानान्तं कृत्वाऽयथासितःऽ इति सूक्तेनैकशाखाकर्मणिं सम्पात्याभिमन्त्र्यार्कसूत्रेण बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । पतितस्योत्थापनं च भवति ॥

[यावदङ्गीनम् (६.७२.३) इत्यसितस्कन्धमसितवालेन ॥ कौशिकसूत्र ५,४{४०}.१७ ॥]
अभ्यातानान्तं कृत्वाऽयावदङ्गीनम्ऽ इत्यृचा कृष्णमृगचर्ममणिं सम्पात्याभिमन्त्र्य कृष्णवालेन बध्नाति । तत उत्तरतन्त्रम् । एतत्स्थूलकरणम् ॥

[आ वृषायस्व (६.१०.१) इत्युभयमप्येति ॥ कौशिकसूत्र ५,४{४०}.१८ ॥]
अभ्यातानान्तं कृत्वाऽआ वृषायस्वऽ इति सूक्तेनैकार्कसूत्रमार्कं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽआ वृषायस्वऽ इति सूक्तेन हरिणस्कन्धचर्ममणिं कृत्वा कृष्णवालेन बध्नाति सम्पात्याभिमन्त्र्य च । अभ्यातानाद्युत्तरतन्त्रम् । वीर्यकरणमुत्थापनं स्थूलकरणं च भवति । रेतनाशे च । समाप्तानि पुरुषस्य वीर्यकरणानि ॥ पञ्चमेऽध्याये चतुर्थी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ४० ॥


अथ वृष्टिकर्मविधिं वक्ष्यामः
[समुत्पतन्तु (४.१५) प्र नभस्व (७.१८) इति वर्षकामो द्वादशरात्रमनुशुष्येत् ॥ कौशिकसूत्र ५,५{४१}.१ ॥
सर्वव्रत उपश्राम्यति ॥ कौशिकसूत्र ५,५{४१}.२ ॥
मरुतो यजते यथा वरुणं जुहोति ॥ कौशिकसूत्र ५,५{४१}.३ ॥]
द्वादशरात्रं कृच्छ्रम् । त्रयोदशेऽहनि पाकयज्ञविधानेन व्रतोपायनान्तं कृत्वा ततोऽदेवस्य त्वा सवितुःऽ इत्यादिऽमरुद्भ्यो जुष्टं निर्वपामि मरुद्भ्यस्त्वा जुष्टं प्रोक्षामिऽ इत्यनेन यजुषा तावत्समानं यावदाज्यभागौ । ततः क्षीरौदनं जुहोतिऽसमुत्पतन्तुऽ इति सूक्तेन । पञ्चभिरृग्भिरेकामाहुतिम् । ततः पञ्चभिरृग्भिर्द्वितीयाम् । षड्भिस्तृतीयामाहुतिं जुहोति । ततः पार्वणाद्युत्तरतन्त्रम् । पाकयज्ञियं तन्त्रमाज्यभागान्तं कृत्वा ततः क्षीरौदनं जुहोति ।ऽप्र नभस्वऽ इत्यृचैकामाहुतिम्ऽन घ्रंस्ततापऽ (७.१८.२) इत्यृचा द्वितीयामाहुतिं युक्ताभ्यां तृतीयामाहुतिम् । पार्वणाद्युत्तरतन्त्रम् । बर्हिर्होमेऽमरुद्भ्यो गच्छतु हविः स्वाहाऽ इति । सर्वेषु वृष्टिकर्मसु कृष्णाया गोराज्यं कृष्णाया गोः पयः । कृष्णा व्रीहिशालयः । वेतसः स्रुवः । वेतसी समितिन्धनं च । काशादयो बर्हिः कार्यम् । आज्यभागान्तं कृत्वाऽसमुत्पतन्तुऽ इति सूक्तेन प्रत्यृचमाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । आज्यतन्त्रं कृत्वाऽप्र नभस्वऽ इति सूक्तेन प्रत्यृचमाज्यं जुहोति । तत उत्तरतन्त्रम् ॥

[ओषधीः सम्पातवतीः प्रवेश्याभिन्युब्जति ॥ कौशिकसूत्र ५,५{४१}.४ ॥]
अभ्यातानान्तं कृत्वाऽसमुत्पतन्तुऽ इति सूक्तेन काशदिविधुवकवेतसानेकत्र कृत्वा सम्पात्याभिमन्त्र्य तत उदकमध्ये पात्रमधोमुखं निनयति । तत उत्तरतन्त्रम् । आज्यभागान्तमभ्यातानान्तं कृत्वाऽप्र नभस्वऽ इति सूक्तेन काशाद्योषधीः पात्रे कृत्वा सम्पात्याभिमन्त्र्य पात्रमुदकमध्येऽधोमुखं निनयति । तत उत्तरतन्त्रम् ॥

[विप्लावयेत ॥ कौशिकसूत्र ५,५{४१}.५ ॥]
अभ्यातानान्तं कृत्वाऽसमुत्पतन्तुऽ इति सूक्तेन काशदिविधुवकवेतसानेकत्र कृत्वा सम्पात्याभिमन्त्र्योदकमध्ये विप्लावयति । तत उत्तरतन्त्रम् ।ऽप्र नभस्वऽ इति द्व्यर्चेन सूक्तेन काशाद्येकत्र कृत्वा सम्पात्याभिमन्त्र्योदके विप्लावयति । उत्तरतन्त्रम् ॥

[श्वशिरएटकशिरःकेशजरदुपानहो वंशाग्रे प्रबध्य योधयति ॥ कौशिकसूत्र ५,५{४१}.६ ॥]
ऽसमुत्पतन्तुऽ इति सूक्तेन कुक्कुरशिरमभिमन्त्र्योदके प्रक्षिपति ।ऽप्र नभस्वऽ इति सूक्तेन कुक्कुरशिरमभिमन्त्र्योदके विप्लावयति ।ऽसमुत्पतन्तुऽ इति सूक्तेन मेषशिरमभिमन्त्र्योदके प्रक्षिपति ।ऽप्र नभस्वऽ इति सूक्तेन मेषशिरमभिमन्त्र्योदके प्रक्षिपति ।ऽसमुत्पतन्तुऽ इति सूक्तेन मानुषकेशजरदुपानहौ वंशाग्रे प्रबध्य योधयति ।ऽप्र नभस्वऽ इति सूक्तेन केशजरदुपानहौ वंशाग्रे प्रबध्य योधयति जपन् ॥

[उदपात्रेण सम्पातवता सम्प्रोक्ष्यामपात्रं त्रिपादेऽश्मानमवधायाप्सु निदधाति ॥ कौशिकसूत्र ५,५{४१}.७ ॥]
ऽसमुत्पतन्तुऽ इति सूक्तेनोदपात्रं सम्पात्य तेनोदकेन तुषसहितमामपात्रं त्रिपादे शिक्येऽश्मानमवधाय सूक्तं जप्त्वा सम्प्रोक्ष्याप्सु निदधाति । तत उत्तरतन्त्रम् ।ऽप्र नभस्वऽ इति सूक्तेनोदपात्रेण सम्पातवता सम्प्रोक्ष्यामपात्रं त्रिपादेऽश्मानमवधायाप्सु निदधाति । तन्त्रं च । समाप्तानि वृष्टिकर्माणि । षोडश । वृष्टि । समानम् । सर्वत्र कर्मणां विकल्पः । एकं वा द्वे वा सर्वान् वा करोति । क्रमोऽपि नास्ति ॥

अर्थोत्थापने विघ्नशमनविधिं वक्ष्यामः
[अयं ते योनिः (३.२०) आ नो भर (५.७) धीती वा (७.१) इत्यर्थमुत्थास्यन्नुपदधीत ॥ कौशिकसूत्र ५,५{४१}.८ ॥]
ऽअयं ते योनिःऽ इति सूक्तेन हविषामुपदधीताज्यसमिदादि । तन्त्रविकल्पो हस्तहोमे ॥

[जपति ॥ कौशिकसूत्र ५,५{४१}.९ ॥]
ऽअयं ते योनिःऽ इति सूक्तं जपति । अर्थकाम उद्यमं यदा करोति तदेदं करोति ।ऽआ नो भरऽ इति सूक्तेनाज्यसमित्पुरोडाशादि जुहोति ।ऽआ नो भरऽ इति सूक्तं जपति । द्रव्यहस्त्यश्वरत्नधनधान्याद्येवङ्कामो यदोद्यमं वणिजादि करोति तदेदं कर्म करोति । यस्मिन्नारम्भो गृहादि न सिध्यति तदेदं कर्म ।ऽधीती वा येऽ इति द्वाभ्यामृग्भ्यामाज्याद्युपदधीत ।ऽधीती वाऽ इति द्व्यर्चं सूक्तं जपति । अर्थ उद्यमं करिष्यमाणः । समाप्तमर्थविघ्नशमनं द्रव्योत्थापनम् ॥

अथ द्यूतजयकर्मोच्यते
[पूर्वास्वषाढासु गर्तं खनति ॥ कौशिकसूत्र ५,५{४१}.१० ॥]
पूर्वाषाढानक्षत्रे गर्तं खनति तूष्णीम् ॥

[उत्तरासु सञ्चिनोति ॥ कौशिकसूत्र ५,५{४१}.११ ॥]
उत्तराषाढानक्षत्रे सञ्चिनोति पूरयति तूष्णीम् ॥

[आदेवनं संस्तीर्य ॥ कौशिकसूत्र ५,५{४१}.१२ ॥
उद्भिन्दन्तीं सञ्जयन्तीं (४.३८) यथा वृक्षमशनिः (७.५०) इदमुग्राय (७.१०९) इति वासितानक्षान्निवपति ॥ कौशिकसूत्र ५,५{४१}.१३ ॥]
तत्र द्यूतस्थानं कृत्वा त्रयोदश्यादयस्तिस्रो दधिमधुनि वासयित्वा अक्षयति तान् पाशान् वाक्षान् वा कपर्दिकान् वा ।ऽउद्भिन्दन्तीं सञ्जयन्तीम्ऽ इति सूक्तेनाभिमन्त्र्य द्यूतक्रीडां कुर्यात् । पूर्वाषाढासु गर्तं खनत्युत्तरासु सम्मिनोति पूरयति । कपर्दकान् दधिमधुनि वासयित्वाऽयथा वृक्षमशनिःऽ इति नवर्चेन सूक्तेनाभिमन्त्र्य द्यूतक्रीडां करोति । जयकामः । दधिमधुनि अक्षान् वासयित्वाऽइदमुग्राय बभ्रवेऽ इति सप्तर्चेन सूक्तेनाभिमन्त्र्य द्यूतक्रीडां करोति । द्यूते जयो भवति । समाप्तानि द्यूतजयकर्माणि । द्यूतक्रीडां करोति तस्याभिमन्त्र्य ददाति द्यूतकाराय ॥

अथार्थोत्थापनोद्यमकरविघ्नशमनकर्मोच्यते
[अम्बयो यन्ति (१.४) शम्भुमयोभू हिरण्यवर्णाः (१.३३) यददः (३.१३) पुनन्तु मा (६.१९) सस्रुषीः (६.२३) हिमवतः प्र स्रवन्ति (६.२४) वायोः पूतः पवित्रेण (६.५१) शं च नो मयश्च नः (६.५७.३) अनडुद्भ्यस्त्वं प्रथमम् (६.५९) मह्यमापः (६.६१) वैश्वानरो रश्मिभिः (६.६२) इत्यभिवर्षणावसेचनानाम् ॥ कौशिकसूत्र ५,५{४१}.१४ ॥]
ऽअम्बयो यन्तिऽ,ऽआपो हि ष्ठाऽ (१.५)ऽशं नो देवीःऽ (१.६) इति त्रिभिः सूक्तैर्मरुतो यजते पाकयज्ञविधानेन यथा वरुणम् ।ऽमारुतं क्षीरौदनं मारुतशृतम्ऽ इत्यादि भवति । अर्थकामः ।ऽहिरण्यवर्णाःऽ इति मरुतो यजते यथा वरुणम् ।ऽयददः सम्प्रयतीःऽ इति सूक्तेन मरुतो यजते यथा वरुणम् ।ऽपुनन्तु माऽ इति सूक्तेन मरुतो यजते यथा वरुणम् ।ऽसस्रुषीःऽ इति सूक्तेन मरुतो यजते यथा वरुणम् ।ऽहिमवतःऽ इति सूक्तेन मरुतो यजते यथा वरुणम् ।ऽवायोः पूतःऽ इति तृचेन मरुतो यजते यथा वरुणम् ।ऽशं च नो मयश्च नःऽ इति मरुतो यजते यथा वरुणम् ।ऽअनडुद्भ्यस्त्वं प्रथमम्ऽ इति सूक्तेन मरुतो यजते यथा वरुणम् ।ऽमह्यमापःऽ इति सूक्तेन मरुतो यजते यथा वरुणम् ।ऽवैश्वानरो रश्मिभिःऽ इति सूक्तेन मरुतो यजते यथा वरुणम् । एवमाद्या ओषधीः सम्पात्याभिन्युब्जनं विप्लावनं श्वशिर एडकशिरः केशजरदुपानहयुद्ध उदपात्रकर्म एतान्यभिवर्षणानि कर्माणि भवन्ति । एकैकस्य सूक्तस्य । एके आचार्या मरुतयागस्थाने मन्त्रोक्तादेवतायागं कुर्यात्यथा वरुणम् । अथौषध्यादि समानम् । वर्षकर्मणामर्थोत्थापनकामः । अभ्यातानान्तं कृत्वाऽअम्बयो यन्तिऽ इतिऽआपो हि ष्ठाःऽ,ऽशं नो देवीःऽ इति त्रिभिः
सूक्तैरुदकघटं सम्पात्याभिमन्त्र्य तत आप्लावयति । तत उत्तरतन्त्रम् । विघ्नोपशमनकामः । पूर्वतन्त्रं कृत्वाऽहिरण्यवर्णाःऽ इति सूक्तेनोदकपूर्णं घटं सम्पात्याभिमन्त्र्य तत आप्लावयति । तत उत्तरतन्त्रम् । अर्थोत्थापनकामः । अभ्यातानान्तं कृत्वाऽयददः सम्प्रयतीःऽ इति सूक्तेनोदपात्रं सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । विघ्नशमनकामः । तन्त्रं कृत्वाऽपुनन्तु माऽ इति सूक्तेनोदपात्रं सम्पात्याभिमन्त्र्याप्लावयति । उत्तरतन्त्रम् । अर्थमुत्थापनकामः । तन्त्रं कृत्वाऽसस्रुषीःऽ,ऽहिमवतःऽ इति सूक्ताभ्यामुदकघटं सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽवायोः पूतःऽ इति सूक्तेनोदकघटं सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽशं च नो मयश्च नःऽ इत्यृचोदपात्रं सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽअनडद्भ्यस्त्वं प्रथमम्ऽ इति सूक्तनोदपात्रं सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽमह्यमापःऽऽवैश्वानरो रश्मिभिःऽ इति सूक्ताभ्यामुदपात्रं सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । अर्थोत्थापने विघ्नशमनकामः ।ऽअम्बयो यन्तिऽऽआपो हि ष्ठाःऽऽशं नो देवीःऽ इति त्रिभिः सूक्तैरुदकघटमभिमन्त्र्यावसिञ्चति ।ऽहिरण्यवर्णाःऽ इति सूक्तेनावसिञ्चति ।ऽयददः सम्प्रयतीःऽ इति सूक्तेनोदकघटमभिमन्त्र्य पुरुषमवसिञ्चति । विद्याधनविषये विघ्नं न भवति.
ऽपुनन्तु माऽ इति सूक्तेनोदकमभिमन्त्र्यावसिञ्चति पुरुषम् ।ऽसस्रुषीःऽऽहिमवतःऽ इति सूक्ताभ्यामुदकमभिमन्त्र्यावसिञ्चति ।ऽवायोः पूतःऽ इत्युदकमभिमन्त्र्यावसिञ्चति ।ऽशं च नो मयश्च नःऽ इत्यृचोदकमभिमन्त्र्यावसिञ्चति ।ऽअनडुद्भ्यस्त्वं प्रथमम्ऽ इत्युदकमभिमन्त्र्यावसिञ्चति ।ऽमह्यमापःऽऽवैश्वानरो रश्मिभिःऽ इति सूक्ताभ्यामुदकमभिमन्त्र्यावसिञ्चति । विघ्नशमनकामः । समाप्तान्यभिवर्षणावसेचनानि कर्माणि ॥

[उत्तमेन वाचस्पतिलिङ्गाभिरुद्यन्तमुपतिष्ठते ॥ कौशिकसूत्र ५,५{४१}.१५ ॥]
ऽवैश्वानरो रश्मिभिःऽ सूक्तेनऽउदेहि वाजिन्ऽ (१३.१.१२०) इति विंशतिभिरृग्भिश्चोद्यन्तमुपतिष्ठते । अर्थकामः ॥

[स्नातोऽहतवसनो निक्त्वाहतमाच्छादयति ॥ कौशिकसूत्र ५,५{४१}.१६ ॥]
ऽवैश्वानरो रश्मिभिःऽ इति सूक्तेनऽउदेहि वाजिन्ऽ इति विंशतिभिरृग्भिश्च स्नानं कृत्वोपतिष्ठते । अर्थमुत्थापनकामः । अहतवस्त्रपरिधानं कृत्वाऽवैश्वानरो रश्मिभिःऽ इति सूक्तेनऽउदेहि वाजिन्ऽ इति विंशतिभिरृग्भिश्चोपतिष्ठते । अर्थसिद्धिकामः ॥

[ददाति ॥ कौशिकसूत्र ५,५{४१}.१७ ॥]
ऽवैश्वानरो रश्मिभिःऽऽउदेहि वाजिन्ऽ इति विंशतिभिरृग्भिश्च वस्त्रमभिमन्त्र्य परिधापयति । अर्थो मम सिध्यतामेवङ्कामः ।ऽवैश्वानरो रश्मिभिःऽऽउदेहि वाजिन्ऽ इति विंशतिरृग्भिश्च वस्त्रमभिमन्त्र्य ददाति । विद्रावनादिविषये शमनकामः । समाप्तानि विघ्नशमनकर्माणि ॥

अथ गोवत्सद्वेषविरोधे साम्मनस्यमुच्यते
[यथा मांसम् (६.७०) इति वननम् ॥ कौशिकसूत्र ५,५{४१}.१८ ॥
वत्सं सन्धाव्य गोमूत्रेणावसिच्य त्रिः परिणीयोपचृतति ॥ कौशिकसूत्र ५,५{४१}.१९ ॥]
ऽयथा मांसम्ऽ इति सूक्तेन वत्सं स्नानं कारयित्वा गोमूत्रेणावसिच्य ततो वत्सं त्रिः परिभ्रामयित्वा ततोऽभिमन्त्र्य ततः पानार्थं मुञ्चति ॥

[शिरःकर्णमभिमन्त्रयते ॥ कौशिकसूत्र ५,५{४१}.२० ॥]
ऽयथा मांसम्ऽ इति सूक्तेन गोः शिरः कर्णं चाभिमन्त्रयते । गवां वत्सेन सह विरोधे । वत्सगोविरोधे साम्मनस्यं कर्म । समाप्तं गोवत्सस्य विरोधे साम्मनस्यम् । अकरणे गौः पूर्वा विनश्यति ॥

अश्वविनाशे प्रकार उच्यते । अथाश्वशान्तिविधिं वक्ष्यामः
[वातरंहा (६.९२) इति स्नातेऽश्वे सम्पातानभ्यतिनयति ॥ कौशिकसूत्र ५,५{४१}.२१ ॥]
अभ्यातानान्तं कृत्वा अश्वान् स्नापयित्वा अग्रेकृत्य स्वाश्वंऽवातरंहा भवऽ इति सूक्तेनोदपात्रं सम्पात्याभिमन्त्र्य ॥

[पलाशे चूर्णेषूत्तरान् ॥ कौशिकसूत्र ५,५{४१}.२२ ॥]
ततः पलाशपत्रे सर्वौषधीः कृत्वोत्तरसम्पातानौषधावानयति ॥

[आचमयति ॥ कौशिकसूत्र ५,५{४१}.२३ ॥
आप्लावयति ॥ कौशिकसूत्र ५,५{४१}.२४ ॥]
उदपात्रेणाचामयत्याप्लावयति च ॥

[चूर्णैरवकिरति ॥ कौशिकसूत्र ५,५{४१}.२५ ॥
त्रिरेकया चेति ॥ कौशिकसूत्र ५,५{४१}.२६ ॥]
सर्वौषधिचूर्णैरवकिरति त्रिः ।ऽएकया च दशभिःऽ (७.४.१) इत्यृचा स्नातान्मर्ध्नि परिकिरति । अभ्यातानाद्युत्तरतन्त्रम् । अश्वशान्तिः । अश्वाः शान्तास्तेजस्विनो निरुपद्रवा वेगवन्त आरोग्यवन्तो भवन्ति । अश्वशान्तिः समाप्ता ॥ पञ्चमेऽध्याये पञ्चमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ४१ ॥


अथ प्रवासेन द्रव्योत्थापनमुच्यते
[भद्रादधि (७.८) इति प्रवत्स्यन्नुपदधीत ॥ कौशिकसूत्र ५,६{४२}.१ ॥]
ऽभद्रादधिऽ इत्यृचाज्यं जुहोति । आज्यतन्त्रे ।ऽभद्रादधि श्रेयःऽ इत्यृचा समिध आदधाति शान्ताः । विघ्नशमनकामः ।ऽभद्रादधि श्रेयःऽ इत्यृचा पुरोडाशं जुहोति । तन्त्रविकल्पः ।ऽभद्रादधिऽ इत्यृचा पयो जुहोति । तन्त्रे ।ऽभद्रादधि श्रेयःऽ इत्यृचोदौदनादि हविषामुपधानं कुर्यात् । सर्वत्र तन्त्रविकल्पः । प्रवासे गत्वा चौरभयमुदकभयं गमने विघ्नं न भवति । समाप्तं प्रवासे गच्छतां विघ्नशमनम् ॥

[जपति ॥ कौशिकसूत्र ५,६{४२}.२ ॥]
ऽभद्रादधिऽ इत्यृचं जपति । पथि गच्छतां विघ्नं न भवति । इति विघ्नशमनम् ॥

[यानं सम्प्रोक्ष्य विमोचयति ॥ कौशिकसूत्र ५,६{४२}.३ ॥]
ऽभद्रादधिऽ इत्यृचा यानं सम्पात्याभिमन्त्र्याज्यतन्त्रे ग्रामे गत्वा तत उदकेन सम्प्रोक्षति विमोचयति । विघ्नशमनकामः । द्रव्योत्थापनं च ॥

[द्रव्यं सम्पातवदुत्थापयति ॥ कौशिकसूत्र ५,६{४२}.४ ॥]
यदि यानेन याति तदा इदं कर्म । आज्यतन्त्रे सम्पात्याभिमन्त्र्यारोहणं कुर्यात् ॥

[निर्मुज्योपयच्छति ॥ कौशिकसूत्र ५,६{४२}.५ ॥]
अभ्यातानान्तं कृत्वाऽभद्रादधिऽ इत्यृचा वणिजद्रव्यं वस्त्रवलयाश्वादि सर्वद्रव्यं सम्पात्याभिमन्त्र्य । प्रतिद्रव्यं मन्त्रावृत्तिः । अश्ववस्त्रवलयादि । तत उत्तरतन्त्रम् । वस्त्रादिद्रव्यं विक्रयार्थं नयति । यदा द्रव्यं गृह्णाति तदेदं कर्म ।ऽभद्रादधिऽ इत्यृचाभिमन्त्र्य गृह्णाति । समाप्तं वणिजलाभकर्म । पथि गृहेऽन्यत्र वा वणिजविघातो न भवति ॥
अथाभ्यागतपुरुषाणां साम्मनस्यं क्रियते । यदा विशिष्टो गृह आगच्छति तदेदं मैत्रीकर्म क्रियते । मित्रं त्वेषां दर्शने आगतानां यदा गृह आगच्छति तदेदं कुर्यात् ॥

[उभा जिग्यथुः (७.४४) इत्यार्द्रपादाभ्यां साम्मनस्यम् ॥ कौशिकसूत्र ५,६{४२}.६ ॥]
आज्यतन्त्रं कृत्वाऽउभा जिग्यथुःऽ इत्यृचा हस्त्यादि यानं सम्पात्याभिमन्त्र्य तत उत्तरतन्त्रम् । तस्मिन् याने यस्य साम्मनस्यं क्रियते । सर्वे यानस्योपर्युपविशन्ति । सर्वे यानस्योपरि चटन्ति ॥

[यानेन प्रत्यञ्चौ ग्रामान् प्रतिपाद्य प्रयच्छति ॥ कौशिकसूत्र ५,६{४२}.७ ॥]
ततः पश्चिमदिग्भागे गत्वा पुनर्गृह आगच्छन्ति । ततऽउभा जिग्यथुःऽ इत्यृचोदनमभिमन्त्र्य प्रयच्छति भोजनार्थम् । मन्थं वा । सर्वैः सह भुञ्जन्ति । समाप्तं साम्मनस्यम् । एकस्मिन् युद्धे क्रियमाणे सहायगतस्य कर्म । अन्यस्य च साधारणमित्यर्थः । यो युद्धे साहायत्वं करोति तस्येदं कर्म । प्रथमं पादौ प्रक्षाल्य ततः कर्म चेति । केचित्क्षत्रिययोरिदं कर्म मन्यन्ते । समाप्तं साम्मनस्यमर्थोत्थापनं विघ्नशमनं युद्धादि ॥

अथ गृहे विरुद्धे सति साम्मनस्यमुच्यते
[आयातः समिध आदाय ऊर्जं बिभ्रत्(७.६०) इत्यसङ्कल्पयन्नेत्य सकृदादधाति ॥ कौशिकसूत्र ५,६{४२}.८ ॥]
कर्तारण्ये गत्वा समिधो गृहीत्वा तूष्णीं गृह आगत्य ततःऽऊर्जं बिभ्रत्ऽ इति सूक्तेन ताः समिधः सकृत्सर्वाः सूक्तान्तेनादधाति । गृहमानुषाणां साम्मनस्यं भवति । कलहनिवारणम् । कलहो न भवतीत्यर्थः । समाप्तं गृहसाम्मनस्यं विघ्नशमनं च ॥

मन्त्रब्राह्मणयोर्द्रव्यमिच्छति तस्येदं कर्म प्रतिग्रहाद्युच्यते
[ऋचं साम (७.५४.१२) इत्यनुप्रवचनीयस्य जुहोति ॥ कौशिकसूत्र ५,६{४२}.९ ॥
युक्ताभ्यां तृतीयाम् ॥ कौशिकसूत्र ५,६{४२}.१० ॥
आनुमतीं चतुर्थीम् ॥ कौशिकसूत्र ५,६{४२}.११ ॥]
अभ्यातानान्तं कृत्वाऽऋचं सामऽ इत्यृचाज्यं जुहोति ।ऽऋचं साम यदप्राक्षम्ऽ इत्यृचाज्यं जुहोति ।ऽऋचं सामऽ इति द्वाभ्यां तृतीयामाहुतिं जुहोति ।ऽअनुमतये स्वाहाऽ इति चतुर्थीमाहुतिं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । वेदपाठेन शास्त्रपाठेनार्थोत्थापनमिच्छन्निदं करोति । समाप्तं वेदेन शास्त्रेण अर्थोत्थापने विघ्नशमनम् ॥

अथ परिमोक्षसमावर्तनविधिं वक्ष्यामः
[समावर्तनीयसमापनीययोश्चैषेज्या ॥ कौशिकसूत्र ५,६{४२}.१२ ॥
अपो दिव्याः (७.८९) इति पर्यवेतव्रत उदकान्ते शान्त्युदकमभिमन्त्रयते ॥ कौशिकसूत्र ५,६{४२}.१३ ॥
अस्तमिते समित्पाणिरेत्य तृतीयावर्जं समिध आदधाति ॥ कौशिकसूत्र ५,६{४२}.१४ ॥
इदावत्सराय (Kऔश्ष्४२.१७) इति व्रतविसर्जनमाज्यं जुहुयात् ॥ कौशिकसूत्र ५,६{४२}.१५ ॥
समिधोऽभ्यादध्यात् ॥ कौशिकसूत्र ५,६{४२}.१६ ॥
इदावत्सराय परिवत्सराय संवत्सराय प्रतिवेदयाम एनत् । यद्व्रतेषु दुरितं निजग्मिमो दुर्हार्दं तेन शमलेनाञ्ज्मः ॥ यन्मे व्रतं व्रतपते लुलोभाहोरात्रे समाधातां म एनत् । उद्यन् पुरस्ताद्भिषगस्तु चन्द्रमाः सूर्यो रश्मिभिरभिगृणात्वेनत् ॥ यद्व्रतमतिपेदे चित्त्या मनसा हृदा । आदित्या रुद्रास्तन्मयि वसवश्च समिन्धताम् ॥ व्रतानि व्रतपतय उपाकरोम्यग्नये । स मे द्युम्नं बृहद्यशो दीर्घमायुः कृणोतु मे इति व्रतसमापनीरादधाति ॥ कौशिकसूत्र ५,६{४२}.१७ ॥]
गोदानिकं तन्त्रमाज्यभागान्तं कृत्वा ततः शान्त्युदकं कृत्वाभिमन्त्रयते ।ऽअपो दिव्याःऽ इति चतसृभिः.
ततोऽभ्यातानादि परिधापनान्तं कृत्वा केचित्परिदानान्ते ततोऽभ्यातानं हुत्वा ततऽइदावत्सरायऽ इति कल्पजैश्चतुर्भिरृग्भिराज्यं जुहुयात् । पुनःऽइदावत्सरायऽ इति चतस्रः समिध आदधीत । इति व्रतविसर्जनम् । व्रतश्रावणम् । व्रतं विसर्जति । ततोऽभ्यातानानि जुहोति । ततऽऋचं सामऽ इति प्रथमयर्चाज्याहुतिं हुत्वाऽऋचं साम यदप्राक्षम्ऽ इति द्वितीयाम् । युक्ताभ्यां तृतीयामानुमतीं चतुर्थीम् ॥

[त्रिरात्रमरसाशी स्नातव्रतं चरति ॥ कौशिकसूत्र ५,६{४२}.१८ ॥]
ततोऽभ्यातानानि जुहोति ।ऽदोषो गायऽ (६.१) इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । इति परिमोक्षं समाप्तम् । वेदव्रतं कल्पव्रतं मृगारव्रतं विषासहिव्रतं यमव्रतं शिरोव्रतमङ्गिरोव्रतमित्येवमादिष्वभ्यातानान्तं कृत्वाऽइदावत्सरायऽ इति व्रतविसर्जनं व्रतश्रावणं च करोति । तन्त्रविकल्पो हस्तहोमत्वात् । यत्र क्वचिद्व्रतं वैदिकं लौकिकं च तत्र सर्वत्र व्रतादानं व्रतविसर्जनं च भवति विधानेन । शिरोव्रतादीनि नित्यानि । कृच्छ्रचान्द्रायणादीनि स्मृतिविहितानि । कृच्छ्रचान्द्रायणादीनि काम्यानि स्मृतिपुराणशास्त्रवेदविहितानि च । तस्मात्सर्वाणि व्रतशब्दवाच्यानि । तानि सर्वाण्येव विधानेन कर्तव्यानि । यत्र वपनं तत्र सर्वत्र गोदानिकं कुर्यात् । परिमोक्षादनन्तरं त्रिरात्रं स्नातव्रतं चरेत् । अस्तमितेऽअपो दिव्याःऽ इति तिसृभिः समिध आदधाति । तृतीयावर्जम् । अन्ये एकरात्रं समिदाधानं कुर्वन्ति । इति परिमोक्षः समाप्तः ॥

अथ पापलक्षणस्त्री तस्याः शान्तिरुच्यते
[निर्लक्ष्म्यम् (१.१८) इति पापलक्षणाया मुखमुक्षत्यन्वृचं दक्षिणात्केशस्तुकात् ॥ कौशिकसूत्र ५,६{४२}.१९ ॥]
ऽनिर्लक्ष्म्यम्ऽ इति सूक्तेन सा स्त्री मुखं प्रत्यृचं प्रक्षालयति । तस्या मुखे हस्तयोर्मशकशिग्रुवारकावस्थानतिलकं ह्रस्वकेशादिपापलक्षणं सामुद्रिके स्त्रीलक्षणं व्याख्यातम् ।ऽनिर्लक्ष्म्यम्ऽ इति सूक्तेनोदकघटमभिमन्त्र्य स्त्रीं
पापलक्षणामभिषिञ्चति दक्षिणात्केशादारभ्य यावदुत्तरं पार्श्वम् । ततः पापलक्षणं विनश्यति ॥

[पलाशेन फलीकरणान् हुत्वा शेषं प्रत्यानयति ॥ कौशिकसूत्र ५,६{४२}.२० ॥
फलीकरणतुषबुसावतक्षणानि सव्यायां पादपार्ष्ण्यां निदधाति ॥ कौशिकसूत्र ५,६{४२}.२१ ॥]
अभ्यातानान्तं कृत्वाऽनिर्लक्ष्म्यम्ऽ इति सूक्तेन पालाशपर्णेन कुकुसाञ्जुहोति । होमशेषान् कुकुसान् सव्यायां पादपार्ष्ण्यां निदधाति । तत उत्तरतन्त्रम् ।ऽनिर्लक्ष्म्यम्ऽ इति सूक्तेन फलीकरणाञ्जुहोति । हस्तहोमत्वात्तन्त्रविकल्पः ।ऽनिर्लक्ष्म्यम्ऽ इति सूक्तेन व्रीहितुषान् जुहोति । होमशेषान् व्रीहितुषान् सव्यायां पादपार्ष्ण्यां निदधाति ।ऽनिर्लक्ष्म्यम्ऽ इति सूक्तेन बुसं जुहोति । सव्यायां पादपार्ष्ण्यां निदधाति ।ऽनिर्लक्ष्म्यम्ऽ इति सूक्तेन काष्ठावतक्षणानि जुहोति । सव्यायां पादपार्ष्ण्यां निदधाति । अनेन पापलक्षणं न भवति । इति पापलक्षणदोषशमनशान्तिः समाप्ता ॥

अथ पापदर्शने शान्तिरुच्यते
[अपनोदनापाघाभ्यामन्वीक्षं प्रतिजपति ॥ कौशिकसूत्र ५,६{४२}.२२ ॥]
ऽआरेऽसौऽ (१.२६) इतिऽअप नः शोशुचदघम्ऽ (४.३३) इति सूक्ताभ्यामन्वीक्षं दृष्ट्वा जपेत् । दर्शनदोषो न भवति.
एको वा यदि वा त्रीणि पञ्च सप्त नवस्तथा.
पुरुषस्य भाग्यकाले हरिणा यान्ति प्रदक्षिणाः ॥
अप्रदक्षिणेषु हरिणेष्वयं जपः । पक्षिषु च । ग्रामेऽपि बहिर्वापशकुने दृष्ट इदं करोति । श्वानरुदिते काकरुदिते शिवारुदिते चायम् । काकमैथुने पुरुषस्य मैथुने श्येनमैथुनदर्शने नग्नास्त्रीदर्शने नग्नपुरुषस्य नपुंसकस्य दर्शने पुंश्चलीचन्द्रमण्डलश्यामस्य च । कृत्तिकारोहिणी पठिता अपशकुनाः । यत्र क्वचिदपशकुनाः पठितास्तत्र सर्वत्रायं जपः । श्रुतौ स्मृतौ वा पठिता अदृष्टव्यास्तेषां सर्वेषां दर्शनेऽद्भुतानां दर्शनेष्वयं जपः कर्तव्यः । लोके यद्विरुद्धम् । अन्वीक्षं प्रसिद्धमदृष्टव्यास्तेषामयं जपः । अपशकुनजपः समाप्तः ॥

अथ पुरुषो स्त्री वा कार्यकरणे विघ्नशमने च कर्मोच्यते
[दीर्घायुत्वाय (२.४) इति मन्त्रोक्तं बध्नाति ॥ कौशिकसूत्र ५,६{४२}.२३ ॥]
अभ्यातानान्तं कृत्वाऽदीर्घायुत्वायऽ इति सूक्तेन जङ्गिडमणिं शणसूत्रेण बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । कृत्यादूषणार्थः । आप्याययति । विघ्नशमने रक्षाकरणः । विघ्नः विस्कन्धेयः । समाप्तं विघ्नशमनम् ॥ पञ्चमेऽध्याये षष्ठी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ४२ ॥


पुनर्विघ्नशमनमुच्यते
[कर्शफस्य (३.९) इति पिशङ्गसूत्रमरलुदण्डं यदायुधम् ॥ कौशिकसूत्र ५,७{४३}.१ ॥]
अभ्यातानान्तं कृत्वाऽकर्शफस्यऽ इति सूक्तेन पिशङ्गवर्णसूत्रेऽरलुमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । विस्कन्धविघ्नशमनो मणिः । स्पर्धाविनाशो भवतीत्यर्थः । स्पर्धमानस्य स्पर्धा विनश्यतीत्यर्थः । समाप्ता विघ्नशमने मणिशान्तिः । अभ्यातानान्तं कृत्वाऽकर्शफस्यऽ इति सूक्तेन वेणुदण्डादीन् सम्पात्य ततः सूक्तेन विमृज्य धारयति । तत उत्तरतन्त्रम् । चित्रदण्डे ध्वजदण्डे चिह्नदण्डे वेदयष्टौ लकुटादिदण्डं सर्वं सम्पात्य यो धारयति तस्य सर्पशृङ्गिदंष्ट्रादि विघ्नं न भवति । अज्ञाते ज्ञाते तेजवृद्धिश्च भवति । अभ्यातानान्तं कृत्वाऽकर्शफस्यऽ इति सूक्तेनायुधं सम्पात्य विमृज्य धारयति । तत उत्तरतन्त्रम् । सर्वशस्त्रसम्पातिते मायादिकं मायाजालयुद्धे निवारणम् । सङ्ग्राम इन्द्रजालनिवारणम् । युद्धे विघ्नं न भवति । शत्रुहठं निवारयति । शत्रवो गच्छन्ति । स्पर्धमानशत्रुं जयति । हठं विनाशयति ॥

[फलीकरणैर्धूपयति ॥ कौशिकसूत्र ५,७{४३}.२ ॥]
ऽकर्शफस्यऽ इति सूक्तेन फलीकरणानग्नौ प्रक्षिप्य विघ्नगृहीतं पुरुषं धूपयति । विघ्नशमनं भवति । यस्यारम्भा न सिध्यन्ति तस्येदं कर्म भवति । इति विघ्नशमनं समाप्तम् ॥

अथ भूमिशुद्धिः । गृहं करिष्यमाण इदं करोति
[अति धन्वानि (७.४१) इत्यवसाननिवेशनानुचरणानि निनयनेज्या ॥ कौशिकसूत्र ५,७{४३}.३ ॥]
ऽअति धन्वानिऽ इति द्वाभ्यामुदपात्रमभिमन्त्र्य तत्र निनयति भूमौ यत्र गृहं करिष्यति । तत्र विघ्नशमनं भवति । श्येनदेवतायै पाकयज्ञविधानेनाज्यभागान्तं कृत्वाऽअति धन्वानिऽ इति द्वाभ्यामृग्भ्यां चरुं जुहोति । पार्वणाद्युत्तरतन्त्रम् । भूमिस्थाने यत्र गृहं करिष्यति तत्र श्येनयागं कृत्वा गृहं कुर्यात् । अथवा नवे गृहे श्येनयागः कर्तव्यः । विकल्प इति भाष्यकारः । प्रथमतो वा श्येनयागो नवे गृहे ॥

अथ गृहप्रवेश उच्यते । वास्तुसंस्कार उच्यते
[वास्तोष्पतीयैः कुलिजकृष्टे दक्षिणतोऽग्नेः सम्भारमाहरति ॥ कौशिकसूत्र ५,७{४३}.४ ॥
वास्तोष्पत्यादीनि महाशान्तिमावपते ॥ कौशिकसूत्र ५,७{४३}.५ ॥]
ऽइहैव ध्रुवाम्ऽ इत्यादि गणेन भूमिं हलेन कर्षति । ततो दक्षिणतः सम्भारमाहरत्यग्नेः । ततः शान्त्युदकं करोति । मातलीवर्जं कृत्वा वास्तोष्पत्यादीनि चतुर्गणी महाशान्तिः । शान्त्युदक आवपते । ततो मातलीं कृत्वा ततः शान्त्युदकं समाप्यते । तेन भूमिं प्रोक्षयेत् । ततः ॥

मध्यमे गर्ते दर्भेषु व्रीहियवमावपति ॥ कौशिकसूत्र ५,७{४३}.६ ॥
निक्षिपति ॥

शान्त्युदकशष्पशर्करमन्येषु ॥ कौशिकसूत्र ५,७{४३}.७ ॥
शान्त्युदकं शष्पशर्करानन्येषु स्थूणागर्तेषु पार्श्वस्थितेषु प्रक्षिपति ॥

[इहैव ध्रुवाम् (३.१२) इति मीयमानामुच्छ्रीयमाणामनुमन्त्रयते ॥ कौशिकसूत्र ५,७{४३}.८ ॥]
ऽइहैव ध्रुवाम्ऽ इति सूक्तेन मीयमानां शालामनुमन्त्रयते । यदा स्थूणोच्छ्रीयते तदाऽइहैव ध्रुवाम्ऽ इति सूक्तेनानुमन्त्रयते ॥

[अभ्यज्य ऋतेन (३.१२.६) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ५,७{४३}.९ ॥]
स्थूणावंशं घृतेनाभ्यज्य तूष्णीम् । ततःऽऋतेन स्थूणाम्ऽ इत्यृचा वंशान् रोपयति ॥

[पूर्णं नारी (३.१२.८) इत्युदकुम्भमग्निमादाय प्रपद्यन्ते ॥ कौशिकसूत्र ५,७{४३}.१० ॥]
ततः पुण्याहवाचनं कृत्वाऽपूर्णं नारीऽ इत्यृचोदकुम्भसहितां पत्नीमभिमन्त्र्य बाह्यतो गृहं प्रवेशयन्ति । यजमानपुरुषोऽग्निं गृहीत्वा । अन्ये प्रविशन्ति ॥

[ध्रुवाभ्यां दृंहयति ॥ कौशिकसूत्र ५,७{४३}.११ ॥]
ऽइहैव ध्रुवाम्ऽ (३.१२.१२) इति द्वाभ्यामृग्भ्यां दृढां कारयति शालाभूमिम् ॥

[शम्भुमयोभुभ्यां विष्यन्दयति ॥ कौशिकसूत्र ५,७{४३}.१२ ॥]
ऽआपो हि ष्ठाऽ (१.५)ऽशं नो देवीःऽ (१.६) इति द्वाभ्यामुदकुम्भमभिमन्त्र्य तेन गृहभूमिमाप्लावयति ॥

[वास्तोष्पते प्रति जानीह्यस्मान् स्वावेशो अनमीवो न एधि । यत्त्वेमहे प्रति नस्तज्जुषस्व चतुष्पदो द्विपद आ वेशयेह ॥ अनमीवो वास्तोष्पते विश्वा रूपाण्याविशन् । सखा सुशेव एधि नः इति वास्तोष्पतये क्षीरौदनस्य जुहोति ॥ कौशिकसूत्र ५,७{४३}.१३ ॥]
ततः पाकयज्ञविधानेनऽवास्तोष्पतये जुष्टं निर्वपामिऽ इति निर्वापः ।ऽवास्तोष्पतये त्वा जुष्टं प्रोक्षामिऽ इति प्रोक्षणम् ।ऽवास्तोष्पतिं गच्छतु हविः स्वाहाऽ इति बर्हिर्होमे । वास्तोष्पतिदेवताकं क्षीरौदनं चाज्यभागान्तं कृत्वाऽवास्तोष्पते प्रति जानीहिऽ इति द्वाभ्यां चरुं जुहोति । ततः पार्वणाद्युत्तरतन्त्रम् । केचिदस्मिन् तन्त्रेऽभ्यातानान्तं हुत्वा ।ऽयजूंषि यज्ञेऽ (५.२६) इति द्वादशर्चेन सूक्तेन नवशालायां सर्पिर्मधुमिश्रं जुह्वति सकृदेकामाहुतिम् ।ऽदोषो गायःऽ (६.१) इति द्वितीयामाहुतिं जुहोति । युक्ताभ्यां तृतीयामाहुतिं जुहोति । आनुमतीं चतुर्थीम् । कलशोदकपानीयमाचार्यो गृहीत्वा शालामङ्गुलिभ्यां सम्प्रोक्ष्य यजमानपत्नीसहितेषु गृहेषु मध्य आसाद उपविश्य कलशोदकं भूमौ निनयति तूष्णीम् । आचार्याद्या आदौ वाङ्मौनं कुर्वन्ति ।ऽइहैव स्तऽ (७.६२.७) इत्यृचा वाग्विसर्गः । अभ्यातानाद्युत्तरतन्त्रम् ॥

सर्वान्नानि ब्राह्मणान् भोजयति ॥ कौशिकसूत्र ५,७{४३}.१४ ॥
मिष्टान्नानीत्यर्थः ॥

[मङ्गल्यानि ॥ कौशिकसूत्र ५,७{४३}.१५ ॥]
वृद्धा स्त्रियो गीतमङ्गल्यादि कुर्वन्ति । ब्राह्मणाः पुण्याहानि पठन्ति । श्राद्धं च केचित्पश्चात्कुर्वन्ति केचित्पूर्वं कुर्वन्ति । सर्वत्र भूमिशुद्धिविधानम् । गृहकरणविधानं च । यत्र यत्र गृहं मण्डपं वा कुटी वा चित्रशाला वा मठस्थानं वा प्राकाराट्टालकं वा देवगृहं वाऽन्यद्वा तृणमयं वा काष्ठमयं वेष्टिकामयं वा पाषाणमयं वा गृहादिकं करोति । तत्रानेन विधानेन वास्तुयागः कर्तव्यः । समाप्तं गृहप्रवेशकर्म । अनेन विधिना शाला कृता शान्ता । गृहिणो निरुपद्रवाः सुखिनः पुत्रवन्तो गोधनधान्यपुष्टाः । भोग्या च शाला भवति । एवं वास्तुसुखं भवति ॥

अथ क्रव्यादोपहतगृहे क्षेत्रे वान्यत्र गोष्ठे वा यत्र क्वचित्तत्र शान्तिरुच्यते
[ये अग्नयः (३.२१) इति क्रव्यादनुपहत इति पालाशं बध्नाति ॥ कौशिकसूत्र ५,७{४३}.१६ ॥]
अभ्यातानान्तं कृत्वाऽये अग्नयो अप्स्वन्तःऽ इति सप्तर्चेन पालाशवृक्षमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[जुहोति ॥ कौशिकसूत्र ५,७{४३}.१७ ॥]
ऽये अग्नयःऽ इति सप्तर्चेनाज्यं जुहोति । आज्यतन्त्रे ॥

[आदधाति ॥ कौशिकसूत्र ५,७{४३}.१८ ॥]
ऽये अग्नयःऽ इति सप्तर्चेन पालाशसमिध आदधाति । तन्त्रविकल्पः । क्रव्यादे प्रविष्टे गृहे कुमारा म्रियन्ते वत्सा वा किशोरा वा अन्या वोपहतिः कुलकलहो हानिर्धननाशो यत्र भवति तद्गृहं ग्रामं नगरं वा क्रव्यादोपहतं जानीयात् ॥

[उदञ्चनेनोदपात्र्यां यवानद्भिरानीयोल्लोपम् ॥ कौशिकसूत्र ५,७{४३}.१९ ॥]
ऽये अग्नयःऽ इति सप्तर्चेन सूक्तेन पालाश्युदञ्चनेनोदकं जुहोति अग्नौ । तन्त्रविकल्पः ।ऽये अग्नयःऽ इति सप्तर्चेनोदधान्यास्तदुदकं चोदकपात्र्यां पालाश्यां यवान् प्रक्षिप्य ततः प्रत्यृचं जुहोत्यग्नौ । हस्तहोमे तन्त्रविकल्पः । कुले कलहकुमारवत्समरणगोमरणादि धनधान्यविनाशादि चिन्तितोद्वेगादि क्रव्यादचिह्नानि । क्रव्यादोपहतशान्तिः समाप्ता ॥

अथ क्रव्याच्छमनविधानमुच्यते
[ये अग्नयः (३.२१) इति पालाश्या दर्व्या मन्थमुपमथ्य काम्पीलीभ्यामुपमन्थनीभ्याम् ॥ कौशिकसूत्र ५,७{४३}.२० ॥]
ऽये अग्नयःऽ इति दशर्चेन सूक्तेन सक्तूदकं काम्पीलसमिद्द्वयेन मन्थमालोड्य ततः पालाश्या दर्व्या जुहोति प्रत्यृचम् । तन्त्रविकल्पः दर्विहोमत्वात् । समाप्तं क्रव्याच्छमनम् । लौकिके वाग्नौ गृह आवसथ्ये वा शान्तिकपौष्टिकार्थे मन्थने वा यत्र वा क्रव्यादोपहतिर्दृश्यते तत्र सर्वत्र कुर्यादिति ॥

अथ वशाशमनविधानमुच्यते
[शमनं च ॥ कौशिकसूत्र ५,७{४३}.२१ ॥]
ऽये अग्नयःऽ इति दशर्चेन सूक्तेन वशामभिमन्त्र्य ततो ब्राह्मणाय ददाति । यस्य गृहे वशा भवति जायते तद्गृहं दैवहतं जानीयात् । इति वशाविधानेन शमनं समाप्तम् ॥ पञ्चमेऽध्याये सप्तमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ४३ ॥


अथ वशाशमनविधानमुच्यते
[य आत्मदा (४.२) इति वशाशमनम् ॥ कौशिकसूत्र ५,८{४४}.१ ॥
पुरस्तादग्नेः प्रतीचीं धारयन्ति ॥ कौशिकसूत्र ५,८{४४}.२ ॥
पश्चादग्नेः प्राङ्मुख उपविश्यान्वारब्धायै शान्त्युदकं करोति ॥ कौशिकसूत्र ५,८{४४}.३ ॥]
पाकतन्त्रमाज्यभागान्तं कृत्वा पुरस्तादग्नेः प्रतीचीं गां धारयित्वा पश्चादग्नेः प्राङ्मुख उपविश्य कर्ता शान्त्युदकं
करोति । वशाया अन्वारब्धायै ॥

[तत्रैतत्सूक्तमनुयोजयति ॥ कौशिकसूत्र ५,८{४४}.४ ॥]
काष्ठेन तृणेन वाऽय आत्मदाऽ इति सूक्तं शान्त्युदकेऽनुयोजयेत् ॥

[तेनैनामाचामयति च सम्प्रोक्षति च ॥ कौशिकसूत्र ५,८{४४}.५ ॥]
मातल्यन्तेन शान्त्युदकेनाचामयति च सम्प्रोक्षति च वशाम् ॥

[तिष्ठंस्तिष्ठन्तीं महाशान्तिमुच्चैरभिनिगदति ॥ कौशिकसूत्र ५,८{४४}.६ ॥]
कर्तोर्ध्वस्थितः । वास्तोष्पत्यादिचतुर्गणीमहाशान्तिमुच्चैरभिनिगदति । वशामभिमुखस्थितः कर्ता ॥

[य ईशे पशुपतिः पशूनाम् (२.३४) इति हुत्वा वशामनक्ति शिरसि ककुदे जघनदेशे ॥ कौशिकसूत्र ५,८{४४}.७ ॥]
ऽय ईशे पशुपतिःऽ इति सूक्तेनाज्यं हुत्वा ततो वशाया शिरसि अनक्ति ककुदे स्कन्धे जघनदेशे ॥

[अन्यतरां स्वधितिधारामनक्ति ॥ कौशिकसूत्र ५,८{४४}.८ ॥]
छुरिकायां पश्चादनक्ति ॥

[अक्तया वपामुत्खनति ॥ कौशिकसूत्र ५,८{४४}.९ ॥
दक्षिणे पार्श्वे दर्भाभ्यामधिक्षिपति अमुष्मै त्वा जुष्टमिति यथादेवतम् ॥ कौशिकसूत्र ५,८{४४}.१० ॥
निःसालाम् (२.१४) इत्युल्मुकेन त्रिः प्रसव्यं परिहरत्यनभिपरिहरन्नात्मानम् ॥ कौशिकसूत्र ५,८{४४}.११ ॥]
दक्षिणे पार्श्वे दर्भाभ्यां द्वाभ्यामधिक्षिपतिऽप्रजापतये त्वाधिक्षिपामिऽ इत्यनेन मन्त्रेण ।ऽनिःसालाम्ऽ इति सूक्तेनोल्मुकेन त्रिः प्रदक्षिणं परिभ्रामयित्वा पशुं मध्ये कृत्वात्मानं हि ॥

[दर्भाभ्यामन्वारभते ॥ कौशिकसूत्र ५,८{४४}.१२ ॥]
द्वाभ्यां दर्भाभ्यां वशामन्वालभ्य ॥

[पश्चादुत्तरतोऽग्नेः प्रत्यक्शीर्षीमुदक्पादीं निविध्यति ॥ कौशिकसूत्र ५,८{४४}.१३ ॥
समस्यै तन्वा भव इत्यन्यतरं दर्भमवास्यति ॥ कौशिकसूत्र ५,८{४४}.१४ ॥]
पश्चादुत्तरतोऽग्नेर्वशां नीत्वा तत एकं दर्भंऽसमस्यैऽ इति मन्त्रेण भूमौ कृत्वा तत उपरि वशां पातयति प्रत्यक्शीर्षीमुदक्पादीं निविध्यति ॥

[अथ प्राणानास्थापयति प्रजानन्तः (२.३४.५) इति ॥ कौशिकसूत्र ५,८{४४}.१५ ॥]
ततः समिदाध्वर्युर्वशामुखं निरोधयति निरुच्छ्वासं करोति मारयतिऽप्रजानन्तःऽ इत्यृचा ॥

[दक्षिणतस्तिष्ठन् रक्षोहणं जपति ॥ कौशिकसूत्र ५,८{४४}.१६ ॥]
दक्षिणतस्तिष्ठन्ऽरक्षोहणम्ऽ (८.३.४) अनुवाकं जपति ॥

[सञ्ज्ञप्तायां जुहोति यद्वशा मायुमक्रतोरो वा पड्भिराहत । अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्वंहसः इति ॥ कौशिकसूत्र ५,८{४४}.१७ ॥]
ऽयद्वशा मायुम्ऽ इत्यृचा कल्पजयाज्यं जुहोति सञ्ज्ञप्तायाम् । ततः पत्न्युदपात्रं गृहीत्वा पशुसमीपं गच्छति ॥

[उदपात्रेण पत्न्यभिव्रज्य मुखादीनि गात्राणि प्रक्षालयते ॥ कौशिकसूत्र ५,८{४४}.१८ ॥]
ततः पशोर्मुखादीनि गात्राणि प्रक्षालयति ॥

[मुखं शुन्धस्व देवयज्यायै इति ॥ कौशिकसूत्र ५,८{४४}.१९ ॥
प्राणानिति नासिके ॥ कौशिकसूत्र ५,८{४४}.२० ॥
चक्षुः इति चक्षुषी ॥ कौशिकसूत्र ५,८{४४}.२१ ॥
श्रोत्रमिति कर्णौ ॥ कौशिकसूत्र ५,८{४४}.२२ ॥
यत्ते क्रूरं यदास्थितमिति समन्तं रज्जुधानम् ॥ कौशिकसूत्र ५,८{४४}.२३ ॥
चरित्राणि इति पादान् समाहृत्य ॥ कौशिकसूत्र ५,८{४४}.२४ ॥
नाभिमिति नाभिम् ॥ कौशिकसूत्र ५,८{४४}.२५ ॥
मेढ्रमिति मेढ्रम् ॥ कौशिकसूत्र ५,८{४४}.२६ ॥
पायुमिति पायुम् ॥ कौशिकसूत्र ५,८{४४}.२७ ॥]
ऽमुखं शुन्धस्व देवयज्यायैऽ इति मन्त्रं कर्ता ब्रूयात् ।ऽप्राणान् शुन्धस्व देवयज्यायैऽ इति प्राणान् ।ऽनासिके शुन्धस्वऽ इति नासिके ।ऽचक्षुषी शुन्धस्वऽ इति चक्षुषी ।ऽश्रोत्रं शुन्धस्वऽ इति श्रोत्रम् ।ऽकर्णौ शुन्धस्वऽ इति कर्णौ ।ऽयत्ते क्रूरं यदास्थितम्ऽ इति समन्तं रज्जुधानम् ।ऽचरित्राणिऽ इति मन्त्रेण पादान् समाहरति ।ऽनाभिं शुन्धस्व देवयज्यायैऽ इति नाभिम् ।ऽमेढ्रं शुन्धस्वऽ इति मेढ्रम् ।ऽपायुं शुन्धस्वऽ इति पायुं प्रतिमन्त्रं गात्रप्रक्षालनम् ॥

[यत्ते क्रूरं यदास्थितं तच्छुन्धस्व इत्यवशिष्टाः पार्श्वदेशेऽवसिच्य यथार्थं व्रजति ॥ कौशिकसूत्र ५,८{४४}.२८ ॥]
शेषमुदकं पार्श्वदेशे निक्षिप्यऽयत्ते क्रूरं यदास्थितं तच्छुन्धस्वऽ इति मन्त्रेण ततो पत्नी यथार्थं व्रजति ॥

[वपाश्रपण्यावाज्यं स्रुवं स्वधितिं दर्भमादायाभिव्रज्योत्तानां परिवर्त्मानुलोमं नाभिदेशे दर्भमास्तृणाति ॥ कौशिकसूत्र ५,८{४४}.२९ ॥]
ततो वपाश्रपण्यावाज्यं स्रुवं स्वधितिं दर्भमादाय पशुस्थाने गच्छति । परिवर्त्मानुलोमं ततो नाभिदेशे दर्भमास्तृणाति ॥

औषधे त्रायस्वैनं स्वधिते मैनं हिंसीः इति शस्त्रं प्रयच्छति ॥ कौशिकसूत्र ५,८{४४}.३० ॥
ऽओषधे त्रायस्वैनम्ऽ इति छुरिकां प्रयच्छति ॥

[इदमहमामुष्यायणस्यामुष्याः पुत्रस्य प्राणापानावपकृन्तामि इत्यपकृत्य ॥ कौशिकसूत्र ५,८{४४}.३१ ॥]
ऽइदमहं महुमदस्य भूतिकर्णपुत्रस्यऽ इत्यनेन मन्त्रेण दर्भसहितं नाभिदेशं छिनत्ति ॥

[अधरप्रव्रस्केन लोहितस्यापहत्य ॥ कौशिकसूत्र ५,८{४४}.३२ ॥
इदमहमामुष्यायणस्यामुष्याः पुत्रस्य प्राणापानौ निखनामि इत्यास्ये निखनति ॥ कौशिकसूत्र ५,८{४४}.३३ ॥]
ऽइदमहम्ऽ इति मन्त्रेणावरदर्भखण्डं लोहितलिप्तमास्यस्थानेऽपहन्ति । निखनतीत्यर्थः ॥

[वपया द्यावापृथिवी प्रोर्णुवाथामिति वपाश्रपण्यौ वपया प्रच्छाद्य ॥ कौशिकसूत्र ५,८{४४}.३४ ॥
स्वधितिना प्रकृत्योत्कृत्य ॥ कौशिकसूत्र ५,८{४४}.३५ ॥
आव्रस्कमभिघार्य ॥ कौशिकसूत्र ५,८{४४}.३६ ॥]
ऽवपया द्यावापृथिवीऽ इत्यनेन वपाश्रपण्यौ वपया प्रच्छाद्य स्वधितिना प्रकृत्योत्कृत्य ततश्छेदनस्थानं घृतेनाभिघार्य । शान्तवृक्षमयावेकैकशृङ्गा द्वितीया द्विशृङ्गा ॥

[वायवे स्तोकानामिति दर्भाग्रं प्रास्यति ॥ कौशिकसूत्र ५,८{४४}.३७ ॥]
ऽवायवे स्तोकानाम्ऽ इति दर्भाग्रं प्रास्यति क्षिपति ॥

[प्रत्युष्टं रक्षः इति चरुमङ्गारे निदधाति ॥ कौशिकसूत्र ५,८{४४}.३८ ॥]
ऽप्रत्युष्टं रक्षःऽ इत्यनेन मन्त्रेणाग्नेः पश्चाद्भागे निदधाति ॥

[देवस्त्वा सविता श्रपयतु इति श्रपयति ॥ कौशिकसूत्र ५,८{४४}.३९ ॥
सुशृतां करोति ॥ कौशिकसूत्र ५,८{४४}.४० ॥]
ऽदेवस्त्वाऽ इति मन्त्रेण श्रपयति । सुशृतां करोति ततः ॥ पञ्चमेऽध्यायेऽष्टमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ४४ ॥


[यद्यष्टापदी स्याद्गर्भञ्जलौ सहिरण्यं सयवं वा य आत्मदा (४.३) इति खदायां त्र्यरत्नावग्नौ सकृज्जुहोति ॥ कौशिकसूत्र ५,९{४५}.१ ॥]
यद्यष्टापदी स्याद्गर्भञ्जलौ सहिरण्यं सयवं वाऽय आत्मदाऽ इति सूक्तेन खदायां त्र्यरत्नावग्नौ सकृज्जुहोति ॥

[विशस्य समवत्तान्यवद्येत् ॥ कौशिकसूत्र ५,९{४५}.२ ॥
हृदयं जिह्वा श्येनश्च दोषी पार्श्वे च तानि षट् । यकृद्वृक्कौ गुदश्रोणी तान्येकादश दैवतानि ॥ कौशिकसूत्र ५,९{४५}.३ ॥
दक्षिणः कपिललाटः सव्या श्रोणिर्गुदश्च यः । एतानि त्रीणि त्र्यङ्गानि स्विष्टकृद्भाग एव ॥ कौशिकसूत्र ५,९{४५}.४ ॥
तदवद्य प्रज्ञातानि श्रपयेत् ॥ कौशिकसूत्र ५,९{४५}.५ ॥]
अवदानानि पशोरेकादश गृह्णाति । हृदयम् । जिह्वा । क्रोडम् । वामबाहुः । पार्श्वे द्वे । यकृत्कालेयमित्युच्यते । पृष्टकौ द्वौ । गुदश्च । पश्चिमदक्षिणबाहुश्च । एकादश गृहीत्वा । ततः स्विष्टकृदवदानानि गृह्णाति । तानि त्रीणि । दक्षिणो बाहुः । वामजङ्घा च । अन्त्रविभागम् । एतानि त्रीणि गृहीत्वा । चरुमध्ये मांसानि निदधाति ।ऽपरि त्वाग्नेऽ इत्यादि करोति ॥

[होष्यन् द्विर्द्विर्देवतानामवद्येत् ॥ कौशिकसूत्र ५,९{४५}.६ ॥
सकृत्सकृत्सौविष्टकृतानाम् ॥ कौशिकसूत्र ५,९{४५}.७ ॥]
ततो यद्दैवत्यः पशुस्तद्दैवत्यश्चरुः श्रपयितव्यः ॥

[वपायाः समिद्धः (५.१२) ऊर्ध्वा अस्य (५.२७) इति जुहोति ॥ कौशिकसूत्र ५,९{४५}.८ ॥]
ततो वपायाश्चत्वारि खण्डानि करोति ।ऽसमिद्धो अद्यऽ इति सूक्तेनैकं खण्डं जुहोति ।ऽऊर्ध्वा अस्यऽ इति सूक्तेन द्वितीयं खण्डं जुहोति ॥

[युक्ताभ्यां तृतीयाम् ॥ कौशिकसूत्र ५,९{४५}.९ ॥]
ऽसमिद्धो अद्यऽऽऊर्ध्वा अस्यऽ इति सूक्ताभ्यां तृतीयं खण्डं जुहोति ॥

[आनुमतीं चतुर्थीम् ॥ कौशिकसूत्र ५,९{४५}.१० ॥]
ऽअनुमतये स्वाहाऽ इति चतुर्थं खण्डं जुहोति ॥

[जातवेदो वपया गच्छ देवांस्त्वं हि होता प्रथमो बभूथ । घृतस्याग्ने तन्वा सं भव सत्याः सन्तु यजमानस्य कामाः स्वाहा ॥ कौशिकसूत्र ५,९{४५}.११ ॥]
ततोऽजातवेदो वपया गच्छ देवान्ऽ इति मन्त्रेणाज्यं जुहोति ॥

[ऊर्ध्वं नभसं मारुतं गच्छतमिति वपाश्रपण्यावनुप्रहरति ॥ कौशिकसूत्र ५,९{४५}.१२ ॥
प्राचीमेकशृङ्गां प्रतीचीं द्विशृङ्गाम् ॥ कौशिकसूत्र ५,९{४५}.१३ ॥]
ऽऊर्ध्वं नभसं मारुतं गच्छतम्ऽ इत्यनेन मन्त्रेण वपाश्रपण्यौ द्वे सह जुहोति । प्राचीमेकशृङ्गां प्रतीचीं द्विशृङ्गां कृत्वा ॥

[पित्र्येषु वह वपां जातवेदः पितृभ्यो यत्रैतान् वेत्थ निहितान् पराके । मेदसः कुल्या उप तान् स्रवन्तु सत्या
एषामाशिषः सन्तु कामाः स्वाहा स्वधा इति वपायास्त्रिर्जुहोति ॥ कौशिकसूत्र ५,९{४५}.१४ ॥
समवत्तानाम् ॥ कौशिकसूत्र ५,९{४५}.१५ ॥]
ततोऽवदानानि जुहोतिऽय आत्मदाऽ इति सूक्तेन । प्रत्यृचं जुहोति । पुनःऽय आत्मदाऽ इति सूक्तेन चरुं जुहोति ॥

[स्थालीपाकस्य सम्राडस्यधिश्रयणं नाम सखीनामभ्यहं विश्वा आशाः साक्षीय । कामोऽसि कामाय त्वा सर्ववीराय सर्वपुरुषाय सर्वगणाय सर्वकामाय जुहोमि ॥ अन्वद्य नोऽनुमतिः पूषा सरस्वती मही । यत्करोमि तदृध्यतामनुमतये स्वाहा इति जुहोति ॥ कौशिकसूत्र ५,९{४५}.१६ ॥]
ऽसम्राडस्यधिऽ इति मन्त्रेणाज्यं जुहोति ।ऽसर्ववीराय स्वाहा सर्वपुरुषाय स्वाहा सर्वगणाय स्वाहा सर्वकामाय स्वाहाऽ चतस्र आहुतीर्जुहोति ।ऽअन्वद्य नोऽनुमतिः । पूषा सरस्वती मही यत्करोमि तदृध्यतामनुमतये स्वाहाऽ जुहोति । पार्वणादि प्रजापतिं च हुत्वा ततः सकृन्मांसं चरुं चावद्य स्विष्टकृतं यजति ।ऽस्वाहेष्टेभ्यःऽ इत्याद्युत्तरतन्त्रम् । समाप्तं वशाशमनविधानम्.
दैवहतं तस्य गृहं यस्य गृहे वशा जायते । तस्य धनादिनाशो भवति । तस्माच्छान्तिः कर्तव्येति । वशाया द्वे प्रतिपत्ती । अभिमन्त्र्य वा ददाति शमनं वा विधानेन कुर्यात् । एतेन विधानेन पशवो व्याख्याताः । नित्ये नैमित्तिके काम्ये पशवो व्याख्याताः ।ऽद्वादशरात्रेऽग्निं पशुना यजेतऽ इति नित्यम् । नैमित्तिकाकाम्याश्च धूमकेतुः पञ्च पशवस्तायन्ते । धातारं च पशुना च पुरोहितपरिशिष्टेषु पठ्यते । इत्येवमादयो नैमित्तिकाः । पैठीनसिना काम्याः पठिताः ।ऽछागेन स्वहुतेन त्रयोदशमासान्ऽ इत्यादि पुष्टिकर्मणामुपधानमध्ये पशुः पठितः । तस्मात्मन्त्रोक्ता देवताः । काम्याः पशवः । तथा वैतानसूत्रे ऐन्द्राग्नः पशुरायुःप्रजापशुकामस्येत्यादयः काम्याः पशवः । तेषां विधिरुच्यते.
पाकयज्ञमाज्यभागान्तं कृत्वा शान्त्युदकाभिवादनपर्यन्तं कृत्वाऽय ईशे पशुपतिः पशूनाम्ऽ इत्यादि भवति । समानं नित्ये पशौ ।ऽसमिद्धो अद्यऽ इतिऽऊर्ध्वा अस्यऽ इति वपाहोमः । नैमित्तिके च । तथा द्वयोः प्रधानकर्म होमः । प्रधानसूक्तेनैव काम्येषु तथैव च.
अथ पित्र्येषु काम्येषु विशेषः तत्रऽवह वपाम्ऽ इत्यृचा त्रिरावृत्तिः । वपां त्रिर्जुहोति । तथा अवदानानि । तथा चरुंऽवह वपाम्ऽ इति त्रिर्जुहोति । शेषं समानम् ॥

अथ दुष्टे प्रतिग्रहे सौम्ये वा कृते याजने वा दक्षिणाप्रतिग्रहणे येन कर्मणा पापं विनश्यति तदुच्यते
[क इदं कस्मा अदात्(३.२९.७८) कामस्तदग्रे (१९.५२) यदन्नं (६.७१) पुनर्मैन्त्विन्द्रियम् (७.६८) इति प्रतिगृह्णाति ॥ कौशिकसूत्र ५,९{४५}.१७ ॥
उत्तमा सर्वकर्मा ॥ कौशिकसूत्र ५,९{४५}.१८ ॥
वशया पाकयज्ञा व्याख्याताः ॥ कौशिकसूत्र ५,९{४५}.१९ ॥]
ऽक इदम्ऽ इति द्वाभ्यामृग्भ्यां प्रतिग्रहमभिमन्त्र्य गृह्णाति । प्रतिग्रहदोषो न भवति ।ऽयदन्नम्ऽ इति तृचेनऽभूमिष्ट्वाऽ(३.२९.८) इत्यृचा भूमिप्रतिग्रहे विशेषः ।ऽकामस्तदग्रेऽ इति सूक्तेन प्रतिग्रहमभिमन्त्र्य गृह्णाति ।ऽयदन्नम्ऽ इति तृचेन सूक्तेन प्रतिग्रहमभिमन्त्र्य गृह्णाति ।ऽपुनर्मैत्विन्द्रियम्ऽ इत्यृचा प्रतिग्रहमभिमन्त्र्य गृह्णाति । समाप्तं प्रतिग्रहदोषनाशनकर्म । सर्वाणि कर्माणि कृत्वाऽपुनर्मैत्विन्द्रियम्ऽ इत्यृचा कर्म समाप्य तत आत्मानमनुमन्त्रयते । सर्वकर्मसु भवतीत्यात्मशान्तिः । सन्ध्यावन्दन आज्यतन्त्रे पाकतन्त्रेऽस्मिन् कर्मणि नित्यनैमित्तिककाम्येषुऽपुनर्मैत्विन्द्रियम्ऽ इत्यृचात्महृदयमनुमन्त्रयते ॥ पञ्चमेऽध्याये नवमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ४५ ॥


अथ अकृते पापे लोके पापवचनमुत्पद्यते तत्र शान्तिरुच्यते
[उतामृतासुः (५.१.७) शिवास्ते (८.२.१५) इत्यभ्याख्याताय प्रयच्छति ॥ कौशिकसूत्र ५,१०{४६}.१ ॥]
ऽउतामृतासुःऽ इत्यृचाभ्याख्यातमग्रे कृत्वा गृहे प्रविश्य तूष्णीं ततः सक्तुमन्थमभिमन्त्र्याभ्याख्याताय ददाति । पापं विनश्यति । प्रथममग्रे कृत्वाभ्याख्यातं गृहे प्रवेश्य कर्ता पश्चात्प्रविशति ।ऽशिवास्ते सन्त्वोषधयःऽ इत्यृचा सक्तुमन्थमभिमन्त्र्य ततोऽभ्याखाताय ददाति । लोके निन्दा भवति ।ऽउतामृतासुःऽ इत्यृचा भक्तमभिमन्त्र्य ददाति ।ऽशिवास्ते सन्त्वोषधयःऽ इत्यृचा भक्तमभिमन्त्र्य ददाति । लोके निन्दा विनश्यति ॥

[द्रुघणशिरो रज्ज्वा बध्नाति ॥ कौशिकसूत्र ५,१०{४६}.२ ॥]
अभ्यातानान्तं कृत्वाऽउतामृतासुःऽ इत्यृचा द्रुघणमणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभिशस्त इदं कर्म ।
आज्यतन्त्रं कृत्वाऽशिवास्ते सन्त्वोषधयःऽ इत्यृचा द्रुघणमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभिशस्ते । तत उत्तरतन्त्रम् ॥

[प्रतिरूपं पलाशायोलोहहिरण्यानाम् ॥ कौशिकसूत्र ५,१०{४६}.३ ॥]
तन्त्रं कृत्वाऽउतामृतासुःऽ इत्यृचा पालाशमणिं द्रुघणसदृशं कृत्वा ततः सम्पात्याभिमन्त्र्य बध्नाति । अभिशस्ते । उत्तरतन्त्रम् । तन्त्रं कृत्वाऽशिवास्तेऽ इत्यृचा पालाशकाष्ठमणिं द्रुघणप्रतिरूपं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । अभिशस्ते । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽउतामृतासुःऽ इत्यृचा लोहमणिं द्रुघणसदृशं कृत्वा सम्पात्याभिमन्त्र्याभिशस्ते बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वाऽशिवास्तेऽ इत्यृचा कृष्णलोहमणिं द्रुघणसदृशं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । पापश्रवणे पापविनाशो भवति । तन्त्रं कृत्वाऽउतामृतासुःऽ इत्यृचा ताम्रमणिं द्रुघणसदृशं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वाऽशिवास्तेऽ इत्यृचा ताम्रमयद्रुघणप्रतिरूपं मणिं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽउतामृतासुःऽ इत्यृचा हिरण्यमणिं द्रुघणप्रतिरूपं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽशिवास्तेऽ इत्यृचा हिरण्यमयमणिं कृत्वा द्रुघणप्रतिरूपं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अकृते पापे निन्दा यस्य भवति तस्येदं कर्म । कृते वा प्रायश्चित्तम् । यदि पापश्रवणं भवति तदेदं कर्म । समाप्तं लोके निन्दाविघातकर्म । सर्वत्र कौशिके कर्मणां विकल्पः । एकस्मिन् विषये यत्र बहूनि कर्माणि पठितानि तत्रैकं कुर्याद्द्वे वा सर्वाणि वा ॥

अथ यागे क्रियमाणे येन कर्मणा विघ्नशमनं भवति तदुच्यते
[येन सोम (६.७) इति याजयिष्यन् सारूपवत्समश्नाति ॥ कौशिकसूत्र ५,१०{४६}.४ ॥]
अभ्यातानान्तं कृत्वाऽयेन सोमऽ इति सूक्तेन सारूपवत्सं पायसं सम्पात्याभिमन्त्र्य ऋत्विजो यजमानं चाशयति । अविघ्नेन यज्ञसिद्धिर्भवति । तत उत्तरतन्त्रम् । यागे विघ्नशमनं समाप्तम् ॥

यागसमाप्तौ विघ्नशमनमुच्यते
[निधने यजते ॥ कौशिकसूत्र ५,१०{४६}.५ ॥]
सोमदेवत्यं चरुं पाकयज्ञविधानेनाज्यभागान्तं कृत्वाऽयेन सोमऽ इति तृचेन चरुं जुहोति । पार्वणाद्युत्तरतन्त्रम् । समाप्तं सोमयागे याजनदोषशमनं विघ्नशमनं च । अनेन कर्मणा अयाज्ययाजनदोषान्मुच्यते ॥

अथ धनधान्यादिप्रतिग्रहादियाचनमिच्छन्निदं कर्म कृत्वा याचति । विघातो न भवति ॥
[यं याचामि (५.७.५) यदाशसा (७.५७.१२) इति याचिष्यन् ॥ कौशिकसूत्र ५,१०{४६}.६ ॥]
अभ्यातानान्तं कृत्वाऽयं याचामिऽ इत्यृचा सारूपवत्सं पायसं श्रपयित्वा सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । याचितं न प्रतिषेधयति । आज्यतन्त्रं कृत्वाऽयदाशसाऽ इति द्वाभ्यामृग्भ्यां सारूपवत्सं पायसं सम्पात्याभिमन्त्र्याश्नाति । उत्तरतन्त्रम् । समाप्तं याचने प्रतिषेधशान्तिः ॥

अथ कपोत उलूके वा गृहे प्रविष्टेऽन्यत्राभीष्टदेशेऽपि तत्र शान्तिरुच्यते
[मन्त्रोक्तानि पतितेभ्यो देवाः कपोतः (६.२७) ऋचा कपोतम् (६.२८) अमून् हेतिः (६.२९) इति महाशान्तिमावपते ॥ कौशिकसूत्र ५,१०{४६}.७ ॥]
शान्त्युदकं विधानेन कृत्वा ततो मातलीं न करोति ।ऽदेवाः कपोतःऽऽऋचा कपोतम्ऽऽअमून् हेतिःऽ इति सूक्तत्रयं वास्तोष्पत्यं चातनं मातृनामा शान्तिगणः एते चत्वारो गणाः । शान्त्युदक आवपति । ततो मातलीं कृत्वा शान्त्युदकं समापयेत् । रात्रौ तेन शान्त्युदकेन तत्स्थानं प्रोक्षतिऽयतायैऽ इत्येतैर्मन्त्रैः । कपोतोलूकस्थानं यावत् । कारयितुः सम्प्रोक्षणमाचमनं च कर्तव्यम् । गृहादिस्थानं प्रोक्षति ॥

[परीमेऽग्निम् (६.२८.२) इत्यग्निं गामादाय निशि कारयमाणस्त्रिः शालां परिणयति ॥ कौशिकसूत्र ५,१०{४६}.८ ॥]
ऽपरीमेऽग्निम्ऽ इत्यृचा गामग्निं गृहीत्वा त्रिः शालां परिणयति । कपोतस्थानं वा परिभ्रामयेत् । सकृन्मन्त्रः । कर्ता सर्वं कुर्यात् । अरण्यके पक्षिणि प्रविष्ट इदं कर्म कुर्यात् । कपोत उलूके वा प्रविष्टे । द्विपदचतुष्पदविनाशो वेदे श्रूयते तस्य दोषशमनम् । कपोतोलूकशान्तिः । समाप्ता महाशान्तिः । घृतकम्बलादिकं करोति । अमृतां वा दशगणीं वा करोति ॥

अथ स्वप्नाध्याये पठित उग्रे स्वप्नदर्शने शान्तिरुच्यते । स्वप्नाध्यायपठितं दुःस्वप्नं रुद्रभाष्यकारमतेन
गृहीतव्यम् । पक्वमांसे प्रेतदमने परिष्वङ्गमर्कटशकटे दृष्ट्वा तैलाभ्यङ्गे नग्नपुरुषदर्शने नग्नस्त्रीदर्शने च कालसूत्रेत्यादि स्वप्नाध्यायपठिता अनेकशः । इति दुःस्वप्नदर्शने शान्तिरुच्यते
[परोऽपेहि (६.४५) यो न जीवः (६.४६) इति स्वप्नं दृष्ट्वा मुखं विमार्ष्टि ॥ कौशिकसूत्र ५,१०{४६}.९ ॥
अतिघोरं दृष्ट्वा मैश्रधान्यं पुरोडाशमन्याशायां वा निदधाति ॥ कौशिकसूत्र ५,१०{४६}.१० ॥]
ऽपरोऽपेहिऽऽयो न जीवःऽ इति सूक्ताभ्यां स्वप्नं कुत्सितं दृष्ट्वा मुखं प्रक्षालयति ।ऽपरोऽपेहिऽऽयो न जीवःऽ इति सूक्ताभ्यां मैश्रधान्यं पुरोडाशं श्रपयित्वाग्नौ जुहोति । तन्त्रविकल्पः ।ऽपरोऽपेहिऽऽयो न जीवःऽ इति सूक्ताभ्यां द्वितीयं पुरोडाशं श्रपयित्वाऽभिमन्त्र्य शत्रुक्षेत्रे निदधाति । समाप्तं दुःस्वप्ननाशनम् ॥

[पर्यावर्तः (७.१००) इति पर्यावर्तते ॥ कौशिकसूत्र ५,१०{४६}.११ ॥]
ऽपर्यावर्तःऽ इत्यृचं जपित्वा पर्यावर्तते ॥

[यत्स्वप्ने (७.१०१) इत्यशित्वा वीक्षते ॥ कौशिकसूत्र ५,१०{४६}.१२ ॥]
ऽयत्स्वप्नेऽ इत्यृचं जपति । अन्नं स्वप्ने भक्षयति तदेदं करोति ॥

अथ पुनर्घोरदुःस्वप्ननाशनकर्मोच्यते
[विद्म ते स्वप्न (६.४६.२) इति सर्वेषामप्ययः ॥ कौशिकसूत्र ५,१०{४६}.१३ ॥]
ऽविद्म ते स्वप्नऽ इति एकेन पर्यायेण दुःस्वप्नं दृष्ट्वा मुखं विमार्ष्टि ।ऽविद्म ते स्वप्नऽ इति सूक्तेन स्वप्नं दृष्ट्वा पार्श्वेण द्वितीयेन भयते ।ऽविद्म ते स्वप्नऽ इति सूक्तेनान्नं स्वप्ने दृष्ट्वा निरीक्षते ।ऽविद्म ते स्वप्नऽ इति सूक्तेन मैश्रधान्यं पुरोडाशं जुहोति । तन्त्रविकल्पः । समाप्तं दुःस्वप्ननाशनम् ॥

अथ आचार्ये मृते ब्रह्मचारीदं कर्म करोति श्रेयस्कामः
[न हि ते अग्ने तन्वः (६.४९) इति ब्रह्मचार्याचार्यस्यादहन उपसमाधाय त्रिः परिक्रम्य पुरोडाशं जुहोति ॥ कौशिकसूत्र ५,१०{४६}.१४ ॥
त्रिरात्रमपर्यावर्तमानः शयीत ॥ कौशिकसूत्र ५,१०{४६}.१५ ॥
नोपशयीतेति कौशिकः ॥ कौशिकसूत्र ५,१०{४६}.१६ ॥]
आचार्यस्य दहनेऽअग्निर्भूम्याम्ऽ (१२.१.१९२३) इत्यादि पञ्च सामिधेनीहुत्वा ततो दहनं त्रिः परिभ्राम्य ततोऽन हि ते अग्ने तन्वःऽ इति सूक्तान्तेन पुरोडाशं जुहोति तस्मिन् दहने । त्रिरात्रं तस्य दहनसमीपे शेतेऽभिमुखस्थितः । कौशिकस्तत्र शयनं न मन्यते । प्रेतादिभयात् । तद्विघातशमनम् ॥

[स्नानीयाभिः स्नायात् ॥ कौशिकसूत्र ५,१०{४६}.१७ ॥
अपर्यवेतव्रतः प्रत्युपेयात् ॥ कौशिकसूत्र ५,१०{४६}.१८ ॥]
ऽअपो दिव्याःऽ (७.९४) इति चतसृभिरृग्भिः स्नानं कृत्वा त्रिरात्रं गृह आगत्य ततः शयीतेति कौशिकमतम् । मृतं आचार्य इदं कर्म । प्रायश्चित्तं कृत्वा ततः समावर्तनं कुर्यातित्यर्थः । अन्यं गुरुमुपासीत । समाप्तं ब्रह्मचारिप्रायश्चित्तम् ॥

अथ ब्रह्मचारी स्त्रिया मैथुनसंयोग इदं करोति सोऽवकीर्णीत्युच्यते । तस्य प्रायश्चित्तमिदं कर्मोच्यते
[अवकीर्णिने दर्भशुल्बमासज्य यत्ते देवी (६.६३) इत्यावपति ॥ कौशिकसूत्र ५,१०{४६}.१९ ॥
एवं सम्पातवतोदपात्रेणावसिच्य ॥ कौशिकसूत्र ५,१०{४६}.२० ॥
मन्त्रोक्तं शान्त्युदकेन सम्प्रोक्ष्य ॥ कौशिकसूत्र ५,१०{४६}.२१ ॥]
ब्रह्मचारिणं दर्भरज्ज्वा कण्ठे बद्ध्वाऽयत्ते देवी निरृतिःऽ इति सूक्तेन तिलाञ्जुहोति । ब्रह्मचारिणं दर्भरज्ज्वा कण्ठे बद्ध्वा ततोऽयत्ते देवी निरृतिःऽ इति सूक्तेन व्रीहिञ्जुहोति । अवकीर्णिनं दर्भरज्ज्वा कण्ठे बद्ध्वा अभ्यातानान्तं कृत्वाऽयत्ते देवीऽ इति सूक्तेनोदपात्रं सम्पात्य ततो दर्भरज्ज्वा सम्प्रोक्ष्य ततोऽयत्ते देवीऽ इति मुञ्चति । तत उत्तरतन्त्रम् । दर्भरज्ज्वावकीर्णिनं कण्ठे बद्ध्वा ततः शान्त्युदकं कृत्वा ततोऽयत्ते देवीऽ इति सूक्तेन प्रोक्ष्य ततः सूक्तेनैव दर्भरज्जुं मुञ्चति । समाप्तमवकीर्णिप्रायश्चित्तम् । सर्वत्र कर्मणां विकल्पः । क्रमोऽपि नास्ति सर्वत्र ॥

अथ स्वयम्प्रज्वलितेऽग्नौ प्रायश्चित्तमुच्यते
[सं समिद्(६.६३.४) इति स्वयम्प्रज्वलितेऽग्नौ ॥ कौशिकसूत्र ५,१०{४६}.२२ ॥]
ऽसं समिद्ऽ इत्यृचा यवाञ्जुहोति ।ऽसं समिद्ऽ इत्यृचा तिलाञ्जुहोति । यदि ज्वलति स्वयमग्निस्तदेदं कर्म । स्वयम्प्रज्वलिते शान्तिः ॥

अथाग्निशब्दकरणे शान्तिरुच्यते
[अग्नी रक्षांसि सेधति (८.३.२६) इति सेधन्तम् ॥ कौशिकसूत्र ५,१०{४६}.२३ ॥]
ऽअग्नी रक्षांसिऽ इत्यृचाग्निमुपतिष्ठतेऽग्निसेधने एषा शान्तिः ॥

[यदस्मृति (७.१११) इति सन्देशमपर्याप्य ॥ कौशिकसूत्र ५,१०{४६}.२४ ॥]
अथ सन्देशे विस्मृतेऽयदस्मृतिऽ इत्यृचाग्निमुपतिष्ठते । यदि ग्रामे वा गृहे वा सन्देशं न कथयति तदा इदं प्रायश्चित्तम् ॥

अथ पापनक्षत्रे जाते स्त्री वा पुरुषो वा यो जातस्तस्य शान्तिरुच्यते
[प्रत्नो हि (६.११०) इति पापनक्षत्रे जाताय मूलेन ॥ कौशिकसूत्र ५,१०{४६}.२५ ॥]
अभ्यातानान्तं कृत्वा तस्य मुञ्जरज्ज्वा कण्ठे च पादे च बद्ध्वा ततःऽप्रत्नो हिऽ इति सूक्तेनोदकघटं सम्पात्याभिमन्त्र्य दर्भपिञ्जूली घटे प्रक्षिप्य ततोऽभिषिञ्चति । ततोऽभ्यातानाद्युत्तरतन्त्रम् । ग्रीवां पाशं नदीफेनेषु निदधातिऽनदीनां फेनान्ऽ (६.११३.२) इत्यर्धर्चेन कटिपाशमुदकमध्ये प्रक्षिपति । मातृपितृभ्रातृषु दोषः श्रूयते तस्मात्पापनक्षत्रे शान्तिः कर्तव्येति । आर्द्राश्लेषा मघा चित्रा स्वाति विशाखा ज्येष्ठा मूलं शतभिषक्भरणी एतानि पापनक्षत्राणि । एतेषु यो जायते तस्येदं कर्म गण्डेन सन्धौ च । मूले नक्षत्र इदं कर्म क्रियते । यो नक्षत्रकल्पोक्तं कर्म कुर्यात्तदुच्यते । अभ्यातानान्तं कृत्वाऽप्रत्नो हिऽ इति सूक्तेनागमक्षीरौदनं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । एतस्मिन् तन्त्रे समूलं बर्हि स्तृणाति समूलमिध्ममुपसमाधायैष विशेषः । नक्षत्रकल्पोक्तं सर्वं च । काले प्रयोगः । एतन्नक्षत्रकल्प उक्तम् । एतानि पापनक्षत्रे जातस्य समाप्तानि । एषा नक्षत्रकल्पोक्ता शान्तिः । आप्लावनावसेचने च क्षीरौदनप्राशनं चैतानि त्रीणि । अथवाऽप्रत्नो हिऽ इति सूक्तेनोदकमभिमन्त्र्य पापनक्षत्रजातमवसिञ्चति शिरसि । एतानि त्रीणि कर्माणि भवन्ति । समाप्ता पापनक्षत्रजातशान्तिः ॥

अथ ज्येष्ठे भ्रातरि जीवति विवाहमाधानं दीक्षां च करोति तस्य शान्तिरुच्यते
[मा ज्येष्ठम् (६.११२) त्रिते देवाः (६.११३) इति परिवित्तिपरिविविदानावुदकान्ते मौञ्जैः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति ॥ कौशिकसूत्र ५,१०{४६}.२६ ॥
अवसिञ्चति ॥ कौशिकसूत्र ५,१०{४६}.२७ ॥
फेनेषूत्तरान् पाशानाधाय नदीनां फेनान् (६.११३.२) इति प्रप्लावयति ॥ कौशिकसूत्र ५,१०{४६}.२८ ॥]
तन्त्रं कृत्वाऽमा ज्येष्ठम्ऽऽत्रिते देवाःऽ इति सूक्ताभ्यामुदकघटं सम्पात्याभिमन्त्र्य ततो मौञ्जैः पाशैर्बद्ध्वा ततो दर्भसहितेन घटेनाप्लावयति । तत उत्तरतन्त्रम् । उत्तरपाशंऽनदीनां फेनान्ऽ इत्यर्धर्चेन नदीफेने निदधाति । अधरपाशान् गृहीत्वा नदीमध्ये प्रविश्य तूष्णीं प्रक्षिपति ॥

[सर्वैश्च प्रविश्यापां सूक्तैः ॥ कौशिकसूत्र ५,१०{४६}.२९ ॥]
ऽमा ज्येष्ठम्ऽऽत्रिते देवाःऽ इति सूक्ताभ्यामुदकमभिमन्त्र्य ततो बन्धनं कृत्वा ततोऽवसिञ्चति । पूर्ववत्पाशोत्सर्गः । अभ्यातानान्तं तन्त्रं कृत्वाऽअम्बयो यन्तिऽ इत्यादिभिः सर्वैरपां सूक्तैर्घटं सम्पात्याभिमन्त्र्याप्लावयति । उत्तरतन्त्रम् । परिवित्तिपरिवेत्तृप्रायश्चित्तम् ।ऽअम्बयो यन्तिऽ इत्यादिभिः सर्वैरपां सूक्तैरुदकमभिमन्त्र्यावसिञ्चति । समाप्तं परिवित्तिपरिवेत्तृप्रायश्चित्तम् । द्वयोः पृथक्पृथक्भवति ॥

अथ मृते आचार्य इदं कर्म
[देवहेडनेन मन्त्रोक्तम् ॥ कौशिकसूत्र ५,१०{४६}.३० ॥
आचार्याय ॥ कौशिकसूत्र ५,१०{४६}.३१ ॥
उपदधीत ॥ कौशिकसूत्र ५,१०{४६}.३२ ॥]
देवहेडनेनानुवाकेन (६.११४१२४) स्रुवेणाज्यं जुहोति । मृत आचार्य आहिताग्नौ इदं कर्म भवति ॥

अथ देवपितृवर्जितखदाशयहितस्यान्नस्य याज्ञिकेन कर्मणा भवति तदुच्यते
[खदाशयस्यावपते ॥ कौशिकसूत्र ५,१०{४६}.३३ ॥
वैवस्वतं यजते ॥ कौशिकसूत्र ५,१०{४६}.३४ ॥
चतुःशरावं ददाति ॥ कौशिकसूत्र ५,१०{४६}.३५ ॥]
ऽयद्देवा देवहेडनम्ऽ इत्यनुवाकेन खदाया अन्नादुद्धृत्य सेतिकामेकां जुहोति । तन्त्रविकल्पः । प्रत्यृचं यवहोमः । वैवस्वतदेवताकं पाकयज्ञमाज्यभागान्तं कृत्वाऽयद्देवा देवहेडनम्ऽ इत्यनुवाकेन चरुं जुहोति । खदाशयस्य प्रायश्चित्तम् । पार्वणाद्युत्तरतन्त्रम् । यद्देवा देवहेडनमित्यनुवाकेन खदान्नं चतुःशरावपरिमितमभिमन्त्र्य ततो ब्राह्मणाय ददाति । खदाशयान्नसंस्कारशान्तिः समाप्ता ॥

अथ मृते धनिक ऋणिकस्यर्णदानशान्तिरुच्यते
[उत्तमर्णे मृते तदपत्याय प्रयच्छति ॥ कौशिकसूत्र ५,१०{४६}.३६ ॥]
ऽअपमित्यमप्रतीत्तम्ऽ (६.११७११९) इति त्रिभिः सूक्तैर्द्रव्यमभिमन्त्र्य पुत्राय ददाति । अनृणो भवति ॥

[सगोत्राय ॥ कौशिकसूत्र ५,१०{४६}.३७ ॥]
ऽअपमित्यमप्रतीत्तम्ऽ इति त्रिभिः सूक्तैर्द्रव्यमभिमन्त्र्य गोत्रिणे ददाति । अनृणो भवति ॥

[श्मशाने निवपति ॥ कौशिकसूत्र ५,१०{४६}.३८ ॥]
ऽअपमित्यमप्रतीत्तम्ऽ इति त्रिभिः सूक्तैः द्रव्यमभिमन्त्र्य धनिकस्य श्मशाने निक्षिपति । अनृणो भवति ॥

[चतुष्पथे च ॥ कौशिकसूत्र ५,१०{४६}.३९ ॥]
ऽअपमित्यमप्रतीत्तम्ऽ इति त्रिभिः सूक्तैर्द्रव्यमभिमन्त्र्य ग्रामचतुष्पथे निक्षिपेत् । अनृणो भवति ॥

[कक्षानादीपयति ॥ कौशिकसूत्र ५,१०{४६}.४० ॥]
ऽअपमित्यमप्रतीत्तम्ऽ इति त्रिभिः सूक्तैर्द्रव्यमभिमन्त्र्याग्नौ प्रज्वलिते प्रक्षिप्य ततोऽनृणो भवति । ऋणदानशान्तिः समाप्ता ॥

आकाशोदकेन शरीराप्लवने दोषो भवति तस्य शान्तिरुच्यते
[दिवो नु माम् (६.१२४) इति वीध्रबिन्दून् प्रक्षालयति ॥ कौशिकसूत्र ५,१०{४६}.४१ ॥
मन्त्रोक्तैः स्पृशति ॥ कौशिकसूत्र ५,१०{४६}.४२ ॥]
ऽदिवो नु मां बृहतःऽ इति सूक्तेनोदकमभिमन्त्र्य शरीरं प्रक्षालयति । आकाशबिन्दुपतनदोषो न भवति ।ऽदिवो नु मां बृहतःऽ इति सूक्तेनैकत्र तैलं सर्वौषधिः गन्धं हिरण्यं वास एतान्यभिमन्त्र्य शरीरमुद्वर्तयेत् । ततः शान्तिर्भवति । आकाशबिन्दुदोषोपशान्तिः समाप्ता ॥

अथ कुमारस्य कुमार्या वा यस्योत्तमदन्तौ पूर्वौ जातौ तत्र मातापित्रोर्मरणशङ्का भवति तत्र शान्तिरुच्यते
[यस्योत्तमदन्तौ पूर्वौ जायेते यौ व्याघ्रौ (६.१४०) इत्यावपति ॥ कौशिकसूत्र ५,१०{४६}.४३ ॥]
ऽयौ व्याघ्रौऽ इति सूक्तेन व्रीहिञ्जुहोति ।ऽयौ व्याघ्रौऽ इति सूक्तेन यवाञ्जुहोति ।ऽयौ व्याघ्रौऽ इति सूक्तेन तिलाञ्जुहोति । तन्त्रविकल्पः । सर्वत्र क्रमो नास्ति ॥

[मन्त्रोक्तान् दंशयति ॥ कौशिकसूत्र ५,१०{४६}.४४ ॥]
ऽयौ व्याघ्रौऽ इति सूक्तेन व्रीहियवतिलमाषानेकीकृत्वाभिमन्त्र्योत्तमजातदन्ताभ्यां दंशयति ॥

[शान्त्युदकशृतमादिष्टानामाशयति ॥ कौशिकसूत्र ५,१०{४६}.४५ ॥
पितरौ च ॥ कौशिकसूत्र ५,१०{४६}.४६ ॥]
अथाज्यभागान्तं कृत्वा व्रीहियवतिलमाषानेकीकृत्य ततः शान्त्युदकं कृत्वा स्थालीपाकं श्रपयित्वा ततोऽभ्यातानानि हुत्वाऽयौ व्याघ्रौऽ इति सूक्तेन स्थालीपाकं सम्पात्याभिमन्त्र्य तत उत्तमजातदन्तमाशयति । मातापितरौ वाशयतः । शान्त्युदकेन स्थालीपाकस्य श्रपणम् । आज्यभागान्ते सर्वत्र शान्त्युदकक्रिया कर्तव्या । अभ्यातानाद्युत्तरतन्त्रम् । उत्तमदन्तजातदोषशान्तिः समाप्ता ॥

अथ शिरसि अङ्गे वा काकोपविष्टदोषः श्रूयते तस्य शान्तिरुच्यते
[इदं यत्कृष्णः (७.६४) इति कृष्णशकुनिनाधिक्षिप्तं प्रक्षालयति ॥ कौशिकसूत्र ५,१०{४६}.४७ ॥]
ऽइदं यत्कृष्णःऽ इति द्वाभ्यामृग्भ्यामुदकमभिमन्त्र्य शरीरं प्रक्षालयति । काकोपविष्टदोषो न भवति । स्नानं वा करोति ॥

[उपमृष्टं पर्यग्नि करोति ॥ कौशिकसूत्र ५,१०{४६}.४८ ॥]
ऽइदं यत्कृष्णःऽ इति द्वाभ्यामृग्भ्यामुल्मुकमभिमन्त्र्य काकमुखेनोपमृष्टं पुरुषं पर्यग्नि करोति । उपरि भ्रामयित्वा दूरे निक्षिपति । काकोपविष्टदोषशान्तिः समाप्ता ॥

अथ संसर्गदोषशान्तिरुच्यते
[प्रतीचीनफलः (७.६५) इत्यपामार्गेध्मेऽपामार्गीरादधाति ॥ कौशिकसूत्र ५,१०{४६}.४९ ॥]
बर्हिर्लवनाद्याज्यतन्त्र इध्मस्थानेऽपामार्गेध्ममुपसमाधाय ततोऽभ्यातानान्तं कृत्वाऽप्रतीचीनफलःऽ इति तिसृभिरृग्भिरपामार्गसमिध आदधाति । सर्वत्र प्रादेशमात्रीः समिधो भवति । अभ्यातानाद्युत्तरतन्त्रम् । अथवापामार्गकाष्ठप्रज्वलितेऽग्नौऽप्रतीचीनफलःऽ इति तिसृभिरपामार्गसमिध आदधाति । हस्तहोमत्वात्तन्त्रविकल्पः । सर्वेषु रोगेषु श्यावदता कुनखिना षण्डेन ज्वरेणापामार्गादि सर्वेषु रोगेषु संसर्गेषु सर्वदोषान्मुच्यते । संसर्गे दोषशान्तिः समाप्ता ॥

[यदर्वाचीनम् (१०.५.२२) इत्याचामति ॥ कौशिकसूत्र ५,१०{४६}.५० ॥]
ऽयदर्वाचीनम्ऽ इत्यृचोदकमभिमन्त्र्याचामयति । अनृतमुक्त्वाचमनं करोति ॥ वणिज्यनृतं कृत्वाचमनं करोति । अनृतदोषो न भवति । अनृतवचनदोषशमनशान्तिः समाप्ता ॥

[यत्ते भूमे (१२.१.३५) इति विखनति ॥ कौशिकसूत्र ५,१०{४६}.५१ ॥]
यत्र क्वचित्खनति तत्र सर्वत्रऽयत्ते भूमेऽ इत्यृचा खनति गृहनिधौ वा स्थूणागर्ते वा स्नानार्थं मृत्तिकाग्रहप्रकरणार्थं सर्वत्र मृत्तिकाखननं विधानेन ॥

[यत्त ऊनम् (१२.१.६१) इति संवपति ॥ कौशिकसूत्र ५,१०{४६}.५२ ॥]
ऽयत्त ऊनम्ऽ इत्यृचा गृहादि पूरयति सर्वत्रानेन विधानेन पूरणम् । खनने खननदोषो न भवति । पूरणे पूरणदोषो न भवति । समाप्ता खननपूरणशान्तिः ॥

अथ शकुनशान्तिरुच्यते
[प्रेहि प्र हर इति कापिञ्जलानि स्वस्त्ययनानि भवन्ति ॥ कौशिकसूत्र ५,१०{४६}.५३ ॥
प्रेहि प्र हर वा दावान् गृहेभ्यः स्वस्तये । कपिञ्जल प्रदक्षिणं शतपत्राभि नो वद ॥ भद्रं वद दक्षिणतो भद्रमुत्तरतो वद । भद्रं पुरस्तान्नो वद भद्रं पश्चात्कपिञ्जल ॥ शुनं वद दक्षिणतः शुनमुत्तरतो वद । शुनं पुरस्तान्नो वद शुनं पश्चात्कपिञ्जल ॥ भद्रं वद पुत्रैर्भद्रं वद गृहेषु च । भद्रमस्माकं वद भद्रं नो अभयं वद ॥ आवदंस्त्वं शकुने भद्रमा वद तूष्णीमासीनः सुमतिं चिकिद्धि नः । यदुत्पतन् वदसि कर्करिर्यथा बृहद्वदेम विदथे सुवीराः ॥ यौवनानि महयसि जिग्युषामिव दुन्दुभिः । कपिञ्जल प्रदक्षिणं शतपत्राभि नो वद इति कापिञ्जलानि स्वस्त्ययनानि भवन्ति ॥ कौशिकसूत्र ५,१०{४६}.५४ ॥]
ऽप्रेहि प्र हर वा दावान्ऽ इति सूक्तेन षडर्चेनापशब्दं श्रुत्वा जपति कपिञ्जलवासितं श्रुत्वा ग्रामेऽरण्ये पक्षिवासितं श्रुत्वा वा स्वयं वा क्रुद्धभाषणं कृत्वान्यस्यासद्वचनं श्रुत्वा सागोवासे वा उलूकवासने कपोतवासने पूर्वतो वोत्तरतो वा लोके निन्दितः । यत्किञ्चिल्लोकविरुद्धं दृष्ट्वा श्रुत्वा वा सर्वत्र जपने स्वस्त्ययनं भवति ।ऽप्रेहि प्र हरऽ इति सूक्तं नित्यं जपति ।
स्वस्त्ययनकामः । समाप्तं नित्यजपस्वस्त्ययनम् । अपशकुनजपस्त्ययनशान्तिः समाप्ता ॥

[यो अभ्यु बभ्रुणायसि स्वपन्तमत्सि पुरुषं शयानमगत्स्वलम् । अयस्मयेन ब्रह्मणाश्ममयेन वर्मणा पर्यस्मान् वरुणो दधतित्यभ्यवकाशे संविशत्यभ्यवकाशे संविशति ॥ कौशिकसूत्र ५,१०{४६}.५५ ॥]
आकाशे यद्धि स्वपिति अरण्ये वा गृहे वा शून्ये गृहे वा पर्वते वा तदाऽयो अभ्यु बभ्रुणाऽ इत्यृचं जपित्वा स्वपिति । राजसेना आकाशे स्वपिति अरण्ये तदेदं कर्म कुर्यात् । नैमित्तिकान्यवश्यं कर्तव्यानि । अकरणे धनधान्यपश्वादिविनाशः । तस्मान्नित्यनैमित्तिकानि कार्याणि ।ऽजरायुज इति दुर्दिनमायन्ऽ (Kऔश्ष्३८.१) इत्यादीनि । अथाद्भुतानि वर्षे यक्षष्वादीनि नैमित्तिकानि तान्यवश्यं कार्याणि । अकरणे गृहे ग्रामे वा नगरे वा जनपदे वा दोष उत्पद्यते । मेधाजननग्रामसम्पदासर्वसम्पदासाम्मनस्यवर्चस्यविजयराजकर्मपौष्टिकस्त्रीकर्मस्वस्त्ययनायुष्यकाम्यादीनि इज्यायाः प्रवृत्तिः । यदि काम्येच्छा तदा तदा प्रवृत्तिः । अथवा नेच्छा तदा न प्रयुञ्ज्यात् । नित्यानि जातकर्मादीनि । नित्यानां नैमित्तिकानामकरणे प्रत्यवायो भवति । तथा चोक्तम्

नित्यनैमित्तिके कुर्यात्प्रत्यवायजिघांसया.
मन्त्रक्रमेण नैमित्तिकान्युक्तानि संहिताविधौ ॥
मन्त्रविधानं कौशिके । ब्राह्मणपाठत्वात्समाप्तानि नैमित्तिकानि.
सर्वज्ञानप्रबोधार्थं विज्ञानं प्रोक्तवानृषिः.
दुष्टदोषविनाशाय नैमित्तिकानि पञ्चमे ॥
दशमी कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ४६ ॥

इति कौशिकपद्धतौ पञ्चमोऽध्यायः समाप्तः ॥


अथ षष्ठोऽध्यायः
[अभिचारकर्माणि]

अथ क्रमप्राप्तोऽथर्ववेदविहितोऽभिचार उच्यते । मीमांसायामभिचारो निषिद्धः ।ऽचोदनालक्षणोऽर्थो धर्मःऽ (जैसू १.१.२) इति । हिंसाचारः प्रतिषिद्धः । पुनरुपपादेऽभिचारः समर्थितः । मनुस्मृतौ च विहितोऽभिचारोऽन ब्राह्मणो वेदयिता कदाचित्ऽ इत्यादिना । तस्मात्श्रुतिरथर्वाङ्गिरसी कुर्यादभिचारकमिति । दोषश्च श्रूयते ।ऽषट्स्वभिचरन् पततिऽ इति मनुः ।ऽप्रमाणं स्मृतिःऽ इत्युक्तं मीमांसायाम् । तस्माद्विहितोऽभिचारः कर्तव्यः ॥

उभयतः परिच्छिन्नं शरमयं बर्हिराभिचारिकेषु ॥ कौशिकसूत्र ६,१{४७}.१ ॥
दक्षिणतः सम्भारमाहरत्याङ्गिरसम् ॥ कौशिकसूत्र ६,१{४७}.२ ॥
आङ्गिरसकल्पोक्ताः सम्भाराः प्रत्येतव्याः । दक्षिणस्यां दिशि मण्डपं कुर्यात् । कृत्तिकानक्षत्रे प्रयोगः कृष्णपक्षे वा रात्रौ निरोधि वा.
मण्डपं कारयेत्तत्र यथोक्तविधिना गुरुः.
पताकातोरणैर्युक्तं द्वारं वा दक्षिणं स्मृतम् ॥

[इङ्गिडमाज्यम् ॥ कौशिकसूत्र ६,१{४७}.३ ॥]
विषमिश्रमिङ्गिडमाज्यम् ॥

सव्यानिम् ॥ कौशिकसूत्र ६,१{४७}.४ ॥
दक्षिणापवर्गाणि ॥ कौशिकसूत्र ६,१{४७}.५ ॥
दक्षिणाप्रवण ईरिणे दक्षिणामुखः प्रयुङ्क्ते ॥ कौशिकसूत्र ६,१{४७}.६ ॥
साग्नीनि ॥ कौशिकसूत्र ६,१{४७}.७ ॥
अग्ने यत्ते तपः (२.१९२३) इति पुरस्ताद्धोमाः ॥ कौशिकसूत्र ६,१{४७}.८ ॥
[तथा तदग्ने कृणु जातवेदः (५.२९.२, ३) इत्याज्यभागौ ॥ कौशिकसूत्र ६,१{४७}.९ ॥
निरमुं नुदे (६.७५) इति संस्थितहोमाः ॥ कौशिकसूत्र ६,१{४७}.१० ॥
कृत्तिकारोकारोधावाप्येषु ॥ कौशिकसूत्र ६,१{४७}.११ ॥]
ऽतथा तदग्नेऽ इत्यादि स्मर्तव्यं सर्वत्र । अभ्यातानान्तं कृत्वाऽदूष्या दूषिरसिऽ (२.११) इति सूक्तेन तिलकमणिं सम्पात्याभिमन्त्र्य बध्नाति । कारयिता कर्ता सदस्याश्च सर्वेषां बन्धनमात्मरक्षार्थम् ॥

अधुना दीक्षोच्यते
[भरद्वाजप्रव्रस्केनाङ्गिरसं दण्डं वृश्चति ॥ कौशिकसूत्र ६,१{४७}.१२ ॥]
शुक्लपक्षे त्रयोदश्यां पूर्वाह्णेऽभ्यातानान्तं कृत्वाऽद्यावापृथिवी उर्वन्तरिक्षम्ऽ (२.१२) इति सूक्तम् ।ऽकनकरजतऽ इति सूक्तम् । द्वाभ्यां वेणुदण्डं वृश्चति छिनत्ति कर्ता ॥

[मृत्योरहम् (६.१३३.३) इति बाधकीमादधाति ॥ कौशिकसूत्र ६,१{४७}.१३ ॥]
ऽमृत्योरहम्ऽ इत्यृचा बाधकीरादधाति समिधः ॥

[य इमाम् (६.१३३) अयं वज्रः (६.१३४) इति द्विगुणामेकवीरां सन्नह्य पाशान्निमुष्टितृतीयं दण्डं सम्पातवत् ॥ कौशिकसूत्र ६,१{४७}.१४ ॥
पूर्वाभिर्बध्नीते ॥ कौशिकसूत्र ६,१{४७}.१५ ॥]
ऽय इमां देवो मेखलाम्ऽ इति पञ्चर्चेन सूक्तेन मेखलां सम्पात्य ।ऽअयं वज्रःऽ इति तृचेन सूक्तेन दण्डं सम्पात्यऽय इमाम्ऽ इति तृचेन मेखलां बध्नाति ॥

[वज्रोऽसि सपत्नहा त्वयाद्य वृत्रं साक्षीय । त्वामद्य वनस्पते वृक्षाणामुदयुष्महि ॥ स न इन्द्र पुरोहितो विश्वतः पाहि रक्षसः । अभि गावो अनूषताभि द्युम्नं बृहस्पते ॥ प्राण प्राणं त्रयस्वासो असवे मृड । निरृते निरृत्या नः पाशेभ्यो मुञ्च इति दण्डमादत्ते ॥ कौशिकसूत्र ६,१{४७}.१६ ॥]
ऽवज्रोऽसि सपत्नहाऽ इति तृचेन सूक्तेन दण्डं गृह्णाति ।ऽनमो नमस्कृद्भ्यःऽ इति सप्तर्षिभ्य उपस्थानं करोति शालाया बहिः । ततः शालायां प्रविश्य ततो व्रतादानीयाः समिध आदधाति शान्ताः । व्रतश्रावणं तस्मिन् करोति । अभ्यातानाद्युत्तरतन्त्रम् । दीक्षितस्त्रिरात्रमनशनम् । त्रिरात्रे निवृत्ते कृष्णपक्षे प्रतिपदि कर्म भविष्यति.
ऽनमो नमस्कृद्भ्यः सुमति प्रयुञ्जे न मे प्रसूत तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणा नयामेन्याऽ इत्युपस्थानमन्त्रः.
ऽअग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तत्समापेयं तस्मिन्मे ऋद्धिः । तस्मै नमस्तस्मै स्वाहाऽ इति । इन्द्र । सोम । सूर्य । चन्द्र । देवा व्रतपतयः । आपो व्रतपत्न्यः । व्रतानां व्रतपतयः । व्रतादानीयाः समिधमन्त्राः ॥
ऽकनकरजतकरेद्वसोपा मारयिष्यामि तं जनम् । प्रजां तस्य पशूंश्च एते अग्ने आवृश्चाम्यहन्न्युदितो जने । गृहांश्च तस्य विनाशनकामे कामवानहंऽ च.
अन्वा वृश्चामि देवेभ्य अन्वा वृश्चाम्यग्नये.
अन्वा पृथिव्यै वृश्चामि अन्वा वृश्चामि मृत्यवे ॥
आवृक्ते असि देवेभ्यो दृष्ट्वा ओषधीषु च.
आवृक्त इति द्वे (द्वे) । विष्णो सं त्वा वृश्चामि सर्वतः ॥
ऽअन्वा वृश्चामि देवमनुष्येभ्यो भूतये । अन्वा निरृत्याः पाशेभ्यो वृश्चामि यथा मृत्यो न मोच्छिषत्ऽ । आङ्गिरसदण्डवृश्चनसूक्तम् ॥

[भक्तस्याहुतेन मेखलाया ग्रन्थिमालिम्पति ॥ कौशिकसूत्र ६,१{४७}.१७ ॥]
प्रतिदिनं भक्तं गृहीत्वा मेखलाया ग्रन्थिमालिम्पतिऽआहुतास्यभिहुतऽ (६.१३३.२) इत्यृचा ॥

[अयं वज्रः (६.१३४) इति बाह्यतो दण्डमूर्ध्वमवागग्रं तिसृभिरन्वृचं निहन्ति ॥ कौशिकसूत्र ६,१{४७}.१८ ॥
अन्तरुपस्पृशेत् ॥ कौशिकसूत्र ६,१{४७}.१९ ॥]
ऽअयं वज्रःऽ इति तिसृभिरृग्भिः बाह्यतो दण्डमर्धमवागग्रं कृत्वान्वृचं निहन्ति ॥

[यदश्नामि (६.१३५) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ६,१{४७}.२० ॥
यत्पात्रमाहन्ति फड्ढतोऽसौ इति ॥ कौशिकसूत्र ६,१{४७}.२१ ॥
इदमहमामुष्यायणस्यामुष्याः पुत्रस्य प्राणापानावप्यायच्छामि इत्यायच्छति ॥ कौशिकसूत्र ६,१{४७}.२२ ॥]
ऽयदश्नामिऽ,ऽयद्गिरामिऽ इति द्वाभ्यामृग्भ्यां भोजनं करोति ।ऽयत्पिबामिऽ इत्यृचोदकं पिबति । अमुष्यस्थाने शत्रुनामग्रहणममुंस्थाने च ।ऽफड्ढतो महुमदःऽ इत्येतेन मन्त्रेण भोजनपात्रं भिनत्ति । आचमनं कृत्वा ।ऽइदमहं महुमदस्य तुरष्कस्य सूतिकर्णपुत्रस्य प्राणापानावप्यायच्छामिऽ इत्यनेन मन्त्रेण मेखलाग्रन्थिं बध्नाति गाढं करोति । प्रत्यहमेतत्कर्म ॥

[येऽमावास्याम् (१.१६) इति सन्नह्य सीसचूर्णानि भक्तेऽलङ्कारे ॥ कौशिकसूत्र ६,१{४७}.२३ ॥]
ऽयेऽमावास्याम्ऽ इति सूक्तेन सीसचूर्णानि कृत्वाभिमन्त्र्य भक्ते ददाति द्वेषस्य ।ऽयेऽमावास्याम्ऽ इति सूक्तेनालङ्कारान् समालभते द्वेषस्य ॥

[पराभूतवेणोर्यष्ट्या बाहुमात्र्यालङ्कृतयाहन्ति ॥ कौशिकसूत्र ६,१{४७}.२४ ॥]
ऽयेऽमावास्याम्ऽ इति सूक्तेन वेणुयष्ट्यालङ्कृतया शत्रुमाहन्ति । बाहुमात्रा लोहितविषमिश्रा स्वयञ्छिन्ना यष्टिसंस्कारः ॥

[द्यावापृथिवी उरु (२.१२) इति परशुपलाशेन दक्षिणा धावतः पदं वृश्चति ॥ कौशिकसूत्र ६,१{४७}.२५ ॥]
ऽद्यावापृथिवी उरुऽ इति सूक्तेन परशुं वृक्षपत्रं च गृहीत्वा दक्षिणा धावतः शत्रोः पदं रजं छिनत्ति ॥

[अन्वक्त्रिस्तिर्यक्त्रिः ॥ कौशिकसूत्र ६,१{४७}.२६ ॥
अक्ष्णया संस्थाप्य ॥ कौशिकसूत्र ६,१{४७}.२७ ॥]
तिरश्चीनं त्रिः कोणे एकैकम् । एवमष्टवारान् । सूक्तावृत्तिः ॥

[आव्रस्कान् पांशून् पलाशमुपनह्य भ्रष्टेऽभ्यस्यति ॥ कौशिकसूत्र ६,१{४७}.२८ ॥]
तस्माच्छेदात्पांसूंश्च गृहीत्वा बधकपत्रे बद्ध्वा सूक्तेनाभिमन्त्र्य भ्रष्टेऽभ्यस्यति क्षिपति ॥

[स्फोटत्सु स्तृतः ॥ कौशिकसूत्र ६,१{४७}.२९ ॥]
यदि स्फोटति द्वेष्यो मृतो जानीयात् । अथवा एतत्सर्वं प्रतिकृतेः कर्तव्यमिति ॥

अभिचारतन्त्रमुच्यते
दक्षिणामुखः प्रयुङ्क्ते ।ऽअव्यसश्चऽ (१९.६९.१) बर्हिर्लवनम्, वेदिः, उत्तरवेदिः, चाण्डालाग्निप्रणयनम्, अग्निप्रतिष्ठापनम्,ऽममाग्ने वर्चःऽ (५.३.१) इति व्रतग्रहणम्, इध्मप्रोक्षणम्, इध्मोपसमाधानम्, ब्रह्मासनं पश्चिमतः, ब्रह्मस्थापनम्, शरमयं बर्हिःप्रोक्षणम्, प्रसव्यं स्तरणम्, स्तीर्णप्रोक्षणं प्रसव्यमात्मासनसंस्कारः, उदपात्रस्थापनम्, लोहमयस्रुवग्रहणम्, शाकपात्रेणेमामिङ्गिडविषमिश्राज्यं संस्कृत्य ग्रहग्रहणे विशेषः ।ऽमहुमदस्य त्वा प्राणाय गृह्णेऽ इत्यादि पञ्चमग्रहग्रहणम् ।ऽअग्ने यत्ते तपःऽ (२.१९२३) इति पुरस्ताद्धोमाः । पञ्च सूक्तानि ।ऽतथा तदग्ने कृणु जातवेदःऽ (५.२९.२३) इति ऋचावाज्यभागौ । ततोऽभ्यातानान्तं पूर्वतन्त्रम् । आभिचारिके तन्त्रे पूर्वतन्त्रम्.

अथोत्तरतन्त्रमुच्यतेस्विष्टकृदाद्युत्तरतन्त्रम् । सर्वत्राभिचारकर्मणि अभ्यातानानि हुत्वा ततः स्विष्टकृदाद्युत्तरतन्त्रम् । विष्णुक्रमा द्वादश ।ऽनिरमुं नुदेऽ (६.७५) इति संस्थितहोमाः । उदपात्रे सम्पाता न भवन्ति । अभिचारतन्त्रे सर्वत्रास्मिन्
पश्चादग्नेः कर्ष्वां कूद्युपस्तीर्णायां द्वादशरात्रमपर्यावर्तमानः शयीत ॥ कौशिकसूत्र ६,१{४७}.३० ॥
द्वादशरात्रं यावत् ॥

तत उत्थाय त्रिरह्न उदवज्रान् प्रहरति ॥ कौशिकसूत्र ६,१{४७}.३१ ॥
दक्षिणामुखः संवेशनं करोति । शय्याया उत्थाय त्रिरह्नः प्रातर्मध्यन्दिने सन्ध्यायां चोदकं हस्ते कृत्वा दक्षिणामुखः प्रक्षिपतिऽद्यावापृथिवीऽ (२.१२) सूक्तेन प्रत्यृचम् ॥

[नद्या अनामसम्पन्नाया अश्मानं प्रास्यति ॥ कौशिकसूत्र ६,१{४७}.३२ ॥]
ततो नद्या अनामसम्पन्नाया अश्मानं गृहीत्वा दक्षिणप्रदेशे प्रहरति ।ऽद्यावापृथिवी उरुऽ इति सूक्तेन प्रत्यृचम् । अश्मानं त्रिकालं प्रहरति ॥

[उष्णेऽक्षतसक्तूननूपमथिताननुच्छ्वसन् पिबति ॥ कौशिकसूत्र ६,१{४७}.३३ ॥]
उष्णोदकमध्येऽक्षतसक्तून् प्रक्षिप्य पिबेतनालोडितानेकोच्छ्वासेन ॥

[कथं त्रींस्त्रीन् काशींस्त्रिरात्रम् ॥ कौशिकसूत्र ६,१{४७}.३४ ॥
द्वौ द्वौ त्रिरात्रम् ॥ कौशिकसूत्र ६,१{४७}.३५ ॥
एकैकं षड्रात्रम् ॥ कौशिकसूत्र ६,१{४७}.३६ ॥]
त्रींस्त्रीन्मुष्टीन् त्रिरात्रं द्वौ द्वौ द्विरात्रम् । एकैकं षड्रात्रं भुङ्क्तेऽआहुतास्यभिहुतऽ (६.१३३.२) इत्येवमादि स्मर्तव्यम् ॥

[द्वादश्याः प्रातः क्षीरौदनं भोजयित्वोच्छिष्टानुच्छिष्टं बहुमत्स्ये प्रकिरति ॥ कौशिकसूत्र ६,१{४७}.१७ ॥
सन्धावत्सु स्तृतः ॥ कौशिकसूत्र ६,१{४७}.३८ ॥]
त्रयोदशेऽहनि शय्याया उत्थायोत्तरतन्त्रं कृत्वा ब्राह्मणान् परिचारकांश्च क्षीरौदनं भोजयित्वा पात्रस्थमुच्छिष्टमेकधा कृत्वाऽद्यावापृथिवी उरुऽ इति सूक्तेनाभिमन्त्रयेत्.
तं गृहीत्वा बहुमत्स्ये गर्ते प्रक्षिपेत् । यदि ते धावन्तो दृश्यन्ते ततो द्वेष्यो मृतो जानीयात् । एकं कर्म ॥
आभिचारिकं पूर्वतन्त्रं कृत्वा “पश्चादग्नेः कर्ष्वां कूद्युपस्तीर्णायां द्वादशरात्रमपर्यावर्तमानः शयति । तत उत्थाय त्रिरह्न” इति वर्तते ॥ नद्या अनामसम्पन्नाया अश्मानं प्रास्यति प्रत्यृचम् ।ऽद्यावापृथिवी उरुऽ इति सूक्तेन त्रिकालम् । उष्णोदकसक्तूनिति समानम् ॥

[लोहितशिरसं कृकलासममून् हन्मि इति हत्वा सद्यः कार्यो भाङ्गे शयने ॥ कौशिकसूत्र ६,१{४७}.३९ ॥
लोहितालङ्कृतं कृष्णवसनमनूक्तं दहति ॥ कौशिकसूत्र ६,१{४७}.४० ॥]
ऽद्यावापृथिवीऽ इति सूक्तेन लोहितशिरसं कृकलासं शत्रोर्नामोच्चार्य मारयित्वा प्रेतवत्कृत्वाभिमन्त्र्य दहति ॥

[एकपदाभिरन्योऽनुतिष्ठति ॥ कौशिकसूत्र ६,१{४७}.४१ ॥]
ततःऽअग्ने यत्ते तपःऽ (२.१९२३) इति पञ्चभिः सूक्तैरुपतिष्ठते । अन्यः कर्ता । एकपादेनोर्ध्वस्थितः ॥

[अङ्गशः सर्वहुतमन्यम् ॥ कौशिकसूत्र ६,१{४७}.४२ ॥]
आभिचारिकं तन्त्रं कृत्वाऽद्यावापृथिवीऽ इति सूक्तेन कृकलासमष्टधा कृत्वा प्रत्यृचं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[पश्चादग्नेः शरभृष्टीर्निधायोदग्व्रजत्या स्वेदजननात् ॥ कौशिकसूत्र ६,१{४७}.४३ ॥]
अभ्यातानान्तं कृत्वा पश्चादग्नेः शरभृष्टीर्निधायोदग्व्रजत्या स्वेदजननात् ॥

[निवृत्य स्वेदालङ्कृता जुहोति ॥ कौशिकसूत्र ६,१{४७}.४४ ॥]
निवृत्य वेद्यामुपवेश्यऽद्यावापृथिवीऽ इति सूक्तेन स्वेदाक्ताः शरभृष्टीः प्रत्यृचं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[कोश उरःशिरोऽवधाय पदात्पांसून् ॥ कौशिकसूत्र ६,१{४७}.४५ ॥]
अभ्यातानान्तं कृत्वा कृकलासस्योरःशिरोऽवधाय पश्चादग्नेर्निधायोदग्व्रजत्या स्वेदजननात् । निवृत्य स्वेदेनालङ्कृत्यऽद्यावापृथिवीऽ इति सूक्तेन जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा शत्रुपादात्पांसून् गृहीत्वा पश्चादग्नेर्निधायोदग्व्रजत्या स्वेदजननात् । निवृत्य स्वेदालङ्कृतान् पांसून्ऽद्यावापृथिवीऽ इति सूक्तेन जुहोति । उत्तरतन्त्रम् ॥

[पश्चादग्नेर्लवणमृडीचीस्तिस्रोऽशीतीर्विकर्णीः शर्कराणाम् ॥ कौशिकसूत्र ६,१{४७}.४६ ॥
विषं शिरसि ॥ कौशिकसूत्र ६,१{४७}.४७ ॥
बाधकेनावागग्रेण प्रणयन्नन्वाह ॥ कौशिकसूत्र ६,१{४७}.४८ ॥
पाशे स (२.१२.२) इति कोशे ग्रन्थीनुद्ग्रथ्नाति ॥ कौशिकसूत्र ६,१{४७}.४९ ॥]
पश्चादग्नेर्लवणमृडीचीस्तिस्रोऽशीतीर्विकर्णीः शर्कराणां कृकलासशरीरेऽवधाय विषं शिरसि दत्त्वा बाधकेनावागग्रेण नीत्वाऽद्यावापृथिवीऽ इति सूक्तेनाभिमन्त्र्यऽपाशे सःऽ इति पादेन ग्रन्थीन्कोशे बध्नाति ॥

आमुम् (२.१२.४) इत्यादत्ते ॥ कौशिकसूत्र ६,१{४७}.५० ॥
मर्मणि खादिरेण स्रुवेण गर्तं खनति ॥ कौशिकसूत्र ६,१{४७}.५१ ॥
बाहुमात्रम् [अतीव यः (२.१२.६) इति शरैरवज्वालयति ॥ कौशिकसूत्र ६,१{४७}.५२ ॥]
ऽअतीव यःऽ इत्यवज्वाल्य तत्र निदधाति ॥

[अवधाय सञ्चित्य लोष्टं स्रुवेण समोप्य ॥ कौशिकसूत्र ६,१{४७}.५३ ॥]
सञ्चित्य लोष्टं मृत्तिकोपरि निदधाति ।ऽद्यावापृथिवीऽ इति सूक्तेन स्रुवेण जुहोति ॥

[अमुमुन्नैषमित्युक्तावलेखनीम् ॥ कौशिकसूत्र ६,१{४७}.५४ ॥]
ऽद्यावापृथिवीऽ इति सूक्तेनावलेखनीं हृदये विध्यत्यसितालकाण्डेन ॥

[छायां वा ॥ कौशिकसूत्र ६,१{४७}.५५ ॥]
ऽद्यावापृथिवीऽ इति सूक्तेन यष्टिना द्वेष्यस्य छायामाहन्ति ॥

[उपनिनयते ॥ कौशिकसूत्र ६,१{४७}.५६ ॥]
ऽद्यावापृथिवीऽ इति सूक्तेनोदपात्रमभिमन्त्र्य निनयति ॥

[अन्वाह ॥ कौशिकसूत्र ६,१{४७}.५७ ॥]
ऽद्यावापृथिवीऽ इति सूक्तेनान्वाह शत्रुमारणकामः ॥ षष्ठेऽध्याये प्रथमा कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ४७ ॥


[भ्रातृव्यक्षयणम् (२.१८) इत्यरण्ये सपत्नक्षयणीरादधाति ॥ कौशिकसूत्र ६,२{४८}.१ ॥]
ऽभ्रातृव्यरक्षणम्ऽ इति सूक्तेन अश्वत्थसमिध आदधाति ।ऽभ्रातृव्यक्षयणम्ऽ इति सूक्तेन बाधकसमिध आदधाति ।ऽभ्रातृव्यक्षयणम्ऽ इत्येरण्डसमिध आदधाति ।ऽभ्रातृव्यक्षयणम्ऽ इति श्लेष्मान्तकसमिध आदधाति ।ऽभ्रातृव्यक्षयणम्ऽ इति खदिरसमिध आदधाति ।ऽभ्रातृव्यक्षयणम्ऽ इति शरसमिध आदधाति । अरण्यकर्म ॥

[ग्राममेत्यावपति ॥ कौशिकसूत्र ६,२{४८}.२ ॥]
ग्राममेत्य ।ऽभ्रातृव्यक्षयणम्ऽ इति सूक्तेन कृष्णव्रीहीनावपति ।ऽभ्रातृव्यक्षयणम्ऽ इति सूक्तेन कृष्णयवानावपति ।ऽभ्रातृव्यक्षयणम्ऽ इति सूक्तेन कृष्णतिलानावपति । पुनरपिऽभ्रातृव्यक्षयणम्ऽ इति सूक्तेन व्रीहीनावपति ।ऽभ्रातृव्यक्षयणम्ऽ इति सूक्तेन यवानावपति ।ऽभ्रातृव्यक्षयणम्ऽ इति सूक्तेन तिलानावपति । एवं षडावृत्तिः सूक्तस्य ॥

[पुमान् पुंसः (३.६) इति मन्त्रोक्तमभिहुतालङ्कृतं बध्नाति ॥ कौशिकसूत्र ६,२{४८}.३ ॥]
अभ्यातानान्तं कृत्वाऽपुमान् पुंसःऽ इति सूक्तेनाभिहुतालङ्कृतमाश्वत्थमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । स्रुवाग्रे दण्डे बन्धनमभिहुतं सम्पातितं भवति ॥

[यावन्तः सपत्नास्तावतः पाशानिङ्गिडालङ्कृतान् सम्पातवतोऽनूक्तान् ससूत्रांश्चम्वा मर्मणि निखनति ॥ कौशिकसूत्र ६,२{४८}.४ ॥]
अभ्यातानान्तं कृत्वाऽपुमान् पुंसःऽ इति सूक्तेन यावन्तः सपत्नास्तावतः पाशानिङ्गिडालङ्कृतान् सम्पातवतोऽभिमन्त्र्य शत्रुमर्मणि निखनति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[नावि प्रैणान् (३.६.८) नुदस्व काम (९.२.४) इति मन्त्रोक्तं शाखया प्रणुदति ॥ कौशिकसूत्र ६,२{४८}.५ ॥]
अभ्यातानान्तं कृत्वा यावन्तः सपत्नास्तावतः पाशानिङ्गिडालङ्कृतान् सम्पातवतोऽनूक्तान् ससूत्रान् सप्तसु मर्मसुऽपुमान् पुंसःऽ इति सूक्तेन निखनति । ततोऽश्वत्थशाखयाऽप्रैणान्नुदे मनसाऽ इत्यृचाऽनुदस्व कामऽ इत्यृचा प्रणुदति । तत उत्तरतन्त्रम् ॥

[तेऽधराञ्चः (३.६.७) इति प्रप्लावयति ॥ कौशिकसूत्र ६,२{४८}.६ ॥]
अभ्यातानान्तं कृत्वा यावन्तः सपत्नास्तावतः पाशानिङ्गिडालङ्कृतान् सम्पातवतोऽनूक्तान् ससूत्रान् सम्पात्याभिमन्त्र्यऽपुमान् पुंसःऽ इति ततःऽतेऽधराञ्चःऽ इत्यृचोदके प्लावयति । अभ्यातानाद्युत्तरतन्त्रम् ॥

[बृहन्नेषाम् (४.१६) इत्यायन्तं शप्यमानमन्वाह ॥ कौशिकसूत्र ६,२{४८}.७ ॥]
ऽबृहन्नेषाम्ऽ इति सूक्तेन शत्रुं क्रोशन्तमन्वाह । मरणं भवति ॥

[वैकङ्कतेन (५.८) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ६,२{४८}.८ ॥]
बर्हिर्लवनादि कृत्वा वैकङ्कतवृक्षस्येध्मोपसमाधानम् । वैकङ्कतस्रवग्रहणम् । अभ्यातानान्तं समानम् ।ऽवैकङ्कतेनऽ इति सूक्तेन जुहोति । तत उत्तरतन्त्रम् ॥

[ददिर्हि (५.१३) इति साग्नीनि ॥ कौशिकसूत्र ६,२{४८}.९ ॥]
ऽददिर्हि मह्यम्ऽ इति सूक्तेन कृकलासकर्म । शरभृष्टिकर्म । सपत्नक्षयणीकर्माणि षट् । ग्राममेत्यावपनकर्माणि षट् । मणिकर्म । पाशकर्माणि त्रीणि । वैकङ्कतस्रुवकर्म । एकोनविंशतितन्त्राणि भवन्ति ।ऽददिर्हि मह्यम्ऽ इति सूक्तेन प्रधानमव्ययं मत्स्यादिब्राह्मणतर्पणपर्यन्तं समानम् ॥

[देशकपटु प्रक्षिणाति ॥ कौशिकसूत्र ६,२{४८}.१० ॥]
ऽददिर्हि मह्यम्ऽ इति सूक्तेन सर्पच्छत्रं चूरयति ॥

[तेऽवदन् (५.१७) इति नेतॄणां पदं वृश्चति ॥ कौशिकसूत्र ६,२{४८}.११ ॥]
ऽतेऽवदन्ऽ इति सूक्तेन नेतॄणां पदं वृश्चति । विधानेन सूक्तावृत्तिः ॥

गोहरणेऽभिचारः
[अन्वाह ॥ कौशिकसूत्र ६,२{४८}.१२ ॥]
ऽतेऽवदन्ऽ इति सूक्तेन चौरानन्वाह ॥

[ब्रह्मगवीभ्यामन्वाह ॥ कौशिकसूत्र ६,२{४८}.१३ ॥]
ऽनैतां ते देवाःऽऽअतिमात्रम्ऽ (५.१८, १९) इति सूक्ताभ्याम् ।ऽश्रमेण तपसाऽ (१२.५) इत्यनुवाकः । सदा गोहरण मारण विशसनदोहनेषु क्रियमाणेषु ब्रह्मगवीं जपति ॥

[चेष्टाम् ॥ कौशिकसूत्र ६,२{४८}.१४ ॥
विचृतति ॥ कौशिकसूत्र ६,२{४८}.१५ ॥
ऊबध्ये ॥ कौशिकसूत्र ६,२{४८}.१६ ॥
श्