Skip to content

Advocatetanmoy Law Library

Legal Database

United States Code

  • Title 1. General Provisions
  • Title 2. The Congress
  • Title 3. The President
  • Title 4. Flag and Seal, Seat of Government, and the States
  • Title 5. Government Organization and Employees
  • Title 6. Domestic Security
  • Title 7. Agriculture
  • Title 8. Aliens and Nationality
  • Title 9. Arbitration
  • Title 10. Armed Forces
  • Title 11. Bankruptcy
  • Title 12. Banks and Banking
  • Title 13. Census
  • Title 14. Coast Guard
  • Title 15. Commerce and Trade
  • Title 16. Conservation
  • Title 17. Copyrights
  • Title 18. Crimes and Criminal Procedure
  • Title 19. Customs Duties
  • Title 20. Education
  • Title 21. Food and Drugs
  • Title 22. Foreign Relations and Intercourse
  • Title 23. Highways
  • Title 24. Hospitals and Asylums
  • Title 25. Indians
  • Title 26. Internal Revenue Code
  • Title 27. Intoxicating Liquors
  • Title 28. Judiciary and Judicial Procedure
  • Title 29. Labor
  • Title 30. Mineral Lands and Mining
  • Title 31. Money and Finance
  • Title 32. National Guard
  • Title 33. Navigation and Navigable Waters
  • Title 35. Patents
  • Title 36. Patriotic and National Observances, Ceremonies, and Organizations
  • Title 37. Pay and Allowances of the Uniformed Services
  • Title 38. Veterans' Benefits
  • Title 39. Postal Service
  • Title 40. Public Buildings, Property, and Works
  • Title 41. Public Contracts
  • Title 42. The Public Health and Welfare
  • Title 43. Public Lands
  • Title 44. Public Printing and Documents
  • Title 45. Railroads
  • Title 46. Shipping
  • Title 47. Telecommunications
  • Title 48. Territories and Insular Possessions
  • Title 49. Transportation
  • Title 50. War and National Defense
  • Title 51. National and Commercial Space Programs
  • Title 52. Voting and Elections
  • Title 54. National Park Service and Related Programs

Read More

  • Home
    • About
  • UPDATES
  • Courts
  • Constitutions
  • Law Exam
  • Pleading
  • Indian Law
  • Notifications
  • Glossary
  • Account
  • Home
  • 2022
  • January
  • 14
  • हिरण्यकेशि गृह्य सूत्रम्- Hiranyakeshi Grihya Sutram
  • CIVIL

हिरण्यकेशि गृह्य सूत्रम्- Hiranyakeshi Grihya Sutram

उपनयनं व्याख्यास्यामः १ सप्तवर्षं ब्राह्मणमुपनयीत २ एकादशवर्षं राजन्यं द्वादशवर्षं वैश्यम् ३ वसन्तो ब्राह्मणं ग्रीष्मे राजन्यं शरदि वैश्यम् ४ आपूर्यमाणपक्षे पुण्ये नक्षत्रे विशेषेण पुंनामधेये ५ युग्मान्ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा ६ आशितस्य कुमारस्य केशान्वापयित्वा स्नातमलंकृतम् ७ अहतं वासः परिधाय ८ प्राचीनप्रवण उदीचीनप्रवणे प्रागुदक्प्रवणे समे वा देश उद्धत्यावोक्ष्य ९ अग्निं मथित्वा लौकिकं वाहृत्य न्युप्योपसमादधाति ९० प्रागग्रैर्दर्भैरग्निं परिस्तृणाति ११ अपि वोदगग्राः पश्चात्पुरस्ताच्च भवन्ति १२ दक्षिणानुत्तरान्करोत्युत्तरानधरान्यदि प्रागुदगग्राः १३ दक्षिणेनाग्निं ब्रह्मायतने दर्भान्संस्तीर्य १४ मयि गृह्णामि । यो नो अग्निः
1 min read
Print Friendly, PDF & Email

अथ हिरण्यकेशिगृह्यसूत्रम्

उपनयनं व्याख्यास्यामः १ सप्तवर्षं ब्राह्मणमुपनयीत २ एकादशवर्षं राजन्यं द्वादशवर्षं वैश्यम् ३ वसन्तो ब्राह्मणं ग्रीष्मे राजन्यं शरदि वैश्यम् ४ आपूर्यमाणपक्षे पुण्ये नक्षत्रे विशेषेण पुंनामधेये ५ युग्मान्ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा ६ आशितस्य कुमारस्य केशान्वापयित्वा स्नातमलंकृतम् ७ अहतं वासः परिधाय ८ प्राचीनप्रवण उदीचीनप्रवणे प्रागुदक्प्रवणे समे वा देश उद्धत्यावोक्ष्य ९ अग्निं मथित्वा लौकिकं वाहृत्य न्युप्योपसमादधाति ९० प्रागग्रैर्दर्भैरग्निं परिस्तृणाति ११ अपि वोदगग्राः पश्चात्पुरस्ताच्च भवन्ति १२ दक्षिणानुत्तरान्करोत्युत्तरानधरान्यदि प्रागुदगग्राः १३ दक्षिणेनाग्निं ब्रह्मायतने दर्भान्संस्तीर्य १४ मयि गृह्णामि । यो नो अग्निः । इति द्वाभ्यामात्मन्नग्निं गृहीत्वा १५ उत्तरेणाग्निं दर्भान्संस्तीर्य यथार्थं द्र व्याणि प्रयुनक्ति १६ अश्मानमहतं वासोजिनं मौञ्जीं मेखलां त्रिवृतां ब्राह्मणस्य ज्यां राजन्यस्यावीसूत्रं वैश्यस्य बैल्वं पालाशं वा दण्डं ब्राह्मणस्य नैय्यग्रोधं राजन्यस्यौदुम्बरं वैश्यस्य १७ एकविंशतिदारुमिध्मं संनह्यत्याहुतिपरिमाणं वा १८ तस्मिञ्छम्याः परिधीनिध्म उपसंनह्यति १९ दर्वीं कूर्चमांज्यस्थालीं प्रणीताप्रणयनं येन चार्थः २० सकृदेव सर्वाणि यथोपपदं वा २१ एतस्मिन्काले ब्रह्मा यज्ञोपवीतं कृत्वाप आचम्यापरेणाग्निं दक्षिणातिक्रम्य ब्रह्मसदनात्तृणं निरस्याप उपस्पृश्याग्निमभिमुख उपविशति २२ समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कृत्वान्येन नखाच्छित्त्वाद्भिरनुमृज्य पवित्रान्तर्हिते पात्रेप आनीयोपबिलं पूरयित्वोदगग्राभ्यां पवित्राभ्यां त्रिरुत्पूयोत्तरेणाग्निं दर्भेषु सादयित्वा दर्भैरपिदधाति २३ तिरःपवित्रं प्रोक्षणीः संस्कृत्य यथा पुरस्ताद्बिलवन्त्युत्तानानि कृत्वा विषायेध्मं त्रिः सर्वाभिः प्रोक्षति २४ दर्वीं निष्टप्य संमृज्य पुनर्निष्टप्य निदधाति २५ संमार्गानभ्युक्ष्याग्नावादधाति २६ आज्यं विलाप्य पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरूप्योदीचोङ्गारान्निरूह्य तेष्वधिश्रित्यावद्योत्य दर्भतरुणाभ्यां प्रत्यस्य त्रिः पर्यग्नि कृत्वोदगुद्वास्याङ्गारान्प्रत्यूह्योदगग्राभ्यां पवित्राभ्यां पुनराहारमाज्यं त्रिरुत्पूय पवित्रेग्नावाधाय २७ १

शम्याभिः परिदधाति १ अपरेणाग्निमुदीचीनकुम्बां मध्यमां निदधाति २ दक्षिणेनाग्निं संस्पृष्टां मध्यमया प्राचीनकुम्बाम् ३ उत्तरेणाग्निं संस्पृष्टां मध्यमया प्राचीनकुम्बाम् ४ अपरेणाग्निं प्राङ्मुख उपविशति ५ दक्षिणतो यज्ञोपवीत्याचान्तः कुमार उपविश्यान्वारभते ६ अथ परिषिञ्चति ७ अदितेनुमन्यस्व । इति दक्षिणतः प्राचीनम् ८ अनुमतेनुमन्यस्व । इति पश्चादुदीचीनम् । सरस्वतेनुमन्यस्व । इत्युत्तरतः प्राचीनम् ९ देव सवितः प्रसुव । इति सर्वतः प्रदक्षिणम् १० परिषिच्येध्ममङ्क्त्वाभ्यादधाति । अयं त इध्म आत्मा जातवेदस्तेनेध्यस्व वर्धस्व चेन्द्धि । वर्धय चास्मान्प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय । स्वाहा । इति ११ अथ दर्व्या जुहोति १२ उत्तरं परिधिसंधिमन्ववहृत्य दर्वीम् । प्रजापतये मनवे स्वाहा । इति मनसा ध्यायन्दक्षिणाप्राञ्चमृजुं दीर्घं संततं जुहोति १३ दक्षिणं परिधिसंधिमन्ववहृत्य । इन्द्रा य स्वाहा । इति प्राञ्चमुदञ्चमृजुम् १४ आघारावाघार्याज्यभागौ जुहोति १५ अग्नये स्वाहा । इत्युत्तरार्धपूर्वार्धे । सोमाय स्वाहा । इति दक्षिणार्धपूर्वार्धे १६ तावन्तरेणेतरा जुहोति १७ युक्तो वह जातवेदः पुरस्तादग्ने विद्धि कर्म क्रियमाणं यथेदम् । त्वं भिषग्भेषजस्यासि कर्ता त्वया गा अश्वान्पुरुषान्सनेम । स्वाहा । या तिरश्ची निपद्यसेहं विधरणी इति । तां त्वा घृतस्य धारयाग्नौ संराधनीं यजे । स्वाहा । संराधन्यै देव्यै स्वाहा । प्रसाधन्यै देव्यै स्वाहा । इति १८ २

सर्वदर्विहोमाणामेष कल्पः १ मन्त्रान्ते नित्यः स्वाहाकारः २ अमन्त्रासु । अमुष्मै स्वाहा । इति यथादेवतम् ३ भूः । भुवः । सुवः । इति व्याहृतिभिर्जुहोत्येकैकशः समस्ताभिश्च ४ आयुर्दा अग्ने । इत्येषा । आयुर्दा देव जरसं गृणानो घृतप्रतीको घृतपृष्ठो अग्ने । घृतं पिबन्नमृतं चारु गव्यं पितेव पुत्रं जरसे नयेमम् । स्वाहा ५ इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयास्यया सन्मनसा हितः । अया सन्हव्यमूहिषेया नो धेहि भेषजम् । स्वाहा । प्रजापते । इत्येषा ६ यदस्य कर्मणीत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत्स्विष्टकृद्विद्वान्सर्वं स्विष्टं सुहुतं करोतु मे । अग्नये स्विष्टकृते सुहुतहुते सर्वहुत आहुतीनां कामानां स मर्धयित्रे स्वाहा । इत्युत्तरार्धपूर्वार्धेसंसक्तामितराभिराहुतीभिर्जुहोति ७ अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति पुरस्तात्स्विष्टकृतः ८ चित्तं च स्वाहा । चित्तिश्च स्वाहा । इति जयाञ्जुहोति । चित्ताय स्वाहा । चित्तये स्वाहा । इति वा ९ अग्निर्भूतानामधिपतिः स मावतु । इत्यभ्यातानान् १० अस्मिन्ब्रह्मन्नस्मिन्क्षत्रे । इत्यभ्यातानेष्वनुषजति ११ पितरः पितामहाः । इति प्राचीनावीती जुहोत्युपतिष्ठते वा १२ ऋताषाडृतधामा । इति राष्ट्रभृतः । पर्यायमनुद्रुत्य । तस्मै स्वाहा । इति पूर्वामाहुतिं जुहोति । ताभ्यः स्वाहा । इत्युत्तराम् १३ अग्रेणोत्तरं परिधिसंधिमश्मानं निधाय दक्षिणेन पादेन १४ ३

कुमारमास्थापयति । आतिष्ठेममश्मानमश्मेव त्वं स्थिरो भव । प्रमृणीहि दुरस्यून्सहस्व पृतनायतः । इति १ अथैनमहतं वासः परिधापयति पूर्वं निधाय । या अकृन्तन्नवयन्या अतन्वत याश्च देवीरन्तानभितोददन्त । तास्त्वा देवीर्जरसा संव्ययन्त्वायुष्मानिदं परिधत्स्व वासः । परिधत्त धत्त वाससैनं शतायुषं कृणुत दीर्घमायुः । बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राज्ञे परिदातवा उ । जरां गच्छासि परिधत्स्व वासो भवा कृष्टीनामभिशस्तिपावा । शतं च जीव शरदः सुवर्चा रायश्च पोषमुपसंव्ययस्व । इति २ परिधाप्याभिमन्त्रयते । परीदं वासो अधिधाः स्वस्तयेभूरापीणामभिशस्तिपावा । शतं च जीव शरदः पुरूचीर्वसूनि चाय्यो विभजा स जीवन् । इति ३ अथैनं मेखलया नाभिदेशे त्रिः प्रदक्षिणं परिव्ययति । द्विरित्येके । या दुरिता परिबाधमाना शर्मवरूथे पुनती न आगात् । प्राणापानाभ्यां बलमावहन्ती स्वसा देवानां सुभगा मेखलेयम् । इति ४ उत्तरतो नाभेस्त्रिवृतं ग्रन्थिं कृत्वा दक्षिणतो नाभेः परिकर्षति ५ अथास्मा अजिनमुत्तरीयं करोति । मित्रस्य चक्षुर्धरुणं धरीयस्तेजोयशस्वि स्थविरं समिद्धम् । अनाहनस्यं वसनं जरिष्णु परीदं वाज्यजिनं धत्स्वासौ । अदितिस्ते कक्षां बध्नातु वेदस्यानुवक्तवै मेधायै श्रद्धाया अनूक्तस्यानिराकरणाय ब्रह्मणे ब्रह्मवर्चसाय । इति ६ कृष्णाजिनं ब्राह्मणस्य रौरवं राजन्यस्य बस्ताजिनं वैश्यस्य ७ अथैनं परिददाति । परीममिन्द्र ब्रह्मणे महे श्रोत्राय दध्मसि । अथैनं जरिमा णयेज्ज्योक्श्रोत्रे अधिजागरत् । इति ब्राह्मणम् । परीममिन्द्र ब्रह्मणे महे राष्ट्राय दध्मसि । अथैनं जरिमा णयेज्ज्योग्राष्ट्रे अधिजागरत् । इति राजन्यम् । परीममिन्द्र ब्रह्मणे महे पोषाय दध्मसि । अथैनं जरिमा णयेज्ज्योक्पोषे अधिजागरत् । इति वैश्यम् ८ तमपरेणाग्निमुदञ्चमुपवेश्य हुतोच्छेषणं प्राशयति । त्वयि मेधां त्वयि प्रजाम् । इत्येतैः संनतैः ९ पृषदाज्यमेके प्राशयन्ति १० योगे योगे तवस्तरम् । इममग्न आयुषे वर्चसे कृधि । इति द्वाभ्यां प्राश्नन्तं समीक्षते ११ प्राशयन्त्येके १२ आचान्तमुपस्पर्शयित्वाभिमन्त्रयते । शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः । इति १३ ४ प्रथमः पटलः

आगन्त्रा समगन्महि प्र स मृत्युं युयोतन । अरिष्टाः संचरेमहि स्वस्ति चरतादिह । स्वस्त्या गृहेभ्यः । इति प्रदक्षिणमग्निं परिक्रामन्तमभिमन्त्रयते १ अथैनमभिव्याहारयति । ब्रह्मचर्यमागामुप मा नयस्व ब्रह्मचारी भवानि देवेन सवित्रा प्रसूतः । इति २ तं पृच्छति ३ को नामासि । इति ४ असौ । इत्याचष्टे यथानामा भवति ५ स्वस्ति देव सवितरहमनेनामुनोदृचमशीय । इति नामनी गृह्णाति ६ शं नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभिस्रवन्तु नः । इति मार्जयेते ७ अथास्य दक्षिणेन हस्तेन दक्षिणमंसमन्वारभ्य सव्येन सव्यं व्याहृतिभिः सावित्र्येति दक्षिणं बाहुमभ्यात्मन्नुपनयते । देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामुपनयेसौ । इति च ८ अथास्य दक्षिणेन हस्तेन दक्षिणं हस्तं साङ्गुष्ठं गृह्णाति । अग्निष्टे हस्तमग्रभीत्सोमस्ते हस्तमग्रभीत्सविता ते हस्तमग्रमीत्सरस्वती ते हस्तमग्रभीत्पूषा ते हस्तमग्रभीद्बृहस्पतिस्ते हस्तमग्रभीन्मित्रस्ते हस्तमग्रभीद्वरुणस्ते हस्तमग्रभीत्त्वष्टा ते हस्तमग्रभीद्धाता ते हस्तमग्रभीद्विष्णुस्ते हस्तमग्रभीत्प्रजापतिस्ते हस्तमग्रभीत् । इति ९ सविता त्वाभिरक्षतु मित्रस्त्वमसि धर्मणा । अग्निराचार्यस्तव । देवेन सवित्रा प्रसूतो बृहस्पतेर्ब्रह्मचारी भवासावपोशानः समिध आधेहि कर्म कुरु मा दिवा स्वाप्सीः । इत्येनं संशास्ति १० अथास्य दक्षिणेन हस्तेन दक्षिणमंसमुपर्युपर्यन्ववमृश्य हृदयदेशमभिमृशति । मम हृदये हृदयं ते अस्तु मम चित्तं चित्तेनान्वेहि । मम वाचमेकमना जुषस्व बृहस्पतिस्त्वा नियुनक्तु मह्यम् । मामेवानुसंरभस्व मयि चित्तानि सन्तु ते । मयि सामीच्यमस्तु ते मह्यं वाचं नियच्छतात् । इति ११ प्राणानां ग्रन्थिरसि स मा विस्रसः । इति नाभिदेशम् १२ भूर्भुवः सुवः सुप्रजाः प्रजया भूयासं सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैः सुमेधा मेधया सुब्रह्मा ब्रह्मचारिभिः । इत्येनमभिमन्त्र्य । भूरृक्षु त्वाग्नौ पृथिव्यां वाचि ब्रह्मणि ददेसौ । भुवो यजुःषु त्वा वायावन्तरिक्षे प्राणे ब्रह्मणि ददेसौ । सुवः सामसु त्वा सूर्ये दिवि चक्षुषि ब्रह्मणि ददेसौ । इष्टस्ते प्रियोसान्यसावनलस्य ते प्रियोसान्यसौ । इदं वत्स्यावः प्राण आयुषि वत्स्यावः प्राण आयुषि वसासौ । इति च १३ अथास्य दक्षिणेन हस्तेन दक्षिणं हस्तं साङ्गुष्ठं गृह्णाति । अग्निरायुष्मान् । इति पञ्चभिः पर्यायैः १४ आयुष्टे विश्वतो दधत् । इति १५ ५

दक्षिणे कर्णे जपति १ आयुर्दा अग्ने । इत्युत्तरे २ अग्नौ पृथिव्यां प्रतितिष्ठ वायावन्तरिक्षे सूर्ये दिवि । यां स्वस्तिमग्निर्वायुरादित्यश्चन्द्र मा आपोनुसंचरन्ति तां स्वस्तिमनुसंचरासौ । प्राणस्य ब्रह्मचार्यभूरसौ । इत्युभयत्रानुषजति ३ मेधां त इन्द्रो ददातु मेधां देवी सरस्वती । मेधां ते अश्विनावुभावाधत्तां पुष्करस्रजौ । इति तस्य मुखेन मुखं संनिधाय जपति ४ अथैनं परिददाति । कषकाय त्वा परिददाम्यन्तकाय त्वा परिददाम्यघोराय त्वा परिददामि गदाय त्वा परिददामि यमाय त्वा परिददामि मखाय त्वा परिददामि वशिन्यै त्वा परिददामि पृथिव्यै त्वा सवैश्वानरायै परिददाम्यद्भ्यस्त्वा परिददाम्योषधीभ्यस्त्वा परिददामि वनस्पतिभ्यस्त्वा परिददामि द्यावापृथिवीभ्यां त्वा परिददामि सुभूताय त्वा परिददामि ब्रह्मवर्चसाय त्वा परिददामि विश्वेभ्यस्त्वा देवेभ्यः परिददामि सर्वेभ्यस्त्वा भूतेभ्यः परिददामि सर्वाभ्यस्त्वा देवताभ्यः परिददामि । इति ५ अत्र सावित्रीं वाचयति यदि पुरस्तादुपेतो भवति ६ यद्यनुपेतस्त्र्यहे पर्यवेते ७ सद्यः पुष्करसादिः ८ अपरेणाग्निमुदगग्रं कूर्चं निधाय तस्मिन्प्राङ्मुख उपविशति । राष्ट्रभृदस्याचार्यासन्दी मा त्वद्योषम् । इति ९ आदित्यायाञ्जलिं कृत्वाचार्यायोपसंगृह्य दक्षिणतः कुमार उपविश्य । अधीहि भो । इत्युत्त्काथाह । सावित्रीं भो अनुब्रूहि । इति १० गणानां त्वा गणपतिं हवामहे । इत्येनमभिमन्त्र्याथास्मै पच्छोग्रेन्वाहाथार्धर्चशोथ संतताम् । भूस्तत्सवितुर्वरेण्यम् । भुवो भर्गो देवस्य धीमहि । सुवर्धियो यो नः प्रचोदयात् । भूर्भुवस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । सुवर्धियो यो नः प्रचोदयात् । भूर्भुवः सुवस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् । इति ११ ६

अथ सप्त पालाशीः समिध आर्द्राअप्रच्छिन्नाग्राः प्रादेशमात्रीर्घृतान्वक्ता आभ्याधापयति १ अग्नये समिधमाहार्षं बृहते जातवेदसे । यथा त्वमग्ने समिधा समिध्यस एवं मां मेधया प्रज्ञया प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा । इत्येकाम् २ अग्नये समिधौ । इति द्वे ३ अग्नये समिधः । इति चतस्रः ४ अथ परिषिञ्चति यथा पुरस्तात् ५ अन्वमंस्थाः । प्रासावीः । इति मन्त्रान्तान्संनमति ६ अथ देवता उपतिष्ठते ७ अग्ने व्रतपते व्रतं चरिष्यामि । इत्यग्निम् । वायो व्रतपते । इति वायुम् । आदित्य व्रतपते । इत्यादित्यम् । व्रतानां व्रतपते । इति व्रतपतिम् ८ अत्र गुरवे वरं ददाति ९ उदायुषा । इत्युत्थाप्य । सूर्यैष ते पुत्रस्तं ते परिददामि । इति परिदाय । तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् । पश्येम शरदः शतं जीवेम शरदः शतम् । नन्दाम शरदः शतं मोदाम शरदः शतम् । भवाम शरदः शतं शृणवाम शरदः शतम् । प्रब्रवाम शरदः शतमजिताः स्याम शरदः शतम् । ज्योक् च सूर्यं दृशे । इत्यादित्यमुपतिष्ठते १० अग्निष्ट आयुः प्रतरां कृणोत्वग्निष्टे पुष्टिं प्रतरां दधातु । इन्द्रो मरुद्भिरिह ते दधात्वादित्यस्ते वसुभिरादधातु । इति दण्डं प्रदायामत्रं प्रयच्छति ११ अथाह । भिक्षाचर्यं चर । इति १२ स मातरमेवाग्रे भिक्षेत १३ अतोन्येषु रातिकुलेषु १४ आहृत्य । भैक्षम् । इति गुरवे प्राह १५ तत्सुभैक्षम् । इत्युक्त्वा १६ यस्य ते प्रथमवास्यं हरामस्तं त्वा विश्वे अवन्तु देवाः । तं त्वा भ्रातरः सुहृदो वर्धमानमनुजायन्तां बहवः सुजातम् । इति प्रथमवास्यमस्यादत्ते १७ उपस्थितेन्न ओदनस्यापूपानां सक्तूनामिति समवदाय सर्पिर्मिश्रस्य जुहोति । अग्नये स्वाहा । सोमाय स्वाहा । अग्नयेन्नादाय स्वाहा । अग्नयेन्नपतये स्वाहा । प्रजापतये स्वाहा । विश्वेभ्यो देवेभ्यः स्वाहा । सर्वाभ्यो देवताभ्यः स्वाहा । अग्नये स्विष्टकृते स्वाहा । इति १८ सर्वत्रैवमनादिष्टदेवते १९ अमुष्मै स्वाहा । इति यथादेवतमादिष्टदेवते २० एतेषामेवान्नानां समवदाय प्रागग्रेषु दर्भेषु बलिं करोति । वास्तुपतये स्वाहा । इति २१ त्रिवृतान्नेन ब्राह्मणान्परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा २२ ७

त्र्यहव्रतं चरति १ अक्षारमलवणमशमीधान्यं भुञ्जानोधःशाय्यमृन्मयपाय्यशूद्रो च्छिष्ट्यमधुमांसाश्यदिवास्वाप्युभौ कालौ भिक्षाचर्यमुदकुम्भमित्याहरन्नहरहः काष्ठकलापमुभौ कालौ सायं सायं वा समिधोभ्यादधाति २ पुरस्तात्परिषेचनात् । यथा ह तद्वसवो गौर्यम् । इति प्रदक्षिणमग्निं परिमृज्य परिषिञ्चति यथा पुरस्तात् ३ व्याहृतिभिः समिधोभ्यादधात्येकैकशः समस्ताभिश्च । एषा ते अग्ने समित्तया वर्धस्व चा च प्यायस्व । वर्धिषीमहि च वयमा च प्यासिषीमहि । स्वाहा । मेधां म इन्द्रो ददातु मेधां देवी सरस्वती । मेधां मे अश्विनावुभावाधत्तां पुष्करस्रजौ । स्वाहा । अप्सरासु च या मेधा गन्धर्वेषु च यन्मनः । दैवीं मेधा मनुष्यजा सा मां मेधा सुरभिर्जुषताम् । स्वाहा । आ मां मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगती जगम्या । ऊर्जस्वती पयसा पिन्वमाना सा मां मेधा सुप्रतीका जुषताम् । स्वाहा । इति ४ तथैव परिमृज्य परिषिञ्चति यथा पुरस्तात् ५ यत्ते अग्ने तेजस्तेनाहम् । इत्येतैर्मन्त्रैरुपतिष्ठते । मयि मेधां मयि प्रजाम् । इति च ६ त्र्यहे पर्यवेते तथैव त्रिवृतान्नेन ब्राह्मणान्परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा व्रतं विसृजते । अग्ने व्रतपते व्रतमचारिषम् । इत्येतैः संनतैः ७ एतद्व्रत एवात ऊर्ध्वम् ८ आचार्यकुलवास्यश्नाति क्षारं लवणं शमीधान्यमिति ९ दण्डी जटी मेखली १० शिखाजटो वा स्यात् ११ काषायमजिनं वा वस्ते १२ न स्त्रियमुपैति १३ अष्टाचत्वारिंशद्वर्षाणि चतुर्विंशतिं द्वादश यावद्ग्रहणं वा १४ न त्वेवाव्रतः स्यात् १५ काण्डोपाकरणे काण्डविसर्गे च । सदसस्पतिमद्भुतं प्रियमिन्द्र स्य काम्यम् । सनिं मेधामयासिषम् । स्वाहा । इति काण्डर्षिर्द्वितीयः । इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयासि । प्रजापते । यदस्य कर्मणोत्यरीरिचम् । इति च । अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् १६ ८ द्वितीयः पटलः

अधीत्य वेदं स्नानम् १ तद्व्याख्यास्यामः २ उदगयन आपूर्यमाणपक्षे रोहिण्यां मृगशिरसि तिष्य उत्तरयोः फल्गुन्योर्हस्ते चित्रायां विशाखयोर्वैतेषु स्नायात् ३ यत्रापस्तद्गत्वाग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा पालाशीं समिधमादधाति । इमं स्तोममर्हते जातवेदसे स्थमिव संमहेमा मनीषया । भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव । स्वाहा । इति ४ अथ व्याहृतिभिर्जुहोति यथा पुरस्तात् ५ त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम् । यद्देवानां त्र्यायुषं तन्मे अस्तु त्र्यायुषम् । स्वाहा ६ इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयासि । प्रजापते । यदस्य कर्मणोत्यरीरिचम् । इति च । अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् ७ ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा व्रतं विसृजते । अग्ने व्रतपते व्रतमचारिषम् । इत्येतैः ८ व्रतं विसृज्य । उदु त्यम् । चित्रम् । इति द्वाभ्यामादित्यमुपतिष्ठते ९ उदुत्तमं वरुण पाशमस्मत् । इत्युत्तरीयं ब्रह्मचारिवासो निधायान्यत्यरिधाय । अवाधमम् । इत्यन्तरीयम् । वि मध्यमम् । इति मेखलाम् । अथा वयमादित्य व्रते । इति दण्डम् । मेखलां दण्डं कृष्णाजिनं चाप्सु प्रवेश्यापरेणाग्निं प्राङ्मुख उपविश्य क्षुरं संमृशति । क्षुरो नामासि स्वधितिस्ते पिता नमस्ते अस्तु मा मा हिंसीः । इति १० वप्त्रे प्रदायोन्दनीया अपोभिमृशति । शिवा नो भवथ संस्पृशे । इति ११ आप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चसे । इति दक्षिणं गोदानमुनत्ति १२ ओषधे त्रायस्वैनम् । इत्यूर्ध्वाग्रामोषधिमन्तर्दधाति १३ स्वधिते मैनं हिंसीः । इति क्षुरेणाभिनिदधाति १४ देवश्रूरेतानि प्रवपे । इति प्रवपति १५ यत्क्षुरेण मर्चयता सुपेशसा वप्तर्वपसि केशश्मश्रु । वर्चया मुखं मा न आयुः प्रमोषीः । इति वप्तारं समीक्षते १६ श्मश्रूण्यग्रे वापयतेत्थोपपक्षावथ केशानथ लोमान्यथ नखानि १७ आनडुहे शकृत्पिण्डे संयम्य केशश्मश्रुलोमनखानि । इदमहममुष्यामुष्यायणस्य पाप्मानमवगूहामि । इति गोष्ठ उदुम्बरे दर्भस्तम्बे वा निखनति योस्य रातिर्भवति १८ स्नायनीयेनोत्साद्यौदुम्बरेण दन्तान्प्रक्षालयते १९ ९

अन्नाद्याय व्यूहध्वं दीर्घायुत्वाय व्यूहध्वं ब्रह्मवर्चसाय व्यूहध्वं दीर्घायुरहमन्नादो ब्रह्मवर्चसी भूयासमिति १ अथोष्णशीताभिरद्भिः स्नापयति । आपो हि ष्ठा मयोभुवः । इति तिसृभिः । हिरण्यवर्णाः शुचयः पावकाः । इति चतसृभिः । पवमानः सुवर्जनः । इति चैतेनानुवाकेन २ गोष्ठे वावच्छाद्य संपरिश्रित्य पुरोदयमादित्यस्य प्रविशति । अत्र सर्वं क्रियते । नैनमेतदहरादित्योभितपतीत्येकेषाम् । स्नातानां वा एष तेजसा तपति य एष तपति तस्मात्स्नातकस्य मुखं रेफायतीव ३ आहरन्त्यस्मै सर्वसुरभि चन्दनं वा पिष्टम् । तदभ्युक्ष्य । नमो ग्रहाय चाभिग्रहाय च नमः शाकजञ्जभाभ्यां नमस्ताभ्यो देवताभ्यो या अभिग्राहिणीः । इति देवेभ्यः प्राचीनमञ्जलिं कृत्वा तेनानुलिम्पते । अप्सरासु च यो गन्धो गन्धर्वेषु च यद्यशः । दैव्यो यो मानुषो गन्धः स मामाविशतादिह । इति ४ आहरन्त्यस्मा अहते वाससी । ते अभ्युक्ष्य । सोमस्य तनूरसि तनुवं मे पाहि । स्वा मा तनूराविश शिवा मा तनूराविश । इत्यन्तरीयं वासः परिधायाप उपस्पृश्य तथैवोत्तरीयमपरेणाग्निं प्राङ्मुख उपविशति ५ आहरन्त्यस्मै कुण्डले चान्दनमणिं बादरं वा सुवर्णाभिच्छादनम् । तदुभयं दर्भेण प्रबध्योपर्यग्नौ धारयन्नभिजुहोति । आयुष्यं वर्चस्यं रायस्पोषमौद्भिदम् । इदं हिरण्यमायुषे वर्चसे जैत्र्यायाविशतां माम् । स्वाहा । उच्चैर्वाजि पृतनासाहं सभासाहं धनंजयम् । सर्वाः समग्रा ऋद्धयो हिरण्येस्मिन्समाभृताः । स्वाहा । शुनमहं हिरण्यस्य पितुरिव नामाग्रभिषम् । तं मा हिरण्यवर्चसं करोतु पूरुषु प्रियम् । ब्रह्मवर्चसिनं मा करोतु स्वाहा । प्रियं मा कुरु देवेषु प्रियं मा ब्रह्मणि कुरु । प्रियं विश्येषु शूद्रे षु प्रियं मा कुरु राजसु । स्वाहा । इयमोषधे त्रायमाणा सहमाना सहस्वती । सा मा हिरण्यवर्चसं करोतु पूरुषु प्रियम् । ब्रह्मवर्चसिनं मा करोतु स्वाहा । इति ६ एतैरेव पञ्चभिरस्वाहाकारैस्त्रिः प्रदक्षिणमुदपात्रेनुपरिप्लाव्य ७ १०

विराजं च स्वराजं चाभिष्टीर्या च नो गृहे । लक्ष्मी राष्ट्रस्य या मुखे तया मा संसृजामसि । इति कुण्डले प्रतिहरते दक्षिणे कर्णे दक्षिणं सव्ये सव्यम् १ ऋतुभिष्ट्वार्तवैरायुषे वर्चसे । संवत्सरस्य धायसा तेन सन्ननुगृह्णासि । इति कुण्डले संगृह्णीते २ इयमोषधे त्रायमाणा सहमाना सहस्वती । सा मा हिरण्यवर्चसं करोतु पूरुषु प्रियम् । ब्रह्मवर्चसिनं मा करोत्वपाशोसि । इति ग्रीवायां मणिं प्रतिमुञ्चते ३ शुभिके शुभमारोह शोभयन्ती मुखं मम । मुखं च मम शोभय भूयांसं च भगं कुरु । यामाहरज्जमदग्निः श्रद्धायै कामायास्यै । इमां तां प्रतिमुञ्चेहं भगेन सह वर्चसा । इति द्वाभ्यां स्रजं प्रतिमुञ्चते ४ यदाञ्जनं त्रैककुदं जातं हिमवत उपरि । तेन वामाञ्जेहं भगेन सह वर्चसा । मयि पर्वतपूरुषम् । इति त्रैककुदेनाञ्जनेनाङ्क्ते तस्मिन्नविद्यमाने येनैव केनचित् ५ यन्मे मनः परागतम् । इत्यादर्शेवेक्षते ६ देवस्य त्वा । इति वैणवं दण्डं प्रतिगृह्य । इन्द्र स्य वज्रोस्यश्विनौ मा पातम् । इति त्रिरूर्ध्वमुन्मार्ष्टि ७ वेग वेजयास्मद्द्विषतस्तस्करान्सरीसृपाञ्छ्वापदान्रक्षांसि पिशाचान्पौरुषेयाद्भयान्नो दण्ड रक्ष विश्वस्माद्भयाद्र क्ष सर्वतो जहि तस्करान् । अनग्नः सर्ववृक्षेषु जायसे त्वं सपत्नहा । जहि शत्रुगणान्सर्वान्समन्तं मघवानिव । इति त्रिः प्रदक्षिणमुपर्युपरि शिरः प्रतिहरते ८ प्रतिष्ठे स्थो देवते मा मा संताप्तम् । इत्युपानहावध्यवरोहति ९ प्रजापतेः शरणमसि ब्रह्मणश्छदिः । इति च्छत्त्रं प्रतिगृह्णाति १० यो मे दण्डः परापतद्विहायसोधि भूम्याम् । इमं तं पुनराददेयमायुषे च बलाय च । इति दण्डं पुनरादत्ते यद्यस्य हस्तात्पतति ११ ११ तृतीयः पटलः

आनयन्त्यस्मै रथमश्वं हस्तिनं वा १ रथंतरमसि वामदेव्यमसि बृहदसि । अङ्कौ न्यङ्कावभितः । इत्येषा अयं वामश्विना रथो मा दुःखे मा सुखे रिषत् अरिष्टः स्वस्ति गच्छतु विविघ्नन्नभिदासतः इह धृतिरिह विधृतिरिह रम इह रमताम् । इति रथमातिष्ठते यदि रथेन प्रविशति २ अश्वोसि हयोसि मयोसि । इत्येकादशभिरश्वनामभिरश्वं यद्यश्वेन ३ इन्द्र स्य त्वा वज्रेणाभ्युपविशामि वह कालं वह श्रियं माभिवह हस्त्यसि हस्तियशसमसि हस्तिवर्चसमसि हस्तियशसिहस्तिवर्चसी भूयासम् । इति हस्तिनं यदि तेन ४ तद्गच्छति यत्रास्मा अपचितिं करिष्यन्तो भवन्ति ५ संस्रवन्तु दिशो मयि समागच्छन्तु सूनृताः । सर्वे कामा अभियन्तु नः प्रिया अभिस्रवन्तु नः प्रियाः । इति दिश उपतिष्ठते ६ यशोसि यशोहं त्वयि भूयासम् । इति योस्यापचितिं करिष्यन्भवति तमभ्यागच्छन्समीक्षते ७ अथास्मा आवसथं कल्पयित्वा । अर्घः । इति प्राह ८ कुरुत । इति प्रत्याह ९ कुर्वन्त्यस्मै त्रिवृतं पाङ्क्तं वा १० दधि मधु घृतमिति त्रिवृत् ११ दधि मधु घृतमापः सक्तव इति पाङ्क्तः १२ कंसे दध्यानीय मध्वानयति १३ ह्रसीयस्यानीय कर्षीयसापिधायानूचीनानि पृथगादापयति कूर्चं पाद्यमर्घ्यमाचमनीयं मधुपर्क इति १४ अन्वङ्ङनुसंवृजिना सोनुपकिंचया वाचैकैकं प्राह १५ कूर्चः । इति कूर्चम् १६ तस्मिन्प्राङ्मुख उपविशति । राष्ट्रभृदस्याचार्यासन्दी मा त्वद्योषम् । इति १७ अथास्मै । पाद्यम् । इति प्राह १८ तेनास्य शूद्रः शूद्रा वा पादौ प्रक्षालयति सव्यमग्रे ब्राह्मणस्य दक्षिणमितरयोः १९ १२

विराजो दोहोसि । मयि दोहः पद्यायै विराजः । इति योस्य पादौ प्रक्षालयति तस्य हस्तावभिमृश्यात्मानं प्रत्यभिमृशति । मयि तेज इन्द्रि यं वीर्यमायुः कीर्तिर्वर्चो यशो बलम् । इति १ अथास्मै । अर्घ्यम् । इति प्राह २ तत्प्रतिगृह्णाति । आ मागन्यशसा संसृज तेजसा वर्चसा पयसा च । तं मा कुरु प्रियं प्रजानामधिपतिं पशूनाम् । इति ३ समुद्रं वः प्रहिणोम्यक्षिताः स्वां योनिमपिगच्छत । अच्छिद्रः प्रजया भूयासं मा परासेचि मत्पयः । इति शेषं निनीयमानमनुमन्त्रयते ४ अथास्मै । आचमनीयम् । इति प्राह ५ अमृतोपस्तरणमसि । इत्यप आचामति ६ अथास्मै । मधुपर्कः । इति प्राह ७ तं सावित्रेणोभाभ्यां हस्ताभ्यां प्रतिगृह्य । पृथिव्यास्त्वा नाभौ सादयामीडायाः पदे । इति पृथिव्यां प्रतिष्ठाप्य । यन्मधुनो मधव्यं परममन्नाद्यं रूपम् । तेनाहं मधुनो मधव्येन परमेण रूपेण परमो मधव्योन्नादो भूयासम् । इत्यङ्गुष्ठेनोपमध्यमया चाङ्गुल्या त्रिः प्रदक्षिणं संयुज्य । तेजसे त्वा श्रियै यशसे बलायान्नाद्याय प्राश्नामि । इति त्रिः प्राश्य योस्य रातिर्भवति तस्मा उच्छिष्टं प्रयच्छति ८ सर्वं वा प्राश्य । अमृतापिधानमसि । इत्यप आचामति ९ अथास्मै । गौः । इति प्राह १० तस्याः कर्मोत्सर्गो वा ११ गौर्धेनुर्भव्या माता रुद्रा णां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः । प्र णु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट । पिबतूदकं तृणान्यत्तु । ओमुत्सृजत । इत्युत्सर्गे संशास्ति १२ गौरस्यपहतपाप्माप पाप्मानं जहि मम चामुष्य च हतं मे द्विषन्तं हतो मे द्विषन् । कुरुत । इति द्रि यमाणायाम् १३ उत्सर्गेन्येन मांसेनान्नं संस्कृत्याथास्मै । भूतम् । इति प्राह १४ तत्सुभूतं विराडन्नं तन्मा क्षायि तन्मेशीय तन्म ऊर्जं धास्तत्सुभूतम् । इत्युत्त्काथाह । ब्राह्मणान्भोजयत । इति १५ तेष्वस्मै भुक्तवत्स्वनुसंवृजिनमन्नमाहारयति १६ तत्प्रतिगृह्णाति । द्यौस्ते ददातु पृथिवी प्रतिगृह्णातु पृथिवी ते ददातु प्राणः प्रतिगृह्णातु प्राणस्त्वाश्नातु प्राणः पिबतु । इति १७ इन्द्रा ग्नी मे वर्चः कृणुताम् । इति यावत्कामं प्राश्य योस्य रातिर्भवति तस्मा उच्छिष्टं प्रयच्छति १८ यं कामयेत न विच्छिद्येतेति । यस्मिन्भूतं च भव्यं च सर्वे लोका इह श्रिताः । तेन त्वाहं प्रतिगृह्णामि त्वामहं ब्रह्मणा त्वा मह्यं प्रतिगृह्णाम्यसौ । इत्याचम्य १९ १३

भुक्तवतो दक्षिणं हस्तं गृह्णीयात् १ यममात्यमन्तेवासिनं प्रेष्यं वा कामयेत ध्रुवो मेनपायी स्यादिति स पूर्वाह्णे स्नातः प्रयतवस्त्रोहःक्षान्तो ब्राह्मणसंभाषो निशायां तस्यावसथं गत्वा जीवशृङ्गे प्रस्राव्य त्रिः प्रदक्षिणमावसथं परिषिञ्चन्परिक्रामेत् । परि त्वा गिरेरिह परि भ्रातुः परि ष्वसु । परि सर्वेभ्यो ज्ञातिभ्यः परिषीदः क्लेष्यसि । शश्वत्परिकुपिलेन संक्रामेणाविच्छिदा । ऊलेन परिमीढोसि परिमीढोस्यूलेन । इति २ अनिगुप्ते जीवशृङ्गं निदधाति ३ यस्मा अमात्या अन्तेवासिनः प्रेष्या वोद्द्रवेयुस्तान्परिक्रोशेत् । अनुपौह्वदनुपह्वयेन्निवर्तो यो न्यवीवृधः । ऐन्द्रो वः परिक्रोशः परिक्रोशतु सर्वदा । यदिति मामतिमन्यध्वं मायादेवा अवतरन् । इन्द्रः पाशेन वः सिक्त्वा मह्यं पुनरुदाजतु । इति ४ सोथ स्वागारं प्रविश्य सैध्रकीं समिधमाधाय । अ वर्तन वर्तय । इत्याकर्षणेन जुहोति ५ अथातो दारगुप्तिम् ६ स्थूरा दृढा जारी चूर्णानि कारयित्वा सुप्तायै योनिमुपवपेत् । इन्द्रा ययास्य शेफमलीकमन्येभ्यः पुरुषेभ्योन्यत्र मत् । इति ७ अथातः पण्यसिद्धिः ८ पण्यस्यापादाय जुहोति ९ १४

यद्वो देवाः प्रपणं चराम देवा धनेन धनमिच्छमानाः । तस्मिन्सोमो रुचमादधात्वग्निरिन्द्रो बृहस्पतिरीशानश्च । स्वाहा । इति १ अथातः क्रोधविनयनम् २ या त एषा रराट्या तनूर्मन्योर्मृद्धस्य नाशिनी तां देवा ब्रह्मचारिणो विनयन्तु सुमेधसः । यत्त एतन्मुखे मतं रराटमुदिव विध्यसि । अव द्यामिव धन्विनो हृदो मन्युं तनोमि ते । अहर्द्यौश्च पृथिवी च विधे क्रोधं नयामसि । गर्भमश्वतर्या इव । इति क्रुद्धमभिमन्त्रयते ३ अथातः संवादाभिजयनम् ४ निशायामन्तरागारेग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा कणैराज्यमिश्रैर्जुहोति । अवजिह्व निजिह्विकाव त्वा हविषा यजे । यथाहमुत्तरो वदाम्यधरो वदसौ वदा । स्वाहा । इति ५ अथैनं संनिधावभिजपति । आ ते वाचमास्याददे मनस्यां हृदयादधि । अङ्गादङ्गात्ते वाचमाददे यत्र यत्र निहिता वाक्तां त आददे । रुद्र नीलशिखण्ड वीर कर्मणि कर्मणि । इमं मे प्रतिसंवादिनं वृक्षमिवाशनिना जहि । अधो वदाधरो वदाधस्ताद्भूम्या वद । अधोप्रतिरिव कूटेन निजस्य निहितो मया । तत्सत्यं यदहं ब्रवीम्यधरो मत्पद्यस्वासौ । इति ६ हिरण्यबाहुः सुभगा जिताक्ष्यलंकृता मध्ये । देवानामासीनार्थं मह्यमवोचत्स्वाहा । इति सभामालभ्य जपति ७ मम परे ममापरे ममेयं पृथिवी मही । ममाग्निश्चेन्द्र श्च दिव्यमर्थमसाधयन्निव । इति परिषदमभिवीक्षतेभ्येव जपति ८ १५ चतुर्थः पटलः

दर्शे चन्द्र मसं दृष्ट्वाप आचम्यापो धारयमाणः । आ प्यायस्व । सं ते । नवो नवो भवति जायमानः । यमादित्या अंशुमाप्याययन्ति । इति चतसृभिरुपतिष्ठते १ मयि दक्षक्रतू । इति जञ्जभ्यमानो जपति २ सिगसि नसि वज्रो नमस्ते अस्तु मा मा हिंसीः । इति सिचाधिक्षिप्तो जपति ३ तस्य तन्तुमाच्छिद्य मुखवातेन प्रध्वंसयेत् ४ ये पक्षिणः पतयन्ति बिभ्यतो निरृतैः सह । ते मा शिवेन शग्मेन तेजसोन्दन्तु वर्चसा । इति वयसाधिक्षिप्तो जपति तदन्येन हस्तात्प्रमृज्याद्भिः प्रक्षालयीत ५ दिवो नु मा बृहतो अन्तरिक्षादपां स्तोको अभ्यपतच्छिवाय । समिन्द्रि येण मनसाहमागां ब्रह्मणा गुप्तः सुकृता कृतेन । जपेद्यद्येनमविज्ञातोपां स्तोकोभिच्छादयेत् ६ यदि वृक्षाग्रादभ्यपतत्फलं यद्वान्तरिक्षात्तदु वायुरेव । यत्रा वृक्षस्तनुवै यत्र वास आपो बाधन्तां निरृतिं पराचैः । इति जपेद्यद्येनमविज्ञातं फलमभिपतेत् ७ नमः पथिषदे वातेषवे रुद्रा य नमो रुद्रा य पथिषदे । इति चतुष्पथमवक्रम्य जपति ८ नमः पशुषदे वातेषवे रुद्रा य नमो रुद्रा य पशुषदे । इति शकृद्धतौ ९ नमः सर्पसदे वातेषवे रुद्रा य नमो रुद्रा य सर्पसदे । इति सर्पसृप्ते १० नमोन्तरिक्षसदे वातेषवे रुद्रा य नमो रुद्रा यान्तरिक्षसदे । इति जपेद्यद्येनं संवर्तवात आगच्छेत् ११ नमोप्सुषदे वातेषवे रुद्रा य नमो रुद्रा याप्सुषदे । इति नदीमुदन्वतीमवगाह्य जपति १२ नमस्तत्सदे वातेषवे रुद्रा य नमो रुद्रा य तत्सदे । इति चित्रं देशं देवयजनं वनस्पतिं वाक्रम्य जपति १३ सूर्याभ्युदितोहनि नाश्नीयाद्वाग्यतोहस्तिष्ठेत् १४ सूर्याभिनिम्रुक्तो रात्रावेवम् १५ न यूपमुपस्पृशेत् । यद्युपस्पृशेद्दुरिष्टं यज्ञस्य प्रतिमुञ्चीत । यद्येकमुपस्पृशेत् । एष ते वायो । इति ब्रूयाद्यदि द्वौ । एतौ ते वायू । इति यदि बहून् । एते ते वायवः । इति १६ अनिहूतं परिहूतं परिष्टुतं शकुनै रुदितं च यत् । मृगस्य शृतमक्ष्णया तद्द्विषद्भ्यो भयामसि । इत्यध्वानमभिप्रव्रजञ्जपति १७ उद्गातेव शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु शंससि । स्वस्ति नः शकुने अस्तु शिवो नः सुमना भव । इत्यनभिप्रेतं शकुनं प्रतिजपति १८ यदेतद्भूतान्यन्वाविश्य दैवीं वाचं वदसि । द्विषतो नः परावद तान्मृत्यो मृत्यवे नय । इत्येकमृकम् १९ अथास्मा उभयत आदीप्तमुल्मुकं तां दिशं प्रति निरस्यति । अग्ने अग्निना संवदस्व मृत्यो मृत्युना संवदस्व । इत्यप उपस्पृश्य २० अथैनमुपतिष्ठते । विभूरसि प्रवाहणः । इत्येतेनानुवाकेन २१ १६

यदीषितो यदि वा स्वकामी भयेडको वदति वाचमेताम् । तामिन्द्रा ग्नी ब्रह्मणा संविदानौ शिवामस्मभ्यं कृणुतं गृहेषु । इति सलावृकीम् १ प्रसार्य सक्थ्यौ पतसि सव्यमक्षि निपेपि च । मेह कस्य चनाममत् । इति शकुनिम् २ हिरन्यपक्षः शकुनिर्देवानां वसतिंगमः । ग्रामं प्रदक्षिणं कृत्वा स्वस्ति नो वद कौशिक । इति पिङ्गलाम् ३ पुनर्मामैत्विन्द्रि यं पुनरायुः पुनर्भगः । पुनर्ब्राह्मणमैतु मा पुनर्द्र विणमैतु मा । इति अथैते धिष्णियासो अग्नयो यथास्थानं कल्पन्तामिहैव । स्वाहा । पुनर्म आत्मा पुनरायुरागात्पुनः प्राणः पुनराकूतमागात् । वैश्वानरो रश्मिभिर्वावृधानोन्तस्तिष्ठतु मे मनोमृतस्य केतुः । स्वाहा । यदन्नमद्यते सायं न तत्प्रातरवति क्षुधः । सर्वं तदस्मान्मा हिंसीन्न हि तद्दिवा ददृशे दिवः । स्वाहा । इत्यनभिप्रेतं स्वप्नं दृष्ट्वा तिलैराज्यमिश्रैर्जुहोति ४ अथैतान्यद्भुतप्रायश्चित्तानि भवन्ति । कुप्त्वा कपोत उपाविक्षत् । मध्वागार उपाविक्षत् । गौर्गामधैषीत् । स्थूणा व्यरौक्षीत् । वल्मीक उदैक्षीदित्येवंरूपाणि ५ स पूर्वाह्णे स्नातः प्रयतवस्त्रोहःक्षान्तो ब्राह्मणसंभाषोन्तरागारेग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा जुहोति । इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयासि । प्रजापते । यदस्य कर्मणोत्यरीरिचम् । इति च । अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् । ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा ६ १७

इन्द्रा ग्नी वः प्रस्थापयतामश्विनावभिरक्षताम् । बृहस्पतिर्वो गोपालः पूषा वः पुनरुदाजतु । इति गाः प्रतिष्ठमाना अनुमन्त्रयते । पूषा गा अन्वेतु नः । इति च १ इमा या गाव आगमन्नयक्ष्मा बहुसूवरीः । नद्य इव स्रवन्तु समुद्र इव निषिञ्चन्तु । इति गा आयतीः प्रतीक्षते २ संस्था स्थ संस्था वो भूयास्थाच्युता स्थ मा मा च्योढ्वं माहं भवतीभ्यश्चौषीः । इति संस्थिताः ३ ऊर्जा वः पश्याम्यूर्जा मा पश्यत । इति गोष्ठगताः । सहस्रपोषं वः पुष्यासम् । इति च ४ अतो गवां मध्येग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा पयसा जुहोति । उद्दीप्यस्व जातवेदोपघ्नन्निरृतिं मम । पशूंश्च मह्यमावह जीवनं च दिशो दिश । स्वाहा । मा नो हिंसीज्जातवेदो गामश्वं पुरुषं जगत् । अबिभ्रदग्न आगहि श्रिया मा परिपातय । स्वाहा । अपामिदं न्ययनम् । नमस्ते हरसे शोचिषे । इति च ५ इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयासि । प्रजापते । यदस्य कर्मणोत्यरीरिचम् । इति च । अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् ६ १८ पञ्चमः पटलः

समावृत्त आचार्यकुलान्मातापितरौ बिभृयात् १ ताभ्यामनुज्ञातो भार्यामुपयच्छेत्सजातां नग्निकां ब्रह्मचारिणीमसगोत्राम् २ अह्नः पञ्चसु कालेषु प्रातः संगवे मध्यंदिनेपराह्णे सायं वैतेषु यत्कारी स्यात्पुण्याह एव कुरुते ३ अग्निमुपसमाधाय परिधानान्तं कृत्वा वधूमानीयमानां समीक्षते । सुमङ्गलीरियं वधूरिमां समेत पश्यत । सौभाग्यमस्यै दत्त्वायाथास्तं विपरेतन । इति ४ दक्षिणतः पतिं भार्योपविशति ५ आचान्तसमन्वारब्धायां परिषिञ्चति यथा पुरस्तात् ६ व्याहृतिपर्यन्तं कृत्वा जुहोति । अग्निरैतु प्रथमो देवतानां सौऽस्यै प्रजां मुञ्चतु मृत्युपाशात् । तदयं राजा वरुणोनुमन्यतां पथेयं स्त्री पौत्रमघं न रोदात् । स्वाहा । इमामग्निस्त्रायतां गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः । अशून्योपस्था जीवतामस्तु माता पौत्रमानन्दमभिप्रबुध्यतामियम् । स्वाहा । मा ते गृहे निशि घोष उन्थादन्यत्र त्वद्रुदत्यः संविशन्तु । मा त्वं विकेश्युर आविधिष्ठा जीवपत्नी पतिलोके विराज प्रजां पश्यन्ती सुमनस्यमानाम् । स्वाहा । द्यौस्ते पृष्ठं रक्षतु वायुरूरू अश्विनौ च स्तनं धयतस्ते पुत्रान्सविताभिरक्षतु । आ वाससः परिधानाद्बृहस्पतिर्विश्वे देवा अभिरक्षन्तु पश्चात् । स्वाहा । अप्रजस्तां पौत्रमृत्युं पाप्मानमुत वाघम् । शीर्ष्णः स्रजमिवोन्मुच्य द्विषद्भ्यः प्रतिमुञ्चामि पापम् । स्वाहा । देवकृतं ब्राह्मणं कल्पमानं तेन हन्मि योनिषदः पिशाचान् । क्रव्यादो मृत्यूनधरान्पादयामि दीर्घमायुस्तव जीवन्तु पुत्राः । स्वाहा । इति ७ इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयासि । प्रजापते । इति हुत्वाश्मानमास्थापयति । आतिष्ठेममश्मानमश्मेव त्वं स्थिरा भव । प्रमृणीहि दुरस्यून्सहस्व पृतनायतः । इति ८ अपरेणाग्निं द्वयान्दर्भान्पूर्वापरानुदगग्रान्संस्तीर्य तेषु पूर्वापराववतिष्ठेते ९ १९

प्राङ्मुखः प्रत्यङ्मुख्या हस्तं गृह्णीयात्प्रत्यङ्मुखः प्राङ्मुख्या वा । यदि कामयेत पुंसो जनयेयमित्यङ्गुष्ठं गृह्णीयात् । यदि कामयेत स्त्रीरित्यङ्गुलीः । यदि कामयेतोभयं जनयेयमित्यभीव लोमान्यङ्गुष्ठं सहाङ्गुलिभिर्गृह्णीयात् । सरस्वति प्रेदमिव सुभगे वाजिनीवति तां त्वा विश्वस्य भूतस्य प्रजायामस्यग्रतः गृह्णामि ते सुप्रजास्त्वाय हस्तं मया पत्या जरदष्टिर्यथासत् भगो अर्यमा सविता पुरंधिर्मह्यं त्वादुर्गार्हपत्याय देवाः । इति १ तामग्रेण दक्षिणमंसं प्रतीचीमभ्यावृत्याभिमन्त्रयते अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः जीवसूर्वीरसूः स्योना शं न एधि द्विपदे शं चतुष्पदे तां नः पूषञ्छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति या न ऊरू उशती विस्रयातै यस्यामुशन्तः प्रहरेम शेपम् सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः तृतीयो अग्निष्टे पतिस्तुरीयोहं मनुष्यजाः सोमोददाद्गन्धर्वाय गन्धर्वोग्नयेददात् पशूंश्च मह्यं पुत्रांश्चाग्निर्ददात्यथो त्वाम् अमूहमस्मि सा त्वं द्यौरहं पृथिवी त्वं सामाहमृक्त्वं तावेहि संभावाव सह रेतो दधावहै पुंसे पुत्राय वेत्तवै रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय ॥ इमां त्वमिन्द्र मीढ्वः सुपुत्रां सुभगां कुरु । दशास्यां पुत्रानाधेहि पतिमेकादशं कुरु । इति २ तां यथायतनमुपवेश्याथास्या अञ्जलावाज्येनोपस्तीर्य लाजान्द्विरावपति । इमाँ ल्लाजानावपामि समृद्धिकरणान्मम । तुभ्यं च संवननं तदग्निरनुमन्यतामयम् । इति ३ अभिघार्य । इयं नार्युपब्रूतेग्नौ लाजानावपन्ती । दीर्घायुरस्तु मे पतिरेधन्तां ज्ञातयो मम । स्वाहा । इति तस्या अञ्जलिना जुहोति ४ उदायुषा । इत्युत्थाप्य । विश्वा उत त्वया वयं धारा उदन्या इव अतिगाहेमहि द्विषः । इति प्रदक्षिणमग्निं परिक्रम्य तथैव लाजानावपति ५ द्वितीयं परिक्रम्य तथैव लाजानावपति ६ तृतीयं परिक्रम्य सौविष्टकृतीं जुहोति ७ अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् ८ तामपरेणाग्निं प्राचीमुदीचीं वा विष्णुक्रमान्क्रामयति ९ अथैनां संशास्ति । दक्षिणेन प्रक्रम्य सव्येनानुप्रक्राम मा सव्येन दक्षिणमतिक्रामीः । इति १०[२०]

एकमिषे विष्णुस्त्वान्वेतु । द्वे ऊर्जे विष्णुस्त्वान्वेतु । त्रीणि व्रताय विष्णुस्त्वान्वेतु । चत्वारि मायोभवाय विष्णुस्त्वान्वेतु । पञ्च पशुभ्यो विष्णुस्त्वान्वेतु । षड्रायस्पोषाय विष्णुस्त्वान्वेतु । सप्त सप्तभ्यो होत्राभ्यो विष्णुस्त्वान्वेतु । इति १ सप्तमं पदमवस्थाप्य जपति । सखायौ सप्तपदावभूव सख्यं ते गमेयं सख्यात्ते मा योषं सख्यान्मे मा योष्ठाः इति २ अथास्या दक्षिणेन पादेन दक्षिणं पादमवक्रम्य दक्षिणेन हस्तेन दक्षिणमंसमुपर्युपर्यन्ववमृश्य हृदयदेशमभिमृशति यथा पुरस्तात् ३ प्राणानां ग्रन्थिरसि स मा विस्रसः । इति नाभिदेशम् ४ तामपरेणाग्निं प्राचीमुपवेश्य पुरस्तात्प्रत्यङ्तिष्ठन्नद्भिः प्रोक्षति । आपो हि ष्ठा मयोभुवः । इति तिसृभिः । हिरण्यवर्णाः शुचयः पावकाः । इति चतसृभिः । पवमानः सुवर्जनः । इति चैतेनानुवाकेन ५ अत्र बीजान्यधिश्रयन्ति ६ २१ षष्ठः पटलः

तां ततः प्रवाहयन्ति प्र वा हारयन्ति १ समोप्यैतमग्निमनुहरन्ति २ नित्यो धार्यः ३ अनुगतो मन्थ्यः श्रोत्रियागाराद्वाहार्यः ४ उपवासश्चानुगते भार्यायाः पत्युर्वा ५ आगारं प्राप्याथैनां संशास्ति । दक्षिणं पादमग्रेतिहर देहलिं माधिष्ठाः । इति ६ पूर्वार्धे शालायां न्युप्योपसमादधाति ७ अपरेणाग्निं लोहितमानडुहं चर्म प्राचीनग्रीवमुत्तरलोमास्तृणाति ८ तस्मिन्प्राङ्मुखावुदङ्मुखौ वोपविशतः । पश्चात्पतिं भार्योपविशति । इह गावो निषीदन्त्विहाश्वा इह पूरुषाः । इहो सहस्रदक्षिणोपि पूषा निषीदतु । इति ९ वाचंनियमावासाते आ नक्षत्राणामुदयात् १० उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य । देवीः षडुर्वीः । इति दिश उपतिष्ठते ११ मा हास्महि प्रजया । इति नक्षत्राणि १२ मा रधाम द्विषते सोम राजन् । इति चन्द्र मसम् १३ सप्तर्षयः प्रथमां कृत्तिकानामरुन्धतीं ये ध्रुवतां ह निन्युः । षट्कृत्तिकामुख्ययोगं वहन्तीयमस्माकं भ्राजत्वष्टमी । इति सप्तर्षीनुपस्थाय ध्रुवमुपतिष्ठते । ध्रुवक्षितिर्ध्रुवयोर्निध्रुवमसि ध्रुवत स्थितम् । त्वं नक्षत्राणां मेथ्यसि स मा पाहि पृतन्यतः । नमो ब्रह्मणे ध्रुवायाच्युतायास्तु नमो ब्रह्मणः पुत्राय प्रजापतये नमो ब्रह्मणः पुत्रेभ्यो देवेभ्यस्त्रयस्त्रिंशेभ्यो नमो ब्रह्मणः पुत्रपौत्रेभ्योङ्गिरोभ्यः । यस्त्वा ध्रुवमच्युतं सपुत्रं सपौत्रं ब्रह्म वेद ध्रुवा अस्मिन्पुत्राः पौत्रा भवन्ति । प्रेष्यान्तेवासिनो वसनं कम्बलानि कंसं हिरण्यं स्त्रियो राजानोन्नमभयमायुः कीर्तिर्वर्चो यशो बलं ब्रह्मवर्चसमन्नाद्यमित्येतानि मयि सर्वाणि ध्रुवाण्यच्युतानि सन्तु १४ २२

ध्रुवं त्वा ब्रह्म वेद ध्रुवोहमस्मिँ ल्लोकेस्मिंश्च जनपदे भूयासम । अच्युतं त्वा ब्रह्म वेद माहमस्माल्लोकादस्माच्च जनपदाच्च्योषि द्विषन्मे भ्रातृव्योस्माल्लोकादस्माच्च जनपदाच्च्यवताम् । अचेष्टं त्वा ब्रह्म वेद माहमस्माल्लोकादस्माच्च जनपदाच्चेष्टिषि द्विषन्मे भ्रातृव्योस्माल्लोकादस्माच्च जनपदाच्चेष्टताम् । अव्यथमानं त्वा ब्रह्म वेद माहमस्माल्लोकादस्माच्च जनपदाद्व्यथिषि द्विषन्मे भ्रातृव्योस्माल्लोकादस्माच्च जनपदाद्व्यथताम् । नभ्यं त्वा सर्वस्य वेद नभ्यमहमस्य जनपदस्य भूयासम् । मध्यं त्वा सर्वस्य वेद मध्यमहमस्य जनपदस्य भूयासम् । तन्तिं त्वा सर्वस्य वेद तन्तिरहमस्य जनपदस्य भूयासम् । मेथीं त्वा सर्वस्य वेद मेथ्यहमस्य जनपदस्य भूयासम् । नाभिं त्वा सर्वस्य वेद नाभिरहमस्य जनपदस्य भूयासम् । यथा नाभिः प्राणानां विषूवानेवमहं विषूवान् । एकशतं तं पाप्मानमृच्छतु योस्मान्द्वेष्टि यं च वयं द्विष्मो भूयांसि मामेकशतात्पुण्यान्यागच्छन्तु । इति १ अत्र मनोज्ञेन संभाष्यागारं प्राप्याथैनामाग्नेयेन स्थालीपाकेन याजयति २ पत्न्यवहन्ति ३ श्रपयित्वाभिघार्योद्वास्याग्नये हुत्वाग्नये स्विष्टकृते जुहोति ४ तेन ब्राह्मणं विद्यावन्तं परिवेवेष्टि ५ योस्यापचितो भवति तस्मा ऋषभं ददाति ६ नित्यमत ऊर्ध्वं पर्वस्वाग्नेयेन स्थालीपाकेन यजते ७ नित्यं सायं प्रातर्व्रीहिभिर्यवैर्वा हस्तेनैते आहुती जुहोति । अग्नये स्वाहा । प्रजापतये स्वाहा । इति ८ सौरीं पूर्वां प्रातरेके समामनन्ति ९ त्रिरात्रमक्षारालवणाशिनावधःशायिनावलंकुर्वाणौ ब्रह्मचारिणौ वसतः १० चतुर्थ्यामपररात्रेग्निमुपसमाधाय प्रायश्चित्तिपर्यन्तं कृत्वा नव प्रायश्चित्तीर्जुहोति ११ २३

अग्ने प्रायश्चित्ते त्वं प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्यै घोरा तनूस्तामितो नाशय स्वाहा । वायो प्रायश्चित्ते त्वं प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्यै निन्दिता तनूस्तामितो नाशय स्वाहा । आदित्य प्रायश्चित्ते त्वं प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्यै पतिघ्नी तनूस्तामितो नाशय स्वाहा । आदित्य प्रायश्चित्ते वायो प्रायश्चित्तेग्ने प्रायश्चित्तेग्ने प्रायश्चित्ते वायो प्रायश्चित्त आदित्य प्रायश्चित्ते । इति १ हुत्वाथास्यै मूर्ध्नि संस्रावं जुहोति । भूर्भगं त्वयि जुहोमि स्वाहा । भुवो यशस्त्वयि जुहोमि स्वाहा । सुवः श्रियं त्वयि जुहोमि स्वाहा । भूर्भुवः सुवस्त्विषिं त्वयि जुहोमि स्वाहा । इति २ अत्रैवोदपात्रं निधाय प्रदक्षिणमग्निं परिक्रम्यापरेणाग्निं प्राचीमुदीचीं वा संवेश्याथास्यै योनिमभिमृशति । अभि त्वा पञ्चशाखेन शिवेनाविद्विषावता । साहस्रेण यशस्विना हस्तेनाभिमृशामसि सुप्रजास्त्वाय । इति ३ अथैनामुपयच्छते । सं नाम्नः सं हृदयानि सं नाभिः सं त्वचः । सं त्वा कामस्य योक्त्रेण युञ्जान्यविमोचनाय । इति ४ अथैनां परिष्वजते । मामनुव्रता भव सहचर्या मया भव । या ते पतिघ्नी तनूर्जारघ्नीं त्वेतां करोमि । शिवा त्वं मह्यमेधि क्षुरपविर्जारेभ्यः । इति ५ अथास्यै मुखेन मुखमीप्सते । मधु हे मध्विदं मधु जिह्वा मे मधुवादिनी । मुखे मे सारघं मधु दत्सु संवननं कृतम् । चाक्रवाकं संवननं यन्नदीभ्य उदाहृतम् । यद्युक्तो देवगन्धर्वस्तेन संवनिनौ स्वके । इति ६ त्रिरात्रं मलवद्वाससा ब्राह्मणव्याख्यातानि व्रतानि चरति ७ चतुर्थ्यां स्नातां प्रयतवस्त्रामलंकृतां ब्राह्मणसंभाषामाचम्योपह्वयते ८ २४

विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति गर्भं ते अश्विनावुभावाधत्तां पुष्करस्रजौ हिरण्ययी अरणी यं निर्मन्थतो अश्विना तं ते गर्भं हवामहे दशमास्याय सूतवै यथाग्निगर्भा पृथिवी द्यौर्यथेन्द्रे ण गर्भिणी वायुर्यथा दिशां गर्भ एवं गर्भं दधामि ते यस्य योनिं प्रति रेतो गृहाण पुमान्पुत्रो जायतां गर्भो अन्तः तं माता दश मासो बिभर्तु स जायतां वीरतमः स्वानाम् आ ते गर्भो योनिमेतु पुमान्बाण इवेषुधिम् आ वीरो अत्र जायतां पुत्रस्ते दशमास्यः करोमि ते प्राजापत्यमा गर्भो योनिमेतु ते अनूनः पूर्णो जायतामनन्धोश्लोणोपिशाचधीरः यानि प्रभूणि वीर्याण्यृषभा जनयन्तु नः तैस्त्वं गर्भिणी भव स जायतां वीरतमः स्वानाम् यो वशायां गर्भो यश्च वेहतीन्द्र स्तं निदधे वनस्पतौ तेन त्वं गर्भिणी भव सा प्रसूर्धेनुगा भव सं नाम्नः । चाक्रवाकम् । इति च १ भूः प्रजापतिनात्यृषभेण स्कन्दयामि वीरं धत्स्वासौ भुवः प्रजापतिनात्यृषभेण स्कन्दयामि वीरं धत्स्वासौ सुवः प्रजापतिनात्यृषभेण स्कन्दयामि वीरं धत्स्वासौ इति वीरं हैव जनयति २ सर्वाण्युपगमनानि मन्त्रवन्ति भवन्तीत्यात्रेयः ३ यच्चादौ यच्चर्ताविति बादरायणः ४ २५

पाणिग्रहणादिरग्निस्तमौपासनमित्याचक्षते १ तस्मिन्गृह्याणि कर्माणि क्रियन्ते २ तस्यौपासनेनाहिताग्नित्वं तथा पार्वणेन चरुणा दर्शपूर्णमासयाजित्वं चेति ३ द्वादशाहं विच्छिन्नः पुनराधेयः ४ प्रतिसंख्याय वा सर्वान्होमाञ्जुहुयात् ५ परिश्रित उद्धतेवोक्षिते सिकतोपोप्ते ६ उदुम्बरशाखाभिः प्लक्षशाखाभिर्वा प्रच्छाद्य यथालाभं तूष्णीं संभारान्संभृत्य याज्ञिकात्काष्ठादग्निं मथित्वा लौकिकं वाहृत्य सते कृत्वा प्रज्वलयित्वाभ्यादधाति ७ भूर्भुवः सुवरॐ प्रतिष्ठ । इति ८ अथैनमग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा द्वे मिन्दाहुती जुहोति । यन्म आत्मनो निन्दाभूत् । पुनरग्निश्चक्षुरदात् । इति ९ तिस्रस्तन्तुमतीर्जुहोति । तन्तुं तन्वन् । उद्बुध्यस्वाग्ने । त्रयस्त्रिंशत्तन्तवः । इति १० चतस्रोभ्यावर्तिनीर्जुहोति । अग्नेभ्यावर्तिन् । अग्ने अङ्गिरः । पुनरूर्जा । सह रय्या । इति ११ एकैकशो व्याहृतीः समस्ताश्च १२ हुत्वा । अयाश्चाग्नेस्यनभिशस्तीश्च सत्यमित्त्वमया असि । अयसा मनसा धृतोयसा हव्यमूहिषेया नो धेहि भेषजम् । स्वाहा । इत्येतां मनस्वतीम् १३ प्राजापत्यां सप्तवतीं च हुत्वा दशहोतारं मनसानुद्रुत्य सग्रहं हुत्वा । इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयामि । प्रजापते । यदस्य कर्मणोत्यरीरिचम् । इति च । अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथा पुरुस्तात् १४ ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा प्रसिद्धमाग्नेयेन स्थालीपाकेन यजते १५ अत्र गुरवे वरं ददाति वाससी धेनुमनड्वाहं वा १६ यदि प्रयायाद्व्याख्यातमात्मन्नरण्योर्वा समारोपणम् १७ समिधि वा समारोपयेत् १८ अरणी कल्पेन खादिरः पालाश औदुम्बर आश्वत्थश्च १९ अत्रैकतरस्मिन्यत्रावस्येत्तस्मिञ्छ्रोत्रियागारादग्निमाहृत्याजुह्वानः । उद्बुध्यस्व । इति द्वाभ्यां यस्यां समारूढस्तामादधाति २० व्याख्यातो होमकल्पः २१ यदि पार्वणो विच्छिद्येत तस्मिन्पाथिकृतेन याजयेत् । यदि द्वौ वैश्वानरपाथिकृतौ । यदि बहून्पुनराधेयः । यदि नाशे विनाशे वान्यैरग्निभिरग्नौ संसृष्टे वा पुनराधेयः २२ २६ सप्तमः पटलः

शालां कारयिष्यन्नुदगयन आपूर्यमाणपक्षे रोहिण्यां त्रिषु चोत्तरेष्वग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा जुहोति । इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयामि । प्रजापते । यदस्य कर्मणोत्यरीरिचम् । इति च । अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् । ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वाहतं वासः परिधायाप उपस्पृश्य । देवस्य त्वा । इत्यभ्रिमादाय । परिलिखितम् । इति त्रिः प्रदक्षिणं परिलिख्य यथार्थमवटान्खात्वाभ्यन्तरंपांसून्करोति १ इहैव ध्रुवां निमिनोमि शालां क्षेमे तिष्ठति घृतमुक्षमाणा । तां त्वा शाले सुवीराः सर्ववीरा अरिष्टवीरा अनुसंचरेम । इति दक्षिणां द्वारस्थूणामुच्छ्रयति २ इहैव ध्रुवा प्रतितिष्ठ शाले अश्वावती गोमती सूनृतावती ऊर्जस्वती पयसा पिन्वमानोच्छ्रयस्व महते सौभगाय इत्युत्तराम् ३ आ त्वा कुमारस्तरुण आ वत्सो जगता सह आ त्वा हिरण्मयः कुम्भ आ दध्नः कलशैरयन्निव इति संमितावभिमृशति ४ एवमेव स्थूणाराजावुच्छ्रयति ५ एवमभिमृशति ६ ऋतेन स्थूणावधिरोह वंशोर्ध्वो विराजन्नपसेध शत्रून् । अथास्मभ्यं सहवीरां रयिं दाः । इति पृष्ठवंशमारोपयते ७ मा नः सपत्नः शरणः स्योना देवो देवेभिर्विमितास्यग्रे तृणं वसानाः सुमना असि त्वं शं न एधि द्विपदे शं चतुष्पदे इति च्छन्नामभिमृशति ८ ततोनूराधैर्वास्तुशमनम् ९ निशायामन्तरागारे ग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा जुहोति १० २७

वास्तोष्पते । वास्तोष्पते । इति द्वे । वास्तोष्पते प्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो । अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति नो जुषस्व । स्वाहा । अपैतु मृत्युरमृतं न आगन्वैवस्वतो नो अभयं कृणोतु । पर्णं वनस्पतेरिवाभि नः शीयतां रयिः सचतां नः शचीपतिः । स्वाहा । परं मृत्यो अनुपरेहि पन्थां यस्ते स्व इतरो देवयानात् । वास्तोष्पते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरान् । स्वाहा । इदमू नु श्रेयो वसानमागन्म यद्गोजिद्धनजिदश्वजिद्यत् । पर्णं वनस्पतेरिवाभि नः शीयतां रयिः सचतां नः शचीपतिः । स्वाहा । इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयामि । प्रजापते । यदस्य् कर्मणोत्यरीरिचम् । इति च । अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् । ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा १ एवं विहितं संवत्सरे संवत्सरे वास्तुशमनम् २ ऋतावृतावित्येके ३ २८

गृहा मा बिभीत मा वेपिढ्वमूर्जं बिभ्रत एमसि ऊर्जं बिभ्रद्वसुवनिः सुमेधा गृहानेमि मनसा मोदमानः येषामध्येति प्रवसन्नेति सौमनसो बभुः गृहानुपह्वयामहे ते नो जानन्तु जानतः उपहूता इह गाव उपहूता अजावयः अथो अन्नस्य कीलाल उपहूतो गृहेषु नः उपहूता भूरिसखाः सखायः स्वादुसंमुदः अरिष्टाः सर्वपूरुषा गृहा नः सन्तु सर्वदा ऊर्जस्वन्तः पयस्वन्त इरावन्तो हसामुदः अनश्या अतृष्या गृहा मास्मद्बिभीतन इति गृहानभ्येति १ क्षेमाय वः शान्त्यै प्रपद्ये शिवं शग्मं शं योः शं योः इति प्रविशति न तदहरागतः कलहं करोति गृहानहं सुमनसः प्रपद्ये अवीरघ्नो वीरतमः सुशेवान् इरां वहन्तः सुमनस्यमानास्तेष्वहं सुमनाः संविशामि इति संविशति विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विषः । इति भार्यां समीक्षते समीक्षते २ २९ अष्टमः पटलः प्रथमः प्रश्नः समाप्तः

अथातः सीमन्तोन्नयनम् १ प्रथमगर्भायाश्चतुर्थे मास्यापूर्यमाणपक्षे पुण्ये नक्षत्रेग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा धाता ददातु नो रयिम् । इति चतस्रो धात्रीर्जुहोति २ इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयासि । प्रजापते । यदस्य कर्मणोत्यरीरिचम् । इति च । अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् । ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा स्नातां प्रयतवस्त्रामलंकृतां ब्राह्मणसंभाषामपरेणाग्निं मण्डलागारे प्राचीमुपवेश्य त्रेण्या शलल्या शलालुग्रप्समुपसंगृह्य पुरस्तात्प्रत्यङ्तिष्ठन्व्याहृतीभिः । राकामहम् । यास्ते राके । इति द्वाभ्यामूर्ध्वं सीमन्तमुन्नीयाभिमन्त्रयते । सोम एव नो राजेत्याहुर्ब्राह्मणीः प्रजाः । विवृत्तचक्रा आसीनास्तीरे तुभ्यं गङ्गे । विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विषः । इति ३ १

अथातः पुंसवनम् १ तृतीये मास्यापूर्यमाणपक्षे पुण्ये नक्षत्रेग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा । धाता ददातु नो रयिम् । इति चतस्रो धात्रीर्जुहोति । इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयासि । प्रजापते । यदस्य कर्मणोत्परीरिचम् । इति च । अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् । ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा स्नातां प्रयतवस्त्रामलंकृतां ब्राह्मणसंभाषामपरेणाग्निं मण्डलागारे प्राचीमुपवेश्य । वृषासि । इति तस्या दक्षिणे पाणौ यवमादधाति २ आण्डौ स्थः । इत्यभितो यवं सर्षपौ धान्यमाषौ वा ३ श्वावृत्तत् । इति दधिद्र प्सम् । तदेनां प्राशयति ४ आचान्ताया उदरमभिमृशति । आभिष्ट्वाहं दशभिरभिमृशामि दशमास्याय सूतवै । इति ५ न्यग्रोधशृङ्गं वा घृतेन कोशकारीं वा प्रैयङ्गवेण संयावेन यूपशकलं वोत्तरपूर्वस्याभिष्टेरग्निं वा निर्मन्थ्य मूरुमूलोपधानायै दक्षिणे नासिकाछिद्रे प्रणयेत् ६ यदि गर्भः स्रवेदार्द्रेणास्याः पाणिना त्रिरूर्ध्वं नाभेरुन्मार्ष्टि । पराञ्चं त्वा नार्वाञ्चं त्वष्टा बध्नातु बन्धने । स ऋतूनुपवेश्य दश मासो अवीरहा । इति ७ विजननकाले क्षिप्रप्रसवनम् । शिरस्त उदकुम्भं निधाय पत्तस्तूर्यन्तीमथास्या उदरमभिमृशति ८ २

यथैव वायुः पवते यथा समुद्र एजति एवं ते गर्भ एजतु सह जरायुणावसर्पतु इत्यवाङवमार्ष्टि १ जातेश्मनि परशुं निधायोपरिष्टाद्धिरण्यं तेषूत्तराधरेषूप रिष्टात्कुमारं धारयति अश्मा भव परशुर्भव हिरण्यमस्तृतं भव वेदो वै पुत्रनामासि जीव त्वं शरदः शतम् अङ्गादङ्गात्संभवसि हृदयादधिजायसे आत्मा वै पुत्रनामासि स जीव शरदः शतमिति २ यद्यपरा न पतेदञ्जलिनोदकमादाय मूर्धानमस्यावसिञ्चेत् । तिलदेव पद्यस्व न मांसमसि नो दलम् । अवपद्यस्व स्वपथात् । इति ३ उपनिर्हरन्त्यौपासनमतिहरन्ति सूतिकाग्निम् ४ स एष उत्तपनीय एव ५ नास्मिन्किंचन कर्म क्रियतेन्यत्रोद्धूपनात् ६ अथैनं कणैः सर्षपमिश्रैरुद्धूपयति । शण्डो मर्क उपवीरः शाण्डीकेर उलूखलः । च्यवनो नश्यतादितः । स्वाहा । आलिखन्विलिखन्ननिमिषन्किंवदन्त उपश्रुतिः । स्वाहा । अर्यम्णः कुम्भी शत्रुः पात्रपाणिर्निपुणिः । स्वाहा । आन्त्रीमुखः सर्षपारुणो नश्यतादितः । स्वाहा । केशिनी श्वलोमिनी बजाबोजोपकाशिनी । अपेत नश्यतादितः । स्वाहा । कौबेरका विश्ववासो रक्षोराजेन प्रेषिताः । ग्रामान्सजातयो यन्तीप्सन्तः परिजाकृतान् । स्वाहा । एतान्हतैतान्बध्नीतेत्ययं ब्रह्मणो दूतस्तानग्निः पर्यसरत् । तानिन्द्र स्तान्बृहस्पतिस्तानहं वेद ब्राह्मणः प्रमृशतः कूटदन्तान्विकेशाल्लँ म्बस्तनान् । स्वाहा नक्तंचारिण उरस्पेशाञ्छूलहस्तान्कपालपान् । स्वाहा पूर्व एषाम् पितेत्युच्चैःश्राव्यकर्णकः माता जघन्या गछन्ति ग्रामे विखुरमिच्छन्ती । स्वाहा नक्तंचारिणी स्वसा सन्धिना प्रेक्षते कुलम् या स्वपत्सु जागर्ति यस्यै विजातायां मनः । स्वाहा तासां त्वं कृष्णवर्त्मने क्लोमानं हृदयं यकृत् । अग्नेयक्षीणि निर्दह । स्वाहा । इति प्रतिमन्त्रमङ्गारेष्वावपति ७ ततः पाणी प्रक्षाल्य भूमिमालभते यत्ते सुसीमे हृदयं दिवि चन्द्र मसि श्रितम् तस्यामृतत्वस्य नो धेहि माहं पौत्रमघं रुदम् वेद ते भूमि हृदयं दिवि चन्द्र मसि श्रितम् तथामृतत्वस्येशानो माहं पौत्रमघं रुदमिति इति ८ अथातो मेधाजननम् । दर्भेण हिरण्यं प्रबध्य तदन्तर्धायोपरिष्टा त्प्राञ्चं कुमारं धार्यमाणं घृतं प्राशयति । भूरृचस्त्वयि जुहोमि स्वाहा । भुवो यजूंषि त्वयि जुहोमि स्वाहा ॥ सुवः सामानि त्वयि जुहोमि स्वाहा । भूर्भुवः सुवरथर्वाङ्गिरसस्त्वयि जुहोमि स्वाहा । इति ९ अथैनमुष्णशीताभिरद्भिः स्नापयति । क्षेत्रियै त्वा निरृत्यै त्वा द्रुहो मुञ्चामि वरुणस्य पाशात् । अनागसं ब्रह्मणे त्वा करोमि शिवे ते द्यावापृथिवी उभे इमे । शं ते अग्निः सहाद्भिरस्तु शं द्यावापृथिवी सहौषधीभिः । शमन्तरिक्षं सह वातेन ते शं ते चतस्रः प्रदिशो भवन्तु । सूर्यमृतं तमसो ग्राह्या यद्देवा अमुञ्चन्नसृजन्व्येनसः । एवमहमिमं क्षेत्रियाज्जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात् । इति १० अथैनं मातुरुपस्थ आदधाति ११ ३

या दैवीश्चतस्रः प्रदिशो वातपत्नीरभि सूर्यो विचष्टे तासां त्वा जरस आदधामि प्र यक्ष्म एतु निरृतिं पराचैः इति १ आधायाभिमन्त्रयते । मा ते पुत्रं रक्षो हिंसीन्मा धेनुरतिसारिणी । प्रिया धनस्य भूया एधमाना स्वे वशे । इति २ प्रक्षाल्य दक्षिणं स्तनमाधापयति । अयं कुमारो जरां धयतु सर्वमायुरेतु । तस्मै स्तनं प्रप्यायस्वायुः कीर्तिर्वर्चो यशो बलम् । इति ३ एवमुत्तरम् ४ नामयति न रुदति यत्र वयं वदामो यत्र वाभिमृशामसि । इत्युभावभिमृश्याथास्यै शिरस्त उदकुम्भमपिहितं निदधाति । आपो गृहेषु जाग्रत यथा देवेषु जाग्रथ । एवमस्यै सुपुत्रायै जाग्रत । इति ५ द्वादश्यां मातापुत्रौ स्नातः ६ शुच्यगारं कुर्वन्ति ७ उपनिर्हरन्ति सूतिकाग्निमतिहरन्त्यौपासनम् ८ तमग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा । धाता ददातु नो रयिम् । इति द्वादशाहुतीर्जुहोति । त्रयोदशेत्येकेषाम् ९ इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयासि । प्रजापते । यदस्य कर्मणोत्यरीरिचम् । इति च । अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् । ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा पुत्रस्य नाम दध्याद्द्व्यक्षरं चतुरक्षरं वा घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्ठानान्तं यत्र वा स्वित्युपसर्गः स्यात् । तद्धि प्रतिष्ठितमिति विज्ञायते १० पिता मातेत्यग्रेभिव्याहरेयाताम् । विज्ञायते च मम नाम प्रथमं जातवेद इति ११ द्वे नामनी कुर्यात् । विज्ञायते च तस्माद्द्विनामा ब्राह्मणोर्धुक इति १२ नक्षत्रनाम द्वितीयं स्यादन्यतरद्गुह्यं स्यात् १३ अन्यतरेणैनमामन्त्रयीरन् १४ सोमयाजी तृतीयं नाम कुर्वीतेति विज्ञायते १५ प्रवासादेत्यागतं वा पुत्रमभिमृशति । सोमस्य त्वा द्युम्नेनाभिमृशाम्यग्नेस्तेजसा सूर्यस्य वर्चसा । इति १६ पशूनां त्वा हुंकारेणाभिजिघ्राम्यसावायुषे वर्चसे हुम् । इति मूर्यभिजिघ्र्य १७ अथास्य दक्षिणेन हस्तेन दक्षिणं हस्तं साङ्गुष्ठं गृह्णाति । अग्निरायुष्मान् । इति पञ्चभिः पर्यायैः १८ आयुष्टे विश्वतो दधत् । इति दक्षिणे कर्णे जपति यथा पुरस्तात् १९ ४

अथ षष्ठे मास्यन्नप्राशनम् १ आपूर्यमाणपक्षे पुण्ये नक्षत्रेग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा जुहोति । इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयासि । प्रजापते । यदस्य कर्मणोत्यरीरिचम् । इति च अत्रैके यजाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् । ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वाथैनं दधि मधु घृतमिति त्रिवृत्प्राशयति । भूस्त्वयि दधामि भुवस्त्वयि दधामि सुवस्त्वयि दधामि । इति २ अथैनमन्नं प्राशयति । अपां त्वौषधीनां रसं प्राशयामि शिवास्त आप ओषधयः सन्त्वनमीवास्त आप ओषधयो भवन्तु । इति ३ ५

तृतीये वर्षे चूडाकर्म १ आपूर्यमाणपक्षे पुण्ये नक्षत्रेग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा जुहोति । इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयासि । प्रजापते । यदस्य कर्मणोत्यरीरिचम् । इति च अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् । ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वापरेणाग्निं प्राङ्मुखः कुमार उपविशति २ उत्तरतो माता ब्रह्मचारी वानडुहं शकृत्पिण्डं धारयति ३ तेनास्य केशान्प्रतिगृह्णाति ४ अथोष्णशीता आपः संसृजति ५ शीतासूष्णा आनीय । आप उन्दन्तु जीवसे । इति दक्षिणं गोदानमुनत्ति ६ ओषधे त्रायस्वैनम् । इत्यूर्ध्वाग्रामोषधिमन्तर्दधाति ७ स्वधिते मैनं हिंसीः । इति क्षुरेणाभिनिदधाति ८ देवश्रूरेतानि प्रवपे । इति प्रवपति ९ एवमितरान्प्रदक्षिणम् । येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो वपतेदमस्य ऊर्जेमं रय्या वर्चसा संसृजाथ पश्चात् । येन पूषा बृहस्पतेरग्नेरिन्द्र स्य चायुषेवपत् । तेन तेहं वपाम्यसौ । इत्युत्तरतः । यथा ज्योक्सुमना असत् । ज्योक्च सूर्यं दृशे । इति पुरस्तात् १० उप्त्वा यथोचितं चूडाः कारयति यथर्षि वा ११ संयम्य केशान् । यत्र पूषा बृहस्पतिः सविता सोमो अग्निः । तेभ्यो निधानं बहुधा व्यैच्छन्नन्तरा द्यावापृथवी अपः सुवः । इति गोष्ठ उदुम्बरे दर्भस्तम्बे वा निखनति योस्य रातिर्भवति १२ यथाश्रद्धं ब्राह्मणाय ददाति १३ सर्पिष्मन्तमोदनं नापिताय १४ एवं विहितं षोडशे वर्षे गोदानकर्म १५ सशिखं वापयते १६ शिखामन्त्रावशिनष्टीत्येकेषाम् १७ अग्निगोदानो वा भवति १८ गुरवे गां ददाति १९ ६ प्रथमः पटलः

अथातः श्वग्रहप्रायश्चित्तम् १ समुपसृते यज्ञोपवीत्याचान्तोनाप्रीतेन शरावे णोदकमाहृत्य सभायां मध्येधिदेवनमुद्धत्यावोक्ष्याक्षान्न्युप्य व्यूह्य समूह्य प्रथयित्वोपरिष्टात्सभायां व्यूह्य तृणानि तेन कुमारमभ्याहृत्याक्षेषूत्तानं निपा त्य दध्ना लवणोदकमिश्रेणाभ्युक्षति । आघ्नन्ति कंसं दक्षिणतः कुर्कुरः सुकुर्कुरः कुर्कुरो नीलबन्धनः औलव इत्तमुपाह्वयतार्जिम छम्बलः अथोराम उलुम्बरः सारमेयो ह धावति समुद्र मिव चाकशद्बिभ्रन्निष्कं च रुक्मं च शुनामग्रं सुवीरिणः सुवीरिणः सृज सृज एकव्रात्य सृज शुनक सृज छत् टेकश्च ससरमटङ्कश्च तूलश्च वितूलश्चार्जुनश्च लोहितश्च उत्सृज त्वं शितिम्र त्वं पिशंक रोहितः अमी ये के सरस्यका अवधावति तृतीयस्यामितो दिवि छदपेहि सीसरम सारमेय नमस्ते अस्तु सीसर दूत्या ह नाम वो माता मण्डाकको ह वः पिता छदपेहि सीसरम सारमेय नमस्ते अस्तु सीसर दुला ह नाम वो माता मण्डाकको ह वः पिता छदपेहि सिसरम सारमेय नमस्ते अस्तु सीसर समश्वा वृषणः पदो न सीसरिदतः छदपेहि सीसरम सारमेय नमस्ते अस्तु सीसर संतक्षा हन्ति चक्रिणो न सीसरिदतः । छदपेहि सीसरम सारमेय नमस्ते अस्तु सीसर । इति २ अथाह । वरं वृणीष्व । इति ३ कुमारमेवाहं वरं वृणे । इति ४ एवं समुपसृते त्रिरन्हः प्रातर्मध्यंदिने सायं च कुर्याद्यदि चागतः स्यात् ५ ७  द्वितीयः पटलः

अथातः शूलगवम् १ आपूर्यमाणपक्षे पुण्ये नक्षत्रेग्निमुपसमाधाय संपरिस्तीर्य पयसि स्थालीपाकं श्रपयित्वाभिघार्योद्वास्यापरेणाग्निं द्वे कुटी कृत्वा दक्षिणस्यां शूलगवमावाहयति । आ त्वा वहन्तु हरयः सचेतसः श्वेतैरश्वैः सह केतुमद्भिः । वाताजिरैर्बलवद्भिर्मनोजवैरायाहि शीध्रं मम हव्याय शर्वोम् । इति २ उत्तरस्यां मीढुषीम् ३ मध्ये जयन्तम् ४ यथोढुमुदकानि प्रदायोपस्तीर्णाभिघारितांस्त्रीनोदनान्कल्पयित्वा यथोढमेवोपस्पर्शयति । उपस्पृशतु मीढ्वान्मीढुषे स्वाहा । उपस्पृशतु मीढुषी मीढुष्यै स्वाहा । जयन्त उपस्पृशतु जयन्ताय स्वाहा । इति ५ व्याहृतिपर्यन्तं कृत्वौदनानभ्याहृत्य जुहोति । भवाय देवाय स्वाहा । रुद्रा य देवाय स्वाहा । शर्वाय देवाय स्वाहा । ईशानाय देवाय स्वाहा । पशुपतये देवाय स्वाहा । उग्राय देवाय स्वाहा । भीमाय देवाय स्वाहा । महते देवाय स्वाहा । इति ६ अथ पत्न्योदनस्य पत्न्यै जुहोति । भवस्य देवस्य पत्न्यै स्वाहा । रुद्र स्य देवस्य पत्न्यै स्वाहा । शर्वस्य देवस्य पत्न्यै स्वाहा । ईशानस्य देवस्य पत्न्यै स्वाहा । पशुपतेर्देवस्य पत्न्यै स्वाहा । उग्रस्य देवस्य पत्न्यै स्वाहा । भीमस्य देवस्य पत्न्यै स्वाहा । महतो देवस्य पत्न्यै स्वाहा । इति ७ अथ मध्यमौदनस्य जुहोति । जयन्ताय स्वाहा । जयन्ताय स्वाहा । इति ८ अथ सर्वेभ्य ओदनेभ्यः समवदाय सौविष्टकृतीं जुहोति । अग्नये स्विष्टकृते स्वाहा । इति ९ अभित एतमग्निं गा स्थापयन्ति यथा हूयमानस्य गन्धमाजिघ्रेयुः १० स्वस्ति नः पूर्णमुखं परिक्रामन्तु । इति सर्वतः प्रदक्षिणं परिक्रम्य । नमस्ते रुद्र मन्यवे । इत्येतैरनुवाकैरुपतिष्ठते प्रथमोत्तमाभ्यां वा ११ ८

अथातो बौढ्यविहार एव १ गृहपोपस्पृश गृहपाय स्वाहा । गृहप्युपस्पृश गृहप्यै स्वाहा । द्वारपोपस्पृश द्वारपाय स्वाहा । द्वारप्युपस्पृश द्वारप्यै स्वाहा । इति चत्वारि पलाशानि ददाति । घोषिण उपस्पृशत घोषिभ्यः स्वाहा । निषङ्गिण उपस्पृशत निषङ्गिभ्यः स्वाहा । अन्वासारिण उपस्पृशतान्वासारिभ्यः स्वाहा । प्रयुन्वन्त उपस्पृशत प्रयुन्वद्भ्यः स्वाहा । विचिन्वन्त उपस्पृशत विचिन्वद्भ्यः स्वाहा । समश्नन्त उपस्पृशत समश्नद्भ्यः स्वाहा । इति २ दशाथापराणि । देवसेना उपस्पृशत देवसेनाभ्यः स्वाहा । इति ३ दशैवाथापराणि । या आख्याता देवसेना याश्चानाख्याता उपस्पृशत ताभ्यः स्वाहा । इति ४ अथ पर्णपुटं कृत्वा तस्मिन्नुपस्तीर्णाभिघारितमोदनपिण्डमवदाय परो गव्यूतिं गत्वा वृक्ष आसजति । निषङ्गिण उपस्पृशत निषङ्गिभ्यः स्वाहा । इति ५ अथोपतिष्ठते । नमो निषङ्गिण इषुधिमते तस्कराणां पतये । इति ६ अथ चान्दनसुरोदकाक्षताक्षतगोमयदूर्वास्तम्बोदुम्बरपलाशशमीवैकङ्कताश्वत्थेन गोवालेनेति गाः प्रोक्षति वृषाणमेवाग्रे । शिवो भव शिवो भव । इत्यथ शिवो हैव भवति ७ अथैनं क्षैत्रपत्यं पयसि स्थालीपाकं श्रपयित्वाभिघार्योद्वास्य गवां मार्गेनग्नौ क्षेत्रस्य पतिं यजति ८ चतुर्षु सप्तसु वा पलाशेषु तं तथैवावाहयति यथा शूलगवम् ९ नूर्ते यजते । पाको देवः १० अथोपतिष्ठते । क्षेत्रस्य पतिना वयं । क्षेत्रस्य पते । इति ११ अथैतस्य क्षैत्रपत्यस्य ये सनाभयो भवन्ति ते प्राश्नन्ति यथैवैषां कुलधर्मो भवति १२ ९ तृतीयः पटलः

अमावास्यायामपराह्णे मासिकमपरपक्षस्य वायुक्ष्वहःसु १ पितृभ्योन्नं संस्कृत्य दक्षिणाग्रान्दर्भानासनानि कल्पयित्वा ब्राह्मणाञ्छुचीन्मन्त्रवतः समङ्गानयुज आमन्त्रयते योनिगोत्रमन्त्रासंबन्धान् २ नार्थापेक्षो भोजयेत् ३ अग्निमुपसमाधाय दक्षिणाप्रागग्रैर्दर्भैः परिस्तीर्यैकपवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं संस्कृत्य प्रसव्यं परिषिच्यौदुम्बरमिध्ममभ्याधायौदुम्बर्या दर्व्या जुहोति ४ आज्यभागान्तं कृत्वा प्राचीनावीती पितॄनावाहयति । आयात पितरः सोम्या गम्भीरैः पथिभिः पूर्व्यैः । प्रजामस्मभ्यं ददतो रयिं च दीर्घायुत्वं च शतशारदं च । इति ५ एतामेव दिशमभ्यपः प्रसिञ्चति । आपो देवीः प्रहिणुताग्निमेतं यज्ञं पितरो नो जुषन्ताम् । मासीमामूर्जमुत ये भजन्ते ते नो रयिं सर्ववीरं नियच्छन्तु । इति ६ यज्ञोपवीती व्याहृतिपर्यन्तं कृत्वा प्राचीनावीती जुहोति । सोमाय पितृमते स्वधा नमः । यमायाङ्गिरस्वते पितृमते स्वधा नमः । याः प्राचीः संभवन्त्याप उत्तरतश्च या अद्भिर्विश्वस्य भुवनस्य धर्त्रीभिरन्तरन्यं पितुर्दधे स्वधा नमः । अन्तर्दधे पर्वतैरन्तर्मह्या पृथिव्या दिवा दिग्भिरनन्ताभिरूतिभिरन्तरन्यं पितामहाद्दधे स्वधा नमः । अन्तर्दध ऋतुभिरहोरात्रैः सुसन्धिभिरर्धमासैश्च मासैश्चान्तरन्यं प्रपितामहाद्दधे स्वधा नमः । इति । अथ नामधेयैर्जुहोति । अमुष्मै स्वधा नमः । अमुष्मै स्वधा नमः । इति । यन्मे माता प्रलुलोभ चरत्यननुव्रता । तन्मे रेतः पिता वृङ्क्तामाभुरन्योपपद्यताम् । स्वधा नमः । इति । एवं द्वितीयां तथा तृतीयाम् । यन्मे पितामही । यन्मे प्रपितामही । इति मन्त्रं संनमति ७ १०

ये चेह पितरो ये च नेह यांश्च विद्म याँ उ च न प्रविद्म । अग्ने तान्वेत्थ यदि ते जातवेदस्तया प्रत्तं स्वधया मदन्तु । स्वधा नमः । यद्वः क्रव्यादङ्गमदहल्लोकानयं प्रणयञ्जातवेदाः । तद्वोहं पुनरावेशयाम्यरिष्टाः सर्वैरङ्गैः संभवत पितरः । स्वधा नमः । वहाज्यं जातवेदः पितृभ्यो यत्रैतान्वेत्थ निहितान्पराके । आज्यस्य कूल्या उप तान्क्षरन्तु सत्या एषामाशिषः सन्तु कामैः । स्वधा नमः । इति । एवं द्वितीयां तथा तृतीयाम् । पितामहेभ्यः । प्रपितामहेभ्यः । इति मन्त्रं संनमति १ एवमन्नस्य जुहोति । वहान्नम् । इति मन्त्रं संनमति २ अथ सौविष्टकृतीं जुहोति । अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः । इति ३ अथान्नमभिमृशति । पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा प्राणापानयोर्जुहोमि । अक्षितमसि मा पितॄणां क्षेष्ठा अमुत्रामुष्मिँ ल्लोके । पृथिवी समा तस्याग्निरुपद्र ष्टा दत्तस्याप्रमादाय । पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा प्राणापानयोर्जुहोमि । अक्षितमसि मा पितामहानां क्षेष्ठा अमुत्रामुष्मिँ ल्लोके । अन्तरिक्षं समं तस्य वायुरुपद्र ष्टा दत्तस्याप्रमादाय । पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा प्राणापानयोर्जुहोमि । अक्षितमसि मा प्रपितामहानां क्षेष्ठा अमुत्रामुष्मिँ ल्लोके । द्यौः समा तस्यादित्य उपद्र ष्टा दत्तस्याप्रमादाय । इति ब्राह्मणानुपस्पर्शयति ४ प्राणे निविश्यामृतं जुहोमि । इति ५ ११

भुञ्जानान्समीक्षते । ब्रह्मणि म आत्मामृतत्वाय । इति १ भुक्तवतोनुप्रव्रज्य शेषमनुज्ञाप्योदकुम्भं दर्भमुष्टिं चादाय दक्षिणपूर्वमवान्तरदेशं गत्वा दक्षिणाग्रान्दर्भान्संस्तीर्य तेष्ववाचीनपाणिर्दक्षिणापवर्गांस्त्रीनुदकाञ्जलीन्निनयति । मार्जयन्तां पितरः सोम्यासः । मार्जयन्तां पितामहाः सोम्यासः । मार्जयन्तां प्रपितामहाः सोम्यासः । इति । असाववनेनिङ्क्ष्वासाववनेनिङ्क्ष्व । इति वा २ तेष्ववाचीनपाणिर्दक्षिणापवर्गान्पिण्डान्ददाति । एतत्ते ततासौ । इति पित्रे पिण्डं ददाति । एतत्ते पितामहासौ । इति पितामहाय । एतत्ते प्रपितामहासौ । इति प्रपितामहाय तूष्णीं चतुर्थम् । स कृताकृतः ३ अथ यदि नामधेयानि न विन्द्यात् । स्वधा पितृभ्यः पृथिविषद्भ्यः । इति पित्रे पिण्डं दद्यात् । स्वधा पितृभ्योन्तरिक्षसद्भ्यः । इति पितामहाय । स्वधा पितृभ्यो दिविषद्भ्यः । इति प्रपितामहाय ४ अत्राञ्जनाभ्यञ्जने वासश्चानुपिण्डं ददाति ५ आङ्क्ष्वासावाङ्क्ष्वासौ । इति त्रिराञ्जनम् ६ अभ्यङ्क्ष्वासावभ्यङ्क्ष्वासौ । इति त्रिरभ्यञ्जनम् ७ एतानि वः पितरो वासांस्यतो नोन्यत्पितरो मा यूढ्वम् । इति दशामूर्णास्तुकान्वा छित्त्वा न्यस्यति पूर्वे वयसि ८ स्वं लोभे च्छित्त्वोत्तरे ९ अथ पात्रं संक्षाल्य । पुत्रान्पौत्रानभितर्पयन्तीरापो मधुमतीरिमाः स्वधां पितृभ्यो अमृतं दुहानाः । आपो देवीरुभयांस्तर्पयन्तु नदीरिमा उदन्वतीर्वेतस्विनीः सुतीर्थ्याः । अमुष्मिँ ल्लोक उप वः क्ष्ररन्तु । इति प्रथव्यं परिषिच्य न्युब्जपात्रं पाणी व्यत्यस्य दक्षिणमुत्तरमुत्तरं च दक्षिणम् । नमो वः पितरो रसाय । इति नमस्कारैरुपतिष्ठते १० तत उदकान्तं गत्वा त्रीनुदकाञ्जलीन्निनयति ११ १२

एष ते तत मधुमाँ ऊर्मिः सरस्वान्यावानग्निश्च पृथिवी च तावत्यस्य मात्रा तावानस्य महिमा तावन्तमेनं भूतं ददामि यथाग्निरक्षितोनुपदस्त एवं मह्यं पित्रेक्षितोनुपदस्तः स्वधा भवतां तं स्वधामक्षितं तैः सहोपजीवासावृचस्ते महिमा । एष ते पितामह मधुमाँ ऊर्मिः सरस्वान्यावान्वायुश्चान्तरिक्षं च तावत्यस्य मात्रा तावानस्य महिमा तावन्तमेनं भूतं ददामि यथा वायुरक्षितोनुपदस्त एवं मह्यं पितामहायाक्षितोनुपदस्तः स्वधा भवतां तं स्वधामिक्षितं तैः सहोपजीवासौ यजूंषि ते महिमा । एष ते प्रपितामह मधुमाँ ऊर्मिः सरस्वान्यावानादित्यश्च द्यौश्च तावत्यस्य मात्रा तावानस्य महिमा तावन्तमेनं भूतं ददामि यथादित्योक्षितोनुपदस्त एवं मह्यं प्रपितामहायाक्षितोनुपदस्तः स्वधा भवतां तं स्वधामक्षितं तैः सहोपजीवासौ सामानि ते महिमा । इति १ प्रत्येत्य प्रतिष्ठितमुदपात्रेणोपप्रवर्तयति । परायात पितरह् सोम्या गम्भीरैः पथिभिः पूर्व्यैः । अथ मासि पुनरायात नो गृहान्हविरत्तुं सुप्रजसः सुवीराः । इति २ एतेन माध्यावर्षं व्याख्यातम् ३ तत्र मांसं नियतम् ४ मांसाभावे शाकम् ५ १३ चतुर्थः पटलः

अष्टकां व्याख्यास्यामः १ माघ्याः पौर्णमास्या योपरपक्षस्तस्याष्टमीमेकाष्टकेत्याचक्षते २ ततः पूर्वेद्युरनूराधेष्वपराह्णेग्निमुपसमाधाय दक्षिणाप्रागग्नैर्दर्भैः परिस्तीर्यैकपवित्रान्तर्हितानि चत्वारि व्रीहिशरावाणि निर्वपति । इममपूपं चतुःशरावं निर्वपामि क्लेशावहं पितॄणां सांपराये देवेन सवित्रा प्रसूतः । देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो वो जुष्टं निर्वपामि । इति ३ एतेनैव पवित्रेण तूष्णीं प्रोक्षणीः संस्कृत्य तूष्णीं प्रोक्ष्य तूष्णीमवहत्य यथापुरोडाशमेवं चतुर्षु कपालेषु तूष्णीं श्रपयित्वाभिघार्योद्वास्य प्रसव्यं परिषिच्यौदुम्बरमिध्ममभ्याधायौदुम्बर्या दर्व्योपस्तिर्णाभिघारितं दक्षिणाप्राचीसंततं परंपरमवदाय दक्षिणाप्राचीसंततं परंपरं जुहोति । उलूखला ग्रावाणो घोषमक्रत हविः कृण्वन्तः परिवत्सरीणाम् । एकाष्टके सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् । स्वधा नमः । अपूपं देव घृतवन्तमग्ने स्वधावन्तं पितॄणां तर्पणाय । यथातथं वह हव्यमग्ने पुत्रः पितृभ्य आहुतिं जुहोमि । स्वधा नमः । अयं चतुःशरावो घृतवानपूपः पयस्वानग्ने रयिमान्पुष्टिमांश्च । प्रतिनन्दन्तु पितरः संविदानाः स्विष्टोयं सुहुतो ममास्तु । स्वधा नमः । इति ४ अथान्नस्य जुहोति । इयमेव सा या प्रथमा व्यौछत् । एकाष्टका तपसा तप्यमाना । या प्रथमा व्यौछत् । इति ५ अपूपस्यान्नस्येति समवदाय सर्पिर्मिश्रस्य जुहोति । अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः । इति ६ तं घृतवन्तं मधुमन्तमन्नवन्तं श्राद्धाभिमर्शनेनाभिमृश्य पिण्डानामावृता पिण्डान्ददाति ७ तेन ब्राह्मणान्विद्यावतः परिवेवेष्टि ८ तेभ्यो यथाश्रद्धमन्नं धनं च ददाति ९ प्रसिद्धमोदकाञ्जलिदानाद्यथा मासिके १० १४

श्वोभूते पितृभ्यो गामालभते १ अग्निमुपसमाधाय दक्षिणाप्रागग्रैर्दर्भैः परिस्तीर्य । इमां पितृभ्यो गामुपाकरोमि तां मे समेताः पितरो जुषन्ताम् । मेदस्वतीं घृतवतीं स्वधावतीं सा मे पितॄन्सांपराये धिनोतु । स्वधा नमः । इत्युपाकरणीयां हुत्वैकेन बर्हिषैकशूलया च वपाश्रपण्यौदुम्बर्योपाकरोति । पितृभ्यस्त्वा जुष्टामुपाकरोमि । इति २ अथैनां प्रोक्षति । पितृभ्यस्त्वा जुष्टां प्रोक्षामि । इति ३ तां प्रोक्षितां पर्यग्नि कृत्वा तामपरेणाग्निं प्रत्यक्शिरसं दक्षिणापदीं संज्ञपयन्ति ४ सज्ञप्तायै तूष्णीमद्भिः प्राणानाप्याय्य तूष्णीं वपां हृदयं मतस्ने उद्धरति ५ औदुम्बर्या वपाश्रपण्या वपां श्रपयत्यौदुम्बरेषु शूलेषु पृथगितराणि ६ श्रपयित्वाभिघार्योद्वास्य प्रसव्यं परिषिच्यौदुम्बरमिध्ममभ्याधायौदुम्बर्या दर्व्योपस्तीर्णाभिघारितां वपां जुहोति । वह वपां जातवेदः पितृभ्यो यत्रैतान्वेत्थ निहितान्पराके । मेदसः कूल्या उप तान्क्षरन्तु सत्या एषामाशिषः सन्तु कामैः । स्वधा नमः । इति ७ सर्वहुतां वपां जुहोति शेषमुत्कृष्य ब्राह्मणान्भोजयेत् ८ उपस्थितेन्न ओदनस्य मांसानामिति समवदाय सर्पिर्मिश्रस्य जुहोति । एकाष्टकां पश्यत दोहमानामन्नं मांसवद्घृतवत्स्वधावत् तद्ब्राह्मणैरतिपूतमन्नंतमक्षितं तन्मे अस्तु स्वधा नमः एकाष्टका तपसा तप्यमाना संवत्सरस्य पत्नी दुदुहे प्रपीना । तं दोहमुप जीवाथ पितरः संविदानाः स्विष्टोयं सुहुतो ममास्तु । स्वधा नमः । संवत्सरस्य प्रतिमाम् । इति ९ हुत्वान्नस्य मांसानामिति समवदाय सर्पिर्मिश्रस्य जुहोति । अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः । इति १० प्रसिद्धमोदकाञ्जलिदानाद्यथा मासिके ११ अन्नधनदाने त्वत्रानियते १२ श्वोभूते मांसशेषेण पितृभ्योन्नं संस्कृत्य । त्वमग्ने अयासि । प्रजापते । इति जुहोति १३ प्रसिद्धमोदकाञ्जलिदानाद्यथा मासिके १४ १५ पञ्चमः पटलः

अथातः श्रवणाकर्म १ तद्या पौर्णमासी श्रवणेन युञ्ज्यात्तस्यामुपरिष्टात्सायमग्निहोत्रस्य दक्षिणाग्निमुपसमादधात्यौपासनमनाहिताग्निः २ अथोपकल्पयतेक्षतधाना अक्षतलाजान्सक्तून्किंशुकान्याञ्जनाभ्यञ्जने आज्यमिति ३ दर्व्यामुपस्तीर्यैतेषामेवान्नानां समवदाय सर्पिर्मिश्रस्य जुहोति । नमोग्नये पार्थिवाय पार्थिवानामधिपतये स्वाहा । नमो वायवे विभुमत आन्तरिक्षाणामधिपतये स्वाहा । नमः सूर्याय रोहिताय दिव्यानामधिपतये स्वाहा । नमो विष्णवे गौराय दिश्यानामधिपतये स्वाहा । इति ४ किंशुकान्याज्येन संयुज्य जुहोति । जग्धो मशको जग्धा विचष्टिर्जग्धो व्यध्वरः । जग्धो व्यध्वरो जग्धा विचष्टिर्जग्धो मशकः । जग्धा विचष्टिर्जग्धो मशको जग्धो व्यध्वरः । इति ५ उदकुम्भं दर्भमुष्टिं चादाय प्राङ्मुखो निष्क्रम्य प्राचो दर्भान्संस्तीर्य तेषु चतुरो बलीन्हरति । ये पार्थिवाः सर्पास्तेभ्य इमं बलिं हरामि । य आन्तरिक्षाः । ये दिव्यः । ये दिश्याः । इति ६ अत्राञ्जनाभ्यञ्जने दत्त्वोपतिष्ठते । नमो अस्तु सर्पेभ्यः । इत्येतैर्मन्त्रैः ७ उदकुम्भमादाय त्रिः प्रदक्षिणमावसथं परिषिञ्चन्परिक्रामेद्यावता कामयेतैतावता मे सर्पा नावक्रामेयुरिति । अप श्वेत पदा जहि पूर्वेण चापरेण च सप्त च मानुषीरिमास्तिस्रश्च राजबन्धवैः न वै श्वेतस्याभ्याचरेणाहिर्जघान कं चन श्वेताय वैदर्वाय नमो नमः श्वेताय वैदर्वाय । इति ८ अथोपतिष्ठते । समीची नामासि प्राची दिक् । इत्येतैर्मन्त्रैः प्रतिदिशम् ९ नित्यमत ऊर्ध्वं बलिं हरत्या मार्गशीर्ष्याः १० नात्र किंशुकहोमः ११ न परिषेचनं विद्यते १२ निरवदास्यन्निरवदास्यन् । इत्यन्ततो बलीन्हरति १३ १६ षष्ठः पटलः

आग्रहायणीं व्याख्यास्यामः १ मार्गशीर्ष्यां पौर्णमास्यामग्निमुपसमाधाय संपरिस्तीर्य पयसि स्थालीपाकं श्रपयित्वाभिघार्योद्वास्य व्याहृतिपर्यन्तं कृत्वा जुहोति । इडायै सृप्तं घृतवच्चराचरं जातवेदो हविरिदं जुषस्व । ये ग्राम्याः पशवो विश्वरूपास्तेषां सप्तानामिह रन्तिरस्तु पुष्टिः । स्वाहा । यां जनाः प्रतिनन्दन्ति रात्रिं धेनुमिवायतीम् । संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली स्वाहा । शिवा पशुभ्यो दारेभ्यः शिवा नक्तं शिवा दिवा । संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली । स्वाहा । पौर्णमासी पूरयन्त्यायान्त्यपरापरान् । मासार्धमासान्विभजति सा नः पूर्णाभिरक्षतु । स्वाहा । इति २ अथ सौविष्टकृतीं जुहोति । स्विष्टमग्ने अभि तत्पृणाहि विश्वा देव पृतना अभिष्य । उरुं नः पन्थां प्रदिशन्विभाहि ज्योतिष्मद्धेह्यजरं न आयुः । इति ३ ततः पाणी प्रक्षाल्य भूमिमालभते । प्रति क्षत्रे प्रतितिष्ठामि राष्ट्रे प्रत्यश्वेषु प्रतितिष्ठामि गोषु । प्रत्यङ्गेषु प्रतितिष्ठाम्यात्मन्प्रति प्राणेषु प्रतितिष्ठामि पुष्टे । प्रति द्यावापृथिव्योः प्रतितिष्ठामि यज्ञे । त्रया देवा एकादश त्रयस्त्रिंशाः सुराधसः । बृहस्पतिपुरोहिता देवस्य सवितुः सवे । देवा देवैरवन्तु मा । इति ४ तेषां दक्षिणा गृहपतिरुपविशति ५ उत्तरा उत्तरे ६ प्रजोत्पत्त्यानुपूर्व्येण ७ तेषां मन्त्रविदस्ते मन्त्राञ्जपन्ति ८ स्योना पृथिवि भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः । बडित्था पर्वतानाम् । इति द्वाभ्यां दक्षिणैः पार्श्वैः संविशन्ति ९ उदायुषा । इत्युत्तिष्ठन्ति १० उदस्थामामृता अभूम । इत्युत्थाय जपन्ति ११ एवं रात्रेस्त्रिः संजिहते १२ ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वाथैतां रात्रिं वसन्ति १३ १७ सप्तमः पटलः

अथात उपाकरणोत्सर्जने व्याख्यास्यामः १ श्रवणापक्ष ओषधीषु जातासु हस्तेन पौर्णमास्यां वाध्यायोपाकर्म २ अग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा काण्डर्षीञ्जुहोति । प्रजापतये काण्डर्षये स्वाहा । सोमाय काण्डर्षये स्वाहा । अग्नये काण्डर्षये स्वाहा । विश्वेभ्यो देवेभ्यः काण्डर्षिभ्यः स्वाहा । स्वयंभुवे काण्डर्षये स्वाहा । इति काण्डर्षयः काण्डनामानि वा सावित्रीमृग्वेदं यजुर्वेदं सामवेदमथर्ववेदं सदसस्पतिमिति ३ हुत्वा त्रीनादितोनुवाकानधीयते ४ काण्डादीन्वा सर्वान् ५ जयादि प्रतिपद्यते ६ स्विष्टकृदन्तं कृत्वा त्र्यहमेकाहं वा क्षम्य यथाध्यायमध्येतव्यमिति वदन्ति ७ तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः ८ सगणः प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य यत्रापः सुखाः सुखावगाहास्तदवगाह्याघमर्षणेन त्रीन्प्राणायामान्कृत्वा सपवित्रैः पाणिभिः । आपो हि ष्ठा मयोभुवः । इति तिसृभिः । हिरण्यवर्णाः शुचयः पावकाः । इति चतसृभिः । पवमानः सुवर्जनः । इति चैतेनानुवाकेन स्नात्वा दर्भानन्योन्यस्मै संप्रयच्छन्तो दित्सन्त इवान्योन्यम् ९ ततः शुचौ देशे प्राचीनप्रवणे प्रागग्रैर्दर्भैरुदगपवर्गाण्यासनानि कल्पयन्ति १० १८

ब्रह्मने प्रजापतये बृहस्पतयेग्नये वायवे सूर्याय चन्द्र मसे नक्षत्रेभ्य इन्द्रा य राज्ञे यमाय राज्ञे वरुणाय राज्ञे सोमाय राज्ञे वैश्रवणाय राज्ञे वसुभ्यो रुद्रे भ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यः साध्येभ्य ऋभुभ्यो भृगुभ्यो मरुद्भ्योथर्वभ्योङ्गिरोभ्य इति देवगणानाम् १ विश्वामित्रो जमदग्निर्भरद्वाजोथ गौतमः । अत्रिर्वसिष्ठः कश्यपः । इत्येते सप्तर्षयः २ निवीतिन उत्तरत उदीचीनप्रवण उदगग्रैर्दर्भैः प्रागपवर्गाण्यासनानि कल्पयन्ति विश्वामित्राय जमदग्नये भरद्वाजाय गौतमायात्रये वसिष्ठाय कश्यपाय ३ वसिष्ठकश्यपयोरन्तरालेरुन्धत्यै कल्पयन्ति ४ दक्षिणतः प्राचीनप्रवणेगस्त्याय ५ तत एकवेद्यान्तेभ्यः कृष्णद्वैपायनाय जातूकर्ण्याय तरुक्षाय तृणबिन्दवे वर्मिणे वरूथिने वाजिने वाजश्रवसे सत्यश्रवसे सुश्रवसे सुतश्रवसे सोमशुष्मायणाय सत्ववते बृहदुक्थाय वामदेवाय वाजिरत्नाय हर्यज्वायनायोदमयाय गौतमाय ऋणंजयाय ऋतंजयाय कृतंजयाय धनंजयाय बभ्रवे त्र्यरुणाय त्रिवर्षाय त्रिधातवे शिबिन्ताय पराशराय विष्णवे रुद्रा य स्कन्दाय काशीश्वराय श्वराय धर्मायार्थाय कामाय क्रोधाय वसिष्ठायेन्द्रा य त्वष्ट्रे कर्त्रे धर्त्रे धात्रे मृत्यवे सवित्रे सावित्र्यै वेदेभ्यश्च पृथक्पृथगृग्वेदाय यजुर्वेदाय सामवेदायाथर्ववेदायेतिहासपुराणायेति ६ दक्षिणतः प्राचीनावीतिनो दक्षिणाप्रवणे दक्षिणाग्रैर्दर्भैः प्रत्यगपवर्गाण्यासनानि कल्पयन्ति ९ १९

वैशम्पायनाय पलिङ्गवे तित्तिरायोखायात्रेयाय पदकाराय कौण्डिण्याय वृत्तिकाराय सूत्रकारेभ्यः सत्याषाढाय प्रवचनकर्तृभ्य आचार्येभ्य ऋषिभ्यो वानप्रस्थेभ्य ऊर्ध्वरेतोभ्य एकपत्नीभ्य इति १ यथास्वं पितृभ्यो मातामहेभ्यश्च कल्पयन्ति २ अमुष्मै कल्पयाम्यमुष्मै कल्पयामि । इत्यासनेन ३ अमुं तर्पयाम्यमुं तर्पयामि । इत्युदकेन ४ अमुष्मै नमोमुष्मै नमः । इति गन्धपुष्पधूपदीपैः ५ अमुष्मै स्वाहामुष्मै स्वाहा । इत्यन्नेन ६ अमुं तर्पयाम्यमुं तर्पयामि । इति फलोदकेन ७ अमुष्मै नमोमुष्मै नमः । इत्युपस्थाय ८ अपरेण वेदिमग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा काण्डर्षीञ्जुहोति काण्डनामानि वा सावित्रीमृग्वेदं यजुर्वेदं सामवेदमथर्ववेदं सदसस्पतिमिति । हुत्वा प्रथमेनानुवाकेनाधीयते । काण्डादीन्वा सर्वान् । जयादि प्रतिपद्यते । स्विष्टकृदन्तं कृत्वा त्र्यहमेकाहं वा क्षम्य यथाध्यायमध्येतव्यमिति वदन्ति ९ काण्डात्काण्डात् । या शतेन । इति द्वाभ्यामुदकान्ते दूर्वा रोपयन्ति १० उदधिमूर्मिमन्तं कृत्वा प्राचीमुदीचीं वा दिशमातमितोराजिं धावन्ति ११ प्रत्येत्यापूपैः सक्तुभिरोदनेनेति ब्राह्मणांस्तर्पयन्ति १२ एवं पारायणसमाप्तौ दूर्वारोपणोदधिधावनवर्जम् १३ नित्यमेवाद्भिर्देवानृषीन्पितॄंश्च तर्पयन्ति तर्पयन्ति १४ २० अष्टमः पटलः


Related

Tags: Grihya Sutram

Continue Reading

Previous: ऋषिपराशर कृत कृषिशास्त्रम्- Krishi Sastram by Parasara – 200 CE
Next: East India Company incorporated cultivation of opium in India, and export it to China within its financial system-Karl Marx (1858)

Indian Supreme Court Digest

  • ISKCON leaders, engage themselves into frivolous litigations and use court proceedings as a platform to settle their personal scores-(SC-18/05/2023)
  • High Court would not interfere by a Revision against a decree or order u/s 6 of SRA if there is no exceptional case (SC-2/4/2004)
  • Borrower may file a counterclaim either before DRT in a proceeding filed by Bank under RDB Act or a Civil Suit under CPC-SC (10/11/2022)
  • When Supreme Court interfered in case of High Court refused Anticipatory Bail (02/12/2022)
  • Award can be modified only to the extent of arithmetical or clerical error-SC (22/11/2021)

Write A Guest Post

Current Posts

PM’s address at the celebration of dedication of New Parliament Building to the Nation (28/05/2023)
1 min read
  • Speeches

PM’s address at the celebration of dedication of New Parliament Building to the Nation (28/05/2023)

Betrayal In India-D F KARAKA (1950)
329 min read
  • BOOK

Betrayal In India-D F KARAKA (1950)

Siva’s 1000 Names (शिवसहस्रनामावलिः)
1 min read
  • Sanskrit Documents

Siva’s 1000 Names (शिवसहस्रनामावलिः)

History of the Banaras Hindu University by S L Dar (2007)
4 min read
  • BOOK

History of the Banaras Hindu University by S L Dar (2007)

  • DATABASE
  • INDEX
  • JUDGMENTS
  • CONTACT US
  • DISCLAIMERS
  • RSS
  • PRIVACY
  • ACCOUNT
Copyright by Advocatetanmoy.