तन्त्रालोकः-अभिनवगुप्त- Tantraloka by Avinaba Gupta

तन्त्रालोकः- प्रथममाह्निकम्

श्रीविद्याधिपति अभिनवगुप्त

‘अथ श्री तन्त्रालोकः

.

विमलकलाश्रयाभिनवसृष्टिमहा जननी भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः ।
तदुभययामलस्फुरितभावविसर्गमयं हृदयमनुत्तरामृतकुलं मम सस्फुरतात् ॥१॥

नौमि चित्प्रतिभां देवीं परां भैरवयोगिनीम् ।
मातृमानप्रमेयांशशूलाम्बुजकृतास्पदाम् ॥२॥
नौमि देवीं शरीरस्थां नृत्यतो भैरवाकृते ।
प्रावृण्मेघघनव्योमविद्युल्लेखाविलासिनीम् ॥३॥
दीप्तज्योतिश्छटाप्लुष्टभेदबन्धत्रयं स्फुरत् ।
स्ताज्ज्ञानशूलं सत्पक्षविपक्षोत्कर्तनक्षमम् ॥४॥
स्वातन्त्र्यशक्तिः क्रमसंसिसृक्षा क्रमात्मता चेति विभोर्विभूतिः ।
तदेव देवीत्रयमन्तरास्तामनुत्तरं मे प्रथयत्स्वरूपम् ॥५॥
तद्देवताविभवभाविमहामरीचिचक्रेश्वरायितनिजस्थितिरेक एव ।
देवीसुतो गणपतिः स्फुरदिन्दुकान्तिः सम्यक्समुच्छलयतान्मम संविदब्धिम् ॥६॥
रागारुणां ग्रन्थिबिलावकीर्ण यो जालमातानवितानवृत्ति ॥
कलोम्भितं बाह्यपथे चकार स्तान्मे स मच्छन्दविभुः प्रसन्नः ॥७॥
त्रैयम्बकाभिहितसन्ततिताम्रपर्णीसन्मौक्तिकप्रकरकान्तिविशेषभाजः ।
पूर्वे जयन्ति गुरवो गुरुशास्त्रसिन्धुकल्लोलकेलिकलनामलकर्णधाराः ॥८॥

जयति गुरुरेक एव श्रीश्रीकण्ठो भुवि प्रथितः ।
तदपरमूर्तिर्भगवान् महेश्वरो भूतिराजश्च ॥९॥
श्रीसोमानन्दबोधश्रीमदुत्पलविनिःसृताः ।
जयन्ति संविदामोदसन्दर्भा दिक्प्रसर्पिणः ॥१०॥
तदास्वादभरावेशबृंहितां मतिषट्पदीम् ।
गुरोर्लक्ष्मणगुप्तस्य नादसंमोहिनीं नुमः ॥११॥
यः पूर्णानन्दविश्रान्तसर्वशास्त्रार्थपारगः ।
स श्रीचुखुलको दिश्यादिष्टं मे गुरुरुत्तमः ॥१२॥
जयताज्जगदुद्धृतिक्षमोऽसौ भगवत्या सह शंभुनाथ एकः ।
यदुदीरितशासनांशुभिर्मे प्रकटोऽयं गहनोऽपि शास्त्रमार्गः ॥१३॥
सन्ति पद्धतयश्चित्राः स्रोतोभेदेषु भूयसा ।
अनुत्तरषडर्धार्थक्रमे त्वेकापि नेक्ष्यते ॥१४॥
इत्यहं बहुशः सद्भिः शिष्यसब्रह्मचारिभिः ।
अर्थितो रचये स्पष्टां पूर्णार्था प्रक्रियामिमाम् ॥१५॥

श्रीभट्टनाथचरणाब्जयुगात्तथा श्रीभट्टारिकांघ्रियुगलाद्गुरुसन्ततिर्या ।
बोधान्यपाशविषनुत्तदुपासनोत्थबोधोज्ज्वलोऽभिनवगुप्त इदं करोति ॥१६॥

न तदस्तीह यन्न श्री-मालिनीविजयोत्तरे ।
देवदेवेन निर्दिष्टं स्वशब्देनाथ लिङ्गतः ॥१७॥
दशाष्टादशवस्वष्टभिन्नं यच्छासनं विभोः ।
तत्सारं त्रिकशास्त्रं हि तत्सारं मालिनीमतम् ॥१८॥
अतोऽत्रान्तर्गतं सर्व संप्रदायोज्झितैर्बुधैः ।
अदृष्ट प्रकटीकुर्मो गुरुनाथाज्ञया वयम् ॥१९॥
अभिनवगुप्तस्य कृतिः सेयं यस्योदिता गुरुभिराख्या ।
त्रिनयनचरणसरोरुहचिन्तनलब्धप्रसिद्धिरिति ॥२०॥

श्रीशम्भुनाथभास्करचरणनिपातप्रभापगतसंकोचम् ।
अभिनवगुप्तहृदम्बुजमेतद्विचिनुत महेशपूजनहेतोः ॥२१॥

आदिवाक्यं

इह तावत्समस्तेषु शास्त्रेषु परिगीयते ।
अज्ञानं संसृतेर्हेतुर्ज्ञानं मोक्षैककारणम् ॥२२॥
मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् ।
इति प्रोक्तं तथा व श्रीमलिनीविजयोत्तरे ॥२३॥
विशेषणेन बुद्धिस्थे संसारोत्तरकालिके ।
संभावनां निरस्यैतदभावे मोक्षमब्रवीत् ॥२४॥
अज्ञानमिति न ज्ञानाभावश्चातिप्रसङ्गतः ।
स हि लोष्टादिकेऽप्यस्ति न च तस्यास्ति संसृतिः ॥२५॥
अतो ज्ञेयस्य तत्त्वस्य सामस्त्येनाप्रथात्मकम् ।
ज्ञानमेव तदज्ञानं शिवसूत्रेषु भाषितम् ॥२६॥
चैतन्यमात्मा ज्ञानं च बन्ध इत्यत्र सूत्रयोः ।
संश्लेषेतरयोगाश्यामयमर्थः प्रदर्शितः ॥२७॥
चैतन्यमिति भावान्तः शब्दः स्वातन्त्र्यमात्रकम् ।
अनाक्षिप्रविशेषं सदाह सूत्रे पुरातने ॥२८॥
द्वितीयेन तु सूत्रेण क्रियां वा करणं च वा ।
ब्रुवता तस्य चिन्मात्ररूपस्य द्वैतमुच्यते ॥२९॥
द्वैतप्रथा तदज्ञानं तुच्छत्वाद्बन्ध उच्यते ।
तत एव समुच्छेद्यमित्यावृत्त्यानिरूपितम् ॥३०॥
स्वतन्त्रात्मातिरिक्तस्तु तुच्छोऽ तुच्छोऽपि कश्चन ।
न मोक्षो नाम तन्नास्य पृथङ्नामापि गृह्यते ॥३१॥
यत्तु ज्ञेयसतत्त्वस्य पूर्णपूर्णप्रथात्मकम् ।
तदुत्तरोत्तरं ज्ञानं तत्तत्संसारशान्तिदम् ॥३२॥
रागाद्यकलुषोऽस्म्यन्तःशून्योऽहं कर्तृतोज्झितः ।
इत्थं समासव्यासाभ्यां ज्ञानं मुञ्चति तावतः ॥३३॥
तस्मान्मुक्तोऽप्यवच्छेदादवच्छेदान्तरस्थितेः ।
अमुक्त एव मुक्तस्तु सर्वावच्छेदवर्जितः ॥३४॥
यत्तु ज्ञेयसतत्त्वस्य ज्ञानं सर्वात्मनोज्झितम् ।
अवच्छेदैर्न तत्कुत्राप्यज्ञानं सत्यमुक्तिदम् ॥३५॥
ज्ञानाज्ञानस्वरूपं यदुक्तं प्रत्येकमप्यदः ।
द्विधा पौरुषबौद्धत्वभिदोक्तं शिवशासने ॥३६॥
तत्र पुंसो यदज्ञानं मलाख्यं तज्जमप्यय ।
स्वपूर्णचित्क्रियारूपशिवतावरणात्मकम् ॥३७॥
संकोचिदृक्क्रियारूपं तत्पशोरविकल्पितम् ।
तदज्ञानं न बुद्घ्यंशोऽध्यवसायाद्यभावतः ॥३८॥
अहमित्थमिदं वेद्मीत्येवमध्यवसायिनी ।
षट्कञ्चुकाबिलाणूत्थप्रतिबिम्बनतो यदा ॥३९॥
धीर्जायते तदा तादृग्ज्ञानमज्ञानशब्दितम् ।
बौद्धं तस्य च तत्पौंस्नं पोषणीयं च पोष्टृच ॥४०॥
क्षीणे तु पशुसंस्कारे पुंसः प्राप्तपरस्थितेः ।
विकस्वरं तद्विज्ञानं पौरुषं निर्विकल्पकम् ॥४१॥
विकस्वराविकल्पात्मज्ञानौचित्येन यावसा ।
तद्बौद्धं यस्य तत्पौंस्नं प्राग्वत्पोष्यं च पोष्टृ च ॥४२॥
तत्र दीक्षादिना पौंस्नमज्ञानं ध्वंसि यद्यपि ।
तथापि तच्छरीरान्ते तज्ज्ञानं व्यज्यते स्फुटम् ॥४३॥
बौद्धज्ञानेन तु यदा बौद्धमज्ञानजृम्भितम् ।
विलीयते तदा जीवन्मुक्तिः करतले स्थिता ॥४४॥
दीक्षापि बौद्धविज्ञानपूर्वा सत्यं विमोचिका ।
तेन तत्रापि बौद्धस्य ज्ञानस्यास्ति प्रधानता ॥४५॥
ज्ञानाज्ञानागतं चैतद्द्वित्वं स्वायम्भुवे रुरौ ।
मतङ्गादौ कृतं श्रीमत्खेटपालादिदैशिकैः ॥४६॥
तथाविधावसायात्मबौद्धविज्ञानसम्पदे ।
शास्त्रमेव प्रधानं यज्ज्ञेयतत्त्वप्रदर्शकम् ॥४७॥
दीक्षया गलितेऽप्यन्तरज्ञाने पौरुषात्मनि ।
धीगतस्यानिवृत्तत्वाद्विकल्पोऽपि हि संभवेत ॥४८॥
देहसद्भावपर्यन्तमात्मभावो यतो धियि ।
देहान्तेऽपि न मोक्षः स्यात्पौरुषाज्ञानहानितः ॥४९॥
बौद्धाज्ञाननिवृत्तौ तु विकल्पोन्मूलनाद्ध्रुवम् ।
तदैव मोक्ष इत्युक्तं धात्रा श्रीमन्निशाटने ॥५०॥
विकल्पयुक्तचितस्तु पिण्डपाताच्छिवं ब्रजेत् ।
इतरस्तु तदैवेति शास्त्रस्यात्र प्रधानतः ॥५१

ज्ञेयस्य हि परं तत्त्वं यः प्रकाशात्मकः शिवः ।
नह्यप्रकाशरूपस्य प्राकाश्यं वस्तुतापि वा ॥५२॥
अवस्तुतापि भावानां चमत्कारैकगोचरा ।
यत्कुड्यसदृशी नेयं धीरवस्त्वेतदित्यपि ॥५३॥
प्रकाशो नाम यश्चायं सर्वत्रैव प्रकाशते ।
अनपह्नवनीयत्वात् किं तस्मिन्मानकल्पनैः ॥५४॥
प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते ।
तेषामपि परो जीवः स एव परमेश्वरः ॥५५॥
सर्वापह्नवहेवाकधर्माप्येवं हि वर्तते ।
ज्ञानमात्मार्थमित्येतन्नेति मां प्रति भासते ॥५६॥
अपह्नुतौ साधने वा वस्तूनामाद्यमीदृशम् ।
यत्तत्र के प्रमाणानामुपपत्त्युपयोगिते ॥५७॥

कामिके तत एवोक्तं हेतुवादविवर्जितम् ।
तस्य देवातिदेवस्य परापेक्षा न विद्यते ॥५९॥
परस्य तदपेक्षत्वात्स्वतन्त्रोऽयमतः स्थितः ।
अनपेक्षस्य वशिनो देशकालाकृतिक्रमाः ॥६०॥
नियता नेति स विभुर्नित्यो विश्वाकृतिः शिवः ।
विभुत्वात्सर्वगो नित्यभावादाद्यन्तवर्जितः ॥६१॥
विश्वाकृतित्वाच्चिदचित्तद्वैचित्र्यावभासकः ।
ततोऽस्य बहुरूपत्वमुक्तं दीक्षोत्तरादिके ॥६२॥
भुवनं विग्रहो ज्योतिः खं शब्दो मन्त्र एव च ।
बिन्दुनादादिसंभिन्नः षड्विधः शिव उच्यते ॥६३॥
यो यदात्मकतानिष्ठस्तद्भावं स प्रपद्यते ।
व्योमादिशब्दविज्ञानात्परो मोक्षो न संशयः ॥६४॥
विश्वाकृतित्वे देवस्य तदेतच्चोपलक्षणम् ।
अनवच्छिन्नतारूढाववच्छेदलयेऽस्य च ॥६५॥
उक्तं च कामिके देवः सर्वाकृतिर्निराकृतिः ।
जलदर्पणवत्तेन सर्वं व्याप्तं चराचरम् ॥६६॥
न चास्य विमुताद्योऽयं धर्मोऽन्योन्यं विभिद्यते ।
एक एवास्य धर्मोऽसौ सर्वाक्षेपेण वर्तते ॥६७॥
तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः ।
बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता ॥६८॥
शक्तिश्च नाम भावस्य स्वं रूपं मातृकल्पितम् ।
तेनाद्वयः स एवापि शक्तिमत्परिकल्पने ॥६९॥
मातृक्लृप्ते हि देवस्य तत्र तत्र वपुष्यलम् ।
को भेदो वस्तुतो वह्नेर्दग्धृपक्तृत्वयोरिव ॥७०॥
न वासौ परमार्थेन न किंचिद्भासनादृते ।
नह्यस्ति किंचित्तच्छक्तितद्वद्भेदोऽपि वास्तवः ॥७१॥
स्वशक्त्युद्रेकजनकं तादात्म्याद्वस्तुनो हि य्त् ।
शक्तिस्तदपि देव्येवं भान्त्यप्यन्यस्वरूपिणी ॥७२॥
शिवश्चालुप्तविभवस्तथा सृष्टोऽवभासते ।
स्वसंविन्मातृमकुरे स्वातन्त्र्याद्भावनादिषु ॥७३॥
तस्माद्येन मुखेनैष भात्यनंशोऽपि तत्तथा ।
शक्तिरित्येष वस्त्वेव शक्तितद्वत्क्रमः स्फुटः ॥७४॥
श्रीमत्किरणशास्त्रे च तत्प्रश्नोत्तरपूर्वकम् ।
अनुभावो विकल्पोऽपि मानसो न मनः शिवे ॥७५॥
अविज्ञाय शिवं दीक्षा कथमित्यत्र चोत्तरम् ।
क्षुधाद्यनुभवो नैव विकल्पो नहि मानसः ॥७६॥
रसाद्यनध्यक्षत्वेऽपि रूपादेव यथा तरुम् ।
विकल्पो वेत्ति तद्वत्तु नादबिन्द्वादिना शिवम् ॥७७॥
बहुशक्तित्वमस्योक्तं शिवस्य यदतो महान् ।
कलातत्त्वपुरार्णाणुपदादिर्भेदविस्तरः ॥७८॥
सृष्टिस्थितितिरोधानसंहारानुग्रहादि च ।
तुर्यमित्यपि देवस्य बहुशक्तित्वजृम्भितम् ॥७९॥
जाग्रत्स्वप्नसुषुप्तान्यतदतीतानि यान्यपि ।
तान्यप्यमुष्य नाथस्य स्वातन्त्र्यलहरीभरः ॥८०॥
महामन्त्रेशमन्त्रेशमन्त्राः शिवपुरोगमाः ।
अकलौ सकलश्चेति शिवस्यैव विभूतयः ॥८१॥
तत्त्वग्रामस्य सर्वस्य धर्मः स्यादनपायवान् ।
आत्मैव हि स्वभावात्मेत्युक्तं श्रीत्रिशिरोमते ॥८२॥
हृदिस्थं सर्वदेहस्थं स्वभावस्थं सुसूक्ष्मकम् ।
सामूह्यं चैव तत्त्वानां ग्रामशब्देन कीर्तितम् ॥८३॥
आत्मैव धर्म इत्युक्तः शिवामृतपरिप्लुतः ।
प्रकाशावस्थितं ज्ञानं भावाभावादिमध्यतः ॥८४॥
स्वस्थाने वर्तनं ज्ञेयं द्रष्टृत्वं विगतावृति ।
विविक्तवस्तुकथितशुद्धविज्ञाननिर्मलः ॥८५॥
ग्रामधर्मवृत्तिरुक्तस्तस्य सर्वं प्रसिद्ध्यति ।
ऊर्ध्व त्यक्त्वाधो विशेत्स रामस्थो मध्यदेशगः ॥८६॥
गतिः स्थानं स्वप्नजाग्रदुन्मेषणनिमेषणे ।
धावनं प्लवनं चैव आयासः शक्तिवेदनम् ॥८७॥
बुद्धिभेदास्तथा भावाः संज्ञाः कर्माण्यनेकशः ।
एष रामो व्यापकोऽत्र शिवः परमकारणम् ॥८८॥
कल्मषक्षीणमनसा स्मृतिमात्रनिरोधनात् ।
ध्यायते परमं ध्येयं गमागमपदे स्थितम् ॥८९॥
परं शिवं तु व्रजति भैरवाख्यं जपादपि ।
तत्स्वरूपं जपः प्रोक्तो भावाभावपदच्युतः ॥९०॥
तदत्रापि तदीयेन स्वातन्त्र्येणोपकल्पितः ।
दूरासन्नादिको भेदश्चित्स्वातन्त्र्यव्यपेक्षया ॥९१॥
एवं स्वातन्त्र्यपूर्णत्वादतिदुर्घटकार्ययम् ।
केन नाम न रूपेण भासते परमेश्वरः ॥९२॥
निरावरणमाभाति भात्याबृतनिजात्मकः ।
आवृतानावृतो भाति बहुधा भेदसंगमात् ॥९३॥
इति शक्तित्रयं नाथे स्वातन्त्र्यापरनामकम् ।
इच्छादिभिरभिख्याभिर्गुरुभिः प्रकटीकृतम् ॥९४॥
देवो ह्यन्वर्थशास्त्रोक्तैः शब्दैः समुपदिश्यते ।
महाभैरवदेवोऽयं पतिर्यः परमः शिवः ॥९५॥
विश्वं बिभर्ति पूरणधारणयोगेन तेन च श्रियते ।
सविमर्शतया रव रूपतश्च संसारभीरुहितकृच्च ॥९६॥
संसारभीतिजनिताद्रवात्परामर्शतोऽपि हृदि जातः ।
प्रकटीभूतं भवभयविमर्शनं शक्तिपाततो येन ॥९७॥
नक्षत्रप्रेरककालतत्त्वसंशोषकारिणो ये च ।
कालग्राससमाधानरसिकमनःसु तेषु च प्रकटः ॥९८॥
संकोचिपशुजनभिये यासां रवणं स्वकरणदेवीनाम् ।
अन्तर्बहिश्चतुर्विधखेचर्यादिकगणस्यापि ॥९९॥
तस्य स्वामी संसारवृत्तिविघटनमहाभीमः ।
भैरव इति गुरुभिरिमैरन्वर्थैः संस्तुतः शास्त्रे ॥१००॥
हेयोपादेयकथाविरहे स्वानन्दघनतयोच्छलनम् ।
क्रीडा सर्वोत्कर्षेणवर्तनेच्छा तथा स्वतन्त्रत्वम् ॥१०१॥
व्यवहरणमभिन्नेऽपि स्वात्मनि भेदेन संजल्पः ।
निखिलावभासनाच्च द्योतनमस्य स्तुतिर्यतः सकलम् ॥१०२॥
तत्प्रवणमात्मलाभात्प्रभृति समस्तेऽपि कर्तव्ये ।
बोधात्मकः समस्तक्रियामयो दृक्क्रियागुणश्च गतिः ॥१०३॥
इति निर्वचनैः शिवतनुशास्त्रे गुरुभिः स्मृतो देवः ।
शासनरोधनपालनपाचनयोगात्स सर्वमुपकुरुते ।
तेन पतिः श्रेयोमय एव शिवो नाशिवं किमपि तत्र ॥१०४॥
ईदृग्रूपं कियदपि रुद्रोपेन्द्रादिषु स्फुरेद्येन ।
तेनावच्छेदनुदे परममहत्पदविशेषणमुपात्तम् ॥१०५॥
इति यज्ज्ञेयसतत्त्वं दर्श्यते तच्छिवाज्ञया ।
मया स्वसंवित्सत्तर्कपतिशास्त्रत्रिकक्रमात् ॥१०६॥
तस्य शक्तय एवैतास्तिस्रो भान्ति परादिकाः ।
सृष्टौ स्थितौ लये तुर्ये तेनैता द्वादशोदिताः ॥१०७॥
तावान्पूर्णस्वभावोऽसौ परमः शिव उच्यते ।
तेनात्रोपासकाः साक्षात्तत्रैव परिनिष्ठिताः ॥१०८॥
तासामपि च भेदांशन्यूनाधिक्यादियोजनम् ।
तत्स्वातन्त्र्यबलादेव शास्त्रेषु परिभाषितम् ॥१०९॥
एकवीरो यामलोऽथ त्रिशक्तिश्चतुरात्मकः ।
पञ्चमूर्तिः षडात्मायं सप्तकोऽष्टकभूषितः ॥११०॥
नवात्मा दशदिक्छक्तिरेकादशकलात्मकः ।
द्वादशारमहाचक्रनायको भैरवस्त्विति ॥१११॥
एवं यावत्सहस्रारे निःसंख्यारेऽपि वा प्रभुः ।
विश्वचक्रे महेशानो विश्वशक्तिर्विजृम्भते ॥११२॥
तेषामपि च चक्राणा स्ववर्गानुगमात्मना ।
ऐक्येन चक्रगो भेदस्तत्र तत्र निरूपितः ॥११३॥
चतुष्षड्द्विर्द्विगणनायोगात्त्रैशिरसे मते ।
षट्चक्रेश्वरता नाथस्योक्ता चित्रनिजाकृतेः ॥११४॥
नामानि चक्रदेवीनां तत्र कृत्यविभेदतः ।
सौम्यरौद्राकृतिध्यानयोगीन्यन्वर्थकल्पनात् ॥११५॥
एकस्य संविन्नाथस्य ह्यान्तरी प्रतिभा तनुः ।
सौम्यं वान्यन्मितं संविदूर्मिचक्रमुपास्यते ॥११६॥
अस्य स्यात्पुष्टिरित्येषा संविद्देवी तथोदितात् ।
ध्यानात्संजल्पसंमिश्राद् व्यापाराच्चापि बाह्यतः ॥११७॥
स्फुटीभूता सती भाति तस्य तादृक्फलप्रदा ।
पुष्टिः शुष्कस्य सरसीभावो जलमतः सितम् ॥११८॥
अनुगम्य ततो ध्यानं तत्प्रधानं प्रतन्यते ।
ये च स्वभावतो वर्णा रसनिःष्यन्दिनो यथा ॥११९॥
दन्त्यौष्ठ्यदन्त्यप्रायास्ते कैश्चिद्वर्णैः कृताः सह ।
तं बीजभावमागत्य संविदं स्फुटयन्ति ताम् ॥१२०॥
पुष्टिं कुरु रसेनैनमाप्यायय तरामिति ।
संजल्पोऽपि विकल्पात्मा किं तामेव न पूरयेत् ॥१२१॥
अमृतेयमिदं क्षीरमिदं सर्पिर्बलावहम् ।
तेनास्य बीजं पुष्णीयामित्येनां पूरयेत्क्रियाम् ॥१२२॥
तस्माद्विश्वेश्वरो बोधभैरवः समुपास्यते ।
अवच्छेदानवच्छिद्भ्यां भोगमोक्षार्थिभिर्जनैः ॥१२३॥
येऽप्यन्यदेवताभक्ता इत्यतो गुरुरादिशत् ।
ये बोधाद्व्यतिरिक्तं हि किंचिद्याज्यतया विदुः ॥१२४॥
तेऽपि वेद्यं विविञ्चाना बोधाभेदेन मन्वते ।
तेनाविच्छिन्नतामर्शरूपाहन्ताप्रथात्मनः ॥१२५॥
स्वयं-प्रथस्य न विधिः सृष्ट्यात्मास्य च पूर्वगः ।
वेद्या हि देवतासृष्टिः शक्तेर्हेतोः समुत्थिता ॥१२६॥
अहंरूपा तु संवित्तिर्नित्या स्वप्रथनात्मिका ।
विधिर्नियोगस्त्र्यंशा च भावना चोदनात्मिका ॥१२७॥
तदेकसिद्धा इन्द्राद्या विधिपूर्वा हि देवताः ।
अहंबोधस्तु न तथा ते तु संवेद्यरूपताम् ॥१२८॥
उन्मग्नामेव पश्यन्तस्तं विदन्तोऽपि नो विदुः ।
तदुक्तं न विदुर्मां तु तत्त्वेनातश्चलन्ति ते ॥१२९॥
चलनं तु व्यवच्छिन्नरूपतापत्तिरेव या ।
देवान्देवयजो यान्तीत्यादि तेन न्यरूप्यत ॥१३०॥
निमज्ज्य वेद्यतां ये तु तत्र संविन्मयीं स्थितिम् ।
विदुस्ते ह्यनवच्छिन्नं तद्भक्ता अपि यान्ति माम् ॥१३१॥
सर्वत्रात्र ह्यहंशब्दो बोधमात्रैकवाचकः ।
स भोक्तृप्रभुशब्दाभ्यां याज्ययष्ट्टतयोदितः ॥१३२॥
याजमानी संविदेव याज्या नान्येति चोदितम् ।
न त्वाकृतिः कुतोऽप्यन्या देवता न हि सोचिता ॥१३३॥
विधिश्च नोक्तः कोऽप्यत्र मन्त्रादि वृत्तिधाम वा ।
सोऽयमात्मानमावृत्य स्थितो जडपदं गतः ॥१३४॥
आवृतानावृतात्मा तु देवादिस्थावरान्तगः ।
जडाजडस्याप्येतस्य द्वैरूप्यस्यास्ति चित्रता ॥१३५॥
तस्य स्वतन्त्रभावो हि किं किं यन्न विचिन्तयेत् ।
तदुक्तं त्रिशिरःशास्त्रे संबुद्ध इति वेत्ति यः ।
ज्ञेयभावो हि चिद्धर्मस्तच्छायाच्छादयेन्न ताम् ॥१३६॥
तेनाजडस्य भागस्य पुद्गलाण्वादिसंज्ञिनः ।
अनावरणभागांशे वैचित्र्यं बहुधा स्थितम् ॥१३७॥
संविद्रूपे न भेदोऽस्ति वास्तवो यद्यपि ध्रुवे ।
तथाप्यावृतिनिर्हासतारतम्यात्स लक्ष्यते ॥१३८॥
तद्विस्तरेण वक्ष्यामः शक्तिपातविनिर्णये ।
समाप्य परतां स्थौल्यप्रसंगे चर्चयिष्यते ॥१३९॥
अतः कंचित्प्रमातारं प्रति प्रथयते विभुः ।
पूर्णमेव निजं रूपं कंचिदंशांशिकाक्रमात् ॥१४०॥
विश्वभावैकभावात्मस्वरूपप्रथनं हि यत् ।
अणूनां तत्परं ज्ञानं तदन्यदपरं बहु ॥१४१॥
तच्च साक्षादुपायेन तदुपायादिनापि च ।
प्रथमानं विचित्राभिर्भंगीभिरिह भिद्यते ॥१४२॥
तत्रापि स्वपरद्वारद्वारित्वात्सर्वशोंशशः ।
व्यवधानाव्यवधिना भूयान्भेदः प्रवर्तते ॥१४३॥
ज्ञानस्य चाभ्युपायो यो न तदज्ञानमुच्यते ।
ज्ञानमेव तु तत्सूक्ष्मं परं त्विच्छात्मकं मतम् ॥१४४॥
उपायोपेयभावस्तु ज्ञानस्य स्थौल्यविश्रमः ।
एषैव च क्रियाशक्तिर्बन्धमोक्षैककारणम् ॥१४५॥
तत्राद्ये स्वपरामर्शे निर्विकल्पैकधामनि ।
यत्स्फुरेत्प्रकटं साक्षात्तदिच्छाख्यं प्रकीर्तितम् ॥१४६॥
यथा विस्फुरितदृशामनुसन्धिं विनाप्यलम् ।
भाति भावः स्फुटस्तद्वत्केषामपि शिवात्मता ॥१४७॥
भूयो भूयो विकल्पांशनिश्चयक्रमचर्चनात् ।
यत्परामर्शमभ्येति ज्ञानोपायं तु तद्विदुः ॥१४८॥
यत्तु तत्कल्पनाक्लृप्तबहिर्भूतार्थसाधनम् ।
क्रियोपायं तदाम्नातं भेदो नात्रापवर्गगः ॥१४९॥
यतो नान्या क्रिया नाम ज्ञानमेव हि तत्तथा ।
रूढेर्योगान्ततां प्राप्तमिति श्रीगमशासने ॥१५०॥
योगो नान्यः क्रिया नान्या तत्त्वारूढा हि या मतिः ।
स्वचित्तवासनाशान्तौ सा क्रियेत्यभिधीयते ॥१५१॥
स्वचित्ते वासनाः कर्ममलमायाप्रसूतयः ।
तासां शान्तिनिमित्तं या मतिः संवित्स्वभाविका ॥१५२॥
सा देहारम्भिबाह्यस्थतत्त्वब्राताधिशायिनी ।
क्रिया सैव च योगः स्यात्तत्त्वानां चिल्लयीकृतौ ॥१५३॥
लोकेऽपि किल गच्छामीत्येवमन्तः स्फुरैव या ।
सा देहं देशमक्षांश्चाप्याविशन्ती गतिक्रिया ॥१५४॥
तस्मात्क्रियापि या नाम ज्ञानमेव हि सा ततः ।
ज्ञानमेव विमोक्षाय युक्तं चैतदुदाहृतम् ॥१५५॥
मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि सः ।
स्वरूपं चात्मनः संविन्नान्यत्तत्र तु याः पुनः ॥१५६॥
क्रियादिकाः शक्तयस्ताः संविद्रूपाधिका नहि ।
असंविद्रूपतायोगाद्धर्मिणश्चानिरूपणात् ॥१५७॥
परमेश्वरशास्त्रे हि न च काणाददृष्टिवत् ।
शक्तीनां धर्मरूपाणामाश्रयः कोऽपि कथ्यते ॥१५८॥
ततश्च दृक्क्रियेच्छाद्या भिन्नाश्चेच्छक्तयस्तथा ।
एकः शिव इतीयं वाग्वस्तुशून्यैव जायते ॥१५९॥
तस्मात्संवित्त्वमेवैतत्स्वातन्त्र्यं यत्तदप्यलम् ।
विविच्यमानं बह्वीषु पर्यवस्यति शक्तिषु ॥१६०॥
यतश्चात्मप्रथा मोक्षस्तन्नेहाशङ्क्यमीदृशम् ।
नावश्यं कारणात्कार्य तज्ज्ञान्यपि न मुच्यते ॥१६१॥
यतो ज्ञानेन मोक्षस्य या हेतुफलतोदिता ।
न सा मुख्या ततो नायं प्रसंग इति निश्चितम् ॥१६२॥
एवं ज्ञानस्वभावैव क्रिया स्थूलत्वमात्मनि ।
यतो वहति तेनास्यां चित्रता दृश्यतां किल ॥१६३॥
क्रियोपायेऽभ्युपायानां ग्राह्यबाह्यविभेदिनाम् ।
भेदोपभेदवैविध्यान्निःसंख्यत्वमवान्तरात् ॥१६४॥
अनेन चैतत्प्रध्वस्तं यत्केचन शशङ्किरे ।
उपायभेदान्मोक्षेऽपि भेदः स्यादिति सूरयः ॥१६५॥
मलतच्छक्तिविध्वंसतिरोभूच्युतिमध्यतः ।
हेतुभेदेऽपि नो भिन्ना घटध्वंसादिवृत्तिवत् ॥१६६॥
तदेतत्त्रिविधत्वं हि शास्त्रे श्रीपूर्वनामनि ।
आदेशि परमेशित्रा समावेशविनिर्णये ॥१६७॥
अकिंचिच्चिन्तकस्यैव गुरुणा प्रतिबोधतः ।
उत्पद्यते य आवेशः शाम्भवोऽसाविदीरितः ॥१६८॥
उच्चाररहितं वस्तु चेतसैव विचिन्तयन् ।
यं समावेशमाप्नोति शाक्तः सोऽत्राभिधीयते ॥१६९॥
उच्चारकरणध्यानवर्णस्थानप्रकल्पनैः ।
यो भवेत्स समावेशः सम्यगाणव उच्यते ॥१७०॥
अकिंचिच्चिन्तकस्येति विकल्पानुपयोगिता ।
तया च झटिति ज्ञेयसमापत्तिर्निरूप्यते ॥१७१॥
सा कथं भवतीत्याह गुरुणातिगरीयसा ।
ज्ञेयाभिमुखबोधेन द्राक्प्ररूढत्वशालिना ॥१७२॥
तृतीयार्थे तसि व्याख्या वा वैयधिकरण्यतः ।
आवेशश्चास्वतन्त्रस्य स्वतद्रूपनिमज्जनात् ॥१७३॥
परतद्रूपता शम्भोराद्याच्छक्त्यविभागिनः ।
तेनायमत्र वाक्यार्थो विज्ञेयं प्रोन्मिषत्स्वयम् ॥१७४॥
विनापि निश्चयेन द्राक् मातृदर्पणबिम्बितम् ।
मातारमधरीकुर्वत् स्वां विभूतिं प्रदर्शयत् ॥१७५॥
आस्ते हृदयनैर्मल्यातिशये तारतम्यतः ।
ज्ञेयं द्विधा च चिन्मात्रं जडं चाद्यं च कल्पितम् ॥१७६॥
इतरत्तु तथा सत्यं तद्विभागोऽयमीदृशः ।
जडेन यः समावेशः सप्रतिच्छन्दकाकृतिः ॥१७७॥
चैतन्येन समावेशस्तादात्म्यं नापरं किल ।
तेनाविकल्पा संवित्तिर्भावनाद्यनपेक्षिणी ॥१७८॥
शिवतादात्म्यमापन्ना समावेशोऽत्र शांभवः ।
तत्प्रसादात्पुनः पश्चाद्भाविनोऽत्र विनिश्चयाः ॥१७९॥
सन्तु तादात्म्यमापन्ना न तु तेषामुपायता ।
विकल्पापेक्षया मानमविकल्पमिति ब्रुवन् ॥१८०॥
प्रत्युक्त एव सिद्धं हि विकल्पेनानुगम्यते ।
गृहीतमिति सुस्पष्टा निश्चयस्य यतः प्रथा ॥१८१॥
गृह्णामीत्यविकल्पैक्यबलात्तु प्रतिपद्यते ।
अविकल्पात्मसंवित्तौ या स्फुरत्तैव वस्तुनः ॥१८२॥
सा सिद्धिर्न विकल्पात्तु वस्त्वपेक्षाविवर्जितात् ।
केवलं संविदः सोऽयं नैर्मल्येतरविश्रमः ॥१८३॥
यद्विकल्पानपेक्षत्वसापेक्षत्वे निजात्मनि ।
निशीथेऽपि मणिज्ञानी विद्युत्कालप्रदर्शितान् ॥१८४॥
तांस्तान्विशेषांश्चिनुते रत्नानां भूयसामपि ।
नैर्मल्यं संविदश्चेदं पूर्वाभ्यासवशादथो ॥१८५॥
अनियन्त्रेश्वरेच्छात इत्येतच्चर्चयिष्यते ।
पञ्चाशद्विधता चास्य समावेशस्य वर्णिता ॥१८६॥
तत्त्वषट्त्रिंशकैतत्स्थस्फुटभेदाभिसन्धितः ।
एतत्तत्त्वान्तरे यत्पुंविद्याशक्त्यात्मकं त्रयम् ॥१८७॥
अम्भोधिकाष्ठाज्वलनसंख्यैर्भेदैर्यतः क्रमात् ।
पुंविद्याशक्तिसंज्ञं यत्तत्सर्वव्यापकं यतः ॥१८८॥
अव्यापकेभ्यस्तेनेदं भेदेन गणितं किल ।
अशुद्धिशुद्ध्यमानत्वशुद्धितस्तु मिथोऽपि तत् ॥१८९॥
भूतान्यध्यक्षसिद्धानि कार्यहेत्वनुमेयतः ।
तत्त्ववर्गात्पृथग्भूतसमाख्यान्यत एव हि ॥१९०॥
सर्वप्रतीतिसद्भावगोचरं भूतमेव हि ।
विदुश्चतुष्टये चात्र सावकाशे तदास्थितिम् ॥१९१॥
रुद्रशक्तिसमावेशः पञ्चधा ननु चर्च्यते ।
कोऽवकाशो भवेत्तत्र भौतावेशादिवर्णने ॥१९२॥
प्रसंगादेतदितिचेत्समाधिः संभवन्नयम् ।
नास्माकं मानसावर्जी लोको भिन्नरुचिर्यतः ॥१९३॥
उच्यते द्वैतशास्त्रेषु परमेशाद्विभेदिता ।
भूतादीनां यथा सात्र न तथा द्वयवर्जिते ॥१९४॥
यावान्षट्त्रिंशकः सोऽयं यदन्यदपि किंचन ।
एतावती महादेवी रुद्रशक्तिरनर्गला ॥१९५॥
तत एव द्वितीयेऽस्मिन्नधिकारे न्यरूप्यत ।
धरादेर्विश्वरूपत्वं पाञ्चदश्यादिभेदतः ॥१९६॥
तस्माद्यथा पुरस्थेऽर्थे गुणाद्यंशांशिकामुखात् ।
निरंशभावसंबोधस्तथैवात्रापि बुध्यताम् ॥१९७॥
अत एवाविकल्पत्वध्रौव्यप्राभववैभवैः ।
अन्यैर्वा शक्तिरूपत्वाद्धर्मैः स्वसमवायिभिः ॥१९८॥
सर्वशोऽप्यथ वांशेन तं विभुं परमेश्वरम् ।
उपासते विकल्पौघसंस्काराद्ये श्रुतोत्थितात् ॥१९९॥
ते तत्तत्स्वविकल्पान्तःस्फुरत्तद्धर्मपाटवात् ।
धर्मिणं पूर्णधर्मौघमभेदेनाधिशेरते ॥२००॥

ऊचिवानत एव श्रीविद्याधिपतिरादरात् ।
त्वत्स्वरूपमविकल्पमक्षजा कल्पने न विषयीकरोति चेत् ।
अन्तरुल्लिखितचित्रसंविदो नो भवेयुरनुभूतयः स्फुटाः ॥२०१॥
तदुक्तं श्रीमतङ्गादौ स्वशक्तिकिरणात्मकम् ।
अथ पत्युरधिष्ठानमित्याद्युक्तं विशेषणैः ॥२०२॥
तस्यां दिवि सुदीप्तात्मा निष्कम्पोऽचलमूर्तिमान् ।
काष्ठा सैव परा सूक्ष्मा सर्वदिक्कामृतात्मिका ॥२०३॥
प्रध्वस्तावरणा शान्ता वस्तुमात्रातिलालसा ।
आद्यन्तोपरता साध्वी मूर्तित्वेनोपचर्यते ॥२०४॥
तथोपचारस्यात्रैतन्निमितं सप्रयोजनम् ।
तन्मुखा स्फुटता धर्मिण्याशु तन्मयतास्थितिः ॥२०५॥
त एव धर्माः शक्त्याख्यास्तैस्तैरुचितरूपकैः ।
आकारैः पर्युपास्यन्ते तन्मयीभावसिद्धये ॥२०६॥
तत्र काचित्पुनः शक्तिरनन्ता वा मिताश्च वा ।
आक्षिपेद्धवतासत्त्वन्यायाद्दूरान्तिकत्वतः ॥२०७॥
तेन पूर्णस्वभावत्वं प्रकाशत्वं चिदात्मता ।
भैरवत्वं विश्वशक्तीराक्षिपेद्व्यापकत्वतः ॥२०८॥
सदाशिवादयस्तूर्ध्वव्याप्त्यभावादधोजुषः ।
शक्तीः समाक्षिपेयुस्तदुपासान्तिकदूरतः ॥२०९॥
इत्थं-भावे च शाक्ताख्यो वैकल्पिकपथक्रमः ।
इह तूक्तो यतस्तस्मात् प्रतियोग्यविकल्पकम् ॥२१०॥
अविकल्पपथारूढो येन येन पथा विशेत् ।
धरासदाशिवान्तेन तेन तेन शिवीभवेत् ॥२११॥
निर्मले हृदये प्राग्र्यस्फुरद्भूम्यंशभासिनि ।
प्रकाशे तन्मुखेनैव संवित्परशिवात्मता ॥२१२॥
एवं परेच्छाशक्त्यंशसदुपायमिमं विदुः ।
शाम्भवाख्यं समावेशं सुमत्यन्तेनिवासिनः ॥२१३॥
शाक्तोऽथ भण्यते चेतोधी-मनोहंकृति स्फुटम् ।
सविकल्पतया मायामयमिच्छादि वस्तुतः ॥२१४॥
अभिमानेन संकल्पाध्यवसायक्रमेण यः ।
शाक्तः स मायोपायोऽपि तदन्ते निर्विकल्पकः ॥२१५॥
पशोर्वै याविकल्पा भूर्दशा सा शाम्भवी परम् ।
अपूर्णा मातृदौरात्म्यात्तदपाये विकस्वरा ॥२१६॥
एवं वैकल्पिकी भूमिः शाक्ते कर्तृत्ववेदने ।
यस्यां स्फुटे परं त्वस्यां संकोचः पूर्वनीतितः ॥२१७॥
तथा संकोचसंभारविलायनपरस्य तु ।
सा यथेष्टान्तराभासकारिणी शक्तिरुज्ज्वला ॥२१८॥
ननु वैकल्पिकी किं धीराणवे नास्ति तत्र सा ।
अन्योपायात्र तूच्चाररहितत्वं न्यरूपयत् ॥२१९॥
उच्चारशब्देनात्रोक्ता बह्वन्तेन तदादयः ।
शक्त्युपाये न सन्त्येते भेदाभेदौ हि शक्तिता ॥२२०॥
अणुर्नाम स्फुटो भेदस्तदुपाय इहाणवः ।
विकल्पनिश्चयात्मैव पर्यन्ते निर्विकल्पकः ॥२२१॥
ननु धी-मानसाहंकृत्पुमांसो व्याप्नुयुः शिवम् ।
नाधोवर्तितया तेन कथितं कथमीदृशम् ॥२२२॥
उच्यते वस्तुतोऽस्माकं शिव एव तथाविधः ।
स्वरूपगोपनं कृत्वा स्वप्रकाशः पुनस्तथा ॥२२३॥
द्वैतशास्त्रे मतङ्गादौ चाप्येतत्सुनिरूपितम् ।
अधोव्याप्तुः शिवस्यैव स प्रकाशो व्यवस्थितः ॥२२४॥
येन बुद्धि-मनोभूमावपि भाति परं पदम् ॥२२५॥
द्वावप्येतौ समावेशौ निर्विकल्पार्णवं प्रति ।
प्रयात एव तद्रूढिं विना नैव हि किंचन ॥२२६॥
संवित्तिफलभिच्चात्र न प्रकल्प्येत्यतोऽब्रवीत् ।
कल्पनायाश्च मुख्यत्वमत्रैव किल सूचितम् ॥२२७॥
विकल्पापेक्षया योऽपि प्रामाण्यं प्राह तन्मते ।
तद्विकल्पक्रमोपात्तनिर्विकल्पप्रमाणता ॥२२८॥
रत्नतत्त्वमविद्वान्प्राङ्निश्चयोपायचर्चनात् ।
अनुपायाविकल्पाप्तौ रत्नज्ञ इति भण्यते ॥२२९॥
अभेदोपायमत्रोक्तं शाम्भवं शाक्तमुच्यते ।
भेदाभेदात्मकोपायं भेदोपायं तदाणवम् ॥२३०॥
अन्ते ज्ञानेऽत्र सोपाये समस्तः कर्मविस्तरः ।
प्रस्फुटेनैव रूपेण भावी सोऽन्तर्भविष्यति ॥२३१॥
क्रिया हि नाम विज्ञानान्नान्यद्वस्तु क्रमात्मताम् ।
उपायवशतः प्राप्तं तत्क्रियेति पुरोदितम् ॥२३२॥
सम्यग्ज्ञानं च मुक्त्येककारणं स्वपरस्थितम् ।
यतो हि कल्पनामात्रं स्वपरादिविभूतयः ॥२३३॥
तुल्ये काल्पनिकत्वे च यदैक्यस्फुरणात्मकः ।
गुरुः स तावदेकात्मा सिद्धो मुक्तश्च भण्यते ॥२३४॥
यावानस्य हि संतानो गुरुस्तावत्स कीर्तितः ।
सम्यग्ज्ञानमयश्चेति स्वात्मना मुच्यते ततः ॥२३५॥
तत एव स्वसंतानं ज्ञानी तारयतीत्यदः ।
युक्त्यागमाभ्यां संसिद्धं तावानेको यतो मुनिः ॥२३६॥
तेनात्र ये चोदयन्ति ननु ज्ञानाद्विमुक्तता ।
दीक्षादिका क्रिया चेयं सा कथं मुक्तये भवेत् ॥२३७॥
ज्ञानात्मा सेति चेज्ज्ञानं यत्रस्थं तं विमोचयेत् ।
अन्यस्य मोचने वापि भवेत्किं नासमञ्जसम् ।
इति ते मूलतः क्षिप्ता यत्त्वत्रान्यैः समर्थितम् ॥२३८॥
मलो नाम किल द्रव्यं चक्षुःस्थपटलादिवत् ।
तद्विहन्त्री क्रिया दीक्षा त्वञ्जनादिककर्मवत् ॥२३९॥
तत्पुरस्तान्निषेत्स्यामो युक्त्यागमविगर्हितम् ।
मलमायाकर्मणां च दर्शयिष्यामहे स्थितिम् ॥२४०॥
एवं शक्तित्रयोपायं यज्ज्ञानं तत्र पश्चिमम् ।
मूलं तदुत्तरं मध्यमुत्तरोत्तरमादिमम् ॥२४१॥
ततोऽपि परमं ज्ञानमुपायादिविवर्जितम् ।
आनन्दशक्तिविश्रान्तमनुत्तरमिहोच्यते ॥२४२॥
तत्स्वप्रकाशं विज्ञानं विद्याविद्येश्वरादिभिः ।
अपि दुर्लभसद्भावं श्रीसिद्धातन्त्र उच्यते ॥२४३॥
मालिन्यां सूचितं चैतत्पटलेऽष्टादशे स्फुटम् ।
न चैतदप्रसन्नेन शंकरेणेति वाक्यतः ॥२४४॥
इत्यनेनैव पाठेन मालिनीविजयोत्तरे ।
इति ज्ञानचतुष्कं यत्सिद्धिमुक्तिमहोदयम् ।
तन्मया तन्त्र्यते तन्त्रालोकनाम्न्यत्र शासने ॥२४५॥
तत्रेह यद्यदन्तर्वा बहिर्वा परिमृश्यते ।
अनुद्घाटितरूपं तत्पूर्वमेव प्रकाशते ॥२४६॥
तथानुद्घाटिताकारा निर्वाच्येनात्मना प्रथा ।
संशयः कुत्रचिद्रूपे निश्चिते सति नान्यथा ॥२४७॥
एतत्किमिति मुख्येऽस्मिन्नेतदंशः सुनिश्चितः ।
संशयोऽस्तित्वनास्त्यादिधर्मानुद्घाटितात्मकः ॥२४८॥
किमित्येतस्य शब्दस्य नाधिकोऽर्थः प्रकाशते ।
किं त्वनुन्मुद्रिताकारं वस्त्वेवाभिदधात्ययम् ॥२४९॥
स्थाणुर्वा पुरुषो वेति न मुख्योऽस्त्येष संशयः ।
भूयःस्थधर्मजातेषु निश्चयोत्पाद एव हि ॥२५०॥
आमर्शनीयद्वैरूप्यानुद्घाटनवशात्पुनः ।
संशयः स किमित्यंशे विकल्पस्त्वन्यथा स्फुटः ॥२५१॥
तेनानुद्घाटितात्मत्वभावप्रथनमेव यत् ।
प्रथमं स इहोद्देशः प्रश्नः संशय एव च ॥२५२॥
तथानुद्घाटिताकारभावप्रसरवर्त्मना ।
प्रसरन्ती स्वसंवित्तिः प्रष्ट्री शिष्यात्मतां गता ॥२५३॥
तथान्तरपरामर्शनिश्चयात्मतिरोहितेः ।
प्रसरानन्तरोद्भूतसंहारोदयभागपि ॥२५४॥
यावत्येव भवेद्बाह्यप्रसरे प्रस्फुटात्मनि ।
अनुन्मीलितरूपा सा प्रष्ट्री तावति भण्यते ॥२५५॥
स्वयमेवं विबोधश्च तथा प्रश्नोत्तरात्मकः ।
गुरुशिष्यपदेऽप्येष देहभेदो ह्यतात्त्विकः ॥२५६॥
बोधो हि बोधरूपत्वादन्तर्नानाकृतीः स्थिताः /

बहिराभासयत्येव द्राक्सामान्यविशेषतः ॥२५७॥
स्रक्ष्यमाणविशेषांशाकांक्षायोग्यस्य कस्यचित् ।
धर्मस्य सृष्टिः सामान्यसृष्टिः सा संशयात्मिका ॥२५८॥
स्रक्ष्यमाणो विशेषांशो यदा तूपरमेत्तदा ।
निर्णयो मातृरुचितो नान्यथा कल्पकोटिभिः ॥२५९॥
तस्याथ वस्तुनः स्वात्मवीर्याक्रमणपाटवात् ।
उन्मुद्रणं तयाकृत्या लक्षणोत्तरनिर्णयाः ॥२६०॥
निर्णीततावद्धर्मांशपृष्ठपातितया पुनः ।
भूयो भूयः समुद्देशलक्षणात्मपरीक्षणम् ॥२६१॥
दृष्टानुमानौपम्याप्तवचनादिषु सर्वतः ।
उद्देशलक्षणावेक्षात्रितयं प्राणिनां स्फुरेत् ॥२६२॥
निर्विकल्पितमुद्देशो विकल्पो लक्षणं पुनः ।
परीक्षणं तथाध्यक्षे विकल्पानां परम्परा ॥२६३॥
नगोऽयमिति चोद्देशो धूमित्वादग्निमानिति ।
लक्ष्यं व्याप्त्यादिविज्ञानजालं त्वत्र परीक्षणम् ॥२६४॥
उद्देशोऽयमिति प्राच्यो गोतुल्यो गवयाभिधः ।
इति वा लक्षणं शेषः परीक्षोपमितौ भवेत् ॥२६५॥
स्वःकाम ईदृगुद्देशो यजेतेत्यस्य लक्षणम् ।
अग्निष्टोमादिनेत्येषा परीक्षा शेषवर्तिनी ॥२६६॥
विकल्पस्रक्ष्यमाणान्यरुचितांशसहिष्णुनः ।
वस्तुनो या तथात्वेन सृष्टिः सोद्देशसंज्ञिता ॥२६७॥
तदैव संविच्चिनुते यावतः स्रक्ष्यमाणता ।
यतो ह्यकालकलिता संधत्ते सार्वकालिकम् ॥२६८॥
स्रक्ष्यमाणस्य या सृष्टिः प्राक्सृष्टांशस्य संहृतिः ।
अनूद्यमाने धर्मे सा संविल्लक्षणमुच्यते ॥२६९॥
तत्पृष्ठपातिभूयोंशसृष्टिसंहारविश्रमाः ।
परीक्षा कथ्यते मातृरुचिता कल्पितावधिः ॥२७०॥
प्राक्पश्यन्त्यथ मध्यान्या वैखरी चेति ता इमाः ।
परा परापरा देवी चरमा त्वपरात्मिका ॥२७१॥
इच्छादि शक्तित्रितयमिदमेव निगद्यते ।
एतत्प्राणित एवायं व्यवहारः प्रतायते ॥२७२॥
एतत्प्रश्नोत्तरात्मत्वे पारमेश्वरशासने ।
परसंबन्धरूपत्वमभिसंबन्धपञ्चके ॥२७३॥
यथोक्तं रत्नमालायां सर्वः परकलात्मकः ।
महानवान्तरो दिव्यो मिश्रोऽन्योऽन्यस्तु पञ्चमः ॥२७४॥
भिन्नयोः प्रष्टृतद्वक्त्रोश्चैकात्म्यं यत्स उच्यते ।
संबन्धः परता चास्य पूर्णैकात्म्यप्रथामयी ॥२७५॥
अनेनैव नयेन स्यात्संबन्धान्तरमप्यलम् ।
शास्त्रवाच्यं फलादीनां परिपूर्णत्वयोगतः ॥२७६॥
इत्थं संविदियं देवी स्वभावादेव सर्वदा ।
उद्देशादित्रयप्राणा सर्वशास्त्रस्वरूपिणी ॥२७७॥
तत्रोच्यते पुरोद्देशः पूर्वजानुजभेदवान् ।
विज्ञानभिद्गतोपायः परोपायस्तृतीयकः ॥२७८॥
शाक्तोपायो नरोपायः कालोपायोऽथ सप्तमः ।
चक्रोदयोऽथ देशाध्वा तत्त्वाध्वा तत्त्वभेदनम् ॥२७९॥
कलाद्यध्वाध्वोपयोगः शक्तिपाततिरोहिती ।
दीक्षोपक्रमणं दीक्षा सामयी पौत्रिके विधौ ॥२८०॥
प्रमेयप्रक्रिया सूक्ष्मा दीक्षा सद्यःसमुत्क्रमः ।
तुलादीक्षाथ पारोक्षी लिङ्गोद्धारोऽभिषेचनम् ॥२८१॥
अन्त्येष्टिः श्राद्धक्लृप्तिश्च शेषवृत्तिनिरूपणम् ।
लिङ्गार्चा बहुभित्पर्वपवित्रादि निमित्तजम् ॥२८२॥
रहस्यचर्या मन्त्रौघो मण्डलं मुद्रिकाविधिः ।
एकीकारः स्वस्वरूपे प्रवेशः शास्त्रमेलनम् ॥२८३॥
आयातिकथनं शास्त्रोपादेयत्वनिरूपणम् ।
इति सप्ताधिकामेनां त्रिंशतं यः सदा बुधः ॥२८४॥
आह्निकानां समभ्यस्येत् स साक्षाद्भैरवो भवेत् ।
सप्तत्रिंशत्सु संपूर्णबोधो यद्भैरवो भवेत् ॥२८५॥
किं चित्रमणवोऽप्यस्य दृशा भैरवतामियुः ।
इत्येष पूर्वजोद्देशः कथ्यते त्वनुजोऽधुना ॥२८६॥
विज्ञानभित्प्रकरणे भर्वस्योद्देशनं क्रमात् ।
द्वितीयस्मिन्प्रकरणे गतोपायत्वभेदिता ॥२८७॥
विश्वचित्प्रतिबिन्बत्वं परामर्शोदयक्रमः ।
मन्त्राद्यभिन्नरूपत्वं परोपाये विविच्यते ॥२८८॥
विकल्पसंस्क्रिया तर्कतत्त्वं गुरुसतत्त्वकम् ।
योगाङ्गानुपयोगित्वं कल्पितार्चाद्यनादरः ॥२८९॥
संविच्चक्रोदयो मन्त्रवीर्य जप्यादि वास्तवम् ।
निषेधविधितुल्यत्वं शाक्तोपायेऽत्र चर्च्यते ॥२९०॥
बुद्धिध्यानं प्राणतत्त्वसमुच्चारश्चिदात्मता ।
उच्चारः परतत्त्वान्तःप्रवेशपथलक्षणम् ॥२९१॥
करणं वर्णतत्त्वं चेत्याणवे तु निरूप्यते ।
चारमानमहोरात्रसंक्रान्त्यादिविकल्पनम् ॥२९२॥
संहारचित्रता वर्णोदयः कालाध्वकल्पने ।
चक्रभिन्मन्त्रविद्याभिदेतच्चक्रोदये भवेत् ॥२९३॥
परिमाणं पुराणां च संग्रहस्तत्त्वयोजनम् ।
एतद्देशाध्वनिर्देशे द्वयं तत्त्वाध्वनिर्णये ॥२९४॥
कार्यकारणभावश्च तत्त्वक्रमनिरूपणम् ।
वस्तुधर्मस्तत्त्वविधिर्जाग्रदादिनिरूपणम् ॥२९५॥
प्रमातृभेद इत्येतत् तत्त्वभेदे विचार्यते ।
कलास्वरूपमेकत्रिपञ्चाद्यैस्तत्त्वकल्पनम् ॥२९६॥
वर्णभेदक्रमः सर्वाधारशक्तिनिरूपणम् ।
कलाद्यध्वविचारान्तरेतावत्प्रविविच्यते ॥२९७

अभेदभावनाकम्पहासौ त्वध्वोपयोजने ।
संख्याधिक्यं मलादीनां तत्त्वं शक्तिविचित्रता // २९८॥
अनपेक्षित्वसिद्धिश्च तिरोभावविचित्रता ।
शक्तिपातपरीक्षायामेतावान्वाच्यसंग्रहः ॥२९९॥
तिरोभावव्यपगमो ज्ञानेन परिपूर्णता ।
उत्क्रान्त्यनुपयोगित्वं दीक्षोपक्रमणे स्थितम् ॥३००॥
शिष्यौचित्यपरीक्षादौ स्थानभित्स्थानकल्पनम् ।
सामान्यन्यासभेदोऽर्घपात्रं चैतत्प्रयोजनम् ॥३०१॥
द्रव्ययोग्यत्वमर्चा च बहिर्द्वारार्चनं क्रमात् ।
प्रवेशो दिक्स्वरूपं च देहप्राणादिशोधनम् ॥३०२॥
विशेषन्यासवैचित्र्यं सविशेषार्घभाजनम् ।
देहपूजा प्राणबुद्धिचित्स्वध्वन्यासपूजने ॥३०३॥
अन्यशास्त्रगणोत्कर्षः पूजा चक्रस्य सर्वतः ।
क्षेत्रग्रहः पञ्चगव्यं पूजनं भूगणेशयोः ॥३०४॥
अस्त्रार्चा वह्निकार्यं चाप्यधिवासनमग्निगम् ।
तर्पणं चरुसंसिद्धिर्दन्तकाष्ठान्तसंस्क्रिया ॥३०५॥
शिवहस्तविधिश्चापि शय्याक्लृप्तिविचारणम् ।
स्वप्नस्य सामयं कर्म समयाश्चेति संग्रहः ॥३०६॥
समयित्वविधावस्मिन्स्यात्पञ्चदश आह्निके ।
मण्डलात्मानुसन्धानं निवेद्यपशुविस्तरः ॥३०७॥
अग्नितृप्तिः स्वस्वभावदीपनं शिष्यदेहगः ।
अध्वन्यासविधिः शोध्यशोधकादिविचित्रता ॥३०८॥
दीक्षाभेदः परो न्यासो मन्त्रसत्ताप्रयोजनम् ।
भेदो योजनिकादेश्च षोडशे स्यादिहाह्निके ॥३०९॥
सूत्रक्लृप्तिस्तत्त्वशुद्धिः पाशदाहोऽथ योजनम् ।
अध्वभेदस्तथेत्येवं कथितं पौत्रिके विधौ ॥३१०॥
जननादिविहीनत्वं मन्त्रभेदोऽथ सुस्फुटः ।
इति संक्षिप्तदीक्षाख्ये स्यादष्टादश आह्निके ॥३११॥
कलावेक्षा कृपाण्यादिन्यासश्चारः शरीरगः ।
ब्रह्मविद्याविधिश्चैवमुक्तं सद्यःसमुत्क्रमे ॥३१२॥
अधिकारपरीक्षान्तःसंस्कारोऽथ तुलाविधिः ।
इत्येतद्वाच्यसर्वस्वं स्याद्विंशतितमाह्निके ॥३१३॥
मृतजीवद्विधिर्जालो पदेशः संस्क्रियागणः ।
बलाबलविचारश्चेत्येकविंशाह्निके विधिः ॥३१४॥
श्रवणं चाभ्यनुज्ञानं शोधनं पातकच्युतिः ।
शङ्काच्छेद इति स्पष्टं वाच्यं लिङ्गोद्धृतिक्रमे ॥३१५॥
परीक्षाचार्यकरणं तद्व्रतं हरणं मतेः ।
तद्विभागः साधकत्वमभिषेकविधौ त्वियत् ॥३१६॥
अधिकार्यथ संस्कारस्तत्प्रयोजनमित्यदः ।
चतुर्विंशेऽन्त्ययागाख्ये वक्तव्यं परिचर्च्यते ॥३१७॥
प्रयोजनं भोगमोक्षदानेनात्र विधिः स्फुटः ।
पञ्चविंशाह्निके श्राद्धप्रकाशे वस्तुसंग्रहः ॥३१८॥
प्रयोजनं शेषवृत्तेर्नित्यार्चा स्थण्डिले परा ।
लिङ्गस्वरूपं बहुधा चाक्षसूत्रनिरूपणम् ॥३१९॥
पूजाभेद इति वाच्यं लिङ्गार्चासंप्रकाशने ।
नैमित्तिकविभागस्तत्प्रयोजनविधिस्ततः ॥३२०॥
पर्वभेदास्तद्विशेषश्चक्रचर्चा तदर्चनम् ।
गुर्वाद्यन्तदिनाद्यर्चाप्रयोजननिरूपणम् ॥३२१॥
मृतेः परीक्षा योगीशीमेलकादिविधिस्तथा ।
व्याख्याविधिः श्रुतविधिर्गुरुपूजाविधिस्त्वियत् ॥३२२॥
नैमित्तिकप्रकाशाख्येऽप्यष्टाविंशाह्निके स्थितम् ।
अधिकार्यात्मनो भेदः सिद्धपत्नीकुलक्रमः ॥३२३॥
अर्चाविधिर्दौतविधी रहस्योपनिषत्क्रमः ।
दीक्षाभिषेकौ बोधश्चेत्येकोनत्रिंश आह्निके ॥३२४॥
मन्त्रस्वरूपं तद्वीर्यमिति त्रिंशे निरूपितम् ।
शूलाब्जभेदो व्योमशस्वस्तिकादिनिरूपणम् ॥३२५॥
विस्तरेणाभिधातव्यमित्येकत्रिंश आह्निके ।
गुणप्रधानताभेदाः स्वरूपं वीर्यचर्चनम् ॥३२६॥
कलाभेद इति प्रोक्तं मुद्राणां संप्रकाशने ।
द्वात्रिंशतत्त्वादीशाख्यात्प्रभृति प्रस्फुटो यतः ॥३२७॥
न भेदोऽस्ति ततो नोक्तमुद्देशान्तरमत्र तत् ।
मुख्यत्वेन च वेद्यत्वादधिकारान्तरक्रमः ॥३२८॥
इत्युद्देशविधिः प्रोक्तः सुखसंग्रहहेतवे ।
अथास्य लक्षणावेक्षे निरूप्येते यथाक्रमम् ॥३२९॥

आत्मा संवित्प्रकाशस्थितिरनवयवा संविदित्यात्तशक्तिव्रातं तस्य स्वरूपं स च निज महसश्छादनाद्बद्धरूपः ।
आत्मज्योतिःस्वभावप्रकटनविधिना तस्य मोक्षः स चायं चित्राकारस्य चित्रः प्रकटित इह यत्संग्रहेणार्थ एषः ॥३३०॥
मिथ्याज्ञानं तिमिरमसमान् दृष्टिदोषान्प्रसूते तत्सद्भावाद्विमलमपि तद्भाति मालिन्यधाम ।
यत्तु प्रेक्ष्यं दृशि परिगतं तैमिरीं दोषमुद्रां दूरं रुन्द्धेत्प्रभवतु कथं तत्र मालिन्यशङ्का ॥३३१॥
भावव्रात हठाज्जनस्य हृदयान्याक्रम्य यन्नर्तयन् भङ्गीभिर्विविधाभिरात्महृदयं प्रच्छाद्य संक्रीडसे ।
यस्त्वामाह जडं जडः सहृदयंमन्यत्वदुःशिक्षितो मन्येऽमुष्य जडात्मता स्तुतिपदं त्वत्साम्यसंभावनात् ॥३३२॥

इह गलितमलाः परावरज्ञाः शिवसद्भावमया अधिक्रियन्ते ।
गुरवः प्रविचारणे यतस्तद्विफला द्वेषकलंकहानियाच्ञा ॥३३३॥

तन्त्रालोकेऽभिनवरचितेऽमुत्र विज्ञानसत्ताभेदोद्गारप्रकटनपटावाह्निकेऽस्मिन्समाप्तिः ।


%d bloggers like this: