Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » Sanatan Dharma » Sanskrit » Siddhant Rahasyam – सिद्धांत रहस्यं – श्रीवल्लभाचार्य

Siddhant Rahasyam – सिद्धांत रहस्यं – श्रीवल्लभाचार्य

सिद्धांत रहस्यं

श्रावण स्यामले पक्षे एकादश्यां महानिशि। साक्षात् भगवता प्रोक्तं तदक्षरश उच्यते॥१॥ 

ब्रह्म सम्बंध करणात्
सर्वेषां देहजीवयोः।
सर्वदोषनिवृत्तिर्हि दोषाः
पञ्चविधाः स्मृताः॥२॥ 

सहजा देशकालोत्था
लोकवेदनिरूपिताः।
संयोगजाः स्पर्श जाश्च
न मन्तव्याः कथन्चन॥३॥ 

अन्यथा सर्वदोषाणां
न निवृत्तिः कथन्चन।
असमर्पितवस्तुनां
तस्माद्वर्जनमाचरेत्॥४॥

सर्वं कुर्यादिति स्थितिः।
न मतं देवदेवस्य
सामिभुक्तं समर्पणं॥५॥ 

तस्मादादौ सर्वकार्ये
सर्ववस्तु समर्पणम्।
दत्तापहारवचनं
तथा च सकलं हरेः॥६॥ 

न ग्राह्ममिति वाक्यं हि
भिन्नमार्गपरं मतम्।
सेवकानां यथालोके
व्यवहारः प्रसिध्यति॥७॥ 

तथा कार्यं समर्प्यैव
सर्वेषां ब्रह्मता ततः।
गंगात्वं सर्वदोषाणां
गुणदोषादिवर्णना।
गंगात्वेन निरूप्या
स्यात्तद्वदत्रापि चैव हि॥८॥

Ballabhacharya: [1479 Champaran  –  1531 Varanasi]