Guru-parampara
by Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura
श्री-कृष्ण-ब्रह्म-देवर्षिबादरायण-संज्ञकान्श्री-मध्व-श्री-पद्मनाभश्रीमन्-नृहरि-माधवान्
अक्षोभ्य-जयतीर्थश्री-ज्ञानसिन्धु-दयानिधीन्
श्री-विद्यानिधि-राजेन्द्रजयधर्मान् क्रमाद् वयम्
पुरुषोत्तम-ब्रह्मण्यव्यासतीर्थांश् च संस्तुमः
ततो लक्ष्मीपतिं श्रीमन्माधवेन्द्रं च भक्तितः
तच्छिष्यान् श्रीश्वराद्वैतनित्यानन्दान् जगद्-गुरून्
देवम् ईश्वर-शिष्यं श्री-चैतन्यं च भजामहे
श्री-कृष्ण-प्रेम-दानेन येन निस्तारितं जगत्
महाप्रभु-स्वरूपश्री-दामोदरः प्रियं करः
रूप-सनातनौ द्वौ च गोस्वामि-प्रवरौ प्रभु
श्री-जीवो रघुनाथश् च रूप-प्रियो महामतिः
तत्-प्रियः कविराजश्री-कृष्णदास-प्रभुर् मतः
तस्य प्रियोत्तमः श्रीलः सेवापरो नरोत्तमः
तद्-अनुगत-भक्तः श्री-विश्वनाथः सद्-उत्तमः
तद्-आसक्तश् च गौडीयवेदान्ताचार्य-भूषणम्
विद्याभूषण-पाद-श्रीबलदेव-सदाश्रयः
वैष्णव-सार्वभौमः श्री-जगन्नाथ-प्रभुस् तथा
श्री-मायापुर-धाम्नस् तु निर्देष्टा सज्जन-प्रियः
शुद्ध-भक्ति-प्रचारस्य मूलीभूत इहोत्तमः
श्री-भक्तिविनोदो देवस् तत् प्रियत्वेन विश्रुतः
तद्-अभिन्न-सुहृद्-वर्यो महा-भागवतोत्तमः
श्री-गौर-किशोरः साक्षाद् वैराग्यं विग्रहाश्रितम्
मायावादि-कुसिद्धान्तध्वान्त-राशि-निरासकः
विशुद्ध-भक्ति-सिद्धान्तैः स्वान्तः पद्म-विकाशकः
देवो’सौ परमो हंसो मत्तः श्री-गौर-कीर्तने
प्रचाराचार-कार्येषु निरन्तरं महोत्सुकः
हरि-प्रिय-जनैर् गम्य ओं विष्णुपाद-पूर्वकः
श्रीपादो भक्तिसिद्धान्त सरस्वती महोदयः
सर्वे ते गौर-वंश्याश् च परमहंस-विग्रहाः
वयं च प्रणता दासास् तद्-उच्छिष्ट-ग्रहाग्रहाः
› Forums › Sri Brahma-Madhva-Gaudiya Guru-Parampara by Siddhanta Sarasvati
Tagged: GoudiyaMath, Siddhanta Saraswati
› Forums › Sri Brahma-Madhva-Gaudiya Guru-Parampara by Siddhanta Sarasvati
© Advocatetanmoy Law Library
› Forums › Sri Brahma-Madhva-Gaudiya Guru-Parampara by Siddhanta Sarasvati
© Advocatetanmoy Law Library