भाषिक सूत्राणि (2000 BCE)
The style of Vedic Pronunciation by Maharshi Katyayana
Vedic mantra chanting or recitation demands proper classification of style and correct pronunciation. The Bhasik Sutra started with “Now I am going to tell the correct recitation style of Vedic Texts”. Maharshi Katyayana was a Vedic grammarian and predecessor of Panini. Vārttikakāra of Panini Ashtadhyayi (अष्टाध्यायी), Katyayana was a different person.
The name Katyayani (name of Mother Kalika Deity) was derived from our Maharshi Katyayan. Black Saraswati (Bhadra Kali) was revealed by him as Gayatri was revealed by Viswamitra.
भाषिकसूत्रम्- श्रीमन्महर्षि कात्यायनप्रणीतं
१.१ अथ ब्राह्मण स्वर संस्कार नियमः
१.२ द्वौ
१.३ उक्तो मन्त्र स्वरः
१.४ तेनात्र सिद्धम्
१.५ उदात्तानुदात्तौ भाषिकस्तत्संधिः
१.६ अनुदात्तावन्तरेणोदात्तः
१.७ आप्रपूर्व आख्यातपरो न
१.८ समासश्चानाख्यातपरोऽपि न
१.९ अपूर्वश्च समासो नैव
१.१० जात्याभिनिहितक्षैप्रप्रश्लिष्टाश्च
१.११ उतो यो मो नो सो च
१.१२ ओञ् चैकेषाम्
१.१३ उदात्तमेतत्
१.१४ स्वरितानुदात्तौ च
१.१५ उदात्तमनुदात्तमनन्त्यम्
१.१६ अन्त्यं संहतानाम्
१.१७ भाषिके चोभयेषाम्
१.१८ एकस्यापि
१.१९ स्वरितस्य चाभिनिहितत्वम्
१.२० तेषां च प्रागुत्तमादनन्तराणां च कम्पनम्
१.२१ उदात्तपूर्वस्यानुदात्तस्य च
१.२२ उदात्तपूर्वस्य स्वरितस्यापि च
१.२३ अत्रान्त्यस्योदात्तस्यानुदात्तताम् प्रत्येके विवदन्ते
२.१ अथाख्यातपदविकरणाः
२.२ अर्थादिः
२.३ पादादिः
२.४ हि
२.५ हन्त
२.६ नेत्
२.७ कुवित्
२.८ अह
२.९ समुच्चये
२.१० आमन्त्रित सस्वरम्
२.११ जिज्ञासितम्
२.१२ विचारित्रम्
२.१३ अवधारितम्
२.१४ यद्योगः
२.१५ विनियोगः
२.१६ वाक्यशेषः
२.१७ अनुबन्धः
२.१८ एत आषोडशाक्षरात् पदं विकुर्वन्ति
२.१९ आपञ्चविंशाद् इति भारद्वाजः
२.२० आद्वात्रिंशादित्यौपशिबिः
२.२१ आमर्यादास्थोः पदयोर्बहूनां च पूर्वपदं विक्रियते
२.२२ सर्वाणीत्यौपशिबिः
३.१ विनियोगे तु पूर्वपदम्
३.२ जिज्ञासितयोश्च
३.३ अनन्तर्हितयोश्च
३.४ विचारितसमुच्चितयोश्च
३.५ निर्वचनेऽनूबन्धो वाक्यशेषोऽवध्यर्थश्चावधारणो न विकुरुत इति भारद्वाजः
३.६ भूयोवादी वरीयोवादी कनीयोवादी चानवधारणाः
३.७ परिसमाप्त्यर्थश्चान्यतमो ह्यादीनां न विकरोति
३.८ यमपदयोः स्वराद्योरल्पस्वरतरं प्रकृत्या
३.९ स्वराद्यस्वराद्योश्च सममात्रयोः पूर्वन्नेष्टमिति भारद्वाजः
३.१० यथार्थं चतुर्विधं पदं विपर्यस्तम्
३.११ कण्ठ्यस्वरोऽरृत्सवर्णे
३.१२ वकारस्य पदान्तस्य स्वरमध्ये लोपः
३.१३ शेषं सामान्यशास्त्रात्
३.१४ अकारेकारोकारर्कारल्कारा अवर्णधारणाः
३.१५ शतपथवत्ताण्डिभाल्लविनां ब्राह्मणस्वरः
३.१६ सप्त साम्नाम्
३.१७ षड्ज ऋषभ गान्धार मध्यम पञ्चम धैवत निषादाः
३.१८ तेषां योनयः
३.१९ कण्ठात्षड्जः
३.२० शिरस ऋषभः
३.२१ नासिकाया गान्धारः
३.२२ उरसो मध्यमः
३.२३ उरसः शिरसः कण्ठाच्च पञ्चमः
३.२४ धैवतो ललाटात्
३.२५ निषादः सर्वत इति
३.२६ मन्त्र स्वरवद्ब्राह्मण स्वरश्चरकाणाम्
३.२७ तेषां खाण्डिखेयौखेयानां चातुःस्वर्यमपि क्वचित्
३.२८ तानोऽन्येषां ब्राह्मणस्वरः
३.२९ तान एवाङ्गोपाङ्गानां तान एवाङ्गोपाङ्गानामिति
इति श्रीमन्महर्षि कात्यायनप्रणीतं भाषिकपरिशिष्ट सूत्रं परिसमाप्तम्
Tagged: 2000BCE, Vyakarana
© Advocatetanmoy Law Library
© Advocatetanmoy Law Library