Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » Atman in Gita

Atman in Gita

न जायते म्रियते वा कदाचिन्
नायं भूत्वा भविता वा न भूयः
अजो नित्यः शाश्वतोयं पुराणो
न हन्यते हन्यमाने शरीरे २.२०

वेदाविनाशिनं नित्यं य एनमजमव्ययम्
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् २.२१

वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोपराणि
तथा शरीराणि विहाय जीर्णानि
अन्यानि संयाति नवानि देही २.२०

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः २.२३

अच्छेद्योयमदाह्योयमक्लेद्योशोष्य एव च
नित्यः सर्वगतः स्थाणुरचलोयं सनातनः २.२४