पतङ्गम् अक्तम् असुरस्य मायया सूक्तं-Patangam Aktam Asurashya Mayaya Suktam- 10/177

  1. पतङ्गमक्तमसुरस्य मायया हृदा पश्यन्ति मनसा विपश्चितः ।
    समुद्रे अन्तः कवयो वि चक्षते मरीचीनां पदमिच्छन्ति वेधसः ॥१०,१७७.०१
  2. पतङ्गो वाचं मनसा बिभर्ति तां गन्धर्वोऽवदद्गर्भे अन्तः ।
    तां द्योतमानां स्वर्यं मनीषामृतस्य पदे कवयो नि पान्ति ॥१०,१७७.०२
  3. अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् ।
    स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥१०,१७७.०३

पतङ्गम् । अक्तम् । असुरस्य । मायया । हृदा । पश्यन्ति । मनसा । विपःऽचितः ।

समुद्रे । अन्तरिति । कवयः । वि । चक्षते । मरीचीनाम् । पदम् । इच्छन्ति । वेधसः ॥१

पतङ्गः । वाचम् । मनसा । बिभर्ति । तान् । गन्धर्वः । अवदत् । गर्भे । अन्तरिति ।

ताम् । द्योतमानाम् । स्वर्यम् । मनीषाम् । ऋतस्य । पदे । कवयः । नि । पान्ति ॥२

अपश्यम् । गोपाम् । अनिऽपद्यमानम् । आ । च । परा । च । पथिऽभिः । चरन्तम् ।

सः । सध्रीचीः । सः । विषूचीः । वसानः । आ । वरीवर्ति । भुवनेषु । अन्तरिति ॥३


ऋग्वेदः – मण्डल १० सूक्तं १०.१७७
पतङ्गः प्राजापत्यः। दे. मायाभेदः। त्रिष्टुप्, १ जगती।


मायाभेदस्य प्रतिपाद्यत्वात्तद्देवत्यमिदं सूक्तम् ।

असुरस्य असनकुशलस्य सर्वोपाधिविहीनस्य परब्रह्मणः संबन्धिया “मायया त्रिगुणात्मिकया “अक्तं व्यक्तमभिव्यक्तम् । यद्वा। मायेति प्रज्ञानाम । प्रज्ञया संबद्धं सर्वज्ञं “पतङ्गम्। पतति गच्छतीति पतङ्गः सूर्यः । तं “विपश्चितः विद्वांसः “हृदा हृत्स्थेन । तात्स्थ्यात्ताच्छब्द्यम् । हृदि निरुद्धेन “मनसा “पश्यन्ति जानन्ति । “कवयः क्रान्तदर्शिनस्ते “समुद्रे । समुद्द्रवन्त्यस्माद्रश्मय इति समुद्रं सूर्यमण्डलम् । तस्मिन् “अन्तः मध्ये “वि “चक्षते विपश्यन्ति । मण्डलान्तर्वर्तिनं हिरण्मयं पुरुषमपि जानन्तीत्यर्थः । य एवं “वेधसः विधातार उक्तप्रकारेण सूर्योपासनस्य कर्तारस्ते “मरीचीनां रश्मीनां “पदं स्थानं सूर्यमण्डलम् “इच्छन्ति अभिलषन्ति । तदुपासनया प्राप्नुवन्तीत्यर्थः । यद्वा । माययाक्तं जीवरूपेणाभिव्यक्तमात्मानं विपश्चितो वेदान्ताभिज्ञा हृत्स्थेनान्तर्मुखेन मनसा पतङ्गम् । पतति व्याप्नोतीति पतङ्गः परमात्मा । तं पश्यन्तिउपाधिपरित्यागेन जीवात्मनः परमात्मना तादात्म्यं साक्षात्कुर्वन्तीत्यर्थः । अपि च ते कवयः क्रान्तदर्शिनो वेदान्ताभिज्ञाः समुद्रे । समुद्द्रवन्त्यस्माद्भूतानीति समुद्रः परमात्मा । तस्मिन्नधिष्ठानभूतेऽन्तर्मध्ये सर्वं दृश्यजातमध्यस्तत्वेन वि चक्षते विपश्यन्तीति । अतो दृग्व्यतिरिक्तस्य सर्वस्य मिथ्यात्वाद्वेधसो विधातारस्ते मरीचीनां वृत्तिज्ञानानां पदमधिष्ठानभूतं सच्चित्सुखात्मकं यत्परं ब्रह्म तदेवेच्छन्ति । तद्भावप्राप्तिमेव कामयन्ते ॥

वाग्देवत्ये पशौ ‘ पतङ्गो वाचम्’ इति पुरोडाशस्यानुवाक्या । सूत्रितं च — यद्वाग्वदन्त्यविचेतनानि पतङ्गो वाचं मनसा बिभर्ति ‘ ( आश्व. श्रौ. ३. ८) इति ॥

“पतङ्गः सूर्यः “वाचं त्रयीरूपां “मनसा प्रज्ञया “बिभर्ति धारयति । श्रूयते हि— ऋग्भिः पूर्वाह्णे दिवि देव ईयते यजुर्वेदे तिष्ठति मध्ये अह्नः सामवेदेनास्तमये महीयते वेदैरशून्यस्त्रिभिरेति सूर्यः’ (तै. ब्रा.३.१२.९.१ ) इति । “ताम् एव वाचं “गर्भे शरीरस्य मध्ये वर्तमानः “गन्धर्वः । गाः शब्दान् धारयतीति गन्धर्वः प्राणवायुः । “अन्तः मध्ये “अवदत् वदति प्रेरयति । ‘ मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् ‘ ( पा. शि. ७) इति स्मरणात् । “द्योतमानां स्वर्यं स्वर्गमयित्रीं स्वर्गाय हितां वा “मनीषां मनस ईशित्रीं “तां त्रयीरूपां वाचम् “ऋतस्य यज्ञस्य सत्यभूतस्य सूर्यस्य वा “पदे स्थाने “कवयः मेधाविन ऋषयः “नि “पान्ति । अध्यापनेन नितरां रक्षन्ति । यद्वा । पतङ्गः सर्वोपाधिशून्यो व्याप्तः परमात्मा। स सृष्ट्यादौ वाचं मनसा बिभर्ति । कानि कानि स्रष्टव्यानीति पर्यालोचनेन मनसा सकलार्थप्रतिपादकं वेदं परामृष्टवानित्यर्थः । स्मर्यते हि — वेदशब्देश्य एवादौ निर्ममे स महेश्वरः’ इति । गर्भे हिरण्मये ब्रह्माण्डेऽन्तर्वर्तमानो गन्धर्वो हिरण्यगर्भस्तां वाचमवदत् प्रथममुच्चारितवान् । द्योतमानत्वादिगुणविशिष्टां तां वाचं कवयः क्रान्तदर्शिनो देवा ऋतस्य सत्यस्य ब्रह्मणः पदे स्थाने नि पान्ति निभृतं रक्षन्ति ।

व्याख्यातेयमस्यवामीयसूक्ते ( ऋ. सं. १. १६४. ३१ ) । “गोप गोपयितारमादित्यम् “अपश्यम् अज्ञासिषम् । एष हि सर्वाणि भूतजातान्युदयास्तमयादिकर्मणा गोपायति । कीदृशम् । “अनिपद्यमानम् उच्चैर्गच्छन्तम् । न ह्यसौ कदाचिन्नीचैः पद्यते । पथिभिः आकाशमार्गैः पूर्वाह्न “आ “चरन्तम् अस्मानभिलक्ष्य गच्छन्तं सार्थसमये “परा चरन्तं पराङ्मुख गच्छन्तम् । प्रकारद्वयमुच्चयार्थी शब्दौ । सः सूर्यः सध्रीचीः सहञ्चन्तीः “विषूचीः विविधं पृथक्पृथगञ्जन्तीः स्वस्वव्यापाराय गच्छन्तीः । प्राच्याद्या महादिशः सधीच्या विधूच्यः कोणदिशः। “वसानः स्वभासाच्छादयन् प्रकाशयन् “भुवनेषु लोकेषु अन्तः मध्ये “ “वरीवति । पुनःपुनरुद्यन् अस्तं गच्छंश्चावर्तते । यद्वा । गोपां शरीरस्य गोपायितारमनिपद्यमानमविनाशिनमविपन्नमा च परा चाभिमुखेन च पराङ्मुखेन च पथिभिर्नाडीलक्षणैर्मागैश्चरन्तं शरीरे वर्तमानं प्राणमपश्यम् अहमदर्शम् ॥ ॥३५॥
प्रवर्ग्येऽभिष्टवे ‘अपश्यं गोपाम्’ इत्येषा । सूत्रितं च – ‘ अपश्यं गोपामनिपद्यमानं स्रक्वे द्रप्सस्य ‘ (आश्व. श्रौ. ४. ६) इति ।। [सायणभाष्यम्]


 

वाय॒वा या॑हि दर्शते॒मे सोमा॒ अरं॑कृताः- Bayaba yahi darshateme soma aramkritaha-1.1.2

ऋग्वेदः – मण्डल १-सूक्तं १.२ -मधुच्छन्दा वैश्वामित्रः – दे. १-३ वायुः, ४-६ इन्द्र-वायू, ७-९ मित्रा-वरुणौ। गायत्री

वाय॒वा या॑हि दर्शते॒मे सोमा॒ अरं॑कृताः ।

तेषां॑ पाहि श्रु॒धी हवं॑ ॥१

वाय॑ उ॒क्थेभि॑र्जरंते॒ त्वामच्छा॑ जरि॒तारः॑ ।

सु॒तसो॑मा अह॒र्विदः॑ ॥२

वायो॒ तव॑ प्रपृंच॒ती धेना॑ जिगाति दा॒शुषे॑ ।

उ॒रू॒ची सोम॑पीतये ॥३

इंद्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒रा ग॑तं ।

इंद॑वो वामु॒शंति॒ हि ॥४

वाय॒विंद्र॑श्च चेतथः सु॒तानां॑ वाजिनीवसू ।

तावा या॑त॒मुप॑ द्र॒वत् ॥५

वाय॒विंद्र॑श्च सुन्व॒त आ या॑त॒मुप॑ निष्कृ॒तं ।

म॒क्ष्वि१॒॑त्था धि॒या न॑रा ॥६

मि॒त्रं हु॑वे पू॒तद॑क्षं॒ वरु॑णं च रि॒शाद॑सं ।

धियं॑ घृ॒ताचीं॒ साधं॑ता ॥७

ऋ॒तेन॑ मित्रावरुणावृतावृधावृतस्पृशा ।

क्रतुं॑ बृ॒हंत॑माशाथे ॥८

क॒वी नो॑ मि॒त्रावरु॑णा तुविजा॒ता उ॑रु॒क्षया॑ ।

दक्षं॑ दधाते अ॒पसं॑ ॥९


अग्निमीळे ‘ इत्यादिसूक्तमग्निष्टोमस्य प्रातरनुवाके यथा (शस्त्रे) विनियुक्तं तथा ‘ वायवा याहि ‘ इत्यादयस्तृचाः प्रउगशस्त्रे विनियुक्ताः । तत्रेदं चिन्त्यते, शस्त्रं किं देवतास्मरणरूपसंस्कारकर्म किं वा अदृष्टफलं प्रधानकर्मेति । तत्र पूर्वपक्षं जैमिनिः ( जै. सू. २. १. १३-२९) सूत्रयामास-

‘ स्तुतशस्त्रयोस्तु संस्कारो याज्यावद्देवताभिधानत्वात् ‘ इति ।। ‘ आज्यैः स्तुवते पृष्ठैः स्तुवते प्रउगं शंसति निष्केवल्यं शंसति ‘ इति श्रूयते । तत्र स्तुतिः शंसनं च गुणिनिष्टगुणाभिधानम् ‘ इन्द्रस्य नु वीर्याणि प्र वोचम् ( ऋ सं. १. ३२. १) इत्यत्र दृष्टत्वात् । एवं सति याज्यान्यायेन गुणिन्या देवताया अभिधायकत्वेन स्तुतशस्त्रयोः संस्काररूपत्वमभ्युपेयम् । याज्यायास्तद्रूपत्वं दशमाध्यायस्य चतुर्थपादे ( जै. सू. १०. ४ ३९-४१) दृष्टार्थलाभेन निर्णीतम् । तद्वदत्रापि । तुशब्दः प्रधानकर्मत्वं व्यावर्तयति ।। सिद्धान्ती तं पक्षं दूषयति-

‘ अर्थेन त्वपकृष्येत देवतानाम्नश्चोदनार्थस्य गुणभूतत्वात् ‘ इति । तुशब्देन संस्कारत्वं वारयति संस्कारपक्षे प्रयोजनवशेन मन्त्रः स्वस्थानादपकृष्येत । कुतः । मन्त्रगतं देवतावाचकं यदिन्द्रादिनामास्ति तच्चोदनया मन्त्ररूपया प्रतिपाद्य देवतारूपभ्यार्थस्य गुणभूतम् । तस्मात् यत्र प्रधानभूतदेवतास्ति तत्र गुणभूतो मन्त्रो नेतव्यः । तद्यथा माहेन्द्रग्रहसंनिधौ ‘ अभि त्वा शूर ‘ ( ऋ. सं. ७. ३२. २२) इत्ययं प्रगाथ आम्नातः । स चेन्द्रं प्रकाशयति न तु महेन्द्रम् । ततो यत्रैन्द्रं कर्म तत्रायं प्रगाथोऽपकर्षणीयः । तथा सति क्रमसंनिधी वाध्येयाताम् ।। तदेतत् सिद्धान्तिनाभिहितं दूषणं पूर्वपक्षी समाधत्ते–

वशावद्वा गुणार्थं स्यात् ‘ इति । वाशब्दः प्रगाथस्यान्यत्रनयनं वारयति । मन्त्रे यदेतदिन्द्रशब्दाभिधानं तदेतन्महत्वगुणोपलक्षणार्थं स्यात् । यथा ‘ सा वा एषा सर्वदेवत्या यदजा वशा

वायव्यामा लभेत ‘ ( तै. सं. ३. ४. ३. २) इत्यत्र अजावशाशब्देन चोदिते कर्मणि छागशब्देन केवलेन युक्ता निगमा वशात्वगुणमप्युपलक्षयन्ति तद्वत् । तस्मात् महत्त्वगुणयुक्ते चोदिते कर्मणि निर्गुणेनेन्द्रशब्देनाभिधानमविरुद्धम् । लोकेऽपि महाराजे केवलराजशब्दप्रयोगमपि पश्यामः । तदेतत् समाधानं सिद्धान्ती दूषयति-

‘ न श्रुतिसमवायित्वात् ‘ इति । यदुक्तं वशान्यायेन राजन्यायेन वास्य ग्रहस्यैन्द्रो देवता युज्यते इति तन्न । देवतात्वस्य तद्धितश्रुतिसमवायित्वात् । माहेन्द्रग्रह इत्यत्र सास्य देवतेत्यस्मिन्नर्थे ‘ महेन्द्राद्धाणौ च ‘ ( पा. सू. ४. २. २९) इति महेन्द्र्शब्दात् अण्प्रत्ययो विहितः । तस्मात् महेन्द्र एव देवता न त्विन्द्रः ।। विपक्षे बाधमाह-

‘ गुणश्चानर्थकः ‘ डति । यदीन्द्रो देवता स्यात् तदानीम् ऐन्द्रग्रह इत्येतावतैव अर्थावगतौ माहेन्द्र इति महत्त्वगुणोऽनर्थकः स्यात । चकारः पूर्वहेतुना समुच्चयार्थः ।। हेत्वन्तरमाह-

‘ तथा याज्यापुरोरुचोः ‘ इति । इन्द्रमहेन्द्रयोर्देवतयोर्भेदे यथा महत्वगुणः सार्थकस्तथा याज्या- पुरोनुवाक्ययोर्भेदोऽप्यस्मिन्नेव पक्षे उपपद्यते । ‘ एन्द्र सानसिम् ‘ ( ऋ. सं. १. ८. १) इत्यादिके इन्द्रस्य याज्यापुरोनुवाक्ये । ‘ महाँ इन्द्रो य ओजसा ‘ ( ऋ सं. ८. ६. १) इत्यादिके महेन्द्रस्य ।। पूर्वपक्षिणोक्ते वशादृष्टान्ते वैषम्यमाह-

‘ वशायामर्थसमवायात् ‘ इति । या वशा विधिवाक्ये श्रुता तस्या एव निगमेषु छागशब्देन व्यवहारो न विरुद्धः । छागत्वलक्षणस्यार्थस्य वशायां समवेतत्वात् । तच्च प्रत्यक्षेणोपलभ्यते । इन्द्र-महेन्द्रयोस्तु भेद उपपादितः । तस्मात् विषमो दृष्टान्तः । एवं संस्कारपक्षे प्रगाथस्यैन्द्रकर्मण्यपकर्षप्रसङ्गात् तद्वारयितुं स्तोत्रशस्त्रयोः प्रधानकर्मत्वमिति सिद्धान्तिनो मतम् ।। पुनरपि पूर्वपक्षी तदेतन्मतं निराचष्टे–

‘यत्रेति वार्थवत्त्वात्स्यात् ‘ इति । वाशब्दः सिद्धान्तिमतव्यावृत्यर्थम् । यत्रैन्द्रं कर्म तत्र प्रगाथो नेतव्य इत्ययमेव पक्षः स्यात् । कुतः, अर्थवत्त्वात् । ऐन्द्रो मन्त्र इन्द्र प्रकाशयितुं समर्थ इत्यर्थवान् स्यात् । महेन्द्रं तु प्रकाशयितुमसमर्थत्वादानर्थक्यं प्रगाथस्य प्रसज्येत । तस्मात् देवताप्रकाशनरूपसंस्कारकर्मत्वमेव स्तोत्रशस्त्रयोर्युक्तमिति स्थितः पूर्वपक्षः ॥ अथ सिद्धान्तमाह –

अपि वा श्रुतिसंयोगात्प्रकरणे स्तौतिशंसती क्रियोत्पत्तिं विदध्याताम्’ इति । ‘अपि वा । इत्यनेन संस्कारकर्मत्वं व्यावर्त्यते । स्तौतिधातुः शंसतिधातुश्चेत्येतावुभावपि स्वप्रकरणे एव कस्याश्चित् प्रधानक्रियाया उत्पत्तिं विदध्याताम् । कुतः, श्रुतिसंयोगात्। तयोर्धात्वोर्वाच्योऽर्थः श्रुतिरित्युच्यते । तस्संयोगः प्रधानकर्मत्वे सिध्यति । तथा हि गुणिनमुपसर्जनीकृत्य तन्निष्टानां गुणानां प्राधान्येन कथनं स्तुतिः । यो देवदत्तः स चतुर्वेदाभिज्ञ इत्युक्ते सर्वे जनाः स्तुतिमवगच्छन्ति । गुणस्योपसर्जनत्वे तु न स्तुतिः प्रतीयते । यश्चतुर्वेदाभिज्ञस्तमाकारय ‘ इत्युक्ते स्तुतिं न मन्यन्ते किंत्वाह्वानप्राधान्यमेव बुध्यन्ते । एवं मन्त्रेष्वपि या देवता सेयमीदृशैर्गुणैरुपेतेति गुणप्राधान्यविवक्षायां मुख्यः स्तौतिधात्वर्थो विधीयते । त्वत्पक्षे तु येयमीदृग्गुणयुक्ता सेयं देवतेति देवतास्मरणस्य प्राधान्यादियं स्तुतिर्न स्यात्। ततः श्रुतिवशादेते प्रधानकर्मणी । तथा सति देवताप्रकाशने तात्पर्याभावात् ऐन्द्रोऽपि प्रगाथः स्वप्रकरणगते माहेन्द्रकर्मण्येवावतिष्ठते । यदि देवतास्मरणरूपं दृष्टं प्रयोजनं न लभ्येत तर्ह्यदृष्टमस्तु ॥ प्रधानकर्मत्वे हेत्वन्तरमाह—

‘शब्दपृथक्त्वाच्च’ इति । द्वादशाग्निष्टोमस्य स्तोत्राणि द्वादश शस्त्राणि ‘ इत्यत्र द्वादशशब्देन स्तोत्राणां पृथक्त्वमवगम्यते । देवताप्रकाशनपक्षे सर्वैरपि मन्त्रसंघैः कृतस्य प्रकाशनस्यैकत्वेन द्वादशसंख्या न स्यात् । प्रधानकर्मणां तु आज्यस्तोत्रपृष्ठस्तोत्रादिनामकानां भिन्नत्वात् द्वादशत्वसंख्योपपद्यते ।। एवं शस्त्रवाक्येऽपि योज्यम् ॥ विपक्षे बाधमाह

‘अनर्थकं च तद्वचनम् ‘ इति । अग्निष्टुति श्रूयते- आग्नेया ग्रहा भवन्ति’ इति । तत्रैव पुनरप्यन्यदुच्यते-आग्नेयीषु स्तुवते । आग्नेयीः शंसन्ति’ इति । त्वत्पक्षे तद्वचनमनर्थकं स्यात् ।। चोदकप्राप्तेषु स्तोत्रशस्त्रमन्त्रेष्वाग्नेयग्रहानुसारेण देवतापदस्य ऊहे सति आग्नेयत्वसिद्धेः । प्रधानकर्मपक्षे तु देवताप्रकाशनरूपस्वाभावेन ऊहाभावात् आग्नेयमन्त्रान्तरविधिवचनमर्थवद्भवति ॥ पुनरपि हेत्वन्तरमाह—-

‘अन्यश्चार्थः प्रतीयते ‘ इति । ‘संबद्धे वै स्तोत्रशस्त्रे’ इति ह्याम्नातम् । संबन्धश्च द्वयोर्भवति न त्वेकस्य । तस्मात् स्तोत्रशस्त्रयोरर्थभेदः प्रतीयते । स च संस्कारपक्षे न संभवति । देवताप्रकाशनरूपस्यार्थस्यैकत्वात् । प्रधानकर्मपक्षे तु स्तोत्रकर्म शस्त्रकर्म चेत्यर्थभेद उपपद्यते । यद्यपि ‘ष्टुञ् स्तुतौ ‘; ‘शंसु स्तुतौ ‘ इत्येकार्थौ, तथापि ‘प्रगीतमन्त्रसाध्यं स्तोत्रम् ‘, ‘ अप्रगीतमन्त्रसाध्यं शस्त्रम् ‘ इति तयोर्विवेकः ॥ हेत्वन्तरमाह

‘ अभिधानं च कर्मवत् ‘ इति । यया प्रधानकर्म ‘ अग्निहोत्रं जुहोति ‘ इति द्वितीयासंयोगेनाभिहितं, तथा प्रउगं शंसति ‘ इत्यभिधीयते । अतस्तत्सादृश्यात् प्रधानकर्मत्वम् ।। हेत्वन्तरमाह—

, फलनिर्वृत्तिश्च ‘ इति । ‘ स्तुतस्य स्तुतमसि ‘ ( तै. सं. ३. २. ७. १) इति स्तोत्रानुमन्त्रणमाम्नाय वाक्यशेषे स्तोत्रफलमेवाम्नातम्-‘ इन्द्रियावन्तो वनामहे धुक्षीमहि प्रजामिषम् ‘ ( तै. सं. ३ २. ७. २) इति । न तु देवताप्रयुक्तं फलमाम्नातम् । अतो न देवतासंस्कारः किंतु प्रधानकर्मेति स्थितम् । अनेन तु निर्णयेन प्रयोजनं विकृतिषु ऊहाभावः । संस्कारपक्षे तु यस्यां विकृतौ देवतान्तरं तत्र तद्वाचकं पदमूहनीयं स्यात् । तन्मा भूदिति प्रधानकर्मत्वमुक्तम् । एतच्च दशमाध्याये सूत्रितं- ‘ ग्रहाणां देवतान्यत्वे स्तुतशस्त्रयोः कर्मत्वादविकारः स्यात् ‘ ( जै. सू. १०. ४. ४९) इति ।

अत्र संग्रहश्लोकौ-

प्रउगं शंसतीत्यादौ गुणतोत प्रधानता ।

दृष्टा देवस्मृतिस्तेन गुणता स्तोत्रशस्त्रयोः ।।

स्मृत्यर्थत्वे स्तौतिशंस्योर्धात्वोः श्रौतार्थबाधनम् ।

तेनादृष्टमुपेत्यापि प्राधान्यं श्रुतये मतम् ( जै. न्या. २. १. ५) इति ।।

अग्निष्टोमे सुत्यादिने, सूर्योदयात् पूर्वं प्रेषितो होता प्रातरनुवाकमनुब्रूयात् । एतच्चैतरेयब्राह्मणे प्रपञ्चितं- देवेभ्यः प्रातर्यावभ्यो होतरनुब्रूहीत्याहाध्वर्युः ‘ ( ऐ. ब्रा. २.१५) इत्यादि ब्राह्मणम् । तस्मिंश्च प्रातरनुवाके ‘ अग्निमीळे ‘ इत्यादिसूक्तमन्तर्भूतम् । तच्च व्याख्यातम् । प्रातःसवने वैश्वदेवग्रहणादूर्ध्वं प्रउगशस्त्रं होत्रा शंसनीयम् । तच्च शस्त्रं ‘ वायवा याहि ‘ इत्यादिसप्ततृचात्मकम् । एतच्च ब्राह्मणे ‘ ग्रहोक्थम् ‘ ( ऐ.ब्रा. ३.१) इत्यादिखण्डे प्रपञ्चितम् । तथा पञ्चमाध्याये ‘ स्तोत्रमग्रे शस्त्रात् ‘ ( आश्व. श्रौ. ५. १०) इत्यादिखण्डे सूत्रितं च । अत्रेयमनुक्रमणिका- वायो वायव्यैन्द्रवायवमैत्रावरुणास्तृचा अश्विना द्वादशाश्विनैन्द्रवैश्वदेवसारस्वतास्तृचाः सप्तैताः प्रउगदेवताः ‘ इति । अस्यायमर्थः । ‘ वायवा याहि ‘ इत्यादिकं नवर्चं सूक्तम् । ‘ अग्निं नव ‘ इत्यतो नवशब्दस्यानुवृत्तेः । तत्राद्यस्तृचो वायुदेवताकः । द्वितीय इन्द्रवायुदेवताकः । तृतीयो मित्रावरुणदेवताकः । ‘ अश्विना ‘ इत्यादिकं द्वादशर्चं सूक्तम् । तत्राद्यस्तृच आश्विनः । द्वितीय ऐन्द्रः । तृतीयो वैश्वदेवः । चतुर्थः सारस्वतः । तेषु तृचेषु प्रतिपाद्या वाय्वादयः सरस्वन्यन्ताः सप्तसंख्याकाः प्रउगशस्त्रस्य देवता इति । मधुच्छन्दसोऽनुवर्तनात् स एवर्षिः । तथैवानुवृत्त्या गायत्रं छन्दः । वायव्ये तृचे प्रथमा ग्रहस्य ऐन्द्रवायवस्यैका पुरोनुवाक्या । एतच्च ब्राह्मणे समाम्नातं- वायव्या पूर्वा पुरोनुवाक्यैन्द्रवायव्युत्तरा ‘ ( ऐ. ब्रा. २. २६) इति । तथा सूत्रितं च-‘ वायवा याहि दर्शतेन्द्रवायू इमे सुता इत्यनुवाक्ये ( आश्व श्रौ. ५ ५) इति ।।


वायो इति । आ । याहि । दर्शत । इमे । सोमाः । अरम्ऽकृताः ।

तेषाम् । पाहि । श्रुधि । हवम् ॥१

“दर्शत हे दर्शनीय “वायो कर्मण्येतस्मिन् आ “याहि आगच्छ । त्वदर्थम् “इमे “सोमा “अरंकृताः अलंकृताः । अभिषवादिसंस्कारोऽलंकारः। “तेषां तान् सोमान् । यद्वा। तेषामेकदेशमित्यध्याहारः। “पाहि स्वकीयं भागं पिबेत्यर्थः। तत्पानार्थं “हवम् अस्मदीयमाह्वानं “श्रुधि शृणु। अत्र यास्कः-’वायवा याहि दर्शनीयेमे सोमा अरंकृता अलंकृतास्तेषां पिब शृणु नो ह्वानम् ‘ ( निरु. १०. २ ) इति ॥ दर्शतेत्यत्र ‘भृमृदृशि° ‘ ( उ. सू. ३. ३९० ) इत्यादिसूत्रेण अतच्प्रत्यय औणादिकः । चित्त्वादन्तोदात्तस्य आमन्त्रितानुदात्तत्वम् । अर्तिस्तुसु ‘ (उ. सू. १. १३७ ) इत्यादिना मन्प्रत्ययान्तस्य सोमशब्दस्य नित्स्वरः । अलमित्यत्र छान्दसो रेफादेशः । अरंकृतशब्दे समासान्तोदात्तत्वम् (पा. सू. ६. १. २२३) बाधित्वा अव्ययपूर्वपदप्रकृतिस्वरप्राप्तौ (पा. सू. ६. २. २) भूषणेऽलम्’ (पा. सू. १. ४. ६४ ) इत्यलंशब्दस्य गतिसंज्ञायां ‘ गतिकारक° ‘ ( पा. सू. ६. २. १३९ ) इत्यादिना कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते तदपवादत्वेन ‘ गतिरनन्तरः ‘ ( पा. सू. ६. २. ४९ ) इति पूर्वपदप्रकृतिस्वरत्वम् । निपातत्वादलंशब्द आद्युदात्तः । पाहीत्यत्र पिबादेशाभावश्छन्दसः । श्रुधीत्यत्र ‘श्रुशृणु° । (पा. सू. ६. ४. १०२) इत्यादिना हेर्धिभावः । तिङन्तादुत्तरस्य निघातो नास्ति । सेर्ह्यपिञ्च’ (पा. सू. ३. ४. ८७ ) इति पित्वनिषेधानुदात्ते निवारिते प्रत्ययस्वरः । हवमित्यत्र ह्वयतिधातोः ‘बहुलं छन्दसि ‘ ( पा. सू. ६. १. ३४ ) इति संप्रसारणे सति उकारान्तत्वात् ‘ऋदोरप् ‘ ( पा. सू. ३. ३. ५७) इति अप्प्रत्ययः । तस्य पित्त्वादनुदात्ते सति धातुस्वरः शिष्यते। संहितायां श्रुधीत्यस्य ‘अन्येषामपि दृश्यते ‘ ( पा. सू. ६. ३. १३७ ) इति दीर्घः ।

वायो इति । उक्थेभिः । जरन्ते । त्वाम् । अच्छ । जरितारः ।

सुतऽसोमाः । अहःऽविदः ॥२
हे “वायो “जरितारः स्तोतार ऋविग्यजमानाः “त्वामच्छ त्वामभिलक्ष्य “उक्थेभिः आज्यप्रउगादिशस्त्रैः “जरन्ते स्तुवन्ति। कीदृशाः। ‘सुतसोमाः अभिषुतेन सोमेनोपेताः। “अहर्विदः । अहःशब्द एकेनाह्ना निष्पाद्येऽग्निष्टोमादिक्रतौ वैदिकव्यवहारेण प्रसिद्धः । ऋत्वभिज्ञा इत्यर्थः । ‘अर्चति गायति’ इत्यादिषु चतुश्चत्वारिंशत्स्वर्चतिकर्मसु धातुषु “जरते ह्वयति’ (नि. ३. १४, ८) इति पठितम् । स्तुतेरपि अर्चनाविशेषत्वात् औचित्येनात्र स्तुत्यर्थों जरतिधातुः । अच्छशब्दस्य संहितायां ‘निपातस्य च’ ( पा. सू. ६. ३. १३६ ) इति दीर्घः । सुतसोमा इत्यत्र बहुव्रीहित्वात् पूर्वपदप्रकृतिस्वरः ( पा. सू. ६. २. १ )। अहर्विद इत्यत्र समासस्वरं ( पा. सू. ६. १. २२३ ) बाधित्वा ‘तत्पुरुषे तुल्यार्थ° ( पा. सू. ६. २. २) इत्यादिना द्वितीयापूर्वपदप्रकृतिस्वरे प्राप्ते तदपवादत्वेन ‘गतिकारकोपपदात्कृत (पा. सू. ६. २. १३९ ) इति कृदुत्तरपदप्रकृतिस्वरः ।।

वायो इति । तव । प्रऽपृञ्चती । धेना । जिगाति । दाशुषे ।

उरूची । सोमऽपीतये ॥३

हे “वायो तव “धेना वाक् सोमपीतये सोमपानार्थं दाशुषे दाश्वांसं दत्तवन्तं यजमानं जिगाति गच्छति । हे यजमान त्वया दत्तं सोमं पास्यामीत्येवं वायुर्ब्रूते इत्यर्थः। कीदृशी धेना । “प्रपृञ्चती प्रकर्षेण सोमसंपर्क कुर्वती सोमगुणं वर्णयन्तीत्यर्थः । उरूची उरून् बहून् यजमानान् गच्छन्ती । ये ये सोमयाजिनस्तान् सर्वान् वर्णयन्तीत्यर्थः ॥ प्रपृञ्चतीत्यत्र ‘शतुरनुमः’ ( पा. सू. ६. १. १७३ ) इति ङीप् उदात्तः । ‘श्लोकः धारा ‘ इत्यादिषु सप्तपञ्चाशत्सु वाङ्नामसु ‘ गणः धेना ग्नाः’ ( नि. १. ११. ३९ ) इति पठितम् । वर्तते अयते’ इत्यादिषु द्वाविंशाधिकशतसंख्येषु गतिकर्मसु “ गाति जिगाति’ (नि. २. १४. ११३) इति पठितम् । दाशुषे इत्यत्र ‘गत्यर्थकर्मणि’ (पा. सू. २. ३. १२ ) इति चतुर्थी । उरूचीत्यत्र गौरादित्वेन ( पा. सू. ४. १. ४१ ) ङीषि कृते प्रत्ययस्वरः । सोमपीतये इत्यत्र बहुव्रीहित्वाभावेऽपि व्यत्ययेन पूर्वपदप्रकृतिस्वरः ॥

इन्द्रवायू इति । इमे । सुताः । उप । प्रयःऽभिः । आ । गतम् ।

इन्दवः । वाम् । उशन्ति । हि ॥४
एतस्या ऋच ऐन्द्रवायवग्रहे द्वितीयपुरोनुवाक्यारूपेण विशेषविनियोगः पूर्वमेवोक्तः । हे “इन्द्रवायू भवदर्थम् “इमे सोमाः सुताः अभिषुताः। तस्मात् युवां प्रयोभिः अन्नैरस्मभ्यं दातव्यैः सह “उप “आ “गतम्, अस्मत्समीपं प्रति आगच्छतम्। “हि यस्मात् इन्दवः सोमाः “वां युवाम् “उशन्ति कामयन्ते तस्मात् आगमनमुचितम् ॥ इन्द्रवायूशब्दस्यामन्त्रिताद्युदात्तत्वम् । प्रीणयन्ति भोक्तॄनिति प्रयांस्यन्नानि । प्रीञ्धातोरन्तर्भावितण्यर्थात् (पा. सू. ३. १. २६ ) असुन्प्रत्यये सति नित्स्वरः । गमिधातोर्लोण्मध्यमपुरुषद्विवचने ‘बहुलं छन्दसि’ ( पा. सू. २. ४. ७३ ) इति शपो लुकि सति ‘अनुदात्तोपदेश’ ( पा. सू. ६. ४. ३७) इत्यादिना मकालोपः । ततो गतमिति भवति । ‘उन्दी क्लेदने ! इति धातोः ‘ उन्देरच्चादेः’ (उ. सू. १. १२) इति उन्प्रत्ययः। आद्यक्षरस्य इकारादेशः । तत इन्दुशब्दस्य नित्स्वरः। सोमरसस्य द्रवत्वात् क्लेदनं संभवति। युष्मच्छब्दादेशस्य वामित्येतस्य ‘अनुदात्तं सर्वमपादादौ (पा. सू. ८. १. १८) इत्यनुदात्तः । उशन्तीत्यस्य निघाते ‘ हि च ‘ ( पा. सू. ८, १, ३४ ) इति सूत्रेण प्रतिषिद्धे सति प्रत्ययस्वरः । हिशब्दस्य निपातस्वरः ॥

वायो इति । इन्द्रः । च । चेतथः । सुतानाम् । वाजिनीवसू इति वाजिनीऽवसू ।

तौ । आ । यातम् । उप । द्रवत् ॥५

अत्र चकारेणान्यः समुच्चीयते । संनिहितत्वाद्वायुरेव। हे “वायो त्वम् इन्द्रश्च युवामुभौ “सुतानाम् अभिषुतान् सोमान् “चेतथः जानीथः । यद्वा। अभिषुतानां सोमानां विशेषमित्यध्याहारः। कीदृशौ युवाम्। “वाजिनीवसू । वाजिनीशब्दो यद्यप्युषोनामसु पठितस्तथाप्यत्रासंभवान्न गृह्यते । वाजोऽन्नम् । तद्यस्यां हविः संततावस्ति सा वाजिनी । तस्यां वसत इति तौ वाजिनीवसू । आमन्त्रितत्वादनुदात्तः। “तौ तथाविधौ युवां “द्रवत् क्षिप्रम् “उप समीपे “आ “यातम् आगच्छतम् । षड्विंशतिसंख्याकेषु क्षिप्रनामसु ‘नु क्षिप्रं मधु द्रवत्’ (नि. २. १५. ३ ) इति पठितम् । तत्र फिट्स्वरः ॥ ॥ ३ ॥

वायो इति । इन्द्रः । च । सुन्वतः । आ । यातम् । उप । निःऽकृतम् ।

मक्षु । इत्था । धिया । नरा ॥६

हे “वायो त्वम् इन्द्रश्च सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य “निष्कृतं संस्कृतं संस्कर्तारं वा सोमम् “उप आ “यातम् आगच्छतम् । “नरा हे नरौ पुरुषौ पौरुषेण सामर्थ्येनोपेतौ युवयोरागतयोश्च सतोः “धिया अमुना कर्मणा “मक्षु त्वरया संस्कारः संपत्स्यते। “इत्था सत्यम्॥ वायो इत्यस्य ‘आमन्त्रितस्य (पा. सू. ६. १. १९८) इति षाष्ठिकमाद्युदात्तत्वम् । इन्द्रशब्दः ‘ ऋजेन्द्रा ‘ ( उ. सू. २. १८६ ) इत्यादिना रन्प्रत्ययान्तत्वेन निपातितो नित्यादिर्नित्यम् ‘ ( पा. सू. ६. १. १९७ ) इत्याद्युदात्तः । चशब्दः ‘चादयोऽनुदात्ताः’ ( फि. सू. ८४ ) इत्यनुदात्तः । सुन्वत इत्यत्र ‘शतुरनुमो नद्यजादी’ (पा. सू. ६. १. १७३) इति विभक्तेरुदात्तत्वम् । ‘ निरित्येष समित्येतस्य स्थाने ‘ ( निरु. १२. ७) इति यास्कः । कृतशब्द आदिकर्मणि कर्तरि क्तः ( पा, सू. ३. ४. ७१ ) । संस्कर्तुं प्रवृत्त इत्यर्थः । “कुगतिप्रादयः’ ( पा. सू. २. २. १८) इति समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वे प्राप्ते ‘ थाथघञ्ताादजबित्रकाणाम् ‘ ( पा. सू. ६. २. १४४ ) इत्यन्तोदात्तः । ‘गतिरनन्तरः ‘ ( पा. सू. ६. २. ४९ )। इति तु निसः उदात्तत्वं न भवति । तद्धि कर्मणि क्े विहितम् (पा. सू. ६. २. ४८ )। निष्करोतीति निष्कृदिति क्विबन्तव्याख्याने तु ‘गतिकारकोपपदात्कृत्’ (पा. सू. ६. २. १३९ ) इति ऋकार उदात्तः स्यात् । धिया । सावेकाचस्तृतीयादिः° ‘( पा. सू. ६. १. १६८ ) इति विभक्तिरुदात्ता । नरा । ‘सुपां सुलुक्’ ‘ ( पा. सू. ७. १. ३९ ) इत्यादिना संबोधनद्विवचनस्य डादेशः । पदापरत्वात् ‘ आमन्त्रितस्य’ (पा. सू. ८. १. १९ ) इत्याष्टमिको निघातः ॥
‘मित्रं हुवे’ इति मैत्रावरुणस्तृचो गवामयने आरम्भणीये चतुर्विंशेऽहनि प्रातःसवने मैत्रावरुणस्य स्तोत्रियः। तत्रैव अभिप्लवषडहेऽपि विनियुक्तः। तथा चाश्वलायनेन ‘चतुर्विंशे होताऽजनिष्ट’ इत्यादिखण्डे मित्रं वयं हवामहे मित्रं हुवे पूतदक्षम्’ (आश्व. श्रौ. ७. २ ) इत्यादि सूत्रितम् । तथाह ‘ अभिप्लवपृष्ठ्याहानि’ इति खण्डे परिशिष्टानावापानुद्धत्य ‘मित्रं वयं हवामहे मित्रं हुवे पूतदक्षम्’ (आश्व. श्रौ. ७. ५) इति च ॥

मित्रम् । हुवे । पूतऽदक्षम् । वरुणम् । च । रिशादसम् ।

धियम् । घृताचीम् । साधन्ता ॥७

अहमस्मिन् कर्मणि हविष्प्रदानाय “पूतदक्षं पवित्रबलं “मित्रं हुवे। तथा “रिशादसं रिशानां हिंसकानाम् अदसम् अत्तारं वरुणं च हुवे आह्वयामि । कीदृशौ मित्रावरुणौ । घृतमुदकमञ्चति भूमिं प्रापयति या धीर्वर्षणकर्म तां घृताचीं “धियं साधन्ता साधयन्तौ कुर्वन्तौ ॥ मित्रशब्दः पुँल्लिङ्गः प्रातिपदिकस्वरेणान्तोदात्तः । हुवे इति हूयतेः ‘बहुलं छन्दसि’ ( पा. सू. २. ४. ७३ ) इति शपो लुकि सति ‘ह्वः संप्रसारणम्’ (पा. सू. ६. १. ३२) इत्यनुवृत्तौ ‘बहुलं छन्दसि’ ( पा. सू. ६.१. ३४ ) इति संप्रसारणे उवङादेशः । तिङ्ङतिङः’ (पा. सू ८. १. २८) इति निघातः। पूतशब्दः प्रत्ययस्वरेणान्तोदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वरुणशब्दः ‘कॄवृदारिभ्य उनन्’ (उ. सू.३. ३३३) इति उनन्प्रत्ययान्तो नित्त्वादाद्युदात्तः । रिशन्ति हिंसन्तीति रिशाः शत्रवः। ‘इगुपधज्ञाप्रीकिरः कः’ (पा. सू. ३. १. १३५ ) इति कः । प्रत्ययस्वरेणोदात्तः । तानत्तीति रिशादाः, तम् । ‘सर्वधातुभ्योऽसुन् ‘ ( उ. सू. ४, ६२८) इत्यसुन्प्रत्यये नित्स्वरेणोत्तरपदमाद्युदात्तम् । कृदुत्तरपदप्रकृतिस्वरेण स एवावशिष्यते। शेषनिघाते सति ‘एकादेश उदात्तेनोदात्तः’ (पा. सू.८.२.५) इति सवर्णदीर्घोऽप्युदात्त एव। ‘धीः’ इति ‘अपः’ इत्यादिषड्विंशतौ कर्मनामसु (नि. २.१.२१)पठितः। प्रातिपदिकस्वरेणान्तोदात्तः । घृतमञ्चतीति घृताची । ‘ऋविग्दधृक् ‘ (पा. सू. ३. २. ५९ ) इत्यादिना क्विनि “ अनिदिताम्’ (पा. सू. ६. ४. २४) इति नकारलोपः । ‘अञ्चतेश्चोपसंख्यानम्’ (पा. सू. ४. १. ६. २) इति ङीप् ! ‘अचः’ (पा. सू. ६. ४. १३८ ) इत्यकारलोपे ‘चौ ‘ (पा. सू. ६. ३. १३८ ) इति दीर्घत्वम् । घृतशब्दः ‘नब्विषयस्यानिसन्तस्य’ (फि. सू. २६ ) इत्याद्युदात्तं बाधित्वा ‘घृतादीनां च ‘ (फि. सू. २१ ) इत्यन्तोदात्तः। ‘समासस्य’ ( पा. सू. ६. १. २२३ ) इत्यन्तोदात्तस्यापवादकं तत्पुरुषे तुल्यार्थं° ‘ (पा. सू. ६. २. २) इतिपूर्वपदप्रकृतिस्वरं बाधित्वा ‘गतिकारकोपपदात् ‘ ( पा. सू. ६. २. १३९ ) इति उत्तरपदप्रकृतिस्वरेणोदात्तस्य धात्वकारस्य लोपे सति ‘अनुदात्तस्य च यत्रोदात्तलोपः’ ( पा. सू. ६. १. १६१ ) इति ङीप उदात्तत्वे प्राप्ते ‘चौ ‘ ( पा. सू. ६. १. २२२) इति पूर्वपदान्तोदात्तत्वम् । साधन्ता । ‘राध साध संसिद्धौ ‘ इत्यस्मादन्तर्भावितण्यर्थात् लटः शत्रादेशे ( पा. सू. ३. २. १२४) क्षुं बाधित्वा व्यत्ययेन शप् । अदुपदेशत्वादुपरि शतृप्रत्ययस्य लसार्वधातुकानुदात्तत्वम् (पा. सू. ६. १. १८६) । द्वितीयाद्विवचनस्य शपश्च ‘अनुदात्तौ सुप्पितौ ‘ ( पा. सू. ३. १, ४) इत्यनुदात्तत्वे ‘धातोः ‘ (पा. सू. ६. १. १६२) इति धातुस्वर एव शिष्यते । ‘सुपां सुलुक्’ (पा. सू. ७. १, ३९) इत्यादिना विभक्तेराकारादेशः ॥

ऋतेन । मित्रावरुणौ । ऋतऽवृधौ । ऋतऽस्पृशा ।

क्रतुम् । बृहन्तम् । आशाथे इति ॥८

हे “मित्रावरुणौ युवां “क्रतुं प्रवर्तमानमिमं सोमयागम् “आशाथे आनशाथे व्याप्तवन्तौ । केन निमित्तेन । “ऋतेन अवश्यंभावितया सत्येन फलेन । अस्मभ्यं फलं दातुमित्यर्थः । कीदृशौ युवाम् । “ऋतावृधौ । ‘ऋतमित्युदकनाम’ (निरु. २. २५), ‘सत्यं वा यज्ञं वा ‘ ( निरु. ४. १९) इति यास्कः । उदकादीनामन्यतमस्य वर्धयितारौ । अत एव “ऋतस्पृशा उदकादीन् स्पृशन्तौ । कीदृशं क्रतुम् । “बृहन्तम् अङ्गैरुपाङ्गैश्च अतिप्रौढम् ॥ ऋतशब्दो घृतादित्वादन्तोदात्तः । मित्रावरुणावित्यत्र मित्रश्च वरुणश्चेति मित्रावरुणौ । “ देवताद्वन्द्वे च ‘ ( पा. सू. ६. ३. २६ ) इति पूर्वपदस्य आनङादेशः । ऋतस्य वर्धयितारौ इत्यर्थेऽन्तर्भावितण्यर्थात् वृधेः क्विप् । ‘अन्येषामपि दृश्यते ‘ ( पा. सू. ६. ३. १३७ ) इति पूर्वपदस्य दीर्घः । ऋतस्पृशा । ‘सुपां सुलुक् ‘ ( पा. सू. ७. १. ३९ ) इति डादेशः । मित्रावरुणावित्याद्यामन्त्रितत्रयस्य स्वस्वपूर्वपदात् परत्वात् ‘ आमन्त्रितस्य ‘ ( पा. . ८. १. १९ ) इति आष्टमिको निघातः । ननु ऋतेन इत्येतस्य ‘सुबामन्त्रिते पराङ्गवत्स्वरे ‘ ( पा. सू. २. १. २) इति पराङ्गवद्भावेन आमन्त्रितानुप्रवेशात् पादादित्वेन पदादपरत्वेन वा आष्टमिकनिघाताभावात् ‘ आमन्त्रितस्य च ‘ ( पा. सू. ६. १. १९८ ) इत्याद्युदात्तेन भवितव्यमिति चेत्, न। पराङ्गवद्भावस्य सुबामन्त्रिताश्रयत्वेन पदविधित्वात् ‘समर्थः पदविधिः’ (पा. सू. २. १. १) इति नियमात् । इह च ऋतेन मित्रावरुणौ इत्यनयोः आशाथे इति आख्यातेनैवान्वयेन परस्परमसामर्थ्यात् । यत्र पुनः परस्परान्वयेन सामर्थ्यं तत्र पराङ्गवद्भावात् पादादेः आद्युदात्तत्वं भवत्येव । यथा ‘मरुतां पितस्तदहं गृणामि ‘ इति । ‘ मृग्रोरुतिः ‘ ( उ. सू. १. ९४ ) । इति उतिप्रत्ययान्तत्वेन ‘पृश्नियै वै पयसो मरुतो जाताः’ (तै. सं. २. २. ११. ४ ) । इत्यादौ अन्तोदात्तोऽपि हि मरुच्छब्दो ‘ मरुतां पितः’ इत्यत्र सामर्थ्यात् पराङ्गवद्भावादेव आद्युदात्तो जातः । प्रकृते तु ऋतेन इत्यस्यासामर्थ्यादेव न पराङ्गवद्भाव इति । ऋतावृधावित्यत्र द्वितीयामन्त्रितस्य निघाते कर्तव्ये ‘आमन्त्रितं पूर्वमविद्यमानवत् ‘ ( पा. सू. ८. १.७२ ) इति प्रथमामन्त्रितेन अविद्यमानवद्भवितव्यमिति चेत्, भवतु । अत एव तस्याव्यवधायकत्वात् ऋतेन इति प्रथमपदात् परत्वेनैव द्वितीयामन्त्रितं निहनिष्यते । यथा “ इमं मे गङ्गे यमुने’ ( ऋ. सं. १०. ७५, ६ ) इत्यादौ गङ्गेशब्दस्याविद्यमानवद्भावेऽपि तस्याव्यवधायकत्वादेव मे इत्येतदेव पदमुपजीव्य यमुनेशब्दस्य निघातः । किं च प्रकृते मित्रावरुणौ इत्यामन्त्रितं सामान्यवचनम् । तस्य विशेषणतया विशेषवचनम् ऋतावृधाविति । अतः ‘ नामन्त्रिते समानाधिकरणे सामान्यवचनम् ‘ ( पा. सू. ८. १.७३ ) इति पूर्वस्याविद्यमानवद्भावप्रतिषेधादपि निरन्तरायो द्वितीयस्य निघातः ॥ ननु एवमपि ‘अपादादौ ‘ (पा. सू. ८. १. १८) इत्यनुवृत्तेर्ऋतावृधेत्यस्य द्वितीयपादादित्वान्न भवितव्यं निघातेन । अत एव हि ‘इमं मे गङ्गे’ इत्यत्र शुतुद्रिपदस्य पदात् परस्य आमन्त्रितस्यापि पादादित्वादेव अनिघातादाद्युदात्तत्वं जातम् । तद्वदत्रापि भवितव्यं वक्तव्यो वा विशेष इति ॥ उच्यते—मित्रावरुणपदस्य ‘सुबामन्त्रिते० ‘ ( पा. सू. २. १. २) इति पराङ्गवद्भावेन परानुप्रवेशादेव ऋतावृधेत्यस्य न पादादित्वम् । शुतुद्रिपदमपि तर्ह्येवमेव पूर्वस्य सरस्वतिपदस्य पराङ्गवद्भावेन न पादादिरिति निहन्येत इति चेत्, न । पराङ्गवद्भीवस्तावत् सुबन्तमामन्त्रितं चाश्रित्य प्रवृत्तेः’ पदविधिः । अतस्तयोः सत्येव परस्परान्वये पराङ्गवद्भावेन भवितव्यं समर्थः पदविधिः’ (पा, सू. २. १. १ ) इति नियमात् । शुतुद्रिसरस्वतिपदयोश्च न परस्परेणान्वयः किंतु सचत इत्यनेन इत्यसामर्थ्यात् न पराङ्गवद्भावः । प्रकृते तु मित्रावरुणौ ऋतावृधौ इति द्वयोरपि सामानाधिकरण्येन परस्परान्वयादस्तिसामर्थ्यमिति भवितव्यं पराङ्गवद्भावेन । यथा “ मरुतां पितः’ इत्यत्रेति विशेषः ॥ ननु अत एव तर्हि मित्रावरुणपदस्य पराङ्गवद्भावेन पादादित्वात् “ अपादादौ ‘ इति पर्युदासादामन्वितनिघातो न स्यादिति चेत् , न । पूर्वं सुबन्तं परं चामन्त्रितमाश्रित्य यः स्वरः प्रवर्तते तत्र ‘सुबामन्त्रिते’ इति पराङ्गवद्भावः । भवति चैवंविध ऋतावृधपदनिघात इति । तत्र पूर्वस्य पराङ्गवद्भावेनापादादित्वात् स प्रवर्तते । मित्रावरुणपदनिघातस्तु पूर्वमेव पदमुपजीवति न परमामन्त्रितमिति न पराङ्गवद्भावः ॥ ननु पराङ्गवद्भाववन्निघातोऽपि पदविधिरिति ऋतेन इत्यनेनासामर्थ्यात् ततः पदात्परस्य मित्रावरुणपदस्य न स्यात् इति चेत्, न । समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः’ (पा. सू. २. १. १. ११) इति निघाते पदविधावपि समानवाक्यत्वमेव पर्याप्तं, न पराङ्गवद्भाववत् परस्परान्वयोऽपीत्यलम् । क्रतुम् । ‘कृञः कतुः’ (उ. सू. १. ७७ )। प्रत्ययस्वरेणादिरुदात्तः । आशाथे आनशाथे। ‘छन्दसि लुङ्लङ्लिटः ‘ ( पा. सू. ३. ४. ६) इति वर्तमाने लिट् । नुडभावश्छन्दसः ॥

कवी इति । नः । मित्रावरुणा । तुविऽजातौ । उरुऽक्षया ।

दक्षम् । दधाते इति । अपसम् ॥९

मित्रावरुणावेतौ देवौ “नः अस्माकं “दक्षं बलम् “अपसं कर्म च “दधाते पोषयतः। कीदृशौ। “कवी मेधाविनौ। “तुविजातौ बहूनामुपकारकतया समुत्पन्नौ । “उरुक्षया बहुनिवासौ । ‘विप्रः धीरः’ इत्यादिषु चतुर्विंशतिसंख्याकेषु मेधाविनामसु ‘ कविः मनीषी’ ( नि. ३. १५. १०) इति पठितम् । ‘उरु तुवि ‘ (नि. ३. १. १, २) इत्येतौ शब्दौ द्वादशसु बहुनामसु पठितौ । ‘ओजः पाजः’ इत्यादिषु अष्टाविंशति संख्याकेषु बलनामसु ‘दक्षः वीळु’ (नि. २. ९. १३) इति पठितम् । अपःशब्दः षड्विंशतिसंख्याकेषु कर्मनामसु पठितः (नि. २. १. १) ॥ मित्रावरुणा । मित्रशब्दः प्रातिपदिकस्वरेणान्तोदात्तः। वरुणशब्दो नित्स्वरेणाद्युदात्तः । द्वन्द्वे देवताद्वन्द्वे च’ ( पा. सू. ६. २. १४१ ) इत्युभौ अवशिष्येते । तुविजातौ । बहूनामुपकारकतया तत्संबन्धित्वेन जाताविति षष्ठीसमासे समासान्तोदात्तत्वम् । चतुर्थी समासे हि क्ते च’ (पा. सू. ६. २. ४५) इति पूर्वपदप्रकृतिस्वरः स्यात् । उरूणां बहूनां क्षयौ उरुक्षयौ । ‘क्षि निवासगत्यो-‘ इति धातोः क्षियन्त्यस्मिन्निति क्षयः । अधिकरणे ‘एरच् ‘ ( पा. सू. ३. ३. ५६ ) इत्यच्प्रत्ययान्तस्य ‘चितः’ ( पा. सू. ६. १, १६३) इत्यन्तोदात्तत्वे प्राप्ते ‘क्षयो निवासे’ (पा. सू. ६. १. २०१ ) इत्याद्युदात्तत्वं विहितम् । समासे तु ‘समासस्य’ (पा. सू. ६. १. २२३ ) इत्यन्तोदात्तत्वं बाधित्वा कृदुत्तरपदप्रकृतिस्वरेण प्राप्तमुत्तरपदाद्य़ुदात्तत्वं यद्यपि थाथादिस्वरेणान्तोदात्तेन बाध्यते, तथापि ‘परादिश्छन्दसि बहुलम् । (पा. सू. ६. २. १९९) इत्युत्तरपदाद्युदात्तत्वं द्रष्टव्यम् । दक्षो दक्षतेरुत्साहकर्मणो घञ् । ञित्वादाद्युदात्तः । आप्यते फलमनेन इति अपः कर्म । ‘आपः कर्माख्यायां ह्रस्वो नुट्च वा’ (उ. सू. ४. ६४७ ) इत्यसुनन्तस्य ‘अपसस्पारे’ ( ऋ. सं. ६. ६९. १) इत्यादौ नित्त्वादाद्युदात्तस्यापि अपःशब्दस्य अत्र व्यत्ययेन प्रत्ययाद्युदात्तत्वम् ॥ ॥ ४ ॥ [सायणभाष्यम्]


 

अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॓ दे॒वमृ॒त्विज॑म् । होता॑रं रत्न॒धात॑मम् [Agnim ire purohitam]-1.1.1

ऋग्वेदः – मण्डल १ – सूक्तं १.१-मधुच्छन्दा वैश्वामित्रः -दे. अग्निः- गायत्री

ॐ अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॓ दे॒वमृ॒त्विज॑म् ।
होता॑रं रत्न॒धात॑मम् ॥१॥
अग्निः पूर्वेभिरृषिभिरीड्यो नूतनैरुत ।
स देवाँ एह वक्षति ॥२॥
अग्निना रयिमश्नवत् पोषमेव दिवेदिवे ।
यशसं वीरवत्तमम् ॥३॥
अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि ।
स इद्देवेषु गच्छति ॥४॥
अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः ।
देवो देवेभिरा गमत् ॥५॥
यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि ।
तवेत् तत् सत्यमङ्गिरः ॥६॥
उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् ।
नमो भरन्त एमसि ॥७॥
राजन्तमध्वराणां गोपामृतस्य दीदिविम् ।
वर्धमानं स्वे दमे ॥८॥
स नः पितेव सूनवेऽग्ने सूपायनो भव ।
सचस्वा नः स्वस्तये ॥९॥


तत्र ‘अग्निमीळे’ इति सूक्तं प्रातरनुवाके आग्नेये क्रतौ विनियुक्तम् । स विनियोग आश्वलायनेन चतुर्थाध्यायस्य त्रयोदशे खण्डे सूत्रितः-’अवा नो अग्न इति षळग्निमीळेऽग्निं दूतम्’ इति । तत्र हीनपादग्रहणात् सूक्तनिश्चयः । सूक्तं सूक्तादौ हीने पादे’ (आश्व. श्रौ.१. १ ) इति परिभाषितत्वात्। तस्मिन्सूक्ते प्रथमाया ऋचो द्वितीयस्यां पवमानेष्टौ स्विष्टकृतो याज्यात्वेन विनियोगः । स च द्वितीयाध्यायस्य प्रथमखण्डे सूत्रितः- साह्वान्विश्वा अभियुजोऽग्निमीळे पुरोहितमिति संयाज्ये ‘ इति । तत्र कृत्स्नपदग्रहणात् ऋगित्यवगम्यते । ऋचं पादग्रहणे’ ( आश्व. श्रौ १. १ ) इति परिभाषितत्वात् । तथा ‘संयाज्ये इत्युक्ते सौविष्टकृती प्रतीयात्’ (आश्व. श्रौ. २.१) इति परिभाषितत्वात् स्विष्टकृत्संबन्धनिश्चयः। तत्रापि द्वितीयमन्त्रत्वेनोदाहृतत्वात् याज्यात्वम् । यद्यपि साह्वानित्यनया पुरोनुवाक्यचैव देवताया अनुस्मरणरूपसंस्कारः सिद्धस्तथापि याज्यानुवाक्ययोः समुच्चयो द्वादशेऽध्याये चतुर्थपादे मीमांसितः

पुरोनुवाक्यया याज्या विकल्प्या वा समुच्चिता।

विकल्प्यान्यतरेणैव देवतायाः प्रकाशनात् ॥

पुरोनुवाक्यासमाख्यानाद्वचनाच्च समुच्चयः । देवताप्रकाशनकार्यस्यैकत्वात् । युग्मयोर्यथा विकल्पस्तथैवैकयुग्मगतयोरिति चेत्, मैवम् । पुरोनुवाक्येति समाख्याया उत्तरकालीनयाज्यामन्तरेणानुपपत्तेः । किंच ‘ पुरोनुवाक्यामनूच्य याज्यया जुहोति’ इति प्रत्यक्षवचनेन देवतोपलक्षणहविष्र्पदानकार्ये भेदोक्तिपुरःसरं साहित्यं विधीयते । तस्मात् समुच्चय इति ॥

एतच्चाग्निमित्यादिसूक्तं नवर्चम् ‘अग्निं नव मधुच्छन्दा वैश्वामित्रः’ इत्यनुक्रमणिकायामुक्तत्वात् । विश्वामित्रपुत्रो मधुच्छन्दोनामकस्तस्य सूक्तस्य द्रष्टृत्वात् तदीय ऋषिः। ‘ऋष गतौ ‘ इति धातुः। सर्वधातुभ्य इन्’ ( उ. सू. ४. ५५७ ) ‘इगुपधात्कित् ‘ ( उ. स. ४. ५५९ )। वेदप्राप्त्यर्थं तपोऽनुतिष्ठतः पुरुषान् स्वयंभूर्वेदपुरुषः प्राप्नोत् । तथा च श्रूयते– अजान्ह वै पृश्नींस्तपस्यमानान्ब्रह्म स्वयंभ्वभ्यानर्षत्तदृषयोऽभवन्’ (तै. आ. २. ९ ) इति । तथातीन्द्रियस्य वेदस्य परमेश्वरानुग्रहेण प्रथमतो दर्शनात् ऋषित्वमित्यभिप्रेत्य स्मर्यते –

युगान्तेऽन्तर्हितान् वेदान् सेतिहासान् महर्षयः ।

लेभिरे तपसा पूर्वमनुज्ञातः स्वयंभुवा ॥

इति ॥ ऋष्यादिज्ञानाभावे प्रत्यवायः स्मर्यते—

अविदित्वा ऋषिं छन्दो दैवतं योगमेव च।

योऽध्यापयेज्जपेद्वापि पापीयाञ्जायते तु सः ॥

ऋषिच्छन्दोदैवतानि ब्राह्मणार्थं स्वराद्यपि ।।

अविदित्वा प्रयुञ्जानो मन्त्रकण्टक उच्यते ॥

इति ॥ वेदनविधिश्च स्मर्यते–

स्वरो वर्णोऽक्षरं मात्रा विनियोगोऽर्थ एव च ।

मन्त्रं जिज्ञासमानेन वेदितव्यं पदे पदे ॥ इति ॥

अग्निमित्यादिसूक्तस्य छन्दोऽनुक्रमणिकायां यद्यप्यत्र नोक्तं तथापि परिभाषायामेवमुक्तम् । ‘आदौ गायत्रं प्राग्घिरण्यस्तूपात् ‘ ( अनु. १२. १४ ) इति । हिरण्यस्तूपं ऋषिर्येषां मन्त्राणां वक्ष्यते ततः प्राचीनेषु मन्त्रेषु सामान्येन गायत्रं छन्द इत्यर्थः । पुरुषस्य पापसंबन्धं वारयितुमाच्छादकत्वाच्छन्द इत्युच्यते । तच्चारण्यकाण्डे समाम्नायते-’छादयन्ति ह वा एनं छन्दांसि पापकर्मणः’ ( ऐ. आ. २.५) इति । अथवा चीयमानाग्निसंतापस्याच्छादकत्वाच्छन्दः। तच्च तैत्तिरीया आमनन्ति-:प्रजापतिरग्निमचिनुत स क्षुरपविर्भूत्वाऽतिष्ठत्तं देवा बिभ्यतो नोपायन्ते छन्दोभिरात्मानं छादयित्वोपायन्तच्छन्दसां छन्दस्त्वम् (तै. सं. ५. ६. ६. १) इति । यद्वा अपमृत्युं वारयितुमाच्छादयतीति छन्दः । तदपि छान्दोग्योपनिषद्याम्नातं- देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्या प्राविशंस्ते छन्दोभिरात्मानमच्छादयन्यदेभिरच्छादयंस्तच्छन्दसां छन्दस्त्वम्’ ( छां. उ. १. ४. २ ) इति । तथा द्योतनार्थदीव्यतिधातुनिमित्तो देवशब्द इत्येतदाम्नायते– ‘दिवा वै नोऽभूदिति तद्देवानां देवत्वम्’ इति । अतो दीव्यतीति देवः । मन्त्रेण द्योतते इत्यर्थः । अस्मिन् सूक्ते स्तूयमानत्वादग्निर्देवः । तथा चानुक्रमणिकायामुक्तं- मण्डलादिष्वाग्नेयमैन्द्रात्’ (अनु. १२. १२) इति ।


तस्य सूक्तस्य प्रथमामृचं भगवान् वेदपुरुष आह–

अग्निम् । ईळे । पुरःऽहितम् । यज्ञस्य । देवम् । ऋत्विजम् ।

होतारम् । रत्नऽधातमम् ॥१

अग्निनामकं देवम् ईळे स्तौमि। ‘ईड स्तुतौ’ इति धातुः। डकारस्य ळकारो बह्वृचाध्येतृसंप्रदायप्राप्तः। तथा च पठ्यते– अज्मध्यस्थडकारस्य ळकारं बह्वृचा जगुः । अज्मध्यस्थढकारस्य ळ्हकारं वै यथाक्रमम्’ इति ॥ मन्त्रस्य होत्रा प्रयोज्यत्वादहं होता स्तौमीति लभ्यते । कीदृशमग्निम्। “यज्ञस्य “पुरोहितम्। यथा राज्ञः पुरोहितस्तदभीष्टं संपादयति, तथाग्निरपि यज्ञस्यापेक्षितं होमं संपादयति । यद्वा। यज्ञस्य संबन्धिनि पूर्वभागे आहवनीयरूपेणावस्थितम्। पुनः कीदृशम् । “देवं दानादिगुणयुक्तम् । पुनः कीदृशम्। “होतारम् “ऋत्विजम् । देवानां यज्ञेषु होतृनामक ऋत्विगग्निरेव । तथा च श्रूयते- अग्निर्वै देवानां होता’ ऐ. ब्रा. ३. १४ ) इति । पुनरपि कीदृशम् । “रत्नधातमं यागफलरूपाणां रत्नानामतिशयेन धारयितारं पोषयितारं वा । अत्राग्निशब्दस्य यास्को बहुधा निर्वचनं दर्शयति–‘अथातोऽनुक्रमिष्यामोऽग्निः पृथिवीस्थानस्तं प्रथमं व्याख्यास्यामोऽग्निः कस्मादग्रणीर्भवत्यग्रं यज्ञेषु प्रणीयतेऽङ्गं नयति संनममानोऽक्नोपनो भवतीति स्थौलाष्ठीविर्न क्नोपयति न स्नेहयति त्रिभ्य आख्यातेभ्यो जायत इति शाकपूणिरितादक्ताद्दग्धाद्वा नीतात्स खल्वेतेरकारमादत्ते गकारमनक्तेर्वा दहतेर्वा नीः परस्तस्यैषा भवत्यग्निमीळे’ ( निरु. ७, १४ ) इति । अस्यायमर्थः । सामान्येन सर्वदेवतानां लक्षणस्याभिहितत्वादनन्तरं यतः प्रतिपदं विशेषेण वक्तव्यत्वमाकाङ्क्षितम् अतोऽनुक्रमेण वक्ष्यामः । तत्र पृथिवीलोके स्थितोऽग्निः प्रथमं व्याख्यास्यते । कस्मात् प्रवृत्तिनिमित्तादग्निशब्देन देवताभिधीयत इति प्रश्नस्य ‘ अग्रणीः’ इत्यादिकमुत्तरम् । देवसेनामग्रे स्वयं नयतीत्यग्रणीः । एतदेकमग्निशब्दस्य प्रवृत्तिनिमित्तम् । तथा च ब्राह्मणान्तरम्- अग्निर्देवानां सेनानीः’ इति । एतदेवाभिप्रेत्य बह्वृचा मन्त्रब्राह्मणे आमनन्ति- अग्निर्मुखं प्रथमो देवतानाम् ‘ ( ऐ. ब्रा. १. ४ ) इति मन्त्रः । ‘अग्निर्वै देवानामवमः’ ( ऐ. ब्रा. १, १ ) इति ब्राह्मणम् । तथा तैत्तिरीयाश्चामनन्ति- अग्निरग्रे प्रथम देवतानाम् ‘ ( तै. ब्रा. २. ४. ३. ३) इति । ‘अग्निरवमो देवतानाम् ‘ इति च । वाजसनेयिनस्वेा मामनन्ति- स वा एषोऽग्रे देवतानामजायत तस्मादग्निर्नाम’ इति । यज्ञेषु अग्निहोत्रेष्टिपशुसोमरूपेषु अग्रं पूर्वदिग्वर्त्याहवनीयदेशं प्रति गार्हपत्यात् प्रणीयते इति द्वितीयं प्रवृत्तिनिमित्तम् । संनममानः सम्यक् स्वयमेव प्रह्वीभवन् अङ्गं स्वकीयं शरीरं नयति काष्ठदाहे हविष्पाके च प्रेरयतीति तृतीयं प्रवृत्तिनिमित्तम् । स्थूलाष्ठीवनामकस्य महर्षेः पुत्रो निरुक्तकारः कश्चित् “ अक्नोपनः’ इति अग्निशब्दं निर्वक्ति । तत्र न क्नोपयतीत्युक्ते न स्नेहयति, किंतु काष्ठादिकं रूक्षयतीत्युक्तं भवति । शाकपूणिनामको निरुक्तकारो धातुत्रयादग्निशब्दनिष्पतिं मन्यते । इतः ‘इण् गतौ ‘ इति धातुः । अक्तः ‘अञ्जूव्यक्तिम्रक्षणकान्तिगतिषु ‘ इति धातुः । दग्धः ‘दह भस्मीकरणे ‘ इति धातुः । नीतः ‘णीम् प्रापणे ‘ इति धातुः । अग्निशब्दो हि अकारगकारनिशब्दानपेक्षमाणः एतिधातोरुत्पन्नात् अयनशब्दात् अकारमादत्ते । अनक्तिधातुगतस्य ककारस्य गकारादेशं कृत्वा तमादत्ते । यद्वा । दहतिधातुजन्यात् दग्धशब्दात् गकारमादत्ते । नीः इति नयति धातुः । स च ह्रस्वो भूत्वा परो भवति । ततो धातुत्रयं मिलित्वा अग्निशब्दो भवति । यज्ञभूमिं गत्वा स्वकीयमङ्गं नयति काष्ठदाहे हविष्पाके च प्रेरयतीति समुदायार्थः । तस्य अग्निशब्दार्थस्य देवताविशेषस्य प्राधान्येन स्तुतिप्रदर्शनायैषा • अग्निमीळे इति ऋक् भवतीति । तामेतां ऋचं यास्क एवं व्याख्यातवान्—- अग्निमीळेऽग्निं याचामीळिरध्येषणाकर्मा पूजाकर्मा वा पुरोहितो व्याख्यातो यज्ञस्य देवो दानाद्वा दीपनाद्वा द्योतनाद्वा द्युस्थानो भवतीति वा यो देवः सा देवता होतारं ह्वातारं जुहोतेर्होतेत्यौर्णवाभो रत्नधातमं रमणीयानां धनानां दातृतमम् । (निरु. ७. १५) इति । अस्यायमर्थः–ईडतिधातोः स्तुत्यर्थत्वं प्रसिद्धम् । धातूनामनेकार्थत्वमिति न्यायमाश्रित्य याञ्चाध्येषणापूजाः अप्यत्रोचितत्वात् तदर्थतया व्याख्याताः । पुरोहितशब्दो द्वितीयेऽध्याये ‘यद्देवापिः शंतनवे पुरोहितः इत्येतां ऋचमुदाहृत्य ‘पुर एनं दधति’ (निरु. २. १२) इति व्याख्यातः । तैत्तिरीयाश्च पौरोहित्ये स्पर्धमानस्य पश्वनुष्ठानं विधाय तत्फलत्वेन ‘पुर एनं दधते’ (ते. सं. २. १. २. ९ ) इत्यामनन्ति । देवशब्दो दानदीपनद्योतनानामन्यतममर्थमाचष्टे । यज्ञस्य दाता दीपयिता द्योतयितायमग्निरित्युक्तं भवति । दीपनद्योतनयोरेकार्थत्वेऽप्यस्ति धातुभेदः । यद्यप्यग्निः पृथिवीस्थानस्तथापि देवान् प्रति हविर्वहनात द्युस्थानो भवति । देवशब्ददेवताशब्दयोः पर्यायत्वान्मन्त्रप्रतिपाद्या काचिदग्निव्यतिरिक्ता देवता नान्वेषणीया । होतृशब्दस्य ह्वयतिधातोरुत्पन्नत्वेन देवानामाह्वातारमिति । और्णवाभनामकस्तु मुनिः जुहोतिधातोरुत्पन्नो होतृशब्द इति मन्यते । अग्नेश्च होतृत्वं होमाधिकरणत्वेन द्रष्टव्यम् । रत्नशब्दो द्वितीयाध्याये ‘मघम्’ इत्यादिष्वष्टाविंशतौ धननामसु (नि.२. १०.७) पठितः । रमणीयत्वात् रत्नत्वम् । दधातिधातुरत्र दानार्थवाचीति । तदिदं निरुक्तकारस्य यास्कस्य मन्त्रव्याख्यानम् ॥ अथ व्याकरणप्रक्रियोच्यते । अगिधातोर्गत्यर्थात् ‘ अङ्गेर्नलोपश्च’ ( उ. सू. ४. ४९० ) इति औणादिकसूत्रेण निप्रत्ययः । इदित्वान्नुमागमेन प्राप्तस्य नकारस्य ( पा. सू. ७. १. ५८ ) लोपश्च भवति । अङ्गति स्वर्गे गच्छति हविर्नेतुमित्यग्निः । तत्र ‘ धातोः ‘ ( पा. सू. ६. १. १६२) इति अकार उदात्तः । ‘ आद्युदात्तश्च ‘ ( पा. सू. ३. १. ३) इति प्रत्ययगत इकारोऽप्युदात्तः । ‘अनुदात्तं पदमेकवर्जम् ‘ (पा. सू. ६. १, १५८) इति द्वयोरन्यतरमुदात्तमवशेष्येतरस्यानुदात्तत्वं प्राप्तम् । तत्र धातुस्वरे प्रथमतोऽवस्थिते सति पश्चादुपदिश्यमानः प्रत्ययस्वरोऽवशिष्यते । ‘सति शिष्टस्वरो बलीयान्’ (पा. सू. ६. १. १५८.९) इति हि न्यायः । ततोऽन्तोदात्तमग्निप्रातिपदिकम् । ‘अनुदात्तौ सुप्पितौ ‘ ( पा. सू. ३. १. ४ ) इति अम् इत्येतत् द्वितीयैकवचनमनुदात्तम् । तस्य ‘अमि पूर्वः ‘ (पा. सू. ६. १. १०७ ) इति यत् पूर्वरूपं तदुदात्तम् “ एकादेश उदात्तेनोदात्तः ‘ (पा. सू. ८. २. ५ ) इति सूत्रितत्वात् । अग्निशब्दो धातुजन्मेति मते सेयं प्रक्रिया सर्वापि द्रष्टव्या । मतद्वयं यास्केन प्रदर्शितं— ‘नामान्याख्यातजानीति शाकटायनो नैरुक्तसमयश्च न सर्वाणीति गार्ग्यो वैयाकरणानां चैके’ (निरु. १. १२ ) इति । गार्ग्यस्य मतेऽग्निशब्दस्याखण्डप्रातिपदिकत्वात् ‘ फिषोऽन्त उदात्तः ‘ ( फि. सू. १ ) इत्यन्तोदात्तत्वम् । पूर्वोक्तेष्वग्रणीरित्यादिनिर्वचनेषु प्रकृतिप्रत्ययाद्यशेषप्रक्रिया यथोचितं कल्पनीया । एतदेवाभिप्रेत्य यास्क आह–‘ अथ निर्वचनं तद्येषु पदेषु स्वरसंस्कारौ समर्थौ प्रादेशिकेन गुणेनान्वितौ स्यातां तथा तानि निर्ब्रूयादथानन्वितेऽर्थेऽप्रादेशिके विकारेऽर्थनित्यः परीक्षेत केनचिद्वृत्तिसामान्येनाविद्यमाने सामान्येऽप्यक्षरवर्णसामान्यान्निर्ब्रूयान्नत्वेव न निर्ब्रूयात् ‘ (निरु. २. १) इति । अस्यायमर्थः-तत्तत्र निर्वचनीयपदसमूहमध्ये येष्वग्न्यादिपदेषु पूर्वोक्तरीत्या स्वरसंस्कारौ समर्थौ व्याकरणसिद्धौ स्याताम् । स्वर उदात्तादिः । संस्कारो निप्रत्ययादिः । किंच तौ स्वरसंस्कारी प्रादेशिकेन गुणेनान्वितौ स्याताम् । शब्दस्यैकदेशः पूर्वोक्तोऽगिधातुः प्रदेशः । तत्र भवो गुणो गतिरूपोऽर्थः । तेनान्वितौ। तान्यग्न्यादिपदानि तथा व्याकरणानुसारेण निर्ब्रूयात् । तच्च निर्वचनमस्माभिः प्रदर्शितम् । अथ पूर्वोक्त वैलक्ष्ण्येन कश्चित् स्वेन विवक्षितोऽर्थो नान्वितः तस्मिन् शब्देऽनुगतो न भवेत् । तस्यैव व्याख्यानम् ‘अप्रादेशिके विकारे ‘ इति । अग्रनयनादिरूपः क्रियाविशेषो विकारः । स च प्रदेशेनाग्निशब्दैकदेशेनात्र नाभिधीयते इत्यप्रादेशिकः । एवं सति यः पुमानर्थनित्यः स्वविवक्षितेऽर्थे नियतो निर्बन्धवान् । ब्राह्मणनुसारेण वा देवतान्तरविशेषणत्वेन योजयितुं वा स निर्बन्धः । तदानीं स पुमान् केनचित् वृत्तिसामान्येन स्वविवक्षितमर्थं परीक्षेत, तस्मिन् शब्दे योजयेत् । वृत्तिः क्रिया । तद्रूपेण सामान्यं सादृश्यम् । अस्माभिश्च अग्रनयनादिरूपं क्रियात्वसामान्यमुपजीव्य अग्रणीत्वाद्यर्थो योजितः । तदिदं यास्काभिमतं निर्वचनम् । स्थौलाष्ठीवि: अक्षरसाम्यान्निर्वक्ति। अक्नोपनशब्दस्यादौ निषेधार्थम् अकाररूपमक्षरं विद्यते । अग्निशब्दस्याप्यादौ अकारोऽस्ति । तदिदमक्षरसाम्यम् । शाकपूणिस्तु वर्णसाम्यान्निर्ब्रूते-दग्धशब्दाग्निशब्दयोर्गकारवर्णेन साम्यम् । सर्वथापि निर्वचनं न त्याज्यमिति । ईळे इत्येतत्पदं कृत्न्-मप्यनुदात्तम् । ( पा. सू .८, १. २८) इति अतिङन्तादग्निशब्दात् परस्य ईळे इत्यस्य तिङन्तस्य निघातविधानात् । पदद्वयसंहिताकाले तु ईकारस्य धातुगतस्य ‘उदात्तादनुदात्तस्य स्वरितः’ (पा. सू. ८, ४, ६६ ) इति स्वरितत्वम् । तस्मात् ऊर्ध्वभाविन एकरस्य तिङ्प्रत्ययरूपस्य ‘स्वरितात्संहितायामनुदात्तानाम्’ (पा.सू.१. २.३९) इति ऐकश्रुत्यं प्रचयनामकं भवति । पुरःशब्दोऽन्तोदात्तः । अयं पुरो भुवः’ (तै. सं.४.३.२. १) इत्यत्र तथैवाम्नातत्वात् । पूर्वाधरावराणामसि पुरधवश्चैषाम् ‘ (पा. सू. ५, ३. ३९) इति पूर्वशब्दात् अस्प्रत्ययः पुरादेशश्च । ततोऽत्र प्रत्ययस्वरः (पा. सू. ३. १. ३ ) । धाञो निष्ठायां दधातेर्हिः’ (पा. सू. ७. ४. ४२) इत्यादेशे सति प्रत्ययस्वरेणान्तोदात्तो हितशब्दः । तत्र समासान्तोदात्तत्वे (पा. सू. ६. १. २२३ ) प्राप्ते तदपवादत्वेन ‘तत्पुरुषे तुल्यार्थ’ ( पा. सू. ६, २. २ ) इत्यादिना अव्ययपूर्वप्रदप्रकृतिस्वरत्वम् । यद्वा । ‘पुरोऽव्ययम् ‘ ( पा. सू. १. ४. ६७ ) इति गतिसंज्ञायां गतिरनन्तर: ‘ ( पा. सू. ६. २. ४९ ) इति पूर्वपदप्रकृतिस्वरत्वम् । तत ओकार उदात्तः। अवशिष्टानामनुदात्तस्वरितप्रचयाः पूर्ववत् द्रष्टव्याः । आद्याक्षरस्य संहितायां प्रचयप्राप्तौ ( पा. सू. १. २. ३९) उदात्तस्वरितपरस्य सन्नतरः’ (पा. सू. १. २. ४०) इत्यतिनीचोऽनुदात्तः । ‘यजयाच°’ (पा. सू. ३. ३. ९०) इत्यादिना यजतेः नङ्प्रत्यये सति अन्तोदात्तो यज्ञशब्दः । विभक्तेः सुप्स्वरेणानुदात्तत्वे सति (पा. सू. ३. १. ४) पश्चात् स्वरितत्वम् । देवशब्दः पचाद्यजन्तः ( पा. सू. ३. १. १३४ ) । स च फिट्स्वरेण (फि. सू. १ ) प्रत्ययस्वरेण (पा. सू. ३. १. ३) चित्स्वरेण (पा. सू. ६. १. १६३) वा अन्तोदात्तः । ऋत्विक्शब्दः ‘ऋतौ यजति’ इति विग्रहे सति ‘ऋत्विग्दधृक्’ (पा. सू. ३. २, ५९ ) इति निपातितः । ‘गतिकारकोपपदात्कृत् ‘ ( पा. सू. ६. २. १३९ ) इति कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः । विभक्तिस्वरः पूर्ववत् । होतृशब्दस्तृन्प्रत्ययान्तः (पा. सू. ३. २. १३५)। नित्स्वरेणादाद्युदात्तः ( पा. सू. ६. १. १९७ )। स्वरितप्रचयौ पूर्ववत् । रत्नशब्दो ‘ नब्विषयस्यानिसन्तस्य ‘ ( फि. सू. २६) इत्याद्युदात्तः । तथा चाम्नायते– रत्नं धाता’ इति । रत्नानि दधातीति विग्रहः । समासत्वादन्तोदात्तो रत्नधाशब्दः । यद्वा कृदुत्तरपदप्रकृतिस्वरः । तमप्प्रत्ययस्य ( पा. सू. ५. ३. ५५ ) पित्स्वरेणानुदात्ते सति (पा. सू. ३. १. ४ ) स्वरितप्रचयौ । संहितायामाद्याक्षरस्य प्रचयो द्वितीयाक्षरस्य सन्नतरत्वम्। ‘वेदावतार अद्याया ऋचोऽर्थश्च प्रपञ्चितः । विज्ञातं वेदगाम्भीर्यमथ संक्षिप्य वर्ण्यते ।।

अग्निः । पूर्वेभिः । ऋषिऽभिः । ईड्यः । नूतनैः । उत ।

सः । देवान् । आ । इह । वक्षति ॥२

अयम् “अग्निः पूर्वेभिः पुरातनैर्भृग्वङ्गिरःप्रभृतिभिः “ऋषिभिः ”ईड्यः स्तुत्यः, “नूतनै: “उत इदानींतनैरस्माभिरपि स्तुत्यः। “सः अग्निः स्तुतः सन् “इह यज्ञे “देवान् हविर्भुजः “आ “वक्षति । वह प्रापणे इति धातुः । आवहतु इत्यर्थः॥ पूर्वेभिरित्यत्र ‘बहुलं छन्दसि ‘ ( पा. सू. ७. १. १०) इति भिस ऐसादेशाभावः । पूर्व पर्व अर्व पूरणे’ इति धातुः । पूर्वतिधातोः अन्प्रत्यय औणादिकः । इन्प्रत्ययान्त ऋषिशब्दः ‘ ऋष्यन्धक°’ ( पा. सू. ४. १. ११४) इति निपातनात् लघूपधगुणाभावः ( पा. सू. ७० ३. ८६ )। कित्प्रत्ययो वात्र ज्ञेयः (उ. सू. ४. ५५९) । तौ शब्दौ नित्स्वरेणाद्युदात्तौ । ईड्यशब्दस्य ण्यत्प्रत्ययान्तत्वात् ( पा. सू. ३. १. १२४ ) तित्स्वरितम्’ (पा. सू. ६. १. १८५) इति स्वरिते शेषानुदात्तत्वे च प्राप्ते तदपवादत्वेन ‘ईडवन्द° ‘ (पा. सू. ६. १. २१४ ) इत्यादिनाद्युदात्तत्वम् । ‘नवस्य नू त्नप्तनखाश्च ‘ ( पा. सू ५. ४. ३०. ६) इति वार्तिकेन नवशब्दस्य नू इत्यादेशः तनन्प्रत्ययश्च महावार्तिके विहितः । ततो नित्स्वरेणाद्युदात्तः । अवशिष्टस्वरा अग्न्यादिषु नूतनान्तेषु पूर्ववदुन्नेयाः । उतशब्दो यद्यपि विकल्पार्थे प्रसिद्धस्तथापि निपातत्वेनानेकार्थत्वादौचित्येनात्र समुच्चयार्थों द्रष्टव्यः ।’ उच्चावचेष्वर्थेषु निपतन्ति’ इति निपातत्वम् । तर्हि ‘ निपाता आद्युदात्ताः ‘ ( फि. सू. ८०) इत्युकारस्योदात्तः प्राप्त इति चेत्, न । प्रातःशब्दवदन्तोदात्तत्वात् । यथा प्रातःशब्दोऽन्तोदात्तत्वेनैव स्वरादिषु ( पा. सू. १. १. ३७ ) पठितः, एवमुतशब्दस्यापि पाठो द्रष्टव्यः, स्वरादेराकृतिगणत्वात् । यद्वा ‘एवादीनामन्तः ‘ (फि. सू. ८२ ) इत्यन्तोदात्तः । स इत्यत्र फिट्स्वरः । देवशब्दः पूर्ववत् । देवान् इत्यस्य नकारस्य संहितायां दीर्घादटि’ ( पा. सू. ८. ३.९ ) इति रुत्वम् । अत्रानुनासिकः ‘ (पा. सू. ८. ३. २) इत्यनुवृत्तौ ‘आतोऽटि नित्यम्’ ( पा. सू. ८. ३. ३) इत्याकारः सानुनासिकः। ‘भोभगो’ ( पा. सू. ८. ३. १७ ) इति रोर्यकारः । स च ‘लोपः शाकल्यस्य ‘ ( पा. सू. ८. ३. १९ ) इति लुप्यते । तस्यासिद्धत्वात् ( पा. स. ८. २. १ ) न पुनः संधिकार्यम् । आङो निपातत्वादाद्युदात्तत्वम् । इदमो हप्रत्यये सति निष्पन्नत्वात् ( पा, सू. ५. ३. ११ ) इहशब्दे प्रत्ययस्वरः । वहति धातोर्लोडर्थे छान्दसो लृट् । तस्य स्यप्रत्ययगतस्य यकारस्य लोपोऽपि छान्दसः । यद्वा । लेटि ‘सिब्बहुलम् ‘ ( पा. सू. ३. १. ३४ ) इति सिप्प्रत्ययः । ‘लेटोऽडाटौ ‘ ( पा. सू. ३. ४.९४ ) इयडागमश्च । ततो वक्षतीति संपद्यते । तस्यै तिङन्तत्वान्निघातः । संहितास्वराः पूर्ववत् ॥

आधाने तृतीयेष्टौ प्रथमाज्यभागस्यानुवाक्या (आश्व. श्रौ. २. १ ) । सूक्तगत तृतीया ।

अग्निना । रयिम् । अश्नवत् । पोषम् । एव । दिवेऽदिवे ।

यशसम् । वीरवत्ऽतमम् ॥३

योऽयं होत्रा स्तुत्योऽग्निस्तेन “अग्निना निमित्तभूतेन यजमानः “रयिं धनम् “अश्नवत् प्राप्नोति । कीदृशं रयिम्।“दिवेदिवे “पोषम् “एवं प्रतिदिनं पुष्यमाणतया वर्धमानमेव, न तु कदाचिदपि क्षीयमाणम् । “यशसं दानादिना यशोयुक्तं “वीरवत्तमम् अतिशयेन पुत्रभृत्यादिवीरपुरुषोपेतम् । सति हि धने पुरुषाः संपद्यन्ते । रयिशब्दो ‘मघम्’ इत्यादिधननामसु (नि. २.१०.८) पठितः । तत्र फिट्स्वरः। अश्नोतेर्धातोर्लेटि व्यत्ययेन तिप् । ‘ इतश्च लोपः’ (पा. सू. ३. ४. ९७ ) इति इकारलोपः। ‘लेटोऽडाटौ’ (पा. सू. ३. ४. ९४ ) इत्यडागमः । ततः ‘अश्नवत्’ इति भवति । तस्य निघातः। घञन्तत्वात् ( पा. सू. ६. १. १९७ ) पोषशब्द आद्युदात्तः । एवशब्दस्य निपातत्वेऽपि ‘एवादीनामन्तः ‘ (फि. सू. ८२ ) इत्यन्तोदात्तत्वम् । वकारान्तात् दिव्शब्दात् परस्याः सप्तम्याः ‘सुपां सुलुक्° ‘ ( पा. सू. ७. १. ३९ ) इत्यादिना शेभावे सति सावेकाचः’ ( पा. सू. ६. १. १६८ ) इत्यादिना ‘ऊडिदंपदात् ‘ ( पा, सू. ६. १. १७१ ) इत्यादिना वा तस्योदात्तत्वम्। नित्यवीप्सयोः’ ( पा. सू. ८. १. ४) इति द्विर्भावे सति उत्तरभागस्य ‘ अनुदात्तं च ‘ ( पा. सू. ८, १. ३ ) इत्यनुदात्तत्वम् । यशोऽस्यास्तीति विग्रहे सति ‘ अर्शआदिभ्योऽच् ‘ ( पा. सू. ५. २. १२७) इति अच्प्रत्ययः । चित्स्वरं व्यत्ययेन बाधित्वा मध्योदात्तत्वम् । फिट्स्वरेणान्तोदात्तात् वीरशब्दात् उत्तरयोर्मतुप्तमपोः पित्त्वादनुदात्तत्वम् । ह्रस्वनुड्भ्याम् ‘ ( पा. सू. ६. १. १७६ ) इति तु न साववर्णान्तत्वात् । ‘न गोश्वन्° ‘ ( पा. सू. ६. १. १८२ ) इति प्रतिषेधः ।।

अभिप्लवषडहस्य मध्यवर्तिषूक्थेषु तृतीयसवने मैत्रावरुणस्य ‘अग्ने यं यज्ञम्’ इत्यादिको वैकल्पिकोऽनुरूपस्तृचः । एतच्च सप्तमाध्याये ‘ एह्यूषु’ इत्यादिखण्डे सूत्रितम्– अग्निं वो वृधन्तमग्ने यं यज्ञमध्वरम् ‘ ( आश्व. श्रौ. ७. ८) इति ॥

अग्ने । यम् । यज्ञम् । अध्वरम् । विश्वतः । परिऽभूः । असि ।

सः । इत् । देवेषु । गच्छति ॥४

हे “अग्ने त्वं “यं “यज्ञं “विश्वतः सर्वासुदिक्षु “परिभूः परितः प्राप्तवान् “असि “सः “इत् स एव यज्ञो “देवेषु तृप्तिं प्रणेतुं स्वर्गे “गच्छति । प्राच्यादिचतुर्दिगन्तेषु आहवनीयमार्जालीयगार्हपत्याग्नीध्रीयस्थानेषु अग्निरस्ति । परिशब्देन होत्रीयादिधिष्ण्यव्याप्तिर्विवक्षिता । कीदृशं यज्ञम् । “अध्वरं हिंसारहितम् । न ह्यग्निना सर्वतः पालितं यज्ञं राक्षसादयो हिंसितुं प्रभवन्ति ॥ अग्निशब्दस्य पाष्ठिकम् ( पा. सू. ६, १. १९८) आमन्त्रिताद्युदात्तत्वम् । न विद्यते ध्वरोऽस्येति बहुव्रीहौ ‘नञ्सुभ्याम् ‘ ( पा. सू. ६. २. १७२ ) इत्यन्तोदात्ततम् । विश्वतः इत्यत्र तसिलः प्रत्ययस्वरत्वं बाधित्वा पूर्ववर्णस्य ‘लिति’ ( पा. सू. ६. १. १९३ ) इत्युदात्तत्वम् । परिभूरित्यत्र अव्ययपूर्वपदप्रकृतिस्वरत्वे प्राप्ते ( पा. सू. ६. २. २) तदपवादत्वेन कृदुत्तरपदप्रकृतिस्वरत्वम् ( पा. सू. ६. २. १३९) । असि इति तिङन्तस्य ‘ यद्वृतान्नित्यम्’ ( पा. सू. ८. १. ६६ ) इति निघाताभावः ॥

अग्निः । होता । कविऽक्रतुः । सत्यः । चित्रश्रवःऽतमः ।

देवः । देवेभिः । आ । गमत् ॥५

अयम् “अग्निः “देवः अन्यैर्देवैर्हविर्भोजिभिः सह “आ “गमत् अस्मिन् यज्ञे समागच्छतु । कीदृशोऽग्निः। “होता होमनिष्पादकः “कविक्रतुः। कविशब्दोऽत्र क्रान्तवचनो न तु मेधाविनाम । क्रतुः प्रज्ञानस्य कर्मणो वा नाम । ततः क्रान्तप्रज्ञः क्रान्तकर्मा वा । “सत्यः अनृतरहितः फलमवश्यं प्रयच्छतीत्यर्थः । “चित्रश्रवस्तमः । श्रूयते इति श्रवः कीर्तिः । अतिशयेन विविधकीर्तियुक्तः॥ कविक्रतुः चित्रश्रवस्तमः इत्यत्रोभयत्र बहुव्रीहित्वात् पूर्वपदप्रकृतिस्वरत्वम् ( पा. सू. ६. २. १ )। सत्सु साधुः सत्यः ‘सत्यादशपथे’ (पा, सू. ५, ४. ६६ ) इत्यत्रान्तोदात्तो हरदत्तेन निपातितः । लोडन्तस्य गच्छतु इति शब्दस्य छत्वाभावः। उकारलोपश्छान्दसः। ततो रूपं गमत् इति भवति । स्पष्टमन्यत् ॥ ॥ १ ॥

यत् । अङ्ग । दाशुषे । त्वम् । अग्ने । भद्रम् । करिष्यसि ।

तव । इत् । तत् । सत्यम् । अङ्गिरः ॥६

अङ्ग इत्यभिमुखीकरणार्थो निपातः । “अङ्ग “अग्ने हे अग्ने त्वं “दाशुषे हविर्दत्तवते यजमानाय तत्प्रीत्यर्थं “यत् भद्रं वित्तगृहप्रजापशुरूपं कल्याणं “करिष्यसि “तत् भद्रं “तव “इत् तवैव । सुखहेतुरिति शेषः। हे “अङ्गिरः अग्ने एतच्च “सत्यं न त्वत्र विसंवादोऽस्ति । यजमानस्य विज्ञादिसंपत्तौ सत्यामुत्तरक्रत्वनुष्ठानेनाग्नेरेव सुखं भवति । भद्रशब्दार्थं शाट्यायनिनः समामन्ति—- यद्वै पुरुषस्य वित्तं तद्भद्रं गृहा भद्रं प्रजा भद्रं पशवो भद्रम्’ इति।। अङ्गशब्दस्य निपातत्वेऽपि अभ्यादित्वात् (फि. सू. ८१) अन्तोदात्तत्वम्। ‘दाश्वान्साह्वान् ‘ (पा. सू. ६. १. १२) इति सूत्रेण ‘दाश दाने ‘ इति धातोः क्वसुप्रत्ययो निपातितः । तत्र प्रत्ययस्वरः ( पा. सू. ३. १. ३)। आमन्त्रितस्य अग्निशब्दस्य पदात्परत्वेन आष्टमिकानुदात्तत्वं (पा. सू. ८. १. १९ ) न शङ्कनीयम्, अपादादौ’ ( पा. सू. ८. १. १८) इति पर्युदस्तत्वात् । ततः पाष्टिकम् ( पा. सू. ६. १. १९८ ) आद्युदात्तत्वमेव । भद्रशब्दस्य नब्विषयत्वेन फि. सू. २६) आद्युदात्तत्वप्रसक्तावपि भदि कल्याणे’ इति धातोरुपरि रक्प्रत्ययेन निपातनादन्तोदात्तत्वम् । अस्मिन् वाक्ये यच्छब्दप्रयोगात् निपातैर्यद्यदिहन्त ‘ (पा. सू. ८. १. ३० ) इति निघाते प्रतिषिद्धे स्यप्रत्ययस्वरेण सति शिष्टेन करिष्यसिशब्द उपान्त्योदात्तः । तवेत्यत्र ‘युष्मदस्मदोर्ङसि ( पा. सू. ६. १. २ १ १ ) इत्याद्युदात्तत्वम् । “ अङ्गिरा अङ्गाराः ‘ ( निरु० ३. १७ ) इति यास्कः । ऐतरेयिणोऽपि प्रजापतिदुहितृध्यानोपाख्याने समामनन्ति- येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन् ‘ ( ऐ. ब्रा. ३. ३४ ) इति । तस्मात् अङ्गिरोनामकमुनिकारणत्वात् अङ्गाररूपस्याग्नेरङ्गिरस्त्वम् । अत्र पदात्परत्वेनाष्टमिकानुदात्तत्वम् ।

अग्नीषोमप्रणयने : उप त्वाग्ने ‘ इत्यादिकोऽनुवचनीयस्तृचः । एतच्च ब्राह्मणे समाम्नातम्- उप त्वाग्ने दिवेदिव उप प्रियं पनिप्नतमिति तिस्रश्चैकां चान्वाह ‘ ( ऐ. ब्रा. १. ३० ) इति ।

उप । त्वा । अग्ने । दिवेऽदिवे । दोषाऽवस्तः । धिया । वयम् ।

नमः । भरन्तः । आ । इमसि ॥७

हे “अग्ने वयम् अनुष्ठातारः “दिवेदिवे प्रतिदिनं दोषावस्तः रात्रावहनि च “धिया बुद्ध्या “नमः “भरन्तः नमस्कारं संपादयन्तः “उप समीपे “त्वा “एमसि त्वामागच्छामः । उपशब्दस्य निपातस्वरः (फि. सू. ८०)। त्वामौ द्वितीयायाः’ ( पा. सू. ८. १. २३) इति युष्मच्छब्दस्यानुदात्तस्त्वादेशः । दोषाशब्दो रात्रिवाची । वस्तर् इति अहर्वाची । द्वन्द्वसमासे कार्तकौजपादित्वात् ( पा. सू. ६. २. ३७ ) आद्युदात्तः । ‘सावेकाचः० ‘ ( पा. सू. ६. १. १६८ ) इति धियो विभक्तिरुदात्ता । नम इति निपातः । भरन्त इत्यत्र शपः (पा. सू. ३. १. ६८ ) पित्वा वत् शतुर्लसार्वधातुकत्वाच्च अनुदात्तत्वे सति ( पा. सु. ६. १. १८६ ) धातुस्वरः शिष्यते । इमसि इत्यत्र ‘इदन्तो मसिः’ (पा. सू. ७. १. ४६ ) इत्यादेशो निघातश्च ।

राजन्तम् । अध्वराणाम् । गोपाम् । ऋतस्य । दीदिविम् ।

वर्धमानम् । स्वे । दमे ॥८

पूर्वमन्त्रे त्वामुपैम इत्यग्निमुद्दिश्योक्तम् । कीदृशं त्वाम् । राजन्तं दीप्यमानम् “अध्वराणां राक्षसकृतहिंसारहितानां यज्ञानां “गोपां रक्षकम् “ऋतस्य सत्यस्यावश्यंभाविनः कर्मफलस्य “दीदिविं पौनःपुन्येन भृशं वा द्योतकम् । आहुत्याधारमग्निं दृष्ट्वा शास्त्रप्रसिद्धं कर्मफलं स्मर्यते । “स्वे “दमे स्वकीयगृहे यज्ञशालायां हविर्भिः “वर्धमानम् ॥ राजन्तं वर्धमानमित्यत्रोभयत्र पूर्ववत् धातुस्वरः शिष्यते। दीदिविशब्दस्य ‘अभ्यस्तानामादिः’ (पा. सू. ६. १. १८९) इत्याद्युदात्तत्वम् । दमशब्दो वृषादित्वात् ( पा. सू. ६. १. २०३ ) आद्युदात्तः ॥

सः । नः । पिताऽइव । सूनवे । अग्ने । सुऽउपायनः । भव ।

सचस्व । नः । स्वस्तये ॥९

हे “अग्ने “सः त्वं “नः अस्मदर्थं सूपायनः शोभनप्राप्तियुक्तः “भव । तथा नः अस्माकं “स्वस्तये विनाशराहित्यार्थं “सचस्व समवेतो भव । तन्नोभयत्र दृष्टान्तः । यथा “सूनवे पुत्रार्थं पिता सुप्रापः प्रायेण समवेत्तो भवति तद्वत् ॥ अस्मच्छब्दादेशस्य न इत्येतस्य अनुदात्तं सर्वम् ‘ ( पा. सू. ८. १. १८ ) इत्यनुदात्तत्वम् । ‘चादयोऽनुदात्ताः’ (फि. सू. ८४ ) इति इवशब्देऽनुदात्तः । ‘इवेन नित्यसमासः पूर्वपदकृतिस्वरत्वं च वक्तव्यम्’ (पा. सू. २. १. ४. २ ) इति समस्तः पितेवेति शब्दो मध्योदात्तः। शोभनमुपायनं यस्येति बहुव्रीहौ ‘नञ्सुभ्याम् ‘ ( पा. सू. ६. २. १७२) इत्यन्तोदात्तत्वम् । सचस्वेत्यत्र पदात्परत्वं नास्तीति न निघातः। लसार्वधातुकानुदात्तत्वे सति धातुस्वरावशेषः ॥ ॥ २ ॥ [सायणभाष्यम्]


 

तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि – धियो यो नः प्रचोदयात् [The Gayatri Mantram]

Vedas first appears before Brahma

ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यम भर्गो देवस्य धीमहि। धियो यो नः प्रचोदयात॥

तत् । सवितुः । वरेण्यम् । भर्गः । देवस्य । धीमहि । धियः । यः । नः । प्रऽचोदयात् ॥

यः सविता देवः “नः अस्माकं “धियः कर्माणि धर्मादिविषया वा बुद्धीः “प्रचोदयात् प्रेरयेत् “तत् तस्य “देवस्य “सवितुः सर्वान्तर्यामितया प्रेरकस्य जगत्स्रष्टुः परमेश्वरस्य “वरेण्यं सर्वैः उपास्यतया ज्ञेयतया च संभजनीयं “भर्गः अविद्यातत्कार्ययोर्भर्जनाद्भर्गः स्वयंज्योतिः परब्रह्मात्मकं तेजः “धीमहि वयं ध्यायामः ।

यद्वा । तत् इति भर्गोविशेषणम् । सवितुः “देवस्य तत्तादृशं भर्गो धीमहि। किं तदित्यपेक्षायामाह । यः इति लिङ्गव्यत्ययः। यद्भर्गो धियः प्रचोदयात् । तत् ध्यायेमेति समन्वयः। यद्वा । यः सविता सूर्यो धियः कर्माणि प्रचोदयात् प्रेरयति तस्य सवितुः सर्वस्य प्रसवितुः देवस्य द्योतमानस्य सूर्यस्य तत्सर्वैः दृश्यमानतया प्रसिद्धं वरेण्यं सर्वैः संभजनीयं भर्गः पापानां तापकं तेजोमण्डलं धीमहि ध्येयतया मनसा धारयेम । यद्वा । भर्गःशब्देनान्नमभिधीयते । यः सविता देवो धियः प्रचोदयति तस्य प्रसादाद्भर्गोऽन्नादिलक्षणं फलं धीमहि धारयामः । तस्याधारभूता भवेमेत्यर्थः । भर्गःशब्दस्यान्नपरत्वे धीशब्दस्य कर्मपरत्वे चाथर्वणं – ‘ वेदांश्छन्दांसि सवितुर्वरेण्यं भर्गो देवस्य कवयोऽन्नमाहुः । कर्माणि धियस्तदु ते प्रब्रवीमि प्रचोदयत्सविता याभिरेति’ (गो. ब्रा. १. ३२) इति ॥ भर्गः । ‘ भ्रस्ज पाके’। असुन् । ‘ भ्रस्जो रोपधयो रमन्यतरस्याम् ‘ ( पा. सू. ६. ४. ४७ ) इति रोपधयोर्लोपो रमागमः । न्यङ्वांरसदिपाठात् कुत्वम् । धीमहि । ध्यायतेर्लिङि • बहुलं छन्दसि ‘ इति ‘संप्रसारणम् । व्यत्ययेनात्मनेपदम् । यद्वा । ‘धीङ् आधारे । लिङि ‘ बहुलं छन्दसि ‘ इति विकरणस्य लुक् । प्रचोदयात् । चोदयतेर्लेट्याडागमः । यद्वृत्तयोगादनिघातः । आगमस्यानुदात्तत्वे णिचः स्वरः ॥ ॥ १० ॥ [सायणभाष्यम्]

  1. Om
  2. Bhu
  3. Bhubah
  4. Svha
  5. Tat 
  6. Savitur
  7. Varenyam 
  8. Vargo 
  9. Devasya 
  10. Dheemahe
  11. Dheyo
  12. Yo
  13. Nah
  14. Prachodayat 

Om ⇒7.83 HERTZ


Source :

  1.  ॠग्वेद-संहिता =3/62/10
  2.  यजुर्वेद-संहिता =3/35 , 22/9 , 30/2 [Shukla yajurveda madhyandina-samhita]
  3.  सामवेद = 1462

Collected around  +/-7000 BCE.


‘इमा उ वाम्’ इत्यष्टादशर्चं नवमं सूक्तम् । अत्रेयमनुक्रणिका-‘इमा उ द्व्यूनैन्द्रावरुणबार्हस्पत्यपौष्णसावित्रसौम्यमैत्रावरुणास्तृचा अन्त्यो जमदग्न्यार्षो वा चतुर्थ्याद्या गायत्र्यः’ इति । कृत्स्नस्य विश्वामित्र ऋषिरन्त्यस्य तृचस्य जमदग्निर्वा । आद्यास्तिस्रस्त्रिष्टुभः शिष्टाः पञ्चदश गायत्र्यः । प्रथमस्येन्द्रावरुणौ देवता द्वितीयस्य बृहस्पतिस्तृतीयस्य पूषा चतुर्थस्य सविता पञ्चमस्य सोमः षष्ठस्य मित्रावरुणौ । आभिप्लविकेषूक्थ्येषु तृतीयसवने स्तोमवृद्धौ सत्यां स्वस्वशस्त्रे होत्रका अन्त्यसूक्तमवशेष्य स्तोमाभिशंसनार्थं तृचादिसंख्या ऋच आवपेयुः । तत्र मैत्रावरुणस्यावापार्थमाद्यस्तृचः । सूत्रितं च — ‘ इमा उ वां भृमयो मन्यमाना इति तिस्रः’ (आश्व. श्रौ. ७.९ ) इति ॥

इमा उ वां भृमयो मन्यमाना युवावते न तुज्या अभूवन् ।
क्व त्यदिन्द्रावरुणा यशो वां येन स्मा सिनं भरथः सखिभ्यः ॥१॥
अयमु वां पुरुतमो रयीयञ्छश्वत्तममवसे जोहवीति ।
सजोषाविन्द्रावरुणा मरुद्भिर्दिवा पृथिव्या शृणुतं हवं मे ॥२॥
अस्मे तदिन्द्रावरुणा वसु ष्यादस्मे रयिर्मरुतः सर्ववीरः ।
अस्मान्वरूत्रीः शरणैरवन्त्वस्मान्होत्रा भारती दक्षिणाभिः ॥३॥
बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य ।
रास्व रत्नानि दाशुषे ॥४॥
शुचिमर्कैर्बृहस्पतिमध्वरेषु नमस्यत ।
अनाम्योज आ चके ॥५॥
वृषभं चर्षणीनां विश्वरूपमदाभ्यम् ।
बृहस्पतिं वरेण्यम् ॥६॥
इयं ते पूषन्नाघृणे सुष्टुतिर्देव नव्यसी ।
अस्माभिस्तुभ्यं शस्यते ॥७॥
तां जुषस्व गिरं मम वाजयन्तीमवा धियम् ।
वधूयुरिव योषणाम् ॥८॥
यो विश्वाभि विपश्यति भुवना सं च पश्यति । स नः पूषाविता भुवत् ॥९॥
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥१०॥
देवस्य सवितुर्वयं वाजयन्तः पुरंध्या । भगस्य रातिमीमहे ॥११॥
देवं नरः सवितारं विप्रा यज्ञैः सुवृक्तिभिः । नमस्यन्ति धियेषिताः ॥१२॥
सोमो जिगाति गातुविद्देवानामेति निष्कृतम् ।
ऋतस्य योनिमासदम् ॥१३॥
सोमो अस्मभ्यं द्विपदे चतुष्पदे च पशवे ।
अनमीवा इषस्करत् ॥१४॥
अस्माकमायुर्वर्धयन्नभिमातीः सहमानः ।
सोमः सधस्थमासदत् ॥१५॥
आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् ।
मध्वा रजांसि सुक्रतू ॥१६॥
उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः ।
द्राघिष्ठाभिः शुचिव्रता ॥१७॥
गृणाना जमदग्निना योनावृतस्य सीदतम् ।
पातं सोममृतावृधा ॥१८॥ Rig 3/62/10