गौराङ्गाष्टकम् – सार्वभौम भट्टाचार्य (Gouranga Astakam by Sarbabhouma Bhattacharyya)

गौराङ्गाष्टकम् मलयसुवासितभूषितगात्रंमूर्तिमनोहरविश्वपवित्रम् ।पदनखराजितलज्जितचन्द्रेशुद्धकनक रय गौर नमस्ते ॥ १॥ स्वगात्रपुलकलोचनपूर्णंजीवदयामयतापविदीर्णम् ।साङ्ख्यजलपतिनामसहस्रेशुद्धकनक रय गौर नमस्ते ॥ २॥ हुङ्कृततर्जनगर्जनरङ्गेलोचनकलियुगपाप स शङ्के ।पदरजताडितदुष्टसमस्तेशुद्धकनक जय गौर नमस्ते ॥ ३॥ सिंहगमन जिति ताण्डवलीलदीनदयामयतारणशील ।अजभवश्रीहरिपदनखचन्द्रेशुद्धकनक जय गौर नमस्ते ॥ ४॥ गौराङ्गवृतमालतिमालेमेरुविलम्बितगङ्गाधारे ।मन्दमधुरहासभासमुखचन्द्रेशुद्धकनक जय गौर नमस्ते ॥ ५॥…

देवी कालोत्तरागमः-Devi Kalottara Agama

चित्ते चलति संसारो निश्चलो मोक्ष एव तु । तस्माच्चित्तं स्थिरं कुर्यात्प्रज्ञया परया बुधः-The world moves in the mind, but liberation is motionless. Therefore the wise should make the mind steady by supreme wisdom.Mundus in mente movet, liberatio autem immobilis est. Ergo sapiens mentem summa sapientia stabilit.

मातृका भेद तन्त्रम् – Matrika Bheda Tantram

भवबन्धनपारस्य तारिणी जननी परा । ज्ञानदा मोक्षदा नित्या तस्यै नित्यं नमो नमः-Mater est suprema, quae salvat nos a servitute exsistentiae materialis. Oblationes meas ei aeternas offero, aeternae cognitionis et liberationis datorem-She is the supreme mother who saves us from the bondage of material existence. I offer my eternal obeisances to her, the eternal giver of knowledge and liberation.

Siddhant Rahasyam – सिद्धांत रहस्यं – श्रीवल्लभाचार्य

सिद्धांत रहस्यं श्रावण स्यामले पक्षे एकादश्यां महानिशि। साक्षात् भगवता प्रोक्तं तदक्षरश उच्यते॥१॥  ब्रह्म सम्बंध करणात्सर्वेषां देहजीवयोः।सर्वदोषनिवृत्तिर्हि दोषाःपञ्चविधाः स्मृताः॥२॥  सहजा देशकालोत्थालोकवेदनिरूपिताः।संयोगजाः स्पर्श जाश्चन मन्तव्याः कथन्चन॥३॥  अन्यथा सर्वदोषाणांन निवृत्तिः कथन्चन।असमर्पितवस्तुनांतस्माद्वर्जनमाचरेत्॥४॥ सर्वं कुर्यादिति स्थितिः।न मतं देवदेवस्यसामिभुक्तं समर्पणं॥५॥  तस्मादादौ सर्वकार्येसर्ववस्तु समर्पणम्।दत्तापहारवचनंतथा च सकलं हरेः॥६॥ …

चतुः श्लोकी भागवत -Chatuh Shloki Bhagwat

श्रीभगवानुवाच - अहमेवासमेवाग्रे नान्यद् यत् सदसत् परम्।पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥ १ ॥ ऋतेऽर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि।तद्विद्यादात्मनो मायां यथाऽऽभासो यथा तमः ॥ २ ॥ यथा महान्ति भूतानिभूतेषूच्चावचेष्वनु।प्रविष्टान्यप्रविष्टानितथा तेषु न तेष्वहम् ॥ ३ ॥ एतावदेव जिज्ञास्यंतत्त्व जिज्ञासुनाऽऽत्मनः।अन्वयव्यतिरेकाभ्यां यत्स्यात् सर्वत्र सर्वदा ॥ ४ ॥

 श्यामलादण्डकं कालिदास – Shyamala Dandakam by Kalidasa

माणिक्यवीणामुपलालयन्तीं मदालसां मञ्जुलवाग्विलासाम् । माहेन्द्रनीलद्युतिकोमलाङ्गीं मातङ्गकन्यां मनसा स्मरामि ॥ १॥ चतुर्भुजे चन्द्रकलावतंसे कुचोन्नते कुङ्कुमरागशोणे । पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाण- हस्ते नमस्ते जगदेकमातः ॥ २॥ ॥ विनियोगः ॥ माता मरकतश्यामा मातङ्गी मदशालिनी । कुर्यात् कटाक्षं कल्याणी कदंबवनवासिनी

श्री वैकुण्ठगद्यम् – श्रीभगवद्रामानुज Sri Vaikunta Gadyam by Ramnuja

कदाऽहं भगवत्पादाम्बुजद्वयं शिरसा सङ्ग्रहीष्यामि । कदाऽहं भगवत्पादाम्बुजद्वय परिचर्याऽऽशया निरस्तसमस्तेतर भोगाशः, अपगत समस्त सांसारिकस्वभावः तत्पादाम्बुजद्वयं प्रवेक्ष्यामि । कदाऽहं भगवत्पादाम्बुजद्वय परिचर्याकरणयोग्य-स्तदेकभोगस्तत्पादौ परिचरिष्यामि । कदा मां भगवान् स्वकीयया अतिशीतलया दृशा अवलोक्य, स्निग्धगम्भीरमधुरया गिरा परिचर्यायां आज्ञापयिष्यति, इति भगवत्परिचर्यायामाशां वर्धयित्वा तयैवाऽशया तत्प्रसादोपबृंहितया भगवन्तमुपेत्य, दूरादेव भगवन्तं शेषभोगे श्रिया सहासीनं वैनतेयादिभिः सेव्यमानं, समस्तपरिवाराय श्रीमते नारायणाय नमः, इति प्रणम्य उत्थायोत्थाय पुनः पुनः प्रणम्य अत्यन्त साध्वसविनयावनतो भूत्वा, भगवत्पारिषदगणनायकैर्द्वारपालैः कृपया स्नेहगर्भया दृशाऽवलोकितः सम्यगभिवन्दितैस्तैस्तैरेवानुमतो भगवन्तमुपेत्य, श्रीमता मूलमन्त्रेण मामैकान्तिकात्यन्तिक परिचर्याकरणाय परिगृह्णीष्व इति याचमानः प्रणम्यात्मानं भगवते निवेदयेत् ।

आपस्तम्ब-धर्मसूत्रम्-Apastamba Dharma Sutram

नियमेषु तपःशब्दः १ तदतिक्रमे विद्याकर्म निःस्रवति ब्रह्म सहापत्यादेतस्मात् २ कर्तपत्यमनायुष्यं च ३ तस्मादृषयोऽवरेषु न जायन्ते नियमातिक्रमात् ४ श्रुतर्षयस्तु भवन्ति केचित्कर्मफलशेषेण पुनःसंभवे ५ यथा श्वेतकेतुः ६ यत्किं च समाहितो ऽब्रह्माप्याचार्यादुपयुङ्क्ते ब्रह्मवदेव तस्मिन्फलं भवति ७ अथो यत्किञ्च मनसा वाचा चक्षुषा वा सङ्कल्पन्ध्यायत्याहाभिविपश्यति वा तथैव तद्भवतीत्युपदिशन्ति ८ गुरुप्रसादनीयानि कर्माणि स्वस्त्ययनमध्ययनसंवृत्तिरिति ९ अतोऽन्यानि निवर्तन्ते ब्रह्मचारिणः कर्माणि १० स्वाध्यायधृग् धर्मरुचिस्तप्स्व्यृजुर्मृदुः सिध्यति ब्रह्मचारी ११

अथर्ववेदीय कौशिकपद्धतिः – केशव- Atharvavediya Koushik Paddhati by Keshav Acharya

अथशब्द आनन्तर्यार्थः । संहिताध्ययनानन्तरं विधेरधिकारः । संहिताविधिं वक्ष्यामः । शान्तिकपौष्टिकाभिचारिकाद्भुतादीनि कर्माणि संहिताविधावुक्तानि । त्रिविधानि कर्माणि । विधिकर्माण्यविधिकर्माण्युच्छ्रयकर्माणि । त्रिप्रमाणको विधिः । प्रत्यक्षमनुमानं शब्दं चेति ॥

जैमिनि गृह्य सूत्रम्-Jaimini Grihya Sutram

दैवी मेधा मनुष्यजा सा मां मेधा सुरभिर्जुषतां स्वाहा भूः स्वाहा भुवः स्वाहा स्वः स्वाहा भूर्भुवः स्वः स्वाहेतीयं दुरुक्तादिति मेखलामाबध्नीत इयं दुरुक्तात्परिबाधमाना वर्णं पवित्रं पुनती म आगात् । प्राणापानाभ्यां बलमाभरन्ती स्वसा देवी सुभगा मेखलेयमृतस्य गोप्त्री तपसः परस्पी घ्नती रक्षः सहमाना अरातीः ।

आश्वलायन गृह्य सूत्रम् – Rig Vediya Sounakiya Aswalayana Grihya Sutram

समिधमेवापि श्रद्दधान आदधन्मन्येत यज इदमिति नमस्तस्मै य आहुत्या यो वेदेनेति विद्ययैवाप्यस्ति प्रीतिस्तदेतत्पश्यन्नृषिरुवाच अगोरुधाय गविषेद्युक्षाय दस्म्यं वचः । घृतात्स्वादीयो मधुनश्च वोचतेति वच एव म इदं घृताच्च मधुनश्च स्वादीयोऽस्ति प्रीतिः स्वादीयोऽस्त्वित्येव तदाह आ ते अग्न ऋचा हविर्हृदा तष्टं भरामसि । ते ते भवन्तूक्षण ऋषभासो वशा उतेति एत एव म उक्षाणश्च ऋषभाश्च वशाश्च भवन्ति य इमं स्वाध्यायमधीयत इति यो नमसा स्वध्वर इति नमस्कारेण वै खल्वपि न वै देवा नमस्कारमति यज्ञो वै नम इति हि ब्राह्मणं भवति

तन्त्रालोकः-अभिनवगुप्त- Tantraloka by Avinaba Gupta

आत्मा संवित्प्रकाशस्थितिरनवयवा संविदित्यात्तशक्तिव्रातं तस्य स्वरूपं स च निज महसश्छादनाद्बद्धरूपः ।
आत्मज्योतिःस्वभावप्रकटनविधिना तस्य मोक्षः स चायं चित्राकारस्य चित्रः प्रकटित इह यत्संग्रहेणार्थ एषः ॥३३०॥
मिथ्याज्ञानं तिमिरमसमान् दृष्टिदोषान्प्रसूते तत्सद्भावाद्विमलमपि तद्भाति मालिन्यधाम ।
यत्तु प्रेक्ष्यं दृशि परिगतं तैमिरीं दोषमुद्रां दूरं रुन्द्धेत्प्रभवतु कथं तत्र मालिन्यशङ्का ॥३३१॥
भावव्रात हठाज्जनस्य हृदयान्याक्रम्य यन्नर्तयन् भङ्गीभिर्विविधाभिरात्महृदयं प्रच्छाद्य संक्रीडसे ।
यस्त्वामाह जडं जडः सहृदयंमन्यत्वदुःशिक्षितो मन्येऽमुष्य जडात्मता स्तुतिपदं त्वत्साम्यसंभावनात् ॥३३२॥

श्री ब्रह्मविदाशीर्वाद पद्धतिः- Sree Brahmavid Ashirvada Padhyati-By Vidyaranya

अहमात्मा साक्षी, केवलः, चिन्मात्रस्वरूपः नाज्ञानं, नापि तत्कार्यः किंतु, नित्यशुद्धबुद्धमुक्तसत्यपरमानन्दाद्वयं ब्रह्मैवाहमस्मीति अभॆदॆनावस्थानं समाधिः तत्र च अन्तस्समाधिना दृग्दृश्यविवॆकॆ, बहिस्समाधिना ब्रह्मसर्गविवॆकॆ च दृढॆ जातॆ, तॆन विवॆकद्वयेनायं गलितदॆहाभिमानः विज्ञातपरमात्मतत्वश्च भूयात्

यतिपञ्चकम् -YATI PANCHAKAM-Sankar

वेदान्तवाक्येषु सदा रमन्तो भिक्षान्नमात्रेण च तुष्टिमन्तः । विशोकवन्तः करणैकवन्तः कौपीनवन्तः खलु भाग्यवन्तः