अनित्या वत संस्कारा उत्पादव्ययधर्मिनः ।
उत्पद्य हि निरूध्यन्ते तेषां व्युपशमः सुखम् ॥
यथाहि कुम्भकारेण मृत्तिकाभाजनं कृतम् ।
सर्वं भेदनपर्यन्तं सत्त्वानां जीवितं तथा ॥
Buddhist Sanskrit Texts
अथ भगवान् सर्वतथागतमहायानाभिसमयः सर्वमण्डलः सकलवज्रधात्वग्र्यसत्त्वः सकलत्रैधातुकसर्वत्रिलोकविजय्यशेषानवशेषसत्त्वधातुविनयनसमर्थः सर्वार्थसिद्धः सर्ववज्रपाणिर्महासमयोऽनेकवज्रमहागुह्यसत्त्वपरिवार इममेव प्रज्ञापारमितानयार्थमुद्योतयन् प्रहसितवदनस्तदाद्यं महावज्रं वामगर्वोल्लालनतया स्वहृद्युत्कर्षणयोगेन धारयन्निदं महासुखवज्रामोघसमयं नाम स्वतत्त्वहृदयम् अगात् हूम् ॥
एवमुक्तो आयुष्मानानन्दो भगवन्तमिदमवोचत्: आश्चर्यं भगवन्नाश्चर्यं सुगत यावदयं धर्मपर्यायः । को नामायं धर्मपर्यायः । कथं चैनं धारयामि । तस्मात्तर्हि त्वमानन्द इमं धर्मपर्यायमद्भुतमद्भुतधर्मपर्यायमिति धारय । इदमवोचद्भगवानात्तमनास्ते भिक्षव आयुष्मांश्चानन्दो भगवतो भाषितमभ्यनन्दन् ।
नवभूमीरतिक्रम्य बुद्धभूमौ प्रतिष्ठते ।
येन ज्ञानेन सा ज्ञेया दशमी बोधिसत्त्वभूः- या सर्वज्ञतया नयत्युपशमं शान्तैषिणः श्रावकान्
या मार्गज्ञतया जगद्धितकृतां लोकार्थसम्पादिका ।
सर्वाकारमिदं वदन्ति मुनयो विश्वं यया संगतास्
तस्यै श्रावकबोधिसत्त्वगणिनो बुद्धस्य मात्रे नमः
पुरुषास्त्रिविधा ज्ञेया उत्तमाधममध्माः । लिख्यते लक्षणं तेषां स्फुटं प्रत्येकभेदतः ॥ २ ॥ उपायेन तु केनापि केवलं संसृतेः सुखम् । स्वस्यैवार्थे य ईहेत ज्ञेयः सो पुरुषोऽधमः ॥ ३ ॥ पापकर्मनिवृत्तात्मा भवसुखात्पराङ्मुखः ।
आत्मनिर्वाणमात्रार्थी यो नरो मध्यमस्तु सः ॥ ४ ॥ स्वसन्तानगतैर्दुःखैर्दुःखस्यान्यस्य...
अविद्याप्रत्यया: संस्कारा: - संस्कारा:प्रत्ययं विज्ञानं - विज्ञानप्रत्यय नामरूपं - नामरूपप्रत्ययं षडायातानं - षडायातानाप्रत्याया: स्पर्ष: - स्पर्शप्रत्यया वेदना -
मयि गते परिनिर्वृते वा न्यग्रोधपरिमण्डलं कायं कर्तव्यम्। यावत्कायं तावद्व्यामं यावद्व्यामं तावत्कायं पूजासत्कारार्थं प्रतिमा कर्तव्या। सर्वाङ्गोपाङ्गावयवस्थौल्यलावण्यलालित्यसलीलत्वं छत्राकारं शिरःस्कन्धासु संस्थितोष्णीषत्वादिसुसंस्थानात्। तत्रायामविस्तारोच्छेद सन्धिबन्धनिर्गमैः प्रमाणं बोधिसत्त्वानां सुगतानाञ्च प्रवक्ष्यामि तच्छृणु।
तत्र सम्यक्सम्बुद्धानां महावज्रधराणाञ्च दैर्घ्येण कायस्य बाहुद्वयपार्श्वप्रसारितव्यामेनापि किं प्रमाणम्। स्वकीयाङ्गुलेन सार्द्धद्वादशाङ्गुलस्तालिस्तेन पञ्चविंशत्यधिकशताङ्गुलम्। लोचनादिदेवीनां द्वादशाङ्गुलस्तालस्तेन नवतालेनाष्टोत्तरशताङ्गुलायामो व्यामश्च। बोधिसत्त्वानाञ्च द्वादशाङ्गुलैर्दशतालकमेव। खर्व्वलम्बोदरक्रोधानाञ्च षण्णवत्यङ्गुलमष्टतालेन।ललत्क्रोधानां तु दशतालेन विंशत्युत्तरशताङ्गुलायामव्यामाभ्यां सर्वाङ्गोपाङ्गोदितं ज्ञातव्यम्।
प्रतिभासो वरः कान्तः प्रतीत्योत्पादमात्रकः। न स्यात् यदि मृतैव स्यात् शून्यता कामिनी मता॥१॥ शून्यतातिवरा कान्ता मुर्त्त्या निरुपमा तु या। पृथक् यदि कदाचित् स्यात् बद्धः स्यात् कान्तनायकः॥२॥ दम्पती शङ्कितौ तस्मात् गुरोरुपस्थितौ पुरः। निजप्रीत्या तयोस्तेन साहजं प्रेम कारितम्॥३॥
ओं बुद्धकापालिनी ह्रीः। ओं कापालवज्रिणी आः। विध्वंसय सर्वनागान्। उत्थापय विध्याधरान्। जीवापय
कालदष्टान्। भो भो भगवति बुद्धकापालिनी सर्वनागक्षयंकरी। हः ह हः स्वाहा॥
एकस्मिन् समये भगवान् सर्वतथागतकायवाक्चित्तहृदयवज्रयोषिद्भगेषु विजहार। अनभिलाप्यानभिलाप्यैः सर्वबुद्धक्षेत्रसुमेरुपरमाणुरजःसमैर्बोधिसत्त्वैर्महासत्त्वैः। तद्यथा। समयवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन। कायवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन।
ओं शुद्धे विशुद्धे शोधनविशोधनि । सुगतात्मजे मैत्रीहृदये निर्मले श्यामे श्यामरूपिणि ॥ महाप्राज्ञे प्रवरे प्रवरभूषिते पराजिते । महारौद्रि विश्वरूपि महायश ॥ कल्पाग्निमहातेजा लोकधात्रीमहायशा । सरस्वती विशालाक्षी प्रज्ञाश्रीबुद्धिवर्धनी ॥