चतुः श्लोक भागवतम्-Chatuh-Slok Bhagavatam

अहमेवासमेवाग्रे नान्यद् यत् सदसत् परम्। पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम्-ऋतेऽर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि। तद्विद्यादात्मनो मायां यथाऽऽभासो यथा तमः-यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु। प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम्-एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनाऽऽत्मनः। अन्वयव्यतिरेकाभ्यां यत् स्यात् सर्वत्र सर्वदा......

कलियुगीय राजवंश वर्णनम्

कलियुगीयराजवंशवर्णनम् राजोवाच - स्वधामानुगते कृष्ण यदुवंशविभूषणे। कस्य वंशोऽभवत् पृथ्व्यामेतदाचक्ष्व मे मुने॥ १ श्रीशुक उवाच। योऽन्त्यः पुरञ्जयो नाम भाव्यो बार्हद्रथो नृप। तस्यामात्यस्तु शुनको हत्वा स्वामिनमात्मजम्॥ २ प्रद्योतसंज्ञं राजानं कर्ता यत् पालकः सुतः। विशाखयूपस्तत्पुत्रो भविता राजकस्ततः॥ ३ नन्दिवर्धनस्तत्पुत्रः पञ्च प्रद्योतना इमे। अष्टत्रिंशोत्तरशतं…

पुराणलक्षणं

पुराणलक्षणवर्णनं पुराणलक्षणं ब्रह्मन् ब्रह्मर्षिभिः निरूपितम्। श्रृणुष्व बुद्धिमाश्रित्य वेदशास्त्रानुसारतः॥ ८ सर्गोऽस्याथ विसर्गश्च वृत्ती रक्षान्तराणि च। वंशो वंशानुचरितं संस्था हेतुरपाश्रयः॥ ९ दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो विदुः। केचित् पञ्चविधं ब्रह्मन् महदल्पव्यवस्थया॥ १० अव्याकृतगुणक्षोभान्महतस्त्रिवृतोऽहमः। भूतमात्रेन्द्रियार्थानां सम्भवः सर्ग उच्यते॥ ११ पुरुषानुगृहीतानामेतेषां वासनामयः। विसर्गोऽयं समाहारो बीजाद् बीजं…

अथर्ववेदविभागः

अथर्ववेदविभागः सूत उवाच अथर्ववित् सुमन्तुश्च शिष्यमध्यापयत् स्वकाम्। संहितां सोऽपि पथ्याय वेददर्शाय चोक्तवान्॥ १ शौक्लायनिर्ब्रह्मबलिर्मोदोषः पिप्पलायनिः। वेददर्शस्य शिष्यास्ते पथ्यशिष्यानथो श्रृणु। कुमुदः शुनको ब्रह्मन् जाजलिश्चाप्यथर्ववित्॥ २ बभ्रुः शिष्योऽथाङ्गिरसः सैन्धवायन एव च। अधीयेतां संहिते द्वे सावर्ण्याद्यास्तथापरे॥ ३ नक्षत्रकल्पः शान्तिश्च कश्यपाङ्‌गिरसादयः। एते आथर्वणाचार्याः श्रृणु…

वेदस्तुतिः

वेदस्तुतिः श्रीपरीक्षिदुवाच ब्रह्मन् ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः। कथं चरन्ति श्रुतयः साक्षात् सदसतः परे॥ 01 श्रीशुक उवाच बुद्धीन्द्रियमनःप्राणान् जनानामसृजत् प्रभुः। मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय च॥ 02 सैषा ह्युपनिषद् ब्राह्मी पूर्वेशां पूर्वजैर्धृता। श्रद्धया धारयेद् यस्तां क्षेमं गच्छेदकिञ्चनः॥ 03 अत्र ते वर्णयिष्यामि गाथां…

अलक्ष्मीघ्नं

ALakshmiGhnam--ऋग् १०.१५५.१ सूक्तम्  अश्रीनाशकरम् अरा॑यि॒ काणे॒ विक॑टे गि॒रिं ग॑च्छ सदान्वे । शि॒रिम्बि॑ठस्य॒ सत्व॑भि॒स्तेभि॑ष्ट्वा चातयामसि ॥ अरा॑यि । काणे॑ । विऽक॑टे । गि॒रिम् । ग॒च्छ॒ । स॒दा॒न्वे॒ । शि॒रिम्बि॑ठस्य । सत्व॑ऽभिः । तेभिः॑ । त्वा॒ । चा॒त॒या॒म॒सि॒ ॥ सायणभाष्यम् अरायीति प्र्ञ्चर्चं…

शालग्रामादि मूर्तिलक्षण – Saligram Gem Identification

शालग्रामादिमूर्तेश्च वक्ष्येहं भुक्तिमुक्तिदाः-शालग्रामादिचक्राङ्कपूजाः सिद्ध्यै वदामि ते-ओंरूपः केशवः पद्मशङ्खचक्रगदाधरः

यज्ञक्रम-Yagna Krama

अथातो यज्ञक्रमाः (१,५.७ ) अग्न्याधेयम् (१,५.७ ) अग्न्याधेयात्पूर्णाहुतिः (१,५.७ ) पूर्णहुतेरग्निहोत्रम् (१,५.७ ) अग्निहोत्राद्दर्शपूर्णमासौ (१,५.७ ) दर्शपूर्णमासाभ्यामाग्रयणम् (१,५.७ ) आग्रयणाच्चातुर्मास्यानि (१,५.७ ) चातुर्मास्येभ्यः पशुबन्धः (१,५.७ ) पशुबन्धादग्निष्टोमः (१,५.७ ) अग्निष्टोमाद्राजसूयः (१,५.७ ) राजसूयाद्वाजपेयः (१,५.७ ) वाजपेयादश्वमेधः (१,५.७ ) अश्वमेधात्पुरुषमेधः (१,५.७…

दैवपुरुषाकार: – Daiva Purusakara

Daiva Purusakara-न विना मानुषं दैवं दैवं वा मानुषं विना-नैकं निर्वर्तयत्य् अर्थम् एकारणिरिवानलम्/ सिद्ध्यन्ते सर्व आरम्भाः संयोगात् कर्मणो ऽर्द्ध्योः- दैवात् पुरुसकाराच् च न त्व् एकस्मात् कथाज्चन/

चन्द्रकलानिरूपणम्‌- Chandrakala Nirupanam

अङ्गुष्ठे चरणे नितम्बनिलये जानुद्वये जङ्घयो-र्नाभौ वक्षसि कक्षयोर्निगदिता कण्ठे कपोलेऽधरे । नेत्रे कर्णयुगे ललाटफलके मौलौ च वामभ्रुवा- मूर्ध्वाधश्चलनक्रमेण कथिता चान्द्री कला पक्षयोः ॥ ११ ॥ सीमन्ते नयनेऽधरे च गलके कक्षातटे चूचुके नाभौ श्रोणितटे मनोभवगृहे जङ्घातटोरुद्वये । गुल्फे पादतले तदङ्गुलितलेऽङ्गुष्ठे च तिष्ठत्यसौ…