अथ को वेदः – What is Veda

तत्र अज्ञातार्थज्ञापको वेदभागो विधिः । स च तादृशप्रयोजनवत् अर्थविधानेन अर्थवान् यादृशं च अर्थं प्रमाणान्तरेण अप्राप्तं विधत्ते यथा- “अग्निहोत्रं जुहुयात्स्वर्गकाम” इति विधिः मानान्तरेण अप्राप्तं स्वर्गप्रयोजनवद् होमं विधत्ते अग्निहोत्रहोमेन स्वर्गं भावयेत् इति वाक्यार्थबोधः ।

देवताः – Devata

आत्मैव देवताः सर्वाः सर्वं आत्मन्यवस्थितम् ।
आत्मा हि जनयत्येषां कर्मयोगं शरीरिणाम्

त्रिदण्डं -tridandam

वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च । यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते । । १२.१० । । त्रिदण्डं एतन्निक्षिप्य सर्वभूतेषु मानवः । कामक्रोधौ तु संयम्य ततः सिद्धिं नियच्छति । । १२.११ । Manu Samhita [12th chapter]

ओंकार – Omkara – प्रणव

प्रणवे प्रणव इति ब्राह्मणम् ॥ २३ ॥ ओंकारं पृच्छामः को धातुः किं प्रातिपदिकम् किं नामाख्यातम् किं लिङ्गम् किं वचनम् का विभक्तिः कः प्रत्ययः कः स्वर उपसर्गो निपातः किं वै व्याकरणम् को विकारः को विकारी कतिमात्रः कतिवर्णः कत्यक्षरः कतिपदः कः संयोगः…

यज्ञक्रमाः- Yagna Krama

अथातो यज्ञक्रमाः अग्न्याधेयम् अग्न्याधेयात् पूर्णाहुतिः पूर्णहुतेर् अग्निहोत्रम् अग्निहोत्राद् दर्शपूर्णमासौ दर्शपूर्णमासाभ्याम् आग्रयणम् आग्रयणाच् चातुर्मास्यानि चातुर्मास्येभ्यः पशुबन्धः पशुबन्धाद् अग्निष्टोमः अग्निष्टोमाद् राजसूयः राजसूयाद् वाजपेयः वाजपेयाद् अश्वमेधः अश्वमेधात् पुरुषमेधः पुरुषमेधात् सर्वमेधः सर्वमेधाद् दक्षिणावन्तः दक्षिणावद्भ्यो ऽदक्षिणाः अदक्षिणाः सहस्रदक्षिणे प्रत्यतिष्ठन् ते वा एते यज्ञक्रमाः स य…

भर्गः-Vargha

अथ संस्थिते संस्थिते सवने वाचयति मयि भर्गो मयि महो मयि यशो मयि सर्वम् इति पृथिव्य् एव भर्गो ऽन्तरिक्ष एव महो द्यौर् एव यशो ऽप एव सर्वम् अग्निर् एव भर्गो वायुर् एव मह आदित्य एव यशश् चन्द्रमा एव सर्वम् [ आदित्या]…

ब्रह्म – Brahma

ब्रह्म वा इदमग्र आसीत्। तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्तद्यो यो देवानां प्रत्यबुध्यत स सऽएव तदभवत्तथर्षीणां तथा मनुष्याणाम् - १४.४.२.[२१] तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे। अहं मनुरभवं सूर्यश्चेति तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति तस्य ह न देवाश्चनाभूत्या ईशत आत्मा ह्येषां स भवत्यथ…

पति-पत्नी Pati Patni

आत्मैवेदमग्र आसीत्। पुरुषविधः सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत्सोऽहमस्मीत्यग्रे व्याहरत्ततोऽहं नामाऽभवत्तस्मादप्येतर्ह्यामन्त्रितोऽहमयमित्येवाग्र उक्त्वाऽथान्यन्नाम प्रब्रूते यदस्य भवति - १४.४.२.[१] स यत्पूर्वोऽस्मात् सर्वस्मात्सर्वान्पाप्मन औषत्तस्मात्पुरुष ओषति ह वै स तं योऽस्मात्पूर्वो बुभूषति य एवं वेद - १४.४.२.[२] सोऽबिभेत्। तस्मादेकाकी बिभेति स हायमीक्षां चक्रे यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति तत एवास्य…

पूर्णाहुति – Purnahuti

पूर्णाहुतिं जुहोति। सर्वं वै पूर्णं सर्वेणैवैतद्भिषज्यति यत्किं च विवृढं यज्ञस्य - १४.३.२.२ स्वाहा प्राणेभ्यः साधिपतिकेभ्य इति। मनो वै प्राणानामधिपतिर्मनसि हि सर्वे प्राणाः प्रतिष्ठितास्तन्मनसैवैतद्भिषज्यति यत्किं च विवृढं यज्ञस्य - १४.३.२.३ पृथिव्यै स्वाहेति पृथिवी वै सर्वेषां देवानामायतनं तत्सर्वाभिरेवैतद्देवताभिर्भिषज्यति यत्किं च विवृढं यज्ञस्य…

धर्म – Dharma

अथ प्राङिवोदङ्ङुत्क्रामति धर्मासि सुधर्मेत्येष वै धर्मो य एष तपत्येष हीदं सर्वं धारयत्येतेनेदं सर्वं धृतमेष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह धर्मासि सुधर्मेति - १४.२.२.[२९] शतपथब्राह्मणम्काण्डम् १४ अध्यायः २ ब्राह्मण २