Gitartha Sangraha – गीतार्थसङ्ग्रहः – Sri Yamunacharya

भगवद्यामुनमुनि ॥ गीतार्थसङ्ग्रहः ॥ स्वधर्मज्ञानवैराग्यसाध्यभक्त्येकगोचरः ।नारायणः परं ब्रह्म गीताशास्त्रे समीरितः ॥१॥ ज्ञानकर्मात्मिके निष्ठे योगलक्षे सुसंस्कृते ।आत्मानुभूतिसिद्ध्यार्थे पूर्वषट्केन चोदितः ॥२॥ मध्यमे भगवत्तत्त्वयाथात्म्यावाप्तिसिद्धये ।ज्ञानकर्माभिनिर्वर्त्यो भक्तियोगः प्रकीर्तितः ॥३॥ प्रधानपुरुषव्यक्तसर्वेश्वरविवेचनम् ।कर्म धीर्भक्तिरित्यादिपूर्वशेषो ऽन्तिमोदितः ॥४॥ अस्थानस्नेहकारुण्यधर्माधर्मधियाकुलम् ।पार्थं प्रपन्नम् उद्दिश्य शास्त्रावतरणं कृतम् ॥५॥ नित्यात्मासङ्गकर्मेहगोचरा सांख्ययोगधीः ।द्वितीये…

Gita Bhhashya of Bhagavad Ramanuja Chapter 1 and 2

Gitabhashya of Bhagavad Ramanuja यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः ।वस्तुताम् उपयातो ऽहं यामुनेयं नमामि तम् ॥ श्रियः पतिः, निखिलहेयप्रत्यनीककल्याणैकतानः, स्वेतरसमस्तवस्तुविलक्षणानन्तज्ञनानन्दैकस्वरूपः, स्वाभाविकानवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजःप्रभृत्यसंख्येयकल्याणगुणगणमहोदधिः, स्वाभिमतानुरूपैकरूपाचिन्त्य दिव्याद्भुतनित्यनिरवद्यनिरतिशयौज्ज्वल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्य यौवनाद्यनन्तगुणनिधिदिव्यरूपः, स्वोचितविविधविचित्रानन्ताश्चर्यनित्यनिरवद्यापरिमितदिव्यभूषणः, स्वानुरूपासंख्येयाचिन्त्यशक्तिनित्यनिरवद्यनिरतिशयकल्याणदिव्यायुधः, स्वाभिमतानुरूपनित्यनिरवद्यस्वरूपरूपगुणविभवैश्वर्यशीलाद्यनवधिकातिशयासंख्येयकल्याणगुणगणश्रीवल्लभः, स्वसङ्कल्पानुविधायिस्वरूपस्थितिप्रवृत्तिभेदाशेषसेषतैकरतिरूप नित्यनिरवद्यनिरतिशयज्ञानक्रियाइश्वर्याद्यनन्तगुणगणापरिमितसूरिभिरनवरताभिष्टुतचरणयुगलः, वाङ्मनसापरिच्छेद्यस्वरूपस्वभावः स्वोचितविविधविचित्रानन्तभोग्यभोगोपकरणभोगस्थानसमृद्धानन्ताश्चर्यानन्त महाविभवानन्तपरिमाणनित्यनिरवद्याक्षरपरमव्योमनिलयः, विविधविचित्रानन्तभोग्यभोक्तृवर्गपरिपूर्णनिखिलजगदुदयविभवलयलीलः, परं ब्रह्म पुरुषोत्तमो नारायणः, ब्रह्मादिस्थावरान्तम् अखिलं जगत्सृष्ट्वा ,स्वेन रूपेणावस्थितो ब्रह्मादिदेवमनुष्याणां ध्यानाराधनाद्यगोचरः,…

Vedartha Sangraha – वेदार्थसङ्ग्रहः – Sri Ramanuja

अयम् आत्मा ब्रह्म । य आत्मनि तिष्ठन्नात्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्यमृतः ।

वाराह कल्प सूत्रम्-Varaha Kalpa Sutram

सर्वार्थं धर्मं प्रथमम् । उपवादाननुवदेत् ३ ब्राह्मणक्षत्रियवैश्यरथकाराणाँ यज्ञाः ४ निषादस्थपतेरिष्ट्यग्न्याधेयम् ५ अध्वर्युर्यजुर्वेदेन करोत्यृग्वेदेन होता सामवेदेनोद्गाता सर्वैर्ब्रह्मा ६ उच्चैरृग्वेदसामवेदाभ्यामुपाँ शु यजुषोच्चैः संप्रैषैः ७ सँ स्वारैकस्वर्यमिति शब्दन्यायः ८ प्राङ्मुखः कर्म कुर्यादा चतुर्थात्कर्मणः प्रसंपश्यन् ९ उत्तरतउपचारो विहारः १० न यज्ञाङ्गेनात्मानमभिविपरिहरेत् ११ न विहारादपपर्यावर्तेत १२ अन्तराणि यज्ञाङ्गानि बाह्याः कर्तारः १३ कर्तॄणां च प्रधानकारिणोऽभ्यन्तरा बाह्या इतरे १४ यज्ञोपवीती कर्माणि कुर्यात्प्राचीनावीती पित्र्याण्याचान्तोदकोऽहसन् १५

वाग्भट संहिता-चिकित्सस्थानम् Bāgbhatt Saṁhitā-Chikitsha Sthanam

आमाशयस्थो हत्वाऽग्नि सामो मार्गान् पिधाय यत्
विदधाति ज्वरं दोषस्तस्मात्कुर्वीत लङ्घनम् १
प्राग्रूपेषु ज्वरादौ वा बलं यत्नेन पालयन्
बलाधिष्ठानमारोग्यमारोग्यार्थः क्रियाक्रमः

माधवनिदान-Madhab Nidan

ज्वरोऽतिसारो ग्रहणी चार्शोऽजीर्णं विसूचिका
अलसश्च विलम्बी च क्रिमिरुक्पाण्डुकामलाः १
हलीमकं रक्तपित्तं राजयक्ष्मा उरःक्षतम्
कासो हिक्का सह श्वासैः स्वरभेदस्त्वरोचकः २
छर्दिस्तृष्णा च मूर्च्छाद्या रोगाः पानात्ययादयः
दाहोन्मादावपस्मारः कथितोऽथानिलामयः ३
वातरक्तमूरुस्तम्भ आमवातोऽथ शूलरुक्
पक्तिजं शूलमानाह उदावर्तोऽथ गुल्मरुक् ४

जैमिनीयोपनिषद्ब्राह्मण-Jaiminiya Upanishad Brahman

पुरुषो वै यज्ञः १ तस्य यानि चतुर्विंशतिर्वर्षाणि तत्प्रातस्सवनं चतुर्विंशत्यक्षरा गायत्री गायत्रम्प्रातस्सवनम् २ तद्वसूनां प्राणा वै वसवः प्राणा हीदं सर्वं वस्वाददते ३ स यद्येनमेतस्मिन्काल उपतपदुपद्र वेत्स ब्रूयात्प्राणा वसव इदम्मे प्रातस्सवनम्माध्यन्दिनेन सवनेनानुसंतनुतेति अगदो हैव भवति ४ अथ यानि चतुश्चत्वारिंशतं वर्षाणि तन्माध्यन्दिनं सवनं चतुश्चत्वारिंशदक्षरा त्रिष्टुप् त्रैष्टुभम्माध्यन्दिनं सवनम् ५ तद्रुद्राणां प्राणा वै रुद्रा:! प्राणा हीदं सर्वं रोदयन्ति ६ स यद्येनमेतस्मिन्काल उपतपदुपद्र वेत्स ब्रूयात्प्राणा रुद्रा इदम्मे माध्यन्दिनं सवनं तृतीयसवनेनानुसंतनुतेति अगदो हैव भवति ७ अथ यान्यष्टाचत्वा-रिंशतं वर्षाणि तत्तृतीयसवनमष्टाचत्वारिंशदक्षरा जगती जागतं तृतीयसवनम् ८ तदादित्यानां प्राणा वा आदित्याः प्राणा हीदं सर्वमाददते ९ स यद्ये-नमेतस्मिन्काल उपतपदुपद्र वेत्स ब्रूयात्प्राणा आदित्या इदम्मे तृतीयसवनमा-युषानुसंतनुतेति अगदो हैव भवति १० एतद्ध तद्विद्वान्ब्राह्मण उवाच महिदास ऐतरेय उपतपति किमिदमुपतपसि योऽहमनेनोपतपता न प्रेष्यामीति स ह षोडशशतं वर्षाणि जिजीव प्र ह षोडशशतं वर्षाणि जीवति नैनम्प्राणस्साम्यायुषो जहाति य एवं वेद

जैमिनीयब्राह्मणम् -Jaimiya Brahmanam

प्राणेनैव जुहोति प्राणे हूयते ।
तद्यदेतदग्नीन्मन्थन्ति यजमानस्यैव तत्प्राणाञ्जनयन्ति ।
तद्यावद्वै मन्थन्ति न तर्हि प्राणिति ।
अरण्योरेवास्य तर्हि प्राणा भवन्ति ।
तस्य वै मथ्यमानस्य भस्मावशीयते ।
अन्नमेवास्य तज्जायते ।
अन्नं म एतदजनीत्येव तद्विद्यात् ।

छान्दोग्य-ब्राह्मण-Chhandogya Brahman

तपश्च तेजश्च श्रद्धा च ह्रीश्च सत्यं चा-
क्रोधश्च त्यागश्च धृतिश्च धर्मश्च
सत्वं च वाक्च मनश्चात्मा च ब्रह्म च
तानि प्रपद्ये तनि मामवन्तु ।
भूर्भुवः स्वरॐ
महान्तमात्मानं प्रपद्ये ५

कठकब्राह्मणम्- Kathak Brahmanam

ब्रह्मवादिनो वदन्ति पुरा वा औद्दालकिरारुणिरुवाच ब्रह्मणे त्वा प्राणाय जुष्टं निर्वपामि ब्रह्मणे त्वापानाय जुष्टं निर्वपामि ब्रह्मणे त्वा व्यानाय जुष्टं निर्वपामि ब्रह्मणे त्वा समानाय जुष्टं निर्वपामि का एता देवता यासामेवैतज्जुष्टं निर्वपत्यृचो वे ब्रह्मणः प्राण ऋचामेवेतज्जुष्टं निर्वपति यजूंषि वे ब्रह्मणोऽपानो यजुषामेवेतज्जुष्टं निर्वपति सामानि वे ब्रह्मणो व्यानः साम्नामेवेतज्जुष्टं निर्वपत्यथर्वाणो वे ब्रह्मणः समानोऽथर्वणामेवेतज्जुष्टं निर्वपति । चतुःशरावो भवति चत्वारो हीमे वेदास्तानेव भागिनः करोति मूलं वे ब्रह्मणो वेदो वेदानामेवेतन्मूलं यदृत्विजः प्राश्नन्ति तद्ब्रह्मौदनस्य ब्रह्मौदनत्वम्

Vamsha Brahman-वंशब्राह्मण

२० देवतराः शावसायनः श-वसः पितुरेव २१ शवा अग्निभुवः काश्यपात् २२ अग्निभूः काश्यप इन्द्र भुवः काश्यपात् २३ इन्द्र भूः काश्यपो मित्रभुवः काश्यपात् २४ मित्रभूः काश्यपो विभुण्डकात्काश्यपात्पितुः २५ विभण्डकः काश्यप ऋष्यशृङ्गात्काश्यपा-त्पितुः २६ ऋष्यशृङ्गः काश्यपः काश्यपात्पितुरेव २७ कश्यपोऽग्नेः २८ अग्निरिन्द्रा त् २९ इन्द्रो वायोः ३० वायुर्मृत्योः ३१ मृत्युः प्रजापतेः ३२ प्रजापतिर्ब्रह्मणः ३३ ब्रह्मा स्वयम्भूः ३४ तस्मै नमस्तस्मै नमः ३५ २

तैत्तिरीय ब्राह्मणम्-Taittiriya Brahmanam

तस्यैवात्मा पदवित्तं विदित्वा । न कर्मणा लिप्यते पापकेन । पञ्च पश्चाशतस्त्रिवृतः संवत्सराः । पञ्च पञ्चाशतः पञ्चदशाः । पञ्च पञ्चाशतः सप्तदशाः । पञ्च पञ्चाशत एकविँ शाः । विश्वसृजाँ सहस्रसंवत्सरम् । एतेन वै विश्वसृज इदं विश्वमसृजन्त । यद्विश्वमसृजन्त । तस्माद्विश्वसृजः । विश्वमेनाननु प्रजायते । ब्रह्मणः सायुज्यँ सलोकतां यन्ति । एतासामेव देवतानाँ सायुज्यम् । सार्ष्टिताँ समानलोकतां यन्ति । य एतदुपयन्ति । ये चैनत्प्राहुः । येभ्यश्चैनत्प्राहुः