Deadline to file writ petition is extended 150 days from the date of lower court judgment due to Covid-19: US Supreme Court

These modifications to the Court’s Rules and practices do not apply to cases in which certiorari has been granted or a direct appeal or original action has been set for argument.

(ORDER LIST: 589 U.S.)

THURSDAY, MARCH 19, 2020

ORDER

In light of the ongoing public health concerns relating to COVID-19, the following shall apply to cases prior to a ruling on a petition for a writ of certiorari:

IT IS ORDERED that the deadline to file any petition for a writ of certiorari due on or after the date of this order is extended to 150 days from the date of the lower court judgment, order denying discretionary review, or order denying a timely petition for rehearing. See Rules 13.1 and 13.3.

IT IS FURTHER ORDERED that motions for extensions of time pursuant to Rule 30.4 will ordinarily be granted by the Clerk as a matter of course if the grounds for the application are difficulties relating to COVID-19 and if the length of the extension requested is reasonable under the circumstances. Such motions should indicate whether the opposing party has an objection.

Continue Reading

चन्द्रकलानिरूपणम्‌- Chandrakala Nirupanam

अङ्गुष्ठे चरणे नितम्बनिलये जानुद्वये जङ्घयो-र्नाभौ वक्षसि कक्षयोर्निगदिता कण्ठे कपोलेऽधरे ।
नेत्रे कर्णयुगे ललाटफलके मौलौ च वामभ्रुवा– मूर्ध्वाधश्चलनक्रमेण कथिता चान्द्री कला पक्षयोः ॥ ११ ॥

सीमन्ते नयनेऽधरे च गलके कक्षातटे चूचुके
नाभौ श्रोणितटे मनोभवगृहे जङ्घातटोरुद्वये ।

गुल्फे पादतले तदङ्गुलितलेऽङ्गुष्ठे च तिष्ठत्यसौ
वृद्धिक्षीणतया समं शशिकला लीलाकरी योषिताम्‌ ॥ १२ ॥

Continue Reading

लक्ष्मी -Lakshmi

Photo by Mr. Kartik Kundu Advocate

The Deity of Lakshmi and Her Tantrik Sadhana

 ओं हिरण्यवर्णायै नमः

ओं हिरण्मय्यै नमः।

साक्षिणी सर्वभूतानां लक्षयामि शुभाशुभम्।
लक्ष्मीश्चास्मि हरेर्नित्यं लक्ष्यं सर्वमितेरहम् ।।

ददती क्षेपणी चास्मि नित्या त्रिप्रेरणी तथा।
तथा ज्ञानस्वरूपाहं लक्षणीया मितौ मितौ ।।

लये निवासे निर्माणे प्रेरणी प्रकृतेरहम्।
लक्षणाख्यस्य भावस्य कलाकाष्ठादिरूपिणी ।।

अव्यक्तव्यक्तसत्त्वस्था प्रेरयित्री सदास्म्यहम्।
लक्षं नयामि चात्मानं लामि चान्ते क्षिपामि च ।। 

क्षिपामि क्षपयाम्येका क्षिणोमि दुरितं सताम्।
क्षमे क्षमा हि भूतानां मिमे मन्ये च मामि च ।।

ओं लक्ष्म्यै नमः। ओं लक्ष्म्यै नमः। ओं लक्ष्म्यै नमः।।


श्रीः

शब्द ब्रह्म स्वरूपत्वमाह

श्रीं ह्रीं ओं, ओं श्रियै नमः 

अथो लक्ष्मी स्वरूपं बक्षेहं।। 1 ।।

शब्दार्थप्रविभागेन द्विधा लक्ष्मीः प्रवर्तते।
शान्ता पश्याथ मध्या च वैखरी चेति संज्ञया ।। 2 ।।
शब्दोन्मेषश्चतुर्धायमर्थोन्मेषस्तथाविधः।
प्रत्यस्तमितसंस्कारा स्वरवर्णादिवर्जिता ।। 3 ।।
शाब्दी या संस्थितिः प्राच्या सा शान्ता शान्तसाधना।
अर्थबोधकरूपं यच्छब्दशक्तेरसंस्कृतम् ।। 4 ।।
केवलो यः समुन्मेषः पश्यन्ती सा प्रकीर्तिता।
अर्थबोधकरूपं यत् स शब्दः परिकीर्तितः ।। 5 ।।
न हिंसयन्ति संस्कारा यदा मध्याथ सा तदा।
एवं संस्कारसंपन्ना विकल्पशतशालिनी ।। 6 ।।
विविधं रमते वैषु यतो न प्राकृतीष्वथ।
रूपं शकलशः कृत्वा स्थानेष्वष्टसु सा तदा ।। 7 ।।

वैखरी नाम सा वाच्या विविधं वक्ति वर्णिनी।
शान्ता नाम परा या सा सर्वत्र समतां गता ।। 8 ।।
कोटिकोटिसहस्रांशस्तस्या वागथ मद्यमा।
कोटिकोटिसहस्रांशस्तस्या वागथ वैखरी ।। 9 ।।
वर्णाः पदानि वाक्यानि त्रिविधा वैखरीगतिः।
संकोचं क्रमशो याति सेयं वर्णादिवर्त्मना ।। 10 ।।

इयं चतुर्विधा शक्तिः प्रतिलोमानुलोमजा।
चतुर्धा सोदयं याति शान्तापश्यादिभिः क्रमात् ।। 11 ।।
चतुर्धास्तमयं याति वैखरीमध्यमादिभिः।
व्यक्ता व्यक्तसमाव्यक्ता सा विज्ञेया त्रिधा पुनः ।। 12 ।।
व्यक्ता प्राणिशरीरस्था योदेत्यस्तमुपैति च।
वीणावेणुमृदङ्गाद्यैर्व्यक्ता तद्व्यज्यते हि या ।। 13 ।।
विवक्षाकरणोद्योगैः प्राणिभिः साथ तत्समा।
मरुदाघट्‌टनात् सिन्धुसरिद्गिरिदरीमुखैः ।। 14 ।।
व्यज्यते शब्दशक्तिर्या सा त्वव्यक्ता समीरिता।
उदयेऽस्तमये चासां पूर्वोक्तौ व्युत्क्रमोत्क्रमौ ।। 15 ।।

वाच्यं चतुर्विधं ज्ञेयं शान्तादिप्रविभागवत्।
एवं व्यवस्थिता शक्तिस्तारिकेति निरूपणम् ।। 16 ।।
जपोऽसौ मध्यमो नाम परितो वर्णवर्णनम्।
वर्णरूपा च शक्तिर्या या च संयोगसंभवा ।। 17 ।।
शक्तिनद्धानुविद्धा या विवक्षासंभवा च या।
एतच्छक्तिचतुष्कं तद्विनिर्णयपुरःसरम् ।। 18 ।।
अर्थाध्यासस्तु शब्दे यस्चरमोऽसौ प्रकीर्तितः।
वाच्यं बुद्ध्वा पृथग् बुद्ध्वा तां त्रिधाकारसंस्थिताम् ।। 19 ।।
तत्संबोधो हि यो मन्त्रैः स जपस्तु परावरः।
लक्ष्मीतन्त्रे समुद्दिष्टा त्वग्नीषोममयी हि या ।। 20 ।।
तत्तद्रूपमतिक्रम्य वाच्यवाचकसंज्ञितम्।
लक्ष्मीमयीं निशां तीर्त्वा तारिकारूपरूपिणीम् ।। 21 ।।
निस्तरङ्गमहानन्दसंवित्तारामहोदधौ।
विशोध्य सकलान् मन्त्रास्तद्भावन्याससंयुतः ।। 22 ।।

तानुपास्य ततस्तस्यां तत्तदाप्यायनोज्ज्वलान्।
तत्सामान्यविशेषाभ्यां भावयेन्मन्त्रदेवताम् ।। 23 ।।
तथा युक्तो जपेन्मन्त्रान् नित्योऽयं पूजितो जपः।
तत्तच्छास्रोक्तसंस्थानसंस्कारक्रमशालिनीः ।। 24 ।।
तैस्तैर्भावैः समेताश्च भावयन्मन्त्रदेवताः।
जपेत सर्वदर्शी यज्जपोऽयं परमः स्मृतः ।। 25 ।।


 Source : लक्ष्मीतन्त्रम् अध्यायः ५७


मंत्र रूपा लक्ष्मी

श्रीः अथ मन्त्रमयं मार्गं शृणु वत्स पुरंदर।
प्रकाशानन्दरूपाहं पूर्णाहंता हरेरहम् ।। 1 ।।

मन्त्रमातेति मां विद्धि प्राणाख्यां शुद्धचिन्मयीम्।
उद्यन्ति मत्त एवैते यान्ति चास्तं मयि ध्रुवम् ।। 2 ।।

अहं च बलमेतेषां मद्रूपत्वं विदन्ति ते।
एकधा च द्विधा चैव त्रिधा चैवाहमूर्जिता ।। 3 ।।
चतुर्धा पञ्चधा षोढा सप्तधा चाष्टधा तथा।
तथा षोडशधा चैव पञ्चविंशतिधा तथा ।। 4 ।।
पञ्चाशद्धा पुनश्चैव पुनश्चाहं त्रिषष्टिधा।
उदेमि बहुधा चैव चिन्तामणिरिवेश्वरी ।। 5 ।।

स्वराश्च व्यञ्जनाश्चैव स्वरव्यञ्जनसंहतिः।
अक्षराणि पदान्येवं वाक्यप्रकरणैः सह ।। 6 ।।

आह्निकाध्याययोश्चैव शास्रतन्त्रव्यवस्थितिः।
आगमा बहुधा चैव बाह्याबाह्यव्यवस्थितिः ।। 7 ।।
लौकिका वैदिकाश्चैवं भाषाश्च विविधास्तथा।
मन्त्ररूपमिदं विद्धि सर्वं मद्रूपवेदिनाम् ।। 8 ।।

भावनातारतम्येन ग्राह्यग्राहकसंस्थितिः।
आसत्तिविप्रकर्षौ च भावनातारतम्यतः ।। 9 ।।

बीजं पिण्डं पदं संज्ञेत्येवं मन्त्राश्चतुर्विधाः।
तेषां प्रधानतो विद्धि पञ्च रत्नानि वासव ।। 10 ।।
मत्सूक्ते तानि बीजानि दध्नि सर्पिरिवाहितम्।
सूर्यसोमाग्निखण्डोत्थं नादवत् पाकशासन ।। 11 ।।

यदत्र सूर्यरूपं तज्जाग्रत्पदमुदाहृतम्।
वह्निः स्वाप्नं सुषिप्तिश्च सोमो माया पराह्वया ।। 12 ।।
खण्डं यदिन्दुखण्डाख्यं तुर्यं नादस्ततः परम्।
शक्तिः शान्तात्मिकावस्था नादस्यैव तु संस्थितिः ।। 13 ।।
ततः परं तु यद्‌ ब्रह्म लक्ष्मीनारायणं तु तत्।
स्वराणां षट्‌चतुःषट्‌कं सूर्याग्नीन्दुसमुद्गतम् ।। 14 ।।
शेषा वर्णाः स्वरोत्पन्ना इतीयं वर्णसंस्थितिः।
इतीदं परमं बीजं सर्वकामफलप्रदम् ।। 15 ।।

पुत्रदं पुत्रकामानां राज्यकामस्य राज्यदम्।
भूतिदं भूतिकामानां मोक्षकामस्य मोक्षदम् ।। 16 ।।
विध्वंसयति शत्रूंश्चाप्याकर्षयति वाञ्छितम्।
चिन्तामणरिदं नाम नैव चिन्तामणिर्मणिः ।। 17 ।।
तस्यैव चानुगं बीजं शकाद्यं सर्वकामदम्।
युग्मैर्मायाक्षरादेशैराद्यन्तस्वरषट्‌कयोः ।। 18 ।।
अङ्गक्लृप्तिरियं कार्या जातिमुद्रासमन्विता।
शिष्टबीजचतुष्कस्याप्येवमेव व्यवस्थितिः ।। 19 ।।
पूर्णाहंतासमावेशादादिबीजसमन्वयात्।
नानाविधो मन्त्रगणो मदीयत्वं प्रपद्यते ।। 20 ।।

मन्त्राणां देवता या सा सा मच्छक्त्यधिनिष्ठिता।
मद्भावभाविनी चैव तस्माद्ध्येयास्मि तत्र वै ।। 21 ।।
तां तां वै देवतां तत्र नारीरूपामनुस्मरेत्।
तत्तद्वर्णायुधाकारभूषणादिसमन्विताः ।। 22 ।।
मदीयत्वं समासाद्य ताः शीघ्रफलदास्तथा।
इति ते मन्त्रमार्गोऽयं लेशतः शक्र वर्णितः ।। 23 ।।


Source: लक्ष्मीतन्त्रम् अध्यायः ५२


सनातनी नारायणी लक्ष्मी

श्रीः-साधु संबोधिता सम्यग् वत्स वृत्रनिषूदन।
शृणु संक्षेपमाख्यामि तन्त्रादस्मात् समुद्धृतम् ।। 9 ।।

अहंता सर्वभूतानामहमस्मि सनातनी।
आरोहेणावरोहेण विश्वसिद्धिकरी स्मृता ।। 10 ।।
परमं यदहंताख्यं तुर्यातीतं तदुच्यते।
परं ब्रह्म परं धाम लक्ष्मीनारायणं तु तत् ।। 11 ।।
न तत्र प्रविबागो नौ भवद्भावव्यवस्थितौ।
उन्मेषस्तत्र यो नाम यथा चन्द्रोदयेऽम्बुधौ ।। 12 ।।

अहं नारायणी शक्तिः सिसृक्षालक्षणा तथा।
तुर्यावस्था च सा मे स्यात् परिणामोद्भवात्मिका ।। 13 ।।
शुद्धाशुद्धमयो भावः सर्वोऽप्यन्तर्गतस्तदा।
व्यूहाश्च विभवाश्चैव तथा व्यूहान्तरादिकाः ।। 14 ।।
अयं शुद्धमयो भावो यच्चान्यद्भगवन्मयम्।
व्यूहे च विभवे चैव तथा व्यूहान्तरादिके ।। 15 ।।
सुषुप्ताद्या अवस्था मे प्रत्येकं चैवमुन्नयेत्।
अव्यक्तमहदाद्याश्च तथा वैकारिकं जगत् ।। 16 ।।
शुद्धेतरस्त्वयं भावस्तिस्रोऽवस्थाश्च तत्र वै।
प्रत्येकमुन्नयेच्चैवं तत्र तत्र दिवस्पते ।। 17 ।।
भूते स्थिते च विज्ञेया दसा एताश्चतुर्विधाः।
अपरोऽस्ति क्रमस्त्वेवं शुद्धाशुद्धमयेऽध्वनि ।। 18 ।।
प्रमातृकरणज्ञेयेष्वारोहेषु मदात्मके।
शून्यप्राणादिभेदेन क्रमान्मातृगणा दश ।। 19 ।।
करणं द्विविधं विद्धि बाह्यमाभ्यन्तरं तथा।
उभयोरपि तावद्धि तूष्णींभावादिके क्रमे ।। 20 ।।

ज्ञेयं बहुविधं प्रोक्तं तत्राप्येवं समुन्नयेत्।
तुर्यातीतत्वमेतेषां भगवद्भाववेदनम् ।। 21 ।।
अवरोहोऽयमुद्दिष्ट आरोहमपि मे शृणु।
चरमां कोटिमारभ्य मदन्तोऽभूद्व्यवस्थितः ।। 22 ।।
आरोहः स तु विज्ञेयः शुद्धाशुद्धमयेऽध्वनि।
आरोहमवरोहं च संततं भावयन्नरः ।। 23 ।।
मच्चित्तो मद्गतप्राणो मद्भावं समुपाश्नुते।
आकारकालदेशान्मे परिच्छेदोऽस्ति नैव च ।। 24 ।।
मयैव ज्ञानरूपिण्या व्याप्तास्ते पाकशासन।
आत्मभित्तौ जगत् सर्वमिच्छयोन्मीलयाम्यहम् ।। 25 ।।
तद्रूपतारतम्येन ग्राह्यग्राहकसंस्थितिः।
वाच्यात्मपरिणामोऽयं लेशतस्ते प्रदर्शितः ।। 26 ।।

वाचकात्मानमस्य त्वं समाहितमनाः शृणु।
शुद्धसंविन्मयी पूर्वं विवर्ते प्राणरूपतः ।। 27 ।।
तत्तत्स्थानप्रसङ्गेन विवर्ते शब्दतस्तथा।
शान्ता सूक्ष्मा तथा मध्या वैखरीति विवेकिनी ।। 28 ।।
चतूरूपं चतूरूपवाचि वाच्यं स्वनिर्मितम्।
शान्ता विवर्तमानाहं प्रपद्ये सूक्ष्मसंस्थितिम् ।। 29 ।।
शक्तिर्नाद इति द्वेधा सूक्ष्मरूपव्यवस्थितिः।
सूक्ष्मा विवर्तमानाहं प्रपद्ये मध्यमां स्थितिम् ।। 30 ।।
बिन्दुसंस्कारसंपत्तिः सावस्थाक्षरसंततेः।
मध्या विवर्तमानाहं प्रपद्ये वैखरीस्थितिम् ।। 31 ।।
पञ्चाशदादिभेदेन सावस्थाक्षरसंततेः।
आरोहमवरोहं च संततं भावयन्निमौ।
शब्दब्रह्मणि निष्णातः शब्दातीतं प्रपद्येत् ।। 32 ।।


Source: लक्ष्मीतन्त्रम् -अध्यायः ५१


ओं हिरण्यवर्णायै नमः – हरिणीति नाम निरुच्यतेऽत्र। हरिणीवत् दूरधावनादिति, हरन्ति बध्नन्ति योगिन एनामिति च निर्वचनद्वयम् ।।


ऋद्धिः, वृद्धिः, समृद्धिः, विभूतिरिति चतस्रो लक्ष्मीसख्यः। तासां बीजमन्त्राः ऋं, वृं, सिं, विं इति  प्रत्येकं टं इति सहिताः ।। ओं ऋं टं ऋद्ध्यै स्वाहा इत्यादयो मन्त्राः।

ओं ह्रीं श्रीं नमो विष्णवे।

मानसिक उपासना रहश्य  

प्राणयन्ती प्राणती च प्राणा प्राणावबोधिनी।
परा बोधेति ता एता भ्रूमध्यान्तःस्थपद्मगाः ।। 46 ।।
रत्नदीपशिखाभेषु भावयेन्मां क्रमोत्क्रमात्।
गृणन्मां तारिकां दीर्घां दीर्घघण्टानदोपमाम् ।। 47 ।।
इत्थं मां चिन्तयन् योगी सुरूपां वापि संस्मरन्।
विहाय सकलं क्लेशं मद्भावं प्रतिपद्यते ।। 48 ।।

लक्षयेद्वापि पद्मेषु नवस्वेषु क्रमोत्क्रमात्।
आधारे त्रीणि पद्मानि हृदयाधोऽम्बुजत्रयम् ।। 49 ।।

मूर्ध्नोऽधस्रीणि पद्मानि नवपद्मविधिक्रमः।
द्वादशस्वथवाब्जेषु मूर्धाद्येषु द्विके द्विके ।। 50 ।।

षट्‌सु वा प्रथमाब्जेषु त्रिषु वा मूलहृद्भुवि।
भ्रूमध्ये चिन्तयेद्वापि तारिका तारनादिनीम् ।। 51 ।।

तद्बिन्दुं चिन्तयेत् पूर्वं मुद्गमात्रं सुभास्वरम्।
ततः सर्षपमात्रं तु ततश्चित्रमनाकृतिम् ।। 52 ।।

यो यो वा गृह्यते भावो घटकुड्यादिरूपवान्।
चिन्तयेत्तत्र तत्त्वानि यानि यावन्ति शास्रतः ।। 53 ।।
मन्मयीकृत्य तत्रैतान्यहंभावनया स्मरेत्।
हेतुमद्धेतुभूतानि लोके वस्तूनि यानि वा ।। 54 ।।
आश्रिताश्रयरूपाणि यानि स्वच्छघनानि वा।
भावतद्वत्स्वरूपाणि शुभाशुभमयानि च ।। 55 ।।
प्रसवाप्रसवात्मानि गुणगुण्याकृतीनि वा।
आधाराधेयभूतानि शक्तितद्वन्मयानि वा ।। 56 ।।
भोग्यभोक्तृस्वरूपाणि नारीनरमयानि वा।
क्रियाकर्तृस्वरूपाणि ह्युपायोपेयकानि वा ।। 57 ।।

स्रीपुंप्रत्ययरूपाणि शब्दरूपाणि यानि वा।
द्वन्द्वभूतानि वस्तूनि लोकेऽस्मिन् यानि कानिचित् ।। 58 ।।

तानि योगी धिया पश्येल्लक्ष्मीनारायणात्मना।
तन्त्रस्य परमं गुह्यं व्रतं शृणु पुरंदर ।। 59 ।।
योगिना यदनुष्ठेयं लक्ष्मीयोगविधिक्रमे।
प्रवर्तमानया पूर्वमादिदेवाज्जगद्विधौ ।। 60 ।।

आत्तं सीमन्तिनीरूपं मया साभिनिवेशया।
चिकीर्षुर्मत्प्रियं योगी लक्ष्मीतन्त्रविचक्षणः ।। 61 ।।

न स्मरेत् कामिनीनिन्दां कर्मणा मनसा गिरा।
यत्राहं तत्र तत्त्वानि यत्राहं तत्र देवताः ।। 62 ।।

यत्राहं तत्र पुण्यानि यत्राहं तत्र केशवः।
वनितायामहं तस्मान्नारी सर्वजगन्मयी ।। 63 ।।

योऽभिनिन्दति तां नारीं स लक्ष्मीमभिनिन्दति।
योऽभिनन्दति तां लक्ष्मीं त्रैलोक्यमभिनन्दति ।। 64 ।।
यो द्वेष्टि वनितां कांचित् स द्वेष्टि हरिवल्लभाम्।
यो हरेर्वल्लभां द्वेष्टि स द्वेष्टि सकलं जगत् ।। 65 ।।

ज्योत्स्नामिव स्रियं दृष्ट्वा यस्य चित्तं प्रसीदति।
नापध्यायति यत्किंचित् स मे प्रियतमो मतः ।। 66 ।।

यथा नारायणे नास्ति मयि वा शक्र किल्बिषम्।
यथा गवि यथा विप्रे यथा वेदान्तवेदिनि ।। 67 ।।
वनितायां तथा शक्र दुरितं नैव विद्यते।
अकल्मषा यथा गङ्गा यथा पुण्या सरस्वती ।। 68 ।।
अरुणा ह्यापगा यद्वत्तथा सीमन्तिनी वरा।
यदस्मि जननी नाम त्रयाणां जगतामहम् ।। 69 ।।
तदिदं नार्यवष्टम्भात् सा हि मे परमं बलम्।
त्रैलोक्यजननी देवी सर्वकामसमृद्धिनी ।। 70 ।।

मत्तनुर्वनिता साक्षाद्योगी कस्मान्न पूजयेत्।
न कुर्याद् वृजिननं नार्याः कुवृत्तं न स्मरेत् स्रियाः ।। 71 ।।

ऋते पापात् प्रियं नार्याः कार्यं योगमभीप्सता।
जननीमिव तां पश्येद्देवतामिव मामिव ।। 72 ।।

यो द्वेष्टि वनितां मोहात्तत्साहाय्यं न चाचरेत्।
इदं च शृणु देवेश यद्वक्ष्यामि प्रियोऽसि मे ।। 73 ।।

श्रुत्वा त्वयाप्यनुष्ठेयं नैव वाच्यं हि कस्यचित्।
या रूपिणी वरारोहा काचिद् दृष्टिपथं गता ।। 74 ।।

तस्यां मां भावयेद्योगी तारिकां मनसा गृणन्।
अलोलुपेन चित्तेन तस्या रूपमनुस्मरेत् ।। 75 ।।
प्राणं सूर्यं परात्मानं नारीहृदयपूरुषम्।
संस्मरेदनलं तत्र रूपलावण्यसंपदम् ।। 76 ।।
अशेषसंपदोपेतां तां नारीं मामनुस्मरेत्।
अनुस्मृत्य गृणन् ब्रह्म भावयेदेव मां धिया ।। 77 ।।
ततः समाधिसंपत्तौ तत्राविष्टा भवाम्यहम्।
स्तब्धसर्वाङ्गविस्रंसो मदावेशस्य लक्षणम् ।। 78 ।।

अलोलुपेन चित्तेन मां समाराध्य यत्नतः।
विरमेदेव युञ्जानः पाप्मानं परिवर्जयन् ।। 79 ।।

एतत्तु परदारेषु नैव कार्यं विजानता।
अयं समाधिर्यत्रासीत् सानुरज्यति तद् ध्रुवम् ।। 80 ।।

स्वस्रियामेव कुर्वीत साधारण्यामधापि वा।
विप्लवोऽपि न दोषोऽत्र यतो मद्भावभावना ।। 81 ।।

संस्पर्शजेषु भोगेषु यः संहर्षमहोदयः।
मद्रूपं तदनुध्यायेदविक्षिप्तेन चेतसा ।। 82 ।।

प्रशस्तविषयोत्थं यत् सुखं लेखनमन्थनात्।
स्मरतस्तत्प्रहर्षो यस्तद्भावमनुशीलयेत् ।। 83 ।।
चक्षुषा विषये दृष्टे या प्रीतिरुपजायते।
रसिते च श्रुते घ्राते सा मे सुखमयी तनुः ।। 84 ।।
यदृच्छोपनतेष्वेवं शब्दस्पर्शरसादिषु।
उपपत्तिरियं प्रोक्ता चेतो दमयतो यतेः ।। 85 ।।

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते।
आदिमन्तोऽन्तवन्तश्च न तेषु रमयेन्मनः ।। 86 ।।
निरस्तरजसा ध्वस्ततमसा सत्त्ववर्तिना।
यदन्तःकरणेनान्तर्व्यज्यते सुखमुत्तमम् ।। 87 ।।
आद्यन्तविधुरं तन्मे सुखं ज्ञानमयं वपुः।
तत्तादृग्व्यज्यते नैव संस्पर्शैर्विषयाश्रितैः ।। 88 ।।
अनुबध्नन्ति यद्‌ दुःखं विषयाः सुखवाहिनः।
मध्वन्तर्विषसंसृष्टं मधुरं यदि भक्षणे ।। 89 ।।
किं तेनानन्तरं यत्तद्व्यापादयति भक्षिणम्।
क्रुद्धस्य फणिनश्छायां यः श्रयेदातपार्दितः ।। 90 ।।
स सेवेत नरो भोगान् सुखाय स्पर्शसंभवान्।
साध्यान् दुःखव्ययायासैः सुदर्शान् दुःखमिश्रितान् ।। 91 ।।
तनीयसः क्षयिष्णूंश्च कः श्रयेद्विषयान् सुखी।
जप्यपूतमिताहारदिव्यसत्त्वतनूकृतौ ।। 92 ।।

रजस्तमोगुणौ क्षिण्वन् मत्प्रियाचारकर्मणा।
योगी समाधये शश्वद्यत्नेन दमयेन्मनः ।। 93 ।।

जिते मनसि वै शश्वद्विश्वं तेन विजीयते।
जिते मनसि शुद्धा मे तनुरुन्मिषति स्वयम् ।। 94 ।। श्रीः


Photo credit: Mr. Kartik Kundu [Advocate Howrah District Court]

अथ को वेदः – What is Veda

वेदलक्षणविचारः

अथ को वेदः ? इति चेत् । उच्यते – अपौरुषेयं वाक्यं वेदः । स च विधि- मन्त्र- नामधेय-निषेध-अर्थवादभेदात् पञ्चविधः ।

विधिमीमांसा

तत्र अज्ञातार्थज्ञापको वेदभागो विधिः । स च तादृशप्रयोजनवत् अर्थविधानेन अर्थवान् यादृशं च अर्थं प्रमाणान्तरेण अप्राप्तं विधत्ते यथा- “अग्निहोत्रं जुहुयात्स्वर्गकाम” इति विधिः मानान्तरेण अप्राप्तं स्वर्गप्रयोजनवद् होमं विधत्ते अग्निहोत्रहोमेन स्वर्गं भावयेत् इति वाक्यार्थबोधः ।

यत्र कर्म मानान्तरेण प्राप्तं तत्र तदुद्देशेन गुणमात्रं विधत्ते – यथा “दध्ना जुहोति” इत्यत्र होमस्य अग्निहोत्रं जुहुयात् इत्यनेन प्राप्तत्वात् होमोद्देशेन दधिमात्रविधानं ‘दध्ना होमं भावयेत्’ इति । यत्र तु उभयम् प्राप्तं तत्र विशिष्टं विधत्ते – यथा “ सोमेन यजेत्” इत्यत्र सोमयागयोः अप्राप्तत्वात् सोमविशिष्टयागविधानम् । सोमपदे मत्वर्थलक्षणया सोमवता यागेन ईष्टं भावयेत् इति वाक्यर्थबोधः ।


अर्थसंग्रहः – Artha Samgraha

देवताः – Devata

एवं स भगवान्देवो लोकानां हितकाम्यया ।
धर्मस्य परमं गुह्यं ममेदं सर्वं उक्तवान् । । १२.११७ । ।

सर्वं आत्मनि संपश्येत्सच्चासच्च समाहितः ।
सर्वं ह्यात्मनि संपश्यन्नाधर्मे कुरुते मनः । । १२.११८ । ।

आत्मैव देवताः सर्वाः सर्वं आत्मन्यवस्थितम् ।
आत्मा हि जनयत्येषां कर्मयोगं शरीरिणाम् । । १२.११९ । ।

खं संनिवेशयेत्खेषु चेष्टनस्पर्शनेऽनिलम् ।
पक्तिदृष्ट्योः परं तेजः स्नेहेऽपो गां च मूर्तिषु । । १२.१२० । ।

मनसीन्दुं दिशः श्रोत्रे क्रान्ते विष्णुं बले हरम् ।
वाच्यग्निं मित्रं उत्सर्गे प्रजने च प्रजापतिम् । । १२.१२१ । ।


Manu Smriti मनुस्मृतिः

त्रिदण्डं -tridandam

वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च ।
यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते । । १२.१० । ।

त्रिदण्डं एतन्निक्षिप्य सर्वभूतेषु मानवः ।
कामक्रोधौ तु संयम्य ततः सिद्धिं नियच्छति । । १२.११ ।


Manu Samhita [12th chapter]

ओंकार – Omkara – प्रणव

प्रणवे प्रणव इति ब्राह्मणम् ॥ २३ ॥

ओंकारं पृच्छामः

को धातुः
किं प्रातिपदिकम्
किं नामाख्यातम्
किं लिङ्गम्
किं वचनम्
का विभक्तिः
कः प्रत्ययः
कः स्वर उपसर्गो निपातः
किं वै व्याकरणम्
को विकारः
को विकारी
कतिमात्रः
कतिवर्णः
कत्यक्षरः
कतिपदः
कः संयोगः
किं स्थानानुप्रदानकरणं शिक्षुकाः किम् उच्चारयन्ति
किं छन्दः
को वर्ण – इति पूर्वे प्रश्राः

अथोत्तरे

मन्त्रः कल्पो ब्राह्मणम् ऋग् यजुः साम
कस्माद् ब्रह्मवादिन ओंकारम् आदितः कुर्वन्ति
किं दैवतम्
किं ज्योतिषम्
किं निरुक्तम्
किं स्थानम्
ब्का प्रकृतिः
च्किमध्यात्मम् इति
द्षट्त्रिंशत् प्रश्र्नाः
पूर्वोत्तराणां त्रयो वर्गा द्वादशकाः
एतैर् ओंकारं व्याख्यास्यामः ॥ २४ ॥

1.1.25

इन्द्रः प्रजापतिम् अपृच्छत्
भगवन्न् अभिष्टूय पृच्छामीति
पृच्छ वत्सेत्य् अब्रवीत्
किम् अयम् ओंकारः
कस्यः पुत्रः
किं चैतच् छन्दः
किं चैतद् वर्णः
किं चैतद् ब्रह्मा ब्रह्म सम्पद्यते
तस्माद् वै तद् भद्रम् ओंकारं पूर्वम् आलेभे
स्वरितोदात्त एकाक्षर ओंकार ऋग्वेदे
त्रैस्वर्योदात एकाक्षर ओंकारो यजुर्वेदे
दीर्घप्लुतोदात्त एकाक्षर ओंकारः सामवेदे
ह्रस्वोदात्त एकाक्षर ओंकारो ऽथर्ववेदे
उदात्तोदात द्विपद अ उ इत्य् अर्धचतस्रो मात्रा मकारे व्यञ्जनम् इत्य् आहुः
या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता वर्णेन
यस् तां ध्यायते नित्यं स गच्छेद् ब्राह्मं पदम्
या सा द्वितीया मात्रा विष्णुदेवत्या कृष्णा वर्णेन
यस् तां ध्यायते नित्यं स गच्छेद् वैष्णवं पदम्
या सा तृतीया मात्रैशानदेवत्या कपिला वर्णेन
यस् तां ध्यायते नित्यं स गच्छेद् ऐशानं पदम्
या सार्धचतुर्थी मात्रा सर्वदेवत्या व्यक्तीभूता खं विचरति शुद्धस्फटिकसन्निभा वर्णेन
यस् तां ध्यायते नित्यं स गच्छेत् पदम् अनामकम्

ओंकारस्य चोत्पत्तिः

विप्रो यो न जानाति तत्पुनरुपनयनम्
तस्माद् ब्राह्माणवचनम् आदर्तव्यं यथा लातव्यो गोत्रो ब्रह्मणः पुत्रः
गायत्रं च्छन्दः
शुक्लो वर्णः
ब्पुंसो वत्सः
च्रुद्रो देवता
द्ओंकारो वेदानाम् ॥ २५ ॥

1.1.26

को धातुर् इति
आपृधातुः
अवतिम् अप्य् एके
रूपसामान्याद् अर्थसामान्यं नेदीयस्
तस्माद् आपेर् ओंकारः सर्वम् आप्नोतीत्य् अर्थः कृदन्तम् अर्थवत्
प्रातिपदिकम् अदर्शनम्
प्रत्ययस्य नाम संपद्यते निपातेषु चैनं वैयाकरणा उदात्तं समामनन्ति तद् अव्ययीभूतम्
अन्वर्थवाची शब्दो न व्येति कदा चनेति
सदृशं त्रिषु लिङ्गेषु सर्वासु व विभक्तिषु वचनेषु च सर्वेषु यन् न व्येति तद् अव्ययम्
को विकारी च्यवते
प्रसारणम्
आप्नोतेर् आकरपकारौ विकार्यौ
आदित ओंकारो विक्रियते
द्वितीयो मकारः
एव द्विवर्ण एकाक्षर ओम् इत्य् ओंकारो निर्वृत्तः ॥ २६ ॥

1.1.27
कतिमात्र इति
आदेस् तिस्रो मात्राः
अभ्यादाने हि प्लवते
मकारश् चतुर्थीम्
किं स्थानम् इति
उभाव् ओष्ठौ स्थानम्
नादानुप्रदानकरणौ च द्विस्थानम् [एद्. नादान-, च्f. ড়त्यल् प्. २८]
संध्यक्षरम् अवर्णलेशः कण्ठ्यो यथोक्तशेषः
पूर्वो विवृतकरणस्थितश् च
द्वितीयस्पृष्टकरणस्थितश् च
न संयोगो विद्यते
आख्यातोपसर्गानुदात्तस्वरितलिङ्गविभक्तिवचनानि च संस्थानाध्यायिन आचार्याः पूर्वे बभूवुः
श्रवणाद् एव प्रतिपद्यन्ते न कारणं पृच्छन्ति
अथापरपक्षीयाणां कविः पञ्चालचण्डः परिपृच्छको बभूवांबु पृथगुद्गीथदोषान् भवन्तो ब्रुवन्त्व् इति
तद् वाच्य् उपलक्षयेद् वर्णाक्षरपदाङ्कशः
विभक्त्याम् ऋषिनिषेविताम् इति वाचं स्तुवन्ति
तस्मात् कारणं ब्रूमः
वर्णानाम् अयम् इदं भविष्यतीति
षडङ्गविदस् तत् तथाधीमहे
किं छन्द इति
गायत्रं हि छन्दः
गायत्री वै देवानाम् एकाक्षरा श्वेतवर्णा च व्याख्याता
द्वौ द्वादशकौ वर्गौ
एतद् वै व्याकरणं धात्वर्थवचनं शैक्ष्यं छन्दोवचनं च
अथोत्तरौ द्वौ द्वादशकौ वर्गौ वेदरहसिकी व्याख्याता
मन्त्रः कल्पो ब्राहमणम् ऋग् यजुः सामाथर्वाणि
एषा व्याहृतिश् चतुर्णां वेदानाम् आनुपूर्वेणों भूर् भुवः स्वर् इति व्याहृतयः ॥ २७ ॥

1.1.28
असमीक्ष्यप्रवल्हितानि श्रूयन्ते
द्वापरादाव् ऋषीणाम् एकदेशो दोषपतिर् इह चिन्ताम् आपेदे त्रिभिः सोमः पातव्यः समाप्तम् इव भवति
तस्माद् ऋग्यजुःसामान्य् अपक्रान्ततेजांस्य् आसन्
तन्त्र महर्षयः परिदेवयां चक्रिरे
महच् छोकभयं प्राप्ताः स्मः
न चैतत् सर्वैः समभिहितम्
ते वयं भगवन्तम् एवोपधावाम
सर्वेषाम् एव शर्म भवानीति
ते तथेत्य् उक्त्वा तूष्णीम् अतिष्ठन्
नानुपसन्नेभ्य इति
उपोपसीदामीति नीचैर् बभूवुः
स एभ्य उपनीय प्रोवाच
मामिकाम् एव व्याहृतिम् आदित आदितः कृणुध्वम् इति
एवं मामका आधीयन्ते नर्ते भृग्वङ्गिरोविद्भ्यः सोमः पातव्यः
ऋत्विजः पराभवन्ति
यजमानो रजसापध्वस्यति
श्रुतिश् चापध्वस्ता तिष्ठतीति
एवम् एवोत्तरोत्तराद् योगात् तोकं तोकं प्रशाध्वम् इति
एवं प्रतापो न पराभविष्यतीति
तथा ह तथा ह भगवन्न् इति प्रतिपेदिर आप्याययन्
ते तथा वीतशोकभया बभूवुस्
तस्माद् ब्रह्मवादिन ओंकारम् आदितः कुर्वन्ति ॥ २८ ॥


गोपथ ब्राह्मणम्/भागः १ – 1.1.24

यज्ञक्रमाः- Yagna Krama

अथातो यज्ञक्रमाः

अग्न्याधेयम्
अग्न्याधेयात् पूर्णाहुतिः
पूर्णहुतेर् अग्निहोत्रम्
अग्निहोत्राद् दर्शपूर्णमासौ

दर्शपूर्णमासाभ्याम् आग्रयणम्
आग्रयणाच् चातुर्मास्यानि
चातुर्मास्येभ्यः पशुबन्धः
पशुबन्धाद् अग्निष्टोमः
अग्निष्टोमाद् राजसूयः
राजसूयाद् वाजपेयः
वाजपेयाद् अश्वमेधः
अश्वमेधात् पुरुषमेधः
पुरुषमेधात् सर्वमेधः
सर्वमेधाद् दक्षिणावन्तः
दक्षिणावद्भ्यो ऽदक्षिणाः
अदक्षिणाः सहस्रदक्षिणे प्रत्यतिष्ठन्

ते वा एते यज्ञक्रमाः
स य एवम् एतान् यज्ञक्रमान् वेद यज्ञेन सात्मा सलोको भूत्वा देवान् अप्येतीति ब्राह्मणम् ॥ ७ ॥


गोपथ ब्राह्मणम्/भागः १ -1.5.7

भर्गः-Vargha

अथ संस्थिते संस्थिते सवने वाचयति मयि भर्गो मयि महो मयि यशो मयि सर्वम् इति

पृथिव्य् एव भर्गो ऽन्तरिक्ष एव महो द्यौर् एव यशो ऽप एव सर्वम्
अग्निर् एव भर्गो वायुर् एव मह आदित्य एव यशश् चन्द्रमा एव सर्वम् [ आदित्या]
वसव एव भर्गो रुद्रा एव मह आदित्या एव यशो विश्वेदेवा एव सर्वम्
गायत्र्य् एव भर्गस् त्रिष्टुब् एव महो जगत्य् एव यशो ऽनुष्टुब् एव सर्वम्

प्राच्य् एव भर्गः प्रतीच्य् एव मह उदीच्य् एव यशो दक्षिणैव सर्वम्
वसन्त एव भर्गो ग्रीष्म एव महो वर्षा एव यशः शरद् एव सर्वम्
त्रिवृद् एव भर्गः पञ्चदश एव महः सप्तदश एव यश एकविंश एव सर्वम्

ऋग्वेद एव भर्गो यजुर्वेद एव महः सामवेद एव यशो ब्रह्मवेद एव सर्वम्
होतैव भर्गो ऽध्वर्युर् एव मह उद्गातैव यशो ब्रह्मैव सर्वम्

वाग् एव भर्गः प्राण एव महश् चक्षुर् एव यशो मन एव सर्वम् ॥ १५ ॥


Gopath Brahman of Atharva Veda – 1.5.15