अथ पुरुषार्थोपदेशः दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये । स्वानुभूत्यैकमानाय नमः शान्ताय तेजसे ।। 1।। बोद्धारो मत्सरग्रस्ताः, प्रभवः स्मयदूषिताः । अबोधोपहताश्चान्ये, जीर्णमङ्के सुभाषितम् ।। 2 ।। अज्ञः सुखमवबोध्यः सुखतरमबबोध्यते विशेषज्ञः । ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न बोधयति ।। […]
दक्षिणामूर्तिस्तोत्रम् – Dakshina Murti Stotram
ॐ मौनं व्याख्या प्रकटितपरब्रह्मतत्वं युवानं
वर्शिष्ठान्ते वसदृषिगणैरावृतं ब्रह्मनिष्ठैः ।
आचार्येन्द्रं करकलित-चिन्मुद्रमानन्दमूर्तिं
स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे
आलवन्दारस्तोत्रम् – Albandar stotram

तस्मै नमो मधुजिदङ्घ्रिसरोजतत्त्व-
ज्ञानानुरागमहिमातिशयान्तसीम्ने ।
नाथाय नाथमुनयेऽत्र परत्र चापि
नित्यं यदीयचरणौ शरणं मदीयम्
क्रियानिघण्टु – वीरपाण्ड्यभूपाल Kriya Nighantu
श्री वीरपाण्ड्यभूपालविरचित-क्रियानिघण्टु-प्रारम्भः श्लोकेषु यथा- १. धातुप्रयोगपर्याये केचित्काव्योपयोगिनः। वीरपाण्ड्यक्षितीशेन वक्ष्यन्ते शिक्षितुं शिशून्॥ २. विद्यतेस्तिभवत्यत्र स्यादस्तुस्ताद्भवत्वपि। भूयाद्भवेत्तु भवताद्विद्यतां श्रीर्जगत्त्रये॥ ३. सम्पद्यते जायते च जजन्त्युत्पद्यते जगत्। सम्भवत्याविर्भवति प्रादुर्भवति सर्वदा॥ ४. तिष्ठत्यास्ते वर्तते च वसत्यत्र गृहे […]
पाणिनीय लिङ्गानुशासन वृत्तिः- Linganushasana Vritti
लिङ्गं ॥ अयमधिकारो वेदितव्य आशास्त्रपरिसमाप्तेः। स्त्री ॥ इदमधिकृतं वेदितव्यम्।
यत्र स्त्रीलिङ्गादन्यलिङ्गं शिष्यते तत्र सूत्र एव लिङ्गं वक्ष्यते। ऋकारान्ता मातृदुहितृस्वसृयातृननन्दरः। ऋकारान्ता
मात्रादयः पञ्चैव शब्दाः स्त्रीलिङ्गा भवन्ति। इयं माता। मात्रूः पश्य। इयं दुहिता। स्वसा याता ननान्दा। मात्रादिग्रहणं किम्।
श्रीमत्ताताचार्यकृत समासशिखामणिः- Samasa Sikhamani
विशेषणपूर्वपदो विशेष्यपूर्वपदो विशेषणोभयपद उपमान पूर्वपद उपमानोत्तरपद स्सम्भावनापूर्वपदोऽवधारणापूर्वपदश्चेति कृष्णश्चासौ कम्बळश्च कृष्णकम्बळ उत्तमः। द्विजश्चासौ कुञ्जरश्च द्विजकुञ्जर आगतः
Vijnana Bhairava Tantra-विज्ञानभैरव तन्त्रम्

न मे बन्धो न मोक्षो मे भीतस्यैता विभीषिकाः – प्रतिबिम्बम् इदम् बुद्धेर् जलेष्व् इव विवस्वतः………The breath is exhaled with the sound ‘Ha’ and inhaled again with the sound ‘Sa’. Thus the individual always repeats this particular mantra Hamsa
शिवापराधक्षमापणस्तोत्रं- SivaPradhaKshma Stotram
आदौ कर्म प्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं मां
विण्मूत्रामेध्यमध्ये क्वथयति नितरां जाठरो जातवेदाः।
यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो
मोहमुद्गरः- MohoMudgara
भज गोविन्दं भज गोवन्दं भज गोविन्दं मूढमते।
संप्राप्ते संनिहिते काले न हि न हि रक्षति डुकृञ्करणे
भगवन्मानसपूजा – Manaspuja

हृदम्भोजे कृष्णः सजलजलदश्यामलतनुः सरोजाक्षः स्रग्वी मकुटकटकाद्याभरणवान्।
शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां वहन्ध्येयो गोपीगणपरिवृतः कुङ्कुमचितः
अद्वैतानुभूतिः-AdvaitaNubhuti
अहमानन्दसत्यादिलक्षणः केवलः शिवः।
सदानन्दादिरूपं यत्तेनाहमचलोऽद्वयः-एकोऽपि द्वयवद्भाति यथाकाश उपाधितः।
एकोऽपि द्वयवत्पूर्णस्तथात्मायमुपाधितः
अद्वैतपञ्चरत्नम्-AdvaitaPachaRatnam
नाहं देहो नेन्द्रियाण्यन्तरङ्गो नाहंकारः प्राणवर्गो न बुद्धिः।
दारापत्यक्षेत्रवित्तादिदूरः साक्षी नित्यः प्रत्यगात्मा शिवोऽहम्
निरुक्तम्-यास्क Niruktam of Yaska

Nirukta of Yaska- ओं समाम्नायः समाम्नातः स व्याख्यातव्यस्तमिमं समाम्नाये निघंटव इत्याचक्षते निघंटवः कस्मान्निगमा इमे भवंति छंदोभ्यः समाहृत्य समाहृत्य समाम्नातास्ते निगंतव एव संतो निगमनान्निघंटव उच्यंत इत्यौपमन्यवोऽपि वाहननादेव स्युः समाहता भवंति यद्वा समाहृता भवंति तद्यान्येतानि चत्वारि पदजातानि नामाख्याते चोपसर्गनिपाताश्च तानीमानि भवंति तत्रैतन्नामाख्यातयोर्लक्षणं प्रदिशंति भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि तद्यत्रोभे भावप्रधाने भवतः पूर्वापरीभूतं भावमाख्यातेनाचष्टे व्रजति पचतीत्युपक्रमप्रभृत्यपवर्गपर्यंतं मूर्तं सत्त्वभूतं सत्त्वनामभिर्व्रज्या पक्तिरित्यद इति सत्त्वानामुपदेशो गौरश्चः पुरुषो हस्तीति भवतीति भावस्यास्ते शेते व्रजति तिष्ठतीतींद्रियनित्यं वचनमौदुंबरायणः
अष्टाङ्ग निघण्टु-Astanga Nighantu
सर्वज्ञाय नमस्कृत्य द्रव्याणां गूढवाचिनाम् । (१.१) अष्टाङ्गसंग्रहोक्तानां निघण्टुर् अभिधीयते ॥ (१.२) विदारीपञ्चाङ्गुलवृश्चिकालीवृश्चीवदेवाह्वयशूर्पपर्ण्यः । (२.१) कण्डूकरी जीवनाह्वस्वसंज्ञे द्वे पञ्चके गोपसुता त्रिपादी ॥ (२.२) विदार्यादिर् अयं हृद्यो बृंहणो वातपित्तहा । (३.१) शोषगुल्माङ्गमर्दोर्ध्वश्वासकासहरो गणः ॥ […]
कामसूत्रम्-साधारणम्

कामसूत्रम्-वात्स्यायनः- प्रमाणकालभावेभ्यो रतअवस्थापनम्/ प्रीतिविशेषाः/ आलिङ्गनविचाराः/ चुम्बनविकल्पाः/ नखरदनजातयः/ दशनच्छेद्यविधयः/ देश्या उपचाराः/ संवेशनप्रकाराः/ चित्ररतानि/ प्रहणनयोगाः/ तद्युक्ताश् च सीत्कृतौपक्रमाः/ पुरुषायितम्/ पुरुषोपसृप्तानि/ औपरिष्टकम्/ रतआरम्भअवसानिकम्/ रतविशेषाः/ प्रणयकलहः/ इति सांप्रयोगिकं द्वितीयम् अधिकरणम्/ अध्याया दश/ प्रकरणानि सप्तदश/
शतरुद्रीय-Sata Rudriya Stotram

नमस् ते रुद्र मन्यव उतो त इषवे नमः । नमस् ते अस्तु धन्वने बाहुभ्याम् उत ते नमः ॥
या त इषुः शिवतमा शिवम् बभूव ते धनुः । शिवा शरव्या या तव तया नो रुद्र मृडय ॥
या ते रुद्र शिवा तनूर् अघोराऽपापकाशिनी । तया नस् तनुवा शंतमया गिरिशन्ताभि चाकशीहि ॥
याम् इषुं गिरिशन्त हस्ते ॥
भाषिक परिशिष्ट सूत्रं-कात्यायन

भाषिकसूत्रम् Bhasika parisistha Sutram by Katyayan १.१ अथ ब्राह्मणस्वरसंस्कारनियमः १.२ द्वौ १.३ उक्तो मन्त्रस्वरः १.४ तेनात्र सिद्धम् १.५ उदात्तानुदात्तौ भाषिकस्तत्संधिः १.६ अनुदात्तावन्तरेणोदात्तः १.७ आप्रपूर्व आख्यातपरो न १.८ समासश्चानाख्यातपरोऽपि न १.९ अपूर्वश्च समासो […]
प्रत्यक्ष प्रमाणम्-वेदान्तपरिभाषा
तत्र स्मृतिव्यावृत्तं प्रमात्वमनधिगताबाधितार्थविषयकज्ञानत्वम् । स्मृतिसाधारणन्तु अबाधितार्थविषयकज्ञानत्वम् । नीरूपस्यापि कालस्येन्द्रियवेद्यत्वाभ्युपगमेन, धारावाहिकबुद्धेरपि पूर्वपूर्वज्ञानाविषयतत्तत्क्षणविशेषविषयकत्वेन न तत्राव्याप्तिः । किञ्च सिद्धान्ते धारावाहिकबुद्धिस्थले न ज्ञानभेदः । किन्तु यावद्घटस्फुरणं तावद्घटाकारान्तःकरणवृत्तिरेकैव, न तु नाना । वृत्तेः स्वविरोधिवृत्युत्पत्तिपर्यन्तं स्थायित्वाभ्युपगमात् । तथा च तत्प्रतिफलितचैतन्यरूपं घटादिज्ञानमपि तत्र तावत्कालीनमेकमेव इति नाव्याप्तिशङ्कापि ।
Mahabharata Maha Prasthanika Parva in Sanskrit

महाभारत: महाप्रस्थानिकपर्व-17
Mahabharata Stree Parva-11 in Sanskrit

महाभारत स्त्रीपर्वम् -11