Evidence in Yajnavalkya Smriti [Sanskrit]

[५. साक्षिप्रकरणम्]

तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः ।
धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः ॥ २.६८ ॥

त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियापराः ।
यथाजाति यथावर्णं सर्वे सर्वेषु वा स्मृताः ॥ २.६९ ॥

स्त्रीबालवृद्धकितव- मत्तोन्मत्ताभिशस्तकाः ।
रङ्गावतारिपाखण्डि- कूटकृद्विकलेन्द्रियाः ॥ २.७० ॥

पतिताप्तार्थसंबन्धि- सहायरिपुतस्कराः ।
साहसी दृष्टदोषश्च निर्धूताद्यास्त्वसाक्षिणः ॥ २.७१ ॥

उभयानुमतः साक्षी भवत्येकोऽपि धर्मवित् ।
सर्वः साक्षी संग्रहणे चौर्यपारुष्यसाहसे ॥ २.७२ ॥

साक्षिणः श्रावयेद्वादि- प्रतिवादिसमीपगान् ।
ये पातककृतां लोका महापातकिनां तथा ॥ २.७३ ॥

अग्निदानां च ये लोका ये च स्त्रीबालघातिनाम् ।
स तान् सर्वानवाप्नोति यः साक्ष्यमनृतं वदेत् ॥ २.७४ ॥

सुकृतं यत्त्वया किंचिज्जन्मान्तरशतैः कृतम् ।
तत्सर्वं तस्य जानीहि यं पराजयसे मृषा ॥ २.७५ ॥

अब्रुवन् हि नरः साक्ष्यमृणं सदशबन्धकम् ।
राज्ञा सर्वं प्रदाप्यः स्यात्षट्चत्वारिंशकेऽहनि ॥ २.७६ ॥

न ददाति हि यः साक्ष्यं जानन्नपि नराधमः ।
स कूटसाक्षिणां पापैस्तुल्यो दण्डेन चैव हि ॥ २.७७ ॥

द्वैधे बहूनां वचनं समेषु गुणिनां तथा ।
गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तमाः ॥ २.७८ ॥

यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् ।
अन्यथा वादिनो यस्य ध्रुवस्तस्य पराजयः ॥ २.७९ ॥

उक्तेऽपि साक्षिभिः साक्ष्ये यद्यन्ये गुणवत्तमाः ।
द्विगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः ॥ २.८० ॥

पृथक्पृथग्दण्डनीयाः कूटकृत्साक्षिणस्तथा ।
विवादाद्द्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः ॥ २.८१ ॥

यः साक्ष्यं श्रावितोऽन्येभ्यो निह्नुते तत्तमोवृतः ।
स दाप्योऽष्टगुणं दण्डं ब्राह्मणं तु विवासयेत् ॥ २.८२ ॥

वर्णिनां हि वधो यत्र तत्र साक्ष्यनृतं वदेत् ।
तत्पावनाय निर्वाप्यश्चरुः सारस्वतो द्विजैः ॥ २.८३ ॥

Lawline

[६. लेख्यप्रकरणम्]

यः कश्चिदर्थो निष्णातः स्वरुच्या तु परस्परम् ।
लेख्यं तु साक्षिमत्कार्यं तस्मिन् धनिकपूर्वकम् ॥ २.८४ ॥

समामासतदर्धाहर्- नामजातिस्वगोत्रकैः ।
सब्रह्मचारिकात्मीय- पितृनामादिचिह्नितम् ॥ २.८५ ॥

समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् ।
मतं मेऽमुकपुत्रस्य यदत्रोपरि लेखितम् ॥ २.८६ ॥

साक्षिणश्च स्वहस्तेन पितृनामकपूर्वकम् ।
अत्राहममुकः साक्षी लिखेयुरिति ते समाः ॥ २.८७ ॥

उभयाभ्यर्थितेनैतन्मया ह्यमुकसूनुना ।
लिखितं ह्यमुकेनेति लेखकोऽन्ते ततो लिखेत् ॥ २.८८ ॥

विनापि साक्षिभिर्लेख्यं स्वहस्तलिखितं तु यत् ।
तत्प्रमाणं स्मृतं लेख्यं बलोपधिकृतादृते ॥ २.८९ ॥

ऋणं लेख्यकृतं देयं पुरुषैस्त्रिभिरेव तु ।
आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते ॥ २.९० ॥

देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा ।
भिन्ने दग्धेऽथवा छिन्ने लेख्यमन्यत्तु कारयेत् ॥ २.९१ ॥

संदिग्धलेख्यशुद्धिः स्यात्स्वहस्तलिखितादिभिः ।
युक्तिप्राप्तिक्रियाचिह्न- संबन्धागमहेतुभिः ॥ २.९२ ॥

लेख्यस्य पृष्ठेऽभिलिखेद्दत्त्वा दत्त्वार्णिको धनम् ।
धनी वोपगतं दद्यात्स्वहस्तपरिचिह्नितम् ॥ २.९३ ॥

दत्त्वार्णं पाटयेल्लेख्यं शुद्ध्यै वान्यत्तु कारयेत् ।
साक्षिमच्च भवेद्यद्वा तद्दातव्यं ससाक्षिकम् ॥ २.९४ ॥

Lawline

Source :- Yajnavalkya Smriti [Sanaskrit]

Vedic poetry on Greatness-from Atharva Veda in Sanskrit

(११,७[९].१ ) उच्छिष्टे नाम रूपं चोच्छिष्टे लोक आहितः ।
(११,७[९].१ ) उच्छिष्ट इन्द्रश्चाग्निश्च विश्वमन्तः समाहितम् ॥१॥

(११,७[९].२ ) उच्छिष्टे द्यावापृथिवी विश्वं भूतं समाहितम् ।
(११,७[९].२ ) आपः समुद्र उच्छिष्टे चन्द्रमा वात आहितः ॥२॥

(११,७[९].३ ) सन्न् उच्छिष्टे असंश्चोभौ मृत्युर्वाजः प्रजापतिः ।
(११,७[९].३ ) लौक्या उच्छिष्ट आयत्ता व्रश्च द्रश्चापि श्रीर्मयि ॥३॥

(११,७[९].४ ) दृढो दृंह स्थिरो न्यो ब्रह्म विश्वसृजो दश ।
(११,७[९].४ ) नाभिमिव सर्वतश्चक्रमुच्छिष्टे देवताः श्रिताः ॥४॥

(११,७[९].५ ) ऋक्साम यजुरुच्छिष्ट उद्गीथः प्रस्तुतं स्तुतम् ।
(११,७[९].५ ) हिङ्कार उच्छिष्टे स्वरः साम्नो मेडिश्च तन् मयि ॥५॥

(११,७[९].६ ) ऐन्द्राग्नं पावमानं महानाम्नीर्महाव्रतम् ।
(११,७[९].६ ) उच्छिष्टे यज्ञस्याङ्गान्यन्तर्गर्भ इव मातरि ॥६॥

(११,७[९].७ ) राजसूयं वाजपेयमग्निष्टोमष्तदध्वरः ।
(११,७[९].७ ) अर्काश्वमेधावुच्छिष्टे जीवबर्हिर्मदिन्तमः ॥७॥

(११,७[९].८ ) अग्न्याधेयमथो दीक्षा कामप्रश्छन्दसा सह ।
(११,७[९].८ ) उत्सन्ना यज्ञाः सत्राण्युच्छिष्टेऽधि समाहिताः ॥८॥

(११,७[९].९ ) अग्निहोत्रं च श्रद्धा च वषट्कारो व्रतं तपः ।
(११,७[९].९ ) दक्षिणेष्टं पूर्तं चोच्छिष्टेऽधि समाहिताः ॥९॥

(११,७[९].१० ) एकरात्रो द्विरात्रः सद्यःक्रीः प्रक्रीरुक्थ्यः ।
(११,७[९].१० ) ओतं निहितमुच्छिष्टे यज्ञस्याणूनि विद्यया ॥१०॥ {१९}

(११,७[९].११ ) चतूरात्रः पञ्चरात्रः षड्रात्रश्चोभयः सह ।
(११,७[९].११ ) षोडशी सप्तरात्रश्चोच्छिष्टाज्जज्ञिरे सर्वे ये यज्ञा अमृते हिताः ॥११॥

(११,७[९].१२ ) प्रतीहारो निधनं विश्वजिच्चाभिजिच्च यः ।
(११,७[९].१२ ) साह्नातिरात्रावुच्छिष्टे द्वादशाहोऽपि तन् मयि ॥१२॥

(११,७[९].१३ ) सूनृता संनतिः क्षेमः स्वधोर्जामृतं सहः ।
(११,७[९].१३ ) उच्छिष्टे सर्वे प्रत्यञ्चः कामाः कामेन तातृपुः ॥१३॥

(११,७[९].१४ ) नव भूमीः समुद्रा उच्छिष्टेऽधि श्रिता दिवः ।
(११,७[९].१४ ) आ सूर्यो भात्युच्छिष्टेऽहोरात्रे अपि तन् मयि ॥१४॥
(११,७[९].१५ ) उपहव्यं विषूवन्तं ये च यज्ञा गुहा हिताः ।
(११,७[९].१५ ) बिभर्ति भर्ता विश्वस्योच्छिष्टो जनितुः पिता ॥१५॥

(११,७[९].१६ ) पिता जनितुरुच्छिष्टोऽसोः पौत्रः पितामहः ।
(११,७[९].१६ ) स क्षियति विश्वस्येशानो वृषा भूम्यामतिघ्न्यः ॥१६॥

(११,७[९].१७ ) ऋतं सत्यं तपो राष्ट्रं श्रमो धर्मश्च कर्म च ।
(११,७[९].१७ ) भूतं भविष्यदुच्छिष्टे वीर्यं लक्ष्मीर्बलं बले ॥१७॥

(११,७[९].१८ ) समृद्धिरोज आकूतिः क्षत्रं राष्ट्रं षडुर्व्यः ।
(११,७[९].१८ ) संवत्सरोऽध्युच्छिष्ट इडा प्रैषा ग्रहा हविः ॥१८॥

(११,७[९].१९ ) चतुर्होतार आप्रियश्चातुर्मास्यानि नीविदः ।
(११,७[९].१९ ) उच्छिष्टे यज्ञा होत्राः पशुबन्धास्तदिष्टयः ॥१९॥

(११,७[९].२० ) अर्धमासाश्च मासाश्चार्तवा ऋतुभिः सह ।
(११,७[९].२० ) उच्छिष्टे घोषिणीराप स्तनयित्नुः श्रुतिर्मही ॥२०॥ {२०}

(११,७[९].२१ ) शर्कराः सिकता अश्मान ओषधयो वीरुधस्तृणा ।
(११,७[९].२१ ) अभ्राणि विद्युतो वर्षमुच्छिष्टे संश्रिता श्रिता ॥२१॥

(११,७[९].२२ ) राद्धिः प्राप्तिः समाप्तिर्व्याप्तिर्मह एधतुः ।
(११,७[९].२२ ) अत्याप्तिरुच्छिष्टे भूतिश्चाहिता निहिता हिता ॥२२॥

(११,७[९].२३ ) यच्च प्राणति प्राणेन यच्च पश्यति चक्षुषा ।
(११,७[९].२३ ) उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२३॥

(११,७[९].२४ ) ऋचः सामानि छन्दांसि पुराणं यजुषा सह ।
(११,७[९].२४ ) उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२४॥

(११,७[९].२५ ) प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या ।
(११,७[९].२५ ) उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२५॥

(११,७[९].२६ ) आनन्दा मोदाः प्रमुदोऽभीमोदमुदश्च ये ।
(११,७[९].२६ ) उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२६॥

(११,७[९].२७ ) देवाः पितरो मनुष्या गन्धर्वाप्सरसश्च ये ।
(११,७[९].२७ ) उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२७॥ {२१}


उच्छिष्ट- Great

Why to observe Brahmacharya – Atharva Veda explaining

(११,५[७].१ ) ब्रह्मचारीष्णंश्चरति रोदसी उभे तस्मिन् देवाः संमनसो भवन्ति ।
(११,५[७].१ ) स दाधार पृथिवीं दिवं च स आचार्यं तपसा पिपर्ति ॥१॥

(११,५[७].२ ) ब्रह्मचारिणं पितरो देवजनाः पृथग्देवा अनुसंयन्ति सर्वे ।
(११,५[७].२ ) गन्धर्वा एनमन्वायन् त्रयस्त्रिंशत्त्रिशताः षट्सहस्राः सर्वान्त्स देवांस्तपसा पिपर्ति ॥२॥

(११,५[७].३ ) आचार्य उपनयमानो ब्रह्मचारिणं कृणुते गर्भमन्तः ।
(११,५[७].३ ) तं रात्रीस्तिस्र उदरे बिभर्ति तं जातं द्रष्टुमभिसंयन्ति देवाः ॥३॥

(११,५[७].४ ) इयं समित्पृथिवी द्यौर्द्वितीयोतान्तरिक्षं समिधा पृणाति ।
(११,५[७].४ ) ब्रह्मचारी समिधा मेखलया श्रमेण लोकांस्तपसा पिपर्ति ॥४॥

(११,५[७].५ ) पूर्वो जातो ब्रह्मणो ब्रह्मचारी घर्मं वसानस्तपसोदतिष्ठत्।
(११,५[७].५ ) तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥५॥

(११,५[७].६ ) ब्रह्मचार्येति समिधा समिद्धः कार्ष्णं वसानो दीक्षितो दीर्घश्मश्रुः ।
(११,५[७].६ ) स सद्य एति पूर्वस्मादुत्तरं समुद्रं लोकान्त्संगृभ्य मुहुराचरिक्रत्॥६॥

(११,५[७].७ ) ब्रह्मचारी जनयन् ब्रह्मापो लोकं प्रजापतिं परमेष्ठिनं विराजम् ।
(११,५[७].७ ) गर्भो भूत्वामृतस्य योनाविन्द्रो ह भूत्वासुरांस्ततर्ह ॥७॥

(११,५[७].८ ) आचार्यस्ततक्ष नभसी उभे इमे उर्वी गम्भीरे पृथिवीं दिवं च ।
(११,५[७].८ ) ते रक्षति तपसा ब्रह्मचारी तस्मिन् देवाः संमनसो भवन्ति ॥८॥

(११,५[७].९ ) इमां भूमिं पृथिवीं ब्रह्मचारी भिक्षामा जभार प्रथमो दिवं च ।
(११,५[७].९ ) ते कृत्वा समिधावुपास्ते तयोरार्पिता भुवनानि विश्वा ॥९॥

(११,५[७].१० ) अर्वागन्यः परो अन्यो दिवस्पृष्ठाद्गुहा निधी निहितौ ब्राह्मणस्य ।
(११,५[७].१० ) तौ रक्षति तपसा ब्रह्मचारी तत्केवलं कृणुते ब्रह्म विद्वान् ॥१०॥ {१४}

(११,५[७].११ ) अर्वागन्य इतो अन्यः पृथिव्या अग्नी समेतो नभसी अन्तरेमे ।
(११,५[७].११ ) तयोः श्रयन्ते रश्मयोऽधि दृढास्तान् आ तिष्ठति तपसा ब्रह्मचारी ॥११॥

(११,५[७].१२ ) अभिक्रन्दन् स्तनयन्न् अरुणः शितिङ्गो बृहच्छेपोऽनु भूमौ जभार ।
(११,५[७].१२ ) ब्रह्मचारी सिञ्चति सानौ रेतः पृथिव्यां तेन जीवन्ति प्रदिशश्चतस्रः ॥१२॥

(११,५[७].१३ ) अग्नौ सूर्ये चन्द्रमसि मातरिश्वन् ब्रह्मचार्यप्सु समिधमा दधाति ।
(११,५[७].१३ ) तासामर्चींषि पृथगभ्रे चरन्ति तासामाज्यं पुरुषो वर्षमापः ॥१३॥

(११,५[७].१४ ) आचार्यो मृत्युर्वरुणः सोम ओषधयः पयः ।
(११,५[७].१४ ) जीमूता आसन्त्सत्वानस्तैरिदं स्वराभृतम् ॥१४॥

(११,५[७].१५ ) अमा घृतं कृणुते केवलमाचार्यो भूत्वा वरुणः ।
(११,५[७].१५ ) यद्यदैछत्प्रजापतौ तद्ब्रह्मचारी प्रायछत्स्वान् मित्रो अध्यात्मनः ॥१५॥

(११,५[७].१६ ) आचार्यो ब्रह्मचारी ब्रह्मचारी प्रजापतिः ।
(११,५[७].१६ ) प्रजापतिर्वि राजति विराडिन्द्रोऽभवद्वशी ॥१६॥

(११,५[७].१७ ) ब्रह्मचर्येण तपसा राजा राष्ट्रं वि रक्षति ।
(११,५[७].१७ ) आचार्यो ब्रह्मचर्येण ब्रह्मचारिणमिछते ॥१७॥

(११,५[७].१८ ) ब्रह्मचर्येण कन्या युवानं विन्दते पतिम् ।
(११,५[७].१८ ) अनड्वान् ब्रह्मचर्येणाश्वो घासं जिगीषति ॥१८॥

(११,५[७].१९ ) ब्रह्मचर्येण तपसा देवा मृत्युमपाघ्नत ।
(११,५[७].१९ ) इन्द्रो ह ब्रह्मचर्येण देवेभ्यः स्वराभरत्॥१९॥

(११,५[७].२० ) ओषधयो भूतभव्यमहोरात्रे वनस्पतिः ।
(११,५[७].२० ) संवत्सरः सह ऋतुभिस्ते जाता ब्रह्मचारिणः ॥२०॥ {१५}

(११,५[७].२१ ) पार्थिवा दिव्याः पशव आरण्या ग्राम्याश्च ये ।
(११,५[७].२१ ) अपक्षाः पक्षिणश्च ये ते जाता ब्रह्मचारिणः ॥२१॥

(११,५[७].२२ ) पृथक्सर्वे प्राजापत्याः प्राणान् आत्मसु बिभ्रति ।
(११,५[७].२२ ) तान्त्सर्वान् ब्रह्म रक्षति ब्रह्मचारिण्याभृतम् ॥२२॥

(११,५[७].२३ ) देवानामेतत्परिषूतमनभ्यारूढं चरति रोचमानम् ।
(११,५[७].२३ ) तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥२३॥

(११,५[७].२४ ) ब्रह्मचारी ब्रह्म भ्राजद्बिभर्ति तस्मिन् देवा अधि विश्वे समोताः ।
(११,५[७].२४ ) प्राणापानौ जनयन्न् आद्व्यानं वाचं मनो हृदयं ब्रह्म मेधाम् ॥२४॥

(११,५[७].२५ ) चक्षुः श्रोत्रं यशो अस्मासु धेह्यन्नं रेतो लोहितमुदरम् ॥२५॥

(११,५[७].२६ ) तानि कल्पन् ब्रह्मचारी सलिलस्य पृष्ठे तपोऽतिष्ठत्तप्यमानः समुद्रे ।
(११,५[७].२६ ) स स्नातो बभ्रुः पिङ्गलः पृथिव्यां बहु रोचते ॥२६॥ {१६}

The realisation of Brahman -Atharva Veda

On realisation of  the truth of existence , a Rishi`s self declaration :

That it is ‘I’ – the source of everything-

(४,३०.१ ) अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।
(४,३०.१ ) अहं मित्रावरुनोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥१॥

(४,३०.२ ) अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।
(४,३०.२ ) तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तः ॥२॥

(४,३०.३ ) अहमेव स्वयमिदं वदामि जुष्टं देवानामुत मानुषाणाम् ।
(४,३०.३ ) यं कामये तन्तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥३॥

(४,३०.४ ) मया सोऽन्नमत्ति यो विपश्यति यः प्राणति य ईं शृणोत्युक्तम् ।
(४,३०.४ ) अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रुद्धेयं ते वदामि ॥४॥

(४,३०.५ ) अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ ।
(४,३०.५ ) अहं जनाय समदं कृणोमि अहं द्यावापृथिवी आ विवेश ॥५॥

(४,३०.६ ) अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।
(४,३०.६ ) अहं दधामि द्रविणा हविष्मते सुप्राव्या यजमानाय सुन्वते ॥६॥

(४,३०.७ ) अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे ।
(४,३०.७ ) ततो वि तिष्ठे भुवनानि विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥७॥

(४,३०.८ ) अहमेव वातैव प्र वाम्यारभमाणा भुवनानि विश्वा ।
(४,३०.८ ) परो दिवा पर एना पृथिव्यैतावती महिम्ना सं बभूव ॥८॥


 

What is Brahman – Atharva Veda indicating it

(१०,८.१ ) यो भूतं च भव्यं च सर्वं यश्चाधितिष्ठति ।
(१०,८.१ ) स्वर्यस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥१॥

(१०,८.२ ) स्कम्भेनेमे विष्टभिते द्यौश्च भूमिश्च तिष्ठतः ।
(१०,८.२ ) स्कम्भ इदं सर्वमात्मन्वद्यत्प्राणन् निमिषच्च यत्॥२॥
(१०,८.३ ) तिस्रो ह प्रजा अत्यायमायन् न्यन्या अर्कमभितोऽविशन्त ।
(१०,८.३ ) बृहन् ह तस्थौ रजसो विमानो हरितो हरिणीरा विवेश ॥३॥

(१०,८.४ ) द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत ।
(१०,८.४ ) तत्राहतास्त्रीणि शतानि शङ्कवः षष्टिश्च खीला अविचाचला ये ॥४॥

(१०,८.५ ) इदं सवितर्वि जानीहि षड्यमा एक एकजः ।
(१०,८.५ ) तस्मिन् हापित्वमिछन्ते य एषामेक एकजः ॥५॥

(१०,८.६ ) आविः सन् निहितं गुहा जरन् नाम महत्पदम् ।
(१०,८.६ ) तत्रेदं सर्वमार्पितमेजत्प्राणत्प्रतिष्ठितम् ॥६॥

(१०,८.७ ) एकचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा ।
(१०,८.७ ) अर्धेन विश्वं भुवनं जजान यदस्यार्धं क्व तद्बभूव ॥७॥

(१०,८.८ ) पञ्चवाही वहत्यग्रमेषां प्रष्टयो युक्ता अनुसंवहन्ति ।
(१०,८.८ ) अयातमस्य ददृशे न यातं परं नेदीयोऽवरं दवीयः ॥८॥

(१०,८.९ ) तिर्यग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम् ।
(१०,८.९ ) तदासत ऋषयः सप्त साकं ये अस्य गोपा महतो बभूवुः ॥९॥

(१०,८.१० ) या पुरस्ताद्युज्यते या च पश्चाद्या विश्वतो युज्यते या च सर्वतः ।
(१०,८.१० ) यया यज्ञः प्राङ्तायते तां त्वा पृछामि कतमा सा ऋचाम् ॥१०॥ {२६}

(१०,८.११ ) यदेजति पतति यच्च तिष्ठति प्राणदप्राणन् निमिषच्च यद्भुवत्।
(१०,८.११ ) तद्दाधार पृथिवीं विश्वरूपं तत्संभूय भवत्येकमेव ॥११॥

(१०,८.१२ ) अनन्तं विततं पुरुत्रानन्तमन्तवच्चा समन्ते ।
(१०,८.१२ ) ते नाकपालश्चरति विचिन्वन् विद्वान् भूतमुत भव्यमस्य ॥१२॥

(१०,८.१३ ) प्रजापतिश्चरति गर्भे अन्तरदृश्यमानो बहुधा वि जायते ।
(१०,८.१३ ) अर्धेन विश्वं भुवनं जजान यदस्यार्धं कतमः स केतुः ॥१३॥

(१०,८.१४ ) ऊर्ध्वं भरन्तमुदकं कुम्भेनेवोदहार्यम् ।
(१०,८.१४ ) पश्यन्ति सर्वे चक्षुषा न सर्वे मनसा विदुः ॥१४॥

(१०,८.१५ ) दूरे पूर्णेन वसति दूर ऊनेन हीयते ।
(१०,८.१५ ) महद्यक्षं भुवनस्य मध्ये तस्मै बलिं राष्ट्रभृतो भरन्ति ॥१५॥

(१०,८.१६ ) यतः सूर्यः उदेत्यस्तं यत्र च गछति ।
(१०,८.१६ ) तदेव मन्येऽहं ज्येष्ठं तदु नात्येति किं चन ॥१६॥

(१०,८.१७ ) ये अर्वाङ्मध्य उत वा पुराणं वेदं विद्वांसमभितो वदन्ति ।
(१०,८.१७ ) आदित्यमेव ते परि वदन्ति सर्वे अग्निं द्वितीयं त्रिवृतं च हंसम् ॥१७॥

(१०,८.१८ ) सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् ।
(१०,८.१८ ) स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ॥१८॥

(१०,८.१९ ) सत्येनोर्ध्वस्तपति ब्रह्मणार्वाङ्वि पश्यति ।
(१०,८.१९ ) प्राणेन तिर्यङ्प्राणति यस्मिन् ज्येष्ठमधि श्रितम् ॥१९॥

(१०,८.२० ) यो वै ते विद्यादरणी याभ्यां निर्मथ्यते वसु ।
(१०,८.२० ) स विद्वान् ज्येष्ठं मन्येत स विद्याद्ब्राह्मणं महत्॥२०॥ {२७}

(१०,८.२१ ) अपादग्रे समभवत्सो अग्रे स्वराभरत्।
(१०,८.२१ ) चतुष्पाद्भूत्वा भोग्यः सर्वमादत्त भोजनम् ॥२१॥

(१०,८.२२ ) भोग्यो भवदथो अन्नमदद्बहु ।
(१०,८.२२ ) यो देवमुत्तरावन्तमुपासातै सनातनम् ॥२२॥

(१०,८.२३ ) सनातनमेनमाहुरुताद्य स्यात्पुनर्णवः ।
(१०,८.२३ ) अहोरात्रे प्र जायेते अन्यो अन्यस्य रूपयोः ॥२३॥

(१०,८.२४ ) शतं सहस्रमयुतं न्यर्बुदमसंख्येयं स्वमस्मिन् निविष्टम् ।
(१०,८.२४ ) तदस्य घ्नन्त्यभिपश्यत एव तस्माद्देवो रोचतेष एतत्॥२४॥

(१०,८.२५ ) बालादेकमणीयस्कमुतैकं नेव दृश्यते ।
(१०,८.२५ ) ततः परिष्वजीयसी देवता सा मम प्रिया ॥२५॥

(१०,८.२६ ) इयं कल्याण्यजरा मर्त्यस्यामृता गृहे ।
(१०,८.२६ ) यस्मै कृता शये स यश्चकार जजार सः ॥२६॥

(१०,८.२७ ) त्वं स्त्री त्वं पुमान् असि त्वं कुमार उत वा कुमारी॥
(१०,८.२७ ) त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ॥२७॥

(१०,८.२८ ) उतैषां पितोत वा पुत्र एषामुतैषां ज्येष्ठ उत वा कनिष्ठः ।
(१०,८.२८ ) एको ह देवो मनसि प्रविष्टः प्रथमो जातः स उ गर्भे अन्तः ॥२८॥

(१०,८.२९ ) पूर्णात्पूर्णमुदचति पूर्णं पूर्णेन सिच्यते ।
(१०,८.२९ ) उतो तदद्य विद्याम यतस्तत्परिषिच्यते ॥२९॥

(१०,८.३० ) एषा सनत्नी सनमेव जातैषा पुराणी परि सर्वं बभूव ।
(१०,८.३० ) मही देव्युषसो विभाती सैकेनैकेन मिषता वि चष्टे ॥३०॥ {२८}

(१०,८.३१ ) अविर्वै नाम देवतर्तेनास्ते परीवृता ।
(१०,८.३१ ) तस्या रूपेणेमे वृक्षा हरिता हरितस्रजः ॥३१॥

(१०,८.३२ ) अन्ति सन्तं न जहात्यन्ति सन्तं न पश्यति ।
(१०,८.३२ ) देवस्य पश्य काव्यं न ममार न जीर्यति ॥३२॥

(१०,८.३३ ) अपूर्वेणेषिता वाचस्ता वदन्ति यथायथम् ।
(१०,८.३३ ) वदन्तीर्यत्र गछन्ति तदाहुर्ब्राह्मणं महत्॥३३॥

(१०,८.३४ ) यत्र देवाश्च मनुष्याश्चारा नाभाविव श्रिताः ।
(१०,८.३४ ) अपां त्वा पुष्पं पृछामि यत्र तन् मायया हितम् ॥३४॥

(१०,८.३५ ) येभिर्वात इषितः प्रवाति ये ददन्ते पञ्च दिशः सध्रीचीः ।
(१०,८.३५ ) य आहुतिमत्यमन्यन्त देवा अपां नेतारः कतमे त आसन् ॥३५॥

(१०,८.३६ ) इमामेषां पृथिवीं वस्त एकोऽन्तरिक्षं पर्येको बभूव ।
(१०,८.३६ ) दिवमेषां ददते यो विधर्ता विश्वा आशाः प्रति रक्षन्त्येके ॥३६॥

(१०,८.३७ ) यो विद्यात्सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः ।
(१०,८.३७ ) सूत्रं सूत्रस्य यो विद्याद्स विद्याद्ब्राह्मणं महत्॥३७॥

(१०,८.३८ ) वेदाहं सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः ।
(१०,८.३८ ) सूत्रं सूत्रस्याहं वेदाथो यद्ब्राह्मणं महद्॥३८॥

(१०,८.३९ ) यदन्तरा द्यावापृथिवी अग्निरैत्प्रदहन् विश्वदाव्यः ।
(१०,८.३९ ) यत्रातिष्ठन्न् एकपत्नीः परस्तात्क्वेवासीन् मातरिश्वा तदानीम् ॥३९॥

(१०,८.४० ) अप्स्वासीन् मातरिश्वा प्रविष्टः प्रविष्टा देवाः सलिलान्यासन्॥
(१०,८.४० ) बृहन् ह तस्थौ रजसो विमानः पवमानो हरित आ विवेश ॥४०॥

(१०,८.४१ ) उत्तरेणेव गयत्रीममृतेऽधि वि चक्रमे ।
(१०,८.४१ ) साम्ना ये साम संविदुरजस्तद्ददृशे क्व ॥४१॥

(१०,८.४२ ) निवेशनः संगमनो वसूनां देव इव सविता सत्यधर्मा ।
(१०,८.४२ ) इन्द्रो न तस्थौ समरे धनानाम् ॥४२॥

(१०,८.४३ ) पुण्डरीकं नवद्वारं त्रिभिर्गुणेभिरावृतम् ।
(१०,८.४३ ) तस्मिन् यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥४३॥

(१०,८.४४ ) अकामो धीरो अमृतः स्वयंभू रसेन तृप्तो न कुतश्चनोनः ।
(१०,८.४४ ) तमेव विद्वान् न बिभाय मृत्योरात्मानं धीरमजरं युवानम् ॥४४॥ {२९}


 

What is Atman

कोऽयम् । आत्मेति वयमुपास्महे ।
कतरः स आत्मा ।
येन वा पश्यति येन वा शृणोति येन वा गन्धाञ्जिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति ॥ ३.१ ॥

यदेतद्धृदयं मनश्चैतत् ।
सञ्ज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुरसुः कामो वश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ॥ ३.२ ॥

एष ब्रह्मा ।
एष इन्द्रः ।
एष प्रजापतिः ।
एते सर्वे देवाः ।
इमानि च पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीत्येतानीमानि क्षुद्रमिश्राणीव बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरम् ।
सर्वं तत्प्रज्ञानेत्रम् ।
प्रज्ञाने प्रतिष्ठितम् ।
प्रज्ञानेत्रो लोकः ।
प्रज्ञा प्रतिष्ठा ।
प्रज्ञानं ब्रह्म ॥ ३.३ ॥

स एतेन प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वामृतः समभवत्समभवत् ॥ ३.४ ॥

 ऐतरेयोपनिषद्‌

Explanation as per Sankaracharya

३.१

बह्मविद्यासाधनकृतसर्वात्मभावफलावाप्तिं वामदेवाद्याचार्यपरम्परया श्रुत्यावद्योत्यमानां ब्रह्मवित्परिषद्यत्यन्तप्रसिद्धामुपलभमाना मुमुक्षवो ब्राह्मण अधुनातना ब्रह्मजिज्ञासवोऽनित्यात्साध्यसाधनलक्षणात्संसारादाजीवभावाद्व्याविवृत्सवो विचारयन्तोऽन्योन्यं पृच्छन्ति कोऽयमात्मेति? कथम् ?

भाष्य ३.१

यमात्मानमयमात्मेति साक्षाद्वयमुपास्महे कः स आत्मेति यं चात्मानमयमात्मेति साक्षादुपासीनो वामदेवोऽमृतः समभवत्तमेव वयनमप्युपास्महे को नु खलु स आत्मेति ।

एवं जिज्ञासापूर्वमन्योन्यं पृच्छतामतिक्रान्तविशेषविषयश्रुतिसंस्कारजनिता स्मृतिरजायत ।
ऽतं प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषम्ऽऽस एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यतऽ एतमेव पुरुषम् ।
अत्र द्वे ब्रह्मणी इतरेतरप्रातिकूल्येन प्रतिपन्ने इति ।
ते चास्यपिण्डस्यात्मभूते ।
तयोरन्यतर आत्मोपास्यो भवितुमर्हति ।
योऽत्रोपास्यः कः आत्मेति विशेषनिर्धारणार्थं पुनरन्योन्यं पप्रच्छुर्विचारयन्तः ।

पुनस्तेषां विचारयतां विशेषविचारणास्पदविषया मतिरभूत् ।
कथम्? द्वेवस्तुनि अस्मिन् पिण्ड उपलभ्येते ।
अनेकभेदभिन्नेन करणेन येनोपलभते ।
यश्चैक उपलभ्येते ।
करणान्तरोपलब्धविषयस्मृतिप्रतिसन्धानात् ।
तत्र न तावद्येनोपलभते स आत्मा भवितुमर्हति ।

केन पुनरुपलभत इत्युच्यते येन वा चक्षुर्भूतेन रूपं पश्यति ।
येन वा श्रुणोति श्रोत्रभूतेन शब्दम्, येन वा घ्राणभूतेन गन्धानाजिघ्रति, येन वा वाक्करणभूतेन वाचं नामात्मिकां व्याकरोति गौरश्व इत्येवमाद्यां साध्वसाध्विति च, येन वा जिह्वाभूतेन स्वादु चास्वादु च विजानातीति ॥१॥

३.२

किं पुनस्तदेवैकमनेकधा भिन्नं करणमित्युच्यते

यदेतद्धृदयं मनश्चैतत् ।
सञ्ज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुरसुः कामो वश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ॥ ३.२ ॥

भाष्य ३.२

यदुक्तं पुरस्तात्प्रजानां रेतो हृदयं हृदयस्य रेतो मनो मनसा सृष्टा आपश्च वरुणश्च हृदयान्मनो मनसश्चन्द्रमाः ।
तदेवैतद्धृदयं मनश्च एकमेव तदनेकधा ।
एतेनान्तःकरणेनैकेन चक्षुर्भूतेन रूपं पश्यति श्रोत्रभूतेन शृणोति घ्राणभूतेन जिघ्रति वाग्भूतेन वदति जिह्वाभूतेन रसयति स्वेनैव विकल्पनारूपेण मनसा विकल्पयति हृदयरूपेणाध्यवस्यति ।

तस्मात्सर्वकरणविषयव्यापारकमेकमिदं करणं सर्वोपलब्ध्यर्थमुपलब्धुः ।

तथा च कौषीतकीनां”प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति ।
प्रज्ञा चक्षुः समारुह्य चक्षुषा सर्वाणि रूपाण्याप्नोति”(३ । ३) इत्यादि ।
वाजसनेयके च “मनसा ह्येव पश्यति मनसा शृणोति हृदयेन हि रूपाणि जानाति”(बृ.उ.१ । ५ । ३) इत्यादि ।
तस्माधृदयमनोवाच्यस्य सर्वोपलब्धिकरत्वं प्रसिद्धम् ।
तदात्मकश्च प्राणो”यो वै प्राणः सा प्रज्ञा यो वै प्रज्ञा स प्राणः”(कौषी.३ । ३) इति हि ब्राह्मणम् ।

करणसंहतिरूपश्च प्राण इत्यवोचाम प्राणसंवादादौ ।
तस्माद्यत्पद्भ्यां प्रापद्यत तद्ब्रह्म तदुपलब्धुरुपलब्धिकरणत्वेन गुणभूतत्वान्नैव तद्वस्तु ब्रह्मोपास्यात्मा भवितुमर्हति ।
पारिशेष्याद्यस्योपलब्धुरुपलब्ध्यर्थं एतस्य हृदयस्य मनोरूपस्य करणस्य वृत्तयो वक्ष्यमाणाः ।
स उपलब्धोपास्य आत्मानोऽस्माकं भवितुमर्हतीति निश्चयं कृतवन्तः ।

तदन्तःकरणोपाधिस्थस्योपलब्धुः प्रज्ञारूपस्य ब्रह्मण उपलब्ध्यर्था या अन्तःकरणवृत्तयो बाह्यान्तर्वर्तिविषयविषयास्ता इमा उच्यन्ते ।
संज्ञानं संज्ञप्तिश्चेतनभावः, आज्ञानमाज्ञप्तिरीश्वरभावः विज्ञानं कलादिपरिज्ञानम्, प्रज्ञानं प्रज्ञप्तिः प्रज्ञता, मेधाग्रन्थधारणसामर्थ्यं दृष्टिरिन्द्रियद्वारा सर्वविषयोपलब्धिः, धृतिर्धारणमवसन्नानां शरीरेन्द्रियाणां ययोत्तम्भनं भवति धृत्या शरीरमुद्वहन्तीति हि वदन्ति, मतिर्मननम्, मनीषा तत्र स्वातन्त्र्यम्. जूतिश्चेतसो रुजादिदुःखित्वभावः स्मृतिः स्मरणम्, संकल्पः शुक्लकृष्णादिभावेन संकल्पनं रूपादीनाम्, क्रतुरध्यवसायः असुः प्राणनादिजीवनक्रियानिमित्ता वृत्तिः, कामो
ऽसंनिहितविषयाकाङ्क्षा तृष्णा, वशः स्त्रीव्यतिकराद्यभिलाषः, इत्येवमाद्या अन्तःकरणवृत्तयः प्रज्ञप्तिमात्रस्योपलब्धुरुपलब्ध्यर्थत्वाच्छुद्धप्रज्ञानरूपस्य ब्रह्मण उपाधिभूतास्तदुपाधिजनितगुणनामधेयानि भवन्ति संज्ञानादीनि ।
सर्वाण्येव एतानि प्रज्ञानस्य नामधेयानि भवन्ति न स्वतः साक्षात् ।
तथा चोक्तं”प्राणन्नेव प्राणो नाम भवति”(बृ.उ.१ । ४ । ७) इत्यादि ॥२॥

इमानि च पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीत्येतानीमानि क्षुद्रमिश्राणीव बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरम् ।

भाष्य ३.३

स एष प्रज्ञानरूप आत्मा ब्रह्मापरं सर्वशरीरस्थः प्राणः प्रज्ञात्मा ।
अन्तःकरणोपाधिष्वनुप्रविष्टो जलभेदगतसूर्यप्रतिबिम्बवद्धिरण्यगर्भः प्राणः प्रज्ञात्मा एष एव इन्द्रो गुणाद्देवराजो वा एष प्रजापतिर्यः प्रथमजः शरीरी ।
यतो मुखादिनिर्भेदद्वारेणाग्न्यादयो लोकपाला जाताः स प्रजापतिरेष एव ।
येऽप्येतेऽग्न्यादयः सर्वे देवा एष एव ।

इमानि च सर्वशरीरोपादानभूतानि पञ्च पृथिव्यादीनि महाभूतान्यन्नान्नादत्वलक्षणान्येतानि किञ्चेमानि च क्षुद्रमिश्राणि क्षुद्रैरल्पकैर्मिश्राणि इव शब्दोऽनर्थकः सर्पादीनि बीजानि कारणानीतराणि चेतराणि च द्वैराश्येन निर्दिश्यमानानि ।

कानि तानि! उच्यन्ते अण्डजानि पक्ष्यादीनि, जारुजानि जरायुजानि मनुष्यादीनि, स्वेदजादीनि यूकादीनि, उद्भिजानि च वृक्षादीनि, अश्वा गावः पुरुषा हस्तिनोऽन्यच्च यत्किञ्चेदं प्राणिजातम्, किं तत्? जङ्गमं यच्चलति पद्भ्यां गच्छति ।
यच्च पतत्रि आकाशेन पतनशीलम् ।

यच्च स्थावरमचलम् ।
सर्वं तदेष एव ।
सर्वं तदशेषतः प्रज्ञानेत्रम् ।
प्रज्ञप्तिः प्रज्ञा तच्च ब्रह्मैव ।
नीयतेऽनेनेति नेत्रं प्रज्ञा नेत्रं यस्य तदिदं प्रज्ञानेत्रम् ।
प्रज्ञाने ब्रह्मण्युत्पत्तिस्थितिलयकालेषु प्रतिष्ठितं प्रज्ञाश्रयमित्यर्थः ।
प्रज्ञानेत्रो लोकः पूर्ववत् ।
प्रज्ञाचक्षुर्वा सर्व एव लोकः प्रज्ञा प्रतिष्ठा सर्वस्य जगतः ।
तस्मात्प्रज्ञानं ब्रह्म ।

तदेतत्प्रत्यस्तमितसर्वोपाधिविशेषं सन्निरञ्जनं निर्मलं निष्क्रियं शान्तमेकमद्वयं”नेति नेति”इति (बृ.उ.३ । ९ । २६) सर्वविशेषापोहसंवेद्यं सर्वशब्दप्रत्ययागोचरम् ।
तदप्यन्तविशुद्धप्रज्ञोपाधिसंबन्धेन सर्वज्ञमीश्वरं सर्वसाधारणाव्याकृतजगद्बीजप्रवर्तकं नियन्तृत्वादन्तर्यामिसंज्ञं भवति ।
तदेव व्याकृतजगत्बीजभूतबुद्ध्यात्माभिमानलक्षणहिरण्यगर्भसंज्ञं भवति ।
तदेवान्तरण्डोद्भूतप्रथमशरीरोपाधिमद्विराट्प्रजापतिसंज्ञं भवति ।
तद्भूताग्न्याद्युपाधिमद्देवतासंज्ञं भवति ।
तथा विशेषशरीरोपाधिष्वपि ब्रह्मादिस्तम्बपर्यन्तेषु तत्तन्नामरूपलाभो ब्रह्मणः ।
तदेवैकं सर्वोपाधिभेदभिन्नं सर्वैः प्राणिभिस्तार्किकैश्च सर्वप्रकारेण ज्ञायते विकल्प्यते चानेकधा ।
“एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् ।
इन्द्रमेकेऽपरे प्राणमपरे ब्रह्म शाश्वतम्”(मनु.१२ । १२३) इत्याद्या स्मृतिः ॥३॥

३.४

स एतेन प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वामृतः समभवत्समभवत् ॥ ३.४ ॥

भाष्य ३.४

स वामदेवोऽन्यो वैवं यथोक्तं ब्रह्म वेद प्रज्ञेनात्मना येनैव प्रज्ञेनात्मना पूर्वे विद्वांसोऽमृता अभूवंस्तथायमपि विद्वानेतेनैव प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्य इत्यादि व्याख्यातम् ।
अस्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वा अमृतः समभवत्समभवदित्योमिति ॥४॥

ओं तत्सत्

Vedic Atman is not ‘Soul’ , Not ‘Spirit’ , not  Biblical ‘Breath’ – it can not be translated in english.

at/on death, body is like a torch light without battery – nothing exist – simply nothing- there is nothing ‘coming out’ and going to somehere else.

# a chopped head – the brain record images and statement till after chopping the head for few seconds- initially it experience immence pain – then no pain at all – after recording few things and experience the outer world for few seconds, bio- electricity and signals finished- cells damaged permanently.

take out a live kidny from a dead body – there is no atman in it – put it in a living body it shall be part of a ‘new’ Atman.

Who is Lord Indra in Veda

स जातो भूतान्यभिव्यैख्यत्किमिहान्यं वावदिषदिति ।
स एतमेव पुरुषं ब्रह्म ततममपश्यदिदमदर्शमिती ३ ॥ १.३.१३ ॥

तस्मादिदन्द्रो नाम ।
इदन्द्रो ह वै नाम ।
तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण ।
परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः ॥ १.३.१४ ॥
 ऐतरेयोपनिषद्‌ 

Answer as per Sankaracharya

भाष्य १,३.१३

स जातः शरीरे प्रविष्टो जीवात्मना भूतान्यभिव्यैख्यद्व्याकरोत् ।
स कदाचित्परमकारुणिकेनाचार्येणात्मज्ञानप्रबोधकृच्छब्दिकायां वेदान्तमहावाक्यभेर्यां तत्कर्णमूले ताड्यमानायामेतमेव सृष्ट्यादिकर्तृत्वेन प्रकृतं पुरुषं पुरि शयानमात्मानं ब्रह्म बृहत्ततमं तकारेणैकेन लुप्तेन तततमं व्याप्ततमं परिपूर्णमाकाशवत्प्रत्यबुध्यतापश्यत् ।
कथम्? इदं ब्रह्म ममात्मनः ।
स्वरूपमदर्शं दृष्टवानस्मि, अहो इति,ॠ.१.३.१२ इचारणार्था प्लुतिः पूर्वम् ॥१३॥

भाष्य १,३.१४

तस्मादिदं पश्यतीतीदन्द्रो नाम परमात्मा ।
इदन्द्रो ह वै नाम प्रसिद्धो लोक ईश्वरः ।
तमेवमिदन्द्रं सन्तमिन्द्र इति परोक्षेण परोक्षाभिधानेनाचक्षते ब्रह्मविदः संव्यवहारार्थम्

पूज्यतमत्वात्प्रत्यक्षनामग्रहणभयात् ।
तथा हि परोक्षाप्रियाः परोक्षनामग्रहणप्रिया इव एव हि यस्माद्देवाः, किमुत सर्वदेवानामपि देवो महेश्वरः ।
द्विवचनं प्रकृताध्यायपरिसमाप्त्यर्थम् ॥१४॥


 

Why self-contained Brahman created this universe

आत्मा वा इदमेक एवाग्र आसीत् ।
नान्यत्किञ्चन मिषत् ।
स ईक्षत लोकान्नु सृजा इति ॥ १,१.१ ॥
स ईक्षतेमे नु लोकाः । लोकपालान्नु सृजा इति ।
सोऽद्भ्य एव पुरुषं समुद्धृत्यामूर्च्छयत् ॥ १,१.३ ॥ ऐतरेयोपनिषद्‌

Answer as per Sankaracharya

भाष्य १,१.१

आत्मा आप्नोतेरत्तेरततेर्वा परः सर्वज्ञः सर्वशक्तिरशनायादिसर्वसंसारधर्मवर्जितो नित्यशुद्धबुद्धमुक्तस्वभावोऽजोऽजरोऽमरोमृतोऽभयोऽद्वयो वै इदं यदुक्तं नामरूपकर्मभेदभिन्नञ्जगदात्मैवैकोऽग्रे जगतः सृष्टेः प्रागासीत् ।
किं नेदानीं स एवैकः
न ।
कथं तर्ह्यासीदित्युच्यते यद्यपीदानीं स एवैकस्तथाप्यस्ति विशेषः ।
प्रागुत्पत्तेरव्याकृतनामरूपभेदमात्मभूतमात्मैकशब्दप्रत्ययगोचरं जगदिदानीं व्याकृतनामरूपभेदत्वादनेकशब्दप्रत्ययगोचरमात्मैकशब्दप्रत्ययगोचर चेति विशेषः ।
यथा सलिलात्पृथक्फेननामरूपव्याकरणात्प्राक्सलिलैकशब्दप्रत्ययगोचरमेव फेनम्, यदा सलिलात्पृथङ्नामरूपभेदेन व्याकृतं भवति तदा सलिलं फेनं चेत्यनेकशब्दप्रत्ययभाक्सलिलमेवेति चैकशब्दप्रत्ययभाक्च फेनं भवति तद्वत् ।
नान्यत्किञ्चन न किञ्चिदपि मिषन्निमिषद्व्यापारवदितरद्वा ।
यथा सांख्यानामनात्मपक्षपाति स्वतन्त्रं प्रधानं यथा च काणादानामणवो न तद्वदिहान्यदात्मनः किञ्चिदपि वस्तु विद्यते किं तर्हि ! आत्मैवैक आसीदित्यभिप्रायः ।
स सर्वज्ञस्वाभाव्यादात्मा एक एव सन्नीक्षत ।
ननु प्रागुत्पत्तेरकार्यकरणत्वात्कथमीक्षितवान् ।
नायं दोषः सर्वज्ञस्वाभाव्यात्तथा च मन्त्रवर्णः”अपाणिपादो जवनो ग्रहीता”(श्वे.उ.३ । १९) इत्यादिः ।
केनाभिप्रायेणेत्याह लोकानम्भःप्रभृतीन् प्राणिकर्मफलोपभोगस्थानभूतान्नु सृजै सृजेऽहमिति ॥१॥

भाष्य १,१.३

स ईश्वरः पुनरेवेक्षत ।
इमे नु अम्भःप्रभृतयो मया सृष्टा लोकाः परिपालयितृवर्जिता विनश्येयुः तस्मादेषां रक्षणार्थं लोकपालांल्लोकानां पालयितृ सृजै सृजेऽहमिति ।

एवमीक्षित्वा सोऽद्भ्य एवं अप्प्रधानेभ्य एव पञ्चभूतेभ्यो येभ्योऽम्भःप्रभृतीन्सृष्टवांस्तेभ्य एवेत्यर्थः ।
पुरुषं पुरुषाकारं शिरःपाण्यादिमन्तं समुद्धृत्य अद्भ्यः समुपादाय मृत्पिण्डमिव कुलालाः पृथिव्याः, अमूर्छयत्मूर्छितवान् संपिण्डितवान् स्वावयवसंयोजनेनेत्यर्थः ॥३॥


 

Pitre Yagna in Satapath Brahman[पितृयज्ञः]

२.६.१. पितृयज्ञः

महाहविषा ह वै देवा वृत्रं जघ्नुः । तेनो एव व्यजयन्त येयमेषां विजितिस्तामथ यानेवैषां तस्मिन्त्संग्रामेऽघ्नंस्तान्पितृयज्ञेन समैरयन्त पितरो वै त आसंस्तस्मात्पितृयज्ञो नाम – २.६.१.[१]

तद्वसन्तो ग्रीष्मो वर्षाः । एते ते ये व्यजयन्त शरद्धेमन्तः शिशिरस्त उ ते यान्पुनः समैरयन्त – २.६.१.[२]

अथ यदेष एतेन यजते । तन्नाह न्वेवैतस्य तथा कं चन घ्नन्तीति देवा अकुर्वन्निति न्वेवैष एतत्करोति यमु चैवैभ्यो देवा भागमकल्पयंस्तमु चैवैभ्य एष एतद्भागं करोति यानु चैव देवाः समैरयन्त तानु चैवैतदवति स्वानु चैवैतत्पितॄंञ्छ्रेयांसं लोकमुपोन्नयति यदु चैवास्यात्रात्मनोऽचरणेन हन्यते वा मीयते वा तदु चैवास्यैतेन पुनराप्यायते तस्माद्वा एष एतेन यजते – २.६.१.[३]

स पितृभ्यः सोमवद्भ्यः । षट्कपालं पुरोडाशं निवपति सोमाय वा पितृमते षड्वा ऋतव ऋतवः पितरस्तस्मात्षट्कपालो भवति – २.६.१.[४]

अथ पितृभ्यो बर्हिषद्भ्यः । अन्वाहार्यपचने धानाः कुर्वन्ति ततोऽर्धाः पिंषन्त्यर्धा इत्येव धाना अपिष्टा भवन्ति ता धानाः पितृभ्यो बर्हिषद्भ्यः – २.६.१.[५]

अथ पितृभ्योऽग्निष्वात्तेभ्यः । निवान्यायै दुग्धे सकृदुपमथित एकशलाकया मन्थो भवति सकृदु ह्येव पराञ्चः पितरस्तस्मात्सकृदुपमथितो भवत्येतानि हवींषि भवन्ति – २.६.१.[६]

तद्ये सोमेनेजानाः । ते पितरः सोमवन्तोऽथ ये दत्तेन पक्वेन लोकं जयन्ति ते पितरो बर्हिषदोऽथ ये ततो नान्यतरच्चन यानग्निरेव दहन्त्स्वदयति ते पितरोऽग्निष्वात्ता एत उ ये पितरः – २.६.१.[७]

स जघनेन गार्हपत्यम् । प्राचीनावीती भूत्वा दक्षिणासीन एतं षट्कपालम्पुरोडाशं गृह्णाति स तत एवोपोत्थायोत्तरेणान्वाहार्यपचनं दक्षिणा तिष्ठन्नवहन्ति सकृत्फलीकरोति सकृदु ह्येव पराञ्चः पितरस्तस्मात्सकृत्फलीकरोति – २.६.१.[८]

स दक्षिणैव दृषदुपले उपदधाति । दक्षिणार्धे गार्हपत्यस्य षट् कपालान्युपदधाति तद्यदेतां दक्षिणां दिशं सचन्त एषा हि दिक्पितॄणां तस्मादेतां दक्षिणां दिशं सचन्ते – २.६.१.[९]

अथ दक्षिणेनान्वाहार्यपचनम् । चतुःस्रक्तिं वेदिं करोत्यवान्तरदिशोऽनु स्रक्तीः करोति चतस्रो वा अवान्तरदिशोऽवान्तरदिशो वै पितरस्तस्मादवान्तरदिशोऽनु स्रक्तीः करोति – २.६.१.[१०]

तन्मध्येऽग्निं समादधाति । पुरस्ताद्वै देवाः प्रत्यञ्चो मनुष्यानभ्युपावृत्तास्तस्मात्तेभ्यः प्राङ्तिष्ठञ्जुहोति सर्वतः पितरोऽवान्तरदिशो वै पितरः सर्वत इव हीमा अवान्तरदिशस्तस्मान्मध्येऽग्निं समादधाति – २.६.१.[११]

स तत एव प्राक्स्तम्बयजुर्हरति । स्तम्बयजुर्हुत्वाथेत्येवाग्रे परिगृह्णात्यथेत्यथेति पूर्वेण परिग्रहेण परिगृह्य लिखति हरति यद्धार्यम्भवति स तथैवोत्तरेण परिग्रहेण परिगृह्णात्युत्तरेण परिग्रहेण परिगृह्य प्रतिमृज्याह प्रोक्षणीरासादयेत्यासादयन्ति प्रोक्षणीरिध्मं बर्हिरुपसादयन्ति स्रुचः सम्मार्ष्ट्याज्येनोदैति स यज्ञोपवीती भूत्वाऽऽज्यानि गृह्णाति – २.६.१.[१२]

तदाहुः । द्विरुपभृति गृह्णीयाद्द्वौ ह्यत्रानुयाजौ भवत इति तद्वष्टावेव कृत्व उपभृति गृह्णीयान्नेद्यज्ञस्य विधाया अयानीति तस्मादष्टावेव कृत्व उपभृति गृह्णीयादाज्यानि गृहीत्वा स पुनः प्राचीनावीती भूत्वा – २.६.१.[१३]

प्रोक्षणीरध्वर्युरादत्ते । स इध्ममेवाग्रे प्रोक्षत्यथ वेदिमथास्मै बर्हिः प्रयच्छन्ति तत्पुरस्ताद्ग्रन्थ्यासादयति तत्प्रोक्ष्योपनिनीय विस्रंस्य ग्रन्थिं न प्रस्तरं गृह्णाति सकृदु ह्येव पराञ्चः पितरस्तस्मान्न प्रस्तरं गृह्णाति – २.६.१.[१४]

अथ संनहनमनुविस्रंस्य । अपसलवि त्रिः परिस्तृणन्पर्येति सोऽपसलवि त्रिःपरिस्तीर्य यावत्प्रस्तरभाजनं तावत्परिशिनष्ट्यथ पुनः प्रसलवि त्रिः पर्येति यत्पुनः प्रसलवि त्रिः पर्येति तद्यानेवामूंस्त्रयान्पितॄनन्ववागात्तेभ्य एवैतत्पुनरपोदेतीमं स्वं लोकमभि तस्मात्पुनः प्रसलवि त्रिः पर्येति – २.६.१.[१५]

स दक्षिणैव परिधीन्परिदधाति । दक्षिणा प्रस्तरं स्तृणाति नान्तर्दधाति विधृती सकृदु ह्येव पराञ्चः पितरस्तस्मान्नान्तर्दधाति विधृती – २.६.१.[१६]

स तत्र जुहूमासादयति । अथ पूर्वामुपभृतमथ ध्रुवामथ पुरोडाशमथ धाना अथ मन्थमासाद्य हवींषि सम्मृशति – २.६.१.[१७]

ते सर्व एव यज्ञोपवीतिनो भूत्वा । इत्थाद्यजमानश्च ब्रह्मा च पश्चात्परीतः पुरस्तादग्नीत् – २.६.१.[१८]

तेनोपांशु चरन्ति । तिरैव वै पितरस्तिर इवैतद्यदुपांशु तस्मादुपांशु चरन्ति – २.६.१.[१९]

परिवृते चरन्ति । तिर इव वै पितरस्तिर इवैतद्यत्परिवृतं तस्मात्परिवृते चरन्ति – २.६.१.[२०]

अथेध्ममभ्यादधदाह । अग्नये समिध्यमानायानुब्रूहीति स एकामेव होता सामिधेनीं त्रिरन्वाह सकृदु ह्येव पराञ्चः पितरस्तस्मादेकां होता सामिधेनीं त्रिरन्वाह – २.६.१.[२१]

सोऽन्वाह । उशन्तस्त्वा निधीमह्युशन्तः समिधीमहि उशन्नुशत आवह पितॄन्हविषे अत्तव इत्यथाग्निमावह सोममावह पितॄन्त्सोमवत आवह पितॄन्बर्हिषद आवह पितॄनग्निष्वात्तानावह देवां३ आज्यपां३ आवहाग्निं होत्रायावह स्वं महिमानमावहेत्यावाह्योपविशति – २.६.१.[२२]

अथाश्राव्य न होतारं प्रवृणीते । पितृयज्ञो वा अयं नेद्धोतारं पितृषु दधानीति तस्मान्न होतारं प्रवृणीते सीद होतरित्येवाहोपविशति होता होतृषदन उपविश्य प्रसौति प्रसूतोऽध्वर्युः स्रुचावादाय प्रत्यङ्ङतिक्रामत्यतिक्रम्याश्राव्याह समिधो यजेति सोऽपबर्हिषश्चतुरः प्रयाजान्यजति प्रजा वै बर्हिर्नेत्प्रजाः पितृषु दधानीति तस्मादपबर्हिषश्चतुरः प्रयाजान्यजत्यथाज्यभागाभ्यां चरन्त्याज्यभागाभ्यां चरित्वा – २.६.१.[२३]

ते सर्व एव प्राचीनावीतिनो भूत्वा । एतैर्वै हविर्भिः प्रचरिष्यन्त इत्थाद्यजमानश्च ब्रह्मा च पुरस्तात्परीतः पश्चादग्नीत्तदुताश्रावयन्त्यों३ स्वधेत्यस्तु स्वधेति प्रत्याश्रावणं स्वधा नम इति वषट्कारः – २.६.१.[२४]

तदु होवाचासुरिः । आश्रावयेयुरेव प्रत्याश्रावयेयुर्वषट्कुर्युर्नेद्यज्ञस्य विधाया अयामेति – २.६.१.[२५]

अथाह पितृभ्यः सोमवद्भ्योऽनुब्रूहीति । सोमाय वा पितृमते स द्वे पुरोऽनुवाक्ये अन्वाहैकया वै देवान्प्रच्यावयन्ति द्वाभ्यां पितॄन्त्सकृदु ह्येव पराञ्चः पितरस्तस्माद्द्वे पुरोऽनुवाक्ये अन्वाह – २.६.१.[२६]

स उपस्तृणीत आज्यम् । अथास्य पुरोडाशस्यावद्यति स तेनैव सह धानानां तेन सह मन्थस्य तत्सकृदवदधात्यथोपरिष्टाद्द्विराज्यस्याभिघारयति प्रत्यनक्त्यवदानानि नातिक्रामतीत एवोपोत्थायाश्राव्याह पितॄन्त्सोमवतो यजेति वषट्कृते जुहोति – २.६.१.[२७]

अथाह पितृभ्यो बर्हिषद्भ्योऽनुब्रूहीति । स उपस्तृणीत आज्यमथासां धानानामवद्यति स तेनैव सह मन्थस्य तेन सह पुरोडाशस्य तत्सकृदवदधात्यथोपरिष्टाद्द्विराज्यस्याभिघारयति प्रत्यनक्त्यवदानानि नातिक्रामतीत एवोपोत्थायाश्राव्याह पितॄन्बर्हिषदो यजेति वषट्कृते जुहोति – २.६.१.[२८]

अथाह पितृभ्योऽग्निष्वात्तेभ्योऽनुब्रूहीति । स उपस्तृणीत आज्यमथास्य मन्थस्यावद्यति स तेनैव सह पुरोडाशस्य तेन सह धानानां तत्सकृदवदधात्यथोपरिष्टाद्द्विराज्यस्याभिघारयति प्रत्यनक्त्यवदानानि नातिक्रामतीत एवोपोत्थायाश्राव्याह पितॄनग्निष्वात्तान्यजेति वषट्कृते जुहोति – २.६.१.[२९]

अथाहाग्नये कव्यवाहनायानुब्रूहीति । तत्स्विष्टकृते हव्यवाहनो वै देवानां कव्यवाहनः पितॄणां तस्मादाहाग्नये कव्यवाहनायानुब्रूहीति – २.६.१.[३०]

स उपस्तृणीत आज्यम् । अथास्य पुरोडाशस्यावद्यति स तेनैव सह धानानां तेन सह मन्थस्य तत्सकृदवदधात्यथोपरिष्टाद्द्विराज्यस्याभिघारयति न प्रत्यनक्त्यवदानानि नातिक्रामतीत एवोपोत्थायाश्राव्याहाग्निं कव्यवाहनं यजेति वषट्कृते जुहोति – २.६.१.[३१]

स यन्नातिक्रामति । इत एवोपोत्थायं जुहोति सकृदु ह्येव पराञ्चः पितरोऽथ यत्सकृत्सर्वेषां समवद्यति सकृदु ह्येव पराञ्चः पितरोऽथ यद्व्यतिषङ्गमवदानान्यवद्यत्यृतवो वै पितर ऋतूनेवैतद्व्यतिषजत्यृतून्त्संदधाति तस्माद्व्यति षङ्गमवदानान्यवद्यति – २.६.१.[३२]

तद्धैके । एतमेव होत्रे मन्थमादधति तं होतोपहूयावैव जिघ्रति तं ब्रह्मणे प्रयच्छति तं ब्रह्मावैव जिघ्रति तमग्नीधे प्रयच्छति तमग्नीदवैव जिघ्रत्येतन्न्वेवैतत्कुर्वन्ति यथा त्वेवेतरस्य यज्ञस्येडा प्राशित्रं समवद्यन्त्येवमेवैतस्यापि समवद्येयुस्तामुपहूयावैव जिघ्रन्ति न प्राश्नन्ति प्राशितव्य त्वेव वयं मन्यामह इति ह स्माहासुरिर्यस्य कस्य चाग्नौ जुह्वतीति – २.६.१.[३३]

अथ यतरो दास्यन्भवति । यद्यध्वर्युर्वा यजमानो वा स उदपात्रमादायापसलवि त्रिः परिषिञ्चन्पर्येति स यजमानस्य पितरमवनेजयत्यसाववनेनिक्ष्वेत्यसाववनेनिक्ष्वेति पितामहमसाववनेनिक्ष्वेति प्रपितामहं तद्यथाशिष्यतेऽभिषिञ्चेदेवं तत् – २.६.१.[३४]

अथास्य पुरोडाशस्यावदाय । सव्ये पाणौ कुरुते धानानामवदाय सव्ये पाणौ कुरुते मन्थस्यावदाय सव्ये पाणौ कुरुते – २.६.१.[३५]

स येमामवान्तरदिशमनु स्रक्तिः । तस्यां यजमानस्य पित्रे ददात्यसावेतत्त इत्यथ येमामवान्तरदिशमनु स्रक्तिस्तस्यां यजमानस्य पितामहाय ददात्यसावेतत्त इत्यथ येमामवान्तरदिशमनु स्रक्तिस्तस्यां यजमानस्य प्रपितामहाय ददात्यसावेतत्त इत्यथ येमामवान्तरदिशमनु स्रक्तिस्तस्यां निमृष्टेऽत्र पितरो मादयध्वं यथाभागमावृषायध्वमिति यथाभागमश्नीतेत्येवैतदाह तद्यमेवं पितृभ्यो ददाति तेनो
स्वान्पितॄनेतस्माद्यज्ञान्नान्तरेति – २.६.१.[३६]

ते सर्व एव यज्ञोपवीतिनो भूत्वा । उदञ्च उपनिष्क्रम्याहवनीयमुपतिष्ठन्ते देवान्वा एष उपावर्तते य आहिताग्निर्भवति यो दर्शपूर्णमासाभ्यां यजतेऽथैतत्पितृयज्ञेनेवाचारिषुस्तदु देवेभ्यो निह्नुवते – २.६.१.[३७]

ऐन्द्रीभ्यामाहवनीयमुपतिष्ठन्ते इन्द्रो ह्याहवनीयोऽक्षन्नमीमदन्त ह्यव प्रिया अधूषत अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी सुसंदृशं त्वा वयं मघवन्वन्दिषीमहि प्र नूनं पूर्णबन्धुर स्तुतो यासि वशांऽनु योजा न्विन्द्र ते हरी इति – २.६.१.[३८]

अथ प्रतिपरेत्य गार्हपत्यमुपतिष्ठन्ते । मनो न्वाह्वामहे नाराशंसेन स्तोमेन पितॄणां च मन्मभिः आ न एतु मनः पुनः क्रत्वे दक्षाय जीवसे ज्योक्च सूर्यं दृशे पुनर्नः पितरो मनो ददातु दैव्यो जनः जीवं व्रातं सचेमहीति पितृयज्ञेनेव वा एतदचारिषुस्तदु खलु पुनर्जीवानपिपद्यन्ते तस्मादाह जीवं व्रातं सचेमहीति – २.६.१.[३९]

अथ यतरो ददाति । स पुनः प्राचीनावीती भूत्वाभिप्रपद्य जपत्यमीमदन्त पितरो यथाभागमावृषायिषतेति यथाभागमाशिषुरित्येवैतदाह – २.६.१.[४०]

अथोदपात्रमादाय । पुनः प्रसलवि त्रिः परिषिञ्चन्पर्येति स यजमानस्य पितरमवनेजयत्यसाववनेनिक्ष्वेत्यसाववनेनिक्ष्वेति पितामहमसाववनेनिक्ष्वेति प्रपितामहं तद्यथा जक्षुषेऽभिषिञ्चेदेवं तत्तद्यत्पुनः प्रसलवि त्रिः परिषिञ्चन्पर्येति प्रसलवि न इदं कर्मानुसंतिष्ठाता इति तस्मात्पुनः प्रसलवि त्रिः परिषिञ्चन्पर्येति – २.६.१.[४१]

अथ नीविमुद्वृह्य नमस्करोति । पितृदेवत्या वै नीविस्तस्मान्नीविमुद्वृह्य नमस्करोति यज्ञो वै नमो यज्ञियानेवैनानेतत्करोति षट्कृत्वो नमस्करोति षड्वा ऋतव ऋतवः पितरस्तदृतुष्वेवैतद्यज्ञं प्रतिष्ठापयति तस्मात्षट्कृत्वो नमस्करोति गृहान्नः पितरो दत्तेति गृहाणां ह पितर ईशत एषो एतस्याशीः कर्मणः – २.६.१.[४२]

ते सर्व एव यज्ञोपवीतिनो भूत्वा । अनुयाजाभ्यां प्रचरिष्यन्त इत्थाद्यजमानश्च ब्रह्मा च पश्चात्परीतः पुरस्तादग्नीदुपविशति होता होतृषदने – २.६.१.[४३]

अथाह ब्रह्मन्प्रस्थास्यामि । समिधमाधायाग्निमग्नीत्सम्मृड्ढीति स्रुचावादायप्रत्यङ्ङतिक्रामत्यतिक्रम्याश्राव्याह देवान्यजेति सोऽपबर्हिषौ द्वावनुयाजौ यजति प्रजा वै बर्हिर्नेत्प्रजाः पितृषु दधानीति तस्मादपबर्हिषौ द्वावनुयाजौ यजति – २.६.१.[४४]

अथ सादयित्वा स्रुचौ व्यूहति । स्रुचौ व्युह्य परिधीन्त्समज्य परिधिमभिपद्याश्राव्याहेषिता दैव्या होतारो भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकायेति सूक्तवाकं होता प्रतिपद्यते नाध्वर्युः प्रस्तरं समुल्लुम्पतीत्येवोपास्ते यदा होता सूक्तवाकमाह – २.६.१.[४५]

अथाग्नीदाहानुप्रहरेति । स न किं चनानुप्रहरति तूष्णीमेवात्मानमुपस्पृशति – २.६.१.[४६]

अथाह संवदस्वेति । अगानग्नीदगञ्छ्रावय श्रौषट्स्वगा दैव्या होतृभ्यः स्वस्तिर्मानुषेभ्यः शं योर्ब्रूहीत्युपस्पृशत्येव परिधीन्नानुप्रहरत्यथैतद्बर्हिरनुसमस्यति परिधींश्च – २.६.१.[४७]

तद्धैके । हविरुच्छिष्टमनुसमस्यन्ति तदु तथा न कुर्याद्धुतोच्छिष्टं वा एतन्नेद्धुतोच्छिष्टमग्नौ जुहवामेति तस्मादपो वै वाभ्यवहरेयुः प्राश्नीयुर्वा – २.६.१.[४८]

Lawline

Best Indian poets of all times

  1. Amaru [ Amru Satakam]
  2. Bharavi
  3. Bhartṛhari [Sringara Satakam ]
  4. Bhāsa
  5. Daṇḍin
  6. Govardhan Acharya [Arya Sapasati]
  7. Jagannath Pandit Raj
  8. Jayadeva
  9. Kālidāsa
  10. Kavi Karna Pura
  11. Magha (poet)
  12. Ramanuja
  13. Rupa Goswamy [Padya Vali]
  14. Subandhu
  15. Śūdraka
  16. Shankaracharya
  17. Vallabha Acharya
  18. Valmiki [Ramayana]
  19. Vyasa Krishna Dvaipayan [ Maha Bharat ]

Lawline

  1. Govardhan Acharya [ Court poet of Lakshman Sen 11-12th century] mentioned four poets of his time : पूर्वैर्विभिन्नवृत्तां गुणाढ्य भवभूति बाण रघुकारैः ।  वाग्देवीं भजतो मम सन्तः पश्यन्तु को दोषः ॥