तत्त्वचिन्तामणौ शब्दखण्डः अथ शब्दो निरूप्यते। प्रयोग हेतु भूतार्थ तत्त्व ज्ञान जन्यः शब्दः प्रमाणम्। ननु शब्दो न प्रमाणम्। तथाहि- -करणविशेषः प्रमाणम्। करणञ्च तत् यस्मिन् सति क्रिया भवत्येव। न च शब्दे सति प्रमा भवत्येवेति नायं शब्दः प्रमाणम्। न च शब्दो न...
Tattva Chintamani
अथोपमानं निरूप्यते । तत्र सादृश्यप्रमाकरणमुपमानमितिकेचित् । सादृश्यञ्च पदार्थान्तरम् । तथाहि – सादृश्यव्यवहारादबाधितादस्ति सादृश्यम्। तच्च न प्रतिपदार्थमेकम् , सर्वस्य सर्वसदृशत्वापत्तेः सुसदृशमन्दसदृशव्यवहारस्य तदेकत्वेऽनुपपत्तेश्च । न च व्यञ्जकभूयःसामान्याल्पत्वभूयस्त्वाभ्यां तद्धीरिति वाच्यम्। बहुभिरल्पैश्च व्यज्यमानघटादौ ह्रासवृद्ध्योेरदर्शनात् व्यञ्जकाभिमतादेव व्यवहारसिद्धौ अतिरिक्तासिद्धेश्च । नापि संयोगवत् व्यासज्यवृत्त्यनेकम्, गोत्वोपलक्षितसादृश्याश्रयत्वात्, गवयवत् गोरपि...
अथ केयमाकाङ्क्षा, न तावदविनाभावः, नीलं सरोजमित्यादावभावात्। विमलं जलं नद्याः कच्छे महिष इत्यत्र जलान्वितनद्या अविनाभावात् कच्छे साकाङ्क्षतापत्ते। नापि समभिव्याहृतपदस्मारितपदार्थजिज्ञासा, अजिज्ञासोरपि वाक्यार्थबोधात् विश्वजिता यजेत द्वारं इत्यत्रापदार्थयोरप्यधिकारिणोऽध्याहृतस्य पिधानस्य चाकाङ्क्षितत्वाच्च, तत्र शब्दकल्पनपक्षेऽपि घटः कर्मत्वमानयनं कृतिरित्यत्र जिज्ञासितस्यानयनादेराकाङ्क्षितत्वापत्तेः। अथ जिज्ञासायोग्यता सा, जिज्ञासा च विशेषाज्ञाने भवति, योग्यता...
तत्त्व चिन्तामणिः-Tattva Chintamani – Gangesh Upadhya – प्रत्यक्षखण्डः अनुमानखण्डः प्रत्यक्षोपजीवकत्वात् प्रत्यक्षानन्तरं बहुवादिसम्मतत्वादुपमानात् प्रागनुमानं निरूप्यते । तत्र व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यं ज्ञानमनुमितिः। तत्करणमनुमानम्। तच्च लिङ्गपरामर्शो, न तु परामृश्यमानं लिङ्गमिति वक्ष्यते । अथानुमानं न प्रमाणम्, योग्योपाधीनां योग्यानुपलब्ध्या अभावनिश्चयेऽपि अयोग्योपाधिशङ्कया व्यभिचारसंशयात् शतशः सहचरितयोरपि व्यभिचारोपलब्धेश्च। लोके...