Checkout › Forums › God or Government › The Holy History of India-Written by Vyasa › Reply To: The Holy History of India-Written by Vyasa
19/12/2022 at 08:19
#117224
Keymaster
Vyasa
नमोऽस्तु ते व्यास विशालबुद्धे, फुल्लारविन्दायतपत्रनेत्र। येन त्वाय भारततैलपूर्णः प्रज्वलितो ज्ञानमयः प्रदीपः।। २४६.११ ।।
अज्ञानतिमिरान्धानां भ्रामितानां कुदृष्टिभिः। ज्ञानाञ्जनशलाकेन त्वाय चोन्मीलिता दृशः।। २४६.१२ ।।
धर्मे मतिर्भवतु वः पुरुषोत्तमानां, स ह्येक एव परलोकगतस्य बन्धुः। अर्थाः स्त्रियश्च निपुणैरपि सेव्यमाना, नैव प्रभावमुपयान्ति न च स्थिरत्वम्।। २४६.३६ ।।
धर्मेण राज्यं लभते मनुष्यः, स्वर्गं च धर्मेण नरः प्रयाति। आयुश्च कीर्तिं च तपश्च, धर्मेण मोक्षं लभते मनुष्यः।। २४६.३७ ।। [ब्रह्मपुराणम्]