Sexual practice in Kamasutra

२८८ पुरुषः शयनस्थाया योषितस्तद्वचनव्याक्षिप्तचित्ताया इव नीवीं विश्लेषयेत्तत्र विवदमानां कपोलचुम्बनेन पर्याकुलयेत्
२८९ स्थिरलिङ्गश्च तत्रैनां परिस्पृशेत्
२८१० प्रथमसंगता चेत्संहतोर्वोरन्तरे घट्टनम्
२८११ कन्यायाश्च
२८१२ तथा स्तनयोः संहतयोर्हस्तयोः कक्षयोरंसयोर्ग्रीवायामिति च
२८१३ स्वैरिण्यां यथा:सात्म्यं यथायोगं च अलके चुम्बनार्थमेनां निर्दयमवलम्बेथनुदेशे चाङ्गुलिसंपुतेन
२८१४ तत्रेतरस्य व्रीडा निमीलनं च प्रथमसमागमे कन्यायाश्च

२८१५ रतिसंयोगे चैनां कथमनुरज्यत इति प्रवृत्त्या परीक्षेत
२८१६ युक्तयन्त्रेणोपसृप्यमाना यतो दृष्टिमावर्तयेत्तत एवैनां पीडयेतेतद्रहस्यं युवतीनामिति सुवर्णनाभः
२८१७ गात्राणां स्रंसनं नेत्रनिमीलनं व्रीडानाशः समधिका च रतियोजनेति स्त्रीणां भावलक्षणम्२८१८ हस्तौ विधुनोति स्विद्यति दशत्युत्थातुं न ददाति पादेनाहन्ति रतावमाने च पुरुषातिवर्तिनी
२८१९ तस्याः प्राग्यन्त्रयोगात्करेण संबाधं गज इव क्षोभयेता मृदुभावात्ततो यन्त्रयोजनम्

Alternative postures

२८२० उपसृप्तकं [१]मन्थनं [२]हुलो((२९)) [३]अवमर्दनं [४]पीडितकं [५]निर्घातो [६]वराहघातो [७]वृषघातश्[८]चटकविलसितं [९] संपुट इति पुरुषोपसृप्तानि

२८२१ न्याय्यमृजुसंमिश्रणमुपसृप्तकम्

२८२२ हस्तेन लिङ्गं सर्वतो भ्रामयेदिति [१]मन्थनम्

२८२३ नीचीकृत्य जघनमुपरिष्टाद्घट्टयेदिति [२]हुलः

२८२४ तदेव विपरीतं स:रभसम् [३]अवमर्दनम्

२८२५ लिङ्गेन समाहत्य पीडयंश्चिरमवतिष्ठेतेति [४]पीडितकम्

२८२६ सु:दूरमुत्कृष्य वेगेन स्वजघनमवपातयेदिति [५]निर्घातः

२८२७ एकत एव भूयिष्ठमवलिखेदिति [६]वराहघातः

२८२८ स एवोभयतः पर्यायेण [७]वृषाघातः

२८२९ सकृन्मिश्रितमटिप्पणीइष्क्रमय्य द्विस्त्रिश्चतुरिति घट्टयेदिति [८]चटकविलसितम्

२८३० रागावसानिकं व्याख्यातं करणं [९]संपुटमिति

२८३१ तेषां स्त्रीसात्म्याद्विकल्पेन प्रयोगः


 

Advertisements