Topics » Religion, Dharma, Church and Umma » The Holy History of India-Written by Vyasa

The Holy History of India-Written by Vyasa

Tagged: 

Viewing 4 reply threads
  • Author
    Posts
    • #117217
      advtanmoy
      Keymaster

      आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम्। ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम्। असच्च सच्चैव च यद्विश्वं नमो धर्माय महते। ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान्।[Obeisance to the great Dharma. I shall offer my obeisances to the Brahmins and recite the eternal Dharma]-सदसतः परम् परावराणां स्रष्टारं पुराणं परमव्ययम्। मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम्। नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम्। महर्षेः पूजितस्येह सर्वलोकैर्महात्मनः। प्रवक्ष्यामि मतं पुण्यं व्यासस्याद्भुतकर्मणः।

      [See the full post at: The Holy History of India-Written by Vyasa]

    • #117221
      advtanmoy
      Keymaster

      श्रीमद्भागवतपुराणम्

      जन्माद्यस्य यतोऽन्वयादितरतः चार्थेष्वभिज्ञः स्वराट् ।
      तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत् सूरयः ।
      तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा ।
      धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि । १ ॥

      धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां ।
      वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ।
      श्रीमद्‍भागवते महामुनिकृते किं वा परैरीश्वरः ।
      सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिः तत् क्षणात् ॥ २ ॥

      निगमकल्पतरोर्गलितं फलं ।
      शुकमुखाद् अमृतद्रवसंयुतम् ।
      पिबत भागवतं रसमालयं ।
      मुहुरहो रसिका भुवि भावुकाः । ३ ॥

    • #117222
      advtanmoy
      Keymaster

      18 पुराणानि (Purana by Vyasa)

      1. अग्निपुराणम्
      2. कूर्मपुराणम्
      3. गरुडपुराणम्
      4. पद्मपुराणम्
      5. ब्रह्मपुराणम्
      6. ब्रह्मवैवर्तपुराणम्
      7. ब्रह्माण्डपुराणम्
      8. भविष्यपुराणम्
      9. भागवतपुराणम्
      10. मत्स्यपुराणम्
      11. मार्कण्डेयपुराणम्
      12. लिङ्गपुराणम्
      13. वराहपुराणम्
      14. वामनपुराणम्
      15. वायुपुराणम्
      16. विष्णुपुराणम्
      17. शिवपुराणम्
      18. स्कन्दपुराणम्
    • #117223
      advtanmoy
      Keymaster

      ब्रह्मपुराणम् [Brahma Puranam]

      अध्यायः १

      यस्मात् सर्व्वमिदं प्रपञ्चरचितं मायाजगज्जायते, यस्मिंस्तिष्ठति याति चान्तसमये कल्पानुकल्पे पुनः।
      यं ध्यात्वा मुनयः प्रपञ्चरहितं विन्दन्ति मोक्षं ध्रुवं, तं वन्दे पुरुषोत्तमाख्यममलं नित्यं विभुं निश्चलम्।। १.१ ।।

      यं ध्यायन्ति बुधाः समाधिसमये शुद्धं वियत्सन्निभं, नित्यानन्दमयं प्रसन्नममलं सर्व्वेश्वरं निर्गुणम्।
      व्यक्ताव्यक्तपरं प्रपञ्चरहितं ध्यानैकागम्यं विभुं, तं संसारविनाशहेतुमजरं वन्दे हरिं मुक्तिदम्।। १.२ ।।

    • #117224
      advtanmoy
      Keymaster

      Vyasa

      नमोऽस्तु ते व्यास विशालबुद्धे, फुल्लारविन्दायतपत्रनेत्र। येन त्वाय भारततैलपूर्णः प्रज्वलितो ज्ञानमयः प्रदीपः।। २४६.११ ।।

      अज्ञानतिमिरान्धानां भ्रामितानां कुदृष्टिभिः। ज्ञानाञ्जनशलाकेन त्वाय चोन्मीलिता दृशः।। २४६.१२ ।।

      धर्मे मतिर्भवतु वः पुरुषोत्तमानां, स ह्येक एव परलोकगतस्य बन्धुः। अर्थाः स्त्रियश्च निपुणैरपि सेव्यमाना, नैव प्रभावमुपयान्ति न च स्थिरत्वम्।। २४६.३६ ।।

      धर्मेण राज्यं लभते मनुष्यः, स्वर्गं च धर्मेण नरः प्रयाति। आयुश्च कीर्तिं च तपश्च, धर्मेण मोक्षं लभते मनुष्यः।। २४६.३७ ।। [ब्रह्मपुराणम्]

Viewing 4 reply threads
  • You must be logged in to reply to this topic.