योगश् चित्तवृत्तिनिरोधः ॥
सर्वशब्दाग्रहणात् संप्रज्ञातोऽपि योग इत्य् आख्यायते। चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात् त्रिगुणम्।
प्रख्यारूपं हि चित्तसत्त्वं रजस्तमोभ्यां संसृष्टम् ऐश्वर्यविषयप्रियं भवति। तद् एव तमसानुविद्धम् अधर्माज्ञानावैराग्यानैश्वर्योपगं भवति। तद् एव प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानम् अनुविद्धं रजोमात्रया धर्मज्ञानवैराग्यैश्वर्योपगं भवति।
तद् एव रजोलेशमलापेतं स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यताख्यातिमात्रं धर्ममेघध्यानोपगं भवति। तत् परं प्रसंख्यानम् इत्य् आचक्षते ध्यायिनः। चितिशक्तिर् अपरिणामिन्य् अप्रतिसंक्रमा दर्शितविषया शुद्धा चानन्ता च सत्त्वगुणात्मिका चेयम् अतो विपरीता विवेकख्यातिर् इति। अतस् तस्यां विरक्तं चित्तं ताम् अपि ख्यातिं निरुणद्धि। तदवस्थं संस्कारोपगं भवति। स निर्बीजः समाधिः। न तत्र किंचित् संप्रज्ञायत इत्य् असंप्रज्ञातः। द्विविधः स योगश् चित्तवृत्तिनिरोध इति। १.२