Library Home » Vatsayana Commentary on Naya Sutram [Sanskrit]

Vatsayana Commentary on Naya Sutram [Sanskrit]

प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामथ्यदिर्थवत्प्रमाणम्।
प्रमाणमन्तरेण नार्थप्रतिपत्तिः।
नार्थप्रतिपत्तिमन्तरेण प्रवृत्तिसामर्थम्।
प्रमाणेन खल्वयं ज्ञातार्थमुपलभ्य तमीप्सति व जिहासति वा।
तस्येप्साजिहासाप्रयुक्तस्य समीहा प्रवृत्तिरित्युच्यते।
सामर्थ्य पुनरस्याः फलेनाभिसम्बन्धः।
समीहमानस्वमर्थमभीप्सन् जिहासन् वा तमर्थमाप्नाति जहाति वा।
अर्थस्तु सुखं सुखहेतुश्च।
सोऽयं प्रमाणार्थोऽपरिसंख्येयः, प्राणभृद्भेदस्यापरिसंख्येत्वात् ।

अर्थवति च प्रमाणे प्रमाता प्रमेयं प्रमितिरित्यर्थवन्ति भवन्ति।
कस्मात्? अन्यतमापायेऽर्थस्यानुपपत्तेः।

तत्र यस्येप्साजिहासाप्रयुक्तस्य प्रवृत्तिः, स प्रमाता।
स येनार्थ प्रमिणोति विजानाति तत्प्रमाणम्।
योऽर्थः प्रमीयते

ज्ञायते तत्प्रमेयम्।

किं पुनस्तत्वम् ? सतश्च सद्भावोऽसतश्चासद्भाव इति।
सत्सदिति गृह्यमाणं यथाभूतमविपरीतं तत्वं भवति।
असच्चासदिति गृह्यमाणं यथाभूतमविपरीतं तच्वं भवति।
कथं पुनरुत्तरस्य प्रमाणेनोपलब्धिरिति ?
सत्युपलभ्यमाने तद्वदनुपलब्धेः प्रदीपवत् ।
यथा दर्शकेन प्रदीपेन दृश्ये गुह्यमाणे तदिव यन्न गृह्यते तत्रास्ति।

यद्यभविष्यदिदमिव व्यज्ञास्यते विज्ञानाभावान्नास्तीति।
तदेवं सतः प्रकाशकं प्रमाणमसदपि प्रकाशयतीति।
सच्च खलु षोडशधा व्यूढमुपदेक्ष्यते।
तासां खल्वासां सद्विधानाम्

न्यायसूत्र १,१.१ प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छुलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः॥

निर्देशे यथावचनं विग्रहः।
चार्थे द्वन्द्वः समासः।
प्रमाणादीनां तत्वमिति शैषिकी षष्ठी।
तत्वस्य ज्ञानं निःश्रेयसस्याधिगम इति च कर्मणि षष्ठ्यौ।
त एतावन्तो विद्यमानार्थाः।
एषामविपरीतज्ञानार्थमिहोपदेशः।
सोऽयमनवयवेन तन्त्रार्थ उद्दिष्टो वेदितव्यः।

आत्मादेः खलु प्रमेयस्य तत्वज्ञानात्रिःश्रेयसाधिगमः तच्चैदुत्तरसूत्रेणानूद्यते।
हेयं तस्य निर्वर्तकं हानमात्यन्तिकं तस्योपायोऽधिगन्तव्य इत्येतानि खलु चत्वार्यर्थपदानि सम्यग्बुद्ध्वा निःश्रेयसमधिगच्छति।
तत्र सशयादीनां पृथग्वचनमर्थकमे संशयादयो हि यथासम्भवं प्रमाणेषु प्रमेयेषु चान्तर्भवन्तो न व्यतिरच्चिन्त इति।
सत्यमेवमेतत्, इमास्तु चतस्त्रो विद्याः पृथक्प्रस्थानाः प्राणभृतामनुग्रहायोपदिश्यन्ते, यासां
चतुर्र्थायमान्वीक्षिकी न्यायविद्या।
तस्याः पृथक्प्रस्थानाः संशयादयः पदार्थाः।
तेषा पृथग्वचनमन्तरेणाध्यात्मविद्यामात्रमियं स्यात्, यथोपनिषदः।
तस्मात्संशयादिभिः पदार्थैः पृथक्प्रस्थाप्यत्
तत्र नानुपलब्धे न निणौतेऽर्थेः प्रवर्त्तते।
कि तर्हि ? संशयितेऽर्थे।
तथाचोक्तम्, विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः ॥
(१.१ . ४१) इति।
विमर्शः संशयः।
पक्षप्रतिपक्षौ न्यायप्रवृत्तिः।
अर्थावधारणं निर्णयस्तत्वज्ञानमिति।
स चायं किङ्खिदिति वस्तुविमर्शमात्रमनवधारणं ज्ञानं संशयः।
स च प्रमेयेऽन्तभवन्नेवमर्थ पृथगुच्यते इति।

अर्थ प्रयोजनम्, येन प्रयुक्तः प्रवर्तते तत्प्रयोजनम्, यमर्थमभोप्सन् जिहासन् वा कर्मारभते।
तेनानेन सर्वे प्राणिनःसर्वाणि कर्माणि सर्वाश्च विद्या व्याप्ताः।
तदाश्रयश्च न्यायः प्रवर्तते।
कः नुनरयं न्यायः? प्रमाणैरर्थपरीक्षणम्।
प्रत्यक्षागमाश्रितं चानुमनम्।
सान्वीक्षा।
प्रत्यक्षागमाभ्यामीक्षितस्यार्थस्यान्वीक्षणमन्वीक्षा।
तया प्रवर्तत इत्यान्वीक्षकी न्यायविद्या न्यायशास्त्रम्।
यत्पुनरनुमानं प्रत्यक्षागमविरुद्ध न्यायाभासः स इति।

तत्र वादजल्पौ सप्रयोजनौ, वितण्डा तु परिक्ष्यते।
वितण्डया प्रवतामानो वैतण्डिकः।
स प्रयोजनमनुयुक्तो यदि प्रतिपद्यते, सोऽस्य पक्षाः सोऽस्य सिद्धान्त इति वैतण्डिकत्वं जहाति।
अथ न प्रतिपद्यते नायं लौकिको न परीक्षक इत्यापद्यत्

अथापि परपक्षप्रतिषेधज्ञापनं प्रयोजनं ब्रवीति, एतदपि तादृगेव।
यो ज्ञापयति, यो जानाति, येन ज्ञापयते, यच्च ज्ञाप्यतेएतच्च प्रतिपद्यते चदि, तदा वैतण्डिकत्वं जहाति।
अथ न प्रतिपद्यते, परपक्षप्रतिषेधज्ञापनं प्रयोजनमित्येतदस्य वाक्यमनर्थकं भवति।

वाक्यसमूहश्च स्थापनाहीनो वितण्डा।
तस्य यद्यभिधेयं प्रतिपधते सोऽस्य पक्षाः स्थापनीयो भवति।
अथ न प्रतिपद्यते प्रलापमात्रमनर्थकं भवति, वितण्डत्वं निवर्तत इति।

अथ दृष्टान्तः।
प्रत्यक्षविषयोऽर्थो दृष्टान्तः, चत्र लौकिकपरीक्षकाणां दर्शनं न वयाहन्यते।
स च प्रमेयम्।
तस्य पृथग्वचनं च।
तदाश्रयावनुमानागमौ।
तस्मिन् सति स्यातामनुमानागमौ, असति च न स्याताम्।
तदाश्रया न्यायप्रवृत्तिः।
दृष्टान्तविरोधेन च परपक्षप्रतिषेधो वचनीयो भवति।
दृष्टान्समाधिना च स्वपक्षः स्थापनीयो भवति।
नास्तिकश्च दृष्टान्तमभ्युपगच्छन्नास्तिकत्वं जहाति।
अनभ्युपगच्छन् किंसाधनः परमुपालभेत ?
निरुक्तेन च दृष्टान्तेन शक्यमभिधातुम्,

साध्यसाधर्म्यात्तद्धर्मभावी दृष्टांन्त उदाहरणम्॥ ( १.१.३६ )

तद्विपर्ययाद्वा विपरीतम् ॥ ( १.१.३७ )
इति
अस्त्ययमित्यभ्यनुज्ञायमानोऽर्थः सिद्धान्तः।
स च प्रमेयम्।
तस्य पृथग्वचनम्, सत्सु सिद्धान्तभेदेषु वादजल्पवितण्डाः प्रवर्तन्ते, नातान्यथेति।

साधनीयस्यार्थस्य यावति शब्दसमूहे सिद्धिः परिसमाप्यते, तस्य पञ्चावयवाः प्रतिज्ञादयः समूहमपेक्ष्यावयवा उच्यन्ते।
तेषु प्रमाणसमवायः।
आगमः प्रतिज्ञा, हेतुरनुमानम्, उदाहरणं प्रत्यक्षमे उपमानमुपनयः, सर्वेषामेकार्थसमवाये सामर्थ्यप्रदर्शनं निगमनमिति।
तदाश्रया च तत्वव्यवस्था।
ते चैतेऽवयवाः

शब्दविशेषाः सन्तः प्रमेयेऽन्तमूता एवमर्थ पुथग्रच्यन्त इति।

तर्को न प्रमाणसंगुहातो, न प्रमाणान्तरम्, प्रमाणानामनुग्राहकस्तत्वज्ञानाय कल्पते।
तस्योदाहरम्, किमिदं जन्म कृतकेन हेतुना निर्वर्त्यते, आहोस्विदकृतकेन, अथाकस्मिकमिति ? एवमविज्ञाततत्वेऽर्थे कारणोपपत्या

उहः प्रवतातेयदि कृतकेन हेतुना निर्वर्त्यते, हेतूच्छेदादुपपन्नोऽयं जन्मोच्छदः।
अथाकृतकेन हेतुना, ततो हेनूच्छेदस्याशक्यत्वादनुपपन्नो जन्मोच्छेदः।
अथाकास्मिकम्, अतोऽकस्मान्निर्वर्त्यमानं न पुनर्निर्वर्त्स्यतीति निवृत्तिकारणं नोपपद्यते।
तेन जन्मानुच्छेद इति।
एतस्मिंस्तर्कविषये कर्मनिमितं जन्मेति प्रमाणानि प्रवर्तमानानि

तर्केणानुगृह्यन्ते।
तन्वज्ञानविषयस्य च विभागात्तत्वज्ञानाय कल्पते तर्क इति।
सोऽयमित्थमभूतस्तर्कः प्रमाणसहितो वादे साधनायोपालम्भाय चार्थस्य भवतीत्येवमर्थ पृथगुच्यते प्रमेयान्तभूतोऽपीति।

निर्णयस्तत्वज्ञानं प्रमाणानां फलम्।
तदवसानो वादः।
तस्य पालनार्थ जल्पवितण्डे।
तावेतौ तर्कनिर्णयौ

लोकयात्रां वहत इति।
सोऽयं निर्णयः प्रमेयान्तर्भूत एवमर्थ पृथगुद्दिष्ट इति।

वादः खलु नानाप्रवक्तृकः प्रत्यधिकरणसाधनोऽन्यतराधिकरणनिर्णयावासानो वाक्यसमूहः पृथगुद्दिष्ट उपलक्षणार्थम्, उपलक्षितेन व्यवहारस्तत्वज्ञानाय भवतीति।

तद्विशेषौ जलवितण्डे तत्वाध्यावसायसंरक्षणार्थतमित्यक्तम्।

निग्रहस्थानभ्यः पृथगुद्दिष्ट हेत्वाभासाः, वादे चौदनीया भविष्यन्तीति।
जल्पवितण्डयोस्तु निग्रहस्थानानीति।

छलजातिनिग्रहस्थानानां पृथगुपदेश उपलक्षणार्थः।
उपलक्षितानां स्वावक्ये परिवर्जनं छलजातिनिग्रहस्थानानां परवाक्ये पर्यनुयोगः।
जातेस्तु परेणप्र युज्यमाणायाः सुलभः समाधिः, स्वयं च सुकरः प्रयोग इति।
सेयमान्वीक्षिकी प्रमाणादिभिः पदार्थैर्विभज्यमाना
प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम्।
आश्रयः सर्वधर्माणां विद्योद्देशे प्रकीर्तिता ॥िति॥
तदिदं तत्वज्ञानं निःश्रेयसाधिगमश्च यथाविद्यं वेदतव्यम्।
इह त्वध्यात्मविद्यायामात्मादिज्ञानं तत्वज्ञानम्।
निःश्रेयसाधिगमापवर्गप्राप्तिरिति॥२॥

न्यायसूत्र १,१.२

तत्खलु वै निःश्रेयसं किं तत्त्वज्ञानानन्तरमेव भवति? नेत्युच्यते किं तर्हि? तत्त्वज्ञानाद्

न्यायसूत्र १,१.२ दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्गः ॥

तत्रात्माद्यपवर्गपर्यन्ते प्रमेये मिथ्याज्ञानमनेकप्रकारकं वर्तते।
आत्मनि तावन्नास्तीति, अनात्मन्यात्मेति, दुःखे सुखमिति, अनित्ये नित्यमिति, अत्राणे त्राणमिति, सभये निर्भयमिति, जुगुप्सितेऽभिमतमिति, हातव्ये अप्रतिहातव्यमिति, प्रवृत्तौ नास्ति कर्म, नास्ति कर्मफलमिति, दोषेषु नायं दोषनिमित्तः संसार इति।
प्रेत्यभावे नास्ति जन्तुर्जीवो वा सत्त्व आत्मा वा यः प्रेयात्प्रेत्य च भवेदिति, अनमित्तं जन्म, अनिमित्तो जन्मोपरम इति, आदिमान् प्रेत्यभावोऽनन्तश्चेति, नैमित्तिकः सन्नकर्मंनिमित्तः प्रेत्यभाव इति, देहेन्द्रियबुद्धिवेदनासन्तानोच्छेदप्रतिसन्धानाभ्यां निरात्मकः प्रेत्यभाव इति।
अपवर्गे भीष्मः खल्वयं सर्वकार्योपरमः, सर्वविप्रयोगेऽपवर्गे बहु भद्रकं लुप्यतमिति कथं बुद्धिमान् सर्वसुखोच्छेदमचैतन्यममुमपवर्गं रोचयेदिति॥

एतस्मान्मिथ्याज्ञानादनुकूलेषु रागः, प्रतिकूलेषु च द्वेषः।
रागद्वेषाधिकाराच्चासत्येर्ष्यासूयामानलोभादयो दोषा भवन्ति।
दोषैः प्रयुक्तः शरीरेण प्रवर्तमानो हिंसास्तेयप्रतिषिद्धमैथुनान्याचरति।
वाचा अनृतपरूषसूचनासम्बद्धानि।
मनसा परद्रोहं परद्रव्याभीप्सां नास्तिक्यं चेति।
सेयंपापात्मिका प्रवृत्तिरधर्माय् ।

अथ शुभा, शरीरेण दानं परित्राणं परचिरणं च।
वाचा सत्यं हितं प्रियं स्वाध्यायं चेति।
मनसा दयामस्पृहां श्रद्धां चेति।
सेयं धर्माय।
अत्र प्रवत्तिसाधनौ धर्माधर्मौं प्रवृत्तिशब्देनोक्तौ, यथान्नसाधनाः प्राणाः, अन्नं वै प्राणिनः प्राणाः इति।
सेयं प्रवृत्तिः कुत्सितस्याभिपूजितस्य च जन्मनः कारणम्।
जन्म पुनः शरीरेन्द्रियबुद्धिवेदनानां निकायविशिष्टः प्रादुर्भावः।
तस्मिन् सति दुःखम्, तत्पुनः प्रतिकूलवेदनीयं बाधना पीडा ताप इति।
त हमे मिथ्याज्ञानादयो दुःखान्ता धर्मा अविच्छेदेन प्रवर्तमानाः संसार इति॥

यदा तु तत्त्वज्ञानान्मिथ्याज्ञानमपैति, तदा मिथ्याज्ञानाये दोषा अपयन्ति।
दोषापाये प्रवृत्तिरपैति, प्रवृत्त्यपाये जन्मापैति।
जन्मापाये दुःखमपैति।
दुःखापाये चात्यन्तिकोऽपवर्गो निःश्रेयसमिति॥

तत्त्वज्ञानं तु खलु मिथ्याज्ञानविपर्ययेण व्याख्यातम्।
आत्मनि तावतस्तीति।
अनात्मन्यनात्मेति।
एवं दुःखेऽनित्येऽत्राणे सभये जुगुप्सिते हातव्ये च यथाविषयं वेदितव्यम्।
प्रवृत्तौ, अस्ति कर्मास्ति कर्मफलमिति।
दोषेष, दोषनिमित्तोऽयं संसार इति।
प्रेत्यभावे खलु, अस्ति जन्तुर्जोवः सत्त्व आत्मा वा यः प्रेयात्प्रेत्य च भवेदिति।
निमित्तवज्जन्म निमित्तवान् जन्मोपरम इति, अनादिः प्रेत्यभावोऽपवर्गान्त इति, नैमित्तिकः सन् प्रेत्यभावः

प्रवृत्तिनिमित्तमिति।
सात्म्कः सन् देहेन्द्रियबुद्धिवेदनासन्तानोच्छेदप्रतिसन्धानाभ्यां प्रवर्तत इति।
अपवर्गे, शान्तः

खल्वयं सर्वविप्रयोगः सर्वोपरमोऽपवर्गः, बहु च कृच्छ्रं घोर पापकं लुप्यत इति कथं बुद्धिमान् सर्वदुःखोच्छेदं सर्वदुःखासंविदमपवर्गं न रोचयेदिति।
तद्यथा, मधुविषसंपृक्तमन्नमनादेयमिति।
एवं सुखं दुःखानुषक्तमनादेयमिति॥२॥

न्यायसूत्र १,१.३
त्रिविधा चास्य शास्त्रस्य प्रवृत्तिरूद्देशो लक्षणं परीक्षा चेति।
तत्र नामधेयेन पदार्थमात्रस्याभिधानमुद्देशः।
तत्रोद्दिष्टस्यातत्त्वव्यवच्छेदको धर्मो लक्षणम्।
लक्षितस्य यथालक्षणमुपपद्यते न वेति प्रमाणैरवधारणं परीक्षा।
तत्रोद्दिष्टस्य प्रविभक्तस्य लक्षणमुच्यते, यथा प्रमाणानां प्रमेयस्य च।
उद्दिष्टस्य लक्षितस्य च विभागवचनम्, यथा छलस्य
वचनविघातोऽर्थविकल्पोपपत्त्या छलम् [१.१.३]
तत्त्रिविधम् [१.२.११]
इति॥
अथोद्दिष्टस्य विभागवचनम्

न्यायसूत्र १,१.३ प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ॥

अक्षास्याक्षस्य प्रतिविषयं वृत्तिः प्रत्यक्षम्।
वृत्तिस्तु सन्निकर्षो ज्ञानं वा।
यदा सन्निकर्षस्तदा ज्ञानं प्रमितिः, यदा ज्ञानं तदा हानोपादानोपेक्षबुद्धयः फलम्।
मितेन लिङ्गेन लिङ्गिनोऽर्थस्य पश्चान्मानमनुमानम्।
उपमानं सामीप्यमानम्, यथा गौरेवं गवय इति।
सामीप्यं तु सामान्ययोगः।
शब्दः शब्द्यतेऽनेनार्थ इत्यभिधीयते विज्ञाप्यत इति॥
उपलब्धिसाधानानि प्रमाणानीति समाख्यानिर्वचनसामार्थ्याद्बोद्धव्यम्।
प्रमीयतेऽनेनेति करणार्थाभिधानो हि प्रमाणशब्दः।
तद्विशेषसमाख्याया अपि तथैव व्याख्यानम्॥

किं पुनरेतानि प्रमाणानि प्रमेयमभिसंप्लवन्ते, अथ प्रतिप्रमेयं व्यवतिष्ठन्त इति? उभयथा दर्शनम्।

अस्त्यात्मेत्याप्तोपदेशात्प्रतीयते।
अत्रानुमानम्,

इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् । [१.१.१०] इति।
प्रत्यक्षं युञ्जानस्य
योगसमाधिजम्,

आत्मान्यात्ममनसोः संयोगपिशेषादात्मा प्रत्यक्षः । [वै.सू. ६.१.११] इति।
अग्निराप्तोपदेशात्प्रतीयते अमुत्राग्निरिति।
प्रत्यासीदता धूमदर्शनेनानुमीयते।
प्रत्यासन्नेन
च प्रत्यक्षत उपलभ्यते।
व्यवस्था पुनः,

अग्निहोत्रं जुहुयात्स्वर्गकामः

इति।
लौकिकस्य स्वर्गे न लिङ्गदर्शनम्, न प्रत्यक्षम्।
स्तनयित्नुशब्दे श्रूयमाणे शब्दहेतोरनुमानम्।
तत्र न प्रत्यक्षं नागमः।
पाणौ च प्रत्यक्षत उपलभ्यमाने नानुमानं नागम इति॥

सा चेयं प्रमितिः प्रत्यक्षपरा।
जिज्ञासितमर्थमाप्तोपदेशात्प्रतिपद्यमानो लिङ्गदर्शनेनापि बुभुत्सते।
लिङ्गदर्शनेनानुमितं च प्रत्यक्षतो दिदृक्षते।
प्रत्यक्षत उपलब्धेऽर्थे जिज्ञासा निवर्तते।
पूर्वोक्तमुदाहरणमग्निरिति।

प्रमातुः प्रमातव्येऽर्थे प्रमाणानां संकरोऽभिसंप्लवः, असकरो व्यवस्थेति ॥३॥
न्यायसूत्र १,१.४

अथ विभक्तानां लक्षणवचनमिति

न्यायसूत्र १,१.४ इन्द्रियार्यसन्निकर्षोत्पन्नु ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् ॥

इन्द्रियस्यार्थेन सन्निकर्षादुत्पद्यते यज्ज्ञानं तत्प्रत्यक्षम्।
न तर्हि इदानीमिदं भवति आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेनेति? नेदं कारणावधारणमेतावत्प्रत्यक्षे कारणमिति, किं तु विशिष्टकारणवचनमिति।
यत्प्रत्यक्षज्ञानस्य विशिष्टकारणं तदुच्यते, यत्तु समानमनुमानादिज्ञानस्य, न तन्निवर्त्यत इति॥

मनसस्तर्हीन्द्रियेण संयोगो वक्तव्यः? भिद्यमानस्य प्रत्यक्षश्रज्ञानस्य नायं भिद्यत इति समानत्वान्नोक्त इति॥

यावदर्थं वै नामधेयशब्दास्तैरर्थसम्प्रत्ययः, अर्थसंप्रत्ययाच्च व्यवहारः।
तत्रेदमिन्द्रियार्थसन्निकर्षादुत्पन्नमर्थज्ञान रूपमिति वा, रस इत्येव वा भवति, रूपरसशब्दाश्च विषयनामधेयम्।
तेन व्यपदिश्यते ज्ञानम्रूपमिति जानीते, रस इति जानीते।
नामघेयशब्देन व्यपदिश्यमानं सत्शाब्दं प्रसज्यत्
अत आहअव्यपदेश्यमिति।
यदिदमनुपयुक्ते शब्दार्थसम्बन्धे अर्थज्ञानम्, न तत्नामधेयशब्देन व्यपदिश्यते, गृहीतेऽपि च शब्दार्थसम्बन्धे अस्यार्थस्यायं शब्दो नामधेयमिति।
यदा तु सोऽर्थो गृह्यते, तदा तत्पूर्वस्मादर्थज्ञानात्
न विशिष्यते, ततर्थविज्ञानं तादृगेव भवति।
तस्य त्वर्थज्ञानस्यान्यः समाख्याशब्दो नास्ति, येन प्रतीयमानं
व्यवहाराय कल्पेत् ।
न चाप्रतीयमानेन व्यवहारः।
तस्माज्ज्ञेयस्यार्थस्य संज्ञाशब्देनेतिकरणयुक्तेन निर्द्धिश्यतेरूपमिति ज्ञानम्, रस इति वा ज्ञानमिति।
तदेवमर्थज्ञानकाले स न समाख्याशब्दो व्याप्रियते, व्यवहारकाले तु व्याप्रियते।
तस्मादशाब्दमर्थज्ञानमिन्द्रियार्थसन्निकर्षोत्पन्नमिति॥
ग्रीष्मे मरीचयो भौमेनोष्मणा संसृष्टाः स्पन्दमाना दूरस्थस्य चक्षुषा सन्निकृष्यन्ते।
तत्रेन्द्रियार्थसन्निकर्षादुदकमिति ज्ञानमुत्पद्यते।
तच्च प्रत्यक्षं प्रसज्यते इत्यत आह अव्यभिचारीति यदेतस्मिंस्तदति

तद्व्यभिचारि, यत्तु तस्मिंस्तदिति तदव्यभिचारि प्रत्यक्षमिति॥

दूराच्चक्षुषा ह्ययमर्थं पश्यन्नावधारयति धूम इति वा रेणुरिति वा।
तदेतदिन्द्रियार्थसन्निकर्षोत्पन्नमनवधारणज्ञानं प्रत्यक्षं प्रसज्यत इत्यत आहव्यवसायात्मकमिति।
न चैतन्मन्तव्यमात्ममनः सन्निकर्षजमेवानवधारणज्ञानमिति।
किं तर्हि? चक्षुषा ह्ययमर्थं पश्यन्नावधारयति, यथा चेन्द्रियेण उपलब्धमर्थ मनसोपलभते, एवमिन्द्रियेणानवधारयन्मनसा नावधारयति।
यच्च तदिन्द्रियानवधारणपूर्वकं मनसानवधारणं तद्विशेषापेक्षं विमर्शेमात्रं संशयः, न पूर्वमिति।
सर्वत्र च प्रत्यक्षविषये ज्ञातुरिन्द्रियेण व्यवसायः, पश्चान्मनसानुव्यवसायः, उपहतेन्द्रियाणामनुव्यवसायाभावादिति॥

आत्मादिषु सुखादिषु च प्रत्यक्षलक्षणं वक्तव्यम्, अनिन्द्रियार्थसन्निकर्षजं हि तदिति।
इन्द्रियस्य वै सतो मनस इन्द्रियेभ्यः पृथगुपदेशो धर्मंभेदात् ।
भौतिकानीन्द्रियाणि नियतविषयाणि, सगुणानां चैषामिन्द्रियभाव इति।
मनस्त्वभौतिकं

सर्वविषयं च, नास्य सगुणस्येन्द्रियभाव इति।
सति चेन्द्रियार्थसन्निकर्षे सन्निधिमसन्निधि चास्य युगपज्ज्ञानानुत्पत्तिकारणं वक्ष्यामः(१।१।१६) इति।
मनसश्चेन्द्रियाभावान्न वाच्यं लक्षणान्तरमिति।

तन्त्रान्तरसमाचाराच्चैतत्प्रत्येतव्यमिति।
परमतमप्रतिषिद्धमनुमतमिति हि तन्त्रयुक्तिः।
व्याख्यातं प्रत्यक्षम् ॥ ४ ॥

न्यायसूत्र १,१.५

न्यायसूत्र १,१.५ अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतो दृष्टं च ॥

तत्पूर्वकमित्यनेन लिङ्गलिङ्गिनोः सम्बन्धदर्शनं।
लिङ्गदर्शनं चाभिसंबध्यते।
लिङ्गलिङ्गिनोः संबद्धयोर्दर्शनेन लिङ्गस्मृतिरभिसंबध्यते।
स्मृत्या लिङ्गदर्शनेन चाप्रत्यक्षोऽर्थोऽनुमीयत् ।

पूर्ववदितियत्र कारणेन कार्यमनुमीयते, यथा मेधोन्नत्या भविष्यति वृष्टिरिति।
शेषवत्तत्यत्र कार्येण कारणमनुमीयते, पूर्वोदकविपरीतमुदकं नाद्याः पूर्णत्वं शीघ्रत्वं दृष्ठ्वा स्त्रोतसोऽनुमीयते भूता वृष्टिरिति।
सामान्यतोदृष्टंव्रज्यापूर्वकमन्यत्र दृष्टस्यान्यत्र दर्शनमिति, तथा चादित्यस्य, तस्मातस्त्यप्रत्यक्षाप्यादित्यस्य व्रज्येति॥

अथ वा पूर्ववदितियत्र यथापूर्व प्रत्यक्षभूतयोरन्यतरदर्शनेनान्यतरस्याप्रत्यक्षस्यानुमानम्, यथा

धूमेनाग्निरिति।
शेषवन्नाम परिशषः, स च प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गाच्छिष्यमाणे संप्रत्ययः, यथा सदनित्यमेवमादिना द्रव्यगुणकर्मणामविशेषेण सामान्यविशेषसमवायेभ्यो निर्भक्तस्य शब्दस्य, तस्मिन् द्रव्यगुणकर्मसंशये, न द्रव्यम्, एकद्रव्यत्वात्, न कर्म, शब्दान्तरहेतुत्वात्, यस्तु शिष्यते सोऽयमिति शब्दस्य गुणत्वप्रतिपत्तिः।
सामान्यतोदृष्टं नामयत्राप्रत्यक्षे लिङ्गलिङ्गिनोः सम्बन्धे केनचिदर्थेन लिङ्गस्य सामान्यादप्रत्यक्षो लिङ्गी गम्यते, यथेच्छादिभिरात्मा, इच्छादयोगुणाः, गुणाश्च द्रव्यसंस्थानाः, तद्यदेषां स्थानं स आत्मेति॥

विभागवचनादेव त्रिविधमिति सिद्धे त्रिविधवचनं महतो महाविषयस्य न्यायस्य लघीयसा सूत्रेणोपदेशात्परं

वाक्यलाघवं मन्यमानस्यान्यस्मिन् वाक्यलाघवेऽनादरः।
तथा चायमस्येत्थम्भूतेन वाक्यविकल्पेन प्रवृत्तः सिद्धान्ते छले शब्दादिषु च बहुलं समाचारः शास्त्र इति॥

सद्विषयं च प्रत्यक्षं सदसद्विषयं चानुमानम्।
कस्मात्? त्रैकाल्यग्रहणात्त्रिकालयुक्ता अर्था अनुमानेन गृह्यन्ते।
भविष्यतीत्यनुमीयते भवतीति चाभूदिति च।
असच्च ख्ल्वतीतमनागतं चेति ॥५॥

न्यायसूत्र १,१.६

अथोपमानम्

न्यायसूत्र १,१.६ प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम् ॥

प्रज्ञातेन सामान्यात्प्रज्ञापनीयस्य प्रज्ञापनमुपमानमिति।
यथा गौरेवं गवय इति।
किं पुनरत्रोपमानेन क्रियते? यदा खल्वयं गवा समानधर्मं प्रतिद्यते, तदा प्रत्यक्षतस्तमर्थं प्रतिपद्यत इति।
समाख्यासम्बन्धप्रतिपत्तिः उपमानार्थमित्याह।
यथा गौरेवं गवय इत्युपमाने प्रयुक्ते गवा समानधर्माणमर्थमिन्द्रियार्थसंनिकर्षादुपलभमानोऽस्य गवयशब्दः संज्ञेति संज्ञासज्ञिसम्बन्धं प्रतिपद्यत इति।
यथा मुद्गस्तथा मूद्गपर्णी यथा भाषस्तथा माषपणीत्युपमाने प्रयुक्ते उपमानात्संज्ञासंज्ञिसम्बन्धं प्रतिपद्यमानस्तामोषधी भैषज्याय आहरति।
एवमन्योऽप्युपमानस्य लोके विषयो बुभुत्सितव्य इति ॥६॥

न्यायसूत्र १,१.७

अथ शब्दः

न्यायसूत्र १,१.७ आप्तोपदेशः शब्दः ॥
आप्तः खलु साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा।
साक्षात्करणमर्थस्याप्तिः,
तया प्रवर्तत इत्याप्तः।
ऋष्यार्यम्लेच्छानां समानं लक्षणम्।
तथा च सर्वेषां व्यवहाराः प्रवर्तन्त इति।
एवमेभिः प्रमाणैर्देवमनुष्यतिरश्चां व्यवहाराः प्रकल्पन्ते, नातोऽन्यथेति ॥७॥

न्यायसूत्र १,१.८

न्यायसूत्र १,१.८ स द्विविधो दृष्टादृष्टार्थत्वात् ॥

यस्येह दृश्यतेऽर्थः स दृष्टार्थः।
यस्यामुत्र प्रतीयत सोऽदृष्टार्थः।
एवमृषिलौकिकवाक्यानां विभाग इति।
किमर्थं पुनरिदमुच्यते? स न मन्येत दृष्टार्थमेवाप्तोपदेशः प्रमाणम्, अर्थस्यावधारणादित, अदृष्टार्थोऽपि
प्रमाणमर्थस्यानुमानादिति।
इति प्रमाणभाष्यम् ॥ ८ ॥

न्यायसूत्र १,१.९

किं पुनरनेन प्रमाणेनार्थजातं प्रमातव्यमिति? तदुच्यते

न्यायसूत्र १,१.९ आत्माशरीरेन्द्रियार्थबुद्धिमनःवृत्तिदोषप्रेत्यभावफलदुःखापवर्गासतु प्रमेयम् ॥

तत्रात्मा सर्वस्य द्रष्टा सर्वस्य भोक्ता सर्वज्ञः सर्वानुभावी।
तस्य भोगायतनं शरीरम्।
भोगसाधनानीन्द्रियाणि।
भोक्तव्या इन्द्रियार्थाः।
भोगो बुद्धिः।
सर्वार्थोपलब्धौ नेन्द्रियाणि प्रभवन्तीति सर्वविषयमन्तःकरण मनः।
शरीरेन्द्रियार्थबुद्धिसुखदुःखसंवेदनानां निर्वृत्तिकारणं प्रवृत्तिः, दोषश्च।
नास्येदं शरीरमपूर्वमनुत्तरं च।
पूर्वशरीराणामादिर्नास्ति, उत्तरेषामपवर्गोऽन्त इति प्रेत्यभावः।
समाधनसुखदुःखोपभोगः फलम्।
दुःखमिति नेदमनुकूलवेदनीयस्य सुखस्य प्रतीतेः प्रत्याख्यानम्।
किं तर्हि? जन्मन एवेदं ससुखसाधनस्य दुःखानुषङ्गात्दुःखेनाविप्रयोगाद्विविधबाधनायोगाद्दुःखमिति समाधिभावनमुपदिश्यते।
समाहितो भावयति,
भावयन्निर्विद्यते, निर्विण्णस्य वैराग्यम्, विरक्तस्यापवर्ग इति।
जन्ममरणप्रबन्धोच्छेदः सर्वदुःखप्रहाणमपवर्ग इति॥
अस्त्यन्यदपि द्रव्यगुणकर्मसामान्यविशेषसमवायाः प्रमेयम्, तद्भेदेन चापरिसड्ख्येयम्।
अस्य तु तत्त्वज्ञानादपवर्गो मिथ्याज्ञानात्संसार इत्यत एतदुपदिष्टं विशेषेणेति ॥९॥

न्यायसूत्र १,१.१०
तत्रात्मा तावत्प्रत्यक्षतो न गृह्यते।
स किमाप्तोपदेशमात्रादेव प्रतिपद्यत इति? नेत्युच्ते।
अनुमानाच्च प्रतिपत्तव्य इति।
कथम्?

न्यायसूत्र १,१.१० इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् ॥

यज्जातीयस्यार्थस्य सन्निकर्षात्सुखमात्मापलब्धवान्, तज्जातीयमेव अर्थं पश्यन्नुपादातुमिच्छति, सेयमादातुमिच्छा एकस्यानेकार्थदर्शिनो दर्शनप्रतिसन्धानाद्भवति लिङ्गमात्मनः।
नियतविषये हि बुद्धिभेदमात्रे न संभवति, देहान्तरवदिति।
एकमेकस्यानेकार्थदर्शिनो दर्शनप्रतिसन्धानात्दुःखहेतौ द्वेषः।
यज्जातीयोऽस्यार्थः सुखहेतुः प्रसिद्धस्तज्जातीयमर्थ पश्यनादातुं प्रयतते।
सोऽयं प्रयत्न एकमनेकार्थदर्शिनं दर्शनप्रतिसन्धातारमन्तेरण न स्यात् ।
नियतविषये हि बुद्धिभेदामात्रे न संभवति, देहान्तरवदिति।
एतेन दुःखहेतौ प्रयत्नो व्याख्यातः।
सुखदुःखस्मृत्या चायं तत्साधनमाददानः सुखमुपलभते दुःखमुपलभते, सुःखदुःखे वेदयते।
पूर्वोक्त एव हेतुः।
बुभुत्समानः खल्वयं विमृशति किं स्विदिति, विमृशंश्च जानीते इदमिति, तदिदं ज्ञानं बुभुत्साविमर्शाभ्यामभिन्नकर्तृकं गृह्यमाणमात्मनो लिङ्गम्।
पूर्वोक्त एव हेतुरिति।
तत्र देहान्तरवदिति विभज्यते।
यथा अनात्मवादिनो देहान्तरेषु नियतविषया बुद्धिभेदा न प्रतिसन्धीयन्ते, तथैकदेहविषया अपि न प्रतिसन्धीयेरन्, अविशेषात् ।
सोऽयमेकसत्त्वस्य समाचारः स्वयन्दृष्टस्य स्मरणं, नान्यदृष्टस्य, नादृष्टस्येति।
एवं खलु नानासत्त्वानां समाचारोऽन्यदृष्टमन्यो न स्मरतीति।
तदेतदुभयमशक्यमनात्मवादिना व्यवस्थापयितुमित्येवमुपपन्नमस्त्यात्मेति ॥१०॥
न्यायसूत्र १,१.११

तस्य भोगाधिष्ठानम्

न्यायसूत्र १,१.११ चेष्टेन्द्रियार्थाश्रयः शरीरम् ॥

कथं चेष्टाश्रयः? ईप्सितं जिहासितं वार्थमधिकृत्येप्साजिहासाप्रयुक्तस्य तदुपायानुष्ठानलक्षणा समीहा चेष्टा, स यत्र

वर्तते तच्छरीरम्।
कथमिन्द्रियाश्रयः? यस्यानुग्रहेणानुगृहीतानि उपघाते न चोपहतानि स्वविषयेषु साध्वसाधुषु प्रवर्तन्ते, स एषामाश्रयः तच्छरीरम्।
कथमर्थाश्रयः? यस्मिन्नायतने इन्द्रियार्थसन्निकर्षादुत्पन्नयोः सुखदुःखयोः प्रतिसंवेदनं प्रवर्तते, स एषामाश्रयः तच्छरीरमिति ॥११॥

न्यायसूत्र १,१.१२

भोगसाधनानि पुनः,

न्यायसूत्र १,१.१२ घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः ॥

जिघ्रत्यनेनेति घ्राणं गन्धं गृह्णातीति।
रसयत्यनेनेति रसनं रसं गृह्णातीति।
चष्टेऽनेनेति चक्षू रूपं पश्यतीति।
त्वक्स्थानमिन्द्रियं त्वक् ।
तदुपचारः स्थानादिति।
शृणोत्यनेनेति श्रोत्रं शब्दं गृह्णातीति।
एवं समाख्यानिर्वचनसामर्थ्याद्बोध्यं स्वविषयग्रहणलक्षणानीन्द्रियाणीति।
भूतेभ्य इति।
नानाप्रकृतीनामेषां सतां विषयनियमः, नैकप्रकृतीनाम्।
सति च विषयनियमे स्ववषियग्रहणलक्षण्त्वं भवतीति ॥१२॥

न्यायसूत्र १,१.१३

कानि पुनरिन्द्रियकारणानि?

न्यायसूत्र १,१.१३ पृथिव्यापस्तेजो वायुराकाशमिति भूतानि ॥

संज्ञाशब्दैः पृथगुपदेशो भूतानां विभक्तानां सुवचं कार्यं भविष्यतीति ॥१३॥

न्यायसूत्र १,१.१४

इमे तु खलु

न्यायसूत्र १,१.१४ गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः ॥

पृथिव्यादीनां यथाविनियोगं गुणा इन्द्रियाणां यथाक्रममर्था विषया इति ॥१४॥

न्यायसूत्र १,१.१५

अचेतनस्य करणस्य बुद्धेर्जानं वृत्तिः, चेतनस्याकर्तुरूपलब्धिरिति युक्तिविरुद्धमर्थं प्रत्याचक्षाणक इवेदमाह

न्यायसूत्र १,१.१५ बुद्धिरूपलब्धिर्ज्ञानमित्यनर्थान्तरम् ॥

नाचेतनस्य करणस्य बुद्धेर्ज्ञानं भवितुमर्हति।
तद्धि चेतनं स्यात् ।
एकश्चायं चेतनो देहेन्द्रियसङ्घातव्यतिरिक्त इति।
प्रमेयलक्षणार्थस्य वाक्यस्यान्यार्थप्रकाशनमुपपत्तिसामर्थ्यादिति ॥१५॥

न्यायसूत्र १,१.१६

स्मृत्यनुमानागमसंशयप्रतिभास्वप्नज्ञानोहाः सुखादिप्रत्यक्षमिच्छादयश्च मनसो लिङ्गानि।
तेषु सत्स्वियमपि

न्यायसूत्र १,१.१६ युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ॥

अनिन्द्रियनिमित्ताः स्मृत्यादयः करणान्तरनिमित्ता भवितुमर्हन्तीति।
युगपच्च खलु घ्राणादीनां गन्धादीनां च सन्निकर्षेषु सत्सु युगपज्ज्ञानानि नोत्पद्यन्ते।
तेनानुमीयते, अस्ति तत्तदिन्द्रियसंयोगि सहकारि निमित्तान्तरमव्यापि, यस्यासन्निधेर्नोत्पद्यते ज्ञानम्, सन्निधेश्चोत्पद्यत इति।
मनःसंयोगानपेक्षस्य हीन्द्रियार्थसन्निकर्षस्य ज्ञानहेतुत्वे युगपदुत्पद्येरन् ज्ञानानीति ॥१६॥

न्यायसूत्र १,१.१७

क्रमप्राप्ता तु

न्यायसूत्र १,१.१७ प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः ॥

मनोऽत्र बुद्धिरित्यभिप्रेतम्, बुध्यतेऽनेनेति बुद्धिः।
सोऽयभारम्भः शरीरेण वाचा मनसा च पुण्यः पापश्च दशविधः।
तदेतत्कृतभाष्यं द्वितीयसूत्र इति ॥१७॥

न्यायसूत्र १,१.१८

न्यायसूत्र १,१.१८ प्रवर्तनालक्षणा दोषाः ॥

प्रवर्तनाप्रवृत्तिहेतुत्वम्, ज्ञातारं हि रागादयः प्रवर्तयन्ति पुण्ये पापे वा।
यत्र मित्याज्ञानं तत्र रागद्वेषाविति।
प्रत्यात्मवेदनीया हीमे दोषाः कस्माल्लक्षणतो निद्र्दिश्यन्त इति? कर्मलक्षणाः खलु रक्तद्विष्टमूढाः, रक्तो हि तत्कर्म कुरुते येन कर्मणा सुखं दुःखं वा लभते, तथा द्विष्टस्तथा मूढ इति।
दोषा रागद्वेषमोहा
इत्युच्यमाने बहु नोक्तं भवतीति ॥१८॥

न्यायसूत्र १,१.१९

न्यायसूत्र १,१.१९ पुनरुत्पत्तिः प्रेत्यभावः ॥

उत्पन्नस्य क्वचित्सत्त्वनिकाये मृत्वा या पुनरूत्पत्तिः स प्रेत्यभावः।
उत्पन्नस्यसम्बद्धस्य।
सम्बन्धस्तु देहेन्द्रियबुद्धिवेदनाभिः।
पुनरूत्पत्तिः पुनर्देहादिभिः सम्बन्धः।
पुररित्यभ्यासाभिधानम्।
यत्र क्वचित्प्राणभृन्निकाये वर्त्तमानः पूर्वोपात्तान् देहादीन् जहाति तत्प्रैति।
यत्तत्रान्यत्र वा देहादीनन्यानुपादत्ते तद्भवति।
प्रेत्यभावःमृत्वा पुनर्जन्म।
सोऽयं जन्ममरणप्रबन्धाभ्यासोऽनादिरपवर्गान्तः प्रेत्यभावो वेदितव्य इति ॥१९॥
न्यायसूत्र १,१.२०

न्यायसूत्र १,१.२० प्रवृत्तिदोषजनितोऽर्थः फलम् ॥

सुखदुःखसंवेदनं फलम्।
सुखविपाकं कर्म दुःखविपाकं च।
तत्पुनर्देहेन्द्रियविषयबुद्धिषु सतीषु भवतीति सह देहादिभिः फलमभिप्रतम्।
तथा हि प्रवृत्तिदोषजनितोऽर्थ फलमेतत्सर्वं भवति।
तदेतत्फलमुपात्तमुपात्तं हेयम्, त्यक्तं त्यक्तमुपादेयमिति नास्य हानोपादानयोर्निष्ठा पर्यवसानं वास्ति, स खल्वयं फलस्य हानोपादानस्रोततसोह्यते लोक इति ॥२०॥

न्यायसूत्र १,१.२१

अथैतदेव

न्यायसूत्र १,१.२१ बाधनालक्षणं दुःखम् ॥

बाधना पीडा ताप इति।
तयानुबद्धमनषक्तमविनिर्भागेन वर्तमानं दुःखयोगाद्दुःखमिति।
सोऽयं सर्वं दुःखेनानुबद्धमिति पश्यन् दुःखं जिहासुर्जन्मनि दुःखदर्शी निर्विद्यते निर्विण्णो विरज्यते विरक्तो विमुच्यते ॥२१॥
न्यायसूत्र १,१.२२

यत्र तु निष्ठा यत्र तु पर्यवसानं सोऽयम्

न्यायसूत्र १,१.२२ तदत्यन्तविमोक्षोऽपवर्गः ॥

तेन दुःखेन जन्मना अत्यन्तं विमुक्तिरपवर्गः।
कथम्? उपात्तस्य जन्मनो हानम्, अन्यस्य चानुपादानम्।
एतामवस्थामपर्यन्तामपवर्गं वेदयन्तेऽपवर्गविदः।
तदभयमजरममृत्युपदं ब्रह्म क्षेमप्रापितरिति॥

नित्यं सुखमात्मनो महत्त्ववत्तत्तु मोक्षे अभिव्यज्यते, तेनाभिव्यक्तेनात्यन्तं विमुक्तः सुखी भवतीति केचित्मन्यन्ते।
तेषां प्रमाणाभावादनुपपत्तिः।
न प्रत्यक्षं नानुमानं नागमो वा विद्यते, नित्यं सुखमात्मनो महत्त्ववत्तत्तु मोक्षेऽभिव्यज्यत इति॥

नित्यस्याभिव्यक्तिः संवेदनम्, तस्य हेतुवचनम्।
नित्यस्य सुखस्याभिव्यक्तिः संवेदनं ज्ञानमिति, तस्य हेतुर्वाच्यो यतस्तदुत्पद्यत इति॥

सुखवन्नित्यमिति चेत्? संसारस्थस्य मुक्तेनाविशेषः।
यथा मुक्तः सुखेन तत्संवेदनेन च सन्नित्येनोपपन्नस्तथा

संसारस्थोऽपीत्यविशेषः प्रसज्यते, उभयस्य नित्यत्वात् ॥

अभ्युनुज्ञाने च धर्माधर्मफलेन साहचर्यं यौगपद्यं गृह्यते।
यदिदमुत्पत्तिस्थानेषु धर्माधर्मफलं सुखं दुःखं च संवेद्यते पर्यायेण, तस्य च नित्यसंवेदनस्य च सहभावो यौगपद्यं गृह्येत, न सुखाभावो नानभिव्यक्तिरस्ति, उभयस्य नित्यत्वात् ।

अनित्यत्वे हेतुवचनम्।
अथ मोक्षे नित्यस्य सुखस्य सवेदनमनित्यम्? यतस्तदुत्पद्यते स हेतुर्वाच्यः।
आत्ममनःसंयोगस्य निमित्तान्तरसहितस्य हेतुत्वम्।
तस्य सहकारिनिमित्तान्तरवचनम्।
आत्ममनःसंयोगो हेतुरिति चेत्? एवमपि तस्य सहकारि निमित्तान्तरं वचनीयमिति॥

धर्मस्य कारणवचनम्।
यदि धर्मो निमित्तान्तरम्? तस्य हेतुर्वाच्यो यत उत्पद्यत इति।
योगसमाधिजस्य कार्यावसायविरोधात्प्रक्षये संवेदनेनिवृत्तिः।
यदि योगसमाधिजो धर्मो हेतुः? तस्य कार्यावसायविपोधात्प्रक्षये संवेदनममत्यन्तं निवर्तेत् ।

असंवेदने चाविद्यमानेनाविशेषः।
यदि धर्मक्षयात्संवेदनोपरमो नित्यं सुखं न संवेद्यते इति किं विद्यमानं न संवेद्यते, अथाविद्यमानमिति नानुमानं विशिष्टेऽसतीति।

अप्रक्षयश्च धर्मस्य निरनुमानमुत्पत्तिधर्मकस्यानित्यत्वात् ।
योगसमाधिजो धर्मो न क्षीयत इति नास्त्यनुमानम्।
उत्पत्तिधर्मकमनित्यमिति विपर्ययस्य त्वनुमानम्।
यस्य तु संवेदनोपरमो नास्ति तेन संवेदनहेतुर्नित्य इत्यनुज्ञेयम्॥

नित्ये च मुक्तसंसारस्थयोरविशेष इत्युक्तम्।
यथा मुक्तस्य नित्यं सुखं तत्संवेदनहेतुश्च, संवेदनस्य तूपरमो नास्ति, कारणस्य नित्यत्वात्, तथा संसारस्थस्यापीति।
एवं च सति धर्माधर्मफलेन सुखदुःखसंवेदनेन साहचर्यं गृह्येतेति॥

शरीरादिसम्बन्धः प्रतिबन्धहेतुरिति चेत्? न, शरीरादीनामुपभोगार्थत्वात्, विपर्ययस्य चाननुमानात् ।
स्यान्मतम्, संसारावस्थस्य शरीरादिसम्बन्धो नित्यसुखसंवेदनहेतोः प्रतिबन्धकः, तेनाविशेषो नास्तीति।
एतच्चायुक्तम्, शरीरादय उपभोगार्थास्ते भोगप्रतिबन्धं करिष्यन्तीत्य नुपपन्नम् ।
न चास्त्यनुमानमशरीरस्यात्मनो भोगः कश्चिदस्तीति॥

इष्टाधिगमार्था प्रवृत्तिरिति चेत्? न, अनिष्टोपरमार्थत्वात् ।
इदमनुमानम्, इष्टाधिगमार्थो मोक्षोपदेशः प्रवृत्तिश्च मुमुक्षूणाम्, नोभयमनर्थकमिति।
एतच्चायुक्तम्, अनिष्टोपरमार्थो मोक्षोपदेशः, प्रवृत्तिश्च मुमुक्षूणामिति।
नेष्टमनिष्टेनाननुबद्धं सम्भवतीति अनिष्टानुबन्धातिष्टमप्यनिष्टसम्पद्यते, अनिष्टहानाय च घटमान इष्टमपि जहाति, विवेकहानस्याशक्यत्वादिति॥

दृष्टातिक्रमश्च देहादिषु तुल्यः।
यथा दृष्टमनित्यं सुखं परित्यज्य नित्यं सुखं कामयते, एवं देहेन्द्रिय बुद्धीरनित्या दृष्टा अनिक्रम्य मुक्तस्य नित्या देहेन्द्रियबुद्धयः कल्पयितव्याः, साधीयश्चैवं मुक्तस्य चैकात्म्यं कल्पितं भवतीति॥

उपपत्तिविरूद्धमिति चेत्? समानम्।
देहादीनां नित्यत्वं प्रमाणविरूद्धं कल्पययितुमशक्यमिति? समानम्।
सुखस्यापि तर्हि नित्यत्वं प्रमाणविरूद्धं कल्पयितुमशक्यमिति॥

आत्यन्तिके च संसारदुःखाभावे सुखवचनादागमेऽपि सत्यविरोधः।
यद्यपि कश्चिदागमः स्यात्मुक्तस्यात्यन्तिकं सुखमिति? सुखशब्द आत्यन्तिके दुःखाभावे प्रयुक्त इत्येवमुपपद्यते, दृष्टो हि दुःखाभावे सुखशब्दप्रयोगो बहुलंलोक इति॥

नित्यसुखरागस्याप्रहाणे मोक्षाधिगमाभावो रागस्य बन्धनसमाज्ञानात् ।
यद्ययं मोक्षे नित्यं सुखमभिव्यज्यत इति नित्यसुखरागेण मोक्षायघटमाना न मोक्षमधिगच्छेत्, नाधिगन्तुमर्हतीति।
बन्धनसमाज्ञातो हि रागः।
न च बन्धने सत्यपि कश्चिन्मुक्त इत्युपपद्यत इति॥

प्रहीणनित्यसूखरागस्याप्रतिकूलत्वम्।
अथास्य नित्यसुखरागः प्रहीयते, तस्मिन्प्रहीणे नास्य नित्यसुखारागः प्रतिकूलो भवति? यद्येवम्, मुक्तस्य नित्यं सुखं भवति, अथापि न भवति, नास्योभयोः पक्षयोर्मोक्षाधिगमो विकल्प्यत इति ॥ २२ ॥

न्यायसूत्र १,१.२३

स्थानवत एतर्हि संशयस्य लक्षणं वाच्यमिति तदुच्यते

न्यायसूत्र १,१.२३ समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरूपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः ॥

समानधर्मोपपत्तेर्विशेषापेक्षो विमर्शः संशय इति।
स्थाणुपुरूषयोः समानं धर्ममारोहपरिणाहौ पश्यन् पूर्वदृष्टं च तयोविशेषं बुभुत्समानः किस्विदित्यन्यतरं नावधारयति, यत्तदनवधारणज्ञानं स संशयः।
समानमनयोर्धर्ममुपलभे विशेषमन्यतरस्य नोपलभ इत्येषा बुद्धिः अपेक्षा।
सा संशयस्य प्रवर्त्तिका वर्त्तते।
तेन विशेषापेक्षो विमर्शः संशयः॥

अनेकधर्मोपपत्तेरिति।
समानजातोयमसमानजातीयं चानेकम्।
तस्यानेकस्य धर्मोपपत्तेः विशेषस्योभयथा दृष्टत्वात् ।
समानजातीयेभ्योऽसमानजातीयेभ्यश्चार्था विशिष्यन्ते, गन्धवत्त्वात्पृथिव्यवादिभ्यश्च विशिष्यते, गुणकर्मभ्यश्च।
अस्ति च शब्दे विभागजन्यत्वं विशेषः।
तस्मिन् द्रव्यं गुणः कर्म वेति सन्देहः, विशेषस्योभयथा दृष्टत्वात् ।
किं द्रव्यस्य सतो गुणकमभ्यो विशेषः, आहोस्विदगुणस्य सतो द्रव्यकर्मभ्यः, अथ

कर्मणः सतो द्रव्यगुणेभ्य इति? विशेषापेक्षा अन्यतमस्य व्यवस्थापकं धर्मं नोपलभ इति बुद्धिरिति॥

विप्रतिपत्तेरिति।
व्याहतमेकार्थदर्शनं विप्रतिपत्तिः, व्याघातः विरोधोऽसहभाव इति।
अस्त्यात्मेकं दर्शनं नास्त्यात्मेत्यपरम्।
न च सद्भावासद्भावौ सहैकत्र सम्भवतः।
न चान्यतरसाधको हेतुरूपलभ्यते।
तत्र तत्त्वानवधारणं संशय इति॥

उपलब्ध्यव्यव्थातः खल्वपि।
सच्चोदकमुपलभ्यते तडागादिषु, मरीचिषु चाविद्यमानमुदकमिति, अतः क्कचिदुपसभ्यमाने तत्त्वव्यवस्थापकस्य प्रमाणस्यानुपलब्धेः किं सदुपलभ्यतेऽथासदिति संशयो भवति॥

अनुपलब्ध्यवस्थातश्च।
सच्च नोपलभ्यते मूलकीलकोदकादि, असच्चानुत्पन्नं निरूद्धं वा, ततः क्कचिदनुपलभ्यमाने, किं सन्नोपलभ्यते उतासदिति संशयो भवति।
विशेषापेक्षो पूर्ववत् ॥

पूर्वः समानोऽनेकश्च धर्मो ज्ञेयस्थः, उपलब्ध्यनुपलब्धी पुनर्ज्ञातृस्थे, एतावता विशेषेण पुनर्वचनम्।
समानधर्माधिगमात्समानधर्मोपपत्तेर्विशेषस्मृत्यपेक्षो विमर्श इति ॥२३॥
न्यायसूत्र १,१.२४

स्थानवतां लक्षणवचनमिति समानम्।

न्यायसूत्र १,१.२४ यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् ॥

यमर्थमाप्तव्यं हातव्यं वा व्यवसाय तदाप्तिहानोपायमनुतिष्ठति, प्रयोजनं तद्वेदितव्यम्, प्रवृत्तिहेतुत्वात् ।
इममर्थमाप्स्यामि हास्यामि वेतिव्यवसायोऽर्थस्याधिकारः, एवं व्यवसीयमानोऽर्थोऽधिक्रियत इति॥१४॥

न्यायसूत्र १,१.२५

न्यायसूत्र १,१.२५ लौकिकपरीक्षदाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः ॥

लोकसामान्यमनतीताः लौकिकाः, नैसर्गिकं वैनयिकं बुद्ध्यतिशयमप्राप्ताः।
तद्विपरीताः परीक्षकाः, तर्केण प्रमाणैरर्थं परीक्षितुमर्हन्तीति।
यथा यमर्थं लौकिका बुध्यतन्ते, तथा परीक्षका अपि, सोऽर्थो दृष्टान्तः।
दृष्टान्तविरोधेन हि प्रतिपक्षाः प्रतिषेद्धव्या भवन्तीति, दृष्टान्तसमाधिता न स्वपक्षाः स्थापनीया भवन्तीति, अवयवेषु चोदाहरणाय कल्पत इति ॥२५॥
न्यायसूत्र १,१.२६

अथ सिद्धान्तः।
इदमित्थम्भूतञ्चेत्यभ्यनुज्ञायमानमर्थजातं सिद्धं सिद्धस्य संस्थितिः सिद्धान्तः।
संस्थितिरित्थम्भावव्यवस्थाधर्मनियमः।
स खल्वयम्

न्यायसूत्र १,१.२६ तन्त्राधिकरणाभ्युपगसंसस्थितिः सिद्धान्तः ॥

तन्त्रार्थसस्थितिः तन्त्रसंस्थितिः।
तन्त्रमितरेतराभिसम्बद्धस्यार्थसमूहस्योपदेशः शास्त्रम्।
अधिकरणानुषक्तार्थसंस्थितिरधिकरणसंस्थितिः।
अभ्युपगमसंस्थितिरनवधारितार्थपरिग्रहः।
तद्विशेषपरीक्षणायाभ्युपगमसिद्धान्तः ॥ २६ ॥
न्यायसूत्र १,१.२७

तन्त्रभेदात्तु खलु स चतुर्विधः

न्यायसूत्र १,१.२७ सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् ॥

तत्रैताश्चतस्रः संस्थितयोऽर्थान्तरभूताः॥२७॥
न्यायसूत्र १,१.२८

तासाम्

न्यायसूत्र १,१.२८ सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः ॥

यथा घ्राणादीनीन्द्रियाणि, गन्धादय इन्द्रियार्थाः, पृथिव्यादीनि भूतानि, प्रमाणैरर्थस्य ग्रहणमिति ॥२८॥
न्यायसूत्र १,१.२९

न्यायसूत्र १,१.२९ समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः ॥

यथा नासत अत्मलाभः, न सत आत्महानम्, निरतिशयाश्चेतनाः देहेन्द्रियमनःसं विषयेषु तत्तत्कारणेषु च विशेष इति साङ्ख्चानाम् ।
पुरुषकर्मादिनिमित्तो भूतसर्गः, कर्महेतवो दोषाः प्रवृत्तिश्च, स्वगुणविशिष्टाश्चेतनाः, असदुत्पद्यते उत्पन्नं निरुध्यत इति योगानाम् ॥२९॥
न्यायसूत्र १,१.३०

न्यायसूत्र १,१.३० यत्सिद्धावन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः ॥

यस्यार्थस्य सिद्धावन्येऽर्था अनुषज्यन्ते, न तैर्विना सोऽर्थः सिध्यति तेऽर्था यदधिष्ठानाः, सोऽधिकरणसिद्धान्तः।
यथा देहेन्द्रियव्यतिरिक्तो ज्ञाता दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति।
अत्रानुषङ्गिणोऽर्था
इन्द्रियनानात्वम्, नियतविषयाणीन्द्रियाणि, स्वविषयग्रहणलिङ्गानि ज्ञातुर्ज्ञानसाधनानि, गन्धादिगुणव्यतिरिक्तं द्रव्यम्, गुणाधिकरणमनियतविषयाश्चेतना इति।
पूर्वार्थसिद्धावेतेऽर्थाः सिध्यन्ति।
न तैर्विना सोऽर्थः सम्भवतीति॥३०॥

न्यायसूत्र १,१.३१

न्यायसूत्र १,१.३१ अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणमभ्युपगसिद्धान्तः ॥

यत्र किंचिदर्थजातमपरीक्षितमभ्युपगम्यते, अस्तु द्रव्यं शब्दः, स तु नित्योऽथानित्य इति? द्रव्यस्य सतो अनित्यता नित्यता वा तद्विशेषः परीक्ष्यते, सोऽभ्युपगमसिद्धान्तः स्वबुद्ध्यतिशयचिख्यापयिषया परबुद्ध्यवज्ञानाय च प्रवर्तत इति ॥३१॥

न्यायसूत्र १,१.३२

अथावयवाः

न्यायसूत्र १,१.३२ प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः ॥

दशावयवानेके नौययिका वाक्ये सञ्चक्षते जिज्ञासा संशयः शक्यप्राप्तिः प्रयोजनं संशयव्युदास इति।
ते कस्मान्नोच्यन्त इति? तत्राप्रतीयमानेऽर्थे प्रत्ययार्थस्य प्रवर्तिका जिज्ञासा।
अप्रतीयमानमर्थं कस्माज्जिज्ञासते? तं तत्त्वतो ज्ञातं हास्यामि वोपादास्य उपेक्षिष्ये वेति।
ता एता हानोपादानोपेक्षाबुद्धयस्तत्त्वज्ञानस्यार्थः तदर्थमयं जिज्ञासते।
सा खल्वियमसाधनमर्थस्येति।
जिज्ञासाधिकष्ठानं संशयश्च व्याहतधर्मोपसङ्घातात्तत्वज्ञाने प्रत्यासन्नः।
व्याहतोर्हि धर्मयोरन्यतरत्तत्त्वं भवितुमर्हतीति।
स पृथगुपदिष्टोऽप्यसाधनमर्थस्येति।
प्रमातुः प्रमाणानि प्रमेयाधिगमार्थानि, सा शक्यप्राप्तिर्न साधकस्य वाक्यस्य भागेन युज्यते प्रतिज्ञादिवदिति।
प्रयोजनं तत्त्वावधारणमर्थसाधकस्य वाक्यस्य फलं नैकदेश इति।
संशयव्युदासः प्रतिपक्षोपवर्णनं तत्प्रतिषेधेन तत्त्वज्ञानाभ्यनुज्ञानार्थम्, न त्वयं साधकवाक्यैकदेश इति।
प्रकरणे तु जिज्ञादय समर्था अवधारणीयार्थोपकारात् ।
तत्त्वार्न्थसाधकभावात्तु प्रतिज्ञादयः साधकवाङ्क्यस्य भागा एकदेशा अवयवा इति ॥ ३२ ॥
न्यायसूत्र १,१.३३

तेषां तु यथाविभक्तानाम्

न्यायसूत्र १,१.३३ साध्यनिर्देशः प्रतिज्ञा ॥

प्रज्ञापनीयेन धर्मेण धर्मिणो विशिष्टस्य परिग्रहवचनं प्रतिज्ञा साध्यनिर्देशः।
अनित्यः शब्द इति ॥ ३३ ॥
न्यायसूत्र १,१.३४

न्यायसूत्र १,१.३४ उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः ॥

उदाहरणेन सामान्यात्साध्यस्य धर्मस्य साधनं प्रज्ञापनं हेतुः।
साध्ये प्रतिसन्धाय धर्ममुदाहरणे च प्रतिसन्धाय तस्य साधनतावचनं हेतुः।
उत्पत्तिधर्मकत्वादिति।
उत्पत्तिधर्मकमनित्यं दृष्टमिति ॥ ३४ ॥
न्यायसूत्र १,१.३५

किमेतावद्धेतुलक्षणमिति? नेत्युच्यते।
किं तर्हि?

न्यायसूत्र १,१.३५ तथा वैधर्म्यात् ॥

उदाहरणवैधर्म्याच्च साध्यसाधनं हेतुः।
कथम्? अनित्यः शब्दः उत्पत्तिधर्मकत्वात् ।
अनुत्पत्तिधर्मकं नित्यं दृष्टमात्मादय इति ॥३५॥
न्यायसूत्र १,१.३६

न्यायसूत्र १,१.३६ साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्तः उदाहरणम् ॥

साध्येन साधर्म्यं समानधर्मता।
साध्यसाधर्म्यात्कारणात्तद्धर्मभावी दृष्टान्त इति।
तस्य धर्मस्तद्धर्मः।
तस्येति साध्यस्य।
साध्यं च द्विविधं धर्मिविशिष्टो वा धर्मः शब्दस्यानित्यत्वम्, धर्मविशिष्टो वा धर्मी अनित्यः शब्द इति।
इहोत्तरं तद्ग्रहणेन गृह्यत इति।
कस्मात्? पृथग्धर्मवचनात् ।
तस्य धर्मस्तद्धर्मः।
तद्धर्मस्य भावस्तद्धर्मभावः।
स यस्मिन् दृष्टान्ते वर्तते स दृष्टान्तः तद्धर्मभावी।
यस्मिन् दृष्टान्ते साध्यसाधर्म्यादुत्पत्तिधर्मकत्वात्साध्यस्य धर्मोऽनित्यत्वं भवति स दृष्टान्तः।
साध्यसाधर्म्यादुत्पत्तिधर्मकत्वात्तद्धर्मभावी भवति, स चोदादहरणमिष्यते।
स्थाल्यादि द्रव्यमुत्पत्तिधर्मकमनित्यं दृष्टामिति।
तत्र युदत्पद्यते तदुत्पत्तिधर्मकम्।
तच्च भूत्वा न भवति, आत्मानं जहाति निरुध्यत इत्यनित्यम्।
एवमुत्पत्तिधर्मकत्वं साधनमनित्यत्वं साध्यम्।
सोऽयमेकस्मिन् द्वयोर्धर्मयोः साध्यसाधनभावः साधर्म्याद्व्यस्थित उपलभ्यते।
तं दृष्टान्त उपलभमानः शब्देऽप्यनुमिनोति, शब्दोऽप्युत्पत्तिधर्मकत्वादनित्यः स्थाल्यादिवदिति।
उदाह्रियतेऽनेन धर्मयोः साध्यसाधनभाव इत्युदाहरणम् ॥३६॥

न्यायसूत्र १,१.३७

न्यायसूत्र १,१.३७ तद्विपर्ययात्वा विपरीतम् ॥

दृष्टान्त उदाहरणमिति प्रकृतम् ।
साध्यवैधर्म्यादतद्धर्मभावी च दृष्टान्त उदाहरणमिति ।
अनित्यः शब्द उत्पत्तिधर्मकत्वातनुत्पत्तिधर्मकं नित्यमात्मादि, सोऽयमात्मादिर्दृष्टान्तः साध्यवैधर्म्यादनुत्पत्तिधर्मकत्वादतद्धर्मभावीयोऽसौ साध्यस्य धर्मोऽनित्यत्वं स तस्मिन्न भवतीति।
अत्रात्मादौ दृष्टान्त उत्पत्तिधर्मकत्वस्याभावादनित्यत्वं न भवतीति उपलभमानः शब्दे वपिर्ययमनुमिनोति, उत्पत्तिधर्मकत्वस्य भावादनित्यः शब्द इति।
साधर्म्योक्तस्य हेतोः साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम्।
वैधर्म्योक्तस्य हेतोः साध्यवैधर्म्यादतद्धर्मभावी दृष्टान्त उदाहरणम्।
पूर्वस्मिन् दृष्टान्ते यौ तौ धर्मौं साध्यसाधनभूतौ पश्यति साध्येऽपि तयोः साध्यसाधनभावमनुमिनोति।
उत्तरस्मिन् दृष्टान्ते ययोर्धर्मयोरेकस्याभावादितरस्याभावं पश्यति तयोरेकतरस्य भावादितरस्य भावं साध्येऽनुमिनोतीति।
तदेतद्धेत्वाभासेषु न सम्भवतीत्यहेतवो हेत्वाभासाः।
तदिदं हेतूदाहरणयोः सामर्थ्यं परमसूक्ष्मं दुःखबोधं पण्डितरूपवेदनीयमिति ॥३७॥

न्यायसूत्र १,१.३८

न्यायसूत्र १,१.३८ उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः ॥

उदाहरणापेक्ष उदाहरणतन्त्र उदाहरणवशः।
वशः सामर्थ्यम्।
साध्यसाधर्म्ययुक्ते उदाहरणे स्थाल्यादिद्रव्यमुत्पत्तिधर्मकमनित्यं दृष्टम्, तथा च शब्द उत्पत्तिधर्मक इति साध्यस्य शब्दस्योत्पत्तिधर्मकत्वमूपसंह्रियते ।
साध्यवैधर्म्ययुक्तं पुनरुदाहरणे आत्मादिद्रव्यमनुत्पत्तिधर्मकं नित्यं दृष्टम्, न च तथानुत्पत्तिधर्मकः शब्द इति, अनुत्पत्तिधर्मकत्वस्योपसंहारप्रतिषेधेनोत्पत्तिधर्मकत्त्वमुपसंह्रियते ।
तदिदमुपसंहारद्वेतमुदाहरणद्वैताद्भवति।
उपसंह्रियते अनेनेति चोपसंहारो वेदितव्य इति॥३८॥

न्यायसूत्र १,१.३९

द्विविधस्य पुनर्हेतोद्विविधस्य चोदाहरणस्योपसंहारद्वैते च समानम्

न्यायसूत्र १,१.३९ हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् ॥

साधर्म्योक्ते वा वैधर्म्योक्ते वा यथोदाहरणमुपसंह्रियते तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्द इति निगमनम्।
निगम्यन्ते अनेनेति प्रतिज्ञाहेतूदाहरणोपनया एकत्रेति निगमनम्।
निगम्यन्ते समर्थ्यन्ते संबध्यन्ते।
तत्र साधर्म्योक्ते तावद्वेतौ वाक्यम्, अनित्यः शब्द इति प्रतिज्ञा।
उत्पत्तिधर्मकत्वादिति हेतुः।
उत्पत्तिधर्मकं स्थाल्यादि द्रव्यमनित्यमित्युदाहरणम्।
तथा चोत्पत्तिधर्मकः शब्द इत्युपनयः।
तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्द इति निगमनम्।
वैधर्म्योक्तेऽपि, अनित्यः शब्दः।
उत्पत्तिधर्मकत्वात्, अनत्पत्तिधर्मकमात्मादि द्रव्यं नित्यं दृष्टम्।
न च तथानुत्पत्तिधर्मकः शब्दः।
किं तर्हि? उत्पत्तिधर्मकः।
तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्द इति॥
अवयवसमुदाये च वाक्ये संभूयेतरेतराभिसंबन्धात्प्रमाणान्यर्थं साधयन्तीति।
संभवस्तावत्, शब्दविषया प्रतिज्ञा, आप्तोपदेशस्य प्रत्यक्षानुमानाभ्यां प्रतिसन्धानादनृषेश्च स्वातन्त्र्यानुपपत्तेः।
अनुमानं हेतुः, उदाहरणे संदृश्य प्रतिपत्तेः।
तच्चोदाहरणभाष्ये व्याख्यातम्।
प्रत्यक्षविषयमुदाहरणम्, दृष्टेनादृष्टसिद्धेः।
उपमानमुपनयः, तथेत्युपसंहअरात्, न च तथेति चोपमानधर्मप्रतिषेधे विपरीतधर्मोपसंहअरसिद्धेः।
सर्वेषामेकार्थप्रतिपत्तौ सामर्थ्यप्रदर्शनं निगमनमिति॥
इतरेतराभिसंबन्धोऽपिअसत्यां प्रतिज्ञायामनाश्रया हेत्वादयो न प्रवर्त्तेरन्।
असति हेतौ कस्य साधनभावः प्रदर्श्येत? उदाहरणे साध्ये च कस्योपसंहअरः स्यात्? कस्य चापदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनं स्यातिति? असत्युदाहरणे केन साधर्म्यं वैधर्म्यं वा साध्यसाधनमुपादीयेत? कस्य वा साधर्म्यवशादुपसंहअरः प्रवर्तेत? उपनयं चान्तरेण साध्येऽनुपसंहृतः साधको धर्मो नार्थं साधयेत् ।
निगमनाभावे चानभिव्यक्तसंबन्धानां प्रतिज्ञादीनामेकार्थेन प्रवर्तनं तथेति प्रतिपादनं कस्येति॥
अथावयवार्थः।
साध्यस्य धर्मस्य धर्मिणा संबन्धोपपादनं प्रतिज्ञार्थः।
उदाहरणेन समानस्य विपरीतस्य वा साध्यस्य धर्मस्य साधकभाववचनं हेत्वर्थः।
धर्मयोः साध्यसाधनभावप्रदर्शनमेकत्रोदाहरणार्थः।
साधनभूतस्य धर्मस्य साध्येन धर्मेण सामानाधिकरण्योपपादनमुपनयार्थः।
उदाहरणस्थयोर्द्धर्मयोः साध्यसाधनभावोपपत्तौ साध्ये विपरीतप्रसङ्गप्रतिषेधार्थं निगमनम्॥

न चैतस्यां हेतूदाहरणपरिशुद्धौ सत्यां साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य विकल्पाज्जातिनिग्रहस्थानबहुत्वं प्रक्रमते।
अव्यवस्थाप्य खलु धर्मयोः साध्यसाधनभावमुदाहरणे जातिवादी प्रत्यवतिष्ठते।
व्यवस्थितेह खिलु धर्मयोः साध्यसाधनभावे दृष्टान्तस्थे गृह्यमाणे साधनभूतस्य धर्मस्य हेतुत्वेन उपादानं न साधर्म्यमात्रस्य, न वैर्धर्म्यमात्रस्य वेति ॥३९॥
न्यायसूत्र १,१.४०

अत ऊर्ध्वं तर्को लक्षणीय इति अथेदमुच्यते

न्यायसूत्र १,१.४० अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः ॥

अविज्ञायमानतत्त्वेऽर्थे जिज्ञासा तावज्जायते जानीयेममर्थमिति।
अथ जिज्ञासितस्य वस्तुनो व्याहतौ धर्मौं विभागेन विमृशति, किं स्वितित्त्थमाहोस्विन्नेत्थमिति।
विमृश्यमानयोर्धर्मयोरेकतरं कारणोपपत्त्या अनुज्ञानाति, सम्भवत्यस्मिन् कारणं प्रमाणं हेतुरिति।
कारणोपपत्त्या स्यादेवमेतत्नेतरदिति॥
तत्र निदर्शनम्, योऽयं ज्ञाता ज्ञातव्यमर्थं जानीते, तं तत्त्वतो जानीयेति जिज्ञासा।
स किमुत्पत्तिधर्मकोऽनुत्पत्तिधर्मकमिति विमर्शः।
विमृश्यमानेऽविज्ञाततत्त्वेऽर्थे यस्य धर्मस्याभ्यनुज्ञाकारणमुपपद्यते, तमनुजानाति।
यद्ययमनुत्पत्तिधर्मकः ततः स्वकृतस्य कर्मणः फलमनुभवति ज्ञाता।
दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरमुत्तरं पूर्वस्य पूर्वस्य कारणम्, उत्तरोत्तरापाये च तदनन्तराभावादपवर्ग इति स्यातां संसारापवर्गौं।
उत्पत्तिधर्मके ज्ञातरि पुनर्न स्याताम्।
उत्पन्नः खलु ज्ञाता देहेन्द्रियविषयबुद्धिवेदनाभिः संबध्यत इति नास्येदं स्वकृतस्य कर्मणः फलम्।
उत्पन्नश्च भूत्वा न भवतीति, तस्याविद्यमानस्य निरुद्धस्य वा स्वकृतकर्मणः फलोपभोगो नास्ति, तदेवमेकस्यानेकशरीरयोगः शरीरवियोगश्चात्यन्तं न स्यादिति, यत्र
कारणमनुपपद्यमानं पश्यति, तन्नानुजानाति।
सोऽयमेवंलक्षण ऊहस्तर्क इत्युच्यत् ।
कथं पुनरयं तत्त्वज्ञानार्थो न तत्त्वज्ञानमेवेति? अनवधारणात् ।
अनुजानात्ययमेकतरं धर्मं कारणोपपत्त्या, न त्ववधारयति न व्यवस्यति न निश्चिनोति एवमेवेदमिति।
कथं तत्त्वज्ञानार्थ इति? तत्त्वज्ञानविषयाभ्यनुज्ञालक्षणादूहाद्भावितात्प्रसन्नादनन्तरं प्रमाणसामर्थ्यात्तत्त्वज्ञानमुत्पद्यत इत्येवं तत्त्वज्ञानार्थ इति॥

सोऽयं तर्कः प्रमाणानि प्रतिसन्दधानः प्रमाणाभ्यनुज्ञानात्प्रमाणसहितो वादेऽपदिष्ट इति।
अविज्ञाततत्त्वेऽर्थे इति यथा सोऽर्थो भवति तस्य तथाभावस्तत्त्वमविपर्ययो याथातथ्यम् ॥४०॥
न्यायसूत्र १,१.४१

एतस्मिश्च तर्कविषये

न्यायसूत्र १,१.४१ विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारण निर्णयः ॥

स्थापना साधनम्, प्रतिषेध उपालम्भः।
तौ साधनोपालम्भौ पक्षप्रतिपक्षाश्रयौ व्यतिषक्तावनुबन्धेन प्रवर्त्तमानौ पक्षप्रतिपक्षावित्युच्येते।
तयोरन्यतरस्य निवृत्तिः एकतरस्यावस्थानमवर्जनीयमवश्यम्भावित्वात् ।
यस्यावस्थानं तस्यार्थावधारणं निर्णयः॥
नेदं पक्षप्रतिपक्षाभ्यामर्थावधारणं सम्भवतीति एको हि प्रतिज्ञातमर्थं तं हेतुतः स्थापयति प्रतिषिद्धं चोद्धरति द्वितीयस्य।
द्वितीयेन स्थापनाहेतुश्च प्रतिषिध्यते तस्यैव प्रतिषेधहेतुश्चोद्ध्रियते।
स निवर्त्तते।
तस्य निवृत्तौ योऽवतिष्ठते तेनार्थावधारणं निर्णयः॥
उभाभ्यामेवार्थावधारणमित्याह।
कया युक्त्या? एकस्य संभवो द्वितीयस्यासम्भवः।
तावेतौ सम्भवासम्भवौ विमर्शं सह निवर्त्तयत उभयसम्भवे।
उभयासम्भवे त्वनिवृत्तो निमर्श इति।
विमृश्येति विमर्शं कृत्वा।
सोऽयं विमर्शः पक्षप्रतिपक्षाववद्योत्य न्यायं प्रवर्तयतीत्युपादीयत इति।
एतच्च विरुद्धयोरेकधर्मिस्थयोर्बोधव्यम्।
यत्र तु धर्मिसामान्यगतौ विरुद्धौ धर्मौं हेतुतः सम्भवतः तत्र समुच्चयः, हेतुतोऽर्थस्य तथाभावोपपत्तेः।
यथा क्रियावद्द्रव्यमिति लक्षणवचने यस्य द्रव्यस्य क्रियायोगो हेतुतः संभवति तत्क्रियावत्, यस्य न संभवति तदक्रियमिति।
एकधर्मिस्थायोश्च विरुद्धयोः धर्मयोरयुगपद्भावविनोः कालविकल्पः, यथा तदेव द्रव्यं क्रियायुक्तं क्रियावत्, अनुत्पन्नोपरतक्रियं पुनरक्रियमिति॥
न चायं निर्णये नियमः विमृश्यैव पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णय इति, किं तर्हि? भवति खल्विन्द्रियार्थसन्निकर्षादुत्पन्नप्रत्यक्षेऽर्थावधारणं निर्णय इति, परीक्षाविषये तु विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः।
शास्त्रे वादे च विमर्शवर्जम् ॥४१॥
॥िति वात्स्यायनीये न्यायभाष्ये प्रथमाध्यायस्य प्रथमाह्निकम्॥

Red

न्यायसूत्र १,२.१

तिस्रः कथा भवन्ति, वादो जल्पो वितण्डा चेति।
तासाम्

न्यायसूत्र १,२.१ प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः ॥

एकाधिकरणस्थौ विरुद्धौ धर्मौं पक्षप्रतिपक्षौ प्रत्यनीकभावात्, अस्त्यात्मा नास्त्यात्मेति।
नानाधिकरणस्थौ विरुद्धावपि न पक्षप्रतिपक्षौ, यथा नित्य आत्मा, अनित्या बुद्धिरिति।
परिग्रहोऽभ्युपगमव्यवस्था।
सोद्ययं पक्षप्रतिपक्षपरिग्रहो वादः।
तस्य विशेषणं प्रमाणतर्कसाधनोपालम्भः।
प्रमाणतर्कसाधनः प्रमाणतर्कोपालम्भश्च।
प्रमाणैस्तर्कण च साधनमुपालम्भश्चास्मिन् क्रियत इति।
साधनं स्थापना।
उपालम्भः प्रतिषधः।
तौ साधनोपालम्भौ उभयोरपि पक्षयोर्व्यतिषक्तावनुबद्धौ च तावद्यावदेको निवृत्त एकतरो व्यवस्थित इति।
निवृत्तस्योपालम्भो व्यवस्थितस्य साधनमिति॥
जल्पे निग्रहस्थानविनियोगाद्वादे तत्प्रतिषेधः।
तत्प्रतिषेधे च कस्यचिदभ्यनुज्ञानार्थं सिद्धान्ताविरुद्ध इति वचनम्।
सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्ध इति विरुद्धस्य हेत्वाभासस्य निग्रहस्थानस्याभ्यनुज्ञा वादे।
पञ्चावयवोपपन्न इति हीनमन्यतमेनाप्यवयवेन न्यूनं हेतुदाहरणाधिकमधिकमिति चैतयोरभ्यनुज्ञानार्थमिति॥
अवयवेषु प्रमाणतर्कान्तर्भावे पृथक्प्रमाणतर्कग्रहणं साधनोपलम्भव्यतिषङ्गज्ञापनार्थम्।
अन्यथोभावपि पक्षौ स्थापनाहेतुना प्रवृत्तौ वाद इति स्यात् ।
अन्तरेणापि चावयवसंबन्धं प्रमाणान्यर्थं साधयन्तीति दृष्टम्, तेनापि कल्पेन साधनोपालम्भौ वादे भवत इति ज्ञापयति।
छलजातिनिग्रहस्थानसाधनोपालम्भो जल्प इति वचनाद्विनिग्रहो जल्प इति मा विज्ञायि, छलजातिनिग्रहस्थानसाधनोपालम्भ एव जल्पः, प्रमाणतर्कसाधनोपालम्भो वाद एवेति स मा विज्ञायीत्येवमर्थ पृथक्प्रमाणतर्कग्रहणमिति ॥१॥
न्यायसूत्र १,२.२

न्यायसूत्र १,२.२ यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भः जल्पः ॥

यथोक्तोपपन्न इति, प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः।
छलजातिनिग्रस्थानसाधनोपालम्भ इति, छलजातिनिग्रहस्थानैः साधनमुपालम्भश्चास्मिन् क्रियत इति एवंविशेषणो जल्पः॥
न खलु वै छलजातिनिग्रहस्थानैः साधनं कस्यचिदर्थस्य सम्भवति, प्रतिषेधार्थतैवैषां सामान्यलक्षणे विशेषलक्षणे च श्रूयते वचनविघातोऽर्थविकल्पोपत्त्या छलमिति, साधर्म्यवैघर्म्याभ्यां प्रत्यवस्थानं जातिः
विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानमिति।
विशेषलक्षणेष्वपि यथास्वमिति।
न चैतद्विजानीयात्प्रतिषेधार्थतयैवार्थं साधयन्तीति, छलजातिनिग्रहसथानोपालम्भो जल्प इत्येवमप्युच्यमाने विज्ञायत एतदिति॥
प्रमाणैः साधनोपालम्भेयीश्छलजातिनिग्रहस्थानानामङ्गभावः स्वपक्षरक्षणार्थत्वात्, न स्वतन्त्राणां साधनभावः।
यत्तत्प्रमाणैरर्थस्य साधनं तत्र छलजातिनिग्रस्थानानामङ्गाभावो रक्षणार्थत्वात् ।
तानि हि प्रयुज्यमानानि परपक्षविघाते स्वपक्षं रक्षन्ति।
तथा चोक्तं तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंहरक्षणार्थं कण्टकशाखावरणवतिति।
यश्चासौ प्रमाणैः प्रतिपक्षस्योपालम्भस्तस्य चैतानि प्रयुज्यमानानि प्रतिषेधबिघातात्सहकारीणि भवन्ति।
तदेवमङ्गीभूतानां छलादीनामुपादानं जल्पे, न स्वतन्त्रणां साधनभावः।
उपालम्भे तु स्वातन्त्रयमप्यस्तीति ॥ २ ॥
न्यायसूत्र १,२.३

न्यायसूत्र १,२.३ स प्रतिपक्षस्थापनाहीनः वितण्डा ॥

स जल्पो वितण्डा भवति।
किं विशेषणः? प्रतिपक्षस्थापनया हीनः।
यौ तौ समानाधिकरणौ विरुद्धौ धर्मौं पक्षप्रतिपक्षावित्युक्तौ तयोरेकतरं वैतण्डिको न स्थापयतीति परपक्षप्रतिषेधेनैव प्रवर्त्तत इति॥
अस्तु तर्हि स प्रतिपक्षहीनो वितण्डा? यद्वै खलु तत्परप्रतिषेधलक्षणं वाक्यं स वैतण्डिकस्य पक्षः, न त्वसौ साध्यं कंचिदर्थं प्रतिज्ञाय स्थापयतीति।
तस्माद्यथान्यासमेवास्त्विति ॥३॥

न्यायसूत्र १,२.४

हेतुलक्षणाभावादहेतवो हेतुसामान्याद्वेतुवदाभासमानाः।
त इमे
न्यायसूत्र १,२.४ सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीता हेत्वाभासाः ॥

न्यायसूत्र १,२.५

तेषाम्

न्यायसूत्र १,२.५ अनैकान्तिकः सव्यभिचारः ॥

व्यभिचार एकत्राव्यवस्थितिः।
सह व्यभिचारेण वर्त्तते इति सव्यभिचारः।
निदर्शनम्नित्यः शब्दोऽस्पर्शत्वात् ।
स्पर्शवान् कुंमोः अनित्यो दृष्टः।
न च तथा स्पर्शवान् शब्दः।
तस्मादस्पर्शत्वान्नित्यः शब्द
इति।
दृष्टान्ते स्पर्शवत्त्वमनित्यत्वं च धर्मौं न साध्यसाधनभूतौ गृह्यते, स्पर्शवांश्चाणुर्नित्यश्चेति।
आत्मादौ च दृष्टान्ते उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः इति अस्पर्शत्वादिति हेतुर्नित्यत्वं व्यभिचरति, अस्पर्शा च बुद्धिरनित्या चेति।
एवं द्विविधापि दृष्टान्ते व्यभिचारात्साध्यसाधनभावो नास्तीति लक्षणाभावादहेतुरिति॥
नित्यत्वमप्येकोऽन्तः।
अनित्यत्वमप्येकोऽन्तः।
एकस्मिन्नन्ते विद्यत इति ऐकान्तिको विपर्ययादनैकानितकः, उभायान्तव्यापकत्वादिति ॥ ५॥
न्यायसूत्र १,२.६

न्यायसूत्र १,२.६ सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः ॥

तं विरुणद्धीति तद्विरोधी, अभ्युपेतं सिद्धान्तं व्याहन्तीति।
यथा सोऽयं विकारो व्यक्तेरपैति नित्यत्वप्रतिषेधात्, न नित्यो विकार उपपद्यते।
अपेतोऽपि विकारोऽस्ति विनाशप्रतिषेधात् ।
सोऽयं नित्यत्वप्रतिषेधादिति हेतुर्व्यक्तेरपेतोऽपि विकारोऽस्तीत्यनेन स्वसिद्धान्तेन विरुध्यते।
कथम्? व्यक्तिरात्मलाभः।
उपायः प्रच्युतिः।
यद्यात्मलाभात्प्रच्युतो विकारोऽस्ति, नित्यत्वप्रतिषेधौ नोपपद्यते।
यद्व्यक्तेरपेतस्यापि विकारस्यास्तित्वम्, तत्खलु नित्यत्वमिति।
नित्यत्वप्रतिषेधो नाम विकारस्यात्मलाभात्प्रच्युतेः उपपत्तिः।
यदात्मलाभात्प्रच्यवते तदनित्यं दृष्टम्।
यदस्ति न तदात्मलाभात्प्रच्यवते।
अस्तित्वं चात्मलाभाप्रच्युतिरिति च विरुद्धावेतौ धमौ न सह सम्भवत इति।
सोऽयं हेतुर्यं सिद्धान्तमाश्रित्य प्रवर्त्तते तमेव व्याहन्तीति ॥ ६॥
न्यायसूत्र १,२.७

न्यायसूत्र १,२.७ यस्मात्प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः ॥

विमर्शाधिष्ठानौ पक्षप्रतिपक्षावुभावनवसितौ प्रकरणम्।
तस्य चिन्ता विमर्शात्प्रभृति प्राङ्निर्णयाद्यत्समीक्षणम्,
सा जिज्ञासा यत्कृता स निर्णयार्थं प्रयुक्त उभयपक्षसाम्यात्प्रकरणमनतिवर्तमानः प्रकरणसमो निर्णयाय न प्रकल्पते।
प्रज्ञापनं त्वनित्यः शब्दो नित्यधर्मानुपलब्धेरित्यनुपलभ्यमाननित्यधर्मकमनित्यं दृष्टं स्थाल्यादि॥
यन्त्र समानो धर्मः संशयकारणं हेतुत्वेनोपादीयते, स संशयसमः सव्यभिचार एव।
या तु विमर्शस्य विशेषापेक्षिता उभयपक्षविशेषानुपलब्धिश्च सा प्रकरणं प्रवर्तयति।
यथा शब्दे नित्यधर्मो नोपलभ्यते एवमनित्यधर्मः अपि।
सेयमुभयपक्षविशेषानुपलब्धिः प्रकरणचिन्तां प्रवर्तयति।
कथम्? विपर्यये हि प्रकरणनिवृत्तेः।
यदि नित्यधर्मः शब्दे गृह्येत, न स्यात्प्रकरणम्।
यदि वा अनित्यधर्मो गृह्येत, एवमपि निवर्त्तेत प्रकरणम्।
सोऽयं हेतुरुभौ पक्षौ प्रवर्तयन्नन्यतरस्य निर्णयाय न प्रकल्पते ॥ ७॥
न्यायसूत्र १,२.८

न्यायसूत्र १,२.८ साध्याविशिष्टः साध्यत्वात्साध्यसमः ॥

द्रव्यं छायेति साध्यम्, गतिमत्त्वादिति हेतुः।
साध्येनाविशिष्टः साधनीयत्वात्साध्यसमः।
अयमप्यसिद्धत्वात्साधयवत्प्रज्ञापयितव्यः।
साध्यं तावदेतत्किं पुरुषवच्छायापि गच्छति आहो स्विदावरकद्रव्ये संसर्पति आवरणसन्तानादसन्निधिसन्तानोऽयं तेजसो गृह्यत इति।
सर्पता खलु द्रव्येण यो यस्तेजोभाग आव्रियते तस्य तस्यासन्निधिरेवाविच्छिन्नो गृह्यत इति।
आवरणं तु प्राप्तिप्रतिषेधः ॥ ८॥
न्यायसूत्र १,२.९

न्यायसूत्र १,२.९ कालात्ययापदिष्टः कालातीतः ॥

कालात्ययेन युक्तो यस्यार्थैकदेशोऽपदिश्यमानस्य स कालात्ययापदिष्टः कालातीत इत्युच्यते।
निदर्शनं नित्यः शब्दः संयोगव्यङ्ग्यत्वाद रूपवत् ।
प्रागूर्द्धं च व्यक्तेरवस्थितं रूपं प्रदीपघटसंयोगेन व्यज्यते, तथा च शब्दोऽप्यवस्थितो भेरीदण्डसंयोगेन व्यज्यते, दारुपरशुसंयोगेन वा।
तस्मात्संयोगव्यङ्ग्यत्वान्नित्यः शब्द इत्ययमहेतुः कालात्ययापदेशात् ।
व्यञ्जकस्य संयोगस्य कालं न व्यङ्ग्यस्य रूपस्य व्यक्तिरत्येति।
सति प्रदीपसंयोगे रूपस्य ग्रहणं भवति, न निवृत्ते संयोगे रूपं गृह्यते।
निवृत्ते तु दारुपरशुसंयोगे दूरस्थेन शब्दः श्रूयते विभागकाले।
सेयं शब्दस्य व्यक्तिः।
संयोगकालमत्येतीति न संयोगनिमित्ता भवति।
कस्मात्? कारणाभावाद्धि कार्याभाव इति।
एवमुदाहरणसाधर्म्यस्याभावादसाधनमयं हेतुर्हेत्वाभास इति।
अवयवविपर्यासवचनं न सूत्रार्थः।
कस्मात्?
यस्य येनार्थसम्बन्धो दूरस्थस्यापि तस्य सः।
अर्थतो ह्यसमर्थानामानन्तर्यमकारणम्॥
इत्येतद्वचनाद्विपर्यासेनोक्तो हेतुरुदाहरणसाधर्म्यात्तथा वैधर्म्यात्साध्यसाधनं हेतुलक्षण न जहाति।
अजहद्धेतुलक्षणं न हेत्वाभासो भवतीति॥
अवयवविपर्यासवचनमप्रापतकालमिति च निग्रहस्थानमुक्तम्।
तदेवेदं पुनरुच्यते इति, अतस्तन्न सूत्रार्थः ॥९॥
न्यायसूत्र १,२.१०

अथ छलम्

न्यायसूत्र १,२.१० वचनविधातोऽर्थविकल्पोपत्या छलम् ॥

न सामान्यलक्षणे छलं शक्यमुदाहर्तुम्, विभागे तूदाहरणानि ॥ १० ॥

न्यायसूत्र १,२.११

विभागश्च,

न्यायसूत्र १,२.११ तत्त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलं च ॥
न्यायसूत्र १,२.१२

तेषाम्

न्यायसूत्र १,२.१२ अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थानतरकल्पना वाक्छलम् ॥

नवकम्बलोऽयं माणवक इति प्रयोगः।
अत्र नवः कम्बलोऽस्येति वक्तुराभिप्रायः।
विग्रहे तु विशेषो, न समासे।
तत्रायं छलवादी वक्तुः अभिप्रायादविवक्षितमन्यमर्थं नव कम्बला अस्येति तावदभिहितं भवतेति कल्पयति।
कल्पयित्वा चासम्भवेन प्रतिषेधति, एकोऽस्य कम्बलः कुतो नव कम्बला इति।
तदिदं सामान्यशब्दे वाचि निमित्ते छलं वाक्छलमिति॥
अस्य प्रत्यवस्थानम्सामान्यशब्दस्यानेकार्थत्वेऽन्यतराभिधानकल्पनायां विशेषवचनम्।
नवकम्बल इत्यनेकार्थाभिधानम्, नवः कम्बलोऽस्येति, नव कम्बला अस्येति च।
एतस्मिन्प्रयुक्ते येयं कल्पना नवकम्बला अस्येत्येतद्भवताभिहितम्, तच्च न सम्भवतीति।
एतस्यामन्यतराभिधानकल्पनायां विशेषो वक्तव्यः,
यस्माद्विशेषोऽर्थविशेषेषु विज्ञायतेऽयमर्थोऽनेनाभिहित इति।
स च विशेषो नास्ति, तस्मान्मिथ्याभियोगमात्रमेतदिति॥
प्रसद्धिश्च लोके शब्दार्थसम्बन्धोऽभिधानाभिधेयनियमनियोगः।
अस्याभिधानस्यायमर्थोऽभिधेन इति समानः सामान्यशब्दस्य, विशेषो विशिष्टशब्दस्य।
प्रयुक्तपूर्वाश्चेमे शब्दा अर्थे प्रयुज्यन्ते, नाप्रयुक्तपूर्वाः।
प्रयोगश्चार्थसम्प्रत्ययार्थः।
अर्थप्रत्ययाच्च व्यवहार इति।
तत्रैवमर्थगत्यर्थे शब्दप्रयोगे सामर्थ्यात्सामान्यशब्दस्य प्रयोगनियमः।
अजां ग्रामं नय, सर्पिरादर, ब्राह्मणं भोजयेति सामान्यशब्दाः सन्तोऽर्थावयवेषु प्रयुज्यन्ते, सामर्थ्यात्यत्रार्थक्रियादेशना सम्भवति तत्र प्रवर्तन्ते नार्थसामान्ये, क्रियादेशनासम्भवात् ।
एवमयं सामान्यशब्दो नवकम्बल इति योऽर्थः सम्भवति नवः कम्बलोऽस्येति, तत्र प्रवर्तते।
यसतु न सम्भवति नव कम्बला अस्येति, तत्र न प्रवर्तते।
सोऽयमनुपपद्यमानार्थकल्पनया परवाक्योपालम्भस्ते न कल्पत इति ॥ १२ ॥
न्यायसूत्र १,२.१३

न्यायसूत्र १,२.१३ सम्भवतोऽर्थस्यातिसामान्ययोगादसम्भूतार्थकल्पना सामान्यच्छलम् ॥

अहो खलवसौ ब्राह्मणो विद्याचरणसम्पन्न इत्युक्ते कश्चिदाह सम्भवति ब्राह्मणे विद्याचरणसम्पदिति।
अस्य वचनस्य विधातोऽर्थविकल्पोपपत्त्या असम्भूतार्थकल्पनया क्रियते यदि ब्राह्मणे विद्याचरणसम्पत्सम्भवति ननु व्रात्येऽपि सम्भवेत्, व्रात्योऽपि ब्राह्मणः, सोऽप्यस्तु विद्याचरणसम्पन्नः।
यद्विवक्षितमर्थमाप्नोति चात्येति च तदतिसामान्यम्।
यथा ब्राह्मणत्वं विद्याचरणसम्पदं क्वचिदाप्नोति क्वचिदत्येतीति।
सामान्यनिमित्तं छलं सामान्यच्छलमिति।
अस्य च प्रत्यवस्थानमविवक्षितहेतुकस्य विषयानुवादः प्रशंसार्थत्वाद्वाक्यस्य।
तदत्रासंभूतार्थकल्पनानुपपत्तिः।
यथा सम्भवन्त्यस्मिन् क्षेत्रे शालय इति।
अनिराकृतमविवक्षितं च बीजजन्म।
प्रवृत्तिविषयस्तु क्षेत्रं प्रशस्यते।
सोऽयं क्षेत्रानुवादो, नास्मिन् शालयो विधीयन्त इति।
बीजातं शालिनिर्वृत्तिः सती न विवक्षिता।
एवं सम्भवति ब्राह्मणे विद्याचरणसम्पदिति सम्पद्विषयो ब्राह्मणत्वं न सम्पद्धेतुः।
न चात्र हेतुर्विवक्षितः।
विषयानुवादस्त्वयं प्रशंसार्थत्वाद्वाक्यस्य, सति ब्राह्मणत्वे सम्पद्धेतुः समर्थ इति।
विषयं च प्रशंसता वाक्येन यथाहेतुतः फलनिर्वृत्तिर्न प्रत्याख्यायते।
तदेवं सति वचनविधातोऽसम्भूतार्थकल्पनया नोपपद्यत इति ॥ १३ ॥
न्यायसूत्र १,२.१४

न्यायसूत्र १,२.१४ धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम् ॥

अभिधानस्य धर्मो यथार्थप्रयोगः।
धर्मविकल्पोऽन्यत्र दृष्टस्यान्यत्र प्रयोगः।
तस्य निर्देशे धर्मविकल्पनिर्देशे।
यथा मञ्चाः क्रोशन्तीति अर्थसद्भावनेव प्रतिषेधः मञ्चस्थाः पुरुषाः क्रोशन्ति, न तु मञ्चाः क्रोशन्ति॥
का पुनरत्रार्थविकल्पोपत्तिः? अन्यथा प्रयुक्तस्यान्यथार्थकल्पनं, भक्त्या प्रयोगे प्राधान्येन कल्पनमुपचारविषयं छलमुपचारच्छलम्।
उपचारो नीतार्थः सहचरणादिनिमित्तेन, अतद्भावे तद्वदभिधानमुपचार इति॥
अत्र समाधिःप्रसिद्धे प्रयोगे वक्तुर्यथाभिप्रायं शब्दार्थयोरभ्यनुज्ञा प्रतिषेधो वा न च्छन्दतः।
प्रधानभूतस्य शब्दस्य भाक्तस्य च गुणभूतस्य प्रयोग उभयोर्लोके सिद्धः।
सिद्धे प्रयोगे यथा वक्तुरभिप्रायस्तथा शब्दार्थावनुज्ञेयौ प्रतिषेध्यौ वा न च्छन्दतः।
यदि वक्ता प्रधानशब्दं प्रयुङ्क्ते, यथाभूतस्याभ्यनुज्ञा प्रतिषेधो वा न न्छन्दतः।
अथ गुणभूतम्? तदा गुणभूतस्य।
यत्र तु वक्ता गुणभूतं शब्दं प्रयुङ्क्ते प्रधानभूतमभिप्रेत्य परः प्रतिषेधति, स्वमनीषया प्रतिषेधोऽसौ भवति न परोपालम्भ इति ॥ १४ ॥
न्यायसूत्र १,२.१५

न्यायसूत्र १,२.१५ वाक्छलमेवोपचारच्छलं तदविशेषात् ॥

न वाक्छलादुपचारच्छलं भिद्यते, तस्याप्यर्थान्तरकल्पनाया अविशेषात् ।
इहापि स्थान्यर्थो गुणशब्दः, प्रधानशब्दः सथानार्थ इति कल्पयित्वा प्रतिषिध्यत इति ॥ १५ ॥

न्यायसूत्र १,२.१६

न्यायसूत्र १,२.१६ न तदर्थान्तरभावात् ॥

न वाक्छलमेवोपचारच्छलं तस्यार्थसद्भावप्रतिषेधस्यार्थान्तरभावात् ।
कुतः? अर्थान्तरकल्पनातः।
अन्या ह्यर्थान्तकल्पना, अन्योऽर्थसद्भावप्रतिषेध इति ॥ १६ ॥

न्यायसूत्र १,२.१७

न्यायसूत्र १,२.१७ अविशेषे वा किञ्चित्साधर्म्यातेकच्छलप्रसङ्गः ॥

छलस्य द्वित्वमभ्यनुज्ञाय त्रित्वं प्रतिषिध्यते किंचित्साधर्म्यात् ।
यथा चायं हेतुस्त्रित्त्वं प्रतिषेधति तथा
द्वित्वमप्यभ्यनुज्ञातं प्रतिषेधति।
विद्यते हि किंचित्साधर्म्यान्न निवर्तते, त्रित्वमपि न निवर्त्स्यतीति ॥ १७॥
न्यायसूत्र १,२.१८

अत ऊद्धम्

न्यायसूत्र १,२.१८ साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ॥

प्रयुक्ते हि हेतौ यः प्रसङ्गो जायते सा जातिः।
स च प्रसङ्गः साधर्म्यवैधर्म्याभ्या प्रत्यवस्थानमुपालम्भः प्रतिषेध इति।
उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः इत्यस्योदाहरणवैधर्म्येण प्रत्यवस्थानम्।
तथा उदाहरणवैधर्म्यात्साध्यसाधनं हेतुः इत्यस्योदाहरणसाधर्म्येण प्रत्यवस्थानम्।
प्रत्यनीकभावाज्जायमानोऽर्थो जातिरति॥ १७ ॥
न्यायसूत्र १,२.१९

न्यायसूत्र १,२.१९ विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम् ॥

विपरीता वा कुत्सिता वा प्रतिपत्तिर्विप्रतिपत्तिः।
विप्रतिपद्यमानः पराजयं प्राप्नोति।
निग्रहस्थानं खलु पराजयप्राप्तिः।
अप्रतिपत्तिस्त्वारम्भविषयेऽप्यनारम्भः।
परेण स्थापितं वा न प्रतिषेधति, प्रतिषेधं वा नोद्धरति।
असमासाच्च नैते एव निग्रहस्थाने इति ॥ १९ ॥
न्यायसूत्र १,२.२०

किं पुनर्दृष्टान्तवज्जातिनिग्रहस्थानयोरभेदोऽथ सिद्धान्तवद्भेद इत्यत आह

न्यायसूत्र १,२.२० तद्विकल्पाञ्जातिनिग्रहस्थानबहुत्वम् ॥

तस्य साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य विकल्पाज्जातिबहुत्वम्, तयोश्च विप्रतिपत्त्यप्रतिपत्त्योविकल्पान्निग्रहस्थानबहुत्त्वम्।
नानाकल्पो विकल्पः।
विविधो वा कल्पो विकल्पः।
तत्राननुभाषणमज्ञानमप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणमित्यप्रतिपत्तिर्निग्रहस्थानम्।
शेषस्तु विप्रतिपत्तिरिति॥
त इमे प्रमाणादयः पदार्था उद्दिष्टा यथोद्देशं च लक्षिता यथालक्षणं च परीक्षिष्यन्त इति त्रिविधा चास्य
शास्त्रस्य प्रवृत्तिर्वेदितव्येति ॥ २० ॥
॥ वात्स्यायनीये न्यायभाष्ये प्रथमाध्यायस्य द्वितीयाह्निकम् ॥
समाप्तश्चायं प्रथमोऽध्यायः ।
॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰
श्री श्रीनिवास स्वामि, श्री विनायक स्वामि, श्री सरस्वती देवी,

ओं

अथ सटीके न्यायभाष्ये द्वितीयाध्यायस्य प्रथममाह्निकम्

न्यायसूत्र २,१.१

अत ऊर्ध्वं प्रमाणादिपरीक्षा सा च”विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः ११४१”इत्यग्रे विमर्श एव परीक्ष्यते

न्यायसूत्र २,१.१ समानानेकधर्माध्यवसायादन्यतरधर्माध्यवसायाद्वा न संशय ॥

समानस्य धर्मस्याध्यवसायात्संशयो न धर्ममात्रात्, अथ वाऽसमानमनयोर्धर्ममुपलभेऽ इति धर्मधर्मिग्रहणे संशयाभाव इति, अथ वा समानधर्माध्यवसायादर्थान्तरभूते धर्मिणि संशयोऽनुपपन्नः न जातु रूपासयार्थान्तरभूतस्याध्यवसायादर्थान्तरभूते स्पर्शे संशय इति, अथ वा नाध्यवसायात्= अर्थावधारणादनवधारणज्ञानं संशय उपपद्यते कार्यकारणयोः सारूप्याभवादिति।
एतेन”अनेकधर्माध्यवसायात्”इति व्याख्यातम्।
अन्यतरधर्माध्यवसायाच्च संशयो न भवति ततो ह्यन्यतरावधारणमेवेति ॥ १ ॥
न्यायसूत्र २,१.२

न्यायसूत्र २,१.२ विप्रतिपत्त्यव्यवस्थाध्यवसायाच्च ॥

न विप्रतिपत्तिमात्रादव्यवस्थामात्राद्वा संशयः, किं तर्हि ?. विप्रतिपत्तिमुपलभमानस्य संशयः, एवमव्यवस्थायामपीति।
अथ वाऽअस्त्यात्माऽ इत्येकेऽनास्त्यात्माऽ इत्यपरे मन्यन्ते इत्युपलब्धेः कथं संशयः स्यात्? इति।
तथोपलब्धिरव्यवस्थिता अनुपलब्धिश्चाव्यवस्थितेति विभागेनाध्यवसिते संशयो नोपपद्यते इति ॥ २ ॥
न्यायसूत्र २,१.३

न्यायसूत्र २,१.३ विप्रतिपत्तौ च संप्रतिपत्तेः ॥

यां व विप्रतिपत्तिं भवान् संशयहेतुं मन्यते सा संप्रतिपत्तिः सा हि द्वयोः प्रत्यनीकधर्मविषया, तत्र यदि विप्रत्तिपत्तेः संशयः ? संप्रतिपत्तेरेव संशय इति ॥ ३ ॥
न्यायसूत्र २,१.४

न्यायसूत्र २,१.४ अव्यवस्थात्मनि व्यवस्थितत्वाच्चाव्यवस्थायाः ॥

न संशयः, यदि तावदियमव्यवस्था आत्मन्येव व्यवस्थिता ? व्यवस्थानादव्यवस्था न भवतीत्यनुपपन्नः संशयः, अथाव्यवस्थात्मनि न व्यवस्थिता ? एवमतादात्म्यादव्यवस्था न भवतीति संशयाभाव इति ॥ ४ ॥
न्यायसूत्र २,१.५

न्यायसूत्र २,१.५ तथात्यन्तसंशयस्तद्धर्मसातत्योपपत्तेः ॥

येन कल्पेन भवान् समानधर्मोपपत्तेः संशय इति मन्यते तेन खल्वत्यन्तसंशयः प्रसज्यते समानधर्मोपपत्तेरनुच्छेदात्संशयानुच्छेदः नायमतद्धर्मा धर्मी विमृश्यमानो गृह्यते सततं तु तद्धर्मा भवतीति ॥ ५ ॥
न्यायसूत्र २,१.६

अस्य प्रतिषेधप्रपञ्चस्य संक्षेपेणोद्धारः

न्यायसूत्र २,१.६ यथोक्ताध्यवसायादेव तद्विशेषापेक्षात्संशये नासंशयो नात्यन्तसंशयो वा ॥

न संशयानुत्पत्तिः संशयानुच्छेदश्च प्रसज्यते, कथम् ?. यत्तावत्ऽसमानधर्माध्यवसायः संशयहतुः न समानधर्ममात्रमिति,ऽ एवमेतत् ।
कस्मादेवं नोच्यते ? इति,”वशेषापेक्षिः”इतिवचनात्तत्सिद्धेः. विशेषस्यापेक्षा = आकाङ्क्षा सा चानुपलभ्यमाने वशेषे सिमर्था।
न चोक्तम्ऽसमानधर्मापेक्षःऽ इति।
समाने च धर्मे कथमाकाङ्क्षा न भवेद्यद्ययमप्रत्यक्षः म्यात्, एतेन सामर्थ्येन वज्ञायितेऽसमानधर्माध्यवसायात्ऽ इति।
उपपत्तिवचनाद्वा. समानधर्मोपपत्तेरित्युच्यते. न चान्या सद्भावसंवेदनादृते समानधर्मोपपत्तिरस्ति, अनुपलभ्यमानसद्भावो हि समानो धर्मोऽवद्यिमानवद्भवतीति।
वषियशब्देन वा वषियिणः प्रत्ययस्याभिधानं यथा लोकेऽधूमेनाग्निरनुमीयतेऽ इत्युक्तेऽधूमदर्शनेनाग्निरनुमीयतेऽ इतिज्ञायते, कथम् ?. दृष्ट्वा हि धूममथाग्निमनुमिनोति नादृष्टे. न चं वाक्ये दर्शनशब्दः श्रूयते. अनुजानाति च वाक्यस्यार्थप्रत्यायकत्वं तेन मन्यामहे वषियशब्देन वषियिणः प्रत्ययस्याभिधानं बोद्धानुजानाति. एवमिहापि समानधर्मशब्देन समानधर्माध्यवसायमाहेति।

यदुक्तम्ऽसमानमनयोधर्ममुपलभे इति धर्मधर्मिग्रहणे संशयाभावःऽ इति, पूर्वदृष्टविषयमेततुयावहमर्थौ पूर्वमद्राक्षं तयोः समानं धर्ममुपलभे विशेषं नोपलभे इति. कथं नु विशेषं पश्येयं येनान्यतरमवधारयेयमिति, न चैतत्समानधर्मोपलब्धौ धर्मधर्मिग्रहणमात्रेण निवर्तते इति।
यच्चोक्तं नार्थान्तराध्यवसायादन्यत्र संशय इति. यो ह्यर्थान्तराध्यवसायमात्रं संशयहेतुमुपाददीत स एवं वाच्य इति।
यत्पुनरेतत्कार्यकारणयोः सारूप्याभावादिति, कारणस्य भावाभावयोः कार्यस्य भावाभावौ कार्यकारणयोः सारूप्यमुयस्योत्पादात्यदुत्पद्यते यस्य चानुत्पादाद्यन्नोत्पद्यते तत्कारणं कार्यमितरदित्येत्सारूप्यमस्ति च संशयकारणे संशये चैतदिति।
एतेन अनेकधर्माध्यवसायादिति प्रतिषेधः परिहृत इति।
यत्पुनरेतदुक्तं विप्रतिपत्त्यव्यवस्थाध्यवसायाच्च न संशय इति, पृथक्प्रवादयोर्व्याहतमर्थमुपलभे विशेषं च न जानामिउनोपलभे येनान्यतरमवधारयेयं तत्कोत्र विशेषः स्याद्येनैकतरमवधारयेयमिति संशयो विप्रतिपत्तिजनितोयं न शक्यो विप्रतिपत्तिसंप्रतिपत्तिमात्रेण निवर्तयितुमिति।
एवमुपलब्ध्यनुपलब्ध्यव्यवस्थाकृते संशये वेदितव्यमिति।
यत्पुनरेतत्”विप्रतिपत्तौ च संप्रतिपत्तेः३”इति, विप्रतिपत्तिशब्दस्य योर्थः तदध्यवसायो विशेषापेक्षः संशयहेतुस्तस्य च समाख्यान्तरेण न निवृत्तिःुसमानेऽधिकरणे व्याहतार्थौ प्रवादौ विप्रतिपत्तिशब्दस्यार्थः तदध्यवसायश्च विशेषापेक्षः संशयहेतुः न चास्य संप्रतिपत्तिशब्दे समाख्यान्तरे योज्यमाने संशयहेतुत्वं निवर्तते. तदिदमकृतबुद्धिसंमोहनमिति।
यत्पुनः”अव्यवस्थात्मनि व्यवस्थितत्वाच्चाव्यवस्थायाः४”इति, संशयहेतोरर्थस्याप्रतिषेधातव्यवस्थाभ्यनुज्ञानाच्च निमित्तान्तरेण शब्दान्तरकल्पना व्यर्था, शब्दान्तरकल्पनाऽअव्यवस्था खल्वव्यवस्था न भवति अव्यवस्थात्मनि व्यवस्थितत्वादितिऽ ।
नानयोरुपलब्ध्यनुपलब्ध्योः सदसद्विषयत्वं विशेषापेक्षं संशयहेतुर्न भवतीति प्रतिषिध्यते।
यावता चाव्यवस्थात्मनि व्यवस्थिता न तावतात्मानं जहाति तावता ह्यनुज्ञाता भवत्यव्यवस्था, एवमियं क्रियमाणापि शब्दान्तरकल्पना नार्थान्तरं साधयतीति।
यत्पुनरेतत्”तथात्यन्तसंशयस्तद्धर्मसातत्योपपत्तेः५”इति, नायं समानधर्मादिभ्य एव संशयः।
किं तर्हि ?. तद्विषयाध्यवसायाद्विशेषस्मृतिसहितातिति. अतो नात्यन्तसंशय इति।
“अन्यतरधर्माध्यवसायाद्वा न संशयः”इति. तन्न युक्तं विशेषापेक्षो विमर्शः संशयः इतिवचनात्. विशेषश्चान्यतरधर्मो न तस्मिन्नध्यवसीयमाने विशेषापेक्षा संभवतीति ॥ ६ ॥
न्यायसूत्र २,१.७

न्यायसूत्र २,१.७ यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः ॥

यत्र यत्र संशयपूर्विका परीक्षा शास्त्रे कथायां वा तत्र तत्रैवं संशये परेण प्रतिषिद्धे समाधिर्वाच्य इति, अतः सर्वपरीक्षाव्यापित्वात्प्रथमं संशयः परीक्षित इति ॥ ७ ॥
न्यायसूत्र २,१.८
अथ प्रमाणपरीक्षा

न्यायसूत्र २,१.८ प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः ॥

प्रत्यक्षादीनां प्रमाण्यं नास्ति त्रैकाल्यासिद्धेःुपूर्वापरसहभावानुपपत्तेरिति ॥ ८ ॥
न्यायसूत्र २,१.९
अथ सामान्यवचनस्यार्थविभागः

न्यायसूत्र २,१.९ पूर्वं हि प्रमाणसिद्धौ नेन्द्रियार्थसंनिकर्षात्प्रत्यक्षोत्पत्तिः ॥

गन्धादिविषयं ज्ञानं प्रत्यक्षं तद्यदि पूर्वं पश्चाद्गन्धादीनां सिद्धिः ? नेदं गन्धादि संनिकर्षादुत्पद्यते इति ॥ ९ ॥
न्यायसूत्र २,१.१०

न्यायसूत्र २,१.१० पश्चात्सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः ॥ १० ॥

असति प्रमाणे केन प्रमीयमाणोऽर्थः प्रमेयः स्यात्?, प्रमाणेन खलु प्रमीयमाणोऽर्थः प्रमेयमित्येतत्सिध्यति ॥
न्यायसूत्र २,१.११

न्यायसूत्र २,१.११ युगपत्सिद्धौ प्रत्यर्थनियतत्वात्क्रमवृत्तित्वाभावो बुद्धीनाम् ॥

यदि प्रमाणं प्रमेयं च युगपद्भवतः ? एवमपि गन्धादिष्विन्द्रियार्थेषु ज्ञानानि प्रत्यर्थनियतानि युगपद्संभवन्तीति ज्ञानानां प्रत्यर्थनियतत्वात्क्रमवृत्तित्वाभावःुया इमा बुद्धयः क्रमेणार्थेषु वर्तन्ते तासां क्रमवृत्तित्वं न संभवतीति।
व्याघातश्च “युगपद्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ११२६”इति, एतावांश्च प्रमाणप्रमेययोः सद्भावविषयः स चानुपपन्न इति, तस्मात्प्रत्यक्षादीनां प्रमाणत्वं न संभवतीति ॥ ११ ॥
अस्य समाधिः उपलब्धिहेतोरुपलब्धिविषयस्य चार्थस्य पूर्वापरसहभावाऽनियमाद्यथादर्शनं विभागवचनम्२. क्वचिदुपलब्धिहेतुः पूर्वं पश्चादुपलब्धिविषयो यथादित्यस्य प्रकाशः, उत्पद्यमानानां क्वचित्पूर्वमुपलब्धिविषयः पश्चादुपलब्धिहेतुर्यथावस्थितानां प्रदीपः, क्वचिदुपलब्धिहेतुरुपलब्धिविषयश्च सह भवतो यथा धूमेनाग्नेर्ग्रहणमिति। उपलब्धिहेतुश्च प्रमाणं प्रमेयं तूपलब्धिविषयः। एवं प्रमाणप्रमेययोः पूर्वापरसहभावेऽनियते यथार्थो दृश्यते तथा विभज्य वचनीय इति, तत्रैकान्तेन प्रतिषेधानुपपत्तिः सामान्येन खलु विभज्य प्रतिषेध उक्त इति। समाख्याहेतोस्रैकाल्ययोगात्तथाभूता समाख्या३. यत्पुनरिदम्ऽपश्चात्सिद्धौउअसति प्रमाणे प्रमेयं न सिध्यति प्रमाणेन प्रमीयमाणोऽर्थः प्रमेयमिति विज्ञायतेऽ इति, प्रमाणमित्येतस्याः समाख्याया उपलब्धिहेतुत्वं निमित्तं तस्य त्रैकाल्ययोगःऽउपलब्धिमकार्षीत्ऽऽउपलब्धिं करोतिऽऽउपलब्धिं करिष्यतिऽ इति समाख्याहेतोः त्रैकाल्ययोगात्समाख्या तथाभूता, प्रमितोऽनेनार्थः प्रमीयते प्रमास्यते इति प्रमाणम्. प्रमितं प्रमीयते प्रमास्यते इति च प्रमेयम्, एवं सति भविष्यत्यस्मिन् हेतुत उपलब्धिःुप्रमास्यतेऽयमर्थः प्रमेयमिदमित्येतत्सर्वं भवतीति।
त्रैकाल्यानभ्यनुज्ञाने च व्यवहारानुपप४ तिः. यश्चैवं नाभ्यनुजानीयात्तस्यऽपाचकमानय पक्ष्यतिऽऽलावकमानय लविष्यतीतिव्यवहारो नोपपद्यते इति।
“प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः २१८”इत्येवमादिवाक्यं प्रमाणप्रतिषेधः. तत्रायं प्रष्टव्यः अथानेन प्रतिषेधेन भवता किं क्रियते इति, किं संभवो निवर्त्यते ? अथासंभावो ज्ञाप्यते ? इति, तद्यदि संभवो निवर्त्यते ? सति संभवे प्रत्यक्षादीनां प्रतिषेधानुपपत्तिः, अथासंभवो ज्ञाप्यते ? प्रमाणलक्षणं प्राप्तस्तर्हि प्रतिषेधः प्रमाणासंभवस्योपलब्धिहेतुत्वादिति ॥ ११ ॥
न्यायसूत्र २,१.१२
किं चातः

न्यायसूत्र २,१.१२ त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः ॥

अस्य तु विभागः पूर्वं हि प्रतिषेधसिद्धावसति प्रतिषेध्ये किमनेन प्रतिषिध्यते ?, पश्चात्सिद्धौ प्रतिषेधासिद्धिः प्रतिषेधाभावादिति, यूगपत्सिद्धौ प्रतिषेध्यसिद्ध्यभ्यनुज्ञानादनर्थकः प्रतिषेध इति, प्रतिषेधलक्षणे च वाक्येऽनुपपद्यमाने सिद्धं प्रत्यक्षादीनां प्रमाणत्वमिति ॥ १२ ॥
न्यायसूत्र २,१.१३

न्यायसूत्र २,१.१३ सर्वप्रमाणप्रतिषेधाच्च प्रतिषेधानुपपत्तिः ॥

कथम् ?. “त्रैकाल्यासिद्धेः”इत्यस्य हेतोर्यद्युदाहरणमुपादीयते ? हेत्वर्थस्य साधकत्वं दृष्टान्ते दर्शयितव्यमिति. न च तर्हि प्रत्यक्षादीनामप्रामाण्यम्, अथ प्रत्यक्षादीनामप्रामाण्यम् ?. उपादीयमानमप्युदाहरणं नार्थं साधयिष्यतीति. सोयं सर्वप्रमाणैर्व्याहतो हेतुरहेतुः “सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः १२६”इति, वाक्यार्थो ह्यस्य सिद्धान्तः स च वाक्यार्थःऽप्रत्यक्षादीनि नार्थं साधयन्तिऽ इति. इदं चावयवानामुपादानमर्थस्य साधनायेति। अथ नोपादीयते? अप्रदर्शितहेत्वर्थस्य दृष्टान्ते न साधकत्वमिति प्रतिषेधो नोपपद्यते हेतुत्वासिद्धेरिति ॥ १३ ॥

न्यायसूत्र २,१.१४

न्यायसूत्र २,१.१४ तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः ॥

प्रतिषेधलक्षणे स्ववाक्ये तेषामवयवाश्रितानां प्रत्यक्षादीनां प्रामाण्येऽभ्यनुज्ञायमाने परवाक्येप्यवयवाश्रितानां प्रामाण्यं प्रसज्यते अविशेषादिति. एवं च न सर्वाणि प्रमाणानि प्रतिषिध्यन्ते इति।”विप्रतिषेधः”इति वीत्ययमुपसर्गः संप्रतिपत्त्यर्थे नव्याघाते अर्थाभावादिति ॥ १४ ॥
न्यायसूत्र २,१.१५

न्यायसूत्र २,१.१५ त्रैकाल्याप्रतिषेधश्च शब्दादातोद्यसिद्धिवत्तत्सिद्धेः ॥

किमर्थं पुनरिदमुच्यते ? पूर्वोक्तनिबन्धनार्थम्. यत्तावत्पूर्वोक्तम्ऽउपलब्धिहेतोरुपलब्धिविषयस्य चार्थस्य पूर्वापरसहभावानियमाद्यथादर्शनं विभागवचनम्ऽ इति तदितः समुत्त्थानं यथा विज्ञायेत।
अनियमदर्शी खल्वयं क्रृषिर्नियमेन प्रतिषेधं प्रत्याचष्टे त्रैकाल्यस्य चायुक्तः प्रतिषेध इति।
तत्रैकां विधामुदाहरति शब्दादातोद्यसिद्धिवदिति, यथा पश्चात्सिद्धेन शब्दने पूर्वसिद्धमातोद्यमनुमीयते. साध्यं चातोद्यं साधनं च शब्दः. अन्तर्हिते ह्यातोद्ये स्वनतोऽनुमानं भवतीति वीणा वाद्यते वेणुः पूर्यते इति स्वनविशेषेणातोद्यविशेषं प्रतिपद्यते. तथा पूर्वसिद्धमुपलब्धिविषयं पश्चात्सिद्धेनोपलब्धिहेतुना प्रतिपद्यते इति. निदर्शनार्थत्वाच्चास्य शेषयोर्विधयोर्यथोक्तमुदाहरणं वेदितव्यमिति।
कस्मात्पुनरिह तन्नोच्यते पूर्वोक्तमुपपाद्यते ? इति, सर्वथा तावदयमर्थः प्रकाशयितव्यः स इह वा प्रकाश्येत तत्र वा न कश्चिद्विशेष इति।
प्रमाणं प्रमेयमिति च समाख्या समावेशेन वर्तते समाख्यानिमित्तवशात्. समाख्यानिमित्तं तूपलब्धिसाधनं प्रमाणमुपलब्धिविषयश्च प्रमेयमिति. यदा चोपलब्धिविषयः क्वचिदुपलब्धिसाधनं भवति तदा प्रमाणं प्रमेयमिति चैकोऽर्थोऽभिधीयते ॥ १५ ॥
न्यायसूत्र २,१.१६

अस्यार्थस्यावद्योतनार्थमिदमुच्यते

न्यायसूत्र २,१.१६ प्रमेयता च तुलाप्रामाण्यवत् ॥

गुरुत्वपरिमाणज्ञानसाधनं तुला प्रमाणम्. ज्ञानविषयो गुरुद्रव्यं सुवर्णादि प्रमेयम्. यदा (च) सुवर्णादिना तुलान्तरं व्यवस्थाप्यते तदा तुलान्तरप्रतिपत्तौ सुवर्णादि प्रमाणं तुलान्तरं प्रमेयमिति, एवमनवयवेन तन्त्रार्थ उद्दिष्टो वेदितव्यः आत्मा तावदुपलबिधविषयत्वात्प्रमेये परिपठितः उपलब्धौ च स्वातन्त्र्यात्प्रमाता, बुद्धिरुपलब्धिसाधनत्वात्प्रमाणम्. उपलब्धिविषयत्वात्प्रमेयम्. उभयाभावात्प्रमितिः एवमर्थविशेषे समाख्यासमावेशो योज्यः।
तथा च कारकशब्दा निमित्तवशात्समावेशेन वर्तन्ते इति.ऽवृक्षस्तिष्ठतीति स्वस्थितौ स्वातन्त्र्यात्कर्ता,ऽवृक्षं पश्यतीतिदर्शनेनाप्तुमिष्यमाणत्वात्कर्म.ऽवृक्षेण चन्द्रमसं ज्ञापयतीति ज्ञापकस्य साधकतमत्वात्करणम्.ऽवृक्षायोदकमासिञ्चतीति आसिच्यमानेनोदकेन वृक्षमभिप्रैतीति संप्रदानम्.ऽवृक्षात्पर्णं पततीति “ध्रुवमपायेऽपादानम्” इत्यपादानम्.ऽवृक्षे वयांसि सन्तीति “आधारोऽधिकरणम्” इत्यधिकरणम्, एवं च सति च द्रव्यमात्रं कारकं न वा क्रियामात्रम्।
किं तर्हि ? क्रियासाधनं क्रियाविशेषयुक्तं कारकं यत्क्रियासाधनं स्वतन्त्रः स कर्ता. न द्रव्यमात्रं न क्रियामात्रम्, क्रियया व्याप्तुमिष्यमाणतमं कर्म. न द्रव्यमात्रं न क्रियामात्रम्, एवं साधकतमादिष्वपि, एवं च कारकान्वाख्यानं यथैवोपपत्तित एवं लक्षणतः कारकान्वाख्यानमपि न द्रव्यमात्रेण न क्रियया वा।
किं तर्हि ?. क्रियासाधने क्रियाविशेषयुक्त इति, कापरकशब्दश्चायं प्रमाणं प्रमेयमिति स च कारकधर्मं न हातुमर्हति. अस्ति भो कारकशब्दानां निमित्तवशात्समावेशः प्रत्यक्षादीनि च प्रमाणानि उपलब्धिहेतुत्वात्. प्रमेयं च उपलब्धिविषयत्वात्, संवेद्यानि प्रत्यक्षादीनि प्रमाणानि चऽप्रत्यक्षेणोपलभे अनुमानेनोपलभे उपमानेनोपलभे आगमेनोपलभे. प्रत्यक्षं मे ज्ञानमानुमानिकं मे ज्ञानमौपमानिकं मे ज्ञानमागमिकं मे ज्ञानम्ऽ इति विशेषा गृह्यन्ते, लक्षणतश्च ज्ञाप्यमानानि ज्ञायन्ते विशेषेणऽइन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानम्ऽ इत्येवमादिना ॥ १६ ॥
सेयमुपलब्धिः प्रत्यक्षादिविषया किं प्रमाणान्तरतः ? अथान्तरेण प्रमाणम् = असाधना ? इति, कश्चात्र विशेषः ?,
न्यायसूत्र २,१.१७

न्यायसूत्र २,१.१७ प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः ॥

यदि प्रत्यक्षादीनि प्रमाणेनोपलभ्यन्ते ? येन प्रमाणेनोपलभ्यन्ते तत्प्रमाणान्तरमस्तीनि प्रमाणान्तरसद्भावः प्रसज्यते इत्यनवस्थामाह तस्याप्यन्येन तस्याप्यन्येनेति, न चानवस्था शक्यानुज्ञातुमनुपपत्तेरिति ॥ १७ ॥
न्यायसूत्र २,१.१८

न्यायसूत्र २,१.१८ तद्विनिवृत्तर्वा प्रमाणसिद्धिवत्प्रमेयसिद्धि ॥

यदि प्रत्यक्षाद्युपलब्धौ प्रमाणान्तरं निवर्तते ? आत्मेत्युपलब्धावपि प्रमाणान्तरं निवर्त्स्यति अविशेषात्. एवं च सर्वप्रमाणविलोप इति ॥ १८ ॥
न्यायसूत्र २,१.१९

अत आह

न्यायसूत्र २,१.१९ न प्रदीपप्रकाशसिद्धिवत्तत्सिद्धेः ॥

यथा प्रदीपप्रकाशः प्रत्यक्षाङ्गत्वाद्दृश्यदर्शने प्रमाणं स च प्रत्यक्षान्तरेण
चक्षुषः संनिकर्षेण गृह्यते, प्रदीपभावाभावयोर्दर्शनस्य तथाभावाद्दर्शनहेतुरनुमीयते.ऽतमसि प्रदीपमुपाददीथाःऽ इत्याप्तोपदेशेनापि प्रतिपद्यते, एवं प्रत्यक्षादीनां यथादर्शनं प्रत्यक्षादिभिरेवोपसब्धिः।
इन्द्रियाणि तावत्स्वविषयग्रहणेनैवानुमीयन्ते. अर्थाः प्रत्यक्षतो गृह्यन्ते. इन्द्रियार्थसंनिकर्षास्त्वावरणेन लिङ्गेनानुमीयन्ते. इन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानमात्ममनसोः संयोगविशेषादात्मसमवायाच्च सुखादिवद्गृह्यते. एवं प्रमाणविशेषो विभज्य वचनीयः।
यथा च दृश्यः सन् प्रदीपप्रकाशो दृश्यान्तराणां दर्शनहेतुरिति दृश्यदर्शनव्यवस्थां लभते एवं प्रमेयं सत्किञ्चिदर्थजातमुपलब्धिहेतुत्वात्प्रमाणप्रमेयव्यवस्थां लभते, सेयं प्रतयक्षादिभिरेव प्रत्यक्षादीनां यथादर्शनमुपलब्धिर्न प्रमाणान्तरतो न च प्रमाणमन्तेरण निःसाधनेति ॥
तनैव तस्याग्रहणमिति चेत्? न अर्थभेदस्य लक्षणसामान्यात्५।
प्रत्यक्षादीनां प्रत्यक्षादिभिरेव ग्रहणमित्ययुक्तमन्येन ह्यन्यस्य ग्रहणं दृष्टमिति, न अर्थभेदस्य लक्षणसामान्यातुप्रत्यक्षलक्षणेनानेकोर्थः संगृहीतस्तत्र केन चित्कस्यचिद्ग्रहणमित्यदोषः, एवमनुमानादिष्वपीति, यथोद्धृतेनोदकेनाशयस्थस्य ग्रहणमिति ॥
ज्ञातृमनसोश्च दर्शनात्६।
ऽअहं सुखी अहं दुःखी चऽ इति तेनैव ज्ञात्रा तस्यैव ग्रहणं दृश्यते.”
युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्”
इति च तेनैव मनसा तस्यैवानुमानं दृश्यते, ज्ञातुर्ज्ञेयस्य चाभेदो ग्रहणस्य ग्राह्यस्य चाभेद इति ॥
निमित्तभेदोऽत्रेति चेत्? समानम्७।
न निमित्तान्तरेण विना ज्ञातात्मानं जानीते. न च निमित्तान्तरेण विना मनसा मनो गृह्यते इति, समानमेतत् ।
प्रत्यक्षादिभिः प्रत्यक्षादीनां ग्रहणमित्यत्राप्यर्थभेदो न गृह्यते इति ॥
प्रत्यक्षादीनां चाविषयस्यानुपपत्तेः८।
यदि स्यात्किञ्चिदर्थजातं प्रत्यक्षादीनामविषयः यत्प्रत्यक्षादिभिर्न शक्यं ग्रहीतुं तस्य ग्रहणाय प्रमाणान्तरमुपादीयेत तत्तु न शक्यं केनचिदुपपादयतुमिति, प्रतयक्षादीनां यथादर्शनमेवेदं सच्चासच्च सर्वं विषय इति ॥
केचित्तु दृष्टान्तमपरिगृहीतं हेतुना ।
विशेषहेतुमन्तरेण साध्यसाधनायोपाददते यथा प्रदीपप्रकाशः प्रदीपान्तरप्रकाशमन्तरेण गृह्यते तथा प्रमाणानि प्रमाणान्तरमन्तरेण गृह्यन्ते इति. स चायं क्व चिन्निवृत्तिदर्शनादनिवृत्तिदर्शनाच्च क्व चिदनेकान्तः९।
यथायं प्रसङ्गो निवृत्तिदर्शनात्प्रमाणसाधनायोपादीयते एवं प्रमेयसाधनायाप्युपादेयः अविशेषहेतुत्वात्, यथा स्थाल्यादिरूपग्रहणे प्रदीपप्रकाशः प्रमेयसाधनायोपादीयते एवं प्रमाण साधनायाप्युपादेयः विशेषहेत्वभावात्, सोयं विशेषहेतुपरिग्रहमन्तरेण दृष्टान्त एकस्मिन् पक्षे उपादेयो न प्रतिपक्षे इत्यनेकान्तः ।
एकस्मिंश्च पक्षे दृष्टान्त इत्यनेकान्तः विशेषहेत्वभावादिति ॥
विशेषहेतुपरिग्रहे सति उपसंहाराभ्यनुज्ञानादप्रतिषेधः१०।
विशेषहेतुपरिगृहीतस्तु दृष्टान्त एकस्मिन् पक्षे उपसंहियमाणो न शक्योऽननुज्ञातुमेवं च सतिऽअनेकान्तःऽ इत्ययं प्रतिषेधो न भवति।
प्रत्यक्षादीनां प्रत्यक्षादिभिरुपलब्धावनवस्थेतिचेत्? न संविद्विषय निमित्तानामुपलब्ध्या व्यवहारोपप११ तेः।
प्रत्यक्षेणार्थमुपलभे अनुमानेनार्थमुपलभे उपमानेनार्थमुपलभे आगमेनार्थमुपलभे इति. प्रत्यक्षं मे ज्ञानमानुमानिकं मे ज्ञानमौपमानिकं मे ज्ञानमागमिकं मे ज्ञानमिति संविद्विषयं संविन्निमित्तं चोपलभमानस्य धर्मार्थसुखापवर्गप्रयोजनः तत्प्रत्यनीकपरिवर्जनप्रयोजननश्च व्यवहार उपपद्यते सोयं तावत्यैव निर्वर्तते. न चास्ति व्यवहारान्तरमनवस्थासाधनीयं येन प्रयुक्तोऽनवस्थामुपाददीतेति ॥ १९ ॥
न्यायसूत्र २,१.२०

सामान्येन प्रमाणानि परीक्ष्य विशेषेण परीक्ष्यन्ते, तत्र

न्यायसूत्र २,१.२० प्रत्यक्षलक्षणानुपपत्तिरसमग्रवचनात् ॥

आत्ममनःसंनिकर्षो हि कारणान्तरं नोक्तमिति, न चासंयुक्ते द्रव्ये संयोगजन्यस्य गुणस्योत्पत्तिरिति. ज्ञानोत्पत्तिदर्शनादात्ममनःसंनिकर्षः कारणम्।
मनःसंनिकर्षानपेक्षस्य चेन्द्रिनयार्थसंनिकर्षस्य ज्ञानकारणत्वे युगपदुत्पद्येरन् बुद्धय इति मनःसंनिकर्षोपि कारणम् ॥ २० ॥
न्यायसूत्र २,१.२१

तदिदं सूत्रं पुरस्तात्कृतभाष्यम्
न्यायसूत्र २,१.२१ नात्ममनसोः संनिकर्षाभावे प्रत्यक्षोत्पत्तिः ॥

आत्ममनसोः संनिकर्षाभावे नोत्पद्यते प्रत्यक्षमिन्द्रियार्थसंनिकर्षाभाववदिति, सति चेन्द्रियार्थसंनिकर्षे ज्ञानोत्पत्तिदर्शनात्कारणभावं ब्रुवते ॥ २१ ॥
न्यायसूत्र २,१.२२

न्यायसूत्र २,१.२२ दिग्देशकालाकाशेष्वप्येवं प्रसङ्गः ॥

दिगादिषु सत्सु ज्ञानभावात्तान्यपि कारणानीति. अकारणभावेपि ज्ञानोत्पत्तेर्दिगादिसंनिधेरवर्जनीयत्वात् ।
यदाप्यकारणं दिगादीनि ज्ञानोत्पत्तौ तदापि सत्सु दिगादिषु ज्ञानेन भवितव्यं न हि दिगादीनां संनिधिः शक्यः परिवर्जयितुमिति।
तत्र कारणभावे हेतुवचनमेतस्माधेतोर्दिगादीनि ज्ञानकारणानीति।
आत्ममनःसंनिकर्षस्तर्ह्युपसंख्येय इति ॥ २२ ॥
न्यायसूत्र २,१.२३

तत्रेदमुच्यते

न्यायसूत्र २,१.२३ ज्ञानलिङ्गत्वादात्मनो नानवरोधः ॥

ज्ञानमात्मलिङ्गं तद्गुणतवात्. न चासंयुक्ते द्रव्ये संयोगजस्य गुणस्योत्पत्तिरस्तीति ॥ २३ ॥
न्यायसूत्र २,१.२४

न्यायसूत्र २,१.२४ तदयौगपद्यलिङ्गत्वाच्च न मनसः ॥

अनवरोध इति वर्तते,
“युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् १११६”
इत्युच्यमाने सिध्यत्येव मनःसंनिकार्षापेक्ष इन्द्रियार्थसंनिकर्षो ज्ञानकारणमिति ॥ २४ ॥
न्यायसूत्र २,१.२५

न्यायसूत्र २,१.२५ प्रत्यक्षनिमित्तत्वाच्चेन्द्रियार्थयोः संनिकर्षस्य स्वशब्देन वचनम् ॥

प्रत्यक्षानुमानोपमानशब्दानां निमित्तमात्ममनःसंनिकर्षः प्रत्यक्षस्यैवेन्द्रियार्थसंनिकर्ष इत्यसमानोऽसमानत्वात्तस्य ग्रहणम् ॥ २५ ॥
न्यायसूत्र २,१.२६

न्यायसूत्र २,१.२६ सुप्तव्यासक्तमनसां चेन्द्रियार्थयोः संनिकर्षनिमित्तत्वात् ॥

इन्द्रियार्थसंनिकर्षस्य ग्रहणं नात्ममनसोः संनिकर्षस्येति, एकदा खल्वयं प्रबोधकालं प्रणिधाय सुप्तः प्रणिधानवशात्प्रबुध्यते, यदा तु तीव्रौ ध्वनिस्पर्शौं प्रबोधकारणं भवतस्तदाप्रसुप्तस्येन्द्रियार्थसंनिकर्षनिमित्तं प्रबोधज्ञानमुत्पद्यते तत्र न ज्ञातुर्मनसश्च संनिकर्षस्य प्राधान्यं भवति, किं तर्हि ?. इन्द्रियार्थयोः संनिकर्षस्यनह्यत्मा जिज्ञासमानः प्रयत्नेन मनस्तदा प्रेरयतीति।
एकदा खल्वयं विषायान्तराव्यासक्तमनाः संकल्पवशाद्विषयान्तरं जिज्ञासमानः प्रयत्नप्रेरितेन मनसा इन्द्रियं संयोज्य यद्विषयान्तरं जानीते, यदा तु खल्वस्य निःसंकल्पस्य निर्जिज्ञासस्य च व्यासक्तमनसो बाह्यविषयोपनिपातनाद्ज्ञानमुत्पद्यते तदेन्द्रियार्थसंनिकर्षस्य प्राधान्यं न ह्यत्रासौ जिज्ञासमानः प्रयत्नेन मनः प्रेरयतीति।
प्राधान्याच्चेन्द्रिनयार्थसंनिकर्षस्य ग्रहणं कार्यं गुणत्वान्नात्ममनसोः संनिकर्षस्येति ॥ २६ ॥
न्यायसूत्र २,१.२७

प्राधान्ये च हेत्वन्तरम्

न्यायसूत्र २,१.२७ तैश्चापदेशो ज्ञानविशेषाणाम् ॥

तैः ।
इन्द्रियैरर्थैश्च व्यपदिश्यन्ते ज्ञानविशेषाः, कथम् ?.ऽघ्राणेन जिघ्रतिऽऽचक्षुषा पश्यतिऽऽरसनया रसयतीति.ऽघ्राणविज्ञानं चक्षुर्विज्ञानं रसनविज्ञानम्ऽऽगन्धविज्ञानं रूपविज्ञानं रसविज्ञानम्ऽ इति च, इन्द्रियविषयविशेषाच्च पञ्चधाबुद्धिर्भवति अतः प्राधन्यमिन्द्रियार्थसंनिकर्षस्येति ॥ २७ ॥
न्यायसूत्र २,१.२८

यदुक्तम्ऽइन्द्रियार्थसंनिकर्षग्रहणं कार्यं नात्ममनसोः संनिकर्षस्येति. कस्यात्?. सुप्तव्यासक्तमनसामिन्द्रियार्थयोः संनिकर्षस्य ज्ञाननिमित्तत्वात्ऽ इति. सोयम्

न्यायसूत्र २,१.२८ व्याहतत्वादहेतुः ॥

यदि तावत्क्वचिदात्ममनसोः सनिकर्षस्य ज्ञानकारणत्वं नेष्यते ? तदा

“युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ११२६”
इति व्याहन्येत. नेदानीं मनसः संनिकर्षमिन्द्रियार्थसंनिकर्षोऽपेक्षते. मनःसंयोगानपेक्षायां च युगपज्ज्ञानोत्पत्तिप्रसङ्गः।
अथ मा भूद्व्याघात इति सर्वविज्ञानानामात्ममनसोः संनिकर्षः कारणमिष्यते ? तदवस्थमेवेदं भवतिऽज्ञानकारणत्वादात्ममनसोः संनिकर्षस्य ग्रहणं कार्यम्ऽ इति ॥ २८ ॥
न्यायसूत्र २,१.२९

न्यायसूत्र २,१.२९ नार्थविशेषप्राबल्यात् ॥

नास्ति व्याघातः न ह्यात्ममनःसंनिकर्षस्य ज्ञानकारणत्वं व्यभिचरति. इन्द्रियार्थसंनिकर्षस्य प्राधान्यमुपादीयते अर्थविशेषप्राबल्याद्धि सुप्तव्यासक्तमनसां ज्ञानोत्पत्तिरेकदा भवति।
अर्थविशेषः कश्चिदेवेन्द्रियार्थस्तस्य प्राबल्यं तीव्रतापटुते, तच्चार्थविशेषप्राबल्यामिन्द्रियार्थसंनिकर्षविषयं नात्ममनसोः संनिकर्षविषयं तस्मादिन्द्रियार्थसंनिकर्षः प्रधानमिति।
असति प्रणिधाने संकल्पे चासति सुप्तव्यासक्तमनसां यदिन्द्रियार्थसंनिकर्षादुत्पद्यते ज्ञानं तत्र मनःसंयोगोपि कारणमिति मनसि क्रियाकारणं वाच्यमिति, यथैव ज्ञातुः खल्वयमिच्छाजनितः प्रयत्नो मनसः प्रेरक आत्मगुण एवमात्मनि गुणान्तरं सर्वस्य साधकं प्रवृत्तिदोषजनितमस्ति येन प्रेरितं मन इन्द्रियेण संबध्यते. तेन ह्यप्रेर्यमाणे मनसि संयोगाभावात्ज्ञानातुत्पत्तौ सर्वार्थतास्य निवर्तते. एषितव्यं चासय गुणान्तरस्य द्रव्यगुणकर्मकारकत्वमन्यथा हि चतुर्विधानामणूनां भूतसूक्ष्माणां मनसां च ततोऽन्यस्य क्रियाहेतोरसंभवात्शरीरेन्द्रियविषयाणामनुत्पत्तिप्रसङ्गः ॥ २९ ॥
न्यायसूत्र २,१.३०

न्यायसूत्र २,१.३० प्रत्यक्षमनुमानमेकदेशग्रहणादुपलब्धेः ॥

यदिदमिन्द्रियार्थसंनिकर्षादुत्पद्यते ज्ञानम्ऽवृक्षःऽ इति एतत्किल प्रत्यक्षं तत्खल्वनुमानमेव, कस्मात्?. एकदेशग्रहणाद्वृक्षस्योपलब्धेः ।
अर्वाग्भागमयं गृहीत्वा वृक्षमुपलभते न चैकदेशो वृक्षः, तत्र यथा धूमं गृहीत्वा वह्निमनुमिनोति तादृगेव तद्भवति।
किं पुनर्गृह्यमाणादेकदेशादर्थान्तरमनुमेयं मन्यसे ?, अवयवसमूहपक्षे अवयवान्तराणि द्रव्योत्पत्तिपक्षे तानि चावयवी चेति।
अवयवसमूहपक्षे तावदेकदेशग्रहणाद्वृक्षबुद्धेरभावः न ह्यगृह्यमाणमेकदेशान्तरं वृक्षो गृह्यमाणैकदेशवदिति।
अथ एकदेशग्रहणादेकदेशान्तरानुमाने समुदायप्रतिसंधानात्तत्र वृक्षबुद्धिः ?, न तर्हि वृक्षबुद्धिरनुमानमेवं सति भवितुमर्हतीति।
द्रव्यान्तरोत्पत्तिपक्षे नावयव्यनुमेयः अस्यैकदेशसंबद्धस्याग्रहणाद्ग्रहणे चाविशेषादनमुमेयत्वाभावः, तस्माद्वृक्षबुद्धिरनुमानं न भवति ॥ ३० ॥
न्यायसूत्र २,१.३१

एकदेशग्रहणमाश्रित्य प्रत्यक्षस्यानुमानत्वमुपपाद्यते तच्च

न्यायसूत्र २,१.३१ न प्रत्यक्षेण यावत्तावदप्युपलम्भात् ॥

न प्रत्यक्षमनुमानम्, कस्मात्?. प्रत्यक्षेणैवोपलम्भात् ।
यत्तदेकदेशग्रहणमाश्रीयते प्रत्यक्षेणासावुपलम्भः, न चोपलम्भो निर्विषयोस्ति यावच्चार्थजातं तस्य विषयस्तावदभ्यनुज्ञायमानं प्रत्यक्षव्यवस्थापकं भवति।
किं पुनस्ततोऽन्यदर्थजाम् ?. अवयवी समुदायो वा।
न चैवदेशग्रहणमनुमानं भावयितुं शक्यं हेत्वभावादिति ॥
अन्यथापि च प्रत्यक्षस्य नानुमानत्वप्रसङ्गः तत्पूर्वकत्वात्१२।
प्रत्यक्षपूर्वकमनुमानं संबद्धावग्निधूमौ प्रत्यक्षतो दृष्टवतो धूमप्रत्यक्षदर्शनादग्नावनुमानं भवति. यच्च संबद्धयोर्लिङ्गलिङ्गनोः प्रत्यक्षं यच्च लिङ्मात्रप्रत्यक्षग्रहणं नैतदन्तरेणानुमानस्य प्रवृत्तिरस्ति न त्वेतदनुमानमिन्द्रियार्थसंनिकर्षजत्वात्. न चानुमेयस्येन्द्रियेण संनिकर्षादनुमानं भवति, सोयं प्रत्क्षानुमानयोर्लक्षणभेदो महानाश्रयितव्य इति ॥ ३१ ॥
न्यायसूत्र २,१.३२

न्यायसूत्र २,१.३२ न चैकदेशोपलब्धिरवयविसद्भावात् ॥

न चैकदेशोपलब्धिमात्रम्, किं तर्हि ?. एकदेशोपलब्धिः तत्सहचरितावयव्युपलब्धिश्च, कस्मात्?. अवयविसद्भावात् ।
अस्ति ह्ययमेकदेशव्यतिरिक्तोऽवयवी, तस्यावयवस्थानस्योपलब्धिकारणप्राप्तस्य एकदेशोपलब्धौ अनुपलब्धिरनुपपन्नेति ॥
अकृत्स्नग्रहणादितिचेत्? न कारणतोऽन्यस्यैकदेशस्याभावात्१३।
न चावयवाः कृत्स्ना गृह्यन्ते अवयवैरेवावयवान्तरव्यवधानात्. नावयवी कृत्स्नो गृह्यते इति नायं गृह्यमाणेष्ववयवेषु परिसमाप्त इति, सेयमेकदेशोपलब्धिरनिवृत्तैवेति।
कृत्स्नमिति वै खल्वशेषतयां सत्यां भवति. अकृत्स्नमिति शेषे सति. तच्चैतदवयवेषु बहुष्वस्ति अव्यवधाने ग्रहणाद्व्यवधाने चाग्रहणादिति।
अङ्गं तु भवान् पृष्टो व्याचष्टां गृह्यमाणस्यावयविनः किमगृहीतं मन्यसे ? येनैकदेशोपलब्धिः स्यादिति, न ह्यस्य कारणेभ्योऽन्ये एकदेशा भवन्तीति, तत्रावयववृत्तं नोपपद्यते इति।
इदं तस्य वृत्तं येषामिन्द्रियसंनिकर्षाद्ग्रहणमवयवानां तैः सह गृह्यतेयेषामवयवानां व्यवधानादग्रहणं तैः सह न गृह्यते।
न चैतत्कृतोस्ति भेद इति।
समुदायोप्यशेषता वा समुदायो वृक्षः स्यात्? तत्प्राप्तिर्वा ? उभयथा ग्रहणाभावः ।
मूलस्कन्धशाखापलाशादीनामशेषता वा समुदायो वृक्ष इति स्यात्? प्राप्तिर्वा समुदानयिनामिति ? उभयथा (अपि) समुदायभूतस्य वृक्षस्य ग्रहणं नोपपद्यते इति ।
अवयवैस्तावदवयवान्तरस्य व्यवधानादशेषग्रहणं नोपपद्यते प्राप्तिग्रहणमपि नोपपद्यते प्राप्तिमतामग्रहणात्, सेयमेकदेशग्रहणसहचरिता वृक्षबुद्धिर्द्रव्यान्तरोत्पत्तौ कल्पते न समुदायमात्रे इति ॥ ३२ ॥
न्यायसूत्र २,१.३३

न्यायसूत्र २,१.३३ साध्यत्वादवयविनि संदेहः ॥

“अवयविसद्भावात्”
इत्ययमहेतुः साध्यत्वात् ।
साध्यं तावदेतत्कारणेभ्यो द्रव्यान्तरमुत्पद्यते इति. अनुपपादितमेतत्, एवं च सति विप्रतिपत्तिमात्रं भवति विप्रतिपत्तेश्चावयविनि संशय इति ॥ ३३ ॥
न्यायसूत्र २,१.३४

न्यायसूत्र २,१.३४ सर्वाग्रहणमवयव्यसिद्धेः ॥

यद्यवयवी नास्ति ? सर्वस्य ग्रहणं नोपपद्यते।
किं तत्सर्वम् ?, द्रव्यगुणकर्मसामान्यविशेषसमवायाः।
कथं कृत्वा ?, परमाणुसमवस्थानं तावद्दर्शनविषयो न भवति अतीन्द्रियत्वादणूनाम्. द्रव्यान्तरं चावयविभूतं दर्शनविषयो नास्ति. दर्शनविषयाश्चेमे द्रव्यादयो गृह्यन्ते ते निरधिष्ठाना न गृह्येरनु गृह्यन्ते तुऽकुम्भोयं श्याम एको महान् संयुक्तः स्पन्दते अस्ति मृन्मयश्चऽ इति. सन्ति चेमे गुणादयो धर्मा इति. तेन सर्वस्य ग्रहणात्पश्यामोऽस्ति द्रव्यान्तरभूतोऽवयवीति ॥ ३४ ॥
न्यायसूत्र २,१.३५

न्यायसूत्र २,१.३५ धारणाकर्षणोपपत्तेश्च ॥

अवयव्यर्थान्तरभूत इति, संग्रहकारिते वै धारणाकर्षणे, संग्रहो नाम संयोगसहचरितं गुणान्तरं स्नेहद्रवत्वकारितमपां संयोगादामे कुम्भे अग्निसंयोगात्पक्वे।
यदि त्ववयवकारिते अभविष्यताम् ? पांशुराशिप्रभृतिष्वप्यज्ञास्येताम्, द्रव्यान्तरानुत्पत्तौ च तृणोपलकाष्ठादिषु जतुसंगृहीतेष्वपि नाभविष्यतामिति।
अथावयविनं प्रत्याचक्षाणकःऽमा भूत्प्रत्यक्षलोपःऽ इत्यणुसञ्चयं दर्शनविषयं प्रतिजानानः किमनुयोक्तव्यः ? इति,ऽएकमिदं द्रव्यम्ऽ इत्येकबुद्धेर्विषयं पर्यनुयोज्यः ।
किमेकबुद्धिरभिन्नार्थविषया ? अहो भिन्नार्थविषया ? इति, अभिन्नार्थविषयेतिचेत्? अर्थान्तरानुज्ञानादवयविसिद्धिः, नानार्थविषयेति चेत्? भिन्नेष्वेकदर्शनानुपपत्तिः ।
अनेकस्मिनेक इति व्याहता बुद्धिर्न दृश्यते इति ॥ ३५ ॥

न्यायसूत्र २,१.३६

न्यायसूत्र २,१.३६ सेनावनवद्ग्रहणमितिचेत्? नातीन्द्रियत्वादणूनाम् ॥

यथा सेनाङ्गेषु वनाङ्गेषु च दूरादगृह्यमाणपृथक्त्वेषुऽएकम्ऽ इत्युपपद्यते बुद्धिः एवमणुषु संचितेष्वगृह्यमाणपृथक्त्वेषुऽएकम्ऽ इत्युपपद्यते बुद्धिरिति ।
यथागृह्यमाणपृथक्त्वानां सेनावनाङ्गानामारात्कारणान्तरतः पृथक्त्वस्याग्रहणं यथागृह्यमाणजातीनां पलाश इति वा खदिर इति वा नाराज्जातिग्रहणं भवति यथागृह्यमाणप्रस्पन्दानां नारात्स्पन्दग्रहणम्. गृह्यमाणे चार्थजाते पृथक्त्वस्याग्रहणात्ऽएकम्ऽ इति भाक्तः प्रत्ययो भवति. न त्वणूनां गृह्यमाणपृथक्त्वानां कारणतः पृथक्त्वस्याग्रहणाद्भाक्त एकप्रत्ययः अतीन्द्रियत्वादणृनामिति ।
इदमेव परीक्ष्यते किमेकप्रत्ययोऽणुसंचयविषयः ? आहो स्विन्न ? इति, अणुसंचय एव सेनावनाङ्गानि, न च परीक्ष्यमाणमुदाहरणमिति युक्तं साध्यत्वादिति ॥
दृष्टमितिचेत्? न तद्विषयस्य परीक्षोपपत्तेः । १४ ।
यदपि मन्येत दृष्टमिदं सेनावनाङ्गानां पृथक्त्वस्याग्रहणादभेदेनऽएकम्ऽ इतिग्रहणं न च दृष्टं शक्यं प्रत्याख्यातुमिति।
तच्च नैवं तद्विषयस्य परीक्षोपपत्तेः

दर्शनविषय एवायं परीक्ष्यते योयमेकमिति प्रत्ययो दृश्यते स परीक्ष्यते किं द्रव्यान्तरविषयो वा ? अथाणुसंचयविषयः ? इति, अत्र दर्शनमन्यतरस्य साधकं न भवति।
नानाभावे चाणूनां पृथक्त्वस्याग्रहणादभेदेनऽएकम्ऽ इतिग्रहणमतस्मिंस्तदितिप्रत्ययो यथा स्थाणौ पुरुष इति।
ततः किम् ?. अतस्मिंस्तदितिप्रत्ययस्य प्रधानापेक्षित्वात्प्रधानसिद्धिः।
स्थाणौ पुरुष इति प्रत्ययस्य किं प्रधानम् ?. योऽसौ पुरुषे पुरुषप्रत्ययः तस्मिन् सति पुरुषसामान्यग्रहणात्स्थाणौ पुरुषोयमिति, एवं नानाभूतेषुऽएकम्ऽ इति सामान्यग्रहणात्प्रधाने सति भवितुमर्हति प्रधानं च सर्वस्याग्रहणाद्नोपपद्यते इति. तस्मादभिन्ने एवायमभेदप्रत्ययःऽएकम्ऽ इति॥

इन्द्रियान्तरविषयेष्वभेदप्रत्ययः प्रधानमितिचेत्? न विशेषहेत्वभावाद्दृष्टान्ताव्यवस्था । १५ ।
श्रोत्रादिविषयेषु शब्दादिष्वभिन्नेषु एकप्रत्ययः प्रधानमनेकस्मिन्नेकप्रत्ययस्येति।
एवं च सति दृष्टान्तोपादानं न व्यवतिष्ठते विशेषहेत्वभावात्, अणुषु संचितेष्वेकप्रत्ययः किमतस्मिंस्तदितिप्रत्ययः स्थाणौ पुरुषप्रत्ययवत्? अथार्थस्य तथाभावात्तस्मिंस्तदितिप्रत्ययो यथा शब्दस्यैकत्वादेकः शब्द इति ?, विशेषहेतुपरिग्रहमन्तरेण दृष्टान्तौ संशयमापादयत इति।
कुम्भवत्संचयमात्रं गन्धादयोपीत्यनुदाहरणं गन्धादय इति।
एवं परिमाणसंयोगस्पन्दजातिविशेषप्रत्ययानप्यनुयोक्तव्यः तेषु चैवं प्रसङ्ग इति ॥

एकत्वबुद्धिस्तस्मिंस्तदितिप्रत्यय इति विशेषहेतुः महदिति प्रत्येन सामानाधिकरण्यात् । १६ ।
ऽएकमिदं महच्चऽ इत्येकविषयौ प्रत्ययौ समानाधिकरणौ भवतस्तेन विज्ञायते यन्महत्तदेकमिति।
अणुसमूहातिशयग्रहणं महत्प्रत्यय इतिचेत्? सोऽयममहत्स्वणुषु महत्प्रत्ययोऽतस्मिंस्तदितिप्रत्ययो भवतीति।
किं चातः ? अतस्मिंस्तदितिप्रत्ययस्य प्रधानापेक्षित्वात्प्रधानसिद्धिरिति उभवितव्यं महत्येव महत्प्रत्ययेनेति।

अणुः शब्दो महानिति च व्यवसायात्प्रधानसिद्धिरितिचेत्? न मन्दतीव्रताग्रहणमियत्तानवधारणाद्यथा द्रव्ये । १७ ।
ऽअणुः शब्दोऽल्पो मन्दःऽ इत्येतस्य ग्रहणम्ऽमहान् शब्दः पटुस्तीव्रःऽ इत्येतस्य ग्रहणम्, कस्मात्? इयत्तानवधारणातुन ह्ययम्ऽमहान् शब्दःऽ इतिव्यवस्यन्ऽइयानयम्ऽ इत्यवधारयति यथा बदरामलकबिल्वादीनि।
ऽसंयुक्ते इमेऽ इति च द्वित्वसमानाश्रयप्राप्तिग्रहणम् ॥

द्वौ समुदायावाश्रयः संयोगस्येतिचेत्? । १८ ।
कोयं समुदायः ? प्राप्तिरनेकस्य ? अनेका वा प्राप्तिरेकस्य समुदाय इतिचेत्? प्राप्तेरग्रहणं प्राप्त्याश्रिताया । १९ ।
ऽसंयुक्ते इमे वस्तुनीऽ इति नात्र द्वे प्राप्ती संयुक्ते गृह्येते ॥

अनेकसमूहः सुदाय इतिचेत्? न द्वित्वेन सामानाधिकरण्यस्य ग्रहणात् । २० ।
ऽद्वाविमौ संयुक्तावर्थौंऽ इति ग्रहणे सति नानेकसमूहाश्रयः संयोगो गृह्यते न च द्वयोरण्वोर्ग्रहणमस्ति तस्मान्महती द्वित्वाश्रयभूते द्रव्ये संयोगस्य स्थानमिति॥

प्रत्यासत्तिः प्रतीघातावसाना संयोगो नार्थान्तरमितिचेत्? न अर्थान्तरहेतुत्वात्संयोगास्य । २१ ।
शब्दरूपादिस्पन्दानां हेतुः संयोगः न च द्रव्ययोर्गुणान्तरोपजननमन्तरेण शब्दे रूपादिषु स्पन्दे च कारणत्वं गृह्यते तस्माद्गुणान्तरम्।
प्रत्ययविषयश्चार्थान्तरं तत्प्रतिषेधो वा । २२ ।
ऽकुण्डली गुरुः अकुण्डलश्छात्रःऽ इति संयोगबुद्धेश्च यद्यर्थान्तरंप न विषयः ? अर्थान्तरप्रतिषेधस्तर्हि विषयस्तत्र प्रतिषिध्यमानवचनम् । २३ ।
ऽसंयुक्ते द्रव्येऽ इति यदर्थान्तरमन्यत्र दृष्टमिह प्रतिषिध्यते तद्वक्तव्यमिति।
द्वयोर्महतोराश्रितस्य ग्रहणाद्नाण्वाश्रय इति ॥
जातिविशेषस्य प्रत्ययानुवृत्तिलिङ्गस्याप्रत्याख्यानम्. प्रत्याख्याने वा प्रत्ययव्यवस्थानुपपत्तिः।
व्यधिकरणस्यानभिव्यक्तेरधिकरणवचनम् । २४ ।
अणुसमवस्थानं विषय इतिचेत्? प्राप्ताप्राप्तसामर्थ्यवचनम् । २५ ।
किमप्राप्ते अणुसमवस्थाने तदाश्रयो जातिविशेषो गृह्यते ? अथ प्राप्ते ? इति।
अप्राप्ते ग्रहणमितिचेत्? व्यवहितस्याणुसमवस्थानस्याप्युपलब्धिप्रसङ्गःुव्यवहितेऽणुसमवस्थाने तदाश्रयो जातिविशेषो गृह्येत।
प्राप्ते ग्रहणमितिचेत्? मध्यपरभागयोरप्राप्तौ अनभिव्यक्तिः।
यावत्प्राप्तं भवति तावत्यभिव्यक्तिरितिचेत्? तावतोऽधिकरणत्वमणुसमवस्थानस्यौयावति प्राप्ते जातिविशेषो गृह्यते तावदस्याधिकरणमिति प्राप्तं भवति तत्र एकसमुदाये प्रतीयमानेऽर्थभेदे । २६ ।
एवं च सति योऽणुसमुदायो वृक्ष इति प्रतीयते तत्र वृक्षबहुत्वं प्रतीयेतौयत्र यत्र ह्यणुसमुदायस्य भागे वृक्षत्वं गृह्यते स स वृक्ष इति, तस्मात्समुदिताणुसमवस्थानस्यार्थान्तरस्य जातिविशेषाभिव्यक्तिविषयत्वादवयव्यर्थान्तरभूत इति ॥ ३६ ॥

न्यायसूत्र २,१.३७
परीक्षितं प्रत्यक्षम् ॥ अनुमानमिदानीं परीक्षते

न्यायसूत्र २,१.३७ रोधोपघातसादृश्येभ्यो व्यभिचारादनुमानमप्रमाणम् ॥

अप्रमाणमिति ।
एकदाप्यर्थस्य न प्रतिपादकमिति।
रोधादपि नदी पूर्णा गृह्यते तदा चऽउपरिष्ठाद्वृष्टो देवःऽ इति मिथ्यानुमानम्. नीडोपघातादपि पिपीलिकाण्डसंचारो भवति तदा चऽभविष्यति वृष्टिःऽ इति मिथ्यानुमानमिति, पुरुषोपि मयूरवाशितमनुकरोति तदापि शब्दसादृश्याद्मिथ्यानुमानं भवति ॥ ३७ ॥
न्यायसूत्र २,१.३८

न्यायसूत्र २,१.३८ नैकदेशत्राससादृश्येभ्योऽर्थान्तरभावात् ॥

नायमनुमानव्यभिचारः अननुमाने तु खल्वयमनुमानाभिमानः।
कथम् ?. नाविशिष्टो लिङ्गं भवितुमर्हति, पूर्वोदकविशिष्टं खलु वर्षोदकं शीघ्रतरत्वं स्रोतसो बहुतरफेनफलपर्णकाष्ठादिवहनं चोपलभमानः पूर्णत्वेन नद्याःऽउपरि वृष्टो देवःऽ इत्यनुमिनोति नोदकवृद्धिमात्रेण।
पिपीलिकाप्रायस्याण्डसंचारेऽभविष्यति वृष्टिःऽ इत्यनुमीयते न कासां चिदिति।
ऽनेदं मयूरवाशितं तत्सदृशोयं शब्दःऽ इतिविशेषापरिज्ञानाद्मिथ्यानुमानमिति, यस्तु विशिष्टाच्छब्दाद्विशिष्टमयूरवाशितं गृह्णति तस्य विशिष्टोऽर्थो गृह्यमाणो लिङ्गं यथा सर्पादीनामिति।
सोयमनुमातुरपराधो नानुमानस्य योऽर्थविशेषेणानुमेयमर्थमविशिष्टार्थदर्शनेन बुभुत्सते इति ॥ ३८ ॥
न्यायसूत्र २,१.३९

त्रिकालविषयमनुमानं त्रैकाल्यग्रहणादित्युक्तमत्रच

न्यायसूत्र २,१.३९ वर्तमानाभावः पततः पतितपतितव्यकालोपपत्तेः ॥

वृन्तात्प्रच्युतस्य फलस्य भूमौ प्रत्यासीदतो यदूर्ध्वं स पतितोऽध्वा तत्संयुक्तः पतितकालः, योऽधस्यात्स पतितव्योऽध्वा तत्संयुक्तः कालः पतितव्यकालः, नेदानीं तृतीयोऽध्वा विद्यते यत्र पततीति वर्तमानः कालो गृह्येत. तस्माद्वर्तमानः कालो न विद्यते इति ॥ ३९ ॥
न्यायसूत्र २,१.४०

न्यायसूत्र २,१.४० तयोरप्यभावो वर्तमानाभावे तदपेक्षत्वात् ॥

नाध्वव्यङ्ग्यः कालः, किं तर्हि ?, क्रियाव्यङ्ग्यः ।
पततीति यदा पतनक्रिया व्युपरता भवति स कालः पतितकालः, यदोत्पत्स्यते स पतितव्यकालः, यदा द्रव्ये वर्तमाना क्रिया गृह्यते स वर्तमानः कालः, यदि चायं द्रव्ये वर्तमानं पतनं न गृह्णाति कस्य उपरममुत्पत्स्यमानतां वा प्रतिवद्यते ?।
पतितः काल इति भूता क्रिया, पतितव्यः काल इति चोत्पत्स्यमाना क्रिया, उभयोः कालयोः क्रियाहीनं द्रव्यम्, अधः प्रततीति क्रियासंबद्धम्, सोयं क्रियाद्रव्ययोः संबन्धं गृह्णाति वर्तमानः कालः तदाश्रयौ चेतरौ कालौ तदभावे न स्यातामिति ॥ ४० ॥
न्यायसूत्र २,१.४१

न्यायसूत्र २,१.४१ नातीतानागतयोरितरेतरापेक्षा सिद्धिः ॥

यद्यतीतानागतौ इतरेतरापेक्षौ सिध्येताम् ? प्रतिपद्येमहि वर्तमानविलोपम्. नातीतापेक्षानागतसिद्धिः नाप्यनागतापेक्षातीतसिद्धिः।
कया युक्त्या ।
केन कल्पेन अतीतः. कथमतीतापेक्षानागतसिद्धिः ? केन च कल्पेनानागतः ? इति. नैतच्छक्यं निर्वक्तुम् ।
अव्याकरणीयमेतद्वर्तमानलोपे इति।
यच्च मन्येत ह्रस्वदीर्घयोः स्थलनिम्नयोः छायातपयोश्च यथेतरेतरापेक्षया सिद्धिरेवमतीतानागतयोरिति, तन्नोपपद्यते विशेषहेत्वभावात्. दृष्टान्तवत्प्रतिदृष्टान्तोपि प्रसज्यते यथा रूपस्पर्शौं गन्धरसौ नेतरेतरापेक्षौ सिध्यतः एवमतीतानागताविति नेतरेतरापेक्षा कस्य चित्सिद्धिरिति।
यस्मादेकाभावेऽन्यतराभावादुभयाभावः२७।
यद्येकस्यान्यतरापेक्षा सिद्धिः ? अन्यतरस्येदानीं किमपेक्षा ?. यद्यन्यतरस्यैकापेक्षा सिद्धिः ? एकस्येदानीं किमपेक्षा ?, एवमेकस्याभावे अन्यतरन्न सिध्यतीति उभयाभावः प्रसज्यते।
अर्थसद्भावव्यङ्ग्यश्चायं वर्तमानः कालःऽविद्यते द्रव्यम्ऽऽविद्यते गुणःऽऽविद्यते कर्मऽ इति ॥ ४१ ॥
न्यायसूत्र २,१.४२

यस्नय चायं नास्ति तस्य

न्यायसूत्र २,१.४२ वर्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः ॥

प्रत्यक्षमिन्द्रियार्थसंनिकर्षजं. न चाविद्यमानम् ।
असदिन्द्रियेण संनिकृष्यते, न चायं विद्यमानम् ।
सत्किञ्चिदनुजानातीति प्रत्यक्षनिमित्तं प्रत्यक्षविषयः प्रत्यक्षज्ञानं सर्वं नोपपद्यते, प्रत्यक्षानुपपत्तौ तत्पूर्वकत्वादनुमानागमयोरनुपपत्तिः सर्वप्रमाणविलोपे सर्वग्रहणं न भवतीति।
उभयथा च वर्तमानः कालो गृह्यते क्वचिदर्थसद्भावव्यङ्ग्यो यथाऽअस्ति द्रव्यम्ऽ इति. क्वचित्क्रियासंतानव्यङ्ग्यो यथाऽपचति छिनत्तीति. नानाविधा चैकार्था क्रिया क्रियासंतानः क्रियाभ्यासश्च, नानाविधा चैकार्था क्रियाऽपचतीति ।
स्थाल्यधिश्रयणमुदकासेचनं तण्डुलावपनमेधोपसर्पणमग्न्यभिज्वालनं दर्वीघट्टनं मण्डस्रावणमधोवतारणमिति. छिनत्तीति क्रियाभ्यासः उद्यभ्योद्यम्य परशुं दारुणि निपातयन् छिनत्तीत्युच्यते ॥ ४२ ॥
न्यायसूत्र २,१.४३

यच्चेदं पच्यमानं छिद्यमानं च तत्क्रियमाणं तस्मिन् क्रियमाणे

न्यायसूत्र २,१.४३ कृतताकर्तव्यतोपपत्तेस्तूभयथा ग्रहणम् ॥

क्रियासंतानोऽनारब्धश्चिकीर्पितोऽनागतः कालःऽपक्ष्यतीति. प्रयोजनावसानः क्रियासंतानोपरमोऽतीतः कालःऽअपाक्षीत्ऽ इति. आरब्धक्रियासंतानो वर्तमानः कालःऽपचतीति, तत्र या उपरता सा कृतता या चिकीर्षिता सा कर्तव्यता या विद्यमाना सा क्रियमाणता. तदेवं क्रियासंतानस्थः त्रैकाल्यसमाहारःऽपचति पच्यतेऽ इति वर्तमानग्रहणेन गृह्यते क्रियासंतानस्य ह्यत्राविच्छेदो विधीयते नारम्भो नोपरमिति।
सोयमुभयथा वर्तमानां गृह्यते अपवृक्तो व्यपवृक्तश्च अतीतानागताभ्याम्. स्थितिव्यङ्ग्यःऽविद्यते द्रव्यम्ऽ इति. क्रियासंतानाविच्छेदाभिधायी च त्रैकाल्यान्वितःऽपचति छिनत्तीति।
अन्यश्च प्रत्यासत्तिप्रभृतेर्रथस्य विवक्षायां तदभिधायी बहुप्रकारो लोकेषूत्प्रेक्षितव्यः, तस्मादस्ति वर्तमानः काल इति ॥ ४३ ॥
न्यायसूत्र २,१.४४

(अथोपमानपरीक्षा)

न्यायसूत्र २,१.४४ अत्यन्तप्रायैकदेशसाधर्म्यादुपमानपासिद्धिः ॥

अत्यन्तसाधर्म्यादुपामनं न सिध्यति न चैवं भवतिऽयथा गौरेवं गौःऽ इति, प्रायःसाधर्म्यादुपमानं न सिध्यति न हि भवतिऽयथानड्वानेवं महिषःऽ इति, एकदेशसाधर्म्यादुपमानं न सिध्यति न हि सर्वेण सर्वमुपमीयते इति ॥ ४४ ॥
न्यायसूत्र २,१.४५

न्यायसूत्र २,१.४५ प्रसिद्धसाधर्म्यादुपमानसिद्धेर्यथोक्तदोषानुपपत्तिः ॥

न साधर्म्यस्य कृत्स्नप्रायाल्पभावमाश्रित्योपमानं प्रवर्तते, किं तर्हि ?. प्रसिद्धसाधर्म्यात्साध्यसाधनभावमाश्रित्य प्रवर्तते. यत्र चैतदस्ति न तत्रोपमानं प्रतिषेद्धुं शक्यं तस्माद्यथोक्तदोषो नोपपद्यते इति॥ ४५ ॥

न्यायसूत्र २,१.४६

अस्तु तर्ह्युपमानमनुमानम्

न्यायसूत्र २,१.४६ प्रत्यक्षेणाप्रत्यक्षसिद्धेः ॥

यथा धूमेन प्रत्यक्षेणाप्रत्यक्षस्य वह्नेर्ग्रहणमनुमानमेवं गवा प्रत्यक्षेणाप्रत्यक्ष
Red

%d bloggers like this: