Sarvarthapedia of Hindu Scriptures and Interpretation
Encyclopedia of Panini’s Ashtadhyayi
Kautsavya’s Vedic Nighantu
Kautsavya’s Vedic Nighantu Concordence (2nd Part)
Atharva Veda Samhita
वैदिक निघण्टु
परिशिष्ट_४८. कौत्सव्यनिरुक्तनिघण्टुः
ओमथर्वणे नमः ॥ (४८,१)
Introduction
The structure of Kautsavya’s Vedic Nirukta and Nighantu more closely resembles a semantic concordance: a single conceptual field is represented through a constellation of Sanskrit lexical forms.
take this example:
(48,100) सस्निः । सस्निः । अलातृणः । क्वणन् कुणारुः । दानवः । उदधिः । सिरिः । वृत्रः । पर्वतः । चमसः । अहिः । अभ्रम् । बलाहकः । दृतिः । ओदनः । वृषन्धिः । वृत्रः । कोशः । असुरः । — मेघस्य ॥
The conventional modern dictionary instinct would be:
मेघ = cloud
But that misses the architecture of the Nighantu. What we actually have is:
मेघस्य → {सस्निः, अलातृणः, कुणारुः, दानवः, उदधिः, सिरिः, वृत्रः, पर्वतः, चमसः, अहिः, अभ्रम्, बलाहकः, दृतिः, ओदनः, वृषन्धिः, कोशः, असुरः …}
That is not simply a list of synonyms in the narrow modern sense. It records a network of lexical associations around a Vedic object or phenomenon.
The word मेघ therefore acts almost like a semantic node, while the preceding terms constitute its lexical/cognitive neighbourhood.
The scientific character
The extraordinary feature is that the Nighantu can be read as a system of classification by conceptual association rather than alphabetical definition.
For example, मेघ may be approached through several dimensions:
- अभ्रम् — cloud/atmospheric mass
- बलाहकः — cloud
- उदधिः — ocean/water reservoir
- पर्वतः — mountain
- वृत्रः — enclosing/obstructing power
- अहिः — serpent, especially the enclosing cosmic serpent image
- कोशः — container/storehouse
- असुरः — powerful being
- दानवः — Dānava
- ओदनः — cooked grain/food, suggesting another semantic or ritual association
- वृषन्धिः — a further technical designation
- सिरिः — another lexical designation
So the ancient compiler is not merely asking:
“What does this word translate as?”
He is asking something closer to:
“Through which words, images, functions, forms, and conceptual relationships is this Vedic entity apprehended?”
That is a much more interesting intellectual structure with the same DNA
“Same DNA” is a useful modern analogy
Sarvarthapedia’s expression that these words have the same “DNA” is useful if carefully qualified.
They do not necessarily have identical dictionary meanings. Rather, they may share a semantic, functional, symbolic, morphological, ritual, natural, or cosmological relationship within the Vedic lexical system.
Thus:
मेघ ≠ every individual word in the list
but:
मेघ ↔ the entire lexical field represented by the list
This distinction is essential.
A modern thesaurus generally gives:
cloud → rain cloud, storm cloud, vapor, etc.
The Vedic Nighantu can instead preserve a much wider knowledge graph:
मेघ → water → ocean → enclosure → mountain → serpent → Vṛtra → atmospheric phenomenon → rain → fertility → ritual → cosmic order
That is why calling it merely an Ancient Vedic Dictionary understates what the work is doing.
It is closer to a Vedic Concordance
Sarvarthapedia would therefore describe कौत्सव्यनिरुक्तनिघण्टुः not simply as a dictionary, but as an:
Ancient Vedic Semantic Concordance
or more precisely:
Vedic Lexical and Semantic Concordance
The difference is important.
A dictionary normally proceeds:
Word → Definition
whereas this Nighantu frequently operates as:
Concept → Associated lexical forms
and sometimes:
Lexical form → conceptual field
That makes the structure potentially representable as a many-to-one / one-to-many semantic network.
(48,100) सस्निः । सस्निः । अलातृणः । क्वणन् कुणारुः । दानवः । उदधिः । सिरिः । वृत्रः । पर्वतः । चमसः । अहिः । अभ्रम् । बलाहकः । दृतिः । ओदनः । वृषन्धिः । वृत्रः । कोशः । असुरः । — मेघस्य ॥
The chain itself is the data. The final मेघस्य identifies the conceptual destination of that chain.
That is indeed a remarkable ancient method of organizing knowledge—and it deserves to be studied as a Vedic semantic system, not merely as an old synonym dictionary.
कौत्सव्य निरुक्त निघण्टुः
Appendix 48. Kautsavya’s Nirukta Nighantu
(48,1) Om Atharvaṇe Namaḥ ॥
(48,2) पचति । पचते । अशनशि । सिस्रते । गमेः । वायि । चायि ॥ 1
व्यापि । चक्रि । देवा चष्टे । अव चाकशत् । व्यानशे । त्रिषि निषामयत्योः । योष्टिः सप्ते च ॥ 2
रिञ्जति ।
(48,3) वश्मि । वश्मि । उश्मसि । अव वेति । वाञ्छति । वेष्टि । वनोति । जुषते । हर्यति । आचके । उशिक् । मन्यते । अछान्त्सुः ॥ 3
छन्त्सत् । चाकनत् । चकमानः । कनति । कानिषत् । कामे ॥
(48,4) मिमेति ॥ 4
नर्दति । ध्वनति ॥
(48,5) ध्वंसते । [कृणति । किंशक्ते ॥]
(48,6) वनति । भनति । [स्तर्षति ।] स्फूर्जति ॥
(48,7) ह्लादते । [निरृते ।] ह्लादयति ॥
(48,8) शब्दयति ॥
(48,9) अर्चति । अर्चति । रेभति । गायति । जल्पति । स्तोभति । स्तौति । यौति । रौति । नौति । गदति । नदति । भनति । भनते । [तत्रते ।] पणते । पणस्यति । पणायते । भन्दते । [यत्रस्यते । कृकृम्धम्पात्] कृपण्यति । धमति । सपति । पपृक्षाः । गूर्धयति । वेदयति । वादयति ॥ 5
वल्गूयति । महयति । मन्त्रयते । सेवते । पृच्छति ॥ 6
छन्दति । शशमानः । जरते । [छरति ।] वेनति । वन्दते ॥
(48,10) इरजति । इरज्यति ॥ 7
विधेम । दुवस्यति । नमस्यति । विवासति । ऋध्नोति । ऋणद्धि । ऋच्छति ॥
(48,11) परि स्रव । परिस्रव ॥ 8
पवस्व । अभ्यर्ष । आशिषः ॥
(48,12) ईमहे । ईमहे । यामि । मन्महे । दद्धि । पूर्धि । शग्धि । मिमीहि । रिरीहि । रिरिढ्ढि । मिमिढ्ढि । पीपरत् । यन्तारः । इषुध्यति । वनेमहि । मनामहे । याचते ॥
(48,13) [दासति । दासति ॥] 9
दाशति । शिक्षति । महते । पृणाति । राति । रासति । प्राति । तुञ्जति । [मत्स्यति ।] ददाति ॥
(48,14) य्र्य्ष्यति । उरुष्यति ॥ 10
पिपर्ति । पारयति । पाति । पासति । प्राति । तुञ्जति । पृणाति । रक्षे ॥
(48,15) [आ वयति । आ वयति ।] भर्वति । बभस्ति । वेनति । वेति । वेवेष्टि । अविष्यन् । [प्रग] प्साति । बप्सति । भसथः । बब्धाम् ।
(48,16) [वदति । आदेति । तिरति । त्विष्यति । हिनोति । वृद्धेः ॥]
(48,17) [उत्पपीति । उत्पपीति ॥] 11
तपति । पिप्पहु । सहोति । युग्भिदी भेदयोजनयोश्च ॥
(48,18) हेडते । हेडते ॥ 12
भामते । हृणीयते । भ्रीणाति । भ्रेषते । दोधति । हेडः । हरः । हृणिः । त्यजः । भामः । मन्युः । — क्रोधे नामानि च क्रोधस्य ॥
(48,19) श्नथति । श्नथति ॥ 13
दोवति । कुर्वति । तूर्वति । शृणाति । मृणाति । भृज्जति । अमति । तृणेढि । दभ्नोति । शूषति । ध्वरति । धूर्वति । कृन्तति । श्वसति । स्नेहयति । मृद्नाति । स्रध्नाति । दासति । स्तृणुते । स्तरते । कृणाति । नि तोजति । नि वपति । अमति । रिति । यातयते । आखण्डल । तडित् । — हिंसायाम् ॥
(48,20) इनद्धि । इनद्धि ॥ 14
स्वरति । हृष्यति । पथति । सृजति । ज्योतते । द्योतते । भ्राजते । भ्राशते । दीदयति । साधते । द्युमत् । जमत् । कल्मलीकिनम् । मल्मलाभवन् । जञ्जणाभवन् । अर्चिः । शोचिः । तपः । तेजः । हरः । सृङ्गाणि । ज्वलेज्वलतश्च नामानि ॥
(48,21) [इरज्यति । इरज्यति ॥] 15
पत्यते । क्षय्ति । राजति । — ईश्वरे ॥
(48,22) [स्वस्त्ययलेपी । स्वपे ॥]
(48,23) सिषक्ति । सेचति । सेचते ॥
(48,24) [अबिभस्ते ।] अभि दासते । अभि मन्यते ॥
(48,25) बिभर्ति । दधति । धारयते ॥
(48,26) हृणीयते । भृणीयते ॥
(48,27) वादयते । पुनाति । पणायति । पूजयति । वदति । [कुसी । हूर्छि । सासुद्यति ।] — श्लाघायाम् ॥
(48,28) सूर्क्षति । [रादले । च्व्युच्छति । र प्रसादे । शरुलिप्सायाम् । मुक्षति ।] — सादरे । [व्युच्छति । अप्रमादे । शरुलिप्सायाम् । व्याखदि । पृथग्भावे ओषधिकिच्छ्रजीवने । दशस्यति । द्रोहे । पीयति । स्पर्धायाम् । वक्षति । निवासे । इष्टाति । स्वादने ॥]
(48,29) पिबति । — पाने ॥
(48,30) धिनोति । — प्रीतौ ॥
(48,31) जिन्वति । — उभयत्र ॥
(48,32) जिघर्ति । — सेचने ॥
(48,33) [विस्वति ।] — विस्याप्ये ॥
(48,34) गोपयति । — गोपने ॥
(48,35) शुम्भति । — शोभने ॥
(48,36) मुञ्चति । — शुद्धौ च ॥
(48,37) शर्धति । — ध्वंसने ॥
(48,38) मृदति । — सुखने ॥
(48,39) चक्षुर्भिर्माहते । — दृशिहाने ॥
(48,40) विन्दति । — लाभे ॥
(48,41) पुष्यति । — वृद्धौ ॥
(48,42) [कोभति] — क्षये । दस्यति च ॥
(48,43) [स्रोशित च ।] — लितगुतौ ॥
(48,44) ऋञ्जति । [पार्जन्यः ।] — ऋजुगमने ॥
(48,45) [वाचौष्टयति ।] — विलासे ॥
(48,46) रदति । — खनने ॥
(48,47) [सेवति । आ क्रोशति ।] — स्पर्शे ॥
(48,48) नसति । र्नचते ॥
(48,49) जिघर्ति । — ग्रहणे । गिरणे च ॥
(48,50) मन्दति । — तृप्तौ ॥
(48,51) [अमनि ।] — भावने ॥
(48,52) चक्रति । — प्रतिवेदने ॥
(48,53) जक्षति । — क्षुत्सहने ॥
(48,54) श्लिष्यति । — आश्लेषे ॥
(48,55) भजति । — प्रेप्सायाम् ॥
(48,56) सेवति । — सेवायाम् ॥
(48,57) ह्लादयति । — शीतीभावने ॥
(48,58) काशति । — प्रकाशने ॥
(48,59) [दानपनुपरिवस्यते ॥]
(48,60) रोदसी ॥ 16
रोदसी । रोधसी । क्षोणी । स्वधे । पुरंधी । ऋतावृतौ । प्रपित्वे । प्रतिष्ठे । प्रशस्ये । उरूची । [सान्तापे] रजसी । विषाणे । धिष्ण्ये । गभीरे । गम्भीरे ॥ 17
ओण्यौ । चंवौ । नप्त्यौ । नप्त्यौ ॥ 18
पार्श्वौ । दूरे अन्ते । अनन्ते । द्यावापृथिव्योः ॥
(48,61) अपः । अपः ॥ 19
अप्नः । दंसः । वेपः । वेदः । वेषः । विष्ट्वी । व्रतम् । कर्वरम् । शक्म । क्रतुः । करणानि । करांसि । करिक्रत् । करन्ती । चक्रत् । कर्तुम् । कर्ता । कर्तवे । [थलित । हिंसायाम् । इनद्धि ।] धीः । सवः । शमी । शक्तिः । शिल्पम् । — कर्मणः ॥
(48,62) अस्रेमा । अस्रेमा ॥ 20
अनेद्यः । अनिन्द्यः । अबभिशस्तिः । अनवद्यः । उक्थ्यः । सुनीथः । पाकः । — प्रशस्यस्य ॥
(48,63) आगः । आगः । एनः । अंहः । रिपुः । दुरितम् । अशस्तिः । शमलम् । वृजिनम् । — अघस्य ॥
(48,64) शिम्बाता । शिम्बाता ॥ 21
शतरा । शातवन्ता । शिल्पम् । शेवृधम् । स्यूमकम् । मयः । द्योतनम् । सुदिनम् । शूषम् । द्युम्नम् । इन्द्रियम् । शेवम् । शिवम् । शुनम् । शम् । भेषजम् । जलाषम् । — सुखस्य ॥
(48,65) निरृतिः । निरृतिः ॥ 22
कृच्छ्रम् । तृप्रम् । — दुःखस्य ॥
(48,66) तुवि तुवि । पुरु । भूरि । शश्वत् । विश्वम् । व्यानशिः । व्योमनी । शतम् । सहस्रम् । अयुतम् । नियुतम् । प्रयुतम् । अर्बुदम् । अत्यर्बुदम् । असंख्येयम् । सरिरम् । — बहोः ॥
(48,67) ऋहन् । ऋहन् । निघृष्वः । कृशमः । मायुकः । प्रतिष्ठा । कृधुकः । दहरकः । वम्रकः । अर्भकः । [अथुराणः] — ह्रस्वस्य ॥
(48,68) महः । महः । ब्रध्नः । ऋष्वः । उक्षः । गभीरः । अभ्वः । तवसः । ऋभुक्षा । उक्षा । [उक्षिता ।] विहायाः । यह्वः । उरु । बृहत् । अम्भृणः । विरप्शी । अद्भुतः । वविषिपुः । वरिषीः । — महतः ॥
(48,69) नवम् । नवम् ॥ 23
नूतनम् । नूतनम् । नव्यम् । अधुना । इदानीम् । — नवस्य ॥
(48,70) प्रत्नम् ॥ 24
प्रत्नम् । प्रदिवः । प्रवयाः । सनेमि । [मोक्तः । माहुः । यतः ।] — पुराणस्य ॥
(48,71) [अधाह्यः] 25
सत्रा । बट् । ऋतम् । अद्धा । — सत्यस्य ॥
(48,72) गौः । गौः ॥ 26
ग्मा । ज्मा । क्ष्मा । क्षा । क्षमा । क्षोणी । क्षितिः । अवनिः । उर्वी । मही । रिपः । अदितिः । इडा । निरृतिः । गातुः । भूः । भूमिः । पूषा । गोत्रा । — पृथिव्याः । पराणि तदायतनानाम् ॥
(48,73) [तडित् । तडित् ।] आसात् । अम्बरम् । तुर्वशे । अस्तमीले । उपाके । अर्वाके । अन्तमानाम् । अवमे । उपमे । अन्तिकस्य ॥
(48,74) [श्यावी । श्यावी ।] क्षपा । शर्वरी । अक्तुः । उर्वी । ऊर्म्या । रम्या । नम्या । दोषा । नक्ता । तमः । रजः । असिक्नी । तमस्वती । दमस्वती । महस्वती । यशस्वती । घृताची । शिरिणा । मोकी । शोकी । ऊधः । पयः । हिमा । वस्वी । — रात्रेः ॥
(48,75) अरणः । अरणः ॥ 27
गरः । क्षोदः । क्षद्म । नभः । अम्भः । कबन्धम् । सलिलम् । वाः । वनम् । घृतम् । मधु । पुरीषम् । पिप्पलम् । क्षीरम् । विषम् । रेतः । शकम् । जह्म । बृबूकम् । बुसम् । तुग्र्याः । सुक्षेमम् । वरुणः । सुरा । अररिन्द्रानि । ध्वस्मन्वत् । जामि । आयुधानि । क्षपः । अहिः । अक्षराः । तृप्तिः । रसः । सरः । पयः । भेषजम् । स्रवः । शवः । सहः । ओजः । सुखम् । क्षत्रम् । आवयाः । शुभम् । यादः । भूतम् । भुवनम् । भविष्यत् । आपः । महत् । व्योम । यशः । सर्णीकम् । स्वर्णीकरम् । गहनम् । गभीरम् । गम्भीरम् । गह्वरम् । कम् । अन्नम् । सु हविः । सद्म । सदनम् । ऋतम् । ऋत । योनिः । ऋतस्य योनिः । सत्यम् । नीरम् । रयिः । सत् । पूर्णम् । सर्वम् । अक्षितम् । सर्पिः । अपः । पवित्रम् । अमृतम् । इन्दुः । हेम । सर्गाः । शम्बरम् । अभ्वम् । वपुः । अम्बु । तोयम् । तूयम् । कृपीटम् । अक्षरम् । क्षराः । वारि । जलम् । चूर्णाः । संस्त्यानाः । धानाप्यम् । विस्रुतम् । जलाषम् ॥ 28
कर्बुरम् । काष्ठाः । इदम् । शुक्रम् । मेध्यम् । पावकम् । पावनम् । ह्रादनम् । ह्लादनम् । पार्वम् । अम्भः । भूरी । — उदकस्य ॥
(48,76) अवनयः । अवनयः ॥ 29
यह्व्यः । खाः । सीराः । स्रोत्याः । एन्यः । धुनयः । रुजानाः । वक्षणाः । खादो अर्णाः । रोधचक्राः । हरितः । योषितः । स्वसृतः । अर्णवाः । सिन्धवः । कुल्याः । वहाः । उर्व्यः । इरावत्यः । पार्वत्यः । ओजस्वत्यः । सरस्वत्यः । हरस्वत्यः । अजिराः । मातरः । — नदीनाम् ॥ [मधुः । वथः]
(48,77) काटः । काटः । खातः । अवतः । अवटः । क्रिविः । सूदः । उत्सः । ऋश्यदः । कारोतरः । कुशयः । केवतः । [त्रपुः] — कूपस्य ॥
(48,78) नराः । नराः ॥ 30
जन्तवः । विशः । क्षितयः । कृष्टयः । चर्षणयः । नहुषः । अरयः । अर्याः । मर्याः । मर्ताः । व्राताः । पूर्वाः । तुर्वशाः । द्रुह्यवः । आयवः । यदवः । अनवः । पूरवः । जगतः । तस्थुषः । पञ्चजनाः । विवस्वन्तः । मानवः । — मनुष्याणाम् ॥
(48,79) निर्णिक् । निर्णिक् ॥ 31
वव्रिः । वर्पः । वपुः । अमतिः । अप्सः । रप्सु । पिष्टम् । शष्यम् । कृशनम् । पेशः । मरुत् । — रूपस्य ॥
(48,80) जठरम् ॥ 32
जठरम् । [परीसानम् । जगृतम् । गर्दनम् ।] कृदरम् । उदरम् । [दर्दुरम् ।] — उदरस्य ॥
(48,81) आयती । आयती । च्यवाना । अभीशू । अप्नवाना । विनङ्गृसौ । गभस्ती । बाहू । भुरिजौ । शक्वरी । भरित्रे । — बाह्वोः ॥
(48,82) [अग्रुवः । अग्रुवः ॥] 33
अण्व्यः । व्रिशः । शर्याः । रशनाः । धीतयः । अथर्यः । विपः । कक्ष्याः । हरितः । स्वसारः । जामयः । योक्त्राणि । योजनानि । धुरः । शाखाः । अभीशवः । दीधितयः । — अङ्गुलीनाम् ॥ 34
(48,83) [व्रजिः । धुनिः । तर्थाः ।] तक्वा । रिपुह् । रिभ्वा । रिक्वा । रिह्वा । तायुः । तस्करः । वनर्गुः । मलिम्लुचः । अघशंसः । वृकः । — स्तेनस्य ॥
(48,84) धीः । धीः । मेधा । केतुः । चेतः । चित्तम् । क्रतुः । असुः । शची । वयुनम् । माया । — बुद्धेः ॥ 35
(48,85) विप्रः । विप्रः । विग्रः । गृत्सः । धीरः । [रेनुः ।] वेनः । मेधाः । कण्वः । ऋभुः । नवेदाः । कविः । मनीषी । मन्धाता । मनश्चित् । आकेनिपासः । उशिजः । कीस्तासः । अद्धातयः । मतयः । मतुथाः । मेधाविनः ॥
(48,86) मेना । मेना । ग्ना । योषा । नना । अङ्गना । रतयः । — स्त्रीणाम् ॥ 36
(48,87) तुक् । तुक् । तोकम् । तनयम् । तक्म । शेषः । प्रजा । बीजम् । अप्नः । गयः । जाः । यहुः । सूनुः । नपात् । — अपत्यस्य ॥ 37
(48,88) [कङ्कम् ।] अन्धः । सिनम् । श्रवः । शवः । शाहः । वनः । अन्नम् । वाजः । पयः । पृक्षः । पितुः । सुतम् । क्षु । धासिः । इडा । इषम् । ऊर्जः । रसः । स्वधा । अर्कः । नेमः । ससम् । नमः । वयः । सूनृता । ब्रह्म । कीलालम् । — अन्नस्य ॥ 38
(48,89) गर्तः । हर्म्यम् । नीरम् । पस्त्यम् । दुरोणम् । दुर्याः । स्वसराणि । अमा । दमः । कृत्तिः । योनिः । वर्म । शर्म । शरणम् । वरूथम् । क्षया । छन्दः । छदिः । छर्दिः । छाया । वेश्म । अज्मः । कुलायम् । तुकः । — गृहस्य ॥ 39
(48,90) मघम् । मघम् । रेक्णः । रिक्थम् । वेदः । श्वात्रम् । रत्नम् । रयिः । क्षत्रम् । क्षेत्रम् । भगः । मीढम् । द्युम्नम् । इन्द्रियम् । वसु । रायः । राधः । दानः । वृत्रम् । दानम् । वृतम् । वामम् । — धनस्य ॥ 40
(48,91) हेम । हेम । चन्द्रम् । रुक्मम् । अरः । पेशः । कृशनम् । लोहम् । कनकम् । काञ्चनम् । हरितम् । भर्गः । अमृतम् । मरुत् । दत्रम् । जातरूपम् । हिरण्यम् । — सुवर्णस्य ॥ 41
(48,92) अघ्न्या । अघ्न्या । उस्रा । उस्रिया । स्त्री । मही । अदितिः । इडा । निरृतिः । — गोः ॥ 42
(48,93) अत्यः । अत्यः । हयः । अर्वा । वाजी । सप्तिः । वह्निः । दधिक्राः । दधिक्रावा । एतग्वः । एतशः । पैद्वः । दौर्गहः । उच्चैःश्रवसः । तार्क्ष्यः । आशुः । ब्रध्नः । अरुषः । मांश्चत्वः । अव्यथयः । श्येनासः । सुपर्णाः । नराः । वार्याणाम् । हंसासः । — अश्वानाम् ॥ 43
(48,94) रोहितः — अग्नेः । नियुतः — वायोः । हरी — इन्द्रस्य । विश्वरूपा — बृहस्पतेः । पृषत्यः — मरुताम् । रासभाः — अश्विनोः । अरुण्यः गावः — उषसाम् । हरयः — आदित्यस्य । हरितः — सूर्यस्य । श्यावाः — सवितुः । अजाः — पूष्णः ॥ 44
(48,95) अध्वरः । अध्वरः । वेषः । वेदः । विदथः । सवनम् । होत्रा । इष्टिः । देवताता । मखः । विष्णुः । इन्दुः । प्रजापतिः । घर्मः । क्रतुः । कर्म । — यज्ञस्य ॥
(48,96) भरताः । भरताः ॥ 45
कुरवः । वाघतः । वृक्तवर्हिषः । सबाधः । यतस्रुचः । वृकः । मरुतः ॥ 46
देवयवः । ऋत्विजः ॥
(48,97) रेभः । रेभः । जरिता । कारुः । कीरिः । सूरिः । नदः । नादः । छन्दस्यः । [क्वोसनः ।] रुद्रः । कृपण्युः । स्तामुः । स्तोतुः ॥ 47
(48,98) अम्बरम् । अम्बरह्म् । वियत् । व्योम । बर्हिः । स्वः । आकाशम् । आपः । पृथिवी । भूः । स्वयंभूः । अध्वा । ब्रध्नः । [पीरिठम् । पीठम् ।] सगरः । सलिलम् । समुद्रः । — अन्तरिक्षस्य । पराणि तदायतनानाम् ॥ 48
(48,99) आताः । आताः । आशाः । आष्ठाः । उपराः । काष्ठाः । व्योम । ककुभः । — दिशाम् ॥ 49
(48,100) सस्निः । सस्निः । अलातृणः । क्वणन् कुणारुः । दानवः । उदधिः । सिरिः । वृत्रः । पर्वतः । चमसः । अहिः । अभ्रम् । बलाहकः । दृतिः । ओदनः । वृषन्धिः । वृत्रः । कोशः । असुरः । — मेघस्य ॥ 50
(48,101) अद्रिः । अद्रिः । ग्रावा । गोत्रः । वलः । अश्नः । पुरुभोजाः । वलिशानः । अश्मा । गिरिः । व्रजः । चरुः । वराहः । शम्बरः । रौहिणः । रैवतः । परिघः । उपरः । उपलः । सानौ । रुद्रः । — पर्वतस्य ॥ 51
(48,102) गौः । गौः । गौरी । गान्धर्वी । गभीरा । गम्भीरा । मन्द्रा । मन्द्राजनी । वाशी । वाणी । वाणीची । वाणः । पविः । भारती । धमनिः । मेडिः । सूर्या । सरस्वती । निवित् । स्वाहा । वग्नुः । उपब्दिः । काकुः । मायुः । जिह्वा । घोषः । श्लोकः । शब्दः । स्वरः । स्वनः । ऋक् । होत्रा । गीः । गाथा । गणः । धेना । ग्नाः । विपा । नना । कशा । धिषणा । नौः । अक्षरम् । मही । अदितिः । शची । अनुष्टुप् । रसः । विराट् । — वाचः ॥ 52
(48,103) ओजः । ओजः । पाजः । शवः । शर्धः । त्वक्षः । बाधः । नृम्णम् । तरः । तविषी । शुष्मम् । शुष्णम् । दक्षः । वीडु । च्यौत्नम् । द्युम्नम् । इन्द्रियम् । सहः । वयः । वधः । वर्गः । मज्मना । पौंस्यानि । धर्णसि । स्यन्द्रासः । द्रविणम् । — बलस्य ॥ 53
(48,104) विद्युत् । विद्युत् । नेमिः । पविः । वज्रः । सृकः । वधः । अर्कः । शम्बः । कुलिशः । कुत्सः । सायकः । त्रपुषी । — वज्रस्य ॥ 54
(48,105) रणः । रणः । विवाक् । वदनुः । विखादः । भरे । क्रन्दः । आहावः । समईके । ममसत्यम् । नेमधितिः । सङ्का । समनम् । स्पृधः । पृत्सु । समत्सु । समरणे । समोहे । संख्ये । वृत्रतूर्ये । समर्ये । आणौ । प्रतरणे । मंतसा । समनीके । खाय । सेने । खले । खजे । पौंस्ये । महाधने । पृतना । ज्येष्ठः । — संग्रामस्य ॥ 55
(48,106) नु । नु । मक्षु । द्रवत् । ओषम् । जीराः । जूर्णिः । शूर्ताः । शूघनाः । शीभम् । तृषु । तूयम् । तूर्णिः । अजिरम् । भुरण्युः । आशु । प्राशु । तूतुजानः । तूतुजिः । तुज्यमानासः । अज्राः । साचीवित् । द्युगत् । ताजत् । तरणिः । वातरंहा । — क्षिप्रस्य ॥ 56
(48,107) निण्यम् । निण्यम् । अपीच्यम् । सस्वः । हिरुक् । [तत्र । तत्तन्त । तायतम् ।] — अन्तर्हितस्य ॥
(48,108) स्वः । स्वः । पृश्निः । नाकः । गौः । विष्टप् । इष्टम् । नभः । — दिवः । अन्तरिक्षस्य च । पराणि तदायतनानाम् ॥ 57
(48,109) [हिरुक् । हिरुक् ।] आके । पराचैः । आरे । परावते । — दूरस्य ॥ 58
(48,110) विभावरी । विभावरि । सूनरी । भावती । सुनरी । भास्वरी । अहना । द्योतना । श्वेत्या । अरुषी । सूनृतावरी । — उषसः ॥ 59
(48,111) वस्तोः । वस्तोः । भानुः । वासरम् । स्वसराणि । घ्रंसः । घर्मः । घृणिः । दिवा । दिनम् । दिवेदिवे । द्यविद्यवि । — अह्नः ॥ 60
(48,112) दीधितयः । गभस्तयः । वनम् । उस्राः । वसवः । मरीचयः । सप्त ऋषयः । साध्यासः । सुपर्णासः । मयूखाः । — रश्मीनाम् ॥ 61
(48,113) खेदयः । खेदयः । किरणाः । गावः । अभीशवः । [रश्मीन् ।] — रश्मीनां च ॥ 62
(48,114) आर्यः । आर्यः । राष्ट्री । नियुत्वान् । इनः । — ईश्वरस्य ॥ 63
(48,115) संयोगः । संयोगः । आशुशुक्षणिः । जहा । शिताम । मेहना । मूषः । मन्दू । ईर्मान्तासः । कायमानः । विद्रधे । तुग्वनि । च्यवनः । कश्यपः । नू चित् । अकूपारस्य । अप्रायुवः । रजः । जुहुरे । क्राणा । विषुणः । जामिः । जसुरिः । चयसे । अन्धः । दुग्धम् । आहनः । नदः । अर्कः । सचा । चित् । पवित्रम् । पृथुज्रयाः । काणुका । अध्रिगुः । आङ्गूषः । आपान्तमन्युः । श्मशा । वाजगन्ध्यम् । पाकस्थामा कौरयाणः । व्रन्दी । निष्षपी । क्षुम्पम् । निचुम्पुणः । जोषवाकम् । कुटस्य । केपयः । सललूकम् । अस्कृधोयुः । निशृम्भाः । उपलप्रक्षिणी । उपसि । सवीमनि । विदथानि । श्रायन्त इव । अमूरः । विजामातुः । अमवान् । अमीवा । अमतिः । रिशादसः । आनुषक् । गिर्वणाः । अम्यक् । यादृश्मिन् । शुरुधः । अप्रतिष्कुतः । द्विबर्हाः । उराणः । जवारु । ततनुष्टिम् । इलीबिशः । कियेधाः । तुरीपम् । प्रतद्वसू । दिविष्टिषु । दूतः । ऋचीषमः । अनर्शरातिम् ॥ 64
अनर्वा । जढवः । बकुरः । बेकनाटान् । अभि धेतन । सदान्वे । पराशरः । करूडती । दनः ॥
(48,116) इक्षुणा । कीलालम् । विजाम्नि । दोषा । [अष्टमर्त्यः] 65
ज्येष्ठम् । विश्वाहा । विवसवान् । वाते । अन्धः । विपश्यन् । अया चिष्ठा । शमोप्यात् । गुल्फः । बिष्कले खर्गला । प्रतोदः । वेदः । पुच्छधौ । अपाष्ठः । मेदी । मर्यः । वालिनि । यातारम् । सगणाः । मल्वः । अम्नः । नीलागलसाला । ऐलबः । नीललोहितः । श्वापदः । कुनखी । कुरीरम् । तादुरि । दुरोणे । तितौ । किमीदी । वामस्य । एकचक्रम् । अमतिः । सुमतिः । [दयते । दयन्ति । व्रीहि । वृत्ते] 66
ईडे । ईडे । क्षयति । तपति । रजति । — अनेकार्थाः ॥
(48,117) प्रपित्वे । अभीके । — प्राप्तस्य ॥
(48,118) तिरः । सतः । — अप्राप्तस्य ॥
(48,119) त्वः । नेमः । — अर्धस्य ॥
(48,120) ऋक्षाः । स्तृभिः । — नक्षत्राणाम् ॥
(48,121) वम्रीभिः । उपजिह्विका । — सीमिकानाम् ॥
(48,122) रम्भः । पिनाकम् । — दण्डस्य ॥
(48,123) शेपः । वैतसः । — पुंस्प्रजननस्य ॥
(48,124) [परंगतिविलीके] — स्त्रीप्रजननस्य ॥
(48,125) अनेन । अनया । [पनस्य]
(48,126) मकि । ह्वकिर् । — प्रतिषेधस्य ॥
(48,127) वरूथम् । [असग्रम्] — चर्मणोऽरुत्साहस्य ॥
(48,128) पणिः — प्रकलविद्वणिजः ॥
(48,129) श्वघ्नी । — कितवस्य । अक्षधूर्तस्य ॥
(48,130) [मृण्यः] — सीमिकस्य ॥
(48,131) कुटस्य । कुलिशः ॥
(48,132) अग्निः । जातवेदाः । वैश्वानरः । द्रविणोदाः । वनस्पतिः — सूक्तभाञ्जि ॥
(48,133) इध्मः । तनूनपात् । नराशंसः । देवीर्द्वारः । उषासानक्ता । दैव्या होतारा । तिस्रो देवीः । त्वष्टा । वनस्पतिः । स्वाहाकृतयः — निपातभाञ्जि ॥
(48,134) इन्द्रः । विष्णुः । सोमः । पर्जन्यः । ऋतुः । अग्नायी । पृथिवी । इडा । भृगवः । अथर्वाणः — संस्तविकाः; तस्यैकवद्-बहुवत्-स्त्रीवत् च ॥
(48,135) वहनम् च हविषामावाहनम् च देवानाम्, यच्च दाएष्टिविषयिकं तत् — अस्य कर्म ॥
(48,136) अयं लोकः । वसन्तः । प्रातःसवनम् । गायत्री । त्रिवृत् । रथंतरम् — तद्भक्तीनि ॥ 67
(48,137) वायुः । वरुणः । इन्द्रः । रुद्रः । पर्जन्यः । बृहस्पतिः । ब्रह्मणस्पतिः । वास्तोष्पतिः । क्षेत्रस्य पतिः । कः । यमः । अपां नपात् । मित्रः । विश्वकर्मा । मन्युः । तार्क्ष्यः । दधिक्राः । सरस्वान् । अग्निः । असुनीतिः । वाजः । कुतः । वातः । ऋतः । मृत्युः । धाता । विधाता । पुरूरवाः । गन्धर्वाः । अनड्वान् । प्राणाः । स्तम्भः । व्रात्यः — सूक्तभाञ्जि ॥
(48,138) प्रजापतिः । चन्द्रमाः । सोमः । इन्दुः । अदितिः । धेनवः । अहिर्बुध्न्यः — निपातभाञ्जि ॥
(48,139) सरस्वती । वाक् । अदितिः । उर्वशी । गौः । धेनुः । सरमा । उषा । इन्द्राणी । पृथिवी । दस्य । गोधुकसा । विराट् । अघ्न्या । सिनीवाली । कुहूः । अनुमतिः । राका । यमी । सरण्यूः । पथ्या । रोदसी । देवपत्न्यः । मरुतः । रुद्राः । ऋभवः । अङ्गिरसः । भृगवः । अथर्वाणः — संस्तविकाः; तस्यैकवद्-बहुवत्-स्त्रीवत् च ॥
(48,140) स्नेहानुप्रदानम्, वृत्रवधः, या च का च बलकृतिः — तदस्य कर्म ॥
(48,141) अन्तरिक्षलोकः । ग्रीष्मः । मध्यंदिनम् । सवनम् । त्रिष्टुप् । पञ्चदशः । बृहत् — तद्भक्तीनि ॥ 68
(48,142) आदित्यः । सविता । भगः । सूर्यः । पूषा । विष्णुः । केशी । विश्वानरः । वृषाकपिः । कालः । ब्रह्मचारी । रोहितः — सूक्तभाञ्जि ॥
(48,143) दध्यङ् । अथर्वा । यमः । अज एकपात् । मनुः । विवस्वान् । दक्षः । अर्यमा । वैश्वानरः । सुपर्णः — निपातभाञ्जि ॥
(48,144) उषाः । सूर्या । वृषाकपायी । साध्याः । वसवः । आदित्याः । सप्त ऋषयः । वाजिनः । विश्वे देवा: — संस्तविकाः; तस्यैकवद्-बहुवत्-स्त्रीवत् च ॥
(48,145) रसादानम्, रश्मिभिः रसाधारणम्, यच्च प्रवल्हितम् — तदस्य कर्म ॥
(48,146) अस्य लोकः । वर्षास् । तृतीयसवनम् । जगती । सप्तदशः । वैरूपम् — तद्भक्तीनि ॥
(48,147) एतेषामेव लोकानाम् ऋतु-छन्दः-स्तोम-पृष्ठानाम् आनुपूर्वेण भक्तिशेषः — अनुकल्पः ।
(48,148) देवताद्वन्द्वे च पूर्वस्यापरः संस्तविकः ॥ पूर्वस्यापरः संस्तविकः ॥ 69