Home » Nirvana in Bhagabat Gita [Sanskrit]

Nirvana in Bhagabat Gita [Sanskrit]

Bhagavad Gita-War and Peace

निर्वाण

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति
स्थित्वास्यामन्तकालेपि ब्रह्मनिर्वाणमृच्छति २.७२


योन्तःसुखोन्तरारामस्तथान्तर्ज्योतिरेव यः
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोधिगच्छति ५.२४

लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ५.२५

कामक्रोधवियुक्तानां यतीनां यतचेतसाम्
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ५.२६


युञ्जन्नेवं सदात्मानं योगी नियतमानसः
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ६.१५