मम द्विता राष्ट्रं – Mama Dvita Rastram Suktam.
४,०४२.०१ मम द्विता राष्ट्रं क्षत्रियस्य विश्वायोर्विश्वे अमृता यथा नः ।
४,०४२.०१ क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः ॥
४,०४२.०२ अहं राजा वरुणो मह्यं तान्यसुर्याणि प्रथमा धारयन्त ।
४,०४२.०२ क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः ॥
४,०४२.०३ अहमिन्द्रो वरुणस्ते महित्वोर्वी गभीरे रजसी सुमेके ।
४,०४२.०३ त्वष्टेव विश्वा भुवनानि विद्वान्समैरयं रोदसी धारयं च ॥
४,०४२.०४ अहमपो अपिन्वमुक्षमाणा धारयं दिवं सदन ऋतस्य ।
४,०४२.०४ ऋतेन पुत्रो अदितेरृतावोत त्रिधातु प्रथयद्वि भूम ॥
४,०४२.०५ मां नरः स्वश्वा वाजयन्तो मां वृताः समरणे हवन्ते ।
४,०४२.०५ कृणोम्याजिं मघवाहमिन्द्र इयर्मि रेणुमभिभूत्योजाः ॥
४,०४२.०६ अहं ता विश्वा चकरं नकिर्मा दैव्यं सहो वरते अप्रतीतम् ।
४,०४२.०६ यन्मा सोमासो ममदन्यदुक्थोभे भयेते रजसी अपारे ॥
४,०४२.०७ विदुष्टे विश्वा भुवनानि तस्य ता प्र ब्रवीषि वरुणाय वेधः ।
४,०४२.०७ त्वं वृत्राणि शृण्विषे जघन्वान्त्वं वृतां अरिणा इन्द्र सिन्धून् ॥
४,०४२.०८ अस्माकमत्र पितरस्त आसन्सप्त ऋषयो दौर्गहे बध्यमाने ।
४,०४२.०८ त आयजन्त त्रसदस्युमस्या इन्द्रं न वृत्रतुरमर्धदेवम् ॥
४,०४२.०९ पुरुकुत्सानी हि वामदाशद्धव्येभिरिन्द्रावरुणा नमोभिः ।
४,०४२.०९ अथा राजानं त्रसदस्युमस्या वृत्रहणं ददथुरर्धदेवम् ॥
४,०४२.१० राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः ।
४,०४२.१० तां धेनुमिन्द्रावरुणा युवं नो विश्वाहा धत्तमनपस्फुरन्तीम् ॥