सम्ऽसम् इत् युवसे वृषन् अग्ने – Sam samit yubase brisan agne: RV 10/191

Akhanda Bharat
  • संसमिद्युवसे वृषन्नग्ने विश्वान्यर्य आ । इळस्पदे समिध्यसे स नो वसून्या भर ॥१॥
  • सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् । देवा भागं यथा पूर्वे संजानाना उपासते ॥२॥ समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम् ।
  • समानं मन्त्रमभि मन्त्रये वः समानेन वो हविषा जुहोमि ॥३॥ समानी व आकूतिः समाना हृदयानि वः ।
  • समानमस्तु वो मनो यथा वः सुसहासति ॥४॥

 

 

हे “वृषन् कामानां वर्षितः “अग्ने “अर्यः ईश्वरस्त्वम् ।’ अर्यः स्वामिवैश्ययोः’ (पा. सू. ३. १. १०३) इति यत्प्रत्ययान्तो निपातितः । ‘ अर्यः स्वाम्याख्यायाम् ‘ ( फि. सू. १. १८) इत्यन्तोदात्तत्वम् । स त्वं “विश्वानि सर्वाणि भूतजातानि “संसम् । ‘प्रसमुपोदः पादपूरणे’ (पा. सू. ८. १. ६) इति समो द्विर्वचनम् । इच्छब्दोऽवधारणे । “आ समन्तात् सं “युवसे मिश्रयसि । देवेषु मध्ये त्वमेव सर्वाणि भूतजातानि वैश्वानरात्मना व्याप्नोषि। नान्य इत्यर्थः । किंच “इळः इडायाः पृथिव्याः “पदे स्थाने उत्तरवेदिलक्षणे । एतद्वा इळायास्पदं यदुत्तरवेदीनाभिः ‘ ( ऐ. ब्रा. १.२८) इति ब्राह्मणम् । तत्र त्वं “समिध्यसे ऋत्विग्भिः संदीप्यसे । “सः तादृशस्त्वं “नः अस्माकं “वसूनि धनानि “आ “भर आहर ॥

हे स्तोतारः यूयं “सं “गच्छध्वम् । संगताः संभूता भवत” ॥ ‘समो गम्यृच्छि” इत्यादिना गमेरात्मनेपदम् ॥ तथा “सं “वदध्वं सह वदत । परस्परं विरोधं परित्यज्यैकविधमेव वाक्यं ब्रूतेति यावत् । ‘ व्यक्तवाचां समुच्चारणे ‘ ( पा. सू. १. ३. ४८) इति वदेरात्मनेपदम्। “वः युष्माकं “मनांसि “सं “जानताम् । समानमेकरूपमेवार्थमवगच्छन्तु ॥ ‘ संप्रतिभ्यामनाध्याने ‘ (पा. सू. १. ३. ४६ ) इति जानातेरात्मनेपदम् ॥ “यथा “पूर्वे पुरातनाः “देवाः “संजानानाः ऐकमत्यं प्राप्ता हविर्भागम् “उपासते यथास्वं स्वीकुर्वन्ति तथा यूयमपि वैमत्यं परित्यज्य धनं स्वीकुरुतेति शेषः ॥

पूर्वोऽर्धर्चः परोक्षकृतः उत्तरः प्रत्यक्षकृतः । “एषाम् एकस्मिन् कर्मणि सह प्रवृत्तानामृत्विजां स्तोतॄणां वा “मन्त्रः स्तुतिः शस्त्राद्यात्मका गुप्तभाषणं वा “समानः एकविधोऽस्तु । तथा “समितिः प्राप्तिरपि “समानी एकरूपास्तु ॥ ‘ केवलमामक° इत्यादिना समानशब्दात् ङीप् । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् । तथा “मनः मननसाधनमन्तःकरणं चैषां “समानम् एकविधमप्यस्तु । “चित्तं विचारजं ज्ञानं तथा “सह सहितं परस्परस्यैकार्थेनैकीभूतमस्तु । अहं च “वः युष्माकं “समानम् एकविधं “मन्त्रम् “अभि “मन्त्रये । ऐकविध्याय संस्करोमि । तथा “वः युष्माकं स्वभूतेन “समानेन साधारणेन “हविषा चरुपुरोडाशादिना अहं “जुहोमि ॥ तृतीया च होश्छन्दसि’ (पा. सू. २. ३. ३) इति कर्मणि कारके तृतीया ॥ वषट्कारेण हविः प्रक्षेपयामीत्यर्थः ॥

हे ऋत्विग्यजमानाः “वः युष्माकम् “आकूतिः संकल्पोऽध्यवसायः “समानी एकविधोऽस्तु । तथा “वः युष्माकं “हृदयानि “समाना समानान्येकविधानि सन्तु । तथा “वः युष्माकं “मनः अन्तःकरणम् । प्रत्येकापेक्षयैकवचनम् । तदपि “समानमस्तु । “यथा “वः युष्माकं “सुसह शोभनं साहित्यम् “असति भवति तथा समानमस्त्वित्यन्वयः ॥ अस्तेर्लटि ‘बहुलं छन्दसि’ इति शपो लुगभावः ॥ ॥ ४९ ।।

सायणभाष्यम्



पतङ्गम् अक्तम् असुरस्य मायया सूक्तं-Patangam Aktam Asurashya Mayaya Suktam- 10/177

  1. पतङ्गमक्तमसुरस्य मायया हृदा पश्यन्ति मनसा विपश्चितः ।
    समुद्रे अन्तः कवयो वि चक्षते मरीचीनां पदमिच्छन्ति वेधसः ॥१०,१७७.०१
  2. पतङ्गो वाचं मनसा बिभर्ति तां गन्धर्वोऽवदद्गर्भे अन्तः ।
    तां द्योतमानां स्वर्यं मनीषामृतस्य पदे कवयो नि पान्ति ॥१०,१७७.०२
  3. अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् ।
    स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥१०,१७७.०३

पतङ्गम् । अक्तम् । असुरस्य । मायया । हृदा । पश्यन्ति । मनसा । विपःऽचितः ।

समुद्रे । अन्तरिति । कवयः । वि । चक्षते । मरीचीनाम् । पदम् । इच्छन्ति । वेधसः ॥१

पतङ्गः । वाचम् । मनसा । बिभर्ति । तान् । गन्धर्वः । अवदत् । गर्भे । अन्तरिति ।

ताम् । द्योतमानाम् । स्वर्यम् । मनीषाम् । ऋतस्य । पदे । कवयः । नि । पान्ति ॥२

अपश्यम् । गोपाम् । अनिऽपद्यमानम् । आ । च । परा । च । पथिऽभिः । चरन्तम् ।

सः । सध्रीचीः । सः । विषूचीः । वसानः । आ । वरीवर्ति । भुवनेषु । अन्तरिति ॥३


ऋग्वेदः – मण्डल १० सूक्तं १०.१७७
पतङ्गः प्राजापत्यः। दे. मायाभेदः। त्रिष्टुप्, १ जगती।


मायाभेदस्य प्रतिपाद्यत्वात्तद्देवत्यमिदं सूक्तम् ।

असुरस्य असनकुशलस्य सर्वोपाधिविहीनस्य परब्रह्मणः संबन्धिया “मायया त्रिगुणात्मिकया “अक्तं व्यक्तमभिव्यक्तम् । यद्वा। मायेति प्रज्ञानाम । प्रज्ञया संबद्धं सर्वज्ञं “पतङ्गम्। पतति गच्छतीति पतङ्गः सूर्यः । तं “विपश्चितः विद्वांसः “हृदा हृत्स्थेन । तात्स्थ्यात्ताच्छब्द्यम् । हृदि निरुद्धेन “मनसा “पश्यन्ति जानन्ति । “कवयः क्रान्तदर्शिनस्ते “समुद्रे । समुद्द्रवन्त्यस्माद्रश्मय इति समुद्रं सूर्यमण्डलम् । तस्मिन् “अन्तः मध्ये “वि “चक्षते विपश्यन्ति । मण्डलान्तर्वर्तिनं हिरण्मयं पुरुषमपि जानन्तीत्यर्थः । य एवं “वेधसः विधातार उक्तप्रकारेण सूर्योपासनस्य कर्तारस्ते “मरीचीनां रश्मीनां “पदं स्थानं सूर्यमण्डलम् “इच्छन्ति अभिलषन्ति । तदुपासनया प्राप्नुवन्तीत्यर्थः । यद्वा । माययाक्तं जीवरूपेणाभिव्यक्तमात्मानं विपश्चितो वेदान्ताभिज्ञा हृत्स्थेनान्तर्मुखेन मनसा पतङ्गम् । पतति व्याप्नोतीति पतङ्गः परमात्मा । तं पश्यन्तिउपाधिपरित्यागेन जीवात्मनः परमात्मना तादात्म्यं साक्षात्कुर्वन्तीत्यर्थः । अपि च ते कवयः क्रान्तदर्शिनो वेदान्ताभिज्ञाः समुद्रे । समुद्द्रवन्त्यस्माद्भूतानीति समुद्रः परमात्मा । तस्मिन्नधिष्ठानभूतेऽन्तर्मध्ये सर्वं दृश्यजातमध्यस्तत्वेन वि चक्षते विपश्यन्तीति । अतो दृग्व्यतिरिक्तस्य सर्वस्य मिथ्यात्वाद्वेधसो विधातारस्ते मरीचीनां वृत्तिज्ञानानां पदमधिष्ठानभूतं सच्चित्सुखात्मकं यत्परं ब्रह्म तदेवेच्छन्ति । तद्भावप्राप्तिमेव कामयन्ते ॥

वाग्देवत्ये पशौ ‘ पतङ्गो वाचम्’ इति पुरोडाशस्यानुवाक्या । सूत्रितं च — यद्वाग्वदन्त्यविचेतनानि पतङ्गो वाचं मनसा बिभर्ति ‘ ( आश्व. श्रौ. ३. ८) इति ॥

“पतङ्गः सूर्यः “वाचं त्रयीरूपां “मनसा प्रज्ञया “बिभर्ति धारयति । श्रूयते हि— ऋग्भिः पूर्वाह्णे दिवि देव ईयते यजुर्वेदे तिष्ठति मध्ये अह्नः सामवेदेनास्तमये महीयते वेदैरशून्यस्त्रिभिरेति सूर्यः’ (तै. ब्रा.३.१२.९.१ ) इति । “ताम् एव वाचं “गर्भे शरीरस्य मध्ये वर्तमानः “गन्धर्वः । गाः शब्दान् धारयतीति गन्धर्वः प्राणवायुः । “अन्तः मध्ये “अवदत् वदति प्रेरयति । ‘ मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् ‘ ( पा. शि. ७) इति स्मरणात् । “द्योतमानां स्वर्यं स्वर्गमयित्रीं स्वर्गाय हितां वा “मनीषां मनस ईशित्रीं “तां त्रयीरूपां वाचम् “ऋतस्य यज्ञस्य सत्यभूतस्य सूर्यस्य वा “पदे स्थाने “कवयः मेधाविन ऋषयः “नि “पान्ति । अध्यापनेन नितरां रक्षन्ति । यद्वा । पतङ्गः सर्वोपाधिशून्यो व्याप्तः परमात्मा। स सृष्ट्यादौ वाचं मनसा बिभर्ति । कानि कानि स्रष्टव्यानीति पर्यालोचनेन मनसा सकलार्थप्रतिपादकं वेदं परामृष्टवानित्यर्थः । स्मर्यते हि — वेदशब्देश्य एवादौ निर्ममे स महेश्वरः’ इति । गर्भे हिरण्मये ब्रह्माण्डेऽन्तर्वर्तमानो गन्धर्वो हिरण्यगर्भस्तां वाचमवदत् प्रथममुच्चारितवान् । द्योतमानत्वादिगुणविशिष्टां तां वाचं कवयः क्रान्तदर्शिनो देवा ऋतस्य सत्यस्य ब्रह्मणः पदे स्थाने नि पान्ति निभृतं रक्षन्ति ।

व्याख्यातेयमस्यवामीयसूक्ते ( ऋ. सं. १. १६४. ३१ ) । “गोप गोपयितारमादित्यम् “अपश्यम् अज्ञासिषम् । एष हि सर्वाणि भूतजातान्युदयास्तमयादिकर्मणा गोपायति । कीदृशम् । “अनिपद्यमानम् उच्चैर्गच्छन्तम् । न ह्यसौ कदाचिन्नीचैः पद्यते । पथिभिः आकाशमार्गैः पूर्वाह्न “आ “चरन्तम् अस्मानभिलक्ष्य गच्छन्तं सार्थसमये “परा चरन्तं पराङ्मुख गच्छन्तम् । प्रकारद्वयमुच्चयार्थी शब्दौ । सः सूर्यः सध्रीचीः सहञ्चन्तीः “विषूचीः विविधं पृथक्पृथगञ्जन्तीः स्वस्वव्यापाराय गच्छन्तीः । प्राच्याद्या महादिशः सधीच्या विधूच्यः कोणदिशः। “वसानः स्वभासाच्छादयन् प्रकाशयन् “भुवनेषु लोकेषु अन्तः मध्ये “ “वरीवति । पुनःपुनरुद्यन् अस्तं गच्छंश्चावर्तते । यद्वा । गोपां शरीरस्य गोपायितारमनिपद्यमानमविनाशिनमविपन्नमा च परा चाभिमुखेन च पराङ्मुखेन च पथिभिर्नाडीलक्षणैर्मागैश्चरन्तं शरीरे वर्तमानं प्राणमपश्यम् अहमदर्शम् ॥ ॥३५॥
प्रवर्ग्येऽभिष्टवे ‘अपश्यं गोपाम्’ इत्येषा । सूत्रितं च – ‘ अपश्यं गोपामनिपद्यमानं स्रक्वे द्रप्सस्य ‘ (आश्व. श्रौ. ४. ६) इति ।। [सायणभाष्यम्]


 

अपश्यं त्वा मनसा चेकितानं- Apasyam tva manasa chekitanam Suktam-10/183

अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसो विभूतम् ।
इह प्रजामिह रयिं रराणः प्र जायस्व प्रजया पुत्रकाम ॥१०,१८३.०१
अपश्यं त्वा मनसा दीध्यानां स्वायां तनू ऋत्व्ये नाधमानाम् ।
उप मामुच्चा युवतिर्बभूयाः प्र जायस्व प्रजया पुत्रकामे ॥१०,१८३.०२
अहं गर्भमदधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः ।
अहं प्रजा अजनयं पृथिव्यामहं जनिभ्यो अपरीषु पुत्रान् ॥१०,१८३.०३


 

ना सदासी न्नोसदासीत्त – Na sadasit na asadasit Suktam- 10/129

  1. नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् ।
    किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं गभीरम् ॥१०,१२९.०१
  2. न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः ।
    आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किं चनास ॥१०,१२९.०२
  3. तम आसीत्तमसा गूळ्हमग्रेऽप्रकेतं सलिलं सर्वमा इदम् ।
    तुच्छ्येनाभ्वपिहितं यदासीत्तपसस्तन्महिनाजायतैकम् ॥१०,१२९.०३
  4. कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत् ।
    सतो बन्धुमसति निरविन्दन्हृदि प्रतीष्या कवयो मनीषा ॥१०,१२९.०४
  5.  तिरश्चीनो विततो रश्मिरेषामधः स्विदासी३ उपरि स्विदासी३ ।
    रेतोधा आसन्महिमान आसन्स्वधा अवस्तात्प्रयतिः परस्तात् ॥१०,१२९.०५
  6.  को अद्धा वेद क इह प्र वोचत्कुत आजाता कुत इयं विसृष्टिः ।
    अर्वाग्देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ॥१०,१२९.०६
  7. इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न ।
    यो अस्याध्यक्षः परमे व्योमन्सो अङ्ग वेद यदि वा न वेद ॥१०,१२९.०७

 

अहं रुद्रेभि – Aham Rudrevi Suktam-10/125

१०,१२५.०१ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।
१०,१२५.०१ अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥
१०,१२५.०२ अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।
१०,१२५.०२ अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥
१०,१२५.०३ अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।
१०,१२५.०३ तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीम् ॥
१०,१२५.०४ मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम् ।
१०,१२५.०४ अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि ॥
१०,१२५.०५ अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः ।
१०,१२५.०५ यं कामये तंतमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥
१०,१२५.०६ अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ ।
१०,१२५.०६ अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आ विवेश ॥
१०,१२५.०७ अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे ।
१०,१२५.०७ ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥
१०,१२५.०८ अहमेव वात इव प्र वाम्यारभमाणा भुवनानि विश्वा ।
१०,१२५.०८ परो दिवा पर एना पृथिव्यैतावती महिना सं बभूव ॥


 

 इति वा इति – Iti Ba Iti Suktam – 10/119

इति वा इति मे मनो गामश्वं सनुयामिति । कुवित्सोमस्यापामिति ॥१०,११९.०१
प्र वाता इव दोधत उन्मा पीता अयंसत ।  कुवित्सोमस्यापामिति ॥१०,११९.०२
उन्मा पीता अयंसत रथमश्वा इवाशवः ।  कुवित्सोमस्यापामिति ॥१०,११९.०३
उप मा मतिरस्थित वाश्रा पुत्रमिव प्रियम् । कुवित्सोमस्यापामिति ॥१०,११९.०४
अहं तष्टेव वन्धुरं पर्यचामि हृदा मतिम् ।  कुवित्सोमस्यापामिति ॥१०,११९.०५
नहि मे अक्षिपच्चनाच्छान्त्सुः पञ्च कृष्टयः । कुवित्सोमस्यापामिति ॥१०,११९.०६
नहि मे रोदसी उभे अन्यं पक्षं चन प्रति । कुवित्सोमस्यापामिति ॥१०,११९.०७
अभि द्यां महिना भुवमभीमां पृथिवीं महीम् । कुवित्सोमस्यापामिति ॥१०,११९.०८
हन्ताहं पृथिवीमिमां नि दधानीह वेह वा ।  कुवित्सोमस्यापामिति ॥१०,११९.०९
ओषमित्पृथिवीमहं जङ्घनानीह वेह वा ।  कुवित्सोमस्यापामिति ॥१०,११९.१०
दिवि मे अन्यः पक्षोऽधो अन्यमचीकृषम् । कुवित्सोमस्यापामिति ॥१०,११९.११
अहमस्मि महामहोऽभिनभ्यमुदीषितः । कुवित्सोमस्यापामिति ॥१०,११९.१२
गृहो याम्यरङ्कृतो देवेभ्यो हव्यवाहनः । कुवित्सोमस्यापामिति ॥१०,११९.१३


 

अहं भुवं वसुनः- Aham Bhubam Basuna Suktam – 10/48-49

१०,०४८.०१ अहं भुवं वसुनः पूर्व्यस्पतिरहं धनानि सं जयामि शश्वतः ।
१०,०४८.०१ मां हवन्ते पितरं न जन्तवोऽहं दाशुषे वि भजामि भोजनम् ॥
१०,०४८.०२ अहमिन्द्रो रोधो वक्षो अथर्वणस्त्रिताय गा अजनयमहेरधि ।
१०,०४८.०२ अहं दस्युभ्यः परि नृम्णमा ददे गोत्रा शिक्षन्दधीचे मातरिश्वने ॥
१०,०४८.०३ मह्यं त्वष्टा वज्रमतक्षदायसं मयि देवासोऽवृजन्नपि क्रतुम् ।
१०,०४८.०३ ममानीकं सूर्यस्येव दुष्टरं मामार्यन्ति कृतेन कर्त्वेन च ॥
१०,०४८.०४ अहमेतं गव्ययमश्व्यं पशुं पुरीषिणं सायकेना हिरण्ययम् ।
१०,०४८.०४ पुरू सहस्रा नि शिशामि दाशुषे यन्मा सोमास उक्थिनो अमन्दिषुः ॥
१०,०४८.०५ अहमिन्द्रो न परा जिग्य इद्धनं न मृत्यवेऽव तस्थे कदा चन ।
१०,०४८.०५ सोममिन्मा सुन्वन्तो याचता वसु न मे पूरवः सख्ये रिषाथन ॥
१०,०४८.०६ अहमेताञ्छाश्वसतो द्वाद्वेन्द्रं ये वज्रं युधयेऽकृण्वत ।
१०,०४८.०६ आह्वयमानां अव हन्मनाहनं दृळ्हा वदन्ननमस्युर्नमस्विनः ॥
१०,०४८.०७ अभीदमेकमेको अस्मि निष्षाळ् अभी द्वा किमु त्रयः करन्ति ।
१०,०४८.०७ खले न पर्षान्प्रति हन्मि भूरि किं मा निन्दन्ति शत्रवोऽनिन्द्राः ॥
१०,०४८.०८ अहं गुङ्गुभ्यो अतिथिग्वमिष्करमिषं न वृत्रतुरं विक्षु धारयम् ।
१०,०४८.०८ यत्पर्णयघ्न उत वा करञ्जहे प्राहं महे वृत्रहत्ये अशुश्रवि ॥
१०,०४८.०९ प्र मे नमी साप्य इषे भुजे भूद्गवामेषे सख्या कृणुत द्विता ।
१०,०४८.०९ दिद्युं यदस्य समिथेषु मंहयमादिदेनं शंस्यमुक्थ्यं करम् ॥
१०,०४८.१० प्र नेमस्मिन्ददृशे सोमो अन्तर्गोपा नेममाविरस्था कृणोति ।
१०,०४८.१० स तिग्मशृङ्गं वृषभं युयुत्सन्द्रुहस्तस्थौ बहुले बद्धो अन्तः ॥
१०,०४८.११ आदित्यानां वसूनां रुद्रियाणां देवो देवानां न मिनामि धाम ।
१०,०४८.११ ते मा भद्राय शवसे ततक्षुरपराजितमस्तृतमषाळ्हम् ॥

१०,०४९.०१ अहं दां गृणते पूर्व्यं वस्वहं ब्रह्म कृणवं मह्यं वर्धनम् ।
१०,०४९.०१ अहं भुवं यजमानस्य चोदितायज्वनः साक्षि विश्वस्मिन्भरे ॥
१०,०४९.०२ मां धुरिन्द्रं नाम देवता दिवश्च ग्मश्चापां च जन्तवः ।
१०,०४९.०२ अहं हरी वृषणा विव्रता रघू अहं वज्रं शवसे धृष्ण्वा ददे ॥
१०,०४९.०३ अहमत्कं कवये शिश्नथं हथैरहं कुत्समावमाभिरूतिभिः ।
१०,०४९.०३ अहं शुष्णस्य श्नथिता वधर्यमं न यो रर आर्यं नाम दस्यवे ॥
१०,०४९.०४ अहं पितेव वेतसूंरभिष्टये तुग्रं कुत्साय स्मदिभं च रन्धयम् ।
१०,०४९.०४ अहं भुवं यजमानस्य राजनि प्र यद्भरे तुजये न प्रियाधृषे ॥
१०,०४९.०५ अहं रन्धयं मृगयं श्रुतर्वणे यन्माजिहीत वयुना चनानुषक् ।
१०,०४९.०५ अहं वेशं नम्रमायवेऽकरमहं सव्याय पड्गृभिमरन्धयम् ॥
१०,०४९.०६ अहं स यो नववास्त्वं बृहद्रथं सं वृत्रेव दासं वृत्रहारुजम् ।
१०,०४९.०६ यद्वर्धयन्तं प्रथयन्तमानुषग्दूरे पारे रजसो रोचनाकरम् ॥
१०,०४९.०७ अहं सूर्यस्य परि याम्याशुभिः प्रैतशेभिर्वहमान ओजसा ।
१०,०४९.०७ यन्मा सावो मनुष आह निर्णिज ऋधक्कृषे दासं कृत्व्यं हथैः ॥
१०,०४९.०८ अहं सप्तहा नहुषो नहुष्टरः प्राश्रावयं शवसा तुर्वशं यदुम् ।
१०,०४९.०८ अहं न्यन्यं सहसा सहस्करं नव व्राधतो नवतिं च वक्षयम् ॥
१०,०४९.०९ अहं सप्त स्रवतो धारयं वृषा द्रवित्न्वः पृथिव्यां सीरा अधि ।
१०,०४९.०९ अहमर्णांसि वि तिरामि सुक्रतुर्युधा विदं मनवे गातुमिष्टये ॥
१०,०४९.१० अहं तदासु धारयं यदासु न देवश्चन त्वष्टाधारयद्रुशत् ।
१०,०४९.१० स्पार्हं गवामूधस्सु वक्षणास्वा मधोर्मधु श्वात्र्यं सोममाशिरम् ॥
१०,०४९.११ एवा देवां इन्द्रो विव्ये नॄन्प्र च्यौत्नेन मघवा सत्यराधाः ।
१०,०४९.११ विश्वेत्ता ते हरिवः शचीवोऽभि तुरासः स्वयशो गृणन्ति ॥


 

अहश्च कृष्णमहरर्जुनं – Ahascha Krishnam Ahar Arjunam Suktam

६,००९.०१ अहश्च कृष्णमहरर्जुनं च वि वर्तेते रजसी वेद्याभिः ।
६,००९.०१ वैश्वानरो जायमानो न राजावातिरज्ज्योतिषाग्निस्तमांसि ॥
६,००९.०२ नाहं तन्तुं न वि जानाम्योतुं न यं वयन्ति समरेऽतमानाः ।
६,००९.०२ कस्य स्वित्पुत्र इह वक्त्वानि परो वदात्यवरेण पित्रा ॥
६,००९.०३ स इत्तन्तुं स वि जानात्योतुं स वक्त्वान्यृतुथा वदाति ।
६,००९.०३ य ईं चिकेतदमृतस्य गोपा अवश्चरन्परो अन्येन पश्यन् ॥
६,००९.०४ अयं होता प्रथमः पश्यतेममिदं ज्योतिरमृतं मर्त्येषु ।
६,००९.०४ अयं स जज्ञे ध्रुव आ निषत्तोऽमर्त्यस्तन्वा वर्धमानः ॥
६,००९.०५ ध्रुवं ज्योतिर्निहितं दृशये कं मनो जविष्ठं पतयत्स्वन्तः ।
६,००९.०५ विश्वे देवाः समनसः सकेता एकं क्रतुमभि वि यन्ति साधु ॥
६,००९.०६ वि मे कर्णा पतयतो वि चक्षुर्वीदं ज्योतिर्हृदय आहितं यत् ।
६,००९.०६ वि मे मनश्चरति दूरआधीः किं स्विद्वक्ष्यामि किमु नू मनिष्ये ॥
६,००९.०७ विश्वे देवा अनमस्यन्भियानास्त्वामग्ने तमसि तस्थिवांसम् ।
६,००९.०७ वैश्वानरोऽवतूतये नोऽमर्त्योऽवतूतये नः ॥


 

मम द्विता राष्ट्रं – Mama Dvita Rastram Suktam.

४,०४२.०१ मम द्विता राष्ट्रं क्षत्रियस्य विश्वायोर्विश्वे अमृता यथा नः ।
४,०४२.०१ क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः ॥
४,०४२.०२ अहं राजा वरुणो मह्यं तान्यसुर्याणि प्रथमा धारयन्त ।
४,०४२.०२ क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः ॥
४,०४२.०३ अहमिन्द्रो वरुणस्ते महित्वोर्वी गभीरे रजसी सुमेके ।
४,०४२.०३ त्वष्टेव विश्वा भुवनानि विद्वान्समैरयं रोदसी धारयं च ॥
४,०४२.०४ अहमपो अपिन्वमुक्षमाणा धारयं दिवं सदन ऋतस्य ।
४,०४२.०४ ऋतेन पुत्रो अदितेरृतावोत त्रिधातु प्रथयद्वि भूम ॥
४,०४२.०५ मां नरः स्वश्वा वाजयन्तो मां वृताः समरणे हवन्ते ।
४,०४२.०५ कृणोम्याजिं मघवाहमिन्द्र इयर्मि रेणुमभिभूत्योजाः ॥
४,०४२.०६ अहं ता विश्वा चकरं नकिर्मा दैव्यं सहो वरते अप्रतीतम् ।
४,०४२.०६ यन्मा सोमासो ममदन्यदुक्थोभे भयेते रजसी अपारे ॥
४,०४२.०७ विदुष्टे विश्वा भुवनानि तस्य ता प्र ब्रवीषि वरुणाय वेधः ।
४,०४२.०७ त्वं वृत्राणि शृण्विषे जघन्वान्त्वं वृतां अरिणा इन्द्र सिन्धून् ॥
४,०४२.०८ अस्माकमत्र पितरस्त आसन्सप्त ऋषयो दौर्गहे बध्यमाने ।
४,०४२.०८ त आयजन्त त्रसदस्युमस्या इन्द्रं न वृत्रतुरमर्धदेवम् ॥
४,०४२.०९ पुरुकुत्सानी हि वामदाशद्धव्येभिरिन्द्रावरुणा नमोभिः ।
४,०४२.०९ अथा राजानं त्रसदस्युमस्या वृत्रहणं ददथुरर्धदेवम् ॥
४,०४२.१० राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः ।
४,०४२.१० तां धेनुमिन्द्रावरुणा युवं नो विश्वाहा धत्तमनपस्फुरन्तीम् ॥


 

अहं मनुरभवं – Aham Manu Suktam

अहं मनु…पश्यता मा

४,०२६.०१ अहं मनुरभवं सूर्यश्चाहं कक्षीवां ऋषिरस्मि विप्रः ।
४,०२६.०१ अहं कुत्समार्जुनेयं न्यृञ्जेऽहं कविरुशना पश्यता मा ॥
४,०२६.०२ अहं भूमिमददामार्यायाहं वृष्टिं दाशुषे मर्त्याय ।
४,०२६.०२ अहमपो अनयं वावशाना मम देवासो अनु केतमायन् ॥
४,०२६.०३ अहं पुरो मन्दसानो व्यैरं नव साकं नवतीः शम्बरस्य ।
४,०२६.०३ शततमं वेश्यं सर्वताता दिवोदासमतिथिग्वं यदावम् ॥
४,०२६.०४ प्र सु ष विभ्यो मरुतो विरस्तु प्र श्येनः श्येनेभ्य आशुपत्वा ।
४,०२६.०४ अचक्रया यत्स्वधया सुपर्णो हव्यं भरन्मनवे देवजुष्टम् ॥
४,०२६.०५ भरद्यदि विरतो वेविजानः पथोरुणा मनोजवा असर्जि ।
४,०२६.०५ तूयं ययौ मधुना सोम्येनोत श्रवो विविदे श्येनो अत्र ॥
४,०२६.०६ ऋजीपी श्येनो ददमानो अंशुं परावतः शकुनो मन्द्रं मदम् ।
४,०२६.०६ सोमं भरद्दादृहाणो देवावान्दिवो अमुष्मादुत्तरादादाय ॥
४,०२६.०७ आदाय श्येनो अभरत्सोमं सहस्रं सवां अयुतं च साकम् ।
४,०२६.०७ अत्रा पुरन्धिरजहादरातीर्मदे सोमस्य मूरा अमूरः ॥