ॐ नमश्शुक्रबृहस्पतिभ्याम्.
विद्यासमुद्देशः । वृद्धसंयोगः । इन्द्रियजयः । अमात्योत्पत्तिः । मन्त्रिपुरोहितोत्पत्तिः । उपधाभिश्शौचाशौचज्ञानममात्यानाम् । गूडपुरुषोत्पत्तिः। गूढपुरुषप्रणिधिः । स्वविषये । कृत्याकृत्यपक्षरक्षणम् । परविषये कृत्याकृत्यपक्षोपग्रहः । मन्त्राधिकारः । दूतप्रणिधिः । राजपुत्ररक्षणम् । अवरुद्धवृत्तम् । अवरुद्धे वृत्तिः । राजप्रणिधिः । निशान्तप्रणिधिः । आत्मरक्षितकम् ॥ इति विनयाधिकारिकं (Discipline) प्रथमाधिकरणम् ॥
कौटिलीयं अर्थशास्त्रम्
विनयाधिकारिकं
विद्यासमुद्देशः (1)
आन्वीक्षकी त्रयी वार्ता दण्डनीतिश्चेति विद्याः (Vidya) । (4 Subjective KnowledgeKnowledge η γνώση (Greek), scientia (scientia), ज्ञानम् (Sanskrit), 知识 Zhīshì (China) > Wnen an informed person digest the data receiver through sense his organs or intuition, digest it through electro-neuro function and make it part of his psyche, then it is called Knowledge. Vedic Nasadiya Sukta questioned the possibility of ultimate truth or knowledge. )
त्रयी वार्ता दण्डनीतिश्चेति मानवाः……..त्रयीविशेषो ह्यान्वीक्षकीति ॥
वार्ता दण्डनीतिश्चेति बार्हस्पत्याः……….संवरणमात्रं हि त्रयी लोकयात्राविद इति ।
दण्डनीतिरेका विद्येत्यौशनसाः……….तस्यां हि सर्वविद्यारम्भाः प्रतिबन्धा इति ॥
चतस्र एव विद्या इति कौटिल्यः । ताभिर्धर्मार्थौ यद्विद्यात्तद्विद्यानां विद्यात्वम् ।
साङ्ख्यं (Sankhya) योगो (YogaYoga An ancient Indian system (Codified by Patanjali ) of practices used to balance the mind and body through exercise, meditation (focusing thoughts), and control of breathing and emotions. Yoga (योगश् चित्तवृत्तिनिरोधः) is being studied as a way to relieve stress and treat sleep problems in cancer patients. "हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः") लोकायतं (Lokayata) चेत्यान्वीक्षकी ।
धर्माधर्मौ त्रय्याम् । अर्थानर्थौ वार्तायाम् । नयानयौ दण्डनीत्यां बलाबले चैतासां हेतुभिरन्वीक्षमाणा लोकस्यो आन्वीक्षकीत्रयीवार्तानां योगक्षेमसाधनो दण्डः । तस्य नीतिर्दण्डनीतिः; अलब्धलाभार्था, लब्धपरिरक्षणी, रक्षितविवर्धनी, वृद्धस्य तीर्थेषु प्रतिपादनी च ।
तस्यामायत्ता लोकयात्रा । तस्माल्लोकयात्रार्थी नित्यमुद्यतदण्डस्स्यात् ।
न ह्येवंविधं वशोपनयनमस्ति भूतानां यथा दण्ड इत्याचार्याः ॥
नेति कौटिल्यः । तीक्ष्णदण्डो हि भूतानामुद्वेजनीयः । मृदुदण्डः परिभूयते । यथार्हदण्डः (Just punishment) पूज्यः । सुविज्ञातप्रणीतो हि दण्डः प्रजा धर्मार्थकामैर्योजयति । दुष्प्रणीतः कामक्रोधाभ्यामज्ञानाद्वानप्रस्थपरिव्राजकानपि कोपयति, किमङ्ग पुनर्गृहस्थान् ? अप्रणीतो हि मात्स्यन्यायमुद्भावयति । बलीयानबलं हि ग्रसते दण्डधराभावे । तेन गुप्तः प्रभवतीति ॥
चतुर्वर्णाश्रमो लोको राज्ञा दण्डेन पालितः ।
स्वधर्मकर्माभिरतो वर्तते स्वेषु वर्त्मसु ॥