Skip to content

ADVOCATETANMOY LAW LIBRARY

Research & Library Database

Sarvarthapedia

Architects of Civilization: 100 Foundational Minds Behind Human Society

Global Biographical Dictionary of Intelligence (50-Volume): Espionage and Counterintelligence

Glossary of 500 Key Concepts Across All Subjects (Part 1 – Part 13)

Biographical Dictionary of 200 Essential Thinkers (Appendix E)

Glossary of Nepali Politics: Constitution, Ethnic Identities, and Coalition Dynamics

  •  ऋग्वेदः 
  • सामवेदः
  • यजुर्वेदः
  • अथर्ववेदः
  • वेदाङ्गकल्पसूत्रम्
  • वेदाङ्गछन्दसूत्रम्
  • वेदाङ्गनिरुक्तम्
  • वेदाङ्गव्याकरणम्
  • वेदाङ्गशिक्षा
  • वेदाङ्गज्यौतिषम्
  • काठकसंहिता
  • तैत्तिरीयसंहिता
  • मैत्रायणीसंहिता
  • ऐतरेय ब्राह्मणम्
  • कौषीतकिब्राह्मणम्
  • शतपथब्राह्मणम्
  • तैत्तिरीयब्राह्मणम्
  • छान्दोग्यब्राह्मणम्
  • गोपथब्राह्मणम्
  • काठकब्राह्मणम्
  • पञ्चविंशब्राह्मणम्
  • जैमिनीयोपनिषद्ब्राह्मणम्
  • ऐतरेय आरण्यकम्
  • तैत्तिरीयारण्यकम्
  • शाङ्खायनारण्यकम्
  • ऐतरेयोपनिषद्
  • तैत्तिरीयोपनिषदत्
  • प्रश्नोपनिषत्
  • मुण्डकोपनिषद्
  • मुण्डकोपनिषद्
  • काठकोपनिषत्
  • केनोपनिषद्
  • छान्दोग्योपनिषद्
  • बृहदारण्यकोपनिषद्
  • कौटिल्यस्य अर्थशास्त्रम्
  • मनुस्मृतिः
  • याज्ञवल्क्यस्मृतिः
  • चरकसंहिता
  • सुश्रुतसंहिता
  • रामायणम्
  • महाभारतम्
  • मीमांसासूत्राणि
  • वैशेषिकसूत्रम्
  • न्यायसूत्राणि
  • श्रीविष्णुपुराणम्
  • अष्टाध्यायी-गणपाठः
  • अष्टाध्यायी-धातुपाठः
  • नाट्यशास्त्रम्
  • News
    • Editorial
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • JudgmentSupreme Court
  • Podcast
  • HLJLaw Digests
    • Supreme Court Case Notes
    • Daily Digest
  • SarvarthapediaKnowledgebase
    • Sarvarthapedia (Twelve Core Areas): Macro Structure
    • Systemic-and-systematic
    • Volume One
    • Volume Two
    • Volume Three
    • Volume Four
    • Volume Five
    • Volume Six
  • Subjects
    • Knowledge Graph
    • Glossary
  • Indian Law
  • EncyclopediaCollection
Home » Sarvarthapedia » Education, Universities and Courses » Culture, Value & Civilisation » Vedic Sanskrit Culture » Sarvarthapedia Vedic Dictionary » सृस्टि क्रम: -Sristi kram
  • Sarvarthapedia Vedic Dictionary

सृस्टि क्रम: -Sristi kram

advtanmoy 23/08/2019

अव्यक्तं

महेश्वरः परोऽव्यक्तश्चतुर्व्यूहः सनातनः । अनन्तश्चाप्रमेयश्च नियन्ता विश्वतोमुखः ।। ४.५

अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् ।
प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिन्तकाः ।। ४.६

गन्धवर्णरसैर्हीनं शब्दस्पर्शविवर्जितम् ।
अजरं ध्रुवमक्षय्यं नित्यं स्वात्मन्यवस्थितम् ।। ४.७

जगद्योनिर्महाभूतं परं ब्रह्म सनातनम् ।
विग्रहः सर्वभूतानामात्मनाऽधिष्ठितं महत् ।। ४.८

अनाद्यन्तमजं सूक्ष्मं त्रिगुणं प्रभवाप्ययम् ।
असांप्रतमविज्ञेयं ब्रह्माग्रे समवर्त्तत ।। ४.९

गुणसाम्ये तदा तस्मिन् पुरुषे चात्मनि स्थिते ।
प्राकृतः प्रलयो ज्ञेयो यावद् विश्वसमुद्भवः ।। ४.१०

ब्राह्मी रात्रिरियं प्रोक्ता अहः सृष्टिरुदाहृता ।
अहर्न विद्यते तस्य न रात्रिर्ह्युपचारतः ।। ४.११

निशान्ते प्रतिबुद्धोऽसौ जगदादिरनादिमान् ।
सर्वभूतमयोऽव्यक्ता दन्तर्यामीश्वरः परः ।। ४.१२

प्रकृतिं पुरुषं चैव प्रविश्याशु महेश्वरः ।
क्षोभयामास योगेन परेण परमेश्वरः ।। ४.१३

यथा मदो नरस्त्रीणां यथा वा माधवोऽनिलः ।
अनुप्रविष्टः क्षोभाय तथासौ योगमूर्तिमान् ।। ४.१४

स एव क्षोभको विप्राः क्षोभ्यश्च परमेश्वरः ।
स संकोचविकासाभ्यां प्रधानत्वे व्यवस्थितः ।। ४.१५

प्रधानात् क्षोभ्यमानाच्च तथा पुंसः पुरातनात् । प्रादुरासीन्महद्बीजं प्रधानपुरुषात्मकम् ।। ४.१६

महानात्मा मतिर्ब्रह्मा प्रबुद्धिः ख्यातिरीश्वरः ।
प्रज्ञाधृतिः स्मृतिः संविदेतस्मादिति तत्स्मृतम् ।। ४.१७

वैकारिकस्तैजसश्च भूतादिश्चैव तामसः ।
त्रिविधोऽयमहंकारो महतः संबभूव ह ।। ४.१८

अहंकारोऽबिमानश्च कर्त्ता मन्ता च स स्मृतः ।
आत्मा च पुद्गलो जीवो गतः सर्वाः प्रवृत्तयः ।। ४.१९

पञ्चभूतान्यहंकारात् तन्मात्राणि च जज्ञिरे ।
इन्द्रियाणि तथा देवाः सर्वं तस्यात्मजं जगत् ।। ४.२०

मनस्त्वव्यक्तजं प्रोक्तं विकारः प्रथमः स्मृतः ।
येनासौ जायते कर्त्ता भूतादींश्चानुपश्यति ।। ४.२१

वैकारिकादहंकारात् सर्गो वैकारिकोऽभवत् ।
तैजसानीन्द्रियाणि स्युर्देवा वैकारिका दश ।। ४.२२

एकादशं मनस्तत्र स्वगुणेनोभयात्मकम् ।
भूततन्मात्रसर्गोऽयं भूतादेरभवद्विजाः ।। ४.२३

भूतादिस्तु विकुर्वाणः शब्दमात्रं ससर्ज ह ।
आकाशं सुषिरं तस्मादुत्पन्नं शब्दलक्षणम् ।। ४.२४

आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह ।
वायुरुत्पद्यते तस्मात् तस्य स्पर्शो गुणं विदुः ।। ४.२५

वायुश्चापि विकुर्वाणो रूपमात्रं ससर्ज ह ।
ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ।। ४.२६

ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह ।
संभवन्ति ततोऽम्भांसि रसाधाराणि तानि तु ।। ४.२७

आपश्चापि विकुर्वत्यो गन्धमात्रं ससर्जिरे ।
संघातो जायते तस्मात् तस्य गन्धो गुणो मतः ।। ४.२८

आकाशं शब्दमात्रं यत् स्पर्शमात्रं समावृणोत् ।
द्विगुणस्तु ततो वायुः शब्दस्पर्शात्मकोऽभवत् ।। ४.२९

रूपं तथैवाविशतः शब्दस्पर्शौ गुणावुभौ ।
त्रिगुणः स्यात् ततो वह्निः स शब्दस्पर्शरूपवान् ।। ४.३०

शब्द स्पर्शश्च रूपं च रसमात्रं समाविशन् ।
तस्माच्चतुर्गुणा आपो विज्ञेयास्तु रसात्मिकाः ।। ४.३१

शब्दः स्पर्शश्च रूपं च रसो गन्धं समाविशन् ।
तसमात् पञ्चगुणा भूमिः स्थूला भूतेषु शब्द्यते ।। ४.३२

शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः ।
परस्परानुप्रवेशाद् धारयन्ति परस्परम् ।। ४.३३

एते सप्त महात्मानो ह्यन्योन्यस्य समाश्रयात् ।
नाशक्नुवन् प्रजाः स्त्रष्टुमसमागम्य कृत्स्नशः ।। ४.३४

पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च ।
महादादयो विशेषान्ता ह्मण्डमुत्पादयन्ति ते ।। ४.३५

एककालसमुत्पन्नं जलबुद्‌बुदवच्च तत् ।
विशेषेभ्योऽण्डमभवद् बृहत् तदुदकेशयम् ।। ४.३६

तस्मिन् कार्यस्य करणं संसिद्धिः परमेष्ठिनः । प्राकृतेऽण्डे विवृद्धे तु क्षेत्रज्ञो ब्रह्मसंज्ञितः ।। ४.३७

स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्त्ता स भूतानां ब्रह्माग्रे समवर्त्तत ।। ४.३८

यमाहुः पुरुषं हंसं प्रधानात् परतः स्थितम् ।
हिरण्यगर्भं कपिलं छन्दोमूर्ति सनातनम् ।। ४.३९

मेरुरुल्बमभूत् तस्य जरायुश्चापि पर्वताः ।
गर्भोदकं समुद्राश्च तस्यासन् परमात्मनः ।। ४.४०

तस्मिन्नण्डेऽभवद् विश्वं सदेवासुरमानुषम् ।
चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना ।। ४.४१

अद्भिर्दशगुणाभिश्च बाह्यतोऽण्डं समावृतम् ।
आपो दशगुणेनैव तेजसा बाह्यतो वृताः ।। ४.४२

तेजो दशगुणेनैव बाह्यतो वायुनावृतम् ।
आकाशेनावृतो वायुः खं तु भूतादिनावृतम् ।। ४.४३

भूतादिर्महता तद्वदव्यक्तेनावृतो महान् ।
एते लोका महात्मनः सर्वतत्त्वाभिमानिनः ।। ४.४४

वसन्ति तत्र पुरुषास्तदात्मानो व्यवस्थिताः ।
ईश्वरा योगधर्माणो ये चान्ये तत्त्वचिन्तकाः ।। ४.४५

सर्वज्ञाः शान्तरजसो नित्यं मुदितमानसाः ।
एतैरावरणैरण्डं प्राकृतै सप्तभिर्वृतम् ।। ४.४६

एतावच्छक्यते वक्तुं मायैषा गहना द्विजाः ।
एतत् प्राधानिकं कार्यं यन्मया बीजमीरितम् ।। ४.४७

प्रजापतेः परा मूर्त्तिरितीयं वैदिकी श्रुतिः ।
ब्रह्माण्डमेतत् सकलं सप्तलोकतलान्वितम् ।। ४.४८

द्वितीयं तस्य देवस्य शरीरं परमेष्ठिनः ।
हिरण्यगर्भो भगवान् ब्रह्मा वै कनकाण्डजः ।। ४.४९

तृतीयं भगवद्रूपं प्राहुर्वेदार्थवेदिनः ।
रजोगुणमयं चान्यद् रूपं तस्यैव धीमतः ।। ४.५०

चतुर्मुखः स भगवान् जगत्सृष्टौ प्रवर्त्तते ।
सृष्टं च पाति सकलं विश्वात्मा विश्वतोमुखः ।। ४.५१

सत्त्वं गुणमुपाश्रित्य विष्णुर्विश्वेश्वरः स्वयम् ।
अन्तकाले स्वयं देवः सर्वात्मा परमेश्वरः ।। ४.५२

तमोगुणं समाश्रित्य रुद्रः संहरते जगत् ।
एकोऽपि सन्महादेवस्त्रिधाऽसौ समवस्थितः ।
सर्गरक्षालयगुणैर्निर्गुणोऽपि निरञ्जनः ।
एकधा स द्विधा चैव त्रिधा च बहुधा गुणैः ।। ४.५३

योगेश्वरः शरीराणि करोति विकरोति च ।
नानाकृतिक्रियारूपनामवन्ति स्वलीलया ।। ४.५४

हिताय चैव भक्तानां स एव ग्रसते पुनः ।
त्रिधा विभज्य चात्मानं त्रैकाल्ये संप्रवर्तते ।
सृजते ग्रसते चैव वीक्षते च विशेषतः ।। ४.५५

यस्मात् सृष्ट्वाऽनुगृह्णाति ग्रसते च पुनः प्रजाः ।
गुणात्मकत्वात् त्रैकाल्ये तस्मादेकः स उच्यते ।। ४.५६

अग्रे हिरण्यगर्भः स प्रादुर्भूतः सनातनः ।
आदित्वादादिदेवोऽसौ अजातत्वादजः स्मृतः ।। ४.५७

पाति यस्मात् प्रजाः सर्वाः प्रजापतिरिति स्मृतः ।
देवेषु च महादेवो महादेव इति स्मृतः ।। ४.५८

बृहत्त्वाच्च स्मृतो ब्रह्मा परत्वात् परमेश्वरः ।
वशित्वादप्यवश्यत्वादीश्वरः परिभाषितः ।। ४.५९

ऋषिः सर्वत्रगत्वेन हरिः सर्वहरो यतः ।
अनुत्पादाच्च पूर्वत्वात् स्वयंभूरिति स स्मृतः ।। ४.६०

नराणामयनं यस्मात् तेन नारायणः स्मृतः । हरः संसारहरणाद् विभुत्वाद् विष्णुरुच्यते ।। ४.६१

भगवान् सर्वविज्ञानादवनादोमिति स्मृतः ।
सर्वज्ञः सर्वविज्ञानात् सर्वः सर्वमयो यतः ।। ४.६२

शिवः स्यात् निर्मलो यस्माद् विभुः सर्वगतो यतः ।
तारणात् सर्वदुःखानां तारकः परिगीयते ।। ४.६३

बहुनाऽत्र किमुक्तेन सर्वं ब्रह्ममयं जगत् ।
अनेकभेदभिन्नस्तु क्रीडते परमेश्वरः ।। ४.६४


श्रीकूर्मपुराणे पूर्वंविभागे चतुर्थोऽध्यायः

Like this:

Like Loading…
Tags: Hindu Religion

Post navigation

Previous धर्मसाधनम् – Dharma Sadhanam
Next कालसंख्या – Kala Samkhya

More Stories

Epistemology (3-Volume): What justifies belief, the difference between opinion and truth Sarvarthapedia
  • Sarvarthapedia Vedic Dictionary

Epistemology (3-Volume): What justifies belief, the difference between opinion and truth

24/05/2026
Rigveda (ऋग्वेदः, ऋक्, ऋच्): Meaning, Structure and Vedic Interpretation Philosophy & Religion of Rigveda
  • Sarvarthapedia Vedic Dictionary

Rigveda (ऋग्वेदः, ऋक्, ऋच्): Meaning, Structure and Vedic Interpretation

28/04/2026
Isa (ईशा): Universal Controller, Karma-Phala-Data, and Inner Self Encyclopedia of Sanatan Dharma
  • Sarvarthapedia Vedic Dictionary

Isa (ईशा): Universal Controller, Karma-Phala-Data, and Inner Self

19/04/2025
  • Advocate Search
  • Purba Bardhaman District (WB), India
  • Global Production, Supply Chains and Industrial Networks (Volume 4): Encyclopedia of International Trade and Commerce
  • Synopsis of Volume 3 of GEITAC: International Trade Theory and Economic Structures
  • International Trade Theory and Economic Structures (Volume 3): Encyclopedia of International Trade and Commerce

More Updates

Advocate Search Advocate Search
  • Sarvarthapedia

Advocate Search

22/10/2026
Purba Bardhaman District (WB), India Purba Bardhaman District
  • Sarvarthapedia

Purba Bardhaman District (WB), India

18/10/2026
Global Production, Supply Chains and Industrial Networks (Volume 4): Encyclopedia of International Trade and Commerce Global Encyclopedia of International Trade and Commerce
  • Law Library

Global Production, Supply Chains and Industrial Networks (Volume 4): Encyclopedia of International Trade and Commerce

11/10/2026
Synopsis of Volume 3 of GEITAC: International Trade Theory and Economic Structures Global Encyclopedia of International Trade and Commerce
  • Law Library

Synopsis of Volume 3 of GEITAC: International Trade Theory and Economic Structures

11/10/2026
  • Anosh Ekka v. CBI (2026 INSC 357): SC Grants Bail to Former Jharkhand Minister in CBI DA Case
  • Amit Arya vs Kamlesh Kumari: Doctrine of merger
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife
  • Indian Constitution
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders
Encyclopedia of Contemporary World History

28 September 2026 Sarvarthapedia Global Historical Record

28 September 2026 — World History and Current Affairs records the day’s major developments across war, geopolitics, maritime trade, energy security, artificial intelligence, aviation, finance, science, climate, law, religion, tourism and global ...
  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subjects
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia Meta-Concept
  • Contact Us
  • Privacy Policy
  • FAQs
  • NEET
  • Library Updates
Legal Database and Encyclopedia | © 2026 by Advocatetanmoy Law Library.
%d