सूर्य – Surya
तद्वा इदं बृहतीसहस्रं संपन्नं तस्य यानि व्यञ्जनानि तच्छरीरं यो घोषः स आत्मा य ऊष्माणः स प्राणः, इति । एतद्ध स्म वै तद्विद्वान्वसिष्ठो वसिष्ठो बभूव तत एतन्नामधेयं लेभे, इति ।
एतदु हैवेन्द्रो विश्वामित्राय प्रोवाचैतदु हैवेन्द्रो भरद्वाजाय प्रोवाच तस्मात्स तेन बन्धुना यज्ञेषु हूयते, इति ।
तद्वा इदं वृहतीसहस्रं संपन्नं तस्य वा एतस्य बृहतीसहस्रस्य संपन्नस्य षट्त्रिंशतमक्षराणां सहस्राणि भवन्ति तावन्ति शतसंवत्सरस्याह्नां सहस्राणि भवन्ति व्यञ्जनैरेव रात्रीराप्नुवन्ति स्वरैरहानि, इति ।
तद्वा इदं बृहतीसहस्रं संपन्नं तस्य वा एतस्य बृहतीसहस्रस्य संपन्नस्य परस्तात्प्रज्ञामयो देवतामयो ब्रह्ममयोऽ-मृतमयः संभूय देवता अप्येति य एवं वेद, इति ।
तद्योऽहं सोऽसौ योऽसौ सोऽहम्, इति ।
तदुक्तमृषिणा — सूर्य आत्मा जगतस्तस्थुषश्चेति, इति । एतदु हैवोपेक्षेतोपेक्षेत, इति ।
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके द्वितीयाध्याये चतुर्थः खण्डः ।। ४ ।।