सिद्धांत रहस्यं श्रावण स्यामले पक्षे एकादश्यां महानिशि। साक्षात् भगवता प्रोक्तं तदक्षरश उच्यते॥१॥ ब्रह्म सम्बंध करणात्सर्वेषां देहजीवयोः।सर्वदोषनिवृत्तिर्हि दोषाःपञ्चविधाः स्मृताः॥२॥ सहजा देशकालोत्थालोकवेदनिरूपिताः।संयोगजाः स्पर्श जाश्चन मन्तव्याः कथन्चन॥३॥ अन्यथा सर्वदोषाणांन निवृत्तिः कथन्चन।असमर्पितवस्तुनांतस्माद्वर्जनमाचरेत्॥४॥ सर्वं कुर्यादिति स्थितिः।न मतं देवदेवस्यसामिभुक्तं समर्पणं॥५॥ तस्मादादौ सर्वकार्येसर्ववस्तु समर्पणम्।दत्तापहारवचनंतथा च सकलं हरेः॥६॥ …
Read More Siddhant Rahasyam – सिद्धांत रहस्यं – श्रीवल्लभाचार्य