मन्त्रकण्टक
अविदित्वा ऋषिं छन्दो दैवतं योगमेव च।
योऽध्यापयेज्जपेद्वापि पापीयाञ्जायते तु सः ॥
ऋषिच्छन्दोदैवतानि ब्राह्मणार्थं स्वराद्यपि ।।
अविदित्वा प्रयुञ्जानो मन्त्रकण्टक उच्यते ॥ इति ॥
वेदनविधिश्च स्मर्यते–
स्वरो वर्णोऽक्षरं मात्रा विनियोगोऽर्थ एव च ।
मन्त्रं जिज्ञासमानेन वेदितव्यं पदे पदे ॥ इति ॥
सायणाचार्य : ऋग्वेदः सूक्तं १.१
Tags: Veda Mantra