षष्ठोऽध्यायः
अथातः प्रत्येकमर्मनिर्देशं शारीरं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
सप्तोत्तरं मर्मशतम् तानि मर्माणि पञ्चात्मकानिभवन्ति तद्यथामांसमर्माणि सिरामर्माणि स्नायुमर्माणि अस्थिमर्माणि सन्धिमर्माणि चेति न खलु मांससिरास्नय्वास्थिसन्धिव्यतिरेकेणान्यानि मर्माणि भवन्ति यस्मान्नोपलभ्यन्ते३
तत्रैकादश मांसमर्माणि एकचत्वारिंशत् सिरामर्माणि सप्तविंशतिः स्नायुमर्माणि अष्टावस्थिमर्माणि विंशतिः सन्धिमर्माणि चेति तदेतत् सप्तोत्तरं मर्मशतम् ४
तेषामेकादशैकस्मिन् सन्क्थि भवन्ति एतेनेतरसक्थि बाहू च व्याख्यातौ उदरोरसोर्द्वादश चतुर्दश पृष्ठे ग्रीवां प्रत्यूर्ध्वं सप्तत्रिंशत् ५
तत्र सक्थिमर्माणि क्षिप्रतलहृदयकूर्चकूर्चशिरोगुल्फेन्द्र बस्तिजान्वाण्युर्विलोहिताक्षाणि विटपं चेति एतेनेतरत्सक्थि व्याख्यातम् उदरोरसोस्तु गुदबस्तिनाभिहृदयस्तनमूलस्तनरोहितापलापान्यपस्तम्भौ चेति पृष्ठमर्माणि तु कटीकतरुणकुकुन्दरनितम्बपाश्वर्सन्धिबृहत्यंसफलकान्यंसौ चेति बाहुमर्माणि तु शिप्रतलहृदयकूर्चकूर्चशिरोमणिबन्धेन्द्र बस्तिकूर्पराण्युर्वीलोहिताक्षाणि कक्षधरं चेति एतेनेतरो बाहुर्व्याख्यातः जत्रुण ऊर्ध्वं चतस्रो धमन्योऽष्टौ मातृका द्वे कृकाटिके द्वे विधुरे द्वए फणे द्वावपाङ्गौ द्वावावर्तौ द्वावुत्क्षेपौ द्वौ शङ्खावेका स्थपनी पञ्च सीमन्ताश्चत्वारि शृङ्गाटकान्येकोऽधिपतिरिति ६
तत्र तलहृदयेन्द्र बस्तिगुदस्तनरोहितानि मांसमर्माणि नीलधमनीमातृकाशृङ्गाटकापाङ्गस्थपनीफणस्तनमूलापलापापस्तम्भहृदयनाभिपारव-सन्धिबृहतीलोहिता क्षोर्व्यः सिरामर्माणि आणीइणिइविटपकक्षधरकूर्चकूर्चशिरोबस्तिक्षिप्रांसविधुरोत्क्षेपाः स्नायुमर्माणि कटीकतरुण नितम्बांसफलकशङ्खास्त्वस्थिमर्माण जानुकूर्परसीमन्ताधिपतिगुल्फमणिबन्धकुकुन्दरावर्तकृकाटिकाश्चेति सन्धिमर्माणि ७
तान्येतानि पञ्चविकल्पानि भवन्ति तद्यथासद्यःप्राणहराणि कालान्तरप्राणहराणि विशल्यघ्नानि वैकल्यकराणि रुजाकराणि चेति तत्र सद्यःप्राणहराण्येकोनविंशतिः कालान्तरप्राणहराणि त्रयस्त्रिंशत् त्रीणि विशल्यघ्नानि चतुश्चत्वारिंशद्वैकल्यकराणि अष्टौ रुजाकराणीति ८
भवन्ति चात्र
शृङ्गाटकान्यधिपतिः शङ्खौ कण्ठसिरा गुदम्
हृदयं बस्तिनाभी च घ्नन्ति सद्योहतानि तु ९
वक्षोमर्माणि सीमन्ततलक्षिप्रेन्द्र बस्तयः
कटीकतरुणे सन्धी पार्श्वजौ बृहती च या १०
नितम्बाविति चैतानि कालान्तरहराणि तु
उत्क्षेपौ स्थपनी चैव विशल्यघ्नानि निर्दिशेत् ११
लोहिताक्षाणि जानूर्वीकूर्चविटपकूर्पराः
कुकुन्दरे कक्षधरे विधुरे सकृकाटिके १२
अंसांसफलकापाङ्गा नीले मन्ये फणौ तथा
वैकल्यकरणान्याहुरावर्तौ द्वौ तथैव च १३
गुल्फौ द्वौ मणिबन्धौ द्वौ द्वे द्वे कूर्चशिरांसि च
रुजाकराणि जानीयादष्टावेतानि बुद्धिमान्
क्षिप्राणि विद्धमात्राणि घ्नन्ति कालान्तरेण च १४
मर्माणि मांससिरास्नाय्वस्थिसन्धिसन्निपाताः तेषु स्वभावत एव विशेषेणप्राणास्तिष्ठन्ति तस्मान्मर्मस्वभिहतास्तांस्तान् भावानापद्यन्ते १५
तत्र सद्यःप्राणहराण्याग्नेयानि अग्निगुणेष्वाशु क्षीणेषु क्षपयन्ति कालान्तरप्राणहराणि सौम्याग्नेयानि अग्निगुणेष्वाशु क्षीणेषु क्रमेण च सोमगुणेषु कालान्तरेण क्षपयन्ति विशल्यप्राणहराणि वायव्यानि शल्यमुखावरुद्धो यावदन्तर्वायुस्तिष्ठति तावज्जवीति उद्धृतमात्रे तु शल्ये मर्मस्थानाश्रितो वायुर्निष्क्रामति तस्मात् सशल्यो जीवत्युद्धृतशल्यो म्रियते पाकात्पतितशल्यो वा जीवति वैकल्यकराणि सौम्यानि सोमो हि स्थिरत्वाच्छत्याच्च प्राणावलम्बनं करोति रुजाकराण्यग्निवायुगुण भूयिष्ठानि विशेषतश्च तौ रुजाकरौ पाञ्चभौतिकीं च रुजामाहुरेके १६
केचिदाहुर्मांसादीनां पञ्चानामपि समस्तानां विवृद्धानां समवायात् सद्यः प्राणहराणि एकहीनानामल्पानां वा कालान्तरप्राणहराणि द्विहीनानां विशल्यप्राणहराणि त्रिहीनानां वैकल्यकराणि एकस्मिन्नेव रुजाकराणीति नैवं यतोस्थिमर्मस्वप्यभिहतेषु शोणितागमनं भवति १७
चतुर्विधा यास्तु सिराः शरीरे प्रायेण ता मर्मसु सन्निविष्टाः
स्नाय्वस्थिमांसानि तथैव सन्धीन् सन्तर्प्य देहं प्रतियापयन्ति १८
ततः क्षते मर्मणि ताः प्रवृद्धः समन्ततो वायुरभिस्तृणोति
विवर्धमानस्तु स मातरिश्वारुजः सुतीव्राः प्रतनोति काये १९
रुजाभिभूतं तु ततः शरीरं प्रलीयते नश्यति चास्य संज्ञा
अतो हि शल्यं विनिहर्तुमिच्छन्मर्माणि यत्नेन परीक्ष्य कर्षेत् २०
एतेन शेषं व्याख्यातम् २१
तत्र सद्यःप्राणहरमन्ते विद्धं कालान्तरेण मारयति कालान्तरप्राणहरमन्ते विद्धं वैकल्यमापादयति विशल्यघ्नं वैकल्यकरं च भवति वैकल्यकरं कालान्तरेणक्लेशयति रुजां च करोति रुजाकरमतीव्रवेदनं भवति २२
तत्र सद्यःप्राणहराणि सप्तरात्राभ्यन्तरान्मारयन्ति कालान्तरप्राणहराणि पक्षान्मासाद्वा तेष्वपि तु क्षिप्राणि कदाचिदाशु मारयन्ति विशल्यप्राणहराणि वैकल्यकराणि च कदाचिदत्यभिहतानि मारयन्ति २३
अत ऊर्ध्वं सक्थिमर्माणि व्याख्यास्यामःतत्र पादस्याङ्गुष्ठाङ्गुल्योर्मध्ये क्षिप्रं नाम मर्म तत्र विद्धस्याक्षेपकेण मरणं मध्यमाङ्गुलीमनुपूर्वेण मध्ये पादतलस्य तलहृदयं नाम तत्र रुजाभिर्मरणं क्षिप्रस्योपरिष्टादुभयतः कूर्चो नाम तत्र पादस्य भ्रमणवेपने भवतः गुल्फसन्धेरध उभयतः कूर्चशिरः तत्र रुजाशोफौ पादजङ्घयोः सन्धाने गुल्फः तत्र रुजः स्तब्धपादता खञ्जता वा पार्ष्णिं प्रति जङ्घामध्ये इन्द्र बस्तिः तत्र शोणितक्षयेण मरणं जङ्घोर्वोः सन्धाने जानु तत्र खञ्जता जानुन ऊर्ध्वमुभयतस्त्र् यङ्गुलमाणी तत्र शोफाभिवृद्धिः स्तब्धसक्थिता च ऊरुमध्ये उर्वी तत्र शोणित् क्षयात् सक्थिशोषःउर्व्या ऊर्ध्वमधो वङ्क्षणसंधेरूरुमूले लोहिताक्षं तत्र लोहितक्षयेण मरणं पक्षाघातो वा वङ्क्षणवृषणयोरन्तरे विटपं तत्र षाण्ढ्यमल्पशुक्रता वा भवति एवमेतान्येकादश सक्थिमर्माणि व्याख्यातानि एतेनेतरसक्थि बाहू च व्याख्यातौ विशेषतस्तु यानि सन्क्थि गुल्फजानुविटपानि तानि बाहौ मणिबन्धकूर्परकक्षधराणितथा वङ्क्षणवृषणयोरन्तरे विटपमेवं वक्षःकक्षयोर्मध्ये कक्षधरं तस्मिन् विद्धते एवोपद्र वाः विशेषतस्तु मणिबन्धे कुण्ठता कूर्पराख्ये कुणिः कक्षधरे पक्षाघातः एवमेतानि चतुश्चत्वारिंशच्छाखासु मर्माणि व्याख्यातानि २४
अत ऊर्ध्वमुदरोरसोर्मर्माण्यनुव्याख्यस्यामःतत्र वातवर्चोनिरसनं स्थूलान्त्रप्रतिबद्धं गुदं नाम मर्म तत्र सद्योमरणं अल्पमांसशोणितोऽभ्यन्तरतः कट्यां मूत्राशयो बस्तिः तत्रापि सद्योमरणमश्मरीव्रणादृते तत्राप्युभयतो भिन्ने न जीवति एकतो भिन्ने मूत्रस्रावी व्रणो भवति स तु यत्नेनोपक्रान्तो रोहति पक्वामाशययोर्मध्ये सिराप्रभवा नाभिः तत्रापि सद्यो मरणं स्तनयोर्मध्यमधिष्ठायोरस्यामाशयद्वारं सत्त्वरजस्तमसामधिष्ठानं हृदयं तत्रापि सद्य एव मरणंस्तनयोरधस्ताद् द्व्यङ्गुलमुभयतः स्तनमूले तत्र कफपूर्णकोष्ठतया कासश्वासाभ्यां म्रियते स्तनचूचुकयोरूर्ध्वं द्वयङ्गुलमुभयतः स्तनरोहितौ तत्र लोहितपूर्णकोष्ठतया कासश्वसाभ्यां च म्रियते अंसकूटयोरधस्तात्पार्श्वोपरिभागयोरपलापौ नाम तत्र रक्तेन पूयभावं गतेन मरणं उभयत्रोरसो नाड्यौ वातवहे अपस्तम्भौ नाम तत्र वातपूर्णकोष्ठतया कासश्वासाभ्यां च मरणम् एवमेतान्युदरोरसोर्द्वादश मर्माणि व्याख्यातानि २५
अत ऊर्ध्वं पृष्ठमर्माणि व्याख्यास्यामःतत्र पृष्ठवंशमुभयतः प्रतिश्रोणिकाण्डमस्थिनी कटीकतरुणे तत्र शोणितक्षयात् पाण्डुर्विवर्णो हीनरूपश्च म्रियतेपार्श्वयोर्जघनबहिर्भागे पृष्ठवंशमुभयतो कुकुन्दरे तत्र स्पर्शाज्ञानमधःकाये चेष्टोपघातश्च श्रोणीकाण्डयोरुपर्याशयाच्छादनौ पार्श्वान्तरप्रतिबद्धौ नितम्बौ तत्राधःकायशोषो दौर्बल्याच्च मरणंअधः पार्श्वान्तरप्रतिबद्धौ जघनपार्श्वमध्ययोस्तिर्यगूर्ध्वं च जघनात् पार्श्वसन्धी तत्र लोहितपूर्णकोष्ठतयाम्रियतेस्तनमूलादृजूभयतः पृष्ठवंशस्यबृहती तत्र शोणितातिप्रवृत्तिनिमित्तैरुपद्र वैर्म्रियते पृष्ठोपरि पृष्ठवंशमुभयतस्त्रिकसंबद्धे अंसफलके तत्र बाह्वोः स्वापशोषौबाहुमूर्धग्रीवामध्येंऽसपीठस्कन्धबन्धनावंसौ तत्र स्तब्धबाहुता एवमेतानि चतुर्दशपृष्ठमर्माणि व्याख्यातानि २६
अत ऊर्ध्वमूर्ध्वजत्रुगतानि व्याख्यास्यामःतत्र कण्ठनाडी मुभयतश्चतस्रोधमन्यो द्वे नीले द्वे च मन्ये व्यत्यासेन तत्र मूकता स्वरवैकृतमरसग्राहिता च ग्रीवायामुभयतश्चतस्रः सिरा मातृकाः तत्र सद्योमरणं शिरोग्रीवयोः सन्धाने कृकाटिके तत्र चलमूर्धता कर्णपृष्ठतोऽधसंश्रिते विधुरे तत्र बाधिर्यं घ्राणमार्गमुभयतः स्रोतोमार्गप्रतिबद्धे अभ्यन्तरतः फणे तत्र गन्धाज्ञानां भ्रूपुच्छान्तयोरधोऽक्ष्णो र्बाह्यतोऽपाङ्गौ तत्रान्ध्यं दृष्ट्युपघातो वा भ्रुवोरुपरि निम्नयोरावर्तौ नाम तत्राप्यान्ध्यं दृष्ट्युपघातो वा भ्रुवोरन्तयोरुपरि कर्णललाटयोर्मध्ये शङ्खौ तत्र सद्योमरणं शङ्खयोरुपरि केशान्त उत्क्षेपौ तत्र सशल्यो जीवेत् पाकात् पतितशल्यो वा नोद्धृतशल्यः भ्रुवोर्मध्ये स्थपनी तत्रोत्क्षेपवत् पञ्च सन्धयः शिरसि विभक्ताः सीमन्ता नाम तत्रोन्मादभयचित्तनाशैर्मरणंघ्राणश्रोत्राक्षिजिह्वसांतर्पणीनां सिराणां मध्ये सिरासन्निपातः शृङ्गाटकानि तानि चत्वारि मर्माणि तत्रापि सद्योमरणंमस्तकाभ्यन्तरोपरिष्ठात् सिरासन्धिसन्निपातो रोमावर्तोऽधिपतिः तत्रापि सद्य एव एवमेतानि सप्तत्रिंशदूर्ध्वजत्रुगतानि मर्माणि व्याख्यातानि २७
भवन्ति चात्र श्लोका
उर्व्यः शिरांसि विटपे च सकक्षपार्श्वे एकैकमङ्गुलमितं स्तनपूर्वमूलम् विद्ध्य्ङ्गुलद्वयमितं मणिबन्धगुल्फं त्रीण्येव जानुसपरं सह कूर्पराभ्याम् २८
हृद्बस्तिकूर्चगुदनाभि वदन्ति मूर्ध्नि चत्वारि पञ्च च गले दश यानि च द्वे
तानि स्वपाणितलकुञ्चितसंमितानि शेषाण्यवेहि परिविस्तरतोऽङ्गुलार्धम् २९
एतत्प्रमाणमभिवीक्ष्य वदन्ति तज्ज्ञाः शस्त्रेण कर्मकरणं परिहृत्य कार्यम्
पार्श्वाभिघातितमपीह निहन्ति मर्म तस्माद्धि मर्मसदनं परिवर्जनीयम् ३०
छिन्नेषु पाणिचरणेषु सिरा नराणां सङ्कोचमीयुरसृगल्पमतो निरेति
प्राप्यामितव्यसनमुग्रमतो मनुष्याः संच्छिन्नशाखतरुवन्निधनं न यान्ति ३१
क्षिप्रेषु तत्र सतलेषु हतेषु रक्तं गच्छत्यतीव पवनश्च रुजं करोति
एवं विनाशमुपयान्ति हि तत्र विद्धा वृक्षा इवायुधनिपातनिकृत्तमूलाः ३२
तस्मात्तयोरभिहतस्य तु पाणिपादं छेत्तव्यमाशु मणिबन्धनगुल्फदेशे
मर्माणि शल्यविषयार्धमुदाहरन्ति यस्माच्च मर्मसु हता न भवन्ति सद्यः ३३
जीवन्ति तत्र यदि वैद्यगुणेन केचित्ते प्राप्नुवन्ति विकलत्वमसंशयं हि
संभिन्नजर्जरितकोष्ठशिरःकपाला जीवन्ति शस्त्रनिहतैश्च शरीरदेशैः ३४
छिन्नैश्च सक्थिभुजपादकरैरशेषैर्येषां न मर्मसु कृता विविधाः प्रहाराः
सोममारुततेजांसि रजःसत्त्वतमांसि च
मर्मसु प्रायशः पुंसां भूतात्मा चावतिष्ठते ३५
मर्मस्वभिहतास्तस्मान्न जीवन्ति शरीरिणः
इन्द्रि यार्थेष्वसंप्राप्तिर्मनोबुद्धिविपर्ययः ३६
रुजश्च विविधास्तीव्रा भवन्त्याशुहरे हते
हते कालान्तरघ्ने तु ध्रुवं धातुक्षयो नृणाम् ३७
ततो धातुक्षयाज्जन्तुर्वेदनाभिश्च नश्यति
हते वैकल्यजनने केवलं वैद्यनैपुणात् ३८
शरीरं क्रियया युक्तं विकलत्वमवाप्नुयात्
विशल्यघ्ने तु विज्ञेयं पूर्वोक्तं यच्च कारणम् ३९
रुजाकराणि मर्माणि क्षतानि विविधा रुजः
कुर्वन्त्यन्ते च वैकल्यं कुवैद्यवशगो यदि ४०
छेदभेदाभिघातेभ्यो दहनाद्दारणादपि
उपघातं विजानीयान्मर्मणां तुल्यलक्षणम् ४१
मर्माभिघातस्तु न कश्चिदस्ति योऽल्पात्ययो वाऽपि निरत्ययो वा
प्रायेण मर्मस्वभिताडितास्तु वैकल्यमृच्छन्त्यथवा म्रियन्ते ४२
मर्माण्यधिष्ठाय हि ये विकारा मूर्च्छन्ति काये विविधा नराणाम्
प्रायेण ते कृच्छ्रतमा भवन्ति नरस्य यत्नैरपि साध्यमानाः ४३
इति सुश्रुतसंहितायां शारीरस्थाने प्रत्येकमर्मनिर्देशशारीरं नाम षष्ठोऽध्यायः ६