DOUBT

मेधावी च्छिन्नसंशयः न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते । त्यागी सत्त्वसमाविष्टो मेधावी च्छिन्नसंशयः ॥ Gita 18/10 ॥ न द्वेष्टि अकुशलम् अशोभनं काम्यं कर्म, शरीरारम्भद्वारेण संसारकारणम् , ‘किमनेन ? ’ इत्येवम्  कुशले शोभने नित्ये कर्मणि सत्त्वशुद्धिज्ञानोत्पत्तितन्निष्ठाहेतुत्वेन ‘मोक्षकारणम् इदम्’ इत्येवं न अनुषज्जते अनुषङ्गं प्रीतिं न करोति इत्येतत् । कः पुनः असौ ? त्यागी पूर्वोक्तेन सङ्गफलत्यागेन तद्वान् त्यागी, यः कर्मणि सङ्गं त्यक्त्वा तत्फलं च नित्यकर्मानुष्ठायी सः त्यागी । कदा पुनः असौ अकुशलं कर्म न द्वेष्टि, कुशले च न अनुषज्जते इति, उच्यते — सत्त्वसमाविष्टः यदा सत्त्वेन आत्मानात्मविवेकविज्ञानहेतुना समाविष्टः संव्याप्तः, संयुक्त इत्येतत् । अत एव च मेधावी मेधया आत्मज्ञानलक्षणया प्रज्ञया संयुक्तः तद्वान् मेधावी । मेधावित्वादेव च्छिन्नसंशयः छिन्नः अविद्याकृतः संशयः यस्य...