अथाधारणकर्मोदितशङ्खिनीभेदव्यवस्थाव्याख्या गुदमेढ्रान्तरे त्रिकोणत्रिधावर्तभगमण्डलमुच्यते तत्र आधारग्रन्थय एकद्वित्रयश्चेति एकद्वित्रयाणां मध्ये ग्रन्थीनामुपान्तरे चतुष्पत्रं पद्ममधोमुखं तिष्ठति तत्र कर्णिकामध्ये मृणालसूत्रपरिमाणा शङ्खावर्ता तत्र...
Saivism
वृत्तिः माया नाम शक्तिः शिवस्य शक्तिमतोऽव्यतिरेकिणी स्वरूपगोपनात्मिका क्रीडा, तन्निमित्तादेव यस्मादख्यातिमयमेतद्विश्वं भासते व्यतिरिक्तकारणस्य भेदाभेदविकल्पोपहतत्वेनाप्रसिद्धत्वात्, तस्माद्विश्वाभासानां निर्मातृत्वमीश्वरत्वम्