ऋषिः वाक् आम्भृणी , छन्दः १, ३-८ त्रिष्टुप्, २ जगती
ॐ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।
अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥ १॥
अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।
अहं दधामि द्रविणं हविष्मते सुप्राव्ये ए ३ यजमानाय सुन्वते ॥ २॥
अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।
तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्या वेशयन्तीम् ॥ ३॥
मया सोऽअन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम् ।
अमन्तवोमान्त उपक्षियन्ति श्रुधिश्रुत श्रद्धिवं ते वदामि ॥ ४॥
अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः ।
यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥ ५॥
अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवेहन्त वा उ ।
अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आविवेश ॥ ६॥
अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्व अन्तः समुद्रे ।
ततो वितिष्ठे भुवनानु विश्वो तामूं द्यां वर्ष्मणोपस्पृशामि ॥ ७॥
अहमेव वातऽइव प्रवाम्यारभमाणा भुवनानि विश्वा ।
परो दिवा परएना पृथिव्यै तावती महिना सम्बभूव ॥ ८॥
ॐ शान्तिः शान्तिः शान्तिः ॥
_________________________
ऋग्वेद १०-१२५
Niruktam
अहं-'Self'
द्रविणं - seen and unseen wealth
राष्ट्री - self contained Nation Rastra- Rastra
यं कामये - by my sovereign wish
योनि:- root/source