संकल्पो वाव मनसो भूयान्यदा वै संकल्पयतेऽथ
मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि
मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ ७.४.१॥
तानि ह वा एतानि संकल्पैकायनानि संकल्पात्मकानि
संकल्पे प्रतिष्ठितानि समकॢपतां द्यावापृथिवी
समकल्पेतां वायुश्चाकाशं च समकल्पन्तापश्च
तेजश्च तेषाम् सं कॢप्त्यै वर्षम् संकल्पते
वर्षस्य संकॢप्त्या अन्नम् संकल्पतेऽन्नस्य सं कॢप्त्यै
प्राणाः संकल्पन्ते प्राणानाम् सं कॢप्त्यै मन्त्राः संकल्पन्ते
मन्त्राणाम् सं कॢप्त्यै कर्माणि संकल्पन्ते कर्मणां
संकॢप्त्यै लोकः संकल्पते लोकस्य सं कॢप्त्यै सर्वम्
संकल्पते स एष संकल्पः संकल्पमुपास्स्वेति ॥ ७.४.२ ॥
स यः संकल्पं ब्रह्मेत्युपास्ते संकॢप्तान्वै स लोकान्ध्रुवान्ध्रुवः
प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति
यावत्संकल्पस्य गतं तत्रास्य यथाकामचारो भवति यः
संकल्पं ब्रह्मेत्युपास्तेऽस्ति भगवः संकल्पाद्भूय इति
संकल्पाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.४.३॥